भरतस्यात्मजः सुमतिर्नामाऽभिहितो यमु ह वाव
॥ अथ पञ्चदशोऽध्यायः ॥
श्रीशुक उवाच–
भरतस्यात्मजः सुमतिर्नामाऽभिहितो यमु ह वाव केचित्पाषण्डिनो विलोक्य ऋषभपदवीमनुवर्तमानमनार्या अवेदसमाम्नातां देवतां स्वमनीषया पापीयसीं कलौ कल्पयिष्यन्ति ॥ १ ॥
पदरत्नावली
राजसन्ततौ विशिष्टराजज्ञानं भगवन्माहात्म्यज्ञानोपयोगीत्यतस्तज्ज्ञानाय अवशिष्टवंश्याननुक्रामत्यस्मिन्नध्याये । यमु ह वावेति ॥ उहवावेति चतुर्भिर्निपातैरवैदिकमतस्य वैभाषिकादिचतुर्द्धा भेदः सूच्यते । अवेदो वेदविरुद्ध आगमस्तत्र प्रतिपादितां पद्मावतीत्यादि-नामवतीम् (‘ऋषभपदवीमवधूतमार्गमनुवर्तमानं यं सुमतिमवेदसमाम्नातां वेदविरुद्धबौद्धागम-प्रतिपादितां देवतां कल्पयिष्यन्ति बुद्धोऽयं साक्षादवतीर्ण इति ज्ञास्यन्ति । अत्र उहवावेति चतुर्भिर्निपातैर् माध्यमिकयोगाचारसौत्रान्तिकवैभाषिकसञ्ज्ञाभिरवैदिकबौद्धागमाश् चतुर्धा प्रसिद्धा इति सूच्यते ।’ इति कपाठः) ॥ १ ॥
प्रकाशिका
ऋषभपदवीमनुवर्तमानमवधूतमार्गानुवर्तिनं यं सुमतिमवेदसमाम्नातां वेद-विरुद्धबौद्धागमप्रतिपादितां कल्पयिष्यन्ति । बुद्धोऽयं साक्षादवतीर्ण इति मंस्यन्त इत्यर्थः ॥१॥
तस्माद्गृध्रसेनायां देवपादिर्नाम पुत्रोऽभवत् ॥ २ ॥
**अथासुर्यां तत्तनयो देवद्युम्नस्ततो धेनुमत्यां सुतः परमेष्ठी तस्य सुवर्चलायां प्रतीह उपजातः य आत्मविद्यायां स्वयमखिलायां संसिद्धो महापुरुषमनुसस्मार **
॥ ३ ॥
पदरत्नावली
तस्य देवपादेस्तनयः ॥ ३ ॥
प्रकाशिका
तत्तनयो देवपादितनयः ॥ ३ ॥
प्रतीहात्सुवर्चलायां प्रतिहर्तादयस्त्रय आसन् इज्याकोविदाः सूनवः प्रतिहर्तुः स्तुत्यां व्योमभूमानावजनिषाताम् ॥ ४ ॥
प्रकाशिका
प्रतिहर्त्तादयः प्रतिहर्त्ता प्रस्तोतोद्गातेति नामान इत्यर्थः ॥ अजनिषातां जातौ ॥ ४ ॥
व्योम्न ऋषिकुल्यायामुद्गीथस् ततः प्रस्तोता देवकुल्यायां प्रस्तोतुर्विरुरुत्सायां हृदयज आसीद्विभुर् विभोरत्यां च पृथुषेणस्तस्मान्नक्त आकूत्यां जज्ञे नक्ताद्रति-पुत्रो गयो राजर्षिप्रवर उदारश्रवा अजायत साक्षाद्भगवतो विष्णोर्जगदभिरक्षया गृहीतसत्वस्य कलात्मवत्ताभिलक्षणेन महापुरुषतां प्राप्तः ॥ ५ ॥
पदरत्नावली
हृदयज औरसपुत्रः । अभिरक्षया जगद्रक्षाकारणेन गृहीतसत्वगुणस्य (‘जगतो रिरक्षिषया रक्षितुमिच्छया गृहीतं सत्त्वं गुणो येन तस्य ।’ इति कपाठः) कलाया अंशस्य आत्मवत्ता मूर्त्तदेहवत्त्वेन प्रकाशमानं (‘विशेषावेश इति यावत्’ इति कपाठः) तस्याभिलक्षणेन विग्रहवत्कलांशेन करचरणादिषु चक्रचिन्हेन सर्वैर्गीयमानत्वाद्गयः(‘महापुरुषतां सर्वजनश्रेष्ठताम्’ इति कपाठः) ॥ ५ ॥
प्रकाशिका
हृदयज औरसपुत्रः । जगदभिरक्षया निमित्तभूतया । तदर्थमिति यावत् । गृहीतसत्त्वगुणस्य विष्णोः कलाया अंशस्यात्मवत्ता मूर्तिमत्ता । विशेषावेश इति यावत् । तस्याभिलक्षणेन करचरणादिषु चक्रादिचिन्हेन महापुरुषतां महापुरुषेषु प्रियव्रतादिषु गणनीय-ताम् । सोऽवनिमजुगुपद्वै इत्यन्वयः ॥ ५ ॥
स वै स्वधर्मेण प्रजापालनपोषणप्रीणनोपलालनानुशासनलक्षणेनेज्यादिना च भगवति महापुरुषे परब्रह्मणि सर्वात्मनाऽर्पितपरमार्थलक्षणेन ब्रह्मविच्चरणानु-सेवयाऽऽपादितभगवद्भक्तियोगेन चाभीक्ष्णशः परिभावितविशुद्धसत्व उपरता-नात्म्ये स्वात्मनि स्वयमुपलभ्यमानब्रह्मानुभावोऽपि निरभिमान एवावनिम-जुगुपत् ॥ ६ ॥
तात्पर्यम्
‘प्रियव्रतो गयश्चैव कर्मदेवसमो गुणैः’ इति षाड्गुण्ये ॥ ६ ॥
पदरत्नावली
स्वधर्मेणावनिम् अजुगुपद्वै इत्यन्वयः । स्वधर्मेणेत्येतत्स्पष्टयति– प्रजा-पालनेति ॥ सर्वात्मनेत्यादि च स्वधर्मेणेत्यस्य विशेषणम् । निर्व्याजेन सर्वसमर्पणाख्य– चिन्हेन । ब्रह्मविदां चरणनिरन्तरनिषेवया । भक्तिसाधनमेतत् । परिभावितं वशीकृतम् । अत एव विशुद्धं सत्वमन्तःकरणं यस्य स तथा । उपरतं निवृत्तमनात्म्यं देहधर्मो यस्मिंस्तथा तस्मिन्(‘परब्रह्मणि सर्वात्मना सर्वप्रकारेण काम्यफलाभिसन्धिराहित्येनेति यावत् । अर्पितमर्पणं तेन परमार्थ उत्तमपुरुषार्थो मोक्षस्तस्य लक्षणेन, ब्रह्मविदां ब्रह्मज्ञानिनां चरणानुसेवयोपासादितः सम्पादितो यो भगवद्भक्तियोगस्तेन चाभीक्ष्णशो निरन्तरं परिभाविता संस्कृता अतो विशुद्धा मतिर्यस्य स तथा । उपरतं निवृत्तमनात्म्यं विषयसम्बन्धेन जायमानविकारलक्षणं यस्मिं-स्तस्मिन्’ इति कपाठः) । स्वात्मनि स्वहृदये उपलभ्यमानो ऽपरोक्षीक्रियमाणो ब्रह्मानुभावो यस्य स तथा । अपीत्यनेन राज्यपालनं सम्भावितं न भवति तथापीत्यर्थं द्योतयति । निरभिमान इत्यनेनानुपपत्तिं परिहरति ॥ ६ ॥
प्रकाशिका
प्रजापालनादिलक्षणेनेज्यादिना च स्वधर्मेण परिभावितविशुद्धसत्त्व इत्यन्वयः । कथं भूतेन स्वधर्मेण । परब्रह्मणि सर्वात्मना सर्वप्रकारेणार्पितमर्पणं तेन परमार्थ उत्तमपुरुषार्थो मोक्षस्तस्य लक्षणेन लिङ्गतयाऽनुमापकेन परिभावितं वशीकृतं विशुद्धं सत्त्वमन्तःकरणं यस्य स तथा । उपरतं निवृत्तमनात्म्यं विषयसम्बन्धेन जायमानविकारलक्षणं यस्मिंस्तस्मिन्नात्मनि मनस्युपलभ्यमानोऽपरोक्षीक्रियमाणो ब्रह्मानुभावो ब्रह्मसामर्थ्यं यस्य स तथा । निरभिमान एवाहंममाभिमानशून्य एव ॥ ६ ॥
**तस्येमां गाथां पाण्डवेय पुराविद उपगायन्ति ॥ **
**गयं नृपं कः प्रतियाति कर्मभिर्यज्वाभिमानी बहुविद्धर्मगोप्ता ॥ **
सदागतश्रीः सदसस्पतिः सतां सत्सेवकोऽन्यो भगवत्कलामृते ॥ ७ ॥
पदरत्नावली
तस्येमां गाथामित्यनेन गीयमानत्वाद्गयेति शब्दार्थं सूचयति । पुराविदः पुराणज्ञा गाथां विषमाक्षरगुरुपादोपेतां तथोदाहरन्ति– गयमित्यादिना ॥ अन्यः कः कर्मभिर् गयं नृपं प्रतियाति प्रतिनिधिर्भवति । कीदृशः यज्वेत्यादिगुणकर्मवान् सतां सदसस्पतिः । कोऽपि वास्तीति नेत्याह– भगवत्कलामिति ॥ भगवतां ज्ञानभक्त्या भाग्यवतां कर्मदेवानां कलामङ्गमेकमन्तरेण । तदुक्तम्– ‘प्रियव्रतो गयश्चैव कर्मदेवसमो गुणैः’ इति (‘भगवत्कलां रामकृष्णादिरूपां भगवत्सन्निधानविशेषपात्रं ब्रह्मरुद्रादिकर्मदेवान्तदेवतागणं च ऋते अन्यः को मानुषादिस्तं गयं कर्मभिः प्रतियाति अनुकरोति ? न कोऽपीति यावत् । यथोक्तं षाड्गुण्ये ‘प्रियव्रतो गयश्चैव कर्मदेवसमो गुणैः’ इति । यज्वा यज्ञाद्यनुष्ठाता । अभिमानी अभितः सम्मानास्पदीभूतः । सतां सदसः सभायाः पतिः ।’ इति कपाठः)॥ ७ ॥
प्रकाशिका
तस्येमां गाथामित्यनेनैव गीयमानत्वाद्गाथेति निरुक्तिं सूचयति । पुराविदः पुराणज्ञाः । अन्यः कः कर्मभिर्गयं नृपं प्रतियाति तत्सदृशो भवति । न कोऽपीत्यर्थः । कीदृशो अन्य इत्यतस्तं विशिनष्टि ॥ यज्वेत्यादिना । अभिमान्यभितः सन्मानवान् । सदाऽगता श्रीर्यस्य सः । सतां सदसः सभायाः पतिः । नन्वेतादृशो रामकृष्णादिरेवास्तीत्यत उक्तम् ॥ भगवत्कलां साक्षादंशमृत इति । नन्वथाऽपीदं बाधितम् । गयसमानानां प्रियव्रतादीनां सत्वादित्यतोऽत्र भगवत्कलामित्येतदुपलक्षणमित्याशयेन प्रमाणं पठति ॥ प्रियव्रत इति । कर्मदेवसमावेवेत्यन्वयः । तथा च भगवत्कलां रामकृष्णादिरूपां ब्रह्मादीन्देवांश्च्यवनोचथ्यादि-कर्मदेवांस्तत्समं प्रियव्रतं च ऋतेऽन्यः कः प्रतियातीति मूलार्थ इति भावः ॥ ७ ॥
यमभ्यषिञ्चन्परया मुदा सतीः सत्याशिषो दक्षकन्याः सरिद्भिः ।
यस्य प्रजानां दुदुहे धराऽऽशिषो यथेप्सिता वै गुणवत्स्नुतोधाः१ ॥ ८ ॥
पदरत्नावली
सतीः सत्यः दक्षकन्याः कीर्तिः श्रीर्वाक्स्मृतिर्मेधा धृतिः क्षमेत्याद्याः स्वयं गुणवत्त्वेन स्नुतमोधो यस्याः सा तथा । सा धरा गयस्य राज्ञः सतीनां प्रजानां यथेप्सिता आशिषो दुदुहे । वा इत्यनेन सकलजगद्वशीकरणशक्तिसमुद्रश्रीपुरुषोत्तममन्त्रसिद्धो गय इति सूच्यते (‘सत्या यथार्था आशिषो यासां ताः सतीः सत्यः दक्षकन्याः कीर्तिः श्रीर्वाक्स्मृतिर्मेधा धृतिः क्षमा इत्याद्या यं गयं सरिद्भिर् गङ्गादिमहानद्युदकैरभ्यषिञ्चन् । स्वयं गुणवत्त्वेन स्नुतमोधो यस्याः सा धरा गयस्य प्रजानां यथेप्सिता आशिषः कामान् दुदुहे प्रपूरयामास तं गयं कः प्रतियातीति सर्वत्र यच्छब्दानां पूर्वेणान्वयः ।’ इति कपाठः) ॥ ८ ॥
प्रकाशिका
सतीः सत्यः । सत्या आशिषो यासां ता दक्षकन्याः । कान्तिः श्रीर्वाक् स्मृतिर्मेधा धृतिः क्षमेत्याद्या यस्य गयस्य राज्ञः सम्बन्धिभूतानां प्रजानां धरा यथेप्सिता आशिषो दुदुहे । वा इत्यनेनात्रागमादिप्रसिद्धिं दर्शयति । गुणवान् गयो वत्सस्थानीयस्तेन स्नुतमोधो यस्याः सा तथा । गुणवसत्स्नुतोधा इति पाठे गुण एव वत्सस्तेन स्नुतमोधो यस्या इति व्याख्येयम् ॥ ८ ॥
छन्दांस्यकामस्य च यस्य कामान् दुदूहुराजह्रुरथो बलिं नृपाः ।
प्रत्याहृता युधि धर्मे च विप्रा यस्याशिषः षष्ठमंशं प्रजाश्च ॥ ९ ॥
पदरत्नावली
वेदा अपि तदुक्तफलानिच्छत्वेऽपि सर्वाभीष्टान् दुदुहुरित्याह– छन्दांसीति ॥ नृपान् विशिनष्टि– प्रत्याहृता इति ॥ युद्धे पराजिता इत्यर्थः । विप्रा धर्मे प्रत्याहृता धर्माभिमुखीकृताः । प्रजाश्च यस्याशिषो धनलक्षणाः । षष्ठमंशमाजह्नुरित्यन्वयः । अनुष्ठितपुण्यलक्षणाशिषो वा (‘वेदा अपि तदुक्तफलेच्छाभावेऽपि सर्वाभीष्टान् दुदुहुरित्याह– छन्दांसीति ॥ दुदूहुर्दुदुहुः । अथो तथा युधि प्रत्याहृताः पराजिता नृपा यस्य बलिं धनकनकादिकमाजह्रुरर्पयामासुः । धर्मे प्रत्याहृता अभिमुखीकृता विप्राः प्रजाश्च आशिषां स्वार्जितसुकृतद्रव्यादीनां षष्ठमंशमाजह्रुः । ‘पुण्यषड्भागमादत्ते न्यायेन परिपालयन्’ इत्यादि-स्मृतेः ।’ इति कपाठः) ॥ ९ ॥
प्रकाशिका
वेदा अपि आपाततः प्रतीतकर्मफलानिच्छुत्वेऽपि तस्य कामान्दुदुहुरि-त्याह ॥ छन्दांसीति । अथोऽन्यच्च तस्य माहात्म्यं कथ्यत इत्यर्थः । कथंभूता नृपाः । युधि धर्मे च प्रत्याहृता अमुखीकृता विप्रा आशिषः प्रजाश्च स्वसम्पादितद्रव्यादेः षष्ठमंशमाजह्रुरि-त्यन्वयः ॥ ९ ॥
यस्याध्वरे भगवानध्वरात्मा मघोनि माद्यत्युरुसोमपीथे ।
श्रद्धा विशुद्धा चलभक्तियोगसमर्पितेज्या फलमाजहार ॥ १० ॥
पदरत्नावली
उरुसोमपीथे बहुसोमपाने अध्वरस्य सारमादत्ते कर्तृभ्यः फलं ददाति चेत्यध्वरात्मा मघोनि देवेन्द्रे माद्यति मदं गच्छति सति श्रद्धया विशुद्धो योऽचलो भक्तियोगस् तेन समर्पितमिज्याफलं यागादिपूजालक्षणकर्मफलम् आजहार ददौ (‘उरुसोमपीथे बहुसोमपाने यस्याध्वरे मघोनि देवेन्द्रे । इदमुपलक्षणम् । ब्रह्मादिके प्राणिजाते माद्यति मदं प्राप्नुवति सति अध्वरस्य यज्ञस्य सारमादत्ते इत्यध्वरात्मा यज्ञभोक्ता भगवान् हरिः श्रद्धया विशुद्धो योऽचलो भक्तियोगस्तेन समर्पितमिज्याफलं पुण्यरूपमाजहार स्वीकृतवान् । सुप्रीतोऽभूदिति यावत् ।’ इति कपाठः) ॥ १० ॥
प्रकाशिका
उरुसोमपीथे बहुसोमपानवति अध्वरमाप्नोतीत्यध्वर आत्मा यज्ञभोक्ता भगवान्हरिर्मघोनि देवेन्द्रे । इदमुपलक्षणम् । ब्रह्मादिके प्राणिजाते यज्ञभागेनान्नादिना च माद्यति मदं प्राप्नुवति सति श्रद्धया विशुद्धो योऽचलो भक्तियोगस्तेन समर्पितमिज्याफलं पुण्यरूपमाजहार स्वीकृतवान् । प्रीतोऽभूदिति यावत् ॥ १० ॥
यत्प्रीणनाद्बर्हिषि देवतिर्यङ्मनुष्यवीरुत्तृणमाविरिञ्चात् ।
प्रीयेत सद्यः स हि विश्व एष प्रीतः स्वयं प्रीतिमगाद्गयस्य ॥ ११ ॥
पदरत्नावली
यस्य हरेः प्रीणनाज्जगत्प्रीयेत प्रीतं स्यात् । स्वयं स्वतः प्रीतः (‘बर्हिषि यज्ञे यस्य हरेः प्रीणनाद् आविरिञ्ज्याद् विरिञ्चिमभिव्याप्य देवादितृणान्तं जगत् सद्यः प्रीयेत प्रीतिमियात् स विश्वजीवः सर्वान्तर्यामी गयस्य स्वयं स्वभावतः प्रीत एव पुनर्यज्ञादिना विशेषतः प्रीतिमगादित्यर्थः । गयस्य विश्वविस्मयकरसद्गुणबृम्हितत्वद्योतनार्थं हेति निपातः ।’ इति कपाठः)॥ ११ ॥
प्रकाशिका
ननु कथं ब्रह्मादिके माद्यति भगवान्प्रीतोऽभूदित्यत उक्तं विशदयति ॥ यत्प्रीणनादिति । विरिञ्चमारभ्य देवादितृणान्तं यत्प्राणिजातं तस्य बर्हिषि यज्ञे प्रीणनात् सः भगवान् सद्यः प्रीयेत । कुतो हि यस्मादेषो विश्वस्तत्र प्रविष्टस्ततश्चाधिष्ठानतया पूजितेषु ब्रह्मादिप्रतीकेषु तदन्तर्गतो हरिः प्रीतो भवतीत्युक्तं भवति । यद्वा । ननु ब्रह्मादिषु सत्सु किं हरिप्रीत्येत्यपेक्षायां ब्रह्मादिप्रीत्या यत्फलं तद्धरिप्रीणनादेव भवतीत्याशयेनाहुः ॥ यत्प्रीण-नादिति । यस्य हरेः प्रीणनादित्यर्थः । देवादितृणान्तं जगत् प्रीयेत तत्प्रीत्या यत्फलं तल्लभ्यते तत्कुत इत्यत आह । हि यस्मात्स एषो विश्वः पूर्णगुण इति । तथा च सर्वगुणपूर्णतया हरेरेव सर्वपुरुषार्थप्रदत्वात्तत्प्रीणनेनैवेतरप्रीतिसाध्यं फलं लभ्यत इत्युक्तं भवति । ननु गयस्य हरिः किमिदानीमेव प्रीतोऽभून्नेत्याह ॥ प्रीतः स्वयमिति । अयं स्वभावतः प्रीत एव पुनर्यज्ञादिना विशेषतः प्रीतिमगादित्यर्थः ॥ ११ ॥
गयाज्जयन्त्यां चित्ररथः स्वस्तिरवरोधन इति त्रयः पुत्रा बभूवुश्चित्ररथा-दूर्जायां सम्राडजनिष्ट ॥ १२ ॥
तत उत्कलायां मरीचिर्मरीचेर्बिन्दुमत्यां बिन्दुमानुदपद्यत । तस्मात्सुषेणायां मधुर्नामाभवत् । मधोः सुमनस्यां वीरव्रतस्ततो व्रजायां मन्युप्रमन्यू जज्ञाते । मन्योः सत्यायां भुवनस्ततो दोषायां त्वष्टा अजनिष्ट त्वष्टुर्विरजोर्विरोचनायां विरजस्य शतजित्प्रवरं पुत्रशतं कन्या च विषूच्यां किल जाता ॥ १३ ॥
॥ इति श्रीमद्भागवतमहापुराणे पञ्चमस्कन्धे पञ्चदशोऽध्यायः ॥
पदरत्नावली
शतजिन्नामपुत्रः प्रवरो ज्येष्ठो यस्मात्तच्छतजित्प्रवरम् (‘शतजिन्नामा पुत्रः प्रवरो ज्येष्ठो यस्मिन् तादृशं पुत्रशतं जातमेका कन्या च जातेत्यन्वयः ।’ इति कपाठः)
॥ १३ ॥
प्रकाशिका
शतजिन्नामा पुत्रः प्रवरो यस्मिंस्तच्छतजित्प्रवरम् ॥ १३ ॥
तत्रायं श्लोकः–
प्रैयव्रतं वंशमिमं विरजश्चरमोद्भवः ॥
अकरोदत्यलं कीर्त्या विष्णुः सुरगणं यथा ॥ १४ ॥
पदरत्नावली
अत्यलमतीवालमकरोत् (‘कीर्त्या पुण्ययशसा अति अतिशयेन अलमकरोद् भूषितवान् ।’ इति कपाठः)॥ १४ ॥
॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुकृतायां
पञ्चमस्कन्धे पञ्चदशोऽध्यायः ॥
प्रकाशिका
शतजिन्नामा पुत्रः प्रवरो यस्मिंस्तच्छतजित्प्रवरम् ॥ अतिशयेन कीर्त्याऽलमकरोद्भूषितवान् ॥ १४ ॥
**॥ इति श्रीमद्वेदेशपूज्यपादशिष्येण यदुपतिना विरचितायां **
श्रीमद्भागतटिप्पण्यां प्रकाशिकायां पञ्चदशोऽध्यायः ॥ ५-१५ ॥