यो ह वा इह बहुविदा महाभागवत त्वयाऽभिहितः
॥ अथ चतुर्दशोऽध्यायः ॥
राजोवाच–
यो ह वा इह बहुविदा महाभागवत त्वयाऽभिहितः पारोक्ष्येण वचसा जीवलोकस्य भवाध्वा स ह्यार्यमनीषया कल्पितविषयो नांजसाऽव्युत्पन्नलोक-समधिगतः । अथ तदेव दुरवगमं समवेतानुकूल्येन निर्दिश्यताम् ॥ १ ॥
पदरत्नावली
अत्र पूर्वाध्यायोक्तमेव प्रश्नपूर्वकं कथयति– यो ह वा इत्यादिना ॥ बहुपूर्णतायामिति हरेः पूर्णतां वेत्तीति बहुवित्तेन सार्वज्ञ्यं चेदमेव पारोक्ष्येण परोक्षविषयेण व्यङ्ग्यभङ्ग्या जीवलोकस्य जीवराशेर् भवाध्वा संसारमार्ग आर्यमनीषया पण्डितबुद्ध्या कल्पितविषयः निर्णीतार्थो ऽव्युत्पन्नेन शब्दव्यङ्ग्यार्थपरिज्ञानशून्येन लोकेन जनेन मुख्यतः सधिगतो न भवतीति नाञ्जसा व्युत्पन्नलोकसमधिगतः । ‘परोक्षप्रिया इव हि देवाः प्रत्यक्षद्विष’ इति श्रुत्यर्थं हवा इत्यनेनाह । एतदेवाह– अथेति ॥ अथ तस्मात्समवेतानुकूल्येन उक्तशब्दार्थ वाच्यवाचकरूपेण समवेतं यथा ज्ञातुं योग्यं तथानुकूल्येन पुनः कथनेनेति वा (‘भूरिदुःख-भरोदर्कसंसारविषयकविरक्त्यतिशयजननद्वारा मुकुन्दभक्त्यतिशयजननाय पारोक्ष्येण पूर्वाध्यायोप-दिष्टभवाटवीमेव प्रतिपादयत्यस्मिन्नध्याये । हे महाभागवत बहुविदा सर्वज्ञेन त्वया पारोक्ष्येण परोक्षविषयेण वचसा यो जीवलोकस्य भवाध्वा संसारमार्गोऽभिहितः स हि आर्याणां ज्ञानि-वर्याणां मनीषया बुद्ध्या कल्पितविषयो निर्णीतार्थः । तस्मादव्युत्पन्नस्य शब्दव्यङ्ग्य-विशिष्टार्थावगमासमर्थस्य लोकस्य अञ्जसा साक्षाद् व्याख्यानं विना सम्यगधिगम्यो न भवति । परोक्षेणैव ‘परोक्षप्रिया इव हि देवाः प्रत्यक्षद्विषः’ इत्यादिश्रुतिवाक्यानि हवा इत्यनेन सूचयति । अथ तस्मात् । समवेतानुकूल्येन समुचितार्थज्ञानोपयुक्तत्वेन निर्दिश्यतां निरूप्य-ताम् ।’ इति कपाठः) ॥ १ ॥
प्रकाशिका
पूर्वाध्यायोक्तं स्पष्टतया वाच्यमिति राजा प्रार्थयते ॥ यो ह वा इति । पारोक्ष्येण वणिगध्वकथनव्याजेन । बहुविदा सर्वज्ञेन । आर्यमनीषया कल्पितविषयः पण्डित-बुद्ध्या निर्णीतार्थः । अथ तस्मात् । अनेन दृष्टान्तेन युक्तं यद्दार्ष्टान्तिकं तदानुकूल्येन तज्ज्ञानोपयुक्तत्वेन ॥ १ ॥
सूत उवाच–
स होवाच य एष देहात्ममानिनां सत्वादिगुणविशेषविकल्पितकुशलाकुशल समवहारविनिर्मितविविधदेहावलिभिर्वियोगसंयोगाद्यनादिसंसारानुभवस्य द्वारभूतेन षडिन्द्रियवर्गेण तस्मिन् दुर्गाध्ववदसुगमेऽध्वन्यापतित ईश्वरस्य भगवतो विष्णो-र्वशवर्तिन्या मायया जीवलोकोऽयं यथा वणिक् सार्थोऽर्थपरः स्वदेहनिष्पादित-कर्मानुभवन् स्मशानवदशिवतमायां संसाराटव्यां गतो नाद्यापि विफलबहुयोग-सहस्रहृत्तापोपशमनीं हरिगुरुचरणारविन्दमधुकरानुपदवीमवरुंधे ॥ २ ॥
पदरत्नावली
एवं परीक्षिता पृष्टः श्रीशुकमुनिः किमुवाचेति शौनकप्रश्नं हृदि कृत्वा उवाच– सूत इति ॥ सूतः किमुवाचेति तत्राह– स होवाचेति ॥ स श्रीशुकः राजप्रश्न-परिहाराय यदुवाच अहमपि त्वत्प्रश्नपरिहारार्थं वच्मीत्येतमर्थं हेत्यननेन सूचयति । दुरत्ययेऽ-ध्वनीत्यस्याभिप्रायं कथयति– य इति ॥ य एष प्रसिद्धो जीवोऽसुगमे दुर्गमेऽध्वन्यापतित इत्यन्वयः । अजयेत्यस्य विवरणम्– माययेति ॥ कस्येयमित्याशङ्कानिवृत्तये– ईश्वरस्येति ॥ आच्छाद्य विक्षिपति स्फुरदात्मतत्त्वमित्यद्वैतमतनिरासायोक्तम्– वशवर्तिन्येति ॥ माया कथङ्कारं पातयतीत्यत्रोपपत्तिं दर्शयति– देहेति ॥ देहात्ममानिनां देह एवात्मेति मन्यमानानां सम्बन्धिभिः सत्वादिगुणविशेषैर्विकल्पितानि विभक्तानि यानि कुशलाकुशलमिश्राणि कर्माणि तैर्निर्मिताभिर्विविधाभिर्देहावलिभिरुपलक्षितस्तासां संयोगादिलक्षणोऽनादिसंसारो यस्तदनुभवस्य द्वारभूतेन श्रोत्रादिषडिन्द्रियवर्गेण द्वारेण माययाऽध्वन्या पतित इत्यर्थः । समवहारो मिश्रं स्वदेहनिष्पादितकर्मेत्यनेन रजस्तमःसत्वेति व्याख्यातम् । न शर्म विन्दतीत्यस्यार्थमाह– नाद्यापीति ॥ हरिगुरुचरणारविन्दयोर्मधुकर इव निरन्तरसेवका ये तेषामनुपदवीमनुगमन-योग्यमार्गं सेवालक्षणं नाद्याप्यवरुन्ध इत्यन्वयः । विफलाश्च बहवश्च योगा उद्योगा ये तन्निमित्ततः सहस्रशो हृत्तापास्तेषामुपशमनीं नाशकरीम् (‘दुरत्ययेऽध्वन्यजया निवेशितः’ इत्युक्तं प्रपञ्चयति– य एष इति ॥ यथा य एष प्रसिद्धो वणिजां सार्थः समूहो ऽर्थपरो द्रव्यार्जनतत्परोऽसुगमे कण्टकादिभिर्दुर्गमेऽध्वनि आपतितो निवेशितोऽटवीं याति तथाऽयं जीवलोको विष्णोर्वशवर्तिन्या मायया प्रकृत्या असुगमे दुर्गमेऽध्वनि प्रवृत्तिमार्गे आपतितः संसाराटव्यां गतोऽध्यापि तत्तापोपशमनीं तस्यां संसाराटव्यां ये आध्यात्मिकाधिभौतिकाधि-दैविकलक्षणास्तापास्तेषामुपशमनीं हरिगुरुचरणारविन्देषु मधुकरा इव निरन्तरसेवका ये तेषामनुपदवीमनुगमनयोग्यमार्गं सेवालक्षणं नावरुन्धे न प्राप्नोति । माया कथङ्कारं पातय-तीत्यत्रोपपत्तिं दर्शयति– देहेति ॥ देहात्ममानिनां देहे ममाहमित्यभिमानवतां सत्वादिगुण-विशेषैर्विकल्पितानि सात्विकादितया विभक्तानि कुशलानि सत्वेन पुण्यानि अकुशलानि तमसा पापानि तेषां समाहारभूतानि रजसा मिश्राणीति यानि त्रिविधकर्माणि तैर्विनिर्मिताभिर्विविधाभि-र्देहावलीभिर्वियोगसंयोगादिलक्षणो योऽनादिसंसारस्तदनुभवस्य द्वारभूतेन षडिन्द्रियवर्गेण श्रोत्रादि-पञ्चकेन मनसा च । स्वदेहनिष्पादितानां कर्मणां दुःखादिफलद्वारेणानुभवो यस्य स तथा । विफलाश्च बहुप्रतियोगा बहुविध्नाश्च ईहाश् चेष्टा यस्य स तथा ।’ इति कपाठः) ॥ २ ॥
प्रकाशिका
सूत उवाचेति वचनं परीक्षिच्छुकसंवादः शौनकसूतसंवादान्तर्गत इति स्मरणाय स शुक उवाचेति । सूतवचनं राज्ञा पृष्टस्योत्तरतया पूर्वोक्तविवरणरूपमुवाचेत्यर्थः । दुरत्ययेऽध्वनीत्येतत्प्रपञ्चयति ॥ य एष इति । य एष इत्यस्यार्थो य एष जीवलोकोऽय-मिति । अजयेत्यस्यार्थः माययेति । तस्याः स्वातन्त्र्यशङ्कापरिहाराय विष्णोर्वशवर्तिन्येति । अजयाऽध्वनि निवेशितो भवाटवीं यातीति पुनः पुनः कर्मकरणरूपाध्वपतनस्य भवाटवी-प्राप्तिसाधनत्वमुक्तम् । तद्भवाटवीस्वरूपं दर्शयन्विशदयति ॥ देहात्ममानिनामित्यादिना । देहे ममाहमित्यभिमानवतामित्यर्थः । अनेन परिभ्रमन्नित्येतदुक्ततात्पर्यम् । रजस्तमःसत्त्व-विभक्तकर्मदृगित्यस्य तात्पर्यमाह ॥ सत्त्वादीति । सत्त्वादिगुणविशेषैः कल्पितानि सात्विकादितया विभक्तानि कुशलान्यकुशलानि समवहाराणि मिश्राणि च कर्माणि तैर्विर्निर्मिता विविधदेहावलयस्ताभिर्वियोगसंयोगादिके सति योऽनादिसंसारो दुःखादिपरंपरा तदनुभवस्य कारणभूतेन षडिन्द्रियवर्गेण श्रोत्रादिपञ्चकेन मनसा चेत्यर्थः । तस्मिन्पुनः कर्मकरणरूपेऽ-ध्वन्यापतित इत्यन्वयः ।
दुरत्यय इत्यस्यार्थः दुर्गाध्ववदसुगम इति । तथा चाजया देहादावहंममाभिमानस्तेन सात्विकादिकर्मकरणं तेनोत्तरपूर्वदेहसंयोगवियोगप्राप्तौ षडिन्द्रियवर्गेण दुःखाद्यनुभवरूपभवाटवी-प्राप्तिस्तत्र च पुनरुक्तरीत्या षडिन्द्रियवर्गेण पुनः कर्मकरणरूपाध्वनि पात इति विशदनं ज्ञातव्यम् । सार्थ इत्यनूद्य वणिगिति व्याख्यातम् । अर्थपर इत्यनूद्य दार्ष्टान्तिके तस्य विवक्षितार्थमाह ॥ स्वदेहेति । कर्मपदं तत्साध्यफलोपलक्षकम् । तथा च स्वकृतफलभूत-धर्माद्यर्थकामरूपप्रयोजनपर इत्यर्थपर इत्यस्य व्याख्यानं सूचितमिति ज्ञातव्यम् । अटवी द्विविधा । एका दुःखप्रदा यथा कंटकाद्यधिष्ठिता । सुखप्रदा चापरा यथा नन्दनादिका । कात्रोपमानतया विवक्षितेति शङ्कापरिहाराय भवाटवीं यातीत्यस्य तात्पर्यमाह ॥ स्मशान-वदिति । स्मशानवदशिवतमायां संसाराटव्यां गत इति । अशिवतमायामित्यनेन दुःखप्रदतां दर्शयति । न शर्म विन्दतीत्यस्य तात्पर्यमाह ॥ नाद्यापीति । हरिगुरुचरणारविन्दयो-र्मधुकरायिता ये साधवः । तेषामनुपदवीमनुगमनमार्गः । सेवेति यावत् । तां नाद्याप्यवरुन्धे न प्राप्नोति । कथंभूताम् । विफलबहवो योगा उपायास्तेषां सहस्रं येषां ते । विफलबहुयोग-सहस्रास्ते च ते हृत्तापाश्च तेषां शमनीमात्यन्तिकदुःखोपशमनरूपमोक्षसाधनीभूतां साधुसेवां नाद्यापि करोतीत्यर्थः । अनेन शर्मपदं मुक्तिसाधनीभूतसाधुसेवोपलक्षकमिति ज्ञातव्यम् ॥ २ ॥
यस्यामु ह वा एते षडिन्द्रियनामानः कर्मणा दस्यव इव तद्यथा पुरुषस्य धनं किञ्चित्साक्षाद्धर्मोपयिकं बहुकृच्छ्राधिगतं यत्परमपुरुषाराधनलक्षणं सांपरायिकमुदाहरन्ति ॥ तद्धर्म्यं धनं दर्शनस्पर्शनश्रवणास्वादनावघ्राण-सङ्कल्प-समवायेन गृहे ग्राम्योपभोगेन कुनाथस्याजितात्मनो विलुंपन्ति ॥ ३ ॥
पदरत्नावली
यस्यामिमे षडित्यस्यार्थं दर्शयति– यस्यामु हवेति । कुनाथस्य तद्धर्म्यं धर्मसाधनं विलुम्पन्तीत्यन्वयः । धर्मौपयिकं धर्मसाधनयोग्यं साम्परायिकं मोक्षोपयोगि एतदेवाह– यत्परमेति ॥ कथं विलुम्पन्ति– दर्शनेति ॥ सङ्कल्पो मनोरथः । दर्शनादीनां समवायेन नित्यसम्बन्धेन गृहे ग्राम्योपभोगो यस्तेन (‘यस्यामिमे षडित्युक्तं विवृणोति– यस्यामु हवेति ॥ यस्यां भवाटव्याम् । तदिन्द्रियाणां दस्युत्वं यथाऽस्ति तदेवं विद्धीति यावत् । कुनाथस्य कुत्सितपालकस्य अजितात्मनो ऽविजितमनसः पुरुषस्य बहुकृच्छ्रेणाधिगतं प्राप्तं यत्किञ्चिदपि धनं साक्षाद्धर्मौपयिकं निवृत्तधर्मोपयुक्तं, यच्च धनं परमपुरुष आराध्यते अनेनेति परमपुरुषाराधनं तदेव लक्षणं यस्य तत् तथा, पुरुषोत्तमप्रसादजनकत्वरूपलक्षणोपेतमित्यर्थः । साम्परायिकं मोक्षोपयोगीति उदाहरन्ति ज्ञानिनः प्रतिपादयन्ति तद् धर्म्यं धर्मसम्पादितं धनं षडिन्द्रियाख्यदस्यवो गृहे गृहिण्या दर्शनस्पर्शनश्रवणास्वादनावघ्राणसङ्कल्पानां समवायः समूहो यस्मिंस्तेन ग्राम्योपभोगेन विलुम्पन्ति। सङ्कल्पो मनोरथः ।’ इति कपाठः)॥ ३ ॥
प्रकाशिका
यस्यामिमे षडित्युक्तस्य दार्ष्टान्तिके विवक्षितमर्थं दर्शयति ॥ यस्यामिति । भवाटव्यामित्यर्थः । उ ह वेति निपातसमुदायः प्रसिद्ध्यर्थः । कर्मणा व्यापारेण दस्यवश्चोरा इव । दस्युव्यापारतुल्यव्यापारवत्तामिन्द्रियाणां दर्शयति ॥ तद्यथेति । तन्निदर्शनं यथा तथा प्रकृत उच्यत इत्यर्थः । पुरुषस्याधिकारिणो धनं धनस्थानीयं साक्षाद्धर्मोपयिकं साक्षाद्धर्मो मुख्यधर्मो मोक्षसाधनपरमापूर्वरूपस्तस्य निमित्तं बहुकृच्छ्राधिगतम् । पूर्वजन्मन्यस्मिन्वा जन्मनीति शेषः । परमपुरुष आराध्यतेऽनेनेति परमपुरुषाराधनं तदेव लक्षणं यस्य तत्तथा । परमपुरुषप्रसादजनकत्व-रूपलक्षणोपेतमित्यर्थः । सांपरायकं मोक्षकारणम् । तद्धर्म्यं धर्मादनपेतं धर्म्यम् । अवान्तरा-पूर्वसहितमिति यावत् । विलुंपन्ति । कुनायक इति द्वितीया षष्ठ्यर्थ इत्यभिप्रेत्य कुनाथस्ये-त्युक्तम् । कुत्सितो नाथो वणिक्पक्षे पालको दार्ष्टान्तिके गुरुर्यस्येत्यर्थः । अत एवाजितात्मनोऽ-विजितमनसः । कथं विलुंपन्तीत्यपेक्षायां तद्व्यापारप्रदर्शनायोक्तम् । गृहे ग्राम्योपभोगेनेति । गृहे विद्यमाना ये ग्राम्या ऐहिकसुखमात्रजनका विषयास्तेषामुपभोगरूपव्यापारेणेत्यर्थः । तमेवोपभोगं विशदयति ॥ दर्शनेत्यादिना । दर्शनाद्याः पञ्च चक्षुरादिबाह्येन्द्रियाणां वृत्तयः सङ्कल्पोऽन्तः-करणस्य । एतेषां समवायेन मेलनेन तद्रूपेणेत्यर्थः। अनेन बलादित्येतत्स्वसाध्यव्यापारबलादिति व्याख्यातमिति ज्ञातव्यम् ॥ ३ ॥
अथ च यत्र कौटुंबिकस्य दारापत्यादयो नाम्ना कर्मणा वृकसृगाला इवा-निच्छतोऽपि कदर्यस्य कुटुंबिन उरणकवत्संरक्ष्यमाणं मिषतोऽपहरन्ति
॥ ४ ॥
पदरत्नावली
गोमायवो यत्रेत्यस्यार्थमाह– अथेति (‘गोमायवो यत्र हरन्तीत्यस्यार्थ-माह– अथ चेति ॥ नाम्नैव दारापत्यादयः । कदर्यस्य अतिलुब्धस्य । संरक्ष्यमाणं, धनमिति शेषः । मिषतः पश्यतः सतः । उरणकवन् मेषवत् ।’ इति कपाठः) ॥ ४ ॥
प्रकाशिका
गोमायवो यत्रेत्यस्य प्रकृते विवक्षितमर्थमाह ॥ अथ चेति । अथ चेति निपातसमुदायः प्रकारान्तरेण दुःखदत्वनिरूपणसमुच्चायकः । यत्र भवाटव्याम् । नाम्ना नाम्नैव दारापत्यादयः कर्मणा व्यापारेण । हरणस्य दुःखसाधनत्वप्रदर्शनायानिच्छतोऽपीत्युक्तम् । संरक्ष्यमाणम् । धनमिति शेषः । मिषतः पश्यतः सतः ॥ ४ ॥
यथा ह्यनुवत्सरं कृष्यमाणमप्यदग्धबीजक्षेत्रं पुनरावपनकाले गुल्मतृणवी-रुद्भिर्गह्वरमेव भवति ॥ ५ ॥
पदरत्नावली
प्रभूतवीरुत्तृणेत्यस्यार्थमाह– यथा ह्यनुवत्सरमिति ॥ आवपनकाले बीजप्रक्षेपसमये (प्रभूतवीरुत्तृणेत्यस्यार्थमाह– यथाहीति ॥ अनुवत्सरं प्रतिवर्षम् । न दग्धानि बीजानि यस्मिंस्तथाभूतम् । आवपनकाले बीजप्रक्षेपसमये । इति कपाठः) ॥ ५-६ ॥
प्रकाशिका
प्रभूतवीरुत्तृणेत्यस्याभिप्रायमाह ॥ यथा हीति । आवपनकाले बीजप्रक्षेपकाले गह्वरमेव गन्तुमशक्यमेव भवतीत्यत्र हेतुगर्भविशेषणम् । न दग्धानि बीजानि यस्मिंस्तददग्धबीजमिति ॥ ५ ॥
एवमेव गृहाश्रमः कर्मक्षेत्रं यस्मिन्न हि कर्माण्युत्सीदन्ति ॥ ६ ॥
प्रकाशिका
न हि उत्सीदन्ति । तृणादिवत्पुनः पुनर्भवन्तीत्यर्थः ॥ ६ ॥
यदपक्वकामकरण्ड एष आवसथस्तत्र रतो दंशमशकसमापसदैर्मनुजैः शलभ-शकुन्ततस्करमूषकादिभिरुपरुध्यमानबहिःप्राणः क्वचित्परिवर्तमानोऽस्मिन्नध्वन्य-विद्याकामकर्मभिरुपरक्तमनसाऽनुपपन्नार्थं नरलोकं गन्धर्वनगरमुपपन्नमिति मिथ्यादृष्टिरनुपश्यति ॥ ७ ॥
पदरत्नावली
य एष आवसथोऽपक्वानां कामानां करण्डः । करिदन्तनिर्मितपात्रविशेषः । तत्रावसथे क्वचिच्च गन्धर्वपुरमित्यस्यार्थमाह– क्वचित्परिवर्तमान इति (‘यद् यस्मादेष आवसथ आश्रयो गृहाश्रम उपक्वानामदग्धानां कामानामैहिकामुष्मिकफलरागाणां करण्डः पात्रविशेषः । कठोरदंशैर्मशकैरुपद्रुत इत्यादि व्याचष्टे– तत्रेति ॥ उपरुद्ध्यमानः प्रपीड्यमानो बहिःप्राणो हिरण्यादिसम्पद् यस्य स तथा । उपपन्नम् अनश्वरमिति ।’ इति कपाठः) ॥ ७ ॥
प्रकाशिका
कुत इत्यतोऽत्राप्यदग्धबीजस्थानीयमाह ॥ यदिति । अपक्वोऽदग्धः काम ऐहिकामुष्मिकफलरागस्तस्य करण्ड इव । करण्डः पात्रविशेषरूपः । एष आवसथो गृहाश्रमः । तथा चात्रापि कर्ममूलफलरागानामदग्धत्वात्पुनः पुनः कर्माणि भवन्तीत्याशयः । एवमाद्य-पादार्थमुक्त्वा द्वितीयपादार्थमाह ॥ तत्रेति । तत्रावसथे दंशमशकसमैरपसदैर्नीचमनुजैः शलभादिभिश्चोपरुद्ध्यमानः पीड्यमानो बहिः प्राणो वित्तं यस्य स तथा । क्कचिच्च गन्धर्व-पुरमित्यस्यार्थमाह– क्वचित्परिवर्तमान इति ॥ मिथ्यादृष्टौ कारणीभूतदोषप्रदर्शनायाविद्यादिक-मुक्तम् । मनसाऽनुपश्यतीत्यन्वयः । मिथ्यादृष्टित्वमुपपादयति ॥ अनुपपन्नार्थमिति । अत्रो-पपन्नशब्दः स्थिरतया घटमानपरस्तथा चोपपन्नः स्थिरतया घटमानोऽर्थः पदार्थो न भवतीत्यनुपपन्नार्थस्तमित्यर्थः । नरलोकं मनुष्यदेहादिकमत एव गन्धर्वनगरं तत्तुल्यमुपपन्नं स्थिरतया घटमानमिति प्रकारेण मिथ्यादृष्टिरित्यर्थः ॥ ७ ॥
क्वचिच्चाशेषदोषनिषदनं पुरुषविशेषमुपेत्य तद्वर्णगुणनिहितमतिः सुवर्णमुपादित्सत्यग्निकामकातर इवोल्मुकपिशाचम् ॥ ८ ॥
पदरत्नावली
क्वचित्क्वचिच्चासुहरोल्मुकग्रहमित्यस्यार्थमाह– क्वचिच्चेति ॥ अशेषदोषाणां निषदनं स्थानं(‘स्थानमिति पिशाचसाम्योपपादनायोक्तम्’ इति कपाठः) पुरुषविशेषं देहलक्षणं पुरुषाकारविशिष्टस्य तस्य देहस्य वर्णगुणः कान्तिगुणस्तेन उल्मुकपिशाचमुपादित्सति सुवर्णमिव पुरुषविशेष उल्मुकपिशाचमुपादित्सतीति वा । अग्निकामवत्कातरो ऽशेषदोषाणां पात्रीभूतं पुरुषविशेषाकारम् उल्मुकपिशाचमग्निवज्जाज्वल्यमानं दृष्ट्वान्तिकमुपागम्य सुवर्णबुत्ध्योपादातु-मिच्छति । शीतार्त्तोऽग्निमिव द्रष्टुं दुःसहं शीतं स्यात्तदैवमुक्तिरिति भावः । पुरुषविशेषस्त्रियाख्यं प्राप्य भोगार्थं सुवर्णं स्वीकरोति । अग्निसेवाकाम उल्मुकपिशाचमिवेति वा ॥ ८ ॥
प्रकाशिका
क्वचित्क्वचिच्चासुहरोल्मुकग्रहमित्यस्यार्थमाह ॥ क्वचिच्चाशेषेति । अशेष-दोषाणां निषदनं स्थानमिति पिशाचसाम्योपपादनायोक्तम् । तस्य वर्णः कान्तिर् गुणा ऐश्वर्या-दयस्तैर्निहिता मतिरयं पापीति बुद्धिर्यस्य । सुवर्णं द्रव्यं यथा अग्निकामकातरो वह्नीच्छया कातरः कश्चिच्छीतभीत उल्मुकवर्णं पिशाचमुपेत्य तद्वर्णलक्षणेन विहितमतिः सन् सुवर्णं शोभनवर्णं वन्हिमुपादित्सति तथैवेत्यर्थः ॥ ८ ॥
अथ कदाचिद् गृहपानीयद्रविणाद्यनेकात्मोपजीवनाभिनिवेश एतस्यां संसाराटव्यामितस्ततः परिधावति ॥ ९ ॥
पदरत्नावली
निवासतोयादित्यस्यार्थमाह– अथेति ॥ गृहाद्यनेकस्वरूपेष्वेकमन्तरेणापि जीवनं नास्तीति दुराग्रहवान् ॥ ९ ॥
प्रकाशिका
निवासतो येत्यादेरर्थमाह ॥ अथ कदाचिद्गृहपानीयेति । गृहेति निवासशब्दार्थकथनं तोयशब्दार्थकथनं– पानीयेति । आत्मनः स्वस्योपजीवनेषु उपजीव्येषु अभिनिवेश अहं ममाभिमानो यस्य सस् तथा ॥ ९ ॥
क्वचिच्च वात्योपमया प्रमदयाऽऽरोहमारोपितस्तत्कालरजसा रजनीभूतं कुजन इवसाधुमर्यादां रजस्वलाक्षो दिग्देवतादिरजस्वलमतिर्न विजानाति ॥ १० ॥
पदरत्नावली
क्वचिच्च वात्योत्थितेत्यस्यार्थमाह– क्वचिच्च वात्येति ॥ आरोहमङ्कम् । तत्कालरजसा विषयसेवासमयरागेण (‘विषयभोगकालोत्थरागेण’ इति कपाठः) ॥ १० ॥
प्रकाशिका
क्वचिच्च वात्योत्थित इत्त्यस्यार्थमाह– क्वचिच्च वात्येति । भ्रामकत्वा-द्वात्योपमा । आरोहमंकमारोपित इत्यनेन दृष्टान्ते सार्थोऽपि वात्यया किञ्चिदूर्ध्वनीत इत्यभि-प्रेतमिति सूचयति । तत्कालरजसा तद्भोगकालोत्थरागेण रजनीभूत इवांधकारव्याप्तप्रदेशे विद्यमान इव । अनेन धूम्रा इत्येतदुक्तताप्तर्यम् । साधुमर्यादादिकं न विजानातीत्यर्थः । साधुमर्यादां दिग्देवतादीत्यनेन दिश इत्येतदुपलक्षणं सूचयति । रजस्वलाक्ष इत्यनूद्य रजस्वला रजोगुणव्याप्ता मतिर्बुद्धिर्यस्येति व्याख्यातम् । तथा च दार्ष्टान्तिकेऽक्षशब्दो बुद्धिपर इति भावः
॥ १० ॥
क्वचिदुलूकखिल्ली१स्वनवदतिपरुषरभसाटोपं प्रत्यक्षं परोक्षं वा रिपुराजकुल-निर्भर्त्सितेनातिव्यथितकर्णमूलहृदयः ॥ ११ ॥
पदरत्नावली
अदृश्यझिल्लीत्यस्यार्थमाह– क्वचिदुलूकेति ॥ आटोपः सम्भ्रमः (‘उलूकझिल्लीस्वनवदतिपरुषो दुस्सहः रभस उत्साहस्तेनाटोपोऽभिनिवेशो यथा भवति तथा ।’ इति कपाठः)॥ ११ ॥
प्रकाशिका
अदृश्यखिल्लीत्यस्यार्थमाह ॥ क्वचिदुलूकेति । अतिपरुषोऽतिक्रूरो रभस उत्साहस्तेनाटोपोऽभिनिवेशो यथा भवति तथा रिपूणां राजकुलस्य च निर्भर्त्सितेनातिव्यथितं कर्णमूलं हृदयं च यस्य । अत्र प्रत्यक्षमुलूकस्वनवत्तत्तुल्येन भर्त्सितेन व्यथितं हृदयं यस्य परोक्षं खिल्लीस्वनवत्तत्तुल्येन भर्त्सितेन व्यथितं कर्णमूलं यस्येति विवेको द्रष्टव्यः ॥ ११ ॥
स यदा दग्धपूर्वसुकृतस्तदा कारस्करकाकतुण्डाद्यपुण्यद्रुमलताविषोदपानवदु-भयार्थशून्यद्रविणान् जीवन्मृतान् स्वयं जीवन्म्रियमाण उपधावति ॥ १२ ॥
पदरत्नावली
अपुण्यवृक्षानित्यस्यार्थमाह– स यदेति (‘क्षुधार्दित इत्यस्य तात्पर्यमाह– स्वयं जीवान् म्रियमाण इति ॥’ इति कपाठः) ॥ १२ ॥
प्रकाशिका
अपुण्यवृक्षां श्रयत इत्यस्यार्थमाह ॥ स यदेति । दग्धमुपभुक्तं पूर्वसुकृतं येन निर्भाग्य इत्यर्थः । कारस्करप्रमुखा ये पुण्यद्रुमास्तथाविधा लताश्च विषोदपाना विषकूपाश्च तद्वदुभयार्थशून्यद्रविणान् दृष्टादृष्टप्रयोजनेन शून्यधनवतोऽत एव जीवन्मृतान् । क्षुधार्दित इत्यस्य तात्पर्यं स्वयं जीवन्म्रियमाण इति ॥ १२ ॥
क्वचित्सकृदवगतविषयवैतथ्यः स्वयं विषयाभिध्यानेन विभ्रंशितस्मृतिरत एव मरीचितोयप्रायांस्तानेवाभिधावति ॥ १३ ॥
पदरत्नावली
मरीचितोयान्यभिधावतीत्यस्यार्थमाह– क्वचित् सकृदिति (‘सकृदवगतं विषयाणां वैतथ्यं वैफल्यं येन स तथा ।’ इति कपाठः) ॥ १३ ॥
प्रकाशिका
मरीचितोयानभिधावतीत्यस्याभिप्रायमाह ॥ क्वचित्सकृदिति । महतां सङ्गत्या सकृदवगतं विषयवैतथ्यं सर्वदाऽविद्यमानत्वं येन स तथा । स्वयं स्वयमेव । महत्सङ्गतिशून्य इति यावत् । पुनर्विषयाभिध्यानेन विषयाणां स्थिरत्वादिध्यानेन विभ्रंशिता विनाशिता स्मृतिर्विषयवैतथ्यस्मृतिर्यस्य मरीचितोयप्रायान् मरीचोदकवत्सर्वदाऽविद्यमानान् तानेव विषयानुद्दिश्याभिधावति । क्वचिच्च गन्धर्वपुरमित्यनेनेदं गतार्थमिति प्रदर्शनाय सकृदवगत-विषयवैतथ्य इत्युक्तम् । तत्र तु सर्वथा ज्ञानशून्य एव विवक्षितोऽत एवाविद्याकामकर्मभिरिति तत्रोक्तम् ॥ १३ ॥
एकदा त्वसत्प्रसङ्गान्निकृतमतिर्व्युदस्रोतश्चलनवदुभयतोऽपि दुःखदं पाषण्ड-मभियाति ॥ १४ ॥
पदरत्नावली
क्वचिद्वितोयाः सरित इत्येतद्विवृणोति– एकदेति ॥ उभयत इह परत्रापि व्युदस्त्रोतसश्चलनवन् मृगतृष्णिकाजलप्रवाहवत् (‘निकृता वञ्चिता मतिर्यस्य स तथा’ इति कपाठः) ॥ १४ ॥
प्रकाशिका
क्वच्चिद्वितोया इत्यस्याभिप्रायमाह ॥ एकदेति । असत्प्रसङ्गादसतां सङ्गत्या निकृता वञ्चिता मतिर्यस्य सः व्युदस्रोतश्चलनवदुदकशून्यनदीमुद्दिश्य गमनवत् । उभयत इह परत्र च ॥ १४ ॥
**यदा तु परबाधयाऽन्नमात्मनो नोपनमति तदा हि पितृपुत्रान् बालान् खलु भक्षयति ॥ १५ ॥ **
पदरत्नावली
परस्परं खादयत इत्येतत्प्रतिवक्ति– यदात्विति ॥ भक्षयति पीडयति (‘परस्परं चालषते निरन्ध इत्येतद् विशदयति– यदा त्विति ॥ अन्धो ऽन्नम् । नोपनमति नोपतिष्ठति । भक्षयति पीडयति, अन्नार्थमिति शेषः ।’ इति कपाठः) ॥ १५ ॥
प्रकाशिका
परस्परं खादयत इत्यस्याभिप्रायमाह– यदा त्विति ॥ परबाधया परपीडयाऽन्नं नोपनमति नोपतिष्ठति । अनेन निरन्न इत्यस्याभिप्राय उक्त इति ज्ञातव्यम् । पितृपुत्रान्स्वकीयानेवेत्यर्थः । पिता पुत्रं पुत्रः पितरमिति यावत् । अनेन परस्परमित्ये-तदुक्तमभिप्रायम् । भक्षयति पीडयति । अन्नार्थमिति शेषः ॥ १५ ॥
क्वचिदासाद्य गृहं दाववत्प्रियार्थविधुरमसुखोदर्कं शोकाग्निना दह्यमानो भृशं निर्वेदमुपगच्छति ॥ १६ ॥
पदरत्नावली
आसाद्य दावमित्यस्यार्थमाह– क्वचिदासाद्येति (‘निर्वेदं विषादम्’ इति कपाठे अधिकांशो वर्तते) ॥ १६ ॥
प्रकाशिका
आसाद्य दावमित्यस्यार्थमाह ॥ क्वचिदासाद्येति । निर्वेदं विषादम् ॥१६॥
क्वचित्कालविषमितराजकुलयक्षापहृतप्रियतमधनासुर्मृतक इव विगतजीव-लक्षण आस्ते ॥ १७ ॥
पदरत्नावली
क्वचित्कालेत्यादिना क्वच यक्षैरिति विवृतम् । परैर्हृतस्व इत्येतदप्यनेन व्याख्यातम् ॥ १७ ॥
प्रकाशिका
क्व च यक्षैर्हृतासुरित्यस्यार्थमाह ॥ क्वचित्कालविषमितेति । कालेन कलिकालादिबलेन विषमितं प्रतिकूलतां प्राप्तं यद्राजकुलं तदेव यक्षस्तेनापहृतः प्रियतमधन-रूपोऽसुर्यस्य धनेऽसुसाम्यं प्रियतमत्वेनेति दर्शनाय प्रियतमेत्युक्तम् । विगतानि जीवलक्षणानि चेष्टादीनि यस्य । अत्रापहारकर्तृभेदाद्दंशमशकसमापसदैरित्यनेन न पौनरुक्त्यम् । परैर्हृतस्व इत्येतदप्यनेनैव व्याख्यातम् ॥ १७ ॥
कदाचिन्मनोरथावगतपितृपितामहाद्यसत्सदिति स्वप्ननिर्वृतिमनुभवति ॥ १८ ॥
पदरत्नावली
क्वचिच्च गन्धर्वपुरमित्येतद्व्याख्याति– कदाचिन्मनोरथेत्यादिना (‘असदाशुविनाशि क्लेशदमपि सन् नित्यं सुखदमिति ।’ इति कपाठः) ॥ १८ ॥
प्रकाशिका
क्वचिच्च गन्धर्वपुरमित्येतद्व्याख्याति ॥ कदाचिन्मनोरथेति । मनोरथा मनसि विद्यमाना वासनास्तैरवगतं प्राप्तं ज्ञानं यत्पित्रादि बहिष्ठतयाऽसत्तत्सद् बहिष्ठमिति जानन्निति शेषः । स्वप्नावस्थायां निर्वृतिमनुभवतीत्यर्थः ॥ १८ ॥
क्वचिद्गृहाश्रमचोदितकर्मातिभारगिरीनारुरुक्षमाणो लौकिकव्यसनकर्षितमनाः कण्टकशर्कराक्षेत्रं प्रविशन्निव सीदति ॥ १९ ॥
पदरत्नावली
क्वचिद्गृहाश्रमेत्यादिना चलन् क्वचिदित्येतद्विव्रियते । गृहाश्रमचोदित-कर्माण्येवातिभारागिरयस्तानारुरुक्षन् ॥ १९ ॥
प्रकाशिका
चलन् क्वचिदित्यस्यार्थमाह । क्वचिद्द्गृहाश्रमे । कर्माण्येव स्थूलतयाऽतिभारा गिरयस्तानारुरुक्षमाण आरोढुमिच्छन्निति यावत् ॥ १९ ॥
क्वचिद्दुःसहेन कायाभ्यन्तरवह्निना गृहीतसारः स्वकुटुंबाय क्रुध्यति ॥ २० ॥
पदरत्नावली
पदे पदेऽभ्यन्तरवह्निनेत्येतद्व्याख्यातम्– क्वचिच्च दुःसहेनेत्यादिना ॥ गृहीतसारः गतधैर्यः ॥ २० ॥
प्रकाशिका
पदे पदेऽभ्यन्तर्वन्हिनेत्येतद्व्याख्याति ॥ क्वचिद्दुःसहेनेति । गृहीतसारोऽपहृतबलः ॥ २० ॥
स एव पुनर्निद्राऽजगरगृहीतोऽन्धे तमसि मग्नः शून्यारण्य इव शेते नान्यत्किञ्चन वेद शव इवापविद्धः ॥ क्वचिद्भग्नमना दष्टो दुर्जनदन्दशूकैरलब्ध-निद्राक्षणो व्यथितहृदयेन क्षीयमाणविज्ञानोऽन्धकूपेऽन्धवत्पतति ॥ २१ ॥
पदरत्नावली
क्वचिन्निगीर्ण इत्येतद्व्याचष्टे– स एवेत्यादिना । दष्टः स्मेत्येतद्व्या-ख्याति– क्वचिद्भग्नमना इत्यादिना ॥ निद्राक्षणः निद्रालक्षणावसरः (‘अलब्धो निद्रायाः क्षणोऽवसरो येन स तथा ।’ इति कपाठः) ॥ २१ ॥
प्रकाशिका
क्वचिन्निगीर्ण इत्येतद्व्याचष्टे ॥ स एवेत्यादिना । निद्रालक्षणेनाजगरेण गृहीतो ग्रस्तोऽन्धे तमसि मग्न इवान्यत्स्वात्मकालाविद्याव्यतिरिक्तं बाह्यं किञ्चन न वेद । शून्यारण्येऽपविद्धस्त्यक्तः शव इव शेत इत्यन्वयः । शेत इत्यनेनोत्तरार्धस्थं शेत इति पदमत्रा-न्वितमिति सूचयति । दष्टः स्म शेत इत्येतद्व्याख्याति ॥ कदाचिदिति । दुर्जनलक्षणैर्दंदशूकै-र्दष्टोऽधिक्षिप्तो भग्नमनास्तेषु विगतस्वकीयत्वबुद्धिः । अत एवालब्धो निद्राक्षणो निद्रावसरो येन । अन्ध इत्यस्यार्थः क्षीयमाणविज्ञान इति । क्षीयमाणविवेक इत्यर्थः । व्यथितहृदयेनेत्यनेन तमिस्र इत्येतद्दुःखसमूह इति व्याख्यातमिति ज्ञातव्यम् । अन्धवदित्यनेनांधपदं लुप्तोपमतया प्रसिद्धान्धपरमित्यपि सूचयति ॥ २१ ॥
कर्हिस्मचित्कामसुखलवान्वि१चिन्वन्यदा परदारपरद्रव्याण्यवरुंधानो राज्ञा स्वामिभिर्निहतः पतत्यपारे निरये ॥ २२ ॥
पदरत्नावली
कर्हिस्मचिदित्यस्यार्थं दर्शयति– कर्हिस्मचित् कामेत्यादिना ॥ काममधुलवानिति पाठे काम्यन्त इति कामा विषयास्त एव मधुलवा मकरन्दलेशास्तानित्यर्थः (‘अवरुन्धान आहरन्’ इति कपाठे अधिकांशः) ॥ २२ ॥
प्रकाशिका
कर्हि स्म चित् क्षुद्ररसानित्येतस्यार्थमाह । कर्हि स्म चिदिति । काममधुलवानिति पाठे काम्यन्त इति कामा विषयास्त एव मधुलवा मकरन्दलेशास्तानित्यर्थः । विचिन्वन्नन्वेषयन् अवरुंधानोऽपहरन्यदा निहतो भवति । तदा निरये पततीत्यर्थः । अनेन विमान इत्येतदुक्तार्थम् । एवमेव गृहाश्रमः कर्मक्षेत्रमिति काम्यस्य कर्मणः संसारहेतुत्वमुक्तम् । कर्हि स्म चिदित्यनेन च निषिद्धस्य ॥ २२ ॥
अथ च तस्मादुभयथापि कर्मास्मिन्नात्मनः संसारावपनमुदाहरन्ति ॥ २३ ॥
पदरत्नावली
तत्रापि कृच्छ्रादित्यस्याभिप्रायमाह– अथ चेति (‘प्रवृत्तकर्मनिरतस्य संसारावृत्तिं वक्ति– अथ चेति ॥ उभयथाऽपि विहितत्वेन निषिद्धत्वेन च विद्यमानं कर्मास्मिन् प्रवृत्तिमार्गे ।’ इति कपाठः) ॥ २३ ॥
प्रकाशिका
तदुभयमुपसंहरन् तत्र स्मशब्दसूचितां प्रमाणप्रसिद्धिं दर्शयति ॥ अथ चेति । अथास्मदव्यवधानेनोक्तात्तस्माच्चैवमेव गृहाश्रम इत्युक्ताच्च हेतोरस्मिन् भारते वर्षे । उभयथापि विहितत्वेन निषिद्धत्वेन च विद्यमानं कर्म संसारावपनं संसारकारणमुदाहरन्ति ज्ञानिन इति शेषः । अथ च तस्याशुभप्रक्षालनं कर्म संसारावपनमुदाहरन्ति इति पाठमेव । तत्र नन्वत्र कृतस्य पापस्य प्रायश्चित्तेन नाशे कथं निरये पात इत्यवतार्याशुभप्रक्षालनं प्रायश्चित्तरूपमपि कर्म संसारावपनमुदाहरन्ति । सर्वारंभा हि दोषेण धूमेनाग्निरिवावृता इति वचनेन तत्रापि दोष-सम्भवादित्याशय इति व्याख्येयम् ॥ २३ ॥
यदि च मुक्तस्ततो वधाद्देवदत्त उपाच्छिनत्ति तस्मादपि विष्णुमित्र इत्यनवस्थितिः ॥ २४ ॥
प्रकाशिका
तत्रापि कृच्छ्रादित्यस्यार्थमाह ॥ यदि चेति । वधाद्यदि मुक्तः । नाहं परद्रव्यापहर्ता मदीयमेव तद्द्रव्यमित्यादिवचनैः प्रभून्वंचयित्वा यदि द्रव्यं पुनः प्राप्तवानिति शेषः । तर्हि ततस्तद्द्रव्यं देवदत्तस्ततोऽपि प्रबल उपाच्छिनत्ति बलाद्गृण्हाति विष्णुमित्रो देवदत्तादपि प्रबलोऽनवस्थितिस्तस्य द्रव्यस्यैकत्र भोज्यतयाऽवस्थितिर्नेत्यर्थः । बन्धाद्विमुक्त इति पाठे प्रभुभिः कृताद्बन्धादित्यर्थः ॥ २४ ॥
क्वचिच्च शीतातपवातवर्षाद्यनेकाधिदैविकभौतिकात्मीयानां दुःखानां वारणायाकल्पो दुरन्तचिन्तया विषण्ण आस्ते ॥ २५ ॥
पदरत्नावली
क्वचिच्च शीतातपेत्येतद्विवृणोति– क्वचिच्च शीतातपेत्यादिना (‘आत्मीयानामाध्यात्मिकानाम्’ इति कपाठः) ॥ २५ ॥
प्रकाशिका
क्वचिच्च शीतातपेत्येतद्व्याख्याति ॥ क्वचिच्च शीतेति । वर्षाद्यनेकेत्यादिना शीतातपवातवर्षेत्युक्तमुपलक्षणमिति दर्शयति । आत्मीयानामाध्यात्मिकानामित्यर्थः । अकल्पोऽ- समर्थः। वस्त्राद्यभावादिति भावः ॥ २५ ॥
क्वचिन्मिथोऽभ्येत्य विपणिकः काकणिकामात्रमप्यपहरति किञ्चिद्धि विद्वेष-मुपयाति वित्तशाठ्येन ॥ २६ ॥
पदरत्नावली
क्वचिन्मिथो विपणमित्येतद्विवृणोति– क्वचिन्मिथ इत्यादिना ॥ विपणिकः वणिक् ॥ २६ ॥
प्रकाशिका
क्वचिन्मिथो विपणन्नित्येतद्विवृणोति ॥ क्वचिन्मिथ इति । विपणिको वणिक् वित्तशाठ्येन वित्तवंचनेन श्वो दास्यामीत्यादिरूपेण काकणिकामात्रमल्पमात्रमपि यत्किञ्चिद्वाऽधिकं वा धनधान्यादिकमपहरति गृण्हाति । तर्हि विद्द्वेषं तद्वेषविषयतामुपयातीत्यर्थः
॥ २६ ॥
क्वचिच्च क्षीणधनः शय्यासनाद्युपभोगहीनो यावदप्रतिलब्धमनोरथः परस्वा-दाने व्यवसितमतिस्ततोऽवमानादीनि लभते ॥ २७ ॥
पदरत्नावली
क्वचित्क्वचित् क्षीणधन इत्यस्यार्थमाह– क्वचिच्चेत्यादिना ॥ २७ ॥
प्रकाशिका
क्वचित्क्षीणधन इत्यस्यार्थमाह ॥ क्वचिच्च क्षीणधन इति ॥ २७ ॥
एवं वित्तव्यतिषङ्गविवृद्धवैरानुबन्धोऽपि पूर्ववासनया मिथ उद्वहतां स एवोद्वहति ॥ २८ ॥
पदरत्नावली
अन्योन्यवित्तेत्यस्यार्थमाह– एवं वित्तेति (‘अन्योन्यवित्तव्यतिषङ्गेत्यादि व्याकरोति– एवं वित्तेति ॥ पूर्ववासनया प्रारब्धवशात् ।’ इति कपाठः) ॥ २८ ॥
प्रकाशिका
एवमपि तस्य तत्र न वैराग्यमित्याह ॥ एवमिति । वित्तव्यतिषङ्गो विनिमयस्तदर्थमभिवृद्धो वैरो विद्वेषस्तस्यानुबन्धो निमित्तभूतं वित्तशाठ्यं यस्य स तथा । एवंविधोऽपि मिथ उद्वहतां व्यवहारं कुर्वतां मध्ये स एव यो वित्तशाठ्येन विद्वेषविषयः स एवोद्वहति । पुनर्धान्यादिग्रहणरूपव्यवहारं करोतीत्यर्थः ॥ २८ ॥
यत आरब्ध एष नरलोकसार्थस्तमध्वनः पारमुपदिशन्ति ॥ २९ ॥
पदरत्नावली
यत आरब्धो नरलोकसार्थस्तमीश्वरमध्वनः पारमुपदिशन्ति विद्वांसः (‘यत एष नरलोकसार्थः, आरब्धः प्रवृत्तो यं चाध्वनः संसारमार्गस्य पारं ज्ञानिवरा उपदिशन्ति तमीश्वरमद्यापि नैवावर्तते नैवाप्नोति ।’ इति कपाठः) ॥ २९ ॥
**यदिदं योगानुशासनमेतदेव शन्तमं ते उपशमशीला उपरतात्मान उपतिष्ठन्ति **
॥ ३० ॥
पदरत्नावली
के तं गच्छन्तीति तत्राह– यदिदमिति ॥ योगमनुशास्तीति योगानु-शासनम् । एतद्ब्रह्म शन्तमं सुखतमम् उपशमशीलामुनय उपतिष्ठन्ति प्राप्नुवन्तीत्यन्वयः (‘यन्न्यस्यदण्ड इत्येतद् व्याकुरुते– यदिदमिति ॥ युज्यते मनोऽस्मिन्निति योगस्तमनुशास्तीति योगानुशासनं भगवत्पदप्राप्त्युपायप्रतिपादकयोगशास्त्रमिदं यद् यस्मिन् विषये प्रवृत्तमेतद् ब्रह्म शन्तमं सुखतमम् । उपतिष्ठन्ति प्राप्नुवन्ति ।’ इति कपाठः) ॥ ३० ॥
क्वापि देवमायया स्त्रिया भुजलतोपगूढः प्रस्कन्नविवेकज्ञानस्तद्विहारगृहारंभान् कुर्वंस्तदाश्रयोऽसक्तः सुतदुहितृकलभाषितावलोकविचेष्टितापहृतहृदय आत्मान-मजितात्माऽपारेऽन्धेतमसि प्राहिणोति ॥ ३१ ॥
पदरत्नावली
प्रसज्जतीत्यस्यार्थमाह– क्वापि देवमाययेति ॥ प्रस्कन्नविवेकविज्ञानः नष्टविवेकविज्ञानः(‘प्रसज्जति क्वापीत्येतद् विवृणोति– क्वचिद् देवमाययेति ॥ देवस्य हरेर्मायया बन्धकशक्त्या । प्रस्कन्नं विनष्टं कार्याकार्यविवेकविज्ञानं यस्य स तथा ।’ इति कपाठः) । तस्याः स्त्रिया विहारार्थं गृहारम्भान् गृहोपक्रमान् । सुतादीनां कलभाषितैरवलोकै-र्विचेष्टितैश्चापहृतं हृदयं यस्य स तथा । आत्मानमन्धेतमसि प्रहिणोति गमयति । ‘हि गतौ’ इति धातुः ॥ ३१ ॥
प्रकाशिका
प्रसज्जतीत्यस्यार्थमाह ॥ क्वापि देवमाययेति । देवस्य हरेर्मायया बन्धकशक्त्याऽधिष्ठानभूतया प्रस्कन्नेत्यादिकं प्रसज्जतीत्यस्य व्याख्यानम् । प्रस्कन्नं विनष्टं विवेकज्ञानं यस्य स तथा । तस्याः स्त्रियो विहारार्थं गृहोपक्रमान् । द्विजस्य यदव्यक्तपदं तदाश्रय इत्यस्याभिप्रायमाह ॥ सुतदुहितृकलभाषितेति । सुतादीनां कलभाषितैरवलोकैर्विचेष्टि-तैश्चापहृतं हृदयं यस्य स तथा । द्विजशब्देन सूचितार्थप्रदर्शनम् ॥ सुतदुहित्रिति । कलभाषितमित्यनेनाव्यक्तपदमित्येतद्विवृतम् । तदुपलक्षणमित्याशयेनावलोकविचेष्टितग्रहणम् । प्रसज्जतीत्यस्यैवार्थान्तरमाह ॥ आत्मानमिति । प्राहिणोति गमयति । हि गताविति धातोः
॥ ३१ ॥
कदाचिदीश्वरस्य भगवतो विष्णोश्चक्रात्परमाण्वादिद्विपरार्द्धापवर्गकालोप-लक्षणपरिवर्तनेन वयस्तरसा हरत आब्रह्मस्तम्भादीनां मिषतां वित्रस्तहृदयस्त-मेवेश्वरं कालचक्रनिजायुधं साक्षाद्भगवन्तं यज्ञपुरुषमनादृत्य पाषण्डदेवताः कंकगृध्रबकप्राया आर्यहंससमयपरिभूताः १साङ्केत्येनाभिधत्ते ॥ ३२ ॥
पदरत्नावली
क्वचित् कदाचिद्धरिचक्रत इत्येतद्व्याख्याति– कदाचिदिति ॥ कदाचि-त्कस्यांचिदवस्थायाम् । ईश्वरस्य चक्राद्वित्रस्तहृदयस्तमीश्वरमनादृत्य पाण्डखदेवताः साकल्ये-नाभिधत्ते भजतीत्यन्वयः । परमाण्वादिद्विपरार्धापवर्गकाल उपलक्ष्यते । तेन परिवर्तनेन परिभ्रमणेन मिषतां जीवानां वय आयुर्लक्षणं हरतश्चक्रादपवर्गोऽवसानं परमाणुकाल आदिर्यस्य स तथा । द्विपरार्धस्यापवर्गोऽवसानं यस्य स तथा । केषां मिषतामाब्रह्मस्तंबादीनां ब्रह्माणम् अवधीकृत्य स्तम्बमुपक्रम्य वर्तमानानां कालचक्रं निजायुधं यस्य स तथा तम् (‘क्वचित् कदाचिद्धरिचक्रत इत्येतद्व्याख्याति– कदाचिदिति ॥ कदाचिदीश्वरस्य सर्वोत्तमस्य सर्वसमर्थस्य च । ‘ईशेभ्यो ब्रह्मरुद्राश्रीशेषादिभ्यो यतो भवान् । वरोऽत ईश्वराख्या ते मुख्या नान्यस्य कस्यचित् ॥’ इति ब्रह्मवैवर्ते । ‘ऐश्वर्याद् भगवान् विष्णुर्विरुद्धं घटयत्यसौ’ इत्यादि महा-वाराहे । महतो देशतः कालतः गुणतश्चोत्तमस्य । ‘तेजोऽर्थ उत्तमार्थे च पूज्यार्थे च प्रयुज्यते । महाच्छब्दो महःशब्दो मान्यशब्दस्तथैव च ॥’ इति शब्दनिर्णये । भगवतः समग्रैश्वर्यवीर्यादि-षड्गुणशालिनो विष्णोश्चक्रात् काललक्षणाद् वित्रस्तहृदयो मृत्युभयग्रस्तस् तमेवेश्वरमनादृत्य पाषण्डदेवताः साकल्येनाभिधत्ते भजीतत्यन्वयः । परमाणुरादिर्द्विपरार्धोऽपवर्गोऽन्तो यस्य स तथा, स चासौ कालश्च तस्योपलक्षणं ज्ञापकं, तच्च तत् परिवर्तनं परिभ्रमणं च तेन आब्रह्मस्तम्बादीनां ब्रह्माणमवधीकृत्य स्तम्बादीनि भूतान्युपक्रम्य विद्यमानानां मिषतां प्राणिनामायुस्तरसा हरतः । ‘उलपस्तम्बगुल्माश्च’ इति हलायुधः । कालाख्यचक्रं निजायुधं यस्य तम् । सिंहसमूहाद् रक्षितुं कङ्कादयो यथाऽसमर्थास्तथा पाषण्डिभिर्देवतात्वेन कल्पिताः क्षुद्रदेवता अपि कालचक्रतो रक्षितुं सर्वथा सामर्थ्यरहिताः । अत एवैता आर्यहंससमये परिभूतास् तिरस्कृताः ।’ इति कपाठः) ॥ ३२ ॥
प्रकाशिका
क्वचित्कदाचिद्धरिचक्रत इत्येतद्व्याख्याति ॥ कदाचिदिति । सुदर्शन-व्यावृत्तये विष्णोश्चक्रं विशिनष्टि ॥ परमाण्वादीति । परमाणुरादिर्द्विपरार्धोऽपवर्गोऽन्तो यस्य स तथा । स चासौ कालश्च तस्योपलक्षणं ज्ञापकम् । तच्च तत्परिवर्तनं परिभ्रमणं च तेन आब्रह्मस्तंभादीनां ब्रह्माणमुपक्रम्य स्तंभादिपर्यन्तं विद्यमानानां मिषतां प्राणिनामायुर्हरतः । तथा च प्रवाहतोऽनाद्यन्तं कालाख्यमेव विष्णोश्चक्रमत्र विवक्षितमिति भावः । एतादृशा-द्विष्णोश्चक्राद्वित्रस्तहृदयो परमभीतियुत इत्यर्थः । अनेन त्रसन्नित्येतदुक्तार्थम् । कालाख्यचक्रं निजायुधं यस्य तमनादृत्यायं दुराराध्य इत्युपेक्ष्य पाषण्डदेवताः पाषण्डैर्देवतात्वेन कल्पिता अपभ्रष्टा कंकगृध्रबकप्रायास्तादृशस्वभावा आर्यसमयपरिहृता ज्ञानिसिद्धान्ते निषिद्धाः सांकेत्येन संकेतमात्रनिमित्तेन । मूलप्रमाणरहितेनेति यावत् । अभिधत्ते । शीघ्रं दृष्टफलत्वादेता एव देवता इति प्रतिपादयतीत्यर्थः । तत्सेवामेव करोतीति यावत् । प्राणिनामायुर्हरतः कालचक्रान्मरणं तावदवश्यंभावि । अतो मरणात्पूर्वमेव विषयभोगार्थं शीघ्रं फलप्रदा अन्यदेवता एव सेव्या इत्याशयेन ता भजतीत्याशयः ॥ ३२ ॥
यदा तु ताभिः पाषण्डदेवताभिरात्मवञ्चकै१रुरुवञ्चितो ब्रह्मकुलं समा-विशंस्तेषां शीलमुपनयनादिश्रौतस्मार्तकर्मानुष्ठानेन भगवतो यज्ञपुरुष-स्याराधनमेव पुनस्तदरोचयंच्छूद्रकुलं भजत्यनिगमपरिशुद्धं यस्य हि मिथुनीभावः कुटुम्बभरणं यथा वानरजातेस्तत्रापि निरवरोधः स्वैरेण विहरन्नतिकृपणबुद्धि-रन्योन्यमुखनिरीक्षणादिग्राम्यकर्मणैव विस्मृतकालावधिः ॥ ३३ ॥
पदरत्नावली
तैर्वञ्चित इत्येतद्व्याचष्टे– यदा तु ताभिरिति ॥ यज्ञपुरुषाराधनं तेषां शीलं यत्तदरोचयन् अपथ्यंमन्वानः । अनिगमपरिशुद्धं वेदशुद्धिरहितम् । यस्य शूद्रकुलस्य मिथुनीभावः कुटुम्बभरणम् । नान्यदिति शेषः । निरवरोधः भार्यारहितः, अनिवारण इति वा । (‘तज्जातिरासेनेत्येतद् व्याचष्टे– तत्रापीति ॥ निरवरोधो विधिनिषेधादिरूपप्रतिबन्धरहितः । विस्मृतः कालावधिर्जीवितावधिः, मृत्युरिति यावत्, तेन स तथा ।’ इति कपाठः) ॥ ३३ ॥
प्रकाशिका
तैर्वञ्चित इत्येतद्व्याचष्टे ॥ यदा त्विति । आत्मवञ्चकैरात्मा स्वयं वञ्चकः सम्यगपूजको येषां तैः स्वात्मनां सम्यगपूजितैरित्यर्थः । आत्मवञ्चितैरिति पाठः सुगमः । वञ्चितः फलादानात् । ब्रह्मकुलं ब्राह्मणजातिम् । अनेन हंसकुलमित्येतदुक्तार्थम् । तेषां ब्राह्मणानां यद्यज्ञपुरुषस्य हरेराराधनरूपं शीलं स्वभावस्तदरोचयन् इदमिष्टसाधनमित्यजानन् । शूद्रकुलमित्यनेन वानरमित्येतद्व्याख्यातम् । अनिगमपरिशुद्धमुपनयनादिवेदोक्तसंस्कारपरिशुद्धि-रहितम् । एतदेव विशदयति ॥ यस्य हीति । कुटुम्बभरणं चेत्येतावदेव नान्यदित्यर्थः । तज्जातिरासेनेत्येतद्व्याचष्टे ॥ तत्रापीति । निरवरोधो विधिनिषेधादिरूपप्रतिबन्धरहितः स्वैरण स्वेच्छया विहरन् क्रीडन् । विस्मृतः कालावधिर्जीवितावधिः । मृत्युरिति यावद् येन स तथा । भवतीति शेषः ॥ ३३ ॥
क्वचिद्द्रुमवदैहिकार्थेषु गृहेषु रंस्यन्यथा वानरः सुतदारवत्सलो व्यवायक्षणः
॥ ३४ ॥
पदरत्नावली
द्रुमेषु रंस्यन्नित्यस्यार्थं दर्शयति– क्वचिद्द्रुमवदिति ॥ व्यवायो ग्राम्यरतिस् तदर्थमेव क्षणः कालो यस्य स तथा (‘व्यवायक्षणः सुरतोत्सवः । ‘व्यवायो मैथुनेऽन्तर्धौ पुंसि क्लीबं तु तेजसि’ इत्युत्पलमाला ।’ इति कपाठः) ॥ ३४ ॥
प्रकाशिका
क्वचिद्द्रुमेषु रंस्यन्नित्यस्यार्थमाह ॥ क्वचिद्द्रुमवदिति । ऐहिकार्थे-ष्वैहिकार्थसाधनेषु । व्यवायो मैथुनं तदर्थमेव क्षणः कालो यस्य सः ॥ ३४ ॥
एवमध्वन्यवरुंधानो मृत्युगजभयात्तमसि गिरिकन्दरप्राये पतन् कर्मवल्ली-मवलम्ब्य तत आपदः कथञ्चिन्नरकाद्विमुक्तः पुनरप्येवं संसाराध्वनि वर्तमानो नरलोकसार्थमुपयाति ॥ ३५ ॥
पदरत्नावली
क्वचित् प्रमादादित्येतद्व्याकरोति– एवमध्वन्यवरुन्धान इति ॥ ततः कथञ्चिदिति इदं विवृणोति– कर्मवल्लीमिति (‘अध्वनि प्रवृत्तिमार्गे एवं प्रमादाद् विविधपाप-कर्माण्याचरन् तत्फलानि नानारिष्टान्यवरुन्धानोऽनुभवन् । इति कपाठः) ॥ ३५ ॥
प्रकाशिका
क्वचित्प्रमादादित्येतद्य्वाकरोति ॥ एवमध्वनीति । ततः कथञ्चिदित्ये-तद्विवृणोति ॥ कर्मवल्लीमिति । अनेन वल्लीं गृहीत्वा ततः कथञ्चित्प्रतिमुक्त इत्यन्वयं सूचयति । आपद इत्यनूद्य नरकादिति व्याख्यातम् । नरलोकसार्थं मनुष्यदेहलक्षणं सार्थमित्यर्थः ॥ ३५ ॥
एतस्मिन्संराराध्वनि नानाक्लेशोपसर्गवितते बाधित आपन्नांस्तत्र तत्र विसृज्य जातं जातमुपादाय शोचन् मुह्यन् खिद्यन् बिभ्यन् हृष्यन् रुदन् गायन् साधुवर्जितोऽसाधुवन एवावर्ततेऽद्यापि ॥ ३६ ॥
पदरत्नावली
(‘तांस्तान् विपन्नानित्यादि व्याचष्टे– एतस्मिन्निति ॥ यत एष नरलोकसार्थः, आरब्धः, प्रवृत्तो यं चाध्वनः संसारमार्गस्य पारं ज्ञानिवरा उपदिशन्ति तमीश्वर-मद्यापि नैवावर्तते नैवाप्नोति । मनस्विन इत्येतद् व्याचष्टे– यदपीति ॥ स्वयं स्वयमेवोप-संहृताः शत्रुभिर्हताः सन्तो मृधे युद्धभूमौ शयीरन् ।’ इति कपाठः)॥ ३६ ॥
प्रकाशिका
अध्वन्यमुष्मिन्नजयेति श्लोकस्य संसारकारणाज्ञानप्रदर्शनार्थं प्रवृत्तस्य परोक्षार्थोक्तिरूपत्त्वाभावात्तं विहायाध्वन्यमुष्मिन्नुरुकृच्छ्रेत्यादि व्याचष्टे ॥ एतस्मिन्निति । उरु-कृच्छ्रेत्यस्यार्थः ॥ नानाक्लेशेनेति । नानाक्लेशानेवाह ॥ शोचन्नित्यादिना । शोको दुःखम् । खेदो नालंबुद्धि र्दुःखानुषंगाद्धर्षोऽपि क्लेशप्रभेदतयोक्तस्तथा गायन्नपि साधुवर्जितः साधुमार्ग-प्रदर्शकशून्यः । असाधुवन एवाद्यापि आवर्तते पुनः पुनर्भ्रमतीत्यर्थः ॥ ३६ ॥
यत आरब्ध एष नरलोकसार्थः यमध्वनः पारमुपदिशन्ति यदिदं योगानु-शासनं नाम शंतमं न वा एतदनुरुन्धे न्यस्तदण्डा शान्तिमन्त उपशमशीला उपरतात्मान उपतिष्ठन्ति यदपि दिग्विजयिनो यज्वानो राजर्षयो नैवैतद्व्रजन्ति किन्तु मृधे शयीरन् यस्यामेव ममैवेयं महीति कृतवैरानुबन्धा यां विसृज्य स्वयमुपसंहृताः । यस्यामिम उपसर्गाः सुखदुःखरागद्वेषभयाभिमानप्रमादोन्मा-दशोकमोहमात्सर्त्ये र्षावमानक्षुत्पिपासाधिव्याधिजराजन्ममरणादयः ॥ ३७ ॥
॥ इति श्रीमद्भागवतमहापुराणे पञ्चमस्कन्धे चतुर्दशोऽध्यायः ॥
पदरत्नावली
बिभ्यन् भयमापन्नः मनस्विन इत्येतद्व्याचष्टे– यदपीति । बाधोप-सर्गैरित्यत्रोक्तानुपसर्गानाह– यस्यामिति (‘अध्वन्यमुष्मिन्नित्यादि विशदयति– अध्वनीति ॥ मात्सर्यं परोत्कर्षासहनम् । ईर्ष्या शत्रूत्कर्षासहनम् ।’ इति कपाठः)॥ ३७ ॥
॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुकृतायां
पञ्चमस्कन्धे चतुर्दशोऽध्यायः ॥
प्रकाशिका
न कश्चिदत्रेत्यादि विवृणोति ॥ यत आरब्ध इत्यादिना । यत आरब्ध एष नरलोकसार्थो यं चाध्वनः पारमुपदिशन्ति ज्ञानिनो यद्यस्मिन्विषये इदं योगानुशासनं योगशास्त्रं प्रवृत्तमेतत्परं ब्रह्म न वाऽनुरुंधे नैव प्राप्नोति । अत्र यत आरब्ध इत्यनेनाजया निवेशित इत्युक्तानुवादः कृतः । पारमित्यनन्तरम् उपदिशन्तीति शेषोक्तिः । योगमित्यस्यार्थः यदिद-मिति । अनेन युज्यतेऽस्मिन्निति योग इति योगशब्दार्थो दर्शित इति ज्ञातव्यम् । नोपैतीत्यस्यार्थः । न वानुरुन्ध इति । न्यस्तदण्ड इत्येतद्व्याख्याति ॥ न्यस्तदण्डा इति । मनस्विन इत्यादि व्याचष्टे ॥ यदपीति । स्वयं स्वयमेवोपसंहृताः शत्रुभिर्हताः सन्तः शयीरन्न तु तद्भजन्तीत्यर्थः । बाधोपसर्गैरित्युक्तानुपसर्गानाह ॥ यस्यामिति । भवाटव्यामित्यर्थः ॥ ३७ ॥
**॥ इति श्रीमद्वेदेशपूज्यपादशिष्येण यदुपतिना विरचितायां **
श्रीमद्भागतटिप्पण्यां प्रकाशिकायां पञ्चमस्कन्धे चतुर्दशोऽध्यायः ॥ १४ ॥