दुरत्ययेऽध्वन्यजया निवेशितो रजस्तमस्सत्वविभक्तकर्मदृक्
॥ अथ त्रयोदशोऽध्यायः ॥
ब्राह्मण उवाच–
दुरत्ययेऽध्वन्यजया निवेशितो रजस्तमस्सत्वविभक्तकर्मदृक् ।
स एष सार्थोऽर्थपरः परिभ्रमन् भवाटवीं याति न शर्म विन्दति ॥१॥
पदरत्नावली
अस्मिन्नध्याये संसारविरक्तस्यैव हरौ सुदृढा भक्तिः स्यात् । तया तदपरोक्षज्ञानं जायते । तेन स्वयोग्या मुक्तिः स्यादित्यतः संसारस्य हेयत्वज्ञानेन तत्र विरक्ति-स्तदर्थं (‘तत्र सुदृढवैराग्यजननाय’ इति कपाठः) तत्स्वरूपं निरूपयति– दुरत्यय इत्यादिना ॥ दुरत्यये हरिकटाक्षमन्तरेणात्येतुमशक्ये अजया प्रकृत्या रजस्तमःसत्वगुणैर् विभक्तानि यानि कर्माणि तानि पश्यति ममाहमित्यभिमन्यते इति रजस्तमस्सत्वविभक्तकर्मदृक् । सार्थः परिषज्जनः वणिक् सार्थवदर्थपरः स्वप्रयोजनाभिनिविष्टबुद्धिः । भवाटवीं ब्रह्मादिस्तम्बपर्यन्तं संसारवनं याति । तत्र शर्म स्वाभिप्रेतसुखं न लभत इत्यन्वयः (‘तत्रादौ वैराग्यदार्ढ्याय भीकरसंसारस्वरूपं निरूप-यति– दुरत्यये इति ॥ अर्थपरो वैषयिकसुखाकाङ्क्षी रजस्तमस्सत्त्वैर्विभक्तेषु कर्मस्वेव दृक् दृष्टिर्यस्य स तथा स एष प्रसिद्धः सार्थो जीववर्गो ऽजया प्रकृत्या दुरत्यये दुस्तरे अध्वनि प्रवृत्तिमार्गे निवेशितस्तत्र परिभ्रमन् अहं कर्तेत्यादिरीत्या विभ्रमन् भवाटवीं संसारवनमेव याति । ततश्च शर्म मोक्षसाधनं न विन्दति नाप्नोति । यथा अर्थपरः धनकनकाद्याकाङ्क्षी सार्थः वणिक्समूहः परिभ्रमन् अटवीं याति । ततश्च तत्र शर्म स्वाभिप्रेतसुखं न विन्दति यथा तथेति । ‘सार्थो वणिक्समूहे स्यादपि सङ्घातमात्रके’ इत्युत्पलमाला’ इति कपाठः) ॥ १ ॥
प्रकाशिका
वैराग्यदाढर्््याय हेयतया संसारस्वरूपमरण्यसाम्येन निरूपयति ॥ दुरत्यय इति । दुरत्यये हरिकृपामन्तरेणात्येतुमशक्येऽध्वनि पुनः पुनः काम्यनिषिद्धादिकर्मकरणरूपे परिभ्रमन्नहमेव कर्तेति भ्रान्तो रजस्तमस्सत्त्वैर्विभक्तानि यानि कर्माणि तानि तत्फलभूतानि शरीराणि पश्यतीति रजस्तमस्सत्त्वविभक्तकर्मदृक् । स एष प्रसिद्धो जीवसमुदायः सार्थो वणिक्स्थानीयोऽर्थो धनं परमुद्देश्यं यस्येत्यर्थपरः । भवः संसारस्तल्लक्षणमटवीं वनं याति । यथा वणिक् अर्थपरः सन् अध्वनि मार्गे परिभ्रमन् भ्रान्तोऽटवीं याति तद्वत् । ततश्च न शर्म मोक्षसाधनम् । अन्यत्र स्पष्टम् ॥ १ ॥
यस्यामिमे षण्णरदेव दस्यवः स्वार्थं विलुंपन्ति कुनायकं बलात् ।
गोमायवो यत्र हरन्ति सार्थकं प्रमत्तमाविश्य यथोरणं वृकाः ॥ २ ॥
पदरत्नावली
स्वार्थालाभे निमित्तमाह– यस्यामिति ॥ षट् दस्यवः श्रोत्रादि-ज्ञानेन्द्रियाणि मनश्चेति स्वार्थं पुण्यलक्षणं विलुम्पन्ति विषयोपभोगद्वारेणापहरन्ति कुत्सितो कामादिनायको यस्मिन् स तथा । अन्तः शत्रूनुक्त्वा बाह्यानाह– गोमायव इति ॥ गोमायव इति लुप्तोपमा । सृगालसदृशाः पुत्रकलत्रादयः । सार्थकं सम्पद्युक्तं कलभाषणादिना मन आविश्य । उरणमजाम् (‘स्वाभिलषितशर्मालाभे हेतुमाह– यस्यामिति ॥ हे नरदेव यस्या-मटव्यां दस्यवश्चोराः कुत्सितो नायको यस्य तं सार्थं वणिक्समूहं बलाद् यथा विलुम्पन्ति यथा यस्यामिमे षड् दस्यवः श्रोत्रादिज्ञानेन्द्रियाणि मनश्चेति षडिन्द्रियाख्यचोराः सार्थं सञ्चितपुण्यं कुत्सितो नायको बुद्धिलक्षणो यस्य तं बलाद् विलुम्पन्ति विषयोपभोगेन मुष्णन्ति । अन्तः-शत्रूनुक्त्वा बाह्यानाह– गोमायव इति ॥ यत्र च सार्थिकं सार्थे स्थितं प्रमत्तमनवहितमुरणं मेषं गोमायवो वृकाश्च यथा आविश्य हरन्ति बलाद् विलुम्पन्ति च तथा सृगालवृकसदृशाः कलत्रपुत्रमित्रादयः प्रमत्तमनवहितमाविश्य सार्थिकं सार्थे स्थितं धनकनकादिकं हरन्ति बलाद् विलुम्पन्ति च ।’ इति कपाठः) ॥ २ ॥
प्रकाशिका
तदलाभे निमित्तमाह ॥ यस्यामिति । यस्यां भवाटव्याम् । हे नरदेव । इमे षट् षडिन्द्रियाणि दस्यवश्चोरस्थानीयाः स्वार्थं जीवपक्षे संचितं धर्मं वणिक्पक्षे धनम् । कुत्सितो नाथो नायको यस्य स तथा तस्य । द्वितीया षष्ठ्यर्थ इति वक्ष्यति । गोमायवो वृकाश्च तत्तुल्याः पुत्रकलत्रादयः सार्थकमर्थेन सहितम् । अत एव प्रमत्तम् आविश्य त्वं मम पिता भर्त्येत्यादिमंजुभाषणेन तत्समीपं प्राप्योरणमाविम् । तथा तस्य धनं हरन्तीत्यर्थः । मंजुभाषणेन समीपप्राप्तौ गोमायुदृष्टान्तः । हरणे वृकदृष्टान्त इति ज्ञेयम् ॥ २ ॥
प्रभूतवीरुत्तृणगुल्मगह्वरे कठोरदंशैर्मशकैरुपद्रुतः ।
क्वचिच्च गन्धर्वपुरं प्रपश्यति क्वचित्क्वचिच्चासुहरोल्मुकग्रहम् ॥ ३ ॥
पदरत्नावली
वीरुधो महत्यो गुल्मान्यणूनि अङ्कुरादीनि समृद्धवीरुत्तृणगुल्मवदपरिपक्व-कामबीजश्रौतस्मार्तकर्मभिर्गह्वरे गृहस्थाश्रमे वर्तमानः कठोरमशकदंशकल्पै राजभटतस्करादिभि-रुपद्रुतो बाधितो ऽपहृतहिरण्यशाल्यादिकः । क्वचित्संसारस्थाने गन्धर्वैः कर्मभिर् निर्मितपुरं मनुष्याद्यन्यतमं शरीरं दृष्ट्वा विश्य च कर्म भुङ्क्ते इत्यर्थः । अस्थिरत्वात् प्रसिद्धगन्धर्वपुर-साम्यम् । असुहरः प्राणहर उल्मुकग्रह उल्मुकपिशाचस् तत्सदृशशब्दादिविषयं पश्यतीति शेषः (‘प्रभूताः पौनःपुन्येन जायमाना वीरुधो लताश्च तृणानि च गुल्मानि लतादिजालानि च तत्स्थानीयैः कामकर्मादिभिर्गह्वरे गन्तुमशक्यक्षेत्रस्थानीये गृहस्थाश्रमे वर्तमानः कठोरदंशैः क्रूरदंशककीटैर्मशकैश्च तत्स्थानीयैस्तस्करादिभिरुपद्रुतो ऽपहृतधनकनकादिको भवति । क्वचिद् भवाटव्यां गन्धर्वपुरं गन्धर्वपुरवदस्थितं स्वस्य पूर्वकर्मायत्तमनुष्याद्यन्यतमशरीरं स्थिरतया प्रपश्यति । क्वचिद् असुहरोल्मुकग्रहं प्राणहरोल्मुकपिशाचस्तानीयं हिरण्यादिकमादित्सति । यथा अग्निकामः प्राणहरोल्मुकपिशाचं प्राप्य अग्निमुपादित्सति, तथाऽयमपि परस्परकलहहिंसामरण-निरयाद्यनर्थपरम्पराप्रापकं कनकादिकमुपादित्सतीत्यर्थः ।’ इति कपाठः) ॥ ३ ॥
प्रकाशिका
प्रभूताः पुनः पुनः जायमाना वीरुधो लताश्च तृणानि च गुल्मानि लताजालानि च तैस् तत्स्थानीयैः कामकर्मादिभिर्गव्हरे गन्तुमशक्यक्षेत्रस्थानीये गृहाश्रमे वर्तमानः कठोरदंशकैस्तत्स्थानीयैश्चोरमूषकादिभिरुपद्रुतोऽपहृतधनधान्यादिको भवति । क्वचित्संसारारण्ये कर्मनिर्मितं मनुष्यदेवगन्धर्वपुरं तद्वदस्थिरं स्थिरतया प्रपश्यति । क्वचित्क्वचित् तत्र तत्र प्रदेशेऽसुहरः प्राणहर उल्मुको ग्रह उल्मुकवर्णः पिशाचस्तं प्रपश्यति । यथाऽग्निकाम उक्तरूपं पिशाचं प्राप्याग्निमुपादित्सति । तथाऽयमपि प्राणहरं कुत्सितं धनिकं प्राप्य धनमुपादित्सतीत्यर्थः
॥ ३ ॥
निवासतोयद्रविणात्मबुद्धिस्ततस्ततो धावति भो अटव्याम् ।
क्वचिच्च वात्योत्थितपांसुधूम्रा दिशो न जानाति रजस्वलाक्षः ॥ ४ ॥
पदरत्नावली
निवासतोऽन्यत्र यद् यस्मिन् द्रविणे आत्मबुद्धिर्यस्य स तथा । ततस्ततस्तत्र तत्र धावति धावनमेव अवशिष्यते न तु काचित्कार्यसिद्धिरित्यर्थः । अत्र क्वचिच्छब्दा अनवस्थानवाचका इति वात्योत्थितपांसुधूम्ना मण्डलवायुसदृशस्त्रीनिमित्तरागादि– लक्षणपांसुभिश्छन्ना दिशन्ति स्वाभिमतं प्रयच्छन्ती । दिशः सूर्यादिदेवता रजस्वलाक्षो ऽविवेकविज्ञानः(भो राजन् निवासो गृहं च तोयं सलिलं च द्रविणं हिरण्यादिकं च तेषु आत्मबुद्धिर्यस्य स तथा संसाराख्यायामटव्यां ततस्ततस्तत्रतत्र तत्तत्प्रयोजनसिद्ध्यै धावति । रजस्वले रजोव्याप्ते अक्षिणी यस्य स तताभूतः वात्यया चक्रवातेनोत्थिताः पांसवस्तैर् धूम्रा धूमलवर्णा दिशो न जानाति यथा तथा रजस्वलाक्षः रजोगुणपिहितदृष्टिर् वात्येव भ्रामयन्ती या स्त्री तयोत्थितैः पांसुभिस् तत्सदृशैर् दृष्ट्याच्छादकरागादिभिर् धूम्रा आच्छन्ना दिशः कर्म-साक्षिभूता दिग्देवता न जानाति । ‘धूम्रस्तु धूमले छन्ने’ इत्युत्पलमाला ।’ इति कपाठः)
॥ ४ ॥
प्रकाशिका
निवासो गृहं तोयं सलिलं द्रविणं च । आत्मपदमात्मीयपरम् । निवासादिरूपेषु सोपजीव्येषु बुद्धिरभिनिवेशो यस्य स तथा । अटव्यां संसाररूपायाम् । इदमुभयत्र समम् । वात्या चक्रः वात्या उत्थिताः पांसवस् तैर् धूम्रा अन्धकारव्याप्तप्रदेशस्थव-द्विद्यमाना दिशो रजस्वले रजोव्याप्तेऽक्षिणी यस्य स तथा । स यथा न जानाति । तथा वात्येव भ्रमयती या स्त्री तयोत्थितै रागादिभिरप्रकाशमानाः कर्मसाक्षिभूता दिग्देवताः । रजोगुणांधदृष्टिर्न पश्यतीत्यर्थः ॥ ४ ॥
अदृश्यझिल्लीस्वनकर्णमूल उलूकवाग्भिर्व्यथितान्तरात्मा ।
अपुण्यवृक्षान् श्रयते क्षुधार्दितो मरीचितोयान्यभिधावति क्वचित् ॥ ५ ॥
पदरत्नावली
अतिगहनवननिवासिन्यो झिल्ल्यः कीटविशेषाः । शब्दा एव श्रूयते न स्वरूपं दृश्यत इत्यदृश्यानां झिल्लीनां स्वनवद्दुःसहराजचोरादिनिष्ठुरशब्दैः पूरितकर्णमूलः । उलूकवाग्भिर् दुर्जनतर्जनैर् व्यथितान्तरात्मा परिखिन्नदयः कदाचित् क्षुधार्दितः विषयतृष्ण-याक्लिष्टो ऽपुण्यवृक्षान् कारस्करादिवृक्षवदृष्टादृष्टफलशून्यपाखण्डाश्रमान् मरीचितोयानि मरीच्युदक- सदृशशब्दादीन् (‘शब्द एव श्रूयते स्वरूपं न दृश्यत इत्यदृश्यानां झिल्लीनां कीटविशेषाणां स्वनैः कर्णयोः शूलो यस्य स तथा । अलूका घूकास्तेषां वाग्भिर्व्यथितोऽन्तरात्मा हृदयं यस्य स तथा । भवाटव्यां तु परोक्षमप्रियवादिनो दुर्जना झिल्लीदृशाः, प्रत्यक्षमप्रियवादिनो राजभृत्यप्रभृतयो घूकतुल्याः । क्षुधार्दितः विषयतृष्णापीडितो ऽपुण्यवृक्षान् कारस्कारादिविषवृक्षस्थानीयान् धनदुर्मदान्धानधार्मिकधनिकान् क्वचित् श्रयते सेवते । क्वचित् पिपासार्दितो मरीचितोयानि मरीच्युदकसदृशशब्दादीनभिधावति ।’ इति कपाठः) ॥ ५ ॥
प्रकाशिका
शब्द एव श्रूयते न तत् स्वरूपं दृश्येत इत्यदृश्या झिल्लयः कीटविशेषास्तत्स्वनवद्दुःसहा ये परोक्षमप्रियवादिशब्दास्तैः पूरितकर्णमूल उलूकवाग्भिस्तत्तुल्यैः प्रत्यक्षमप्रियवादिनां निष्ठुरशब्दैर्व्यथितोऽन्तरात्मा मनो यस्य स तथा । कदाचित्क्षुधार्दितो धनतृष्णयाऽर्दितो येषां छायाऽपि पापहेतुस्तेऽपुण्यवृक्षास्तत्तुल्यान् दानभोगहीनधनिनः सेवन्ते । मरीचितोयानि तद्वत्सदाविद्यमानत्वेन ज्ञातानपि विषयान् विस्मृतमतिरभियाति ॥ ५ ॥
क्वचिद्वितोयाः सरितोऽभियाति परस्परं खादयते१ निरन्नः ।
आसाद्य दावं क्वचिदग्नितप्तो निर्विद्यते क्व च यक्षैर्हृतासुः ॥ ६ ॥
पदरत्नावली
वितोया अधरामृतशून्याः सरितः पुंश्चलीः परस्परं खादयते स्वीकरोति । पितृधनं पुत्रो लभते पुत्रधनं पिता च । श्ववद् भ्रात्रादिजनोऽन्योन्यं शाब्दं कुरुते धनविषय इति वा । निरन्नोऽशनवसनादिपरिकरशून्यः । दुनोतीति दावं प्रयोजकशून्यं वनसमं गृहम् । शोकाग्निना सन्तप्तः यक्षग्रहवत्प्रबलराजामात्यादिभिर्हृतासुर् अपहृतबहिःप्राणाख्यहिरण्यः । तदुक्तं कौर्मे– ‘हिरण्यं हि मनुष्यस्य प्राणा ह्येते बहिश्चराः’ इति (‘क्वचिद् वितोया उदकरहिताः सरितोऽभियाति । यथा खलु सलिलरतिसरित्सु अभिपतितस्य केवलं कायक्लेश एव, न तु स्वाभिलषितविमलसलिललाभस्तथेहामुत्र च क्लेशदान् पाषण्डानभियातीति यावत् । निरन्धो निरन्नः परस्परं पितृधनं पुत्रः, पुत्रधनं पितेत्यादिरीत्या आलषते अभिलषति । ‘अन्धोऽन्न-मोदनो भक्तम्’ इत्युत्पलमाला । दुनोति उपतापयतीति दावो वनवह्निस् तत्स्थानीयं समन्ततः सन्तापसन्ततिजनकं गृहमासाद्य शोकाग्निना तप्तो निर्विद्यते विषीदति । क्वच क्वचिद् यक्षैर् यक्षाख्यभूतविशेषस्थानीयैः क्रूरराजामात्यादिभिर् हृतासुर् अपहृतबहिःप्राणाख्यहिरण्यः । यथोक्तं कौर्मे ‘हिरण्यं हि मनुष्यस्य प्राणा ह्येते बहिश्चराः’ इति ।’ इति कपाठः)॥ ६ ॥
प्रकाशिका
वितोया विगतोदकाः सरितो नदीरुद्दिश्य याति । तद्गमनवदिहामुत्र च दुःखदान् पाषण्डान् अभियाति । निरन्नोऽन्नादिशून्यः परस्परं पिता पुत्रं पुत्रः पितरं खादयते पीडयति । दावं दुःखदत्वेन दावाग्नितुल्यं गृहमासाद्य शोकाग्नितप्तो निर्विद्यते विषीदति । क्वचित्कदाचिद्यक्षै राक्षससमैर्दुष्टराजकुलैर्हृतोऽसुर् असुवत्प्रियतमं धनं यस्य स तथा । मृतक इवास्त इति शेषः ॥ ६ ॥
परैर्त्हृतस्वः क्व च निर्विण्णचित्तः शोचन्विमुह्यन्नुपयाति कश्मलम् ।
क्वचिच्च गन्धर्वपुरं प्रविष्टः प्रमोदते निर्वृतवन्मुहूर्तम् ॥ ७ ॥
पदरत्नावली
क्वच संसारे परस्वापहारपटुभिर्ग्रामाधिपतिभिर् हृतस्वो ऽपहृतद्रव्यस् तेन विरक्तबुद्धिर् देशत्यागकृतमनाः शोकमोहाभ्यां कश्मलं कष्टावस्थां याति । क्वापि कर्मविशेषाद् गन्धर्वपुरं स्वर्गादिलक्षणलोकमाप्तो यावत् प्रारब्ध समाप्तिः सुखमनुभवति । पतनभया-न्निर्वृत्तवदित्युक्तम् । आकस्मिकपितृपितामहादिसंयोगं वा(‘क्वच क्वचित् परस्वापहारपटुभिः शूरैर् हृतं स्वं वित्तं यस्य स तथा । अत एव निर्विण्णं विषण्णं चेतो यस्य स तथा । शोचन् विमुह्यन् सम्भ्रमन् कश्मलं मूर्च्छामुपयाति । क्वचिच्च गन्धर्वपुरं तत्स्थानीयमाशुतरविनाशिनं पितृपितामहादिबन्धुवर्गं प्रविष्टः सन् मुहूर्तं निर्वृतवत् सुखिवत् प्रमोदते ।’ इति कपाठः) ॥७॥
प्रकाशिका
क्वच कदाचित्परैरन्यैरपहृतं स्वं द्रव्यं यस्य स तथा । कश्मलं मूर्च्छाम् । गन्धर्वपुरं गन्धर्वपुरवद्बहिष्ठतयाऽविद्यमानं वासनामयं पितृपितामहादिसमाजं प्रविष्टः सन्प्रमोदते । स्वप्ने वासनामयान् पित्रादीन् पश्यन् प्रमोदं लभत इत्यर्थः । अत्र दृष्टान्तमाह ॥ निर्वृत-वदिति । जाग्रदवस्थायां पित्रादिदर्शनेन निर्वृतो रोमांचादिमान्यथा तथैवेत्यर्थः ॥ ७ ॥
चलन्क्वचित्कण्टकशर्करांघ्रिर्नगारुरुक्षुर्विमना इवास्ते ।
पदे पदेऽभ्यन्तरवह्निनाऽर्दितः कौटुम्बिकः क्रुध्यति वै जनाय ॥ ८ ॥
पदरत्नावली
कण्टकशर्कराङ्घ्रिः कण्टकादिलग्नपाद इवाशक्यगन्तव्यकर्ममार्गः कण्टकादि-युक्तमार्गगतिशील इव दुःसहकर्ममार्गो वा । अङ्घ्रिरत्र गत्यर्थः । क्वचिन्नगवद् दुर्गं निवृत्तिमार्गम् आरुरुक्षुरशक्तः सन्नष्टमना इव तिष्ठति । अत्युच्छ्रितारोहाशक्यपर्वतसदृश– वेदविहितानेककर्म-सम्पादनेच्छुस्तदशक्त इव वा । अभ्यन्तरवह्निना जाठराग्निना (‘यथा क्वचिन् नगारुरुक्षुर् गिरि-मारोढुमिच्छुः सन् चलन् पूर्वमेव कण्टकशर्कराङ्घ्रिर् गोक्षुरकक्षुद्रपाषाणादिभिर्विद्धाङ्घ्रिः पदेपदे विमना इवास्ते नष्टमना इव तिष्ठति तथा अत्युच्छ्रितदुरारोहगिरिसदृशगृहाश्रमोचितश्रुतिविहित-नानामहत्कर्मानुष्ठानेच्छुः पूर्वमेव कण्टकादिस्थानीयैर्नानाव्यसनसमूहैः प्रतिबद्धकर्तव्यकर्ममार्गः प्रतिक्षणं विमनास्तिष्ठति । अङ्घ्यते गम्यते अनेनेत्यङ्घ्रिः । अभ्यन्रवह्निना जाठराग्निना अर्दितः पीडितो बुभुक्षितः सन् जनाय भार्यापत्यादिभ्यः क्रुध्यति ।’ इति कपाठः) ॥ ८ ॥
प्रकाशिका
नगान् अत्युच्चत्वेन गन्तुमशक्यतया पर्वतस्थानीयान् गृहाश्रमोचित-कर्मविशेषान् आरुरुक्षुरारोढुमिच्छुः शर्कराः क्षुद्रपाषाणाः कण्टकादिभिर्लग्नांघ्रिरिव विमना आस्ते । यथाऽध्वनि गच्छन् सार्थः कण्टकादिविद्धपादोऽत्युच्छ्रितं गिरिमारोढुमशक्तो विमना-स्तिष्ठति । तथाऽयमप्यशक्त्या आरोहपर्वतसदृशातिविस्तृतानेकगृहाश्रमोचितकर्मसम्पादनेच्छु-र्नानाव्यसनैः कण्टकादिस्थानीयैरभिभूतस्तानि कर्तुमशक्तः पदे पदे दृष्टान्ते प्रतिपदं दार्ष्टान्तिके प्रतिकर्म विमना आस्त इत्यर्थः । पदे पदे प्रतिदिनमभ्यन्तरवन्हिना जाठराग्निना जनाय स्वकुटुंबाय । इदमुभयत्र समम् ॥ ८ ॥
क्वचिन्निगीर्णोऽजगराहिना जनो नावैति किञ्चिद्विपिनेऽपविद्धः ।
दष्टः स्म शेते क्व च दन्दशूकैरन्धोऽन्धकूपे पतितस्तमिस्रे ॥ ९ ॥
पदरत्नावली
अजगराहिना ‘वाहसोऽजगरः शयुः’ इरित्यभिधानान् निद्राशीलो महासर्पस् तद्वन्निद्रया काललक्षणेन वा । पिनोतेर्गतिकर्मणोर्व्युपपदायाविपरीतार्थाया ज्ञानोपरति-लक्षणा रात्रिरित्यर्थः । तत्रापविद्धस् तिरश्चीनागतशरविद्ध इव दुःखितो दन्दशूकैः पुनः पुनरुपद्रवशीलैरसज्जनैर्दष्टोऽधिक्षिप्तोऽन्धो विवेकशून्योऽन्धकूपसमानयोनिविशेषे तमिस्ने नरकवद् दुःखरूपे (‘अजगरादिना ‘वाहसोऽजगरः शयुः’ इत्यभिधानान् निद्राशीलमहासर्पस्थानीयया निद्रया निगीर्णो गिलित इव किञ्चिदपि नावैति न जानीते । क्वच अपविद्धस् तिरश्चीनागत- शरविद्ध एव दन्दशूकैः क्रूरसर्पस्थानीयैः पुनःपुनरुपद्रवशीलैरसज्जनैर्दष्टोऽधिक्षिप्तो ऽन्धो विवेक-चक्षूरहितो ऽत एव तमिस्रे अन्धकारस्थानीयाज्ञानव्याप्ते अन्धकूपे जलरहितकूपस्थानीये कर्तव्यानुसन्धानरहितमोहकूपे पतितः शव इव शेत स्म ।’ इति कपाठः) ॥ ९ ॥
प्रकाशिका
अजगराहिना सर्पस्थानीयया निद्रया निगीर्णो गिलितो गृहीत इति यावत् । किञ्चिदपि नावैति । विपिनेऽरण्ये अपविद्धस्त्यक्तः शव इव शेते दंदशूकैस्तत्स्थानीयैर्दुर्जनै-र्दष्टोऽधिक्षिप्तोंऽधो विवेकज्ञानशून्योंऽधकूपेऽन्ध इव तमिस्रे दुःखसमूहे पतितो भवतीत्यर्थः । शेत इत्यस्य पूर्ववाक्येनान्वय उक्तः ॥ ९ ॥
कर्हिस्मचित्क्षुद्ररसान्विचिन्वंस्तन्मक्षिकाभिर्मथितो विमानः ।
तत्रापि कृच्छ्रात्प्रतिलब्धमन्ये बलाद्विलुंपंत्यथ तं ततोऽन्ये ॥ १० ॥
पदरत्नावली
परवनितासङ्गेन क्षुद्ररसान् अल्पानन्दान् विचिन्वन् अन्वेषणं कुर्वं-स्तन्मक्षिकाभिस्तासां वनितानां समानशीलैरन्योन्यवनितालोलैः स्वामिभिर्व्यथितस्ताडितो विमानो विगताभिमानस्तत्रापि परस्त्रीविषयेऽपि कृच्छ्रात्स्वामिवञ्चनायासेन प्रतिलब्धं स्त्रीधनादि अन्ये राजानः बलाद् विलुंपन्ति अपहरन्ति । अथ ततस् तेभ्यो ऽन्ये उपपतयस्तं स्त्रीजनम् अपहन्तीत्येवमनवस्था विषयसुखस्य । क्षुधं रान्तीति क्षुद्राः । अल्पत्वेनेति शेषः । तान् क्षुद्ररसानन्नलक्षणान् विचिन्वंस्तन्मक्षिकाभिस्तदन्नदातृभिरदानेन दुःखितो विमानोऽनाश्रयो भवति । तत्र क्वचित्कालान्तरे अत्यायासेन प्रतिनिधिना स्वाम्युक्तकर्मकरणलक्षणेन लब्धं निष्पन्नमन्येऽन्नकाङ्क्षिणो याचका विद्याबलादपहरन्ति तेभ्यो याचकेभ्योऽन्ये ततोऽप्यधिक-विद्याबलेन महामार्गे क्लृप्तं विप्रभोजनमपहृत्य भुञ्जत इति धर्मभोजनस्यासिद्धिः । अथशब्द आश्चर्यार्थे इति वा (‘कर्हिस्मचित् कदाचित् क्षुद्ररसान् मधुरसस्थानीयान् अल्पानन्दकर-परवित्तपरवनितादीन् विचिन्वन् गवेषयन् तन्मक्षिकाभिस् तत्स्वामिभिर्विमानो ऽवज्ञातः सन् व्यथितो भवति । तत्र यदि अतिकृच्छ्राद् अत्यायासेन प्रतिलब्धमानः प्राप्तमधुरसः प्राप्तपरवित्तादिरसश्च भवति अथ तदा तान् रसान् ततोऽन्ये बलिनो राजभृत्यादयो बलाद् विलुम्पन्ति अपहरन्ति ।’ इति कपाठः) ॥ १० ॥
प्रकाशिका
क्षुद्ररसान्परदारादिकामलवान्विचिन्वन् गवेषयन् तन्मक्षिकाभिस्तत्स्वामिभि-र्विमानो विगतमानः गर्हित इति यावत् । नरके पततीति शेषः । तत्रापि परदारपरद्रव्यमध्येऽपि किञ्चित्कृच्छादिदं मदीयमिति शपथकरणरूपाद्यदि बन्धाद्विमुक्तेन प्रतिलब्धं पुनः प्राप्तं तर्हि तदन्ये बलाद्विलुंपंत्यपहरन्ति । अथ तं तद्गतं दारादिरूपमर्थं ततोऽन्ये ततोऽपि बलिष्ठा लुंपन्ति इति परदारादिरूपविषयस्यानवस्थितिरित्यर्थः ॥ १० ॥
क्वचिच्च शीतातपवातवर्षप्रतिक्रियां कर्तुमनीश आस्ते ।
क्वचिन्मिथो विपणन्यच्च किञ्चिद्विक्रेयमृच्छत्युत वित्तशाठ्यात् ॥ ११ ॥
पदरत्नावली
प्रतिक्रियां परिहारम् । प्रावरणाद्यभावेनेति शेषः । विपणन् क्रयविक्रय-लक्षणं व्यवहारं कुर्वन् यत्किञ्चिदपि विक्रेयं रसलक्षणादिकमपि ऋच्छति प्राप्नोति (‘क्वचिच्च शीतातपादीनां प्रतिक्रियां परिहारं कर्तुमनीशोऽशक्तो दुःखी आस्ते । क्वचिन् मिथः परस्परं विपणन् क्रयविक्रयादिलक्षणव्यवहारं कुर्वन्नथ यत् किञ्चिदपि धनधान्यादिकमपहरन् वित्तशाठ्याद् धनादिवञ्चनहेतोर्विद्वेषमृच्छति प्राप्नोति ।’ इति कपाठः)॥ ११ ॥
प्रकाशिका
प्रतिक्रियां परिहारम् । अनीशो स्वातन्त्र्याद्यभावादिति भावः । आस्ते । दुरन्तचिन्तायुक्त इति शेषः । विपणन् क्रयविक्रयलक्षणव्यवहारं कुर्वन् यत्किञ्चिद्विक्रियमल्पं महद्वा धान्यादिकम् ऋच्छति प्राप्नोति । वित्तशाठ्याद्वित्तविषयेऽहं धनाढ््यस्तुभ्यं श्वो दास्यामीत्यादिरूपं वचनं विधाय ततस्तद्विद्वेषमृच्छतीत्यर्थः ॥ ११ ॥
क्वचित्क्वचित्क्षीणधनस्तु तस्मिन् शय्यासनस्थानविहारहीनः ।
यावत्परादप्रतिलब्धकामः पारक्यदृष्टिर्लभतेऽवमानम् ॥ १२ ॥
पदरत्नावली
तस्मिन् व्यवहारे क्षीणधनः नष्टमौल्यः । यावद्यदा दरिद्रः परं प्रार्थयते तदा परादन्यस्मादप्रतिलब्धकामः प्रतिग्रहादिधर्मेणाप्राप्ताभीष्टधनः पारक्यदृष्टिः परकीयद्रव्य-स्वीकारेच्छुः । चौर्येणेति शेषः । अवमानं बन्धनताडनादिकम् (‘तस्मिन् भवारण्याध्वनि । आसनं कम्बलादि, स्थानं गृहादि, विहरन्त्यनेनेति विहारो यानादि । परं याचन् याचमानोऽपि यदा परात् परस्मादप्रतिलब्धकामोऽप्राप्तमनोरथस्तदा पारक्ये परकीयद्रव्ये दृष्टिरभिलाषो यस्य स ततोऽवमानं तर्जनताडनादिकं लभते ।’ इति कपाठः) ॥ १२ ॥
प्रकाशिका
तस्मिन्नध्वनि आसनं कंबलादिस्थानं गृहम् । विहरंत्यनेनेति विहारो यानादि । याचमानोऽपीति यावत् । यदा परात्परस्मादप्रतिलब्धोऽप्राप्तः कामो यस्य स तथा । तदा पारक्यदृष्टिः परकीये वस्तुनि दृष्टिरभिलाषो यस्य सोऽवमानं प्राप्नोति ॥ १२ ॥
प्रसज्जति क्वापि लताभुजाश्रयस्तदाऽऽश्रयोऽव्यक्तपदं द्विजस्य ह ।
क्वचित्कदाचिद्धरिचक्रतस्त्रसन् सख्यं विधत्ते बककंकगृध्रैः ॥ १३ ॥
पदरत्नावली
लतावत्कोमलभुजाश्रयो ऽव्यक्तपदम् अव्यक्तस्य प्रकृतिसंज्ञस्य स्त्रीजनस्य पदं स्थानं प्रसज्जति प्रकर्षेण सक्तो भवति । द्विजस्य कुले जातोऽपीति शेषः । तदाश्रय इति हेतुगर्भं विशेषणम् । स्त्रीजनाश्रयत्वादिति प्रभवति मनसि विवेको विदुषामपि शास्त्रसम्भवस्तावन् निपतन्ति दृष्टिविशिखा यावन्नेन्दीवराक्षीणाम्’ इति प्रसिद्धिं हशब्देनाह । हरिचक्रतः कालचक्रात् त्रसन् बिभ्यत् ‘बक भक्षणे’ ‘ककि लौल्ये’ ‘गृधु अभिकाङ्क्षायाम्’ बकवदिक्षुदण्डादिभक्षणशील विघ्नेश्वरदेवतया कङ्कवन्मैथुनलोलचित्तयक्षादिदेवतया रुधिरासवाकाङ्क्षारतभद्रकालीदेवतया च सेवालक्षणं सङ्ख्यम् (‘क्वापि लताया भुजाः शाखास् तदाश्रयः सन् तदाश्रया ये अव्यक्तपदाः कलभाषिता द्विजाः पक्षिणस्तेषु स्पृहा यस्य स तथा प्रसज्जति लतापक्ष्यादिसंरक्षणसंवर्धनादि-कर्मासक्तचित्तो भवति । कदाचित् क्वचित् प्रदेशे हरिचक्रतः सिंहसमूहात् त्रसन् बिभ्यत् तत आत्मरक्षार्थं बककङ्कगृध्रैः सह सख्यं विधत्ते । भवाटव्यां तु लतावत् कोमलायाः स्त्रियो यौ भुजौ तदाश्रयस् ताभ्यामालिङ्गितः सन् तदाश्रया ये पक्षितुल्याः कलभाषिणः पुत्रादयस्तेषु स्पृहा यस्य सः प्रसज्जति स्त्रीपुत्रादिसंरक्षणसंवर्धनादिकर्मासक्तो भवति । कदाचित्तु हरिचक्रतः सिंहसमूहस्थानीयात् कालचक्रात् त्रसन् ततः स्वरक्षार्थं बकादिवद् भक्षणमैथुनादिशीलैः पाषण्डि-पूज्यतामसदेवैः सह तत्सेवाख्यसख्यं विधत्ते । ‘बक भक्षणे’ इति धातोर् मांसभक्षणादि-शीलतामसगणपत्यादिः । ‘ककि लौल्ये’ इति धातोर् मैथुनलोलदुष्टयक्षादिदेवता । ‘गृधु अभि-काङ्क्षायाम्’ इति धातोः रुधिरासवाकाङ्क्षारतभद्रका•यादितामसदेवताः ।’ इति कपाठः) ॥१३॥
प्रकाशिका
लताभुजा लतानां शाखास्तदाश्रयो द्विजस्य पक्षिसमूहस्य यदव्यक्तपदं कलभाषितं तदाश्रयस्तत्रैवासक्तचित्तः सन् प्रसज्जति प्रकर्षेण सक्तो भवतीति वणिक्पक्षे योज्यम् । दार्ष्टान्तिकेतु लतावत् कोमलायाः स्त्रियो यौ भुजौ तदाश्रयस्ताभ्यामालिङ्गितो द्विजस्य लताश्रितपक्षितुल्यस्य स्त्र्याश्रितापत्यादेर्यदव्यक्तपदं कलभाषितं तदाश्रयः प्रकर्षेण सज्जति । इह तत्पोषणादौ सक्तो भवति । परत्र चान्धे तमसि सक्तो भवतीति योज्यम् । हरिचक्रं सिंहसमूह-स्तत्स्थानीयात्कालचक्रात्त्रसन् बिभ्यन् । बकभक्षणे, कंकिलौल्ये ‘‘गृधृ अभिकाङ्क्षायाम्’’ । बकादिवद्भक्षणादिशीलैः पाषण्डिपूज्यैर्देवैः सख्यं तत्सेवारूपम् ॥ १३ ॥
तैर्वञ्चितो हंसकुलं समाविशन्न रोचयंच्छीलमुपैति वानरम् ।
तज्जातिरासेन सुनिर्वृतेन्द्रियः परस्परान्वीक्षणविस्मृतावधिः ॥ १४ ॥
पदरत्नावली
वञ्चितो विपुलदण्डः । अभीष्टफलाभावादिति शेषः । हंसकुलं ब्राह्मणकुलं संन्यासाश्रमं वा हंसानां शीलमुपनयनादिसंस्कारं त्रिषवणस्नानभिक्षावृत्त्यादिकं वा न रोचयन्पथ्यं नेदमिति मन्वानो वानरः, वानेन हिंसया रमत इति शूद्रस्वभावं हिंसालक्षणं, वानेन रमत इति गमनागमनलक्षणं सेवां वा । शूद्रवत्सेवावृत्तिमुपजीव्य वर्तत इत्यर्थः । तज्जातिरासेन शूद्रजातिक्रीडारसेन सुष्ठु निर्वृतानि प्रीतानीन्द्रियाणि यस्य स तथा । परस्परान्वीक्षण– विस्मृतावधिः स्त्रीपुरुषयोरन्योन्यमुखनिरीक्षणे विस्मृतविहितकालमर्यादः(‘तैर्बकादिभिर्वञ्चितः विश्रम्भेण तान् समाश्रयन्नपि रक्षणाभीष्टादिकमप्राप्तः पुनः स्वरक्षणाद्यर्थं हंसकुलं शुद्धान्तः-करणत्वेन राजहंसस्थानीयं ब्राह्मणकुलं समाविशन् प्रविशन् तेषामपि शीलमुपनयनादिसंस्कार-पूर्वकश्रौतस्मार्तप्रकारेण हरेराराधनपरत्वमरोचयन् अपथ्यमिति मन्वानो वानरान् स्वच्छन्दप्रवृत्ति-मद्वानरस्थानीयान् शूद्रानुपैति । तद्दत्तवित्तमुपजीवन्तीति यावत् । तज्जातिरासेन वानर-जातिक्रीडया स्त्रिया मिथुनीभूय कुटुम्बपरिपोषणादिरूपया सुष्ठु निर्वृतानि प्रीतानीन्द्रियाणि यस्य स तथा परस्परोद्वीक्षणेन स्त्रीपुरुषयोः परस्परमुखोद्वीक्षणेन विस्मृतोऽवधिः सिंहसमूहस्थानीय-कालचक्रात् स्वजीवनावधिर्येन स तथाभूतो भवति ।’ इति कपाठः) ॥ १४ ॥
प्रकाशिका
तैर्वञ्चितः सेवायामपि फलाभावात् हंसकुलं शुद्धान्तःकरणत्वेन राजहंस-स्थानीयं ब्राह्मणकुलं प्रविशन् तच्छीलमुपनयनादिसंस्कारं प्राप्य भगवदाराधनरूपं न रोचयन् अनिष्टसाधनं पश्यन् वानरं वैदिकशुद्धिराहित्येन वानरस्थानीयं शूद्रस्वभावमुपैति । तद्वृत्तिमुप-जीवयतीत्यर्थः । तज्जातिरासेन वानरजातिक्रीडया स्त्रियां मिथुनीभूय कुटुंबपोषणादिरूपया सुष्टु निर्वृतानि प्रीतानीन्द्रियाणि यस्य स तथा । परस्परान्वीक्षणं स्त्रीपुरुषयोः परस्परमुखनिरीक्षणं तेन विस्मृतोऽवधिर्जीवनावधिर्येन स तथा ॥ १४ ॥
द्रुमेषु रंस्यन्सुतदारवत्सलो व्यवायदीनो विवशश्चरन्वने ।
क्वचित्प्रमादाद्गिरिकन्दरे पतन्वल्लीं गृहीत्वा गजभीत आस्थितः ॥ १५ ॥
पदरत्नावली
द्रुमेष्वैहिकफलभोगयोग्यलक्षणेषु गृहेषु रंस्यन् रतिं कुर्वन् सुतदारेषु स्निग्धो व्यवायेन मैथुनक्रियया दीनः शोच्यां दशामापन्नोऽत एव विवशो वने संसाराख्ये चरन् भवति । ततः कदाचित्प्रमादाद्भगवत्तत्त्वापरिज्ञानाद्गिरिकंदरवद्भयंकरनरके पतन् वल्लीं जन्मान्तरोपार्जित– पुण्यकर्मलक्षणपाशमवलम्ब्य गजभीतो भयङ्करमृत्युभीतोऽपि (‘द्रुमेषु तत्स्थानीयेषु ऐहिक-फलभोगयोग्यलक्षणेषु गृहेषु रंस्यन् वानरवद् रतिं कुर्वन् सुतदारवत्सलः पुत्रादिषु वात्सल्ययुक्तः व्यवायेन मैथुनक्रियया दीनः शोच्यां दशामापन्नोऽत एव स्वस्य बन्धने प्राप्ते विवशो भवति । क्वचित् प्रमादात् पापकर्माचरणाद् गिरिकन्दरे तत्स्थानीये भयङ्करनरके पतन् गजात् कन्दर-स्थगजस्थानीयमृत्योर्भीतः सन् वल्लीं जन्मान्तरोपार्जितपुण्यकर्मलक्षणपाशं गृहीत्वा अवलम्ब्या-स्थितो भवति ।’ इति कपाठः) ॥ १५ ॥
प्रकाशिका
द्रुमेषु द्रुमवदैहिकार्थेषु गृहेषु वानरवद्रंस्यन्रतिं कुर्वन्सुतदारेषु स्निग्धः । व्यवायदीनः मैथुनक्रियया शोच्यां दशामापन्नोऽत एव विवशो वने संसाराख्ये चरन् भवति । ततः क्वचित्कदाचिद्वानरवदेव गिरिकन्दरवदतिभयङ्करे नरकादिदुःखे पतन्कन्दरस्थगजतुल्या-न्मृत्योर्भीतः सन् स्थितो भवति ॥ १५ ॥
ततः कथञ्चित्प्रतिमुक्त आपदः पुनश्च सार्थं प्रविशत्यरिन्दम ।
अध्वन्यमुष्मिन्नजया निवेशितो भ्रमञ्जनोऽद्यापि न वेद कश्चन ॥ १६ ॥
पदरत्नावली
तत आपदः कथञ्चिन्मुक्तो भूत्वाश्रद्धानः सार्थं सदाचारोपेतवर्णाश्रमं स्थानं प्रविशति । संसाराध्वनि प्रवेशस्य प्रधानकारणमिदमेवेत्याह– अध्वनीति (‘अत आपदः स कथञ्चिद् भयङ्करनरकदुःखमनुभूय विमुक्तोऽपि पुनश्च सार्थं वणिक्समूहस्थानीयं प्रवृत्तिमार्ग-निरतनरलोकं प्रविशति । न तु बहुविधनरकदुःखानुसन्धानेन निवृत्तिमार्गनिरतो भवतीति यावत् । एतादृशसंसाराध्वनि प्रवेशस्य मूलकारणं किमिति चेत् प्रकृतिमायामोहितत्व-मित्याशयेनाह– अध्वनीति ॥ अजया भगवदधीनप्रकृत्या । ‘अजामेकां लोहितशुक्लकृष्णां बह्वीं प्रजां जनयन्तीं सरूपाम्’ इत्यादेः । अरिन्दम इति सम्बोधनेन सांसारिकमोहाद्यन्त-श्शत्रुजये प्रयतस्वेति सूचयति ।’ इति कपाठः) ॥ १६ ॥
प्रकाशिका
ततो नरकभोगानन्तरं वल्लीं गृहीत्वा वल्लीतुल्यं कर्मावलंब्यापदो नरका-त्प्रतिमुक्त उत्थितः पुनः सार्थं वणिक्समूहस्थानीयं नरलोकं प्रविशति । हे अरिंदम । हरिचक्रतस्त्रसन् इत्यादि । वणिक्पक्षे यथा श्रुतमेव योज्यम् । एतादृशसंसाराध्वनि मूलकारणं भगवदज्ञानमेवेत्याह ॥ अध्वनीति । अजया लिङ्गशरीरादिरूपया निवेशितः । येन भगवतेति शेषः । तं न वेद ॥ १६ ॥
अन्योन्यवित्तव्यतिषङ्गवृद्धवैरानुबन्धोऽधिवहन्मिथश्च ।
अध्वन्यमुष्मिन्नुरुकृच्छ्रवित्तबाधोपसर्गैर्विहरन्विपन्नः ॥ १७ ॥
तांस्तान्विपन्नान् स हि तत्र तत्र विहाय जातं परिगृह्य सार्थः ।
आवर्ततेऽद्यापि न कश्चिदत्र वीराध्वनः पारमुपैति योगम् ॥ १८ ॥
पदरत्नावली
अजा कथंकारमज्ञानमुत्पादयतीति तत्राह– अन्योन्येति ॥ अन्योन्य-वित्तव्यतिषङ्गः परस्परद्रव्यदानादानसम्बन्धस्तेन वृद्धो वैरानुबन्धः वैरपरम्परा यस्य स तथा । मिथो विवहन् कुटुम्बपोषणं कुर्वन्, अध्वनि विहरन् क्रीडन्नुरुणा कृच्छ्रेणाप्तं यद्वित्तं तस्य बाधोपसर्गैर्नाशलक्षणोपद्रवैर्विपन्नो विपत्तिं गतः । स एवंविधस्तत्र तत्र मनुष्यादिजन्मनि तांस्तान्विपन्नान् मृतानापदं गतान्वा पित्रादीन् जरसङ्गतान् स्वदेहान् वा विहाय जातं जातमभिनवं परिगृह्याद्याप्यावर्तत इत्यन्वयः । फलितमाह– न कश्चिदिति ॥ हे वीर संसाराध्वनः पारं युज्यते अनेनेति योगो हरिस्तं नोपैतीत्यन्वयः । अत्र करतलामलकवद-परोक्षीकृतश्रीनारायणस्वरूपत्वाद्भरतस्येदृशं ज्ञानं युक्तं तदुक्तम्– ‘ऋते हैहयवैन्यादीनार्षभस्येह कः समः । यस्योपदेशात् सिन्ध्वीशो ददर्श कपिलं प्रभुम् ॥ ’ इत्यतो नात्र शङ्का कार्येति (‘अजया कृतं संसाराध्वनि निवेशनमेव विशदयति– अन्योन्येति ॥ अन्योन्यं वित्तव्यतिषङ्गेन धनकनकादिसाङ्कर्येण वृद्धो वैरानुबन्धो यस्य स तथा । अमुष्मिन्नध्वनि उरुभिः कृच्छ्रैः कष्टैर्वित्तबाधैश्चान्यैरुपसर्गैश्च रागद्व•ादिभिर्योयो विपन्नो विपदं प्राप्तो मृतो वा तास्तान् तत्र तत्र विहाय जातं नवीनं परिगृह्य स हि सार्थो विहरन् अद्यापि आवर्तते संसारावृत्तिमाप्नोति । हे वीर अत्र सार्थो कश्चिदप्यध्वनः संसारमार्गस्य पारं युज्यते अनेनेति योगो हरिस्तं नोपैति । ‘योगो योगविदां नेता’ इत्यादेः ।’ इति कपाठः) ॥ १७-१८ ॥
प्रकाशिका
अजया कृतं संसाराध्वनि निवेशनमेव विशदयति ॥ अन्योन्येति ॥ अन्योन्यवित्तव्यतिषङ्गः परस्परद्रव्यदानादानसम्बन्धस्तेन वृद्धो वैरानुबन्धो वैरपरंपरा यस्य स तथा । एवंविधोऽपि मिथोऽधिवहन्परस्परं कुटुम्बपोषणादिकं कुर्वन्नस्मिन्नध्वनि विहरन् उरु कृच्छ्राणि च वित्तबाधाश्चोपसर्गा वक्ष्यमाणा द्वेषादयश्च तैर्विपन्नो मृतप्रायो भवति ॥ स सार्थो वणिक् तत्र तत्र देशविशेषे विपन्नान्विनष्टांस्तांस्तानर्थान्वस्त्रालङ्कारादीन्विहाय जातं नूतनतया सम्पादितमर्थं परिगृह्याद्याप्यावर्तते । शुद्धमार्गापरिज्ञानेनासाधुवन एव परिभ्रमतीत्याशयः । स सार्थस्तत्स्थानीयः संसारी तत्र तत्र मनुष्यादिजन्मनि तांस्तान्विपन्नान्रोगाद्यापदं गतान्स्वदेहा-न्विहाय जातमभिनवदेहं परिगृह्याद्याप्यवर्तत इति दार्ष्टान्तिके योज्यम् । ततः किमित्यत आह ॥ न कश्चिदत्रेति । हे वीर । अत्र संसाराटव्यां भ्रमन् कश्चिदप्यध्वनः संसारमार्गस्य पारं चरमावधिप्रापकं योगमुपायम् । दार्ष्टान्तिके योगानुशासनविषयं परमात्मानं नापैति ॥१७-१८॥
मनस्विनो निर्जितदिग्गजेन्द्रा ममेति सर्वे भुवि बद्धवैराः ।
मृधे शयीरन्न तु तद्व्रजन्ति यन्न्यस्तदण्डो गतवैरोऽभियाति ॥ १९ ॥
पदरत्नावली
‘सोऽध्वनः पारमाप्नोति’ ‘योगी परं स्थानमुपैति चाद्यम्’ इत्यादेः कश्चि-दध्वनः पारं नोपैतीति सर्वनिषेधः कथं युक्तिमानित्याशङ्क्य भक्तिहीनपुरुषविषयं मयोक्तमतोऽ-न्यत्तद्विषयं गायन् दिग्जयवत्साध्य इति भावेनाह– मनस्विन इति ॥ मनस्विनोऽनलम्बुद्धयो राजानः । निर्जितदिग्गजेन्द्रा इत्यनेनानलम्बुद्धित्वं स्पष्टयति किमनेनेति तत्राह– ममेति ॥ भुवि भूमिविषये ममेयं महीति दुराग्रहग्राहग्रस्तबुद्धित्वेन मिथो बद्धवैराः । अत एव मृधे शयीरन् शत्रुशरशीर्णशरीराः पञ्चत्वमेवाञ्चन्ति, न तु महीं मुञ्चन्तीत्यर्थः । एते तन्न व्रजन्ति चेत् को व्रजतीति तत्राह– यन्न्यस्तदण्ड इति ॥ न्यस्तदण्डो वागादिनिमित्तहिंसारहितो गतवैरः योग्यतानुसारेण निरस्तभूतवैरः । पुरुषो हरेर्यत्पदमभियाति तदित्यन्वयः (‘ननु ‘विज्ञान-सारथिर्यस्तु मनःप्रग्रहवान् नरः । सोऽध्वनः पारमाप्नोति तद् विष्णोः परमं पदम् ॥’ इत्यादिश्रुतेः कश्चिदध्वनः पारं नौपेतीति सर्वनिषेधोक्तिः कथं घटत इति चेत् तादृश-निषेधोक्तिस्तु जितेन्द्रियज्ञानिजनेतरपुरुषानुद्दिश्येत्याशयेनाह– मनस्विन इति ॥ निर्जितमन-स्त्वेन गतवैरो ऽत एव न्यस्तदण्डः सर्वभूतानुद्वेजको ज्ञानिजनो यदध्वपारं भगवत्पदमभियाति तत्तु ते नैव व्रजन्ति । ते के ? ये मनस्विनो ऽजितमनस्कतया स्वमनोनुसारेण प्रवृत्तिमन्तः भुवि भूमौ विद्यमानेषु सर्वेष्वपि बद्धवैरा भूत्वा, कदाचिन् निर्जिता दिग्गजेन्द्रा दिग्गज-सदृशराजश्रेष्ठा यैस्ते तादृशा भूत्वा, क्वचिच्च ममेदं राज्यं ममेदं राज्यमिति युद्धार्थं गताः सर्वेऽपि मृधे युद्धभूमावेव शयीरन् शत्रुशरशीर्णशरीराः पञ्चत्वमेत्य विविधनिरयक्लेशपरम्परां प्राप्नुवन्तीति यावत् ।’ इति कपाठः) ॥ १९ ॥
प्रकाशिका
नन्वेतादृशं योगं शक्तश्चेत्स्वपराक्रमेण प्राप्स्यसीत्यत आह ॥ मनस्विन इति । मनस्विनो दानशूरा धैर्यवन्तो वा । निर्जिता दिग्गजेन्द्रा यैर्ममेयं भूर्ममेयमिति भूविषयभूतायां बद्धो वैरो यैरेतादृशा मृधे युद्धे शयीरन् शत्रुभिर्हता मृता एव भवन्ति न तु तत्तं योगं व्रजन्ति । न्यस्तदण्डो व्यर्थहिंसाशून्यो गतवैरो विष्णुवैष्णवद्वेषरहितो वैराग्यादिमानिति यावत् । अभियाति प्राप्नोति ॥ १९ ॥
रहूगण त्वमपि ह्यध्वनोऽस्य संन्यस्तदण्डः कृतभूतमैत्रः ।
असज्जितात्मा हरिसेवयाऽशितज्ञानासिमादाय तरातिपारम् ॥ २० ॥
पदरत्नावली
एवमुपवर्णितसंसारतरून्मूलनमसुकरमिति न मन्तव्यम् । यतो भगव-त्सेवानिशितज्ञानासिमाददानस्य तव सुशकमित्याह– रहूगणेति ॥ रह त्यागे गणसङ्ख्यान इति संसारं रहयन् गणो ज्ञानं यस्य स तथा तस्य सम्बुद्धिर् हेरहूगणेति । ‘वह प्रापण’ इत्यस्मा-दुत्पन्नवह्निशब्दवदयंशब्दः । संसारातिक्रान्तपारं हरिमुद्दिश्य संसारनदीं तरेत्यन्वयः । लेह्वा-पताति कुण्डृणाच्चेतिवदुपपत्तेः पूर्वोक्तेव योजना (‘भगवदुपासनानिशितज्ञानासिना विना बहुगहनभवारण्यसन्तरणं नैव भवेदित्याशयेनाह– रहूगणेति ॥ सम्यक् न्यस्तस्त्यक्तो भूतेषु दण्डो येन स तथा । न सज्जितो विषयेष्वासक्त आत्मा मनो यस्य स तथा । हरिसेवया श्रवणादिलक्षणया शितं तीक्ष्णीकृतं ज्ञानाख्यमसिमादाय सम्पाद्य गहनभवारण्यं विच्छिद्य अस्याध्वनोऽतिशयितं पारं हरिं तर गच्छ ।’ इति कपाठः) ॥ २० ॥
प्रकाशिका
संसाराध्वगतस्य मम कथं तत्तरणमित्यपेक्षायामाह ॥ रहूगणेति । हि यस्मात्केनचिदेव साध्यं ज्ञानं तस्मात्त्वमपि संसाराध्वनि निवेशितो हरिगुरुकृपापात्रभूतश्च । कृता सज्जनभूतेषु मैत्री येन स तथा । असज्जितात्मा विषयेष्वनभिवेशितचित्तो हरिसेवया श्रवणादिरूपयाऽशितं तीक्ष्णीकृतं ज्ञानाख्यमसिमादायास्याध्वनोऽतिपारं चरमावधिरूपं मोक्ष-मुद्दिश्य संसाराटवीं तरेत्यर्थः ॥ २० ॥
राजोवाच–
अहो नृजन्माखिलजन्मशोभनं किं जन्मभिस्त्वपरैरप्यमुष्मिन् ।
न यद्धृषीकेशयशः कृतात्मनां महात्मानां वः प्रचुरः समागमः ॥ २१ ॥
पदरत्नावली
सर्वेष्वपि जन्मसु नृजन्मैव श्रेयःसाधनमन्यानि भोगनिमित्तानीत्यभि-प्रेत्याह– अहो इति ॥ ननु सर्वस्मात् स्वर्गे जननं शोभनं न किं तत्राह– किं जन्मभि-रिति ॥ कं गुणं निरीक्ष्याक्षिप्यत इति तत्राह– अमुष्मिन्निति ॥ अमुष्मिन् स्वर्गे हृषीकेशस्य यशसा कृतः शिक्षित आत्मान्तःकरणं येषां ते तथा तेषां महात्मनां वो युष्माकं सङ्गमो न प्रचुर इति यस्मात्तस्मात् (‘अतिदुर्लभस्य महत्समागमस्य स्वपुरुषार्थसाधनतया तत्रैवादरेण भाव्यमिति बोधयितुं यस्मिन् देहे महतां प्रचुरः समागमो भवति स एव सर्वजन्मसु वरिष्ठ इत्यभिष्टौति– अहो इति ॥ यद् यदि हृषीकेशस्य ‘हृषीकाणीन्द्रियाण्याहुस्तेषामीशो यतो भवान् । हृषीकेशस्ततो विष्णुः’ इत्युक्तरीत्या सर्वेन्द्रियनियामकस्य हरेर्यशसि कृतः स्थापित आत्मा मनो यैस्तेषां महात्मनां वो युष्माकं प्रचुरः समागमस्तर्हि एतदेव नृजन्म अखिलजन्मसु शोभनं वरिष्ठम् । अपरैर्भाेगार्थं प्राप्तैर्जन्मभिः किं प्रयोजनम् ? व्यर्थानि तानीति यावत् । अमुष्मिन्नपि यदि वः प्रचुरः समागमो न भवेत् तर्हीदमप्यशोभनमेव । यदि चैवमपीदं शोभनमित्युुच्यते तर्हि महात्मनां प्रद्वेष एव मूलं दृश्यते । तु इतोऽपि विशेषेण अपरैर्जन्मभिः किमपराद्धमहो इति ।’ इति कपाठः) ॥ २१ ॥
प्रकाशिका
अखिलजन्मसु शोभनं नृजन्मैवामुष्मिन्नपि स्वर्गेऽप्यपरैर्भोगार्थं प्राप्तैर्जन्मभिः किं, न किमपि प्रयोजनम् । यद्यत्र हृषीकेशस्य हरेर्यशसि कृतः स्थापित आत्मा मनो येषां तेषां वः प्रचुरः समागमो न तैः किमित्यर्थः ॥ २१ ॥
न ह्यद्भुतं त्वच्चरणाब्जरेणुभिर्हतांहसो भक्तिरधोक्षजेऽमला ।
मौहूर्तिकाद्यस्य समागमाच्च मे दुस्तर्कमूलोऽपहतोऽविवेकः ॥ २२ ॥
पदरत्नावली
नन्वस्मत्समागमेन तव किं फलमभूदिति तत्राह– न हीति ॥ मे अधोक्षजेऽमला भक्तिरभूदित्येतदद्भुतं न हीत्यन्वयः । हिशब्देनानुभाविकार्थमाह– कुत एत-दिति ॥ तत्राह– मौहूर्तिकादिति ॥ यस्य तव मौहूर्तिकान् मुहूर्तकालभवात् समागमान् मे अविवेकोऽपहतो नष्ट इत्ययमर्थो ममानुभाविक इत्यर्थः । अस्मद्दत्तधनोपजीवनेनास्मच्छिक्षायोग्या एत इति दुस्तर्कः दुष्टा युक्तिर्मूलं यस्य स तथा, दुस्तर्कं मूलयति प्रतिष्ठापयतीति वा । मूलप्रतिष्ठायामिति धातुः (‘प्रचुरस्य महत्समागमस्य पुरुषापेक्षिताशेषार्थसाधकत्वं कैमुत्यन्यायेन सिद्ध्यति । यतो मुहूर्तमात्रं महत्समागमादेव पुरुषार्थसिद्धिर्दृष्टेत्याशयेनाचष्टे– न हीति ॥ मौहूर्तिकान् मुहूर्तामात्रमवस्तिताद् यस्य महच्छिखामणेस्तव समागमान् मे मम दुस्तर्कमूलः श्रमादिकार्यान्यथानुपपत्त्या जीवानामेव भरणादिकर्तृत्वं वाच्यम् । अन्यथा तन्न स्यादित्यादिकु-तर्कमूलोऽविवेको जीवा एव स्वातन्त्र्येण कर्तार इत्याद्यन्यथामतिरूपोऽपहतो विनष्टोऽभूत्, तादृशस्य तव प्रचुरसमागमवतश् चरणाब्जरेणुभिः सुचिरं धृतैर्हतमंहो यस्य तस्य पुंसोऽधोक्षजे अमला काम्यफलाभिसन्धिरहिता निर्मला भक्तिर्मुक्तिदायिनीत्येतदद्भुतमाश्चर्यं नेत्यर्थः । हिशब्देन ज्ञानिभिरनुभूतमिदमिति सूचयति ।’ इति कपाठः)॥ २२ ॥
प्रकाशिका
अस्मत्समागमेनापि किं फलमित्यपेक्षायां हरिभक्त्यादिकमेव फलमित्या-शयेन नित्यं भगवच्चरणनिषेवया हरिभक्त्यादिकं भविष्यतीति नाश्चर्यं यस्मान्मुहूर्तमात्रसेवयाऽपि ममाज्ञानादिनाशो जात इत्याह ॥ न हीति । नित्यमुपासितैस्तच्चरणाब्जरेणुभिर्हतमंहो यस्य तस्याधोक्षजेऽमला भक्तिर्भविष्यतीत्यद्भुतमाश्चर्यं न हि । यस्मादस्य मौहूर्तिकान्मुहूर्तमात्रं भव-त्समागमादपि दुस्तर्कमूलः श्रमादिकार्यान्यथाऽनुपपत्त्या जीवानामेव भरणगमनादिकर्तृत्वं वाच्यम् । अन्यथा तन्न स्यादिति तर्कमूलोऽविवेको जीवा एव स्वातन्त्र्येण कर्तार इत्येवं-रूपोऽपहतो नाशितः ॥ २२ ॥
नमो महद्भ्योऽस्तु नमः शिशुभ्यो नमो युवभ्यो नम आवटुभ्यः ।
ये ब्राह्मणा गामवधूतलिङ्गाश्चरन्ति तेभ्यः शिवमस्तु राज्ञाम् ॥ २३ ॥
पदरत्नावली
अतिप्रशंसयास्मानपहससि त्वमित्याशङ्क्यापराधं क्षमापयन्निव नमस्करोति– नम इति ॥ आवटुभ्यः वटुपर्यन्तं गां भूमिं राजभ्य इति चतुर्थीमप्रयुज्य राज्ञा-मित्यनया षष्ठ्यात्मन एवाशिषमाकाङ्क्षत इति (‘स्वदृष्टान्तेनान्येषामपि राज्ञामज्ञानकृतब्रह्मज्ञा-न्यवज्ञोद्भवमहानर्थपरम्परां सम्भाव्य तत्परिहारार्थं निगूढतया नानारूपेण भुवि सञ्चरतो ब्रह्म-ज्ञानिनः सम्प्रार्थयते– नमो महद्भ्य इति ॥ आवटुभ्यः वटवो ब्रह्मचारिणस्तानभिव्याप्य सर्वेष्वाश्रमेषु ये ब्रह्मज्ञानिनस्तेभ्यः सर्वेभ्यो नमोऽस्तु । ये ब्राह्मणा ब्रह्मज्ञानिनो ऽवधूतं विगतं लिङ्गं ब्राह्मणचिह्नमेभ्यस्ते गां भूमिं चरन्ति तेभ्यो राज्ञां शिवमनर्थनिवृत्तिलक्षणमस्तु । ‘आयुः श्रियं यशो धैर्यं लोकानाशिष एव च । हन्ति श्रेयांसि सर्वाणि पुंसो महदतिक्रमः ॥’ इत्यादेः ।’ इति कपाठः)॥ २३ ॥
प्रकाशिका
स्वदृष्टान्तेनेतरेषामपि राज्ञामेतादृशावधूततावज्ञानोद्भवमपराधं सम्भाव्य तत्परिहारार्थं तान्सर्वान्नमति ॥ नमो महद्भ्य इति । आवटुभ्यो वटूनभिव्याप्य ये ब्राह्मणा अवधूतवेषा गां भूमिं चरन्ति तेभ्यः सर्वेभ्यो नम इत्यर्थः । राज्ञां तदवज्ञानोत्थापराधवतां शिवमस्तु । मत्कृतनमनेनेति शेषः ॥ २३ ॥
श्रीशुक उवाच–
इत्येवमुत्तरामातः स वै ब्रह्मर्षिसुतः सिन्धुपतेः परमात्मसत्तत्त्वमविगणित-परमानुभावः ॥ परमकारुणिकतयोपदिश्य रहूगणेन सकरुणमभिवन्दितचरण-कमलः पूर्णार्णव इव निभृतकरणोर्म्याशयो धरणीमिमां विचचार ॥ २४ ॥
पदरत्नावली
रहूगणस्य समग्रानुग्रहं कृत्वा ब्रह्मर्षिसुतेन परं किमकारीति तत्राह– इतीति ॥ इति समाप्य परम् आत्मसत्तत्वं परमात्मनो निर्दोषस्वरूपम् अविगणितो सङ्ख्यातः परमानुभावो यस्य स तथा । निभृतकरणोर्म्याशयः स्तिमितेन्द्रियाख्याभिप्रायः । यद्वा निश्चलेन्द्रियाख्यतरङ्गस्थानः स्ववशीभूतेन्द्रियतरङ्ग इत्यर्थः । ‘स्थानेऽभिप्राय आशयः’ इति (‘उत्तरा माता यस्य तत्सम्बोधनम् । अविगणितोऽसङ्ख्यातः परानुभाव उत्कृष्टप्रभावो यस्य स तथा । सकरुणं सदैन्यम् । निभृता वशीकृताः करणोर्मय इन्द्रियाख्यतरङ्गा आशयोऽन्तःकरणं च येन स तथा ।’ इति कपाठः) ॥ २४ ॥
प्रकाशिका
उत्तरा माता यस्य तस्य सम्बोधनं हे उत्तरामातः । आत्मनः परमात्मनः सत्तत्त्वं निर्दोषस्वरूपमविगणितोऽसङ्ख्यातः परमानुभावो यस्य स तथा । निभृता वशीकृताः करणोर्मय इन्द्रियाख्यतरंगा आशयोऽन्तःकरणं च येन स तथा ॥ २४ ॥
सौवीरपतिरपि सुजनसमवगतपरमात्मसत्तत्व आत्मन्यविद्याऽध्यारोपितां च देहात्ममतिं विससर्ज । एवं नृप भगवदाश्रितानुभावः ॥ २५ ॥
पदरत्नावली
सुजनाज्ज्ञानिजनपूजित जन्मनो ब्राह्मणात् समवगतपरमात्मसतत्वः सम्यक् ज्ञातपरमात्मस्वरूपः । आत्मनि स्वस्मिन् परमात्मविषये वाऽविद्यया अज्ञानेन भगवद्भक्तानामपीदृशमाहात्म्यं किं पुनः श्रीनारायणस्येत्युपसंहारमुखेन नृपमभिमुखीकरोति– एवमिति ॥ माहात्म्योपलक्षणकीर्तिग्रथितान् श्लोकानित्यर्थः (‘सुजनाज् ज्ञानिजनादृतब्राह्मणात् सम्यगवगतं परमात्मसुतत्वं येन स तथा । हे नृप भगवदाश्रितो यो भरतस्तदाश्रितो यो रहूगणस्तस्यानुभावः प्रभाव एवं हि ।’ इति कपाठः) ॥ २५ ॥
प्रकाशिका
आत्मनि स्वात्मनि देहात्ममतिं देहेऽहंममेत्यभिमानम् ॥ २५ ॥
तस्येमान् श्लोकान् गायन्ति- आर्षभस्येह राजर्षेर्मनसाऽपि महात्मनः ।
नानुवर्त्मार्हति नृपो मक्षिकेव गरुत्मतः ॥ २६ ॥
तात्पर्यम्
‘ऋते हैहयवैन्यादीनार्षभस्येह कः समः । यस्योपदेशात्सिन्ध्वीशो ददर्श कपिलं प्रभुम्’’ इति च ॥ २६ ॥
पदरत्नावली
आर्षभस्य ऋषभपुत्रस्य भरतस्यानुवर्त्म लोकशास्त्रयोरनुकूलमार्गम् । (‘मक्षिका यथा गरुत्मतो गरुडस्य वर्त्म अनु अनुगन्तुं नार्हति तथा महात्मनो राजर्षेरार्षभस्य ऋषभपुत्रस्य भरतस्य वर्त्म अन्यः पुमानिह भुवि मनसाऽप्यनुगन्तुं नार्हति । किमुत भरतकृत-महत्कर्माणि कायेनानुष्ठातुं न कश्चित् प्रभवतीति । अत्र कार्तवीर्यार्जुनपृथ्वाद्युत्तमपुरुषान् ऋते स्वावरपुरुषापेक्षया भुवि भरतसमो महच्छिखामणिर्नासीदिति ज्ञेयम् । तदुक्तं गारुडे ‘ऋते हैहवैन्यादीनार्षभस्येह कः समः । यस्योपदेशात् सिन्ध्वीशो ददर्श कपिलं विभुम् ॥’ इति कपाठः) ॥ २६ ॥
प्रकाशिका
तस्य भरतस्यार्षभस्य ऋषभपुत्रस्यानुवर्त्मानुसृत्य विद्यमानं मार्गम् । अत्रार्षभस्येह राजर्षेरिति श्लोके भरतस्य समः कोऽपि राजा नास्तीत्युच्यत इति प्रतीतिवारणाय विवक्षितं तात्पर्यं प्रमाणेनैवाह ॥ ऋते हैहय इति । हैहयः कार्तवीर्यार्जुनो वैन्यः पृथुः । आदिशब्दात्प्रियव्रतादयोऽपि ग्राह्याः । तथा च कर्मदेवसमानान् राज्ञो ऋते को नृप आर्षभस्य समो न कोऽपीत्यर्थः । एवं मूले नृपपदं सर्वराजपरमिति भावः ॥ २६ ॥
यो दुस्त्यजान् दारसुतान् सुहृद्राज्यं हृदिस्पृशम् ।
जहौ युवैव मलवदुत्तमश्लोकलालसः ॥ २७ ॥
पदरत्नावली
हृदिस्पृशं हृदयङ्गमं मलवद् विष्ठावत् । (‘‘उत्तमश्लोके भगवति लालसा महाभिलाषो यस्य स तथा’’ इति कपाठः) ॥ २७ ॥
प्रकाशिका
हृदिस्पृशं हृदयंगमं मलवद्विष्ठावत् ॥ २७ ॥
यो दुस्त्यजान् क्षितिसुतस्वजनार्थदारान् प्रार्थ्यां श्रियं सुरवरैः सदयावलोकैः ।
नैच्छन्नृपस्तदुचितं महतां मधुद्विट्सेवानुरक्तमनसामभवोऽपि फल्गुः ॥ २८ ॥
पदरत्नावली
हरिमाहात्म्यप्रकटनाय पुनरुक्तं करोति– यो दुस्त्यजनिति ॥ एतत्सर्वं नैच्छदिति यत्तदुचितम् । तथाहि मधुद्विषो हरेः सेवायामनुरक्तधियां महतामभवो मोक्षोऽपि फल्गुर् अल्प आदरणीयो न भवतीत्यर्थः । सेवाया अलम्बुत्ध्यगोचरत्वात् । अत्र तात्पर्यार्थस्तु ऋते हैहयवैन्यादीनित्यादिप्रमाणेन पूर्वोक्त इति । (यो नृपो भरतो दुस्त्यजान् क्षित्यादीन् नैच्छदिति यत् तदुचितम् । यतो मधुद्विषो हरेः सेवायामनुरक्तं मनो येषां तेषां महतामभवो मोक्षोऽपि फल्गुरल्पः । आदरणीयो न भवतीति यावद् इति कपाठः) ॥ २८ ॥
प्रकाशिका
प्रार्थ्यां श्लाघनीयाम् । अत एव सदयावलोकैरित्युक्तं नैच्छदिति यत्तदुचितम् । तस्मादभवो मोक्षोऽपि फल्गुस्तुच्छ आदरणीयो न भवतीत्यर्थः ॥ २८ ॥
यज्ञाय धर्मपतये विधिनैपुणाय योगाय साङ्ख्यशिरसे प्रकृतीश्वराय ।
नारायणाय हरये नम इत्युदारं गायन्मृगत्वमपि यः समुदाजहार ॥ २९ ॥
तात्पर्यम्
युज्यते अनेनेति योगो हरिः । साङ्ख्यशिरसे उत्तमज्ञानस्वरूपाय ॥ २९ ॥
पदरत्नावली
यज्ञाय इज्याय धर्मपतये सकलैरनुष्ठीयमानपुण्यस्वामिने विधौ कर्मणि नैपुणाय कुशलबुद्ध्युपेताय योगाय कर्मकरणोपायज्ञाय साङ्ख्यशिरसे उत्तमज्ञानस्वरूपाय शिरः पूर्वनिपातं कृत्वा साङ्ख्यपदस्य ज्ञानार्थत्वेनायमर्थः सिध्यति । अस्येश्वरत्वं स्वत एव न तु कृत्रिमं रुद्रादेरिवेत्यतः प्रकृतीश्वराय लक्ष्मीपतय इति वा । नारायणाय हरये नम इति मन्त्रद्वयसूचनाय प्रसिद्धनामोपादानं कृतम् अपरोक्षज्ञानिनो भरतस्य मृगत्वं घटितवानित्यतो वा योगाय समुदाजहार उत्ससर्ज । (यज्ञाय इज्याय, धर्मपतये धर्मसंरक्षकाय, विधौ विहितकर्मा-नुष्ठाने नैपुणं नैपुण्यं यस्मात् तस्मै, योगाय सर्वेन्द्रियप्रेरकाय । युज्यते मनआदीन्द्रियं स्वविषयैः सम्बध्यतेऽनेनेति योगः । साङ्ख्यशिरसे उत्तमज्ञानस्वरूपाय । ‘शिखरे चोत्तमे शीर्षे शिर-श्शब्दोऽभिधीयते’ इत्युत्पलमाला । विशेषणस्य उत्तमार्थकशिरश्शब्दस्य परनिपातः । प्रकृतीश्वराय लक्ष्मीपतये । हरति भक्तचित्तस्थः सन् नानाविधान् कलिकृतदोषान् परिहरतीति हरिस्तस्मै । ‘पुंसां कलिकृतान् दोषान् द्रव्यदेशात्मसम्भवान् । सर्वान् हरति चित्तस्थो भगवान् पुरुषोत्तमः ॥’ इत्यादेः । नारायणाय कल्याणगुणगणार्णवाय नम इत्युदारं गायन् मृगत्वमपि समुदाजहार समुत्ससर्ज इति कपाठः) ॥ २९ ॥
प्रकाशिका
यज्ञायेज्याय धर्मपतये पुण्यस्वामिने । विधौ विहितकर्मानुष्ठाने नैपुणं कुशलं यस्मात्तस्मै । योगाय सांख्यशिरस इति पदद्वयस्य प्रकृतसङ्गतमर्थं दर्शयति ॥ युज्यतेऽ-नेनेति । मन आदीन्द्रियं युज्यते स्वविषये सम्बध्यतेऽनेनेत्यर्थः । मन आदीन्द्रियं यथा स्वविषयकं स्यात्तथा प्रेरकायेत्यर्थः । शिरःपदमुत्तमार्थकम् । तस्य कर्मधारयसमासे परनिपातः । सांख्यपदं ज्ञानवाचकमित्यभिप्रेत्योक्तमुत्तमज्ञानस्वरूपायेति । कर्मधारयसूचनाय स्वरूपाये-त्युक्तम् । प्रकृतीश्वराय लक्ष्मीपतये उदारं यथा स्यात्तथा गायन्मृगत्वमपि मृगजन्मापि समुदा-जहार सम्यगुत्कृष्टतया स्वीकृतवानित्यर्थः ॥ २९ ॥
इदं भागवतसभाजितावदातगुणकर्मणो राजर्षेर्भरतस्यानुचरितं स्वस्त्ययन-मायुष्यं धन्यं यशस्यं स्वर्ग्यमापवर्ग्यं चानुशृृणोत्याख्यास्यत्यभिनन्दति च सर्वा ह्येवाशिष आत्मत आशास्ते न काश्चन परत इति ॥ ३० ॥
॥ इति श्रीमद्भागवतमहापुराणे पञ्चमस्कन्धे त्रयोदशोऽध्यायः ॥
पदरत्नावली
आत्मन एव सर्वा आशिष आशास्ते प्राप्तुमिच्छति प्राप्नोति चेति । हिशब्दश्चार्थे इति शब्दो भरताख्यानसमाप्त्यर्थ इति । (भागवतैः सभाजितानि सत्कृानि अवदातानि निर्मलानि गुणकर्माणि यस्य तस्य राजर्षेर्भरतस्येदमनुचरितं योऽनुशृणोति आख्यास्यति अभिनन्दति च स आत्मनः परमात्मनो हरेरेव सर्वा आशिषः कामान् आशास्ते प्राप्तुमिच्छति प्राप्नोति च । परतो हरेरन्यस्मात् । स्वस्त्ययनम् उत्तमापत्योत्पत्त्यादिनिमित्तम् । आयुष्यमायु-र्वुद्धिकम् । धन्यं धन्यताजनकम् । हिशब्देन महात्मनामिदमनुभवसिद्धमिति सूचयति । इतिशब्दो भरताख्यनसमाप्त्यर्थक इति कपाठः । अत्र ‘तत्रेमान् श्लोकानुपगायन्ति’ इति २६ आरभ्य ‘न काञ्चन परतः’ इति ३० श्लोकपर्यन्तं श्लोकाः कपाठे चतुर्दाशाध्यायस्य अन्तिमभागे वर्तन्ते) ॥
॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुकृतायां पञ्चमस्कन्धे त्रयोदशोऽध्यायः ॥
प्रकाशिका
भागवतैः सभाजितानि पूजितान्यवदातानि निर्मलानि गुणकर्माणि यस्या-युष्यमायुष्यवर्धकं धन्यं धन्यताप्रदमात्मतः परमात्मत एव सर्वाशिष आशास्ते प्राप्तुमिच्छति । हरेः स्वातन्त्र्यं सम्यगवगच्छतीत्याशयः । हिशब्देन श्रवणादिमतामिदमनुभवसिद्धमिति सूचयति ॥ इतिशब्दो भरताख्यानसमाप्त्यर्थकः ॥ ३० ॥
॥ इति श्रीमद्वेदेशपूज्यपादशिष्येण यदुपतिना विरचितायां
श्रीमद्भागतटिप्पण्यां प्रकाशिकायां पञ्चमस्कन्धे त्रयोदशोऽध्यायः ॥ ५-१३ ॥