१२ द्वादशोऽध्यायः

नमो नमः कारणविग्रहाय स्वरूपतुच्छीकृतविग्रहाय

॥ अथ द्वादशोऽध्यायः ॥

रहूगण उवाच–

नमो नमः कारणविग्रहाय स्वरूपतुच्छीकृतविग्रहाय ।

नमोऽवधूतद्विजबन्धुलिङ्गनिगूढनित्यानुभवाय तुभ्यम् ॥ १ ॥

पदरत्नावली

जन्माद्यस्य यतोऽन्वयादित्यत्र कारणत्वं हरेरुक्तं तदधुना हरेरेव नान्यस्येति सयुक्तिकमस्मिन्नध्याये निरूप्यते तत्रादौ ब्राह्मणस्तुतिव्याजेन तदन्तर्यामिणं (‘अनितरसाधारणसद्गुणसागरस्य हरेर्जगज्जन्मादिकारणत्वोपासनेन विना सुजनानां जननमरण-निरयादिक्लेशमयसंसारनिरसनं न भवेदेवेति भावेन’ कपाठः) स्तौति– नम इति ॥ लोकानुग्रह-लक्षणकारणाद्विग्रहो यस्य स तथा तस्मै । अज्ञानान्धस्य लोकस्य ज्ञानांजनदानाय देहं धृतवत इत्यर्थः । स्वरूपापरोक्षज्ञानदीपेन तुच्छीकृतो धिक्कृतो विग्रहः पाञ्चभौतिको देहो यस्य स तथा तस्मै । किमर्थं तर्हि स्वसामर्थ्यं न प्रकाश्यत इति तत्राह– अवधूतेति ॥ अवधूतश्चासौ द्विजबन्धुर्ब्राह्मणाभासस् तस्य लक्षणेन निगूढः संवृतो नित्यानुभवः स्वरूपसामर्थ्यं यस्य स तथा तस्मै । अवधूतद्विजा एव बन्धवो येषां ते तथा तेषां लिङ्गेनेति वा । अवधूत तुभ्यं नम इति वा । तुभ्यं तवान्तर्यामिणे नमः । किं विशिष्याय कस्यानन्दस्यारणं शरणं विग्रहो यस्य कमेवारणं विग्रहो यस्येति वा स तथा तस्मा आनन्दमूर्तय इत्यर्थः । क्षितिभारासुरनिरसन– लक्षणकारणमुद्दिश्य विग्रहो यस्य स तथा । असुरनिरासाय स्वीकृतदेहायेत्यर्थः । ‘यदा यदा हि धर्मस्य ग्लानिर्भवति भारत’ इत्यादेः । माययाकष्टो रणो येषां ते कारणा असुरास् तैर्विग्रहो विरोधो यस्य स तथा तस्मै । ‘मायाभिरुत्सिदृक्षत इन्द्राद्यामारुरुक्षतो ऽवदस्यूंरधूनुथा’ इति श्रुतेः । स्वरूपेण चिदानन्दलक्षणाकारेण दूरीकृतप्राकृतदेहाय द्विजबन्ध्विति भावप्रधानो निर्देशः । द्विजानां बन्धुस् तस्य भावो द्विजबन्धुत्वं तदेव लिङ्गं यस्य स तथा । नितरां गूढश्च्छन्नो लोकापेक्षया प्रकृत्या पिहितो नित्यानुभवो यस्य स तथा । द्विजबन्धुलिङ्गश्चायं निगूढनित्यानुभवश्च तस्मै ॥ १ ॥

प्रकाशिका

करिष्यमाणस्य स्वप्रश्नस्योत्तरदानाय ब्राह्मणं स्तुवन्नमति ॥ नम इति । त्रिरुक्तिरादरार्था । प्रारब्धकर्मरूपेणैव कारणेन विग्रहो देहो यस्य तस्मै जीवन्मुक्तायेत्यर्थः । स्वरूपेण परमानन्दानुभवेन तुच्छीकृतः विग्रहो येन तस्मै स्वरूपभूतानन्दानुभवेन त्यक्तदेहाभि-मानायेत्यर्थः । हे अवधूत । द्विजबन्धुलिङ्गं ब्राह्मणाभासचिह्नम् । नित्यः परमात्मा तस्यानुभवो द्विजबन्धुलिङ्गेन गूढो नित्यानुभवो येन तस्मै ॥ १ ॥

ज्वरामयार्तस्य यथाऽगदं सन्निदाघदग्धस्य यथा हिमाम्भः ।

कुदेहमानाहिविनष्टदृष्टे१र्ब्रह्मन्वचस्तेऽमृतमौषधं मे ॥ २ ॥

पदरत्नावली

किं फलरत्नमुपलभ्य स्तौषीति तत्राह– ज्वरेति ॥ निदाधेन औष्ण्येन दग्धस्य तप्तस्य कुदेहमानाहिसुदष्टदृष्टेरिति पाठः, दुष्टदेहाभिमानाख्यसर्पेण सम्यङ्नष्टज्ञानचक्षुषो मे अमृतममृतकल्पं सम्यग् उषो दाहो येषां ते औषास्तान् दधाति पुष्णातीत्यौषधम्(‘तद्वचः स्तौति– ज्वरेति ॥ ज्वरामर्यातस्य ज्वरलक्षणरोगार्तस्य यथा सन् निर्दुष्टमगदमौषधं, यथाच निदाघेन सूर्वकिरणौष्ण्येन दग्धस्य सन्तप्तस्य हिमाम्भस्तथा कुदेहमानाख्यसुदष्टदृष्टेः कुत्सित-देहाभिमानाख्यसर्पेण सुदष्टज्ञानचक्षुषो मे ते वचोऽमृतममृतकल्पमौषधं सुज्ञानोज्जीवनकरम्’ इति कपाठः) ॥ २ ॥

प्रकाशिका

तद्वाक्स्तुतिव्याजेन पुनः स्तौति ॥ ज्वरेति । ज्वरलक्षणरोगार्तस्येत्यर्थः । सत् स्वादु निर्दुष्टमिति वा । अगदमौषधम् । निदाघेन सूर्यकिरणौष्ण्येन दग्धस्य तप्तस्य हिमांभः शीतलमुदकम् । कुदेहे कुत्सितदेहे मानोऽभिमानः स एवाहिः सर्पस्तेन विशेषेण नष्टा नाशिता दृष्टिस्तत्त्वज्ञानं यस्य तस्य मे ते वचोऽमृतममृततुल्यमौषधं ज्ञानोज्जीवनकरमित्यर्थः ॥ २ ॥

तस्माद्भवन्तं मम संशयार्थं पृच्छामि पश्चादधुना सुबोधम् ।

अध्यात्मयोगग्रथितं पुरोक्तमाख्याहि कौतुहलचेतसो मे ॥ ३ ॥

पदरत्नावली

किमत इति तत्राह– तस्मादिति ॥ यस्माद्भवद्वचनामृतं संसाराख्य-रोगोन्मूलनकरं तस्मात्संशयार्थं यद्वा संशयनिवृत्त्यर्थं कोटीद्वयारूढमर्थं ‘मशकार्थो धूमः’ इतिवद् वक्तव्यत्वे निमित्तमाह– पश्चादिति ॥ अधुना त्वत्सन्निधौ सुबोधं पश्चात्त्वत्सन्निधि-मन्तरेणासुबोधं ज्ञातुमशक्यं यस्मात्तस्मादिति शेषः । किमुक्तार्थे प्रश्न उतार्थान्तर इति विकल्पो मा भूदित्याह– अध्यात्मेति ॥ अध्यात्मयोगेन परमात्मज्ञानेन ग्रथितं बद्धं यत्पुरा तवोक्तं वचनं तस्याभिप्रायं ममाख्याहि विस्तृत्य वदेत्यन्वयः (‘किं तत इत्यत आह– तस्मादिति ॥ यस्माद् भवद्वचनामृतं घोरसंसाररोगोन्मूलनकरं तस्मान्मम संशयार्थं संशयनिवृत्त्यर्थं पश्चात् पुनः प्रक्ष्यामि । ‘मशकार्थो धूमः’ इतिवद् अर्थशब्दोऽत्र निवृत्त्यर्थः । ‘जानन्तोऽपि विशेषार्थज्ञानाय स्थापनाय वा । पृच्छन्ति साधवो यस्मात् तेन पृच्छसि पार्थिव’ इत्याग्नेयोक्तरीत्या विशेषार्थाव-धशरणार्थमेवं राज्ञः प्रश्न इति बोध्यम् । अधुना तु अध्यात्मयोगेन परमात्मविषयकध्यानादि-लक्षणेन ग्रथितं युक्तं पुरा त्वयोक्तं यत् तद् वचनं कौतूहलचेतस आश्चर्ययुक्तचित्तस्य मे सुबोधं यथा स्यात् तथा आख्याहि व्याख्याहि ।’ इति कपाठः) ॥ ३ ॥

प्रकाशिका

तस्मात्त्वद्वचनस्यामृतौषधत्वात्संशयार्थम् । अर्थशब्द आवर्तनीयः । तत्राद्यो निवृत्तिवचनः संशयनिवृत्त्यर्थमित्यर्थः । अधुना पूर्वमहं पृच्छामि । पश्चात्सुबोधं यथा स्यात्तथाऽऽख्याहीत्यन्वयः । किं पृच्छसीत्यपेक्षायामाह । अध्यात्मेति । अध्यात्मनः परमात्मनो योगो ध्यानादिलक्षणो येषु ग्रन्थेषु तथा तेषु ग्रन्थेषु प्रतिपादितं पुरोक्तं पूर्वप्रतिपादितं प्रमेयं पृच्छामीत्यन्वयः । कौतूहलं चेतो यस्य तस्य मे ॥ ३ ॥

यदाह योगेश्वर दृश्यमानं क्रियाफलं सद्व्यवहारमूलम् ।

न ह्यञ्जसा तत्त्वविमर्शनाय भवानमुष्मिन्भ्रमते मनो मे ॥ ४ ॥

पदरत्नावली

किं तदुक्तं तदाह– यदाहेति ॥ हे योगेश्वर दृश्यमानं प्रत्यक्षादि-प्रमाणैर्ज्ञायमानं क्रियाफलं भरणगमनक्रियाजनितं भर्तृत्वगन्तृत्वलक्षणं फलं लौकिकम्, ‘अपाम सोमम्’ इत्यादिना निरूप्यमाणं सोमपानादिक्रियाजातममृतत्वादिकं फलं वैदिकं च सद्व्यवहार-मूलबाधिताभिज्ञादिव्यवहारकारणम्(‘बाधितार्थक्रियाकारणम्’ इति कपाठः) अञ्जसा मुख्यया वृत्त्या तत्त्वविमर्शनाय तत्त्वनिर्णयाय न भवति स्थायित्वेनैकनिष्ठं न भवतीति यद्वचनं ‘भर्तुः स मे स्याद्यादि वीर भारः’ ‘न सूरयो हि व्यवहारमेनं तत्त्वावमर्शेन सहामनन्ति’ ‘उरुगार्ह-मेधविता न विद्या’ इत्यादिरूपं भवानाह अमुष्मिन् वचसि मे मनो भ्रमते अस्य वचन-स्यार्थोऽयमेव नान्य इति सुस्थिरस्थितिं न लभते । सा यथा स्यात्तथाख्याहीति भावः । भ्रमत इत्यात्मनेपदप्रयोगेण सकृन्निगदितनिगदाभिप्रायापरिज्ञानेनात्मनोऽनुत्तमाधिकारित्वं तत्त्वोपदेष्टृ-ज्ञानिसद्भावे तस्मात्स्वयोग्यं सविशेषं ज्ञातव्यमन्यथाऽनर्थः स्यादिति श्रोतृजनशिक्षार्थं चेति सूचयति ॥ ४ ॥

प्रकाशिका

पूर्वोक्तमनूद्य तस्य संदिग्धतां दर्शयति ॥ यदाहेति ॥ हे योगेश्वर भवान् । प्रत्यक्षादिना दृश्यमानक्रियाया भरणगमनादिरूपायाः फलं श्रमादिकं सद्व्यवहारादि-मूलमबाधितार्थक्रियाकारणम् । अंजसा तत्त्वविमर्शनाय न हीत्यर्थकं यन्न तत्त्वावमर्शेन सहामनन्तीति वचनमाह अमुष्मिन्वचने मे मनो भ्रमते संदिग्धं भवति । हरिरेव मुख्यतो भरणादिकर्ता न जीव इत्येवं रूपं तदभिप्रेतमर्थं न निश्चिनोमि । अतः सुबोधमाख्या-हीत्यन्वयः ॥ ४ ॥

ब्राह्मण उवाच–

अयं जनो नाम चलन्पृथिव्यां यः पार्थिवः पार्थिव कस्य हेतोः ।

तस्यापि चाङ्घ्र्योरधि गुल्फजङ्घाजानूरुमध्योरशिरोधरांसाः ॥ ५ ॥

**तात्पर्यम् **

यस्मान्मूलकारणभूतो विष्णुरेव । अतो मुख्यं सर्वकारणत्वं तस्यैव । मूलाश्रयविवक्षा यदि न स्यात्कुतः पृथिव्यां चलतीति व्यवहारः ? यतोऽवान्तराश्रया बहवः सन्त्यङ्घ्र्याद्याः ॥ ५ ॥

पदरत्नावली

‘भर्तुः स मे स्याद्यदि वीर भारः’ इत्यादिनोच्यमानं भरणादिकमन्तर्यामि-हरिनियतमित्येव मुमुक्षुणा स्मर्तव्यम् । ‘एवं परो भगवान्’ इत्युक्तेः । यतो ‘अक्षरमम्बरान्त-धृतेः’ ‘य उ त्रिधातु पृथिवीमुत द्यामेको दाधार भुवनानि विश्वा’ ‘आत्मा वा इदमेक एवाग्र आसीन्नान्यत्किंचनमिषत्’ ‘स इमाल्लोकानसृजत’ (‘भर्ता सन् भ्रियमाणो बिभर्त्येको देवो बहुधा निविष्ठः’ ‘पृथिव्यादि प्रकृत्यन्तं भूतं भव्यं भवच्च यत् । विष्णुरेको बिभर्तीदं नान्य-स्तस्मात् क्षमो धृतौ’ ‘सदेव सोम्येदमग्र आसीत्’ ‘इदं सर्वमसृजत’ इति कपाठः) इत्यादि-नोच्यमानं मूलकारणत्वं हरेरेव । नहि मूलं विसृज्याग्रग्रहणं युक्तिमत् । अनवस्थानापातात् । तर्हि कथं तदिति शङ्कित्वा विपक्षे बाधकमाह– अयञ्जन इति ॥ हे पार्थिव यदि मूलकारण-विवक्षा न स्यात्तर्हि यः पृथिव्यामुत्पन्नत्वादत्र विद्यमानत्वाद्वा पार्थिवो नाम सोऽयं(‘हे पार्थिवेति सम्बोधनेन तवाप्ययं शरीरः पृथिवीविकार इति सूचयति । यः पार्थिवः पृथिवीविकारभूतोऽयं’ इति कपाठः) जन्यत इति जनो देहो देही वा पृथिव्यामेव चलन् नाम, चलतीति व्यवहारः कस्य हेतोः कुतो वर्तते । प्रत्यक्षसिद्धं कथमपलपितुं शक्यत इति चेत्तत्राह– तस्यापीति ॥ तस्य जनस्यापि पादाद्यवान्तराधाराः सन्तीति यस्मात्तस्मादस्यापि प्रामाणिकत्वात्पृथिव्यामिव पादादिष्वपि चलतीति कस्मान् न भवेन् न चासावस्ति तस्मान् मूलकारणमेकमङ्गीकर्तव्यं तदनङ्गीकारो सर्वस्यापलापः प्रसज्यते अत्राधिशब्द उपर्युपर्यर्थवाचकस् तथाह्यंघ््रयोरङ्घ््रयुपरि गुल्फौ तयोरुपरि जङ्घे इत्येवं योजना । गुल्फौ च जङ्घे च जानुनी च ऊरू च मध्यं च उरश्च शिरोधरा च अंसौ च ते तथा (‘ननु पृथिव्याश् चलनाधारत्वात् पृथिव्यां चलतीत्युच्यत इति चेत् तत्राह– तस्यापीति ॥ तस्य चलतोऽन्ये चरणाद्यवान्तराधाराः सन्तीति यावत् । अङ्घ्•योश्चलति, गुल्फयोश्चलति, जङ्घयोश्चलति, जानुनोश्चलति, ऊर्वोश्चलतीत्यादिव्यवहारः कुतो न भवेत् । यद्यङ््घ््रयादीनां सर्वेषां मूलाश्रयविवक्षया पृथिव्यां चलतीति व्यवह्रियते तर्हि पृथिव्या अपि मूलाधारभूतः, सर्वस्यापि मूलकारणभूतश्च विष्णुरेवेति, तस्यैव सर्वत्र मूल-कारणत्वं मुख्याश्रयत्वं च व्यवहर्तव्यम् । तदुक्तं श्रीमन्मध्वाचार्यैः ‘यस्मान्मूलकारणभूतो विष्णुरेव, अतो मुख्यं सर्वकारणत्वं तस्यैव । मूलाश्रयविवक्षा यदि न स्यात्, कुतः पृथिव्यां चलतीति व्यवहारः ? यतोऽवान्तराश्रया बहवः सन्त्यङ्घ्य्राद्याः’ इति । इति कपाठः) ॥५॥

प्रकाशिका

नन्वत्र प्रकरणे वक्ष्यमाणरीत्या प्रकृतिः पृथिव्यादेः सर्वस्य कारणं तस्याश्च विष्णुरिति सर्वस्य मूलकारणं विष्णुरित्येवोच्यते । न तु तस्य मुख्यतो भरणादिकर्तृत्व-मुपपद्यतेऽतोऽ सङ्गतमेतदित्यांशकायां विष्णोरेव भरणादिकर्तृत्वं मुख्यमिति प्रकृतप्रमेयसमर्थनायैव विष्णोर्मूलकारणत्वमत्रोक्तमतो नासङ्गतमित्याशयेनैतत्प्रकरणाभिप्रायमाह ॥ यस्मादिति ॥ विष्णुरेव । वक्ष्यमाणरीत्येति शेषः । सर्वकारणत्वं भरणगमनादिसर्वकर्तृत्वम् । तस्यैवेत्यनन्तर-मित्यत्राभिप्राय इति शेषः ॥ ‘‘अयं जन’’ इति श्लोके मुख्यतश्चलनादिकर्तृत्वापरपर्यायमाश्रयत्वं विष्णोरेवोपपादितमित्याशयेन तं श्लोकं कस्य हेतोरित्यस्य प्रश्नार्थत्वासम्भवादाक्षेपार्थत्वमभिप्रेत्य विपक्षे बाधकतर्कपरतया योजयति ॥ मूलाश्रयेति । परंपरया मुख्याश्रयविवक्षयेत्यर्थः । इदमापादकं मूलेऽध्याहार्यमित्याशयः । कस्य हेतोरित्यस्यार्थः कुत इति । न कुतोऽपीत्यर्थः । तर्ह्ययं व्यवहारो न स्यादिति यावत् । चलन्नामेत्यस्यार्थश् चलतीति व्यवहार इति । साक्षा-दाश्रयत्वं पृथिव्या नेत्युपपादनाय तस्यापीति श्लोकः प्राप्तः । तत्तात्पर्यमाह ॥ यतोऽवान्त-राश्रया इति । पृथिवीराजयोर्मध्ये विद्यमाना इत्यर्थः । आद्यशब्देन गुल्फजङ्घादेर्ग्रहणम् ॥ ततश्चायं जन इत्यादेः सार्धश्लोकस्यायमर्थः ॥ हे पार्थिव पृथिवीपते । यदि परंपरया मुख्याश्रयविवक्षा न स्यात्तर्हि पार्थिवः पृथिव्यादिभूतविकारोऽयं जन्यत इति जनो वाहकदेहः कस्य हेतोः पृथिव्यां चलन्नाम चलतीति व्यवहारविषयः स्यान् न कस्यापि । पृथिव्यां चलतीति व्यवहारविषयो न स्यादित्यर्थः । भवति च तथा । तस्मादस्ति परंपरया मुख्याश्रय-विवक्षेति । ननु कुतः परंपरया पृथिव्या मुख्याश्रयत्वं साक्षादेव किं न स्यादित्यत उक्तम् ॥ तस्यापीति । पृथिवीस्थत्वेन व्यवह्रीयमाणस्यापि वाहकदेहस्येत्यर्थः । चशब्दोऽङ्घ्रीत्यस्य समुच्चायकः । अङ्घ्र्योरधि उपर्युपरि गुल्फादयः सन्ति । उरःशब्दस्य सकारलोप आर्षः । गुल्फौ च जङ्घे च जानुनी चोरु च मध्यं चोरश्च शिरोधरा चांसौ च ते तथा ॥ ५ ॥

अंसे च दार्वी शिबिका च यस्यां सौवीरराजेत्यपदेश आस्ते ।

यस्मिन्भवान् रूढनिजाभिमानो राजाऽस्मि सिन्धुष्विति दुर्मदान्धः ॥६॥

पदरत्नावली

दार्वी दारुमयी यस्यां शिबिकायां सौवीरराजेत्यपदेशः । शब्दमात्रं न तु रञ्जनाद्राज्येत्यर्थो यस्य स तथा पिण्ड आस्ते यस्मिन् पञ्चभूतरचिते देहलक्षणे पिण्डे भवा-न्वर्तते । कथम्भूतो भवान् रूढो बद्धमूलो निजत्वेनाभिमानो देहे यस्य स तथा । अत एव सिन्धुषु राजाऽस्मीति दुष्टो मदोऽस्ति तेनान्धश्चक्षूरहितः (‘अंसो स्कन्धे च दार्वी दारुमयी शिबिकाऽस्ति । यस्यां शिबिकायां सौवीरराज इत्यपदेशो नाममात्रं यस्य स तथा पार्थिवशरीर आस्ते । यस्मिन् पार्थिवपिण्डे भवान् रूढो बद्धमूलो निजत्वेनाभिमानो यस्य स तथा । अत एव सिन्धुदेशेष्वहं राजाऽस्मीत्येवं यो दुष्टो मदस्तेनान्धः ।’) ॥ ६ ॥

प्रकाशिका

एवं पृथिव्यां राजा गच्छतीति व्यवहारोऽपि मूलाश्रयविवक्षयैवोपपादनीय इत्याशयेनाह ॥ अंसेति ॥ दार्वी दारुनिर्मिता सौवीरराजेत्यपदेशः शब्दमात्रं यस्य देहस्यास्ते । तेन तस्य राजत्वममुख्यमित्याशयः । अस्मिन्देहे भवान्वर्तते । कथंभूतो भवान् । अस्मिन्देहे रूढो बद्धमूलो निजत्वेनाभिमानो यस्य स तथा ॥ ६ ॥

शोच्यानिमांस्तानधिकस्तवाधिर्विष्ट्या निगृह्णन्निरनुग्रहोऽसि ।

जनस्य गोप्तेति विकत्थमानो न शोभसे वृद्धसभासु दुष्टः ॥ ७ ॥

तात्पर्यम्

एवं मूलगोप्तृत्वं च विष्णोरेव ॥ ७ ॥

पदरत्नावली

एतत्फलमाह– शोच्यानिति ॥ तानिमान् वाहकान् विष्ट्या निगृह्ण-न्यस्त्वं निरनुग्रहोऽसि । मधुरवचनाद्यनुग्रहरहितोऽसीति यस्मात्तस्मादिहामुत्र च तवाधिरधिकः स्यादित्वन्वयः । यथा शिबिकाभर्तृत्वं मदन्तर्यामिमूलकारणनिष्ठम् एवं जनस्य गोप्ताऽस्मीति त्वयि कल्प्यमानं मूलगोप्तृत्वं च त्वदन्तर्यामिहरिनिष्ठमित्यभिप्रेत्याह– जनस्येति ॥ वृद्धसभासु विद्वत्समितिषु जनस्य गोप्ताऽस्मीति विकत्थमानो बहुधा भाषमाणो दुष्टोऽयं तत्त्वं न जानाती श्लाघ्यो न भवतीत्यर्थः (‘दुर्मदान्धत्वेन भवतोऽनर्थप्राप्तिरित्याह– शोच्यानिति ॥ शोचनीयान् तानिमानधि अधिकृत्य भवतः कः समाधिः ? किं समाधानमभिधीयते । यतश्च विष्ट्या वेतनदानमिषेण निगृह्णन् निरनुग्रहोऽसि । यथा शिबिकाभर्तृत्वगन्तृत्वादिकं मदन्तर्यामि-मूलकारणभूतहरिनिष्ठं तथा जनस्य गोप्ताऽस्मीति त्वयि कल्प्यमानं मूलगोप्तृत्वं च त्वदन्तर्यामि-हरिनिष्ठमेवेत्याशयेनाचष्टे– जनस्येति ॥ जनस्य गोप्ताऽस्मीति विकत्थमानो बहुधा भाषमाणो वृद्धानां ज्ञानिनां सभासु न शोभसे ।’ इति कपाठः) ॥ ७ ॥

प्रकाशिका

दुर्मदांधत्वेन तवानर्थप्राप्तिरित्याह ॥ शोच्यानिति । शोच्यांस्तानिमा-न्वाहकान् विष्ट्या निगृह्णन्निरनुग्रहोऽसि यतोऽतस्तवाधिरधिको भविष्यतीत्यर्थः । गोप्तेति विकत्थमान इत्यनेन राज्ञि गोप्तृत्वं मुख्यतो नास्तीत्युक्तम् । तर्हि तत्कुत्र मुख्यमित्यपेक्षायां भरणगमनादिकर्तृत्वे उक्तन्यायमन्यत्राप्यतिदिशति ॥ एवमिति । विष्णोरेव मुख्यमिति शेषः । तथा च यथा वाहको मदादिर्न मुख्यो भर्ता गन्ता च किन्तु मदन्तर्यामी विष्णुरेवातो भर्तादि-शब्दस्तत्रैव मुख्यः । एवं त्वं मुख्यतो न गोप्ता किन्तु त्वदन्तर्यामी विष्णुरेवातस्तस्मिन्नेव गोप्तृशब्दो राजशब्दश्च मुख्यत इति मूलाशय इत्यर्थः ॥ ७ ॥

यदि क्षितावेव चराचरस्य विदाम निष्ठां प्रभवं च नित्यम् ।

तन्नामतोऽन्यद्व्यवहारमात्रं निरूप्यतां तत्क्रिययानुमेयम् ॥ ८ ॥

**तात्पर्यम् **

आश्रयत्वात्क्षितिरिति निर्वचने क्षितिशब्दोऽपि तस्मिन्नेव ॥ ८ ॥

पदरत्नावली

नन्वेवं तर्हि पृथिव्या मूलाश्रयत्वमापन्नं, तथाहि यदि मूलाश्रयविवक्षा न स्यात्तर्हि पृथिव्याञ्चलतीति व्यवहारो न स्यात् । तव तथा । तस्मात् पृथिव्या मूलाश्रयत्वं विष्णुविवक्षायामसङ्गतं चेत्याशङ्कां (‘पृथिवीशब्दादिकमपि विष्णावेव मुख्यं भूतेषु व्यवहारमात्र-मिति’ कपाठः) शाखाचन्द्रन्यायेनोक्तमिति परिहरति– यदीति ॥ उत्पत्तिस्थित्योः पृथिव्यां दर्शनात्तस्या मूलकारणत्वमित्यतो वाह– यदीति (‘पृथिव्यामिति वक्तव्ये क्षिताविति वचनं पृथिवीवाचकाः सर्वेऽपि शब्दा विष्णावेव मुख्या इति प्रदर्शनाय’ इत्यधिकांशः कपाठकोशे) ॥ यदि चराचरस्य क्षितावेव निष्ठां स्थितिं तत एव प्रभवमुत्पत्तिं च (‘नित्यं नियमेन व्यवहारदशयां’ इति कपाठः) विदामो विद्मः । अविद्वद्रूढ्येति शेषः । तथाप्यालोचने तन्नामतः प्रसिद्धक्षितिनाम्नोऽन्यद्व्यवहारमात्रम् । क्षितिशब्दव्यवहारयोग्यं सत्क्रियया अबाधितार्थ-क्रियया ‘क्षि निवासगत्योः’ इति धातोर् निवसत्यस्यामिति गच्छत्यस्यामिति निवासगत्योर-प्रतिहताश्रयभूतं यत्तदनुमेयं क्षितिशब्दमुख्यार्थमिति निरूप्यतामित्यन्वयः ॥ ‘यः पृथिव्यां तिष्ठन् पृथिव्या अन्तरः’ इति श्रुतेः क्षितिशब्दमुख्यार्थो हरिरन्यस्याः पृथिव्यास्तन्नियतत्वेन तच्छब्द-वाच्यत्वं ‘तदधीनत्वादर्थवत्’ इति सूत्रादिति सञ्चिन्तनीयमित्यर्थः । ‘प्रथितत्वात् पृथुत्वाद्वा पृथिवी’ इति पृथिवीशब्दवाच्यत्वं मुख्यं हरेरेवेति पृथिव्यां चलतीत्युक्तम् । ननु पृथिव्या मुख्याश्रयत्वविवक्षया अङ्घ््रयाद्याश्रयत्वनिरासाय चेत्यतो नासङ्गतदोषोऽपीति उत्पत्तिस्थिती इन्द्रजालवत्तया यादृच्छिक्यौ किं तु प्रवाहरूपेण सदातने इत्यतः– नित्यमिति ॥ ८ ॥

प्रकाशिका

ननूक्ततर्के विपर्ययेपर्यवसानेन पृथिव्या एव मूलाश्रयत्वं प्राप्तं न विष्णोरतो न प्रकृतसङ्गतमेतदित्याशङ्कायां पृथिवीशब्दोऽपि विष्णावेव मुख्यो भूतेषु व्यवहार-मात्रमतो नासङ्गतिरित्याह ॥ यदि क्षिताविति । पृथिव्यामिति वक्तव्ये क्षिताविति वचनं पृथिवीवाचकाः सर्वेऽपि शब्दा विष्णावेव मुख्या इति प्रदर्शनाय । दुर्गमार्थत्वादेतच्छ्लोकतात्पर्यं दर्शयति ॥ आश्रयत्वादिति । तत्क्रिययेत्यस्यार्थ आश्रयत्वादिति । क्षि निवासगत्योरिति धातोरिति भावः । तस्मिन्विष्णावेव । मुख्यत इति शेषः । एवशब्दाद्भूते न मुख्य इति सूचयति । तेन व्यवहारमात्रमित्येतदुक्तार्थम् ॥ ततश्चायं श्लोकार्थः ॥ क्षितावेव चराचरस्य प्रकृतवाहकशिबिकादेर्निष्ठां स्थितिं तदुपपादकं मूलकारणत्वं च नित्यं नियमेन प्रवाहतो विद्यमानमिति वा । विदामो विद्मः । न विष्णावतो न प्रकृतसङ्गतिरिति यद्युच्यते तर्हि तन्नामतः क्षितिशब्दात्प्रसिद्धभूतादन्यद्विष्ण्वाख्यं वस्तु निरूप्यताम् । अतो नासङ्गतिरिति शेषः । ननु कथं रूढिपरित्यागेनान्यस्य निरूपणमित्यत उक्तम् ॥ तत्क्रिययाऽनुमेयमिति । तस्य क्षितिशब्दस्य क्रियया निर्वचनेन । योगेनेति यावत् । अनु विद्वद्रूढीमनुसृत्य मेयं ज्ञेयम् । तथा च महायोगो विद्वद्रूढिश्चास्तीति भावः । तर्ह्यन्यत्र रूढेः का गतिरित्यपेक्षायामाह ॥ व्यवहारमात्रमिति । क्षिताविति वर्तते । व्यवहारमात्रं न विष्णाविव परममुख्यव्यवहार इत्यर्थः । अज्ञरूढिरेवेत्याशयः । एवं प्रथितत्वात्पृथिवीति निर्वचनेन पृथिवीनामतोऽन्य-न्निरूप्यतामित्यपि ग्राह्यम् ॥ ८ ॥

एवं निरुक्तं क्षितिशब्दवृत्तमसन्निधानं परमाणवो ये ।

अविद्यया मनसा कल्पितास्ते येषां समूहेन कृतो विशेषः ॥ ९ ॥

तात्पर्यम्

परमाणुमात्रायाः पृथिव्या अयुक्तत्वात्परमाणवोऽप्यस्याविद्ययैवाधारत्वेन कल्पिताः ॥

पदरत्नावली

फलितमाह– एवमिति ॥ यथा प्रथितत्वयोगेन पृथिवीशब्दवाच्यत्वं हरौ निर्णीयते । एवमाश्रयत्वात् क्षितिशब्दवृत्तं क्षितिशब्दप्रवृत्तिनिमित्तमपि निरुक्तं निर्णीतम् । हराविति शेषः । क्षितिशब्दरूपं निर्वचनेन मुख्यं हरावेव दर्शितमिति वा । प्रत्यक्षस्य क्षिते-राश्रयत्वापलापे बाधकं किमित्याशङ्क्य परमाणुमात्रायाः पृथिव्या आधारत्वानुपपत्तिरेव बाधिकेत्यभिप्रेत्याह– असन्निधानमिति ॥ ये परमाणवः पार्थिवा इति शेषः । येषां पार्थिवानां परमाणूनां समूहेन पुञ्जेन विशेषः पृथिवीलक्षणः पदार्थश्च कृतः, ते परमाणवश्चराचरस्याश्रया इत्यसन्निधानं दूरे । ननूक्तस्य चोद्यस्य परिहारः कथमागत इति तत्राह– अविद्ययेति ॥ अविद्ययाऽज्ञानेन मनसा मनोरथेनाधारत्वेन कल्पिताः । न तु मुख्याधारा इति शेषः । किमेकैके परमाणवश्चराचरस्याधारा उत मिलिता इत्युभयोरपीदमेवोत्तरम्– असन्निधानमिति ॥ ये पार्थिवाः परमाणवस् तेषां निधानं निरतां स्वातन्त्र्येण धानं धारणमसदनुपपन्नम् । येषां समूहेन विशेषः कृतस्तेषां वा सन्निधानं सामर्थ्यं नास्ति । ईश्वरनियतप्रकृतिमन्तरेणेति शेषः । तत्कुत इत्यत उक्तम्– अविद्ययेति ॥ मनसेश्वरेच्छाविशिष्टेन तदन्तःकरणेन नियतया विद्यया प्रकृत्या ते परमाणव आधारत्वेन कल्पिताः, न तु स्वतन्त्रा इति वा । येषां परमाणूनां द्व्यादिसमूहेनेति काणादाः, पुञ्जेनेति बौद्धाः, अविद्यया कल्पिता ये परमाणवस्तेषां समूहेनेति मायावादिनस् तेषां सर्वेषां पक्षेऽपि तेषां परमाणूनां चराचरधारणमसन्निधानं दूरीभूतमिति भाव इति वा(‘यः पृथिव्यां तिष्ठन् पृथिव्या अन्तरो यं पृथिवी न वेद यस्य पृथिवी शरीरं यः पृथिव्यामन्तरो यमयत्येष त आत्माऽन्तर्याम्यमृतः’, ‘प्रथितत्वात् पृथुत्वाद् वा पृथिवी’ इत्यादिश्रुतिस्मृतिप्रतिपादितरीत्या पृथिवीशब्दवाच्यत्वं हरावेव यथा निर्णीयते तथा आश्रयत्वात् क्षितिरिति निर्वचने क्षितिशब्दप्रवृत्तिनिमित्तमपि हरावेव निर्णीयत इति फलितमाह– एवं निरुक्तमिति ॥ एवं क्षितिशब्दस्य वृत्तं मुख्यवाचकत्वेन वर्तनं यस्मिंस्तत् सर्वं निवसत्यस्मिन् गच्छत्यस्मिन् इति निवासगत्योरप्रतिहताश्रयभूतं परब्रह्मैवेति निरक्तम् । ननु पृथिव्याः सर्वाश्रयत्वस्य प्रत्यक्षसिद्धत्वात्, तस्याः सर्वाश्रयत्वापलापे किं बाधकमिति चेत् पृथिव्याः परमाणुसमाहाररूपत्वात् ताद्दृशपरमाणुमात्रायाः पृथिव्या आधारत्वानुपपत्तिरेव बाधिकेत्यभि-प्रेत्याह– असन्निधानमिति ॥ ये पार्थिवाः परमाणवः सर्वाश्रयत्वेनोक्तास्तेषां तत्र सर्वाश्रयत्व-विषये असन्निधानमसामार्थ्यमिव । तर्हि लोकव्यवहारः कथमित्यत आह– अविद्ययेति ॥ येषां पार्थिवानां परमाणूनां समूहेन विशेेषः पृथिवीलक्षणः पदार्थः कृतः । ‘पृथिवीं विशेष इत्याहुः शब्दादीनां बहुत्वतः’ इति हरिवंशोक्तेः । ते परमाणवोऽविद्यया अज्ञानेनैव मनसा मनोरथेन, न तु सच्छास्त्रानुसारेण, आधारत्वेन कल्पिताः । यतश्च ‘पृथिव्यादि प्रकृत्यन्तं भूतं भव्यं भवच्च यत् । विष्णुरेको बिभर्तीदं नान्यस्तस्मात् क्षमो धृतौ’ इत्यादिना हरेरेव सर्वाधारत्वात् ।’ इति कपाठः) ॥ ९ ॥

प्रकाशिका

नन्वेवं यद्युक्तनिर्वचनेन मूलाश्रयविवक्षया पृथिव्यां चलतीति व्यवहारस्तर्हि पृथिव्याः कारणतया प्रतीयमानानां परमाणूनामेव तत्प्राप्तं न विष्णोरित्यत आह ॥ एवं निरुक्तमिति । निरुक्तं निर्वचनलभ्यम् ॥ क्षितिशब्दस्य वृत्तं वृत्तिर्यस्मिंस्तत् । उक्तनिर्वचनेन क्षितिशब्दवाच्यमिति यावत् । संनिधानं मूलाश्रयरूपं वस्तु ये परमाणवस्तेऽनेनेत्यर्थः । कुत इत्यतोऽत्राभिप्रेतं हेतुमाह भगवांस्तात्पर्यकारः ॥ परमाणुमात्राया इति । परमाणुमात्रायाः पृथिव्या अयुक्तत्वादिति । परमाणुपुञ्जरूपाया इत्यर्थः । अयुक्तत्वात्समुदाय उभयहेतुकेऽपि तदप्राप्तिरित्युक्तन्यायैरयुक्तत्वादित्यर्थः । ननु परमाणुपुंजवादिमतेनोक्तशङ्काऽनुदयेऽपि परमाण्वा-रम्भवादिमतेनोक्तशङ्का स्यादेवेत्याशङ्कायां तत्रापि न परमाणूनां मूलकारणत्वं मुख्याश्रयत्वं वेत्याह ॥ अविद्येति । अत्रानिर्वाच्याविद्यया कल्पिताऽऽरोपितेत्यन्यथाप्रतीतिवारणाय विवक्षितमर्थमाह ॥ परमाणवोऽप्यस्येति । परमाणव इत्यस्यानुवृत्तिः । अपिशब्दस्याध्याहार इति भावः । अविद्येत्यस्य व्याख्यानम् । अस्य अकारवाच्यस्य हरेर्विद्ययेति । प्रकृतसङ्गत्यर्थम् आधारत्वेनेत्यध्याहृतम् ॥ ततश्चायं मूलार्थः ॥ येषां समूहेन विशेषः पृथिवीकृत उत्पादितस्ते परमाणवोऽप्यस्याकारवाच्यस्य विष्णोर्विद्यया प्रज्ञया मनसेच्छामात्रेणैव धारकत्वेन मूलकारणत्वेन च कल्पिताः सङ्कल्पिताः । तथा च परमाण्वारंभवादिमतेऽपि परमाणूनां मूलाश्रयत्वं मूल-कारणत्वं च हर्यधीनं न स्वतोऽतो हरिरेव मूलाश्रयादिरित्याशयः ॥ ९ ॥

एवं कृशं स्थूलमणुर्बृहृद्यदसच्च सज्जीवमजीवमन्यत् ।

द्रव्यस्वभावाशयकालकर्मनाम्नयाऽजयाऽवैहि कृतं द्वितीयम् ॥ १० ॥

ज्ञानं विशुद्धं परमार्थमेकमनन्तरं न बहिर्ब्रह्म सत्यम् ।

प्रत्यक् प्रशान्तं भगवच्छब्दवाच्यं यद्वासुदेवं कवयो वदन्ति ॥ ११ ॥

तात्पर्यम्

एवं सर्वं तथा प्रकृत्यैव कल्पितं विष्णोरन्यत् । एवं प्रकृत्याधारः स्वय-मनन्याधारो विष्णुरेव । अतः सर्वशब्दाश्च तस्मिन्नेव । राजा गोप्ताऽऽश्रयो भूमिः शरणं१ चेति लौकिकः । व्यवहारो न तत्सत्यं तयोर्ब्रह्माश्रयो विभुः । गोप्ता च तस्य प्रकृति-स्तस्या विष्णुः स्वयं प्रभुः । तव गोप्त्री तु पृथिवी न त्वं गोप्ता क्षितेः स्मृतः। अतः सर्वाश्रयश्चैव गोप्ता च हरिरीश्वरः । सर्वशब्दाभिधेयश्च शब्दवृत्तेर्हि कारणम् । सर्वान्तरः सर्वबहिरेक एव जनार्दनः । शिर आधारता यद्वद्ग्रीवायास्तद्वदेव तु । आश्रयत्वं च गोप्तृत्वमन्येषामुपचारत’ इति च ॥ १०,११ ॥

पदरत्नावली

ननु क्षित्यादिशब्दानां मुख्यार्थाद्धरेश्चराचरस्योत्पत्त्यवस्थाने यदि स्यातां तर्हि ‘जगत्यां जगत्पृथिवी वा इदं सर्वम्’ इत्यादिश्रुतेः प्रकृत्यादिवाच्याभावेनाप्रामाण्यमापन्न-मिति तत्राह– एवमिति ॥ असत् कारणम् । सत् कार्यम्, वाय्वाकाशौ वा, पृथिव्यप्तेजांसि वा । जीवं चैतन्यविशिष्टं वस्तु । अजीवमन्यदस्वतन्त्रम् । जडमिति यावत् । अन्यन् मिथो विष्णोश्च भिन्नमेवंविधं जगद् यथा हरिणा कृतं धृतं चैवमजया भगवन्नियतया प्रकृत्या । द्वितीयं कारणं धारणं च कृतमवैहीत्यन्वयः । अत्रायमाशयः । राजादीनां गोप्तृत्वे परमाणुमात्राया भूमेराश्रयकारणत्वे च यो व्यवहारः स उपचारो यतो राजादीनाम् आश्रयो जनिकर्ता च ब्रह्मा तस्य प्रकृतिस्तस्याः श्रीनारायणो नान्याधारोऽतः सर्वाधारत्वादिकं मुख्यतः सर्वशब्दवाच्यत्वं च तस्यैव, तदनुग्रहलेशेन प्रकृत्यादीनां तत्तत्कार्यकरत्वं तत्तच्छब्दवाच्यत्वं शिरआद्यवयवाधारत्व-वदाधारत्वं चामुख्यमिति । एतदभिप्रायेण द्रव्यादिनाम्नेत्युक्तम् । चित्प्रकृतेर्द्रव्याद्यभिमानि-त्वेनान्यस्यास् तदात्मत्वेनेति शेषः । ‘राजा गोप्ताऽऽश्रयो भूमिः कारणं चेति लौकिकः । व्यवहारो न तत् सत्यं तयोर्ब्रह्माऽऽश्रयो विभुः ॥ गोप्ता च तस्य प्रकृतिस्तस्या विष्णुः स्वयम्प्रभुः । तव गोप्त्री तु पृथिवी न त्वं गोप्ता क्षितेः स्मृतः ॥ अतः सर्वाश्रयश्चैव गोप्ता च हरिरीश्वरः । सर्वशब्दाभिधेयश्च शब्दवृत्तेश्च कारणम् ॥ सर्वान्तरः सर्वबहिरेक एव जनार्दनः । शिरआधारता यद्वद्ग्रीवायास्तद्वदेव तु । आश्रयत्वं च गोप्तृत्वमन्येषामुपचारतः ॥’ इत्येतद्वाक्यमस्मिन्नुक्तार्थे जागर्ति । अत इदमेव श्रद्धेयं नान्यत्स्वकपोलकल्पितमिति ज्ञायते (‘एवमेवान्यत्राप्यनुसन्धेयमित्याशयेनाह– एवमिति ॥ असत् कारणम् । सत् कार्यम् । जीवं चैतन्यविशिष्टं वस्तु । अजीवं जडम् । एवं कृशत्वस्थूलत्वबृहत्त्वादिविविधविशेषसहितं हरेरन्यत् सर्वं जगद् अजया भगवन्नियतया प्रकृत्या । ‘अजामेकां लोहितशुक्लकृष्णां बह्वीं प्रजां जनयन्तीं सरूपाम् । अजो ह्येको जुषमाणोऽनुशेते जहात्येनां भुक्तभोगामजोऽन्यः’ इत्यादेः । द्वितीय-मस्वतन्त्रतया कृतम् । ‘स मे द्वितीयशब्दः स्यादद्वितीयोऽसमत्वतः’ इत्यादेः । कीद्दृशी प्रकृतिरित्याह– द्रव्येति ॥ द्रव्याद्यभिमानित्वेन तन्नाम््नया । द्रव्यं पञ्चभूतानि । आशयोऽन्तः-करणम् ।’ इति कपाठः) ॥ १० ॥

ननु हन्त प्रकृत्यादिसर्वजगत्प्रवर्तकस्य हरेः स्वरूपं कीदृशं येन तदन्तःपतितस्यापि न तन्मलालेप इति तत्राह– ज्ञानमिति ॥ ‘ज्ञानमनन्तं ब्रह्म’ इति श्रुतेर्गुणगुणिनोरभेदाभिप्रायेण गुणव्यपदेशः । प्रवृत्तिज्ञानवद्विषयोपरक्तं नेत्याह– विशुद्धमिति ॥ विशुद्धं विषयसंसर्गेऽपि तत्कृतदोषलेशस्पर्शो नास्तीत्यर्थः । ‘असङ्गो ह्ययं पुरुषः’ इति श्रुतेः । विशुद्धस्यापि केनचित्पारदद्रववद्बाधः किं न स्यादिति नेत्याह– परमार्थमिति ॥ परमार्थम् उत्तमार्थम् । अबाधितं वस्त्वित्यर्थः । ‘वस्तुहेतुनिवृत्तिषु’ इत्यभिधानात् । तादृशमन्यदस्तीति नेत्याह– एकमिति ॥ एकम् ‘आत्मा वा इदमेक एवाग्र आसीत्’ इति श्रुतेः । लोके साम्याधिक्य-दर्शनात् कथमस्य तदभाव इति नेत्याह– अनन्तरमिति ॥ अन्तःस्थित्वा प्रेरको नास्ती-त्यनन्तरम् अन्तरभावे बहिः किं न स्यादिति नेत्याह– न बहिरिति ॥ बहिरपि प्रेरको नेति । घटादिवत्परिच्छिन्नं नेत्यतो वाह– अनन्तरं न बहिरिति ॥ यस्मादन्तर्बहिश्च नास्तीति ‘अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणः स्थितः’ इति श्रुतेः, ‘अणोरणीयान् महतो महीयान्’ इति च । किमस्य संज्ञेत्यत उक्तम्– ब्रह्मेति ॥ कस्माद्यस्यान्तर्बहिर्नास्तीत्यतो वाह– ब्रह्मेति ॥ ब्रह्म पूर्णं, निरुपचरितमिति शेषः । किमेक एव गुण इति नेत्याह– सत्यमिति ॥ सत्यं साधुसुखादिगुणयुक्तम् । किमिदं चतुर्मुखाख्यमिति नेत्यतो वाह– सत्यमिति ॥ ‘सत्यं ज्ञानमनन्तं ब्रह्म’ इति श्रुतेः । मुख्यं ब्रह्मेत्यर्थः । गुणानां साम्येऽपि ज्ञानानन्दयो र्लोकापेक्षया प्राधान्यज्ञापनायावताराणां रामकृष्णयोरिवेत्यतो वाह– सत्यमिति ॥ उत्कृष्टानन्दज्ञानं ‘सच्छब्द उत्तमं ब्रूयादानन्दं तीति वै वदेत् । येति ज्ञानं समुद्दिष्टं पूर्णानन्ददृशिस्ततः ॥’ इति वचनात् । एतद्वस्तु कुत्र सदिति तत्राह– प्रत्यगिति ॥ जीवस्य हृद्यभिमुखं बिम्बरूपमिति यावत् । ‘रूपं रूपं प्रतिरूपो बभूव’ इति श्रुतेः । कुद्धस्वभावं नेत्याह– प्रशान्तमिति ॥ प्रशान्तं निस्तरङ्गस्तिमितसमुद्रकल्पं ‘निष्कलं निष्क्रियं शान्तम्’ इति श्रुतेः । किमस्माकं कार्यमित्य-त्राह– भगवच्छब्दवाच्यमिति ॥ अस्माकं पूज्य इति शब्देनोच्यते । अत्र भवान् भगवानितिशब्दो वृद्धैः प्रयुज्यते पूज्य इति हलायुधः ।

नन्वस्य शब्दस्य तापसमात्रेऽपि प्रयोगदर्शनात् कथं निर्णय इति तत्राह– यदिति ॥ कवयो यद्भगवच्छब्दवाच्यं वस्तु क्रीडित्वा सर्वत्र वसनाद् वासुदेव नाम गृणन्ति तदानादि-गुणपूर्णं ब्रह्म प्रकृत्यादिप्रेरकं जानीहीति वाक्यशेषः । उक्तानामनुक्तानां सर्वेषां गुणानां कवलीकरणेनेति वा भगवच्छब्दवाच्यं तत्प्रतिपादनार्थं वासुदेवपदं वेति बलज्ञानानन्दादयो गृह्यन्ते । अस्विति शत्रुनिरासपटीयो वीर्यशौर्योदार्यादयः, देवेति क्रीडाजिगीषाकान्त्यादयः । एते यत्र प्रत्येकं पूर्णतयाऽन्योन्याविरुद्धतया च विहृत्य वसन्ति तद्वासुदेवसंज्ञं वदन्तीति समुदायार्थ इति वा अज्ञानामपि बुद्ध्यवतारार्थं वसुदेवपुत्रत्वाद्वासुदेवमित्युक्तमिति वा (‘प्रकृत्यादिसर्वाधारस्य हरेर्निरवधिकमाहान्त्यं वक्ति– ज्ञानमिति ॥ ज्ञानमपरिमितावबोध-स्वरूपम् । ‘सत्यं ज्ञानमनन्तं ब्रह्म’ इत्यादेः । विशुद्धं प्राकृतविषयसम्बन्धरहितत्वादतिशुद्धम् । परमार्थं सर्वोत्तमम् । एकं स्वस्यानन्तरूपगुणकर्मादिभिर्भेदवर्जितं समाधिकरहितं च । ‘एकमेवा-द्वितीयं तत् समाधिकविवर्जनात् । स्वगतानां च भेदानामभावाद् ब्रह्म शाश्वतम् ॥’ इति प्रवृत्ते । ‘एक इत्युच्यते नित्यं यस्मान्नान्यस्तथाविधः । तत्परो वा गुणोद्रेके ब्रह्मासौ गुण-पूर्तितः ॥’ इति महासंहितायां च । न विद्यते अन्तरो यस्य तदनन्तरम् । न विद्यते बहिर्यस्मात् तन् नबहिः । ‘अनन्तरमबाह्यं न तदश्नाति कश्चन’, ‘अन्तर्बहिश्च तत् सर्वं व्याप्य नारायणः स्थितः’, ‘अणोरणीयान् महतो महीयान् आत्माऽस्य जन्तोर्निहितो गुहायाम्’ इत्यादिश्रुतिभ्यः । ब्रह्म अनन्तगुणपरिपूर्णम् । ‘पृथग् वक्तुं गुणास्तस्य न शक्यन्तेऽ-मितत्वतः । यतोऽतो ब्रह्मशब्देन सर्वेषां वचनं भवेत् ॥ एतस्माद् ब्रह्मशब्दोऽयं विष्णोरेव विशेषणम् । अमिता हि गुणा यस्मान्नान्येषां तमृते विभुम् ॥’ इति पाद्मे । सत्यं नित्यसाधु-गुणपूर्णम् । ‘नित्यसाधुगुणव्याप्तियन्तृरूपत्वतः सदा । जगद्गतेन रूपेण ब्रह्मैव हि तथोच्यते ॥’ इत्यादेः । प्रत्यक् सर्वजीवहृदयान्तःस्थं बिम्बरूपम् । ‘कश्चिद् धीरः प्रत्यगात्मानमैक्षदावृत्तचक्षुरमृतत्वमिच्छन्’ इत्यादेः । प्रशान्तम् उत्कृष्टसुखपूर्णम् । ‘अशब्दश्चा-प्रसिद्धत्वात् शान्तः पूर्णसुखत्वतः’ इति ब्रह्मतर्के । भगवच्छब्दवाच्यम् ‘ऐश्वर्यादिगुणैः षड्भिः सामग्य्रात् सर्वदेवताः । भगवच्छब्दवाच्याश्च साक्षात्तु भगवान् हरिः ॥ निरपेक्ष्यं तु सामग्य्रं तस्य सर्वाधिकं यतः ॥’ इति वैशेष्योक्तेः । वासुदेवपदाभिधेयं च वस्तु कवयो वदन्ति । ‘सर्वत्रासौ समस्तं च वसत्यत्रेति वै यतः । ततः स वासुदेवेति विद्वद्भिः परिपठ्यते’ इत्यादेः । अत्र च व्याचख्युरेवं श्रीमदानन्दतीर्थभगवत्पादाः । ‘एवं सर्वं तया प्रकृत्यैव कल्पितं विष्णोरन्यत् । एवं प्रकृत्याधारः स्वयमन्याधारो विष्णुरेव । अतः सर्वशब्दाश्च तस्मिन्नेव । राजा गोप्ताऽऽश्रयो भूमिः कारणं चेति लौकिकः । व्यवहारो न तत् सत्यं तयोर्ब्रह्माऽऽश्रयो विभुः ॥ गोप्ता च तस्य प्रकृतिस्तस्या विष्णुः स्वयम्प्रभुः । तव गोप्ता तु पृथिवी न त्वं गोप्ता क्षितेः स्मृतः ॥ अतः सर्वाश्रयश्चैव गोप्ता च हरिरीश्वरः । सर्वशब्दाभिधेयश्च शब्दवृत्तेर्हि कारणम् ॥ सर्वान्तरः सर्वबहिरेक एव जनार्दनः । शिरआधारता यद्वद् ग्रीवायास्तद्वदेव तु । आश्रयत्वं च गोप्तृत्वमन्येषामुपचारतः ॥’ इति ।’ इति कपाठः) ॥ ११ ॥

प्रकाशिका

ननु तथाऽपि वाद्यन्तरोक्तरीत्या मूलाश्रयत्वादिकं मूलकारणत्वं ब्रह्मणः प्रकृतेर्वा स्यादित्याशङ्कायां तयोरपि मूलाश्रयत्वादिकं हरिणैव कल्पितं न स्वत इत्याह ॥ एवमिति श्लोकद्वयेन । अप्रतीतेरेतच्छ्लोकतात्पर्यं दर्शयति ॥ एवमिति । एवमित्यनूद्य तथेति व्याख्यातम् । यथा परमाणूनां मूलकारणत्वादिकं न स्वतस्तथेत्यर्थः । कृशमित्यादेरर्थः सर्वमिति । अजयेत्यस्यार्थः प्रकृत्यैवेति । अवधारणस्य चशब्दार्थकस्य ब्रह्मणा चेत्यर्थः । अन्यदित्यत्राजाया अवधित्वे विष्णोरपि कार्यकोटौ निक्षेपः स्यादतोऽत्रावधिं दर्शय-न्व्याख्याति ॥ विष्णोरन्यदिति ॥ ज्ञानं विशुद्धमित्युत्तरश्लोकस्यापि तात्पर्यं दर्शयंस्तस्यान्वयं दर्शयति ॥ एवमिति । प्रकृत्याधार इत्यनेन यद्वासुदेवं वदन्ति तेन कृतामजामवैहीत्यन्वयः सूचित इति ज्ञातव्यम् ॥ स्वयमनन्याधार इति परमार्थमेकमित्यस्य तात्पर्यम् । ततः किमित्यपेक्षायामुक्तं सिद्धमित्याह ॥ अत इति । मूलाश्रयादिविवक्षायाः समर्थितत्वादित्यर्थः । सर्वशब्दा राजा गोप्ता पृथिवी आश्रय इत्यादयः शब्दास्तस्मिन्विष्णावेव मूलकारणत्वादिविवक्षया प्रयुज्यन्त इति सिद्धमिति शेषः । अनेनेदं वाक्यमन्तेऽध्याहार्यमिति सूचयति ।

एवमेतत्प्रकरणं तात्पर्यतो व्याख्याय तद्दाढर्््याय प्रमाणसंवादं दर्शयति ॥ राजेति । यो लौकिको व्यवहारस्तत्तस्य राजादिकं सत्यं यथार्थवाच्यम् । मुख्यवाच्यमिति यावन् न भवति । कुत इत्यत आह ॥ तयोरिति । राजभूम्योरित्यर्थः । विभुर्ब्रह्माऽश्रयो गोप्ता च तस्य ब्रह्मणः प्रकृतिर्गोप्त्री आश्रया च स्वयं साक्षाद्गोप्ताऽऽश्रयो विष्णुः । गोप्तेति विकत्थमान इत्यस्य तात्पर्यम् ॥ तव गोप्त्रीति । आश्रया चेत्यपि ग्राह्यम् । पृथिवीतलमूलगोप्तृविवक्षया पृथिवीशब्दवाच्यो विष्णुरतस्तव गोप्तृत्वाद्यभावाद्राजादिसर्वशब्दाभिधेयश्चेत्यर्थः । कुत इत्यतः सर्वाश्रयश्चेत्यादिना तच्छब्दप्रवृत्तिनिमित्तधर्मवत्वादित्येका युक्तिरुक्ता । अपरामप्याह ॥ शब्द-वृत्तेरिति । हि यस्मादन्यगतशब्दवृत्तेः शब्दप्रवृत्तिनिमित्तधर्मवत्त्वस्य कारणं तस्मादित्यर्थः ॥ अनेन तदधीनत्वादिति सूत्रोक्तन्यायो दर्शित इति ध्येयम् । न बहिरित्यस्य तात्पर्यं सर्वान्तर इति । ब्रह्मेत्यस्यार्थः सर्वबहिरिति । अपरिच्छिन्नपरिमाणमित्यर्थः । एकमित्यस्यार्थ एक एवेति । अन्यत्र व्यवहारो न मुख्य इत्युक्तमुपपादयति ॥ शिर आधारतेति । अनेन तस्यापि चांघ्रयोरधीत्युक्तस्य तात्पर्यमुक्तमिति ज्ञेयम् ॥

ततश्चायं श्लोकद्वयार्थः ॥ एवं यथा परमाणूनां मूलकारणादिकं न स्वतस्तथा । बृहन्मह-दसदमूर्त्तं सन्मूर्तं जीवं चेतनमजीवं जडं किंबहुनाऽन्यद्विष्णोरन्यद् द्वितीयं वस्तु द्रव्य-स्वभावाशयकालकर्मनाम्नया द्रव्याणि पञ्चभूतान्याशयोऽन्तःकरणं द्रव्याद्यभिमानत्वेन तन्नाम्नयाऽ-जया प्रकृत्या कृतमस्य विद्ययैव कृतमवैहि न स्वतः । अनेन सर्वकर्ता ब्रह्माऽपि हर्यधीनप्रकृत्या कृत इत्युक्तमिति ज्ञातव्यम् ।

प्रकृत्याश्रयस्याकारवाच्यस्य विष्णोरपि किमन्याश्रयेण प्रवृत्तिरित्यपेक्षायां नेत्याशयेन तन्माहात्म्यं वक्ति ॥ ज्ञानमिति । ज्ञानं ज्ञानात्मकं शरीरं विशुद्धं जडामिश्रं परमार्थमुत्तमार्थ-रूपमेकमेकमेव । अनेनानन्याधारत्वं तस्योक्तमिति ज्ञातव्यम् । अनन्तरं स्वगतभेदरहितं न बहिः सर्वदेहान्तर्गतं ब्रह्म बृहत्सर्वस्य बहिः सदमृतं मुक्तजातमत्तीत्यन्नं मर्त्यं ते उभे यच्छतीति सत्यम् । प्रत्यक् सर्वजीवान्तःस्थं प्रशान्तमुत्कृष्टसुखपूर्णं वासुदेवं ज्ञानरूपप्राणपूज्यं वदन्ति वेदाः । अत्र ज्ञानमित्यादिविशेषणानि तस्यानन्याधारत्वोपादकतयोक्तानीति ज्ञातव्यम् ॥११॥

रहूगणैतत्तपसा न याति न विद्यया निर्व्यसनाद्गृहाद्वा ।

न छन्दसा नोत जलाग्निसूर्यैर्विना महत्पादरजोभिषेकम् ॥ १२ ॥

पदरत्नावली

एतादृशवस्तुज्ञानप्रापकः कोऽन्तरङ्गोपाय इत्याशङ्क्य वैराग्यरसायनसेवया प्रवृद्धबला भक्तिरेव, सा च सुदृढाऽतिविशदा महत्सेवामन्तरेण न स्यात्तपआदयस्तदुपदिष्टा एव, तस्यानिदानभूतास्तदर्थं तत्सेवैवावश्यं भाविनीत्यभिप्रेत्याह– रहूगणेति ॥ यातिरत्र ज्ञानं गतिं च वक्ति । विद्यया शास्त्रविषयया केवलया । निर्वसनं संन्यासः । छन्दसा ब्रह्मयज्ञेन । जलाग्निसूर्यैः । सेवितैरिति शेषः । ‘नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन’ इत्यादिश्रुतेः (‘एवंविधस्य हरेरापरोक्ष्यं बिम्बज्ञानिनां महतां शुश्रूषयैवावश्यं सम्पादनीयमित्या-शयेनोपदिशति– रहूगणेति ॥ एतत् सच्चिदानन्दादिलक्षणं ब्रह्म न याति न प्राप्नोति । गृहान् निर्वसनाद् वनवासात्, सन्न्यासाच्च । छन्दसा वेदपाठादिना । जलाग्निसूर्यैर् भागीरथ्यादि-निषेवणेन अग्निहोत्रादिना सूर्योपासनया च । ‘नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन । यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते तनूं स्वाम् ॥’ इत्यादिश्रुतेः ।’ इति कपाठः) ॥ १२ ॥

प्रकाशिका

एतदुक्तरूपं ज्ञानं महत्सेवां विनाऽन्यसाधनैर्न भवतीत्याह ॥ रहूगणेति । एतज्ज्ञानादिरूपं ब्रह्म न याति न जानाति पुरुषः विद्यया सम्प्रदायाभिज्ञव्याख्यातृशून्य-पौरुषोयया । निर्व्यसनात्संन्यासात् । छन्दसा सम्प्रदायानभिज्ञव्याख्यातेन वेदेन । जलाग्निसूर्यैः सेवितैरिति शेषः ॥ १२ ॥

यत्रोत्तमश्लोकगुणानुवादः प्रस्तूयते ग्राम्यकथाविघातः ।

निषेव्यमाणोऽनुदिनं मुमुक्षोर्मतीं सतिं यच्छति वासुदेवे ॥ १३ ॥

पदरत्नावली

यत्र येषां महतां सकाशे प्रस्तूयते प्रसज्यते प्रकर्षेण स्तूयते वा । ग्राम्य-कथाविघातः विषयवार्ता प्रसङ्गनाशनः । सेवाफलमाह– निषेव्यमाण इति ॥ भक्तिशाणो-ल्लीढा सती मतिरुच्यते । यच्छतिरत्र भक्तिनिशितज्ञानं दत्वा संसारो परमे करोतीत्युभयार्थः (‘बिम्बज्ञानिनां संसेवनं बिम्बज्ञानसाधनमित्युपपादयति– यत्रेति ॥ यत्र येषां बिम्बज्ञानिनां महतां सकाशे ग्राम्यकथाविघातः लौकिककथाप्रतिबन्धक उत्तमश्लोकस्य उत्तमयशसो हरेर् गुणानुवादः । ‘पद्ये यशसि च श्लोकः’ इत्यभिधानम् । प्रस्तूयते प्रसज्यते, प्रकर्षेण स्तूयते वा, स चानुदिनं निषेव्यमाणः श्रद्धापूर्वकं श्रूयमाणः मुमुक्षोर् वासुदेवे बिम्बरूपे हरौ सतीं स्वयोग्यां मतिं सुभक्तिनिशितज्ञानं यच्छति ददाति ।’ इति कपाठः) ॥ १३ ॥

प्रकाशिका

महतां सेवयैतल्लभ्यत इत्युक्तमुपपादयति ॥ यत्रेति । यत्र यैर्महद्भिः प्रस्तूयते प्रकर्षेण स्तूयते । ग्राम्यकथानां विघातो यस्मात् । ततः किमित्यत आह ॥ निषेव्यमाण इति । प्रस्तूयमान इत्यर्थः ॥ १३ ॥

अहं पुरा भरतो नाम राजा विमुक्तदृष्टश्रुतसङ्गबन्धः ।

आराधनं भगवत ईहमानो मृगोऽभवं मृगसङ्गाद्धतार्थः ॥ १४ ॥

सा मां स्मृतिर्मृगदेहेऽपि वीर कृष्णार्चनप्रभवा नो जहाति ।

अथो अहं जनसङ्गाद्विमुक्तो विशङ्कमानोऽविकृतश्चरामि१ ॥ १५ ॥

पदरत्नावली

इदानीं भरतः स्वोक्तार्थाप्तिजननाय कुत्रत्य इति चोद्यपरिहाराय च स्वरूपं स्वचरितं च वक्ति– अहं पुरेति ॥ दृष्टेषु राजादिविभवेषु श्रुतेषु स्वर्गादिविषयेषु सङ्गबन्धः स्नेहबन्धः दृष्टश्रुतसङ्गबन्धः सविमुक्तो येन स तथा । हतार्थः नष्टपुरुषार्थ-लक्षणप्रयोजनः या पूर्वजन्मनि कृष्णार्चनजाता सा मां नो जहाति न त्यजति । अधुनापि वर्तत इत्यर्थः । अवधूतो ज्ञातलिङ्गः दुःसङ्गात् संसारो भवतीति शङ्कया भिया अवधूतः कम्पितः, हृदयसादसहित इत्यर्थ इति वा (‘मुमुक्षुणा विषयसङ्गः सर्वथा वर्जनीय इति सूचयन् स्वस्याप्तत्वप्रदर्शनाय ‘कस्त्वं निगूढश्चरसि’ इति प्रश्नोत्तरत्वेन स्ववृत्तं वक्ति– अहमिति ॥ हे वीर विमुक्तः दृष्टश्रुतयोर् ऐहिकपारत्रिकयोः पुरुषार्थयोः स्नेहाख्यो बन्धो येन स तथाभूतः सन् एकान्ते भगवत आराधनमीहमानः कुर्वाणः मृगसङ्गात् हतार्थः नष्टयोगलक्षणप्रयोजनो मृगोऽभवं मृगत्वं प्रापम् । अत्र अपि गर्हिते मृगदेहे पूर्वजन्मनि । ‘अपि सम्भावनाशङ्का-गर्हणासु समुच्चये । प्रश्ने युक्तपदार्थेषु कामचारक्रियासु च ॥’ इत्यभिधानम् । या कृष्णार्चनप्रभवा कृतात् हर्यर्चनादुुदिता सा जन्मान्तरविषयिणी स्मृतिर् मां नो जहाति न तज्याज । अथो तस्मादेवाहं जनसङ्गाद् विशङ्कमानः पुनर्योगभङ्गमाशङ्कमानस् तत एव असङ्गः सर्वसङ्गरहितो भूत्वा अविवृतो ऽप्रकटितज्ञानादिलक्षणः सन् चरामि भुवि सञ्चरामि । अत्रेद-मुदितं भवति । यतश्च विमुक्तदुस्त्यजसङ्गस्य महानुभावस्य परमभागवतस्य भरतस्य विजातीय-हरिणशावकसङ्गोऽपि बन्धको बभूव, ततश्च किमत्र वक्तव्यं सजातीयेषु देहानुबन्धिबन्धुषु सङ्गो बन्धको भवत्येवेति । तस्मान्मुमुक्षुः संसारबन्धनहेतुं विषयसङ्गं सन्त्यज्य, संसारमोचननिदानं महत्सङ्गं सम्पाद्य श्रवणमनननिदिध्यासनद्वारा हरेरापरोक्ष्यमवाप्नुयात् ।’ इति कपाठः)

॥ १४-१५ ॥

प्रकाशिका

विषयसङ्गः सर्वथा मुमुक्षुणा वर्जनीय इति सूचयन् स्वस्याप्तत्वप्रदर्शनाय कस्त्वं निगूढश्चरसीति प्रश्नस्योत्तरमाह ॥ अहं पुरेति द्वाभ्याम् । दृष्टेषु द्रव्यादिषु श्रुतेषु स्वर्गादिषु सङ्गबन्धः स्नेहसम्बन्धः स मुक्तो येन स तथा । हतोऽर्थो नष्टयोगलक्षणप्रयोजनः । अथो तस्मात् । जनसङ्गाद्विशङ्कमानः पुनर्योगनाशमाशङ्कमानोऽभिमानाद्विमुक्तोऽविकृतो विषयलाभनिमित्तकनीचोच्चता लक्षणविकारशून्यः । अवधूत इति पाठेऽवधूतवेष इत्यर्थः

॥ १४-१५ ॥

तस्मान्नरोऽसङ्गसुसङ्गजातज्ञानासिनैवेह विवृक्णसङ्गः ।

हरिं तदीहाकथनश्रुतिभ्यां लब्धस्मृतिर्यात्यतिपारमध्वनः ॥ १६ ॥

॥ इति श्रीमद्भागवतमहापुराणे पञ्चमस्कन्धे द्वादशोऽध्यायः ॥

पदरत्नावली

उपसंहरति– तस्मादिति ॥ यस्माद्भगवतः पूजैतादृशफला तस्मान्नरः पुरुषः संसारमतीत्याध्वनः संसारमार्गस्य पारं तीरं तरीभूतं हरिं यातीत्यन्वयः । केन साधनेन असङ्गानां दुष्टसङ्गरहितानां सतां सुष्ठु सङ्गेन सेवालक्षणेन ज्ञानेन ज्ञानाख्यासिपत्रिकया विवृक्णश्छिन्नः सङ्गः स्वर्गादिफलस्नेहो यस्य स तथा । तस्य हरेरीहानां चरितानां कथनेन श्रवणेन च लब्धा स्मृतिर्यस्य स तथा । संसाराध्वनः पारं विष्णोर्लोकम् अतियाति अतिक्रम्य यातीत्यर्थोऽनुपपन्नः, हरिमित्यस्यान्वयानुपपत्तेः । अतोऽसङ्गतोऽयमर्थ इति (‘तस्मात् कृष्णार्चनफलस्य ममानुभवसिद्धत्वान् नरोऽधिकारी असङ्गनां विषयसङ्गरहितानां ज्ञानिश्रेष्ठानां सुसङ्गेन सुष्ठु शुश्रूषादिलक्षणेन जातं यज्ज्ञानं नित्यानित्यादिविवेकलक्षणं तदेवासिस्तेन इह संसारे विवृक्णः सञ्च्छिन्नो मोहो ऽहन्ताममतापूर्वकविषयासक्तिलक्षणो यस्य स तथा, तदीहानां हरिसुचरितानां कथनश्रुतिभ्यां प्रवचनश्रवणाभ्यां लब्धा स्मृतिः परतत्वसाक्षात्कारलक्षणा येन स एव अध्वनः संसारमार्गस्यातिपारं चरमावधिभूतं हरिं याति । ‘पारं परं विष्णुरपारपारः परः परेभ्यः परमार्थरूपी । स ब्रह्मपारः परपारभूतः परः पराणामपि पारपारः ॥’ इत्यादि विष्णुपुराणे ।’ इति कपाठः)॥ १६ ॥

॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुकृतायां

पञ्चमस्कन्धे द्वादशोऽध्यायः ॥

प्रकाशिका

तस्मात्कृष्णार्चनफलस्य ममानुभवसिद्वत्वान्नरोऽधिकार्यसङ्गो वैराग्यं सुसङ्गः सत्सङ्गस्ताभ्यां जातो निशितो यो ज्ञानाख्योऽसिस्तेनेह संसारे विशेषेण वृक्णश् छिन्नः सङ्गः स्नेहो येन स तथा हरिं याति । कथंभूतम् । अध्वनः संसारमार्गस्यातिपारं चरमावधिभूतम् । केन साधनेनेत्यपेक्षायामुक्तम् । तस्य हरेरीहाश्चरित्राणि तेषां कथनश्रुतिभ्यां लब्धा स्मृतिर्ध्यानं यस्य ॥ १६ ॥

**॥ इति श्रीमद्वेदेशपूज्यपादशिष्येण यदुपतिना विरचितायां **

श्रीमद्भागतटिप्पण्यां प्रकाशिकायां पञ्चमस्कन्धे द्वादशोऽध्यायः ॥ ५-१२ ॥