११ एकादशोऽध्यायः

अकोविदः कोविदवादवादान्वदस्यथो

॥ अथ एकादशोऽध्यायः ॥

ब्राह्मण उवाच–

अकोविदः कोविदवादवादान्वदस्यथो नातिविदां वरिष्ठः ।

न सूरयो हि व्यवहारमेनं तत्वावमर्शेन सहामनन्ति ॥ १ ॥

पदरत्नावली

अस्मिन्नध्याये हेयत्वेन प्रथमतो वक्तव्यत्वेन संसारस्वरूपं निरूप्य तन्निवर्तकसाधनं निरूपयति । प्रथमतस्तदुक्तमाक्षिपन्निवाह– अकोविद इति ॥ राजंस्त्वमको-विदोऽपण्डितः कथं कोविदवादान् वदसि यत्कोविदानां पण्डितानां वादवद्वचन– वदवभासमानान् वादान् वचनविशेषान् ब्रूष इति । यस्मात्तस्मात्स्वधर्ममाराधनमच्युतस्येत्यादि वदतो ममा-पाण्डित्यं कथमत्राह– नातिविदामिति ॥ भिक्षुकश्रुतगलोपरिवक्तृत्ववद्वक्तृत्वान्नातिविदां दृष्टकरतलामकवत्तत्वज्ञानां मध्ये गणनीयत्वेन वरिष्ठः न हि । हेतुवद्भासमानान् प्रपञ्चमिथ्यात्वे प्रयुक्तान् दृश्यत्वादिहेतुन् प्रयुञ्जान आनुमानिकेषु कोविदो भवति, कुतस्तरां वरिष्ठः कुतो वचसामाभासत्वमत्राह– न सूरय इति ॥ सूरयः सर्वज्ञाः शब्दतत्वज्ञा एनं व्यवहारं भर्तु-र्गन्तुर्भवतश्चानुमन्ये शास्ता अधिगोप्ता नृपतिः प्रजानां स्थाल्यग्नितापात् पयसोभितापस्तत्तापत-स्तण्डुलगर्भरन्धिरित्यादिलक्षणतत्वामर्शेन यथास्थितवस्तुस्वरूपविचारेण सह नामनन्ति । ‘देहेन जातस्य हि मे न सन्ति’ ‘विशेषबुद्धेर्विवरं मनाक्च पश्यामि’ इत्यादिग्रन्थस्यार्थापरिज्ञाना-द्विजृम्भितमिति । एतद्धिशब्देनाह । अतः प्रेक्षावद्भिः कटाक्षेणाप्यनभिवीक्षितत्वादुपेक्षणीयस्त्वयं पक्ष इति (‘स्वचरणशरणरहूगणसमुद्धरणाय ब्राह्मणकृतं दारुणसंसारस्वरूपनिरूपणं तन्निवर्तक-साधनसंवर्णनं च प्रकाशतेऽस्मिन्नध्याये । तत्रादौ राज्ञस्तत्वग्रहणाय अहन्ताद्यभिमानस्य प्रतिबन्धकत्वात् तन्निरसनार्थं तमाक्षिपन्नाह– अकोविद इति ॥ त्वमकोविदो न पण्डितः । कोविदानां वादवद् भासमानाद् वादान् वदसि । अथो तस्मात् । ‘अथो मङ्गलसाकल्य-प्रतिज्ञाप्रश्नहेतुषु’ इत्यभिधानम् । अतिविदां करतलामलसलिलावलोकनवदमलसकलतत्वदृशां मध्ये गणनीयत्वेन वरिष्ठः श्रेष्ठो नासि । हि यस्मात् सूरयस् तत्वज्ञानिन एनं व्यवहारं जीवे भरणादिकर्तृत्वं हर्यधीनं, हरिरेव सर्वस्य स्वतन्त्रकर्ता इत्यादिरूपं तत्वावमर्शेन परमार्थविचारेण सह नामनन्ति । तद्विचारसमये जीवोऽपि तदधीनोऽल्पस्य कर्तेति न व्यवहरन्ति । पराधीन-स्याल्पस्य चाविद्यमानतुल्यत्वात्, त्वया तु तथा व्यवहृतत्वान्न त्वं कोविद इति यावत्’ इति कपाठः) ॥ १ ॥

प्रकाशिका

राज्ञः कृपया तत्त्वमुपदेष्टुं तावदुक्तं दूषयति ॥ अकोविद इति । त्वमकोविदो न पण्डितः । कोविदानां वादवदवभासमानान्वादान्वदसि । अथो तस्मादतिशयेन विदां मध्ये वरिष्ठः श्रेष्ठो नासि । न ह्याभासं वदन्विदुषां मध्ये श्रेष्ठो भवतीत्याशयः । कुतो ममाकोविदत्वादिकमित्यत आह ॥ न सूरय इति । हि यस्मात्सूरयो हरिस्वरूपसाक्षा-त्कारिणः । एनं व्यवहारं लौकिकव्यवहारादिसिद्धं हर्यधीनं जीवे भरणादिकर्तृत्वं हरिरेव सर्वस्य स्वतन्त्रकर्त्रेत्यादिरूपतत्वावमर्शेन सह नामनन्ति । तद्विचारसमये जीवोऽपि तदधीनोऽल्पकर्तेति न व्यवहरन्ति । पराधीनस्य चाल्पस्याविद्यमानतुल्यात्वात्त्वया तु तथा व्यवहृतमतो न कोविद इत्यर्थः ॥ १ ॥

तथैव राजन्नुरुगार्हमेधवितानविद्योरुविजृम्भितेषु ।

न वेदवादेषु हि तत्त्ववादः प्रायेण शुद्धो नु चकास्ति साधु ॥ २ ॥

**तात्पर्यम् **

‘न वेदेष्वल्पबुद्धीनां ब्रह्मतत्त्वं समीक्ष्यते । महाबुद्धिस्तु वेदेषु पश्येद् ब्रह्मैव केवलम्’ इति च ॥ २ ॥

पदरत्नावली

ननु मा भूत् सूरिभिरामननं वेदैः किं न स्यादिति तत्राह– तथैवेति ॥ यथा सूरिसिद्धान्ते त्वद्व्यवहारो न चकास्ति सदोषत्वाज्जलदच्छन्नद्युमणिवदल्पबुद्धीनां वेदानां वादेषु मुखतः प्रतीपमानार्थप्रतिपादकलक्षणेषु वाक्येषु तत्ववादः परब्रह्मस्वरूपविषयज्ञान-सिद्धान्तो न नु चकास्ति न प्रकाशते । कथं न चकास्तीत्यत उक्तम्– शुद्ध इति ॥ ‘स्वर्गकामो जोतिष्टोमेन यजेत’ इत्यादि कर्मप्रतिपादकानां ‘ब्रह्मविदाप्रोति परम्’ इति ब्रह्मज्ञान-प्रतिपादकानां च वाक्यानां यथैकवाक्यत्वं तथा न प्रकाशत इत्यर्थः । कस्मात्तथा न प्रकाशनमत्राह– उरुगार्हमेधेति ॥ उरु विस्तीर्णं गार्हमेधं गृहस्थसम्बन्धि वितानं यज्ञकर्म तत्प्रतिपादकया विद्यया उरुधा विजृम्भितेषु सम्यगुद्बोधकेषु यतोऽल्पबुद्धीनां न प्रतीयते ततो महाबुद्धीनां प्रकाशत इत्यतः– हीति ॥ ‘‘न वेदेष्वल्पबुद्धीनां ब्रह्मतत्वं समीक्ष्यते महाबुद्धिस्तु वेदेषु पश्येद्ब्रह्मैव केवलम्’ इति वचनाद् अल्पबुद्धीनां बाहुल्याभिप्रायेण– प्रायेणेति ॥ अयोग्यानामयमेवार्थ इत्यस्मिन्नर्थे एवशब्दः । ‘वादो विषयवक्तृत्वं च मुखतो वचनं स्मृतम्’ इत्यभिधानम् । कर्मपराणां कर्मैव न तत्र विभाग इतरेषामितर एव शुद्धः किं न स्यादिति नेत्याह– साध्विति ॥ एकवाक्यत्वकरणमेव साधु नान्यदित्यर्थः (‘यदुक्तं श्रुतोदानयनादिभावा अङ्गीकार्या इति तत्रोत्तरमाह– तथैवेति ॥ उरवो गार्हा गृहसम्बन्धिनो मेधा यज्ञास्तेषां वितानो विस्तरस्तद्विषया विद्याः कल्पसूत्रादयस्ताभिरुरु अधिकं विजृम्भितेषु कर्मपरतयोद्दीपितेषु वेदवादेषु ‘ज्योतिष्टोमेन स्वर्गकामो यजेत’ इत्यादिवेदानां वादेषु मुखतः प्रतीयमानेष्वर्थेषु । ‘वादो विषयकृत्वं च मुखतो वचनं स्मृतम्’ इत्यभिधानम् । शुद्धस्तत्ववादस्तत्वविचारः साधु न चकास्ति न प्रकाशते । नु निश्चितमेतत् । अल्पबुद्धीनां बाहुल्याभिप्रायेण– प्रायेणेति ॥ उक्तार्थे प्रमाणप्रसिद्धिद्योतको हिशब्दः । यथोक्तं गारुडे ‘न वेदेष्वल्पबुद्धीनां ब्रह्मतत्वं समीक्ष्यते । महाबुद्धिस्तु वेदेषु पश्येद् ब्रह्मैव केवलम् ॥’ इति । इति कपाठः) ॥ २ ॥

प्रकाशिका

यदुक्तं श्रुतोदानयनादिभावा अङ्गीकार्या इति तत्रोत्तरमाह ॥ तथैवेति । उरवो गार्हा गृहसम्बन्धिनो मेधा यज्ञास्तेषां वितानो विस्तारस्तद्विषया विद्याः कल्पसूत्रादय-स्ताभिर्विजृम्भितेषु कर्मपरतयोद्दीपितेषु वेदवादेषु ज्योतिष्टोमेन स्वर्गकामो यजेतेत्यादिवेदानां मुखतो वचनेषु तत्त्ववादो, हरिरेव सर्वयज्ञानां भोक्ता यजमानादिषु स्थित्वा कारयिता जीवास्तु तद्वशगा न स्वातन्त्र्येण कर्तारस्तद्दत्तफलभाजस्तत्प्रीत्यर्थमेव कर्मादिकं वेदैरुच्यत इत्यादिरूपः सिद्धः सत्सम्प्रदायागतः । नु निश्चितम् । साधूपक्रमाद्यानुगुण्येन पदसमन्वयरूपः वाक्य-समन्वयरूपश्च प्रायेण चकास्ति प्रकाशते । तथा श्रौतकर्मकरणाद्यन्यथाऽनुपपत्तिसिद्धं न जीवानां स्वातन्त्र्येण कर्तृत्वं बाधितत्वात् । हर्यधीनं त्वविद्यमानकल्पमेवेत्याशयः । अत्र प्रायेणेत्युक्त्या केषाञ्चिद्वेदोक्तकर्मकर्तॄणां तत्त्ववादश्चकास्तीति प्रतिपादितं ते क इत्यपेक्षायां प्रमाणेनैव तान्दर्शयति ॥ न वेदेष्विति । वेदेषु वेदवादेष्वल्पबुद्धीनामिति सत्सम्प्रदाया-नभिज्ञगुरुशिक्षितानामित्यर्थः । कर्तरि षष्ठी । महाबुद्धिस्तु सत्सम्प्रदायाभिज्ञशिक्षितबुद्धिरेव पश्येज्जानीयात् । वाक्यसमन्वयेन पदसमन्वयेन चेति शेषः ॥ २ ॥

न तस्य तत्त्वग्रहणाय साक्षाद्वरीयसीरपि वाचः समासन् ।

स्वप्ने निरुक्त्या गृहमेधसौख्यं१ न यस्य हेयानुमितं स्वयं स्यात् ॥ ३ ॥

पदरत्नावली

पुरुषार्थबोधकत्वेन प्रवृत्तस्य वेदस्य सर्वस्य पुरुषार्थित्वेन सर्वसाधारणस्य केषाञ्चित्तत्वप्रकाशकत्वं केषांचिन्नेति विशेषो न घटते वैषम्यादिदोषापत्तेरित्याशङ्क्य पुरुष दोषादिदमित्याह– न तस्येति ॥ वरीयसीर् वरीयस्यो अपौरुषेयत्वेन प्रशस्ता वेदान्तगता अपि वाचस् तस्य पुरुषस्य साक्षात्तत्वग्रहणाय पुरुषार्थोपयोगिब्रह्मज्ञानाय न समासन्न सम्यगभव-न्नित्यन्वयः । तच्छब्देनोक्तं यच्छब्देन विशिनष्टि– स्वप्न इति ॥ यस्य पुरुषस्य गृहमेधिसौख्यं स्वप्नेनिरुक्त्या स्वप्नदृष्टान्तेन स्वयमेव स्वत एव हेयत्वेनानुमितं न स्यादित्यन्वयः । स्वप्नसुख-वज्जाग्रत्सुखं हेयमिति लिङ्गज्ञानं न स्यादित्यर्थः । अनेन विषयराग एव वेदान्त– वाक्योक्त-तत्वज्ञानानुदये कारणं नान्यदित्युक्तं भवति(‘नन्वपौरुषेयवेदवाचां सर्वान् प्रत्यविशिष्टत्वेन केषाञ्चित् शुद्धतत्वप्रकाशकत्वं केषाञ्चिन्नेत्यत्र किं कारणमित्यत आह– न तस्येति ॥ वरीयसीरपि वरीयस्योऽपि । अपौरुषेयतया निर्दोषतया साक्षाद् परब्रह्मप्रतिपादकतया प्रशस्ता अपीति यावत् । वाचो वेदवाचस्तस्य जडमतेः साक्षात् तत्वग्रहणाय परमपुरुषार्थप्रद-परब्रह्मज्ञानाय न समासन् न सम्यगभवन् । तस्येत्युक्तं विविच्याह– स्वप्नेनिरुक्त्येति ॥ यस्य पुरुषस्य गृहमेधिसौख्यं गृहसम्बन्धियज्ञादिकर्मजन्यसुखं स्वप्नेनिरुक्त्या स्वप्नप्रतीतवनिताद्यर्थ-दृष्टान्तेन स्वयमेव स्वबुद्ध्यैव हेयानुमितं ‘जाग्रत्कालीनं गृहमेधिसौख्यं, हेयम्, आशुतर-विनाशित्वात्, स्वप्नप्रतीतार्थवत्’ इति हेयत्वेनानुमितं न स्यात् तस्येत्यर्थः । अनेन विषयराग एव वेदोक्ततत्वज्ञानानुदये कारणमित्युक्तं भवति ।’ इति कपाठः) ॥ ३ ॥

प्रकाशिका

नन्वपौरुषेयवेदवाचां सर्वान्प्रत्यविशिष्टत्वेन केषाञ्चित्सत्सम्प्रदायेन केषाञ्चि-न्नेत्यत्रैव किं कारणमित्यत आह ॥ न तस्येति । वरीयसीर् वरीयस्योऽपौरुषेयत्वेनानाशङ्कित-दोषा वाचो वेदवाचस्तस्य तत्त्वग्रहणाय साक्षात्कैवल्यमन्यानपेक्षया तत्त्वग्रहणाय स्वाभिप्रेत-यथार्थज्ञानजननाय न समासन् सम्यगभवन् । तस्य कस्य । यस्य गृहमेधसौख्यं स्वप्नेनिरुक्त्या स्वप्ने विद्यमानसुखदृष्टान्तेनास्थिरत्वादिहेतुना स्वयमेव स्वबुध्यैव न तु बलात्कारेण हेयत्वेनानु-मितं न स्यात् । अनेन वैराग्याभावान्न सर्वेषां सत्सम्प्रदायेन वेदार्थज्ञानमित्युक्तं भवति ॥३॥

यावन्मनो रजसा पुरुषस्य सत्वेन वा तमसा वानुरुद्धम् ।

चेतोभिराकूतिभिरातनोति निरङ्कुशं कुशलं चेतरं वा ॥ ४ ॥

पदरत्नावली

ननु हेयाननुमितत्वे किं कारणमित्यतो रहूगणस्याकोविदत्वख्यापनाय तन्निरूपितादन्यथा संसारस्वरूपं निरूपयति– यावदिति ॥ यावत्पुरुषस्य मनोरज आदि-गुणैरनुरुद्धं गुणवशत्वेन स्थितं तावत्पर्यन्तं चेतोभिर्बुद्धिवृत्तिभिरत एवाकूतिभिर्विषयसुखेच्छाभिः पूर्वानुभवसंस्कारैर्वा निरङ्कुशशास्त्रविधिमुत्सृज्य वर्तमानो यः पुरुषः कुशलाकुशलयोरेकतर-मातनोतीत्यन्वयः (‘ननु हेयत्वेनाननुमितावपि किं निमित्तमित्यतो विषयासक्तमन एवेत्या-शयेनाह– यावदिति ॥ यावत् पूरुषस्य मनो रजआदिभिर्गुणैरनुविद्धं वशीकृतं भवति ताव-त्पर्यन्तं चेतोभिर्बुद्ध्यादिरूपस्ववृत्तिभिराकूतिभिर्विषयसुखेच्छाभिर्निरङ्कुशं शास्त्रविधिनिषेध-रूपाङ्कुशरहितं सत् कुशलं धर्ममितरमधर्मं वाऽऽतनोति ।’ इति कपाठः) ॥ ४ ॥

प्रकाशिका

ननु हेयत्वेनाननुमितावपि किं निमित्तमित्यपेक्षायां दुष्टं मन एवेत्याशयेन संसारस्य मनोनिमित्तकतां दर्शयति ॥ यावदित्यादिना । मनो यावद्रजआदिभिर्गुणैरनुरुद्धं वशीकृतं सच्चेतोभिर्बुद्ध्यादिरूपस्ववृत्तिभिराकूतिभिर्विषयेच्छाभिर्निरंकुशं विधिनिषेधरूपांकुशरहितं कुशलं धर्ममितरमधर्ममातनोति करोति । करणे कर्तृत्वोपचारः । तावानिति वक्ष्यमाणेनान्वयः । निरंकुश इति पाठे पुंस्त्वं वक्ष्यमाणान्तरात्मशब्दापेक्षया ॥ ४ ॥

स वासनात्मा विषयोपरक्तो गुणप्रवाहो विकृतः षोडशात्मा ।

चित्रं पृथङ्नामभी रूपभेदमन्तर्बहिष्ठः स्वपुरैस्तनोति ॥ ५ ॥

दुःखं सुखं व्यतिमिश्रं च तीव्रं कालोपपन्नं फलमाव्यनक्ति ।

आलिङ्ग्य मायारचितान्तरात्मा स्वदेहिनं संसृतिचक्रकूटम् ॥ ६ ॥

तात्पर्यम्

स मायारचित अन्तरात्मा मनः ॥ ५ ॥

पदरत्नावली

कुशलाकुशलकर्मभ्यां किं फलमापादयतीति तत्राह– स वासनात्मा इत्यादि श्लोकद्वयेन । स मायारचितान्तरात्मा प्रकृतिनिमित्तं मनः पृथङ्नामभिः स्वपुरैः स्वस्य जीवस्य सुरनरतिर्यगादिदेहै रूपभेदं सुरनरतिर्यगादिदेहभेदं चित्रं बहुविधं तनोति अन्तरात्मानं विशिनष्टि– वासनात्मेति ॥ नानाकर्मवासनामयः गुणानां प्रवाहो यस्मिन्स तथा । षोडशात्मा दशेन्द्रियाणि पञ्चप्राणाः स्वयमेकं मन एवं षोडशभेदेन विकृतो ऽन्तर्बहिष्ठः वासनारूपेणान्तः-स्थितं विषयरूपेण बहिःस्थितं संसृतिचक्रस्य कूटं राशिर्यस्मिन् स तथा तं स्वदेहिनमालिङ्ग्य वशीकृत्य सुखं दुःखं वाप्यतिमिश्रं सुखमिश्रं दुःखं दुःखमिश्रं सुखं फलं च व्यनक्ति व्यञ्जयतीत्यन्वयः(‘कुशलाकुशलकर्मभ्यां किमापादयतीत्याकाङ्क्षायामाह– स वासनात्मेति ॥ अत्र स इत्यनेन पूर्वप्रस्तुतमनसः परामर्शः । पुंस्त्वनिर्देशस्तु उत्तरश्लोके मायारचितान्तरात्मेति मनसोऽन्तरात्मशब्दविशेषणत्वादिति बोध्यम् । ततश्च श्लोकद्वयस्यायमर्थः । सः मायारचितः प्रकृतिनिर्मितो ऽन्तरात्मा मनः पृथङ््नामभिः सुरनरतिर्यगादिनानानामभिः सह स्वपुरैर् धर्माधर्मद्वारा स्वसम्पादितैः सुरनरतिर्यगादिबहुविधशरीरैश् चित्रं रूपभेदमाकारविशेषं तनोति । तथा स्वदेहिनं जीवमालिङ्ग्य आवृत्य संसृतिचक्रे कूटयति परभ्रामयतीति तथा क्वचिद् दुःखं, क्वचिद् सुखं, क्वचिद् व्यतिमिश्रं सुखमिश्रं दुःखं, दुःखमिश्रं सुखं च तीव्रं बहुलं कालोपपन्नं साध्वसाधुकर्मपरिपाककालेन प्राप्तं फलं कर्मफलमाव्यनक्ति अभिव्यञ्जयति । अन्तरात्मानं विशिनष्टि– वासनात्मेत्यादिना ॥ वासनामयः नानाविधविषयसंस्कारप्रचुरः । विषयोपरक्तः विषयासक्तः । गुणानां सत्वादीनां प्रवाहः कार्यपरम्परा यस्मिन् स तथा । दशेन्द्रियाणि पञ्च प्राणाः स्वयं मनश्चेति षोडश, एतेषु मन एवाततं प्राधान्येन व्याप्तमिति षोडशात्मा । अत एव विकृतः । अन्तर्बहिष्ठः, वासनारूपेणान्तःस्थित्वा स्वाप्नैः शरीरैः स्वाप्ने नानाविधनामरूपे तनोति, चक्षुरिन्द्रियादिद्वारा बाह्यविषयासक्तः सन् जाग्रदवस्थायां नानाविधनामरूपे तनो-तीत्यर्थः ।’ इति कपाठः) ॥ ५-६ ॥

प्रकाशिका

कुशलाकुशलाभ्यां किमापादयतीत्यपेक्षायामाह ॥ स वासनात्मेति । अत्र स इति तच्छब्दो न प्रकृतमनःपरामर्शकः पुंलिङ्गत्वात् । किन्तु वक्ष्यमाणतया बुद्धिस्थस्य मायारचितान्तरात्मेत्यस्य परामर्शक इत्याह ॥ स मायेति । स मायारचितोऽन्तरात्मा मनः । तत्र षष्ठीतत्पुरुषप्रतीतिवारणाय मायारचित इति च्छेदप्रदर्शनम् ॥ ततश्चायं श्लोकार्थः ॥ स मायारचित ईश्वरेच्छया प्रकृतिविकृतोऽन्तरात्मा मनोवासनात्मा नानाविधविषयसंस्कारोपादानभूतो गुणानां सत्त्वादीनां प्रवाहः कार्यपरंपरा यस्मिन्स तथा । अत एव विकृतः षोडशात्मा लिङ्गशरीरे प्रधानतया प्रविष्टः पृथङ्नामभिः सह चित्रं रूपभेदं देवासुरमनुष्यादिजातिविशेषं स्वपुरैर् धर्माधर्मद्वारा स्वसम्पादितैः शरीरैस्तनोति । स्वप्नावस्थायां जाग्रदावस्थायां चेति शेषः । कथंभूतः । अन्तर्बहिष्ठः स्वप्नावस्थायामन्तःस्थितः । एतदुपपादनायोक्तं वासनात्मेति । तथा च वासनारूपेणान्तःस्थितः स्वाप्नैः शरीरैः स्वप्ने नानाविधनामरूपे तनोतीत्यर्थः । बहिष्ठत्वो-पपादनाय विषयात्मेत्युक्तम् । चक्षुरादीन्द्रियद्वारा बाह्यविषयासक्तोऽतो बहिष्ठो जाग्रदवस्थायां नानाविधनामरूपे तनोतीत्यर्थः । अवस्थाद्वये धर्माधर्मसहकृत् सच्छरीराणि सृष्ट्वा जीवानां नामजातिभेदं सम्पादयतीत्याशयः ॥ तेनापि किं फलमित्यत आह ॥ दुःखमिति । दुःखं दुःखरूपं सुखं सुखरूपं व्यतिमिश्रं सुखदुःखमिश्ररूपं फलं तीव्रकालोपपन्नं तीव्रो दुर्निवारो यः कालस्तेन प्राप्तं फलमाव्यनक्ति सृजति मुक्तिगतसुखादिविवक्षया व्यनक्तीत्युक्तम् । ननु जडस्य मनसः कथमेतादृशफलदत्वमित्यत आह ॥ आलिङ्ग्येति । स्वदेहिनं स्वप्रारब्धदेहवंतं जीव-मालिङ्ग्य लिङ्गशरीररूपेण सम्बध्य । कथम्भूतं देहिनं संसृतिचक्रकूटं चक्रवत्परिभ्रमणशीलो यः कूटो राशिर्यस्य तम् ॥ ५,६ ॥

तावानयं व्यवहारः सदा वै क्षेत्रज्ञसाक्ष्योर्भवति स्थूलसूक्ष्मः ।

तस्मान्मनोलिङ्गमदो वदन्ति गुणागुणस्यास्य परावरस्य ॥ ७ ॥

तात्पर्यम्

‘क्षेत्रवित्तु हरिः प्राणः साक्षी ताभ्यां पुमान्सरेत्’ इति च ॥ ७ ॥

पदरत्नावली

यावानहं ममेत्यभिमानस्तावानयं संसारः सुखदुःखलक्षणो ऽभिज्ञाभि-वदनादिलक्षणो भवति । ननु मनसः प्रवर्तकत्वाङ्गीकारे प्रवृत्तेर्भगवत्कर्तृकत्वं गतं स्यादिति तत्राह– क्षेत्रज्ञेति ॥ क्षेत्रज्ञः श्रीनारायणः साक्षी प्राणस् ताभ्यां प्रेरितेन मनसा जीवः संसार-मनुभवतीत्यर्थः । ‘क्षेत्रवित्तु हरिः प्राणः साक्षी ताभ्यां पुमान् सरेत्’ इति वचनादुक्त एवार्थः । स्थूलसूक्ष्मः जाग्रत्स्वाप्नपदार्थविषयः । ‘मन एव मनुष्याणां कारणं बन्धमोक्षयोः’ इत्यभि-प्रेत्योपसंहरति– तस्मान्मन इति ॥ यत एवं श्रीहरिकटाक्षेक्षितमनसा संसारस्तस्माददो मनः परापरस्य पूर्वोत्तरकाले वर्त्तमानस्य गुणागुणस्य मुख्यकर्तृर्हरेः प्रवृत्तौ गुणभूतस्य स्वतः सत्वादिगुणमुक्तस्यास्य जीवस्य संसृतौ लिङ्गं हेतुं वदन्ति । अयं व्यलीको नेत्याह– सदेति ॥ वा इत्यनेन हेतुभूतं प्रमाणं सूचयति(‘यावत्पर्यन्तं मनो विषयेष्वासक्तं भवति तावान् तावत्पर्यन्तमयं व्यवहारो ऽहम्ममेत्यभिमानपूर्वकसुखदुःखलक्षणः सांसारिको व्यवहारो भवति । ननु जडरूपं मनः कथङ्कारं जीवं संसारे प्रवर्तयितुं प्रभवतीत्यत आह– क्षेत्रज्ञसाक्ष्योरिति ॥ क्षेत्रज्ञः श्रीनारायणः, साक्षी श्रीमुख्यप्राणः, तयोः प्रेरकयो सतोरिति यावत् । तदुक्तं गारुडे ‘क्षेत्रवित्तु हरिः प्राणः साक्षी ताभ्यां पुमान् सरेत्’ इति । श्रीहरिप्राणाभ्यां प्रेरितेन मनसा जीवः संसारमनुभवेदित्यर्थः । स्थूलसूक्ष्मः जाग्रत्स्वाप्नपदार्थविषयः । मन एव मनुष्याणां कारणं बन्धमोक्षयोरित्यभिप्रेत्योपसंहरति– तस्मान्मन इति ॥ तस्मात् क्षेत्रज्ञसाक्ष्यधीनत्वाददो मनः,

परावरस्य उत्कृष्टापकृष्टरूपतारतम्ययुक्तस्य, गुणागुणस्य गुणस्य सत्वादित्रिगुणसम्बन्धवतः संसारस्य, अगुणस्य त्रिगुणसम्बन्धरहितस्य मोक्षस्य च लिङ्गं हेतुं वदन्ति ।’ इति कपाठः) ॥७॥

प्रकाशिका

तावांस्तावत्पर्यन्तमयं व्यवहारोऽहंममेत्यादिरूपो वैषयिकसुखेऽहेयत्वादिरूपो वा । क्षेत्रज्ञसाक्ष्योः सकाशाद्भवति । कथंभूतः । स्थूलसूक्ष्मो जाग्रत्स्वाप्नपदार्थविषयः । अत्र क्षेत्रज्ञसाक्षिशब्दयोः प्रकृतसङ्गतमर्थं प्रमाणेन दर्शयति ॥ क्षेत्रविदिति । तुशब्दोऽवधारणे । हरिरेवेति सम्बन्धः । ताभ्यामित्यनेन मूले सकाशादित्यध्याहारं सूचयति । चरेत् । जाग्रत्स्वप्न-योरिति शेषः । एवं मनसः संसारहेतुत्वं किं सर्वदा न किन्तु सत्सङ्गतिमतो मोक्षयोग्यजीवस्य गृहमेधसौख्यस्य हेयत्वानुमितितत्वग्रहणादिजननद्वारा तदेव मोक्षस्यापि कारणमित्याशयेनाह ॥ तस्मादिति । तस्मात्क्षेत्रज्ञसाक्ष्यधीनत्वाददो मनः परावरस्योत्तमानुत्तमजीवसमुदायस्य गुणागुणस्य गुणेन गुणसम्बन्धेन रहितोऽगुणो मोक्षस्तस्य लिङ्गं हेतुं वदन्ति । मन एव मनुष्याणां कारणं बन्धमोक्षयोरित्याद्यागमादिति शेषः । अत्रायं विवेकः । यः परो मोक्षयोग्यो जीवस्तस्य मनः सत्सङ्गत्यभावेनोक्तरीत्या संसारकारणं तत्सङ्गतौ मोक्षस्य । अवरा अपि द्विविधाः । नित्यसंसारिणस्तमोयोग्याश्च । आद्यानां सर्वदा संसारे कारणं द्वितीयानां दुष्टसङ्गत्या हरिद्वेषाभिवृद्धौ तमोरूपमोक्षस्येति ॥ ७ ॥

गुणानुरक्तं व्यसनाय जन्तोः क्षेमाय नैर्गुण्यमथो मनः स्यात् ।

**यथा प्रदीपो घृतवर्तिमास्थितो स्थितिं स धूमां भजति ह्यन्यदा स्वम् **

॥ ८ ॥

पदरत्नावली

एकस्योभयहेतुत्वं कथमत्राह– गुणेति (एकस्यैव कथं विरुद्धोभयकार्य-जनकत्वमित्याशङ्कापरिहारायोक्तं विशदयति– गुणेति ॥ जन्तोर् जीवस्य’ इति कपाठः) ॥ मनो गुणानुरक्तं शब्दादिविषयाभिनिविष्टं व्यसनाय सांसारिकक्लेशाय भवति । गुणानां विषयाणां (‘शब्दादिविषयाणां’ इति कपाठः) समुदायो गुण्यं, निर्गतं विषयजाताद् यत्तन्निर्गुणं ब्रह्म, तत्सम्बन्धि नैर्गुण्यम् । ‘केवलो निर्गुणश्च’ इति श्रुतेः । सत्वादिगुणरहितं तत्सम्बन्धि वा नैर्गुण्यं क्षेमाय मोक्षाय मनो निमित्तं भवतीत्यर्थः । उभयत्रापि दृष्टान्तमाह– यथेति ॥ घृतेन सह वर्तमानं वर्तिकामास्थितो ग्रसमानः प्रदीपो यथा सधूमां स्थितिं शिखालक्षणां भजति धूमसाहित्येन सम्यक्ज्वलतीत्यर्थः । अन्यदा घृतवर्त्यभावे स्वरूपं तेजोमात्रलक्षणं निज-स्वरूपलाभेन सम्यक् प्रकाशितो भवति । घृतवर्तिग्रासाभावे निर्मषीकस्वप्रकाशलक्षणं स्वरूपं व्रजतीति वा (‘तप्तायःपिण्डहिरण्यपिण्डादिषु स्वं निर्मषीकस्वप्रकाशलक्षणं स्वरूपमेव भजति’ इति कपाठः) । हिशब्देन लोकदृष्टं प्रमाणयति ॥ ८ ॥

प्रकाशिका

एकस्यैव कथं विरुद्धोभयकार्यजनकत्वमित्याशङ्कापरिहारायोक्तं विशदयति ॥ गुणेति । गुणानुरक्तं शब्दादिविषयासक्तं व्यसनाय भवति । क्षेमाय मोक्षाय नैर्गुण्यं निर्गुणं भगवत्कथामृतपानादिना विषयासक्तिरहितं मनः निमित्तमिति शेषः । अथशब्दोऽप्यर्थः । क्षेमाया-पीति सम्बन्धः । अवस्थाभेदेनैकस्योभयरूपत्वं दृष्टान्तेनोपपादयति ॥ यथेति । घृतेन सह वर्तमानां वर्तिकामन्यदा घृतवर्त्यभावे स्वां निर्धूमां शुक्लभास्वरप्रभारूपां स्वाभाविकीं स्थितिं भजति

॥ ८ ॥

पदं तथा गुणकर्मानुबद्धं बहिर्मनः श्रयतेऽन्यत्र तत्वम् ।

एकादशासन्मनसोऽस्य वृत्तीराकूतयः पञ्च धियोऽभिमानाः ॥ ९ ॥

तात्पर्यम्

पदं विषयम् । ‘एकादशेन्द्रियद्वारा स्युरेकादशवृत्तयः । शब्दाद्या-स्तदभीमानास्तदिच्छाश्चैव पञ्चशः । स्पर्शान्तर्भावतः कर्मखानां नैव पृथग्गतिः ॥ ९ ॥

पदरत्नावली

तथा सत्वादिगुणैः पूर्वसञ्चितैः कर्मभिश्चानुबद्धं पृष्ठबन्धनप्राप्तचोरवन्मनो बहिः पदं विषयं शब्दादिलक्षणं श्रयते सेवते । पुनःपुनरुत्पन्नप्रवृद्धरागादिदोषान्धीकृतमिदमेव श्रेयो नान्यदिति निर्धार्य वर्तत इत्यर्थः । अन्यत्र तुच्छीकृतविषयसम्पर्कत्वे तत्वमनारोपितं ब्रह्मस्वरूपं श्रयते । निरस्तरागादिदोषत्वेन निर्मलं मनो ‘अनादिमत्परं ब्रह्म’ इत्यादि-स्मृतिबलादिदमेव अनावृत्त्यनश्वरं (‘पुनरावृत्तिरहितमनश्वरं’ इति कपाठः) श्रेयो नान्यन्नश्वरं दुःखाकरमिति निश्चित्य (‘निश्चित्य निरन्तरं हरिपरं भवतीति भावः’इति कपाठः) तदेकनिष्ठं भूत्वा वर्तत इति भावः । अतो विरुद्धधर्माक्रान्त्या त्वेकस्य मनस उभयत्र प्रवृत्तिर्न घटत इति दोषो निरस्तो भवत्यनेनेति सिद्धम् ॥ श्रोत्रादीन्द्रियेषु (‘चक्षुरादीन्द्रियेषु’ इति कपाठः) सत्सु मनस एव प्राधान्यं कथमित्याशङ्क्य तत्तदिन्द्रियद्वारा तत्तद्विषयेषु मनसः प्रवृत्तेरित्याह– एकादशेति ॥ अस्य मनस एकादश वृत्तीर्वृत्तय । अत्र कश्विद्विभागोऽप्यस्ति । एकादशधा-विभक्तस्य मनस आकूतयः । अहं शब्दं शृृणवानीत्यादि विषयानुभवेच्छाः पञ्च शब्दादीनां च तावत्त्वान्निश्चयलक्षणरूपान्तरमास्थितस्य धियो बुद्ध्यपरपर्यायस्य मनसोऽभिमाना अहं मधुरं शृृणोमित्यादिरूपाश्च पञ्च । तदुक्तम्– ‘शब्दाद्यास्तदभीमा नास्तदिच्छाश्चैव पञ्चश’ इति । कर्मेन्द्रियाणां स्पर्शान्तर्भावेन एकत्वेन पृथग्विषयाभावेन पञ्चपञ्चसङ्ख्यात्वोपपत्त्या एकादशधापि विभक्तस्य मनस एकादशाकूतयोऽप्यपेक्षिता इति दुराग्रहो निरस्तः । ‘स्पर्शान्तर्भावतः कर्म स्वानां नैव पृथग्गतिः’ इति वचनात् ॥ ९ ॥

प्रकाशिका

तथा गुणकर्मानुबद्धं सत्त्वादिगुणान् कर्माणि चानुसृत्य विद्यमानैः कामादिभिर्बद्धं युक्तं मनो बहिःपदं श्रयते । अन्यत्रान्यदा रागादिदोषाद्यपगमेन तत्त्वं सर्वदैक-प्रकारं परं ब्रह्म श्रयते । अत्र पदमित्यस्य प्रकृतसङ्गतमर्थं दर्शयति ॥ पदमिति । तथा च बहिःपदं बाह्यशब्दादिरूपं विषयं श्रयते तद्विषयकवृत्तीर्जनयतीति मूलार्थ इत्याशयः । इयमेव मनसः सधूमत्वस्थानीयस्थितिस् तत्त्वविषयकवृत्तिजनकत्वरूपा तु स्वाभाविकस्थितिस्थानीयेति ज्ञातव्यम् । बहिःपदं श्रयत इत्युक्तं विशदयति ॥ एकादशेति । अप्रतिपत्तिविप्रतिपत्ति-निरासायैतच्छ्लोकद्वयतात्पर्यं प्रमाणेनैव दर्शयति ॥ एकादशेति । श्रोत्रादीनि दशेन्द्रियाणि मनश्चैकमित्येकादशेन्द्रियाणि । तद्द्वारा साक्षाच्चैकादशवृतयः । कार्याणि ज्ञानकर्मरूपाणि स्युः । अयमत्र विवेकः । मनः साक्षादेव ममाहमित्यभिमानरूपां वृत्तिं करोति । श्रोत्रादिदशेन्द्रिय-प्रवेशेन तद्द्वारा शब्दादिज्ञानादिदशवृत्तीरपि जनयति । अतः शब्दाद्यनुभवरूपाः पञ्चवृत्तयो व्यवहरणादिकर्मरूपाः पञ्चाभिमानरूपा चैका वृत्तिरिति साक्षात्परंपरया मनस एव जायमाना वृत्तय एकादशेति मूलार्थ इत्याशयः । दशानामेव द्वारत्वेऽपि छत्रिन्यायेनैकादशेन्द्रियवृत्ति-द्वारेत्युक्तिरिति ज्ञातव्यम् । साक्षादपि मनोवृत्तीनामेकादशत्वमस्तीत्यभिप्रेत्य प्रवृत्तं मूलमाकूतयः पञ्चधियोऽभिमाना इति । तत्तात्पर्यमाह ॥ शब्दाद्या इति । पञ्चशः पञ्चतया विद्यमाना ये शब्दाद्यास्तेषु पञ्चशोऽहंममाभिमानास्तदनन्तरं तेषां पञ्च इच्छाः । चशब्दान्मनोविषयेऽर्थेऽभि-मानादि सङ्ग्रहः । अनेन मूले चशब्दोऽध्याहार्य इति सूचयति ।

नन्वेवं कर्मेन्द्रियविषयेष्वप्यभिमानादिसत्वादाधिक्यं प्राप्तमित्यत आह ॥ स्पर्शांतर्भावत इति । स्पृशत्यनेनेति स्पर्शस्त्वगिन्द्रियं तत्रान्तर्भावतोऽन्तर्भावविवक्षातः कर्मखानां कर्मेन्द्रियाणां पृथग्गतिः स्थितिर्नात्र विवक्षिताऽतस्तद्विषयेष्वभिमानादिकं न पृथग्वाच्यमिति शेषः । तथा चाभिमानाः पञ्चसु शब्दादिबाह्येन्द्रियविषयेष्वहंममेति स्वातन्त्र्याभिमानाः पञ्च ततस्तेषु जायमाना आकूतय इच्छाश्च पञ्च धियो मनसश्च विषये स्मृत्यादिरूपे जायमानोऽभिमानादिरेक इति । अस्य मनसः साक्षादेवैकादशवृत्तीर्वृत्तय इति मूलं व्याख्येयमिति भावः ॥ ९ ॥

मात्राणि कर्माणि पुरं च तासां वदन्ति हैकादश वीर भूमिम् ॥ १० ॥

तात्पर्यम्

एकादशैव चेष्टाः स्युरिन्द्रियाणां पृथक् पृथक् । गोलकास्तदधिष्ठानं चैकादश निगद्यते ।

पदरत्नावली

तर्हीन्द्रियचेष्टानामपि पञ्चत्वं स्यादित्याशङ्क्य विषयबाहुल्येन तावत्त्वं न घटत इत्यभिप्रेत्याह– मात्राणीति ॥ मात्राणि श्रोत्रादिज्ञानेन्द्रियविषयाः शब्दादयः कर्माणि वागादिकर्मेन्द्रिय– विषयागमनादिव्यापाराः पुरं शरीरं चेत्यतस्तासामिन्द्रियवृत्तीनां भूमिमधिष्ठान-मेकादश वदन्ति । हेत्यनेनेन्द्रियगणं च भूमिं वदन्ति । तदुक्तम्– ‘एकादशैव चेष्टाः स्युरिन्द्रियाणां पृथक् पृथक् । गोलकास्तदधिष्ठानं चैकादश निगद्यत ॥’ इति । हे वीर ज्ञानग्रहणेच्छालक्षणाध्यवसायान्तगामिन् ॥ १० ॥

प्रकाशिका

एवमेकादशमनोवृत्तीर्द्वेधा प्रदर्श्यैकादशेन्द्रियद्वारेत्युक्ते प्रथमपक्षे एकादश-वृत्तिविषयप्रदर्शनाय प्रकृतस्य मात्राणीत्यर्धस्य तात्पर्यमाह ॥ एकादशैव चेति । इन्द्रियाणां तज्जनितवृत्तीनां पृथक् पृथक् विद्यमाना इच्छाविषयाश्चैकादशैव स्युरित्यन्वयः । तथा च मीयन्त इति मात्राणि पञ्च शब्दादीनि कर्माणि व्यवहरणादिक्रियाकर्मतया प्रसिद्धानि वक्तव्यादीनि पञ्च पुरमभिमानविषयीभूतं शरीरं चैकमिति तासामिन्द्रियवृत्तीनां हे वीर एकादशसङ्ख्याकां भूमिं विषयं वदन्ति प्राज्ञा इति मूलं व्याख्येयमित्याशयः । एकादशभूमिं वदन्तीत्येतावन्मात्र-स्यार्थान्तरमप्याह ॥ गोलका इति । गोलकाःकर्णादयो दशगोलकाः । तच्छब्दो बुद्धिस्थमनसः परामर्शकः । तथा च तस्य मनसोऽधिष्ठानं शरीरान्तस्थितहृदयादिरूपमेकमित्येकादशसङ्ख्याका निगद्यन्ते । इन्द्रियाणां भूमिरिति शेषः । ततश्च भूमिमिन्द्रियाणामाश्रयमेकादशैकादशसङ्ख्याकां वदन्तीति मूलार्थ उक्तो भवतीति ज्ञातव्यम् ॥ १० ॥

गन्धाकृतिस्पर्शरसश्रवांसि विसर्गगत्यार्त्यभिजल्पशिल्पाः ।

एकादशं स्वीकरणं ममेति मायामहं द्वादशमेकमाहुः ॥ ११ ॥

तात्पर्यम्

**‘एष संसृतिसम्भारो द्वादशैवाथवा भवेत् । दशकं विषयाणां च ममाह-मिति च द्वयम् । द्वयमेव ममाहं वा संसृतिस्त्वहमेव वा’ इति च । आर्तिरुपस्थविषयः **

॥ ११ ॥

पदरत्नावली

मात्राणीत्यादिनोक्ता भूमीः पृथक् पृथक् निदर्शयति– गन्धेति ॥ आकृती रूपम् अत्तिरुपस्थविषयः । शिल्पो हस्तविषयः । एकादशमधिष्ठानं ममेति स्वीकरणं सङ्कल्पविकल्पलक्षणं ‘स्वीकारयोग्यमिन्द्रियगणं चाहुः पुरितनौ शेत’ इति श्रुतेः । हृदयलक्षणा-नाड्यधिष्ठानसम्भवात् कथमेकादशत्वमित्याशङ्क्य सङ्ख्यान्तरमाह– मायामिति ॥ मायां नानाधिष्ठानभूतां नाडीमहमित्यभिमन्तव्यं मायां निश्चयज्ञानविषयं वा । तदुक्तम्– ‘एष संसृतिसम्भारो द्वादशैवाथवा भवेत्’ इति । एकादशत्वं च प्रसङ्गाद्वक्ति– ‘दशकं विषयाणां च ममाहमिति च स्वयम् (द्वयम्)’ इति । सर्वान्तर्भावेन द्वयमेव वक्ति– ‘द्वयमेव ममाहं च’ इति मायामहमित्यनेनायमर्थो ध्वनितः । तथाहि विषायाणां दशकं मनसैकमहमित्येकमिति द्वादशमित्यर्थः । ममेति वृत्तिविशिष्टमन्तः करणं मायामिति ज्ञातव्यम् । यद्वा द्वादशसङ्ख्या-विशिष्टत्वेनोक्तमहमिति वृत्तिविशिष्टमन्तः करणमेकमेव संसृतिकारणमिति शेषः । तदुक्तम्– ‘संसृतिस्त्वहमेव च’ इति ॥ ११ ॥

प्रकाशिका

उक्तमनोवृत्तिसाध्यसंसृत्यन्तरंगकारणसङ्ख्यां मतभेदेन दर्शयितुं गन्धेत्यादि-श्लोकः प्रवृत्तः । तत्तात्पर्यमाह ॥ एष इति । संसृतिः सम्यक् श्रयतेऽनेनेति संसृतिः संसारः । संसारान्तरङ्गकारणमित्यर्थः । अनेन मायामित्येतदुक्तार्थम् । एषः पूर्वोक्तमनोवृत्तिविषयादिरूपो द्वादशसङ्ख्याकः कथमित्यतस्तं प्रकारं दर्शयति ॥ दशकमिति । बाह्येन्द्रियविषयाणां शब्दादीनां दशकं तेषु ममैतेऽहमेतेषां कर्तेत्यभिमानद्वयं चेति द्वादशैव भवेदिति । पक्षान्तरमाह ॥ द्वयमेवेति । अहंममेति वृत्तिद्वयमेव संसृतिः संसृतिकारणमिति वाऽस्त्वित्यर्थोऽयमपि मूले उपलक्ष्य इत्याशयः । एकमाहुरित्यस्य तात्पर्यम् ॥ संसृतिस्त्वहमेवेति । अहमेव कर्तेति जीवस्य स्वातन्त्र्येण कर्तृत्वभ्रमरूपा मनोवृत्तिरेकैव । तु विशेषेण संसृतिकारणमिति वा भवेदित्यर्थः । विषयदशकस्याभिमानं विना बन्धकत्वाभावादभिमानद्वयमेवेति पक्ष उक्तः । ममेत्यभिमानस्याहमेव कर्तेत्यभिमानेऽन्तर्भावादेकमेव संसृतिकारणमिति तृतीयपक्ष उक्त इति ज्ञातव्यम् । मूले आर्तिशब्देन कस्य कर्मेन्द्रियस्य विषयः कथ्यत इति न प्रतीयतेऽतस्तदर्थ-माह ॥ आर्तिरूपस्थविषय इति । गुह्येन्द्रियविषय इत्यर्थः ।

अत्राद्यश्लोक उदाहृतप्रमाणेनैव सम्यग्व्याख्यातो द्वितीयस्येयं योजना । आकृतिः रूपं श्रवः शब्दो विसर्गादयो गुदादिकर्मेन्द्रियसाध्यचेष्टाविशेषविषया आर्तिर् आरतिः सम्भोगः । रेफगताकारलोपश्छान्दसः । शिल्पा हस्तवृत्तिविषयाः । शिल्प इत्यनन्तरं दशेति शेषः । इदं विषयदशकं मम मदधीनमिति स्वीकरणमभिमानमेकादशम् एकादशत्वसङ्ख्यापूरकमाहुर्ज्ञानिनः । अहमेषां कर्तेति स्वीकरणं द्वादशं द्वादशत्वसङ्ख्यापूरकमाहुः । तथा माया संसृत्यन्तरङ्गकारणं द्वादशं द्वाद्वशत्वसङ्ख्याकमिति केचिज्ज्ञानिन आहुरित्यर्थः । अहं ममेति स्वीकरणद्वयमेव मायां केचिदाहुरित्यपि ग्राह्यम् । अथवा अहमेवेति स्वीकरणमेकमेव मायामाहुरित्यर्थः ॥ ११ ॥

द्रव्यस्वभावाशयकर्मकालैरेकादशामी मनसो विकाराः ।

सहस्रशः शतशः कोटिशश्च क्षेत्रज्ञतो न मिथो न स्वतः स्युः ॥ १२ ॥

तात्पर्यम्

द्रव्यं देहादिः स्वभावो योग्यता । जीवस्य क्षेत्रज्ञतः स्युः । मिथः स्वतश्च न स्युः ॥

पदरत्नावली

शृृङ्गग्राहिकयैवाभिव्यक्तिनिमित्तमाह– द्रव्येति ॥ द्रव्यं देहादिः, स्वभावो जीवस्यानादियोग्यता, आशयः पूर्वानुभवसंस्कारः, कर्म जन्मान्तरकृतं पुण्यपापलक्षणमदृष्टं, कालः फलपाचक एतैरुद्बोदिता अमी मनस एकादश विकाराः । जायन्त इति शेषः । न केवलं मनस एकादशैव विकाराः किन्तु मन्दमध्यमोत्तमविक्षेपभेदेन शतश आदिविकाराः सन्तीत्याह– सहस्रश इति ॥ क्रमभङ्गस्तु नियमभङ्गाय । ननु देहाद्येवैषां यदि निमित्तं तर्हि जन्मादिसूत्रमसङ्कोचेन ब्रह्मकारणत्वमनर्थकं स्यात्, अपि च ब्रह्म वा एतैः कारणैः कारयतीति श्रुतिश्चापहस्तिता स्यादिति तत्राह– क्षेत्रज्ञत इति ॥ क्षेत्रज्ञतो ब्रह्मणो जीवान्तर्यामिणो हरेरेति विकाराः स्युः । जीवस्येति शेषः । देहाद्यधिष्ठाय जीवान्तर्यामी हरिर् जीवादृष्टमपेक्ष्य तद्भोगार्थमुत्पादयत्यतो देहादेः कर्तृत्वोपचारोऽतो न श्रुतिसूत्रे व्यर्थे इति भावः । नन्वन्योन्या-पेक्षया मदिराद्रव्यवत्स्वतो वैषामुत्पत्तिः किन्न स्यात्, किं मध्ये ब्रह्मकल्पनयेति तत्राह– न मिथ इति ॥ १२ ॥

प्रकाशिका

नन्वेकादशेन्द्रियैर्जायमाना एकादशवृत्तयः कैर्निमित्तैः केनोपादानेन च केन कर्त्रा कस्य प्रत्यायकं कतिधा जायन्त इत्यपेक्षायामाह ॥ द्रव्येति । अत्र द्रव्यस्वभावशब्दयोः प्रकृतसङ्गतमर्थमाह ॥ द्रव्यं देहादिरिति । आदिशब्दादिन्द्रियग्रहणम् । जीवस्येति शेषोक्तिः । क्षेत्रज्ञ इत्यस्याव्यवहितेन नञा सम्बन्धे क्षेत्रज्ञतो न स्युर्मिथोऽपि न स्युः किन्तु स्वत एवेति प्रतीतिवारणाय स्युरित्यनेनान्वयमाह ॥ क्षेत्रज्ञतः स्युरिति । क्षेत्रज्ञशब्दः परमात्मवाचीति पूर्वमेवोक्तम् । क्षेत्रज्ञत इत्यनन्तरं श्रुतस्य नञो मिथ इत्यनेनान्यस्य च नञः स्वत इत्यनेनैव सम्बन्ध इत्यभिप्रेत्याह ॥ मिथः स्वतश्च न स्युरिति । चशब्देन स्युरित्यस्य प्रत्येकं सम्बन्ध इति सूचयति ॥ ततश्चायं श्लोकार्थः ॥ द्रव्यं देहादि स्वभावो योग्यताऽऽशयोऽन्तःकरणं कर्माण्यदृष्टानि कालः फलानुकूलस्तैः । अत्राशय उपादानमन्यन्निमित्तमिति ज्ञातव्यम् । विकारा इत्यनन्तरं जीवस्येत्यध्याहार्यम् । प्रत्येकं सहस्रश इत्यादि । चशब्दात्कोटिसङ्ख्यातोऽप्यधिकां सङ्ख्यां सूचयति । क्षेत्रज्ञतो हरेः सकाशात्स्युः । कुत इत्यतः परिशेषप्रमाणादित्याह ॥ न मिथो न स्वत इति । तथा चोक्तवृत्तीनां कार्यत्वेन कर्तरि सिद्धे वृत्तिमज्जीवस्य जीवान्तरस्य वा न स्वातन्त्र्येण कर्तृत्वं तदिच्छानुसारेण वृत्तिजननाभावादन्यत्र चाप्रसङ्गाद्धरिरेव स्वातन्त्र्येण कर्तेति कल्पनीयमित्याशयः ॥ १२ ॥

क्षेत्रज्ञ एता मनसो विभूतीर्जीवस्य मायारचिता अनित्याः ।

आविर्हिताः क्वापि तिरोहिताश्च शुद्धो विचष्टे ह्यविशुद्धकर्तुः ॥ १३ ॥

पदरत्नावली

नन्वेषां सत्यत्वे किं मानमिति तत्राह– क्षेत्रज्ञ इति ॥ भोगयोग्यः क इत्यत उक्तम्– जीवस्येति ॥ उपादानाभावेनेन्द्रजालसृष्टिवन् मिथ्याभूता इति नेत्याह– माया-रचिता इति ॥ मायया प्रकृत्या रचिताः ‘मायां तु प्रकृतिं विद्यात्’ इति वचनात् । नित्यत्वे कथं रचितत्वमित्यत उक्तम्– अनित्या इति ॥ नित्यस्य जीवस्यानित्यानामनुभवः कथमित्यत उक्तम्– आविर्हिता इति ॥ जाग्रत्स्वप्नयोराविर्हिताः क्वापि सुप्तौ तिरोहिता विचष्टे पश्यति, दर्शनं साक्षित्वेन न त्वनुभवनम् । ‘अनश्नन्नन्यो अभिचाकशीति’ इति श्रुतेः । अविशुद्ध-कर्तुरित्यनेन साक्षिणो हरेर्जीवं व्यावर्तयति (‘जीवस्य विभूतीर्विविधभवनरूपा एता वृत्तीर्माया-रचिता मायया हरिप्रेरितया प्रकृत्या रचिता निर्मिताः । ‘मायां तु प्रकृतिं विद्यात्’ इत्यादेः । जाग्रत्स्वप्नयोराविर्हिता जीवस्यानुभवारूढत्वेन प्रकटाः । क्वापि सुप्त्यवस्थायां तिरोहिताः । शुद्धस्तद्दर्शनेन विकारशून्यो विचष्टे साक्षित्वेन पश्यति । अविशुद्धकर्तुर् वृत्तिसम्बन्धेन विकारवतः कर्तुर्जीवस्य मनसो विभूतीरित्यन्वयः । ‘द्वा सुपर्णा सयुजा सखाय समानं वृक्षं परिषस्वजाते । तयोरन्यः पिप्पलं स्वाद्वत्ति अनश्नन्नन्यो अभिचाकशीति’ इत्यादिप्रमाणसूचको हिशब्दः’ इति कपाठः) ॥ १३ ॥

प्रकाशिका

एवं श्लोकत्रयेण गुणकर्मानुबद्धं मनो बहिःपदं श्रयत इत्युक्तमुपपाद्येदानीं हरेरेव स्वातन्त्र्येण तत्कर्तृत्वमुपपादयन् अन्यत्र तत्त्वं श्रयत इत्युक्तं तत्त्वमुपदिशति ॥ क्षेत्रज्ञ इति ॥ विभूतीर्विविधभवनरूपा एता वृत्तीर्मायारचिताः स्वेच्छानिर्मिता अनित्या अस्थिरास्त्रि-क्षणावस्थायिन्यः क्वापि हेये उपादेये च विषये जाता आविर्हिता इदमहं जानामीत्यनुव्यवसिताः क्वापि तृणादौ विषये जायमानास्तिरोहिता न तथा प्रायेणानुव्यवसिता जाग्रत्स्वप्नयोराविर्हिताः सुप्तौ तिरोहिता इत्यप्याहुः । शुद्धस्तद्दर्शनेन विकारशून्यो विचष्टे पश्यति । अविशुद्धकर्तुर्वृत्ति-सम्बन्धेन विकारवतः कर्तुर्जीवस्य मनसो विभूतीरित्यन्वयः । अनेन जीवभिन्न एव क्षेत्रज्ञस्तत्वमित्युपपादितम् ॥ १३ ॥

क्षेत्रज्ञ आत्मा पुरुषः पुराणः साक्षात्स्वयंज्योतिरजः परेशः ।

नारायणो भगवान्वासुदेवः स्वमाययाऽऽत्मन्व्यवधीयमानः ॥ १४ ॥

तात्पर्यम्

स्वमाययाऽऽत्मन्व्यवधीयमानः स्वेच्छया स्वस्मिन्नेव तिरोहितत्वेन स्थितः । ‘स्वात्माधारः स्वेच्छयैव जीवदृष्टेस्तिरोहितः । क्षेत्रज्ञेत्युच्यते विष्णुर्जीवस्थः पुरुषोत्तम’ इति च ॥

पदरत्नावली

शुद्धाशुद्धत्वविशेषणाभ्यां वैलक्षण्ये ज्ञाते मन्दस्यैकमेव वस्तु शबल-निर्गुणभेदेनोच्यत इति शङ्का स्यादिति तत्परिहाराय क्षेत्रज्ञं विशिनष्टि– क्षेत्रज्ञ इति ॥ आत्मा व्यापी ‘यच्चाप्नोति यदादत्ते’ ‘महान्तं विभुमात्मानम्’ इत्यादि श्रुतेः । व्याप्तस्य नीरूप-त्वेनाकाशवत्प्रतिपत्त्यनुपपत्तिरित्यतः– पुरुष इति ॥ ‘सहस्रशीर्षा पुरुषः’ इति श्रुतेः । पुरि शरीरे निषण्णो भवतीति निरुक्त्या पुरुषश्चेत्तत्परिणामे तत्स्थस्यापि परिणामप्रसङ्ग इत्यतः– पुराण इति ॥ ‘शाश्वतोऽयं पुराणः’ इति श्रुतेः । कतिपयदिनस्थायित्वेनापि पुराणशब्दार्थो-पपत्तेरित्यतः– साक्षादिति ॥ जडप्रकृतेरपि साक्षात्पुराणत्वोपपत्तेरनादित्वादित्यतः– स्वयञ्ज्योतिरिति ॥ अत्रायं पुरुषः ‘स्वयं ज्योतिर्भवति’ इति श्रुतेः । स्वयंज्योतिषोऽपि जीववज् जननं किं न स्यादित्यतः– अज इति ॥ ‘अजो नित्यः’ इति श्रुतेः । नन्वयं हिरण्यगर्भः किं न स्यादित्यतः– परेश इति ॥ परो हिरण्यगर्भस्तस्येशः ‘यो ब्रह्माणं विदधाति पूर्वम्’ इति श्रुतेः । ‘ब्रह्मणोधिपतिः’ इति श्रुतेर् हिरण्यगर्भेशोऽपि पशुपतिः किं न स्यादित्यतः– नारायण इति ॥ नरसमुदायो नारस् तस्याश्रय इति कस्यचिद्ग्रामाधिपतेरपि नारायणत्वं स्यादित्यतो– भगवानिति ॥ ‘उत्पत्तिं प्रलयं चैव भूतानामागतिं गतिम् । वेत्ति विद्यामविद्यां च स वाच्यो भगवानिति ॥’ इति स्मृतेः । ‘ऋषिस्त्रिकालदर्शी स्यात्’ तस्मादृषेरपि भगवच्छब्दवाच्यत्वोपपत्तेरित्यतः– वासुदेव इति ॥ अत्र व्यावृत्तिः पौराणिकरीत्योक्ता न तु न्यायशास्त्रोक्तिमवलम्ब्येति नोपहासविषयोऽयमिति ज्ञातव्यम् । नन्वेवं लक्षणकः क्षेत्रज्ञश्चेत्किमिति जनैर्न दृश्यत इत्यतः– स्वमाययेति ॥ स्वमायया स्वेच्छयात्म-न्नात्मनि स्वस्मिन्नेव व्यवधीयमानस् तिरोहितत्वेन स्थितः, ‘स्वात्माधारः स्वेच्छयैव जीवदृष्टेस्तिरोहितः । क्षेत्रज्ञेत्युच्यते विष्णुर् जीवस्थः पुरुषोत्तमः ॥’ इति च । अतोऽ-निर्वाच्याविद्ययाच्छाद्य मानो न स्यादित्यर्थः । ‘तं दुर्द्दर्शं गूढमनुप्रविष्टं गुहाहितं गह्वरेष्ठं पुराणम्’ इति श्रुतेश्च (‘क्षेत्रज्ञं विशिनष्टि– क्षेत्रज्ञ इति ॥ आत्मा सर्वव्यापी जीवान्तर्यामी च । ‘यच्चाप्नोति यदादत्ते’, ‘महान्तं विभुमात्मानम्’ इत्यादिश्रुतेः । पूर्षु शेते सन्निहित इति पुुरुषः । ‘अधिपश्चेति स प्रोक्तः पुरुषः पूरुषु स्थितेः । पुराख्येष्वेव देहेषु हृत्पुर्यपि वसत्यसौ ॥’ इत्यादेः । पुरमणतीति पुराणः । साक्षादनन्याधीनतया स्वयञ्ज्योतिः स्वप्रकाशः । केनापि न जायत इत्यजः । ‘अजो नित्यः शाश्वतोऽयं पुराणः’ इत्यादिश्रुतेः । परेषां ब्रह्मादीनामपीशः । नारा निर्दुष्टा वेदास् तैरीयते ज्ञायत इति नारायणः । नारा आपो ऽयनं पूर्वं निवासस्थानं यस्य सः नारायणः । ‘यदा हि सलिलत्वेन प्रकृतिर्व्याप्य तिष्ठति । तदा तस्यां परो विष्णुरेको द्रष्टा व्यवस्थितः’ इत्यादेः । भगः देवानां षड्गुणा अस्य नियम्यतया अस्तीति भगवान् । यथोक्तं वैशेष्ये ‘ऐश्वर्यादिगुणैः षड्भिः सामग्य्रात् सर्वदेवताः । भगवच्छब्दवाच्याश्च साक्षात्तु भगवान् हरिः । निरपेक्षं तु सामग्य्रं तस्य सर्वाधिकं यतः ॥’ इति । सर्वत्र वसतीति सर्वमत्र वसतीति वा वासुः । वस निवासे इत्यस्मादुण् । दीव्यति क्रीडत इति देवः । वासुश्चासौ देवश्चेति वासुदेवः । ‘वासनाद् वासुदेवोऽसि वासितं ते जगत्त्रयम् । सर्वभूतनिवासोऽसि वासुदेव नमोऽस्तु ते ॥’ इत्यादेः । सर्वत्र वसन्नसौ वासुदेवः किमिति सर्वैर्न दृश्यत इत्यत आह– स्वमाययेति ॥ स्वमायया स्वेच्छया आत्मन् स्वस्मिन्नेव व्यवधीयमानस् तिरोहितत्वेन स्थितः, जीवं प्रतीति शेषः । यथोक्तं गारुडे ‘स्वात्माधारः स्वेच्छयैव जीवदृष्टेस्तिरोहितः । क्षेत्रज्ञेत्युच्यते विष्णुर्जीवस्थः पुरुषोत्तमः ॥’ इति । ‘तं दुर्दर्शं गूढमनुप्रविष्टं गुहाहितं गह्वरेष्ठं पुराणम् । अध्यात्मयोगाधिगमेन देवं मत्वा धीरो हर्षशोकौ जहाति ॥’ इत्यादिश्रुतेश्च ।’ इति कपाठः ) ॥ १४ ॥

प्रकाशिका

ततश्चैवमित्याह ॥ क्षेत्रज्ञ इति । आत्मा जीवान्तर्याम्यत एव पुरि शेत इति पुरुषो जीववन्नाज्ञ इत्याह ॥ पुराण्यतीतानागतानि साक्षादणतीति । साक्षादनन्या-धीनतया । स्वयंज्योतिः स्वप्रकाशः । ज्ञातृत्वादिविशिष्टमिदमेव शुद्धं तत्त्वं न निर्गुणमिति प्रदर्शनायैतानि विशेषणानि । ननु भगवतो जीवान्तर्यामित्वे जीवस्य तदाश्रयत्वं स्यात् । जीवदृष्टिविषयत्वं च स्यादित्याशङ्काद्वयं परिहर्तुमाह ॥ स्वमाययेति । अत्र स्वमाययाऽ-निर्वचनीययाऽविद्ययाऽऽत्मन् स्वस्य व्यवधीयमानो व्यवहित इति प्रतीतिवारणाय योग्यमर्थं दर्शयति स्वमाययेति । स्वमाययेत्यस्यार्थः ॥ स्वेच्छयेति । आत्मन्नित्यस्यार्थः ॥ स्वस्मि-न्निति । अध्याहृतेनैवकारेण जीवस्य नाश्रयत्वमिति सूचयति । आश्रयः सन्निति शेषः । व्यवधीयमान इत्यस्यार्थस् तिरोहितत्वेनेति । जीवं प्रतीति शेषः । स्थित इति शानचोऽर्थ-कथनम् । वर्तमाने क्तः । अत्र प्रमाणसंवादमाह ॥ स्वात्मेति । आत्मन्नित्यस्यार्थकथनम्– आत्माधार इति । अनेनाश्रित इति अध्याहार इति सूचयति । स्वमाययेत्यस्य व्याख्यानं स्वेच्छयेति ॥ मूलेऽध्याहृतस्यैवकारस्य स्वमाययेत्यनेनापि सम्बन्ध इति दर्शयितुं स्वेच्छयैवेत्युक्तम् । व्यवधीयमान इत्यस्यार्थः जीवदृष्टेरिति । अनेन जीवं प्रतीति शेषं सूचयति । तिरोहित इति वर्तमाने क्तः । क्षेत्रज्ञ इत्यस्यार्थः क्षेत्रज्ञेति । आत्मेत्यस्यार्थः जीवस्थ इति । परेश इत्यस्यार्थः पुरुषोत्तम इति । तथा च स्वमायया स्वेच्छयैवात्मन् स्वस्मिन्नेवाश्रितो जीवस्थत्वेऽपि तं विना स्थातुमशक्तो नेत्यर्थः । जीवदृष्टिं प्रति व्यवधीयमानस्तिरोहिततया वर्तत इति मूलार्थो ज्ञातव्यः ॥ १४ ॥

यथानिलः स्थावरजङ्गमानामात्मस्वरूपेण निविष्ट ईष्टे ।

एवं परो भगवान्वासुदेवः क्षेत्रज्ञ आत्मेदमनुप्रविष्टः ॥ १५ ॥

पदरत्नावली

ननु ‘क्षेत्रज्ञो मनसो विभूतीः पश्यति’ इत्युक्तं तत्र दर्शनं बहिः-स्थित्वोतान्तःस्थित्वा । नाद्यः । बहिष्ठस्यान्तर्दर्शनायोगात् । न द्वितीयः । ‘असङ्गोऽह्ययं पुरुषः’ इति श्रुतेरसङ्गस्य देहान्तःप्रवेशायोगात्तद्योग्यसुखदुःखभोगप्राप्तेश्चेत्याशङ्क्याह– यथाऽ-निल इति ॥ यथाऽनिल आत्मस्वरूपेण प्राणस्वरूपेण स्थावरजङ्गमानामन्तर्निविष्टः स्थावरजङ्गमानामीष्टे चेष्टालक्षणमीशनं करोति । ‘अधीगर्थदयेशां कर्मणि’ इति द्वितीयार्थे षष्ठी । न ह्येतावता वायोः सुखादिभोगः श्रुतचरः । एवं क्षेत्रज्ञनामा वासुदेवो भगवानिदं जगदात्म-स्वरूपेणान्तर्यामिरूपेणान्तःप्रविष्ट एता मनोविभूतीः पश्यतीति पूर्वेणान्वयः । ‘सर्वत्रोषित्वा क्रीडत इति वासुदेवः’ इति वासुदेवपदप्रयोगेन दुर्भगशरीरयोग्यः दुःखभोगाभावो जीवान्तस्थत्वेन क्षेत्रज्ञशब्दार्थोऽपि दर्शित इति ज्ञायते । न निलः सङ्गो यस्यासावनिल इत्यतोऽसङ्गस्याप्यन्तः-प्रवेशो युज्यत इति (‘सर्वगस्यापि हरेर्निर्लेपत्वं सदृष्टान्तं स्पष्टयति– यथेति ॥ यथा अनिलो वायुर् आत्मस्वरूपेण प्राणस्वरूपेण स्थावरजङ्गमानामन्तर्निविष्टः सन् तानीष्टे प्रेरयति । नह्येतावता तद्गतदुःखादिलेपः । एवं परो निर्दोषाशेषगुणपूर्णः । ‘निर्दोषगुणपूर्णत्वात् परं चाहुर्जनार्दनम्’ इत्यादेः । क्षेत्रज्ञनामा भगवान् वासुदेव आत्मा अन्तर्यामी सन् इदं स्थावरजङ्गमात्मकं जगदनुप्रविष्ट ईष्टे । सर्वशरीरान्तःस्थस्यापीश्वरस्य स्वतन्त्रत्वान् न तद्गतदुःखादिभोगप्रसङ्ग इति बोध्यम् ।’ इति कपाठः) ॥ १५ ॥

प्रकाशिका

ननु भगवतो जीवान्तर्यामित्वे तद्गतपापादिसम्बन्धः स्यादित्याशङ्कां दृष्टान्तमुखेनापाकरोति ॥ यथेति । अनिलो मुख्यवायुरात्मस्वरूपेण प्राणरूपेण प्रविष्टः सन् ईष्टे प्रेरयति । न हि तावता तस्य तद्गतदुःखादिलेप इति भावः । स्थावरजङ्गमानामिति षष्ठी द्वितीयार्थे । अधीगर्थदयेशां कर्मणीति विधानात् । एवं तथाऽऽत्मान्तर्यामी सन् इदं स्थावर-जङ्गमात्मकं जगदनुप्रविष्ट ईष्टे । हर्यवरस्यापि वायोर्न लेपः किमु हरेरित्याशयः ॥ १५ ॥

न यावदेतां तनुभृन्नरेन्द्र विधूय मायां वयुनोदयेन ।

विमुक्तसङ्गो जितषट्सपत्नो वेदार्थतत्त्वं भ्रमतीह तावत् ॥ १६ ॥

पदरत्नावली

एवं संसारबन्धस्य (श्रीनारायण) साक्षिसिद्धत्वेन सत्यत्वं प्रसाध्याधुना श्रीहरिकटाक्षानुगृहीतस्वापरोक्षज्ञानमन्तरेण तन्निवृत्त्यनुपपत्तेस्तन्निवर्तकसाधनमाह– न यावदिति ॥ तनुभृज्जीवो यावद्यावन्तं कालमहं ममेति मनोनिगूढामेतां सर्वसाक्षिसिद्धां मायां भ्रान्तिं वयुनोदयेन शास्त्रश्रवणजनितज्ञानोदयेन विधूय भ्रान्तिरेषेति निश्चित्यार्थतत्वं सकलवेदान्तविषयीभूत-भगवत्स्वरूपं न वेद तावत्पर्यन्तमिह संसारे पूर्वोक्तप्रकारेण भ्रमति पुनःपुनः जननमरणवृत्त्या वर्तते इत्यन्वयः । कीदृशस्येदं घटत इत्यत उक्तम्– विमुक्तेति ॥ फलसङ्कल्परहितः । अत्रापि किं कारणमित्यत उक्तम्– जितेति ॥ जिताः षडिन्द्रिय शत्रवो येन स तथा । पुरुषार्थविरुद्धचेष्टा-हेतुत्वादिन्द्रियाणां सपत्नत्वमन्यथा सुहृत्त्वमिति भावः(‘एवं संसारबन्धकारणं हरेस्तत्वं चोपदिश्याधुना तादृशसंसारबन्धनिवर्तकसाधनमाह– न यावदिति ॥ हे नरेन्द्र तनुभृन् मुक्ति-साधनशरीरधारी एतां दारुणसंसारकारणीभूतं मायां देहगेहादिष्वहम्ममेत्यभिमतिलक्षणां वयुनोदयेन सच्छास्त्राध्ययनादिना यथार्थज्ञानोत्पत्त्या विधूय निरस्य विमुक्तसङ्गः काम्यफलासक्तिरहितः जितषट्सपत्नः जितषडिन्द्रियरूपशत्रुः सन् अर्थतत्वं सकलवेदवेदान्तविषयीभूतभगवत्स्वरूपं यावन्न वेद तावत्पर्यन्तमिह संसारे भ्रमति ।’ इति कपाठः) ॥ १६ ॥

प्रकाशिका

एवं संसारकारणं हरेस्तत्त्वं चोपदिश्योक्तरूपे संसारे जीवस्य कियत्पर्यन्तं भ्रमणमित्यपेक्षायां तदवधिमाह ॥ न यावदिति । तनुभृन् मोक्षयोग्यो देहधारी मायां विषयेष्वहंममेत्यभिमतिम् । वयुनं ज्ञानं परोक्षं तस्योदयेन । विमुक्तसङ्गः स्त्रीपुत्रादिस्नेहरहितो जिताः षट्सपत्नाः कामक्रोधादिरूपा वा षडिन्द्रियरूपा वा शत्रवो येन स तथा । अर्थतत्त्वं वेदार्थसारभूतं परं ब्रह्मापरोक्षतो न वेद तावदिह संसारे भ्रमति ॥ १६ ॥

न यावदेतन्मन आत्मलिङ्गं संसारतापावपनं जनस्य ।

यच्छोकमोहामयसङ्गलोभवैरानुबन्धं ममतां विधत्ते ॥ १७ ॥

पदरत्नावली

ननु भ्रान्तीनामनेकत्वेन प्रत्येकं तन्निवर्तनानुपपत्तेरतः क उपाय इति सुहृद्भावेन पृच्छन्तमाह– न यावदित्यादि श्लोकद्वयेन ॥ यावन्तं कालं जनस्य यदेतन्म नो ममतां विधत्ते ममेदमहमित्यभिमानमुत्पाद्य स्वामिनं संसारयतीत्यर्थः । तावन्तं कालं न निवर्तत इति शेषः । कीदृशमात्मलिङ्गमात्मनो योग्यताज्ञापकं संसारताप उप्यतेऽनेनेति संसारतापाव-पनम् । कीदृशं तापं वपतीत्यत उक्तम्– शोकेति ॥ शोकादीनामनुबन्धो येन तत्तथा शोकादिजनकत्वेन तापावपनमित्यर्थः(‘देहगेहादिष्वहम्ममेत्यभिमानादेवायं संसारोऽन्यथा नेति परिहार इत्येवं प्रतिपादिततत्वोपदेशदृढीकरणाय श्लोकद्वयेनोपसंहरति– न तावदिति ॥ एतन्मनो यावदात्मलिङ्गं परमात्मस्वरूपज्ञापकं न भवति तावज् जनस्य संसारतापानामावपनं क्षेत्रं भवति । ‘तमेवं विद्वानमृत इह भवति नान्यः पन्था अयनाय विद्यते’, ‘तमेव विदित्वाऽतिमृत्युमेति नान्यः पन्था विद्यतेऽयनाय’ इत्यादिश्रुतिभ्यः । यद् यस्मात् शोक-मोहादिभिर्जीवमनुबध्नातीति तादृशं मनो ममतामेव मुहुर्मुहुर्विधत्ते तस्मात् त्वमेनं भ्रातृव्यं शत्रुस्थानीयं स्वयमप्रमत्तः सन् जहि नाशय । ‘मन एव मनुष्याणां कारणं बन्धमोक्षयोः’ इत्युक्तरीत्या मनसः पुरुषार्थविरुद्धचेष्टापरत्वे शत्रुत्वमन्यथा सुहृत्वमिति भावः । ‘भ्रातृपुत्रे तथा शत्रौ भ्रातृव्यो ह्यभिधीयते’ इत्युत्पलमाला इति कपाठः) ॥ १७ ॥

प्रकाशिका

नन्वपरोक्षज्ञानानन्तरमपि संसारदर्शनात्कथमेतदित्यतो जीवन्मुक्तानां मनसि ममताऽनुत्पत्तिरूपं चरमावधिमाह ॥ न यावदिति । यदात्मलिङ्गं जीवस्वरूपयोग्यताज्ञापकं संसारताप उप्यतेऽस्मिन्निति संसारतापावपनम् । तापावपनत्वं कथमित्यतस्तदुपपादयति ॥ शोकेति । शोकादीनामनुबन्धं निमित्तभूतं तदेतन्मनो यावन्ममतां सर्वथा न विधत्ते तावदिह भ्रमति कर्मफलरूपं संसारमनुभवति ॥ १७ ॥

भ्रातृव्यमेनं त्वमदभ्रवीर्यमुपेक्षयाऽप्येधितमप्रमत्तः ।

गुरोर्हरेश्चरणोपासनास्त्रो जहि व्यलीकं स्वयमात्ममोहम् ॥ १८ ॥

॥ इति श्रीमद्भागवतमहापुराणे पञ्चमस्कन्धे एकादशोऽध्यायः ॥

तात्पर्यम्

अभिमानादेव संसारोऽन्यथा नेति परिहारः ॥ १८ ॥

पदरत्नावली

हे राजंस्त्वमेनमात्मनो मनस उत्पन्नं मोहं विपरीतज्ञानमत एव भ्रातृव्यं शत्रुं जहि नाशयेत्यन्वयः । अव्ययत्वेन स्वयमेव विरमतीत्यत उक्तम्– अदभ्रेति ॥ अदभ्रं महद्वीर्यं यस्य तत्तथा । अदभ्रवीर्यत्वे हेतुमाह– उपेक्षयेति ॥ अपि गर्हितेन पापेनैधितं वर्द्धितं शत्रुहननमस्त्रेण भाव्यम् । किमत्रास्त्रमित्यत उक्तं गुरोरित्यादि ॥ उपासनमेवास्त्रं यस्य स तथा । प्रमादादवाप्तस्य हनने अप्रमाद एव प्रथमसाधनमित्यभिप्रायेणोक्तम्– अप्रमत्त इति ॥ गुर्वादिचरणसेवादावन्तरङ्गसाधनमनलीकत्वमित्यत उक्तम्– व्यलीकमिति ॥ क्रियाविशेषण-मेतत् । आत्मनो मोहविशेषणं वा विविधवस्तुविषयम् । अनेनानेकाऽन्यथाज्ञानानीति सूचितम् । परकीयं चेद्दुःखसाधनं हननमत उक्तं स्वयमिति । स्वकीयमित्यर्थः । अत्रेदमाकूतम् । द्विविधं मनश् चिदचिद्भेदेन । तत्र चिन्मनस्तु स्वरूपमभिन्नम् । मुक्तावानन्दानुभवसाधनं तन्नाशे स्वरूपनाश एव स्यात्तथा च ‘अविनाशी वा ओ अयमात्माऽनुच्छित्ति धर्मा’ इति श्रुतिव्याकोपः स्यादितरं मनआदिमं प्रलये लिङ्गशरीरवदत्सूक्ष्मं यावन्मुक्तिस् तदीयतया स्थितं सत् सृष्टावुपचितं स्थूलशरीरवर्तिनश्चेतनस्य ममेदमहमित्यभिमानमुत्पाद्य संसारापादनपटुस्वामिन-श्चिदानन्दलक्षणस्य दुःखापादकत्वेन वैरि मनो जहि हन, तस्य हननेन तन्निमित्ताभिमानलक्षण-मोहनाशेन व्यलीकं विगताचिन्मनः संसर्गः स्वयं स्वरूपभूतं सच्चिन्मनः स्वयमिति द्विरा-वर्तनीयम् । सुपूजितमिष्टप्रदं दैवं श्रीनारायणाख्यं जहि गमय तद्विषयङ्कुरु । अत्रार्थद्वयाभिप्रायेण ‘हन हिंसागत्योः’ इति धातुः प्रयुक्त इति ज्ञायते । अनेनाहमित्यभिमानः संसारहेतुस् तन्मूला-चिन्मनोनाशेन तदभावेन तदभाव इति परिहारः सूचित इति । तदुक्तम्– ‘अभिमानादेव संसारोऽन्यथा नेति परिहार’ इति । अल्पवीर्यत्वेन स्वयमेव विरमतीत्यत आह– अदभ्रवीर्य-मिति ॥ अदभ्रं बहुलं वीर्यं यस्य तत् तथा । अदभ्रवीर्यत्वे हेतुमाह– उपेक्षयेति ॥ उपेक्षया औदासीन्येन अपि गर्हितेन पापेन च एधितं वर्धितम् । ‘अपि सम्भावनाशङ्कागर्हणासु समुच्चये । प्रश्ने युक्त्यपदार्थेषु कामाचारक्रियासु च ॥’ इत्यभिधानम् । व्यलीकमनिष्टकारिणम् । आत्ममोहमहम्ममेत्याभिमानेनात्मानं मोहयतीति तथा । वैरिहनने ओण भाव्यमित्याशयेनास्त्र-स्थानीयमाह– गुरोरिति ॥ गुरोर्हरेश्च चरणोपासनमेवास्त्रं यस्य स तथा ।’ इति कपाठः)

॥ १८ ॥

॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुकृतायां

पञ्चमस्कन्धे एकादशोऽध्यायः ॥

प्रकाशिका

वयुनोदयेन मायां विधूयेत्युक्तं विशदयन् त्वमपि संसारनिवृत्तिसाधनं ज्ञानं सम्पादयेत्याह ॥ भ्रातृव्यमिति । शत्रुभूतमित्यर्थः । स्वयं स्वत एवादभ्रवीर्यमनल्पसामर्थ्यं पुनरधिकारिकृतोपेक्षयाऽप्येधितं प्रतिदिनमभिवृद्धं व्यलीकमनृतार्थविषयकमात्ममोहमहं ममेति स्वकीयमभिमानमप्रमत्तः सावधानः सन् जहि नाशय । ननु वैरिहननेऽस्त्रेण भाव्यमित्यतोऽस्त्र-स्थानीयमाह ॥ गुरोरिति । उपासनेत्यनेन वयुनेत्यस्य जहीत्यनेन विधूननस्यात्ममोहमित्यनेन मायामित्यस्य विवरणं कृतमिति ज्ञातव्यम् । हन्तव्यत्वोपपादनाय भ्रातृव्यमित्यादीनि विशेषणानि । नन्वत्र देहेन जातस्य हि मे न सन्तीति विप्रेणोक्ते तदभिप्रायमबुद्ध्वाऽऽपात-प्रतीतार्थमेवादाय स्थाल्यग्नितापादित्यादिना राज्ञा तवापि देहेन्द्रियसंनिकर्षात् संसारतापोऽवर्जनीय इत्युक्तस्य परिहारोऽनेन प्रकरणेन नोक्तमित्यपेक्षायामुक्त एवेत्याह ॥ अभिमानादेवेति । परिहार उक्त इति शेषः । अयमिहाभिप्रायः । देहेन जातस्य हि मे न सन्तीति विप्रेणोक्ते तदभिप्रायमबुद्ध्वा राज्ञा तवापि देहेन्द्रियसंनिकर्षात्संसारतापोऽवर्जनीय इत्युक्ते देहेन जातस्येति स्ववाक्यस्याभिमानादेव संसारोऽन्यथा नेति योऽभिप्रायस्तत्प्रकटनार्थमेव प्रवृत्तेनानेन प्रकरणेन परिहार उक्त एवेति ॥ १८ ॥

**॥ इति श्रीमद्वेदेशपूज्यपादशिष्येण यदुपतिना विरचितायां **

श्रीमद्भागतटिप्पण्यां पञ्चमस्कन्धे प्रकाशिकायामेकादशोऽध्यायः ॥ ५-११ ॥