अथ सिन्धुसौवीरपते रहूगणस्य
॥ अथ दशमोऽध्यायः ॥
श्रीशुक उवाच–
अथ सिन्धुसौवीरपते रहूगणस्य व्रजत इक्षुमत्यास्तटे नद्या भगवन्तं कपिलऋषिं द्रष्टुं कस्मिंश्चिदाश्रमे स्थितं तत्कुलपतिना शिबिकावाहकपुरुषा-न्वेषणसमये दैवेनोपसादितः स द्विजवर उपलब्ध एष पीवा युवा संहननाङ्गः खरवद् धुरं वोढुमलमिति पूर्वविष्टिगृहीतैः सह गृहीतः प्रसभमतदर्ह उवाह शिबिकां स हि महानुभावः ॥ १ ॥
पदरत्नावली
अत्र पुरुषान्तरसंवादबाहुल्येन श्रद्धातिशयो भवतीति पुनरपि पञ्चस्व- ध्यायेषु हरेस्तत्वं निरूपयति, तदर्थं ब्राह्मणरहूगणयोः सल्लापं घटयितुमाह– अथेति ॥ इक्षुमत्या नद्यास्तटे कस्मिंश्चिदाश्रमे स्थितं कपिलं मुनिं द्रष्टुं व्रजतो रहूगणस्यान्दोलिकावाहक-पुरुषान्वेषणवेलायां तत्कुलपतिना तेषां शिबिकावाहकानां कुलपतिना प्रधानपुरुषेण दैवेनादृष्ट-प्रेरकेण हरिणोपसादितः प्रापितः । उपलब्धो दृष्टः । एष पीवा पुष्टः (संहननानि दृढानि अङ्गानि यस्य स तथा ।) खरवद् धुरं शिबिकाभारं वोढुमलं समर्थ इति निश्चित्य प्रसभं बलात् पूर्वविष्टिगृहीतैर्वाहकैः सह गृहीतोऽतदर्हः वहनायोग्यः स ब्राह्मणः शिबिकामुवाहेत्यन्वयः । किं चित्रमिदमिति तत्राह– स हीति ॥ स ब्राह्मणो महानुभावो हि यस्मात्तस्माद्ब्राह्मणेन वाहयितृ-त्वमनुपपन्नमिदमस्यात्यन्तायोग्यं महासामर्थ्योपेतत्वादित्यर्थः ॥ १ ॥
प्रकाशिका
अथ तस्य महिमान्तरमारभ्यते । स द्विजवर इक्षुमत्या नद्यास्तटे कस्मिंश्चिदाश्रमे स्थितं कपिलमुनिं द्रष्टुं व्रजतः सिन्धुसौवीराधिपतेः सिन्धुसौवीरदेशयो राज्ञो नाम्ना रहूगणस्य शिबिकामुवाहेत्यन्वयः । कथम्भूतः । तत्कुलपतिना तत्कुलप्रधानपुरुषेण कर्त्रा शिबिकावाहकपुरुषान्वेषणसमये दैवेनादृष्टप्रेरकेणोपसादितः प्रापितः सन्नुपलब्धः । एष पीवा पुष्टः खरवद्गर्दभ इव धुरं भारं वोढुमलं समर्थ इति धिया पूर्वं ये विष्टिगृहीताः पुरुषास्तैः सह प्रसभं बलाद्गृहीतः सन् यतो महानुभावोऽतदर्हो वाहनायोग्यः । तथाऽप्युवाहेत्यर्थः ॥ १ ॥
यदा हि द्विजवरस्य युगमात्रावलोकानुगतेर्न समा पुरुषगतिस्तदा विषम-गतायां स्वशिबिकायां रहूगण उपधार्य पुरुषानधिवहत आह । हे वोढारः साध्वतिक्रमत किमिति विषममूह्यते यानमिति ॥ २ ॥
पदरत्नावली
मार्गगतपिपीलिकादिहिंसापरिहारार्थं युगमात्रप्रदेशस्यावलोकनं दर्शनं युगमात्रावलोकनं तदनुकूला गतिर्गमनं यस्य स तथा, तस्य गत्या अन्येषां वाहकानां पुरुषाणां गतिर्न समा युक्ता न भवति यदा तदा रहूगणो ऽधिवहतो वोढॄनाहेत्यन्वयः । अतिक्रमत पदं निक्षिपत ॥ २ ॥
प्रकाशिका
मार्गगतपिपीलिकादिहिंसापरिहारार्थं युगमात्रप्रदेशस्यावलोको दर्शनं युग-मात्रावलोकस्तदनु तत्पश्चाद्या गतिस्तस्या यदा पुरुषगतिरन्येषां पुरुषाणां गतिर्न समाऽभूत् । तदा विषमं यथा स्यात्तथा गतायां सत्यामुपधार्य वाहकानां विषमगमननिमित्तमेवेदं शिबिकागति वैषम्यमिति निश्चित्य वहतो वाहकान्पुरुषानधिकृत्याह । अतिक्रमत पदं निक्षिपत ॥ २ ॥
अथ त ईश्वरवचः सोपालम्भमुपाकर्ण्य तुर्याच्छ१ङ्कितमनसस्तं विज्ञाप-याम्बभूवुः ॥ ३ ॥
पदरत्नावली
सोपालम्भं सतर्जनम् ईश्वरस्य राज्ञो वचः । उपायतुरीयात्सामाद्युपायानां मध्ये चतुर्थाद्दण्डात् ॥ ३ ॥
प्रकाशिका
सोपालम्भं साक्षेपमीश्वरस्य राज्ञो वचस्तुर्यात्सामाद्युपायानां मध्ये चतुर्थाद्दण्डात् ॥ ३ ॥
न वयं नरदेव प्रमत्ता भवन्नियमानुपथाः साध्वेव वहामो ऽयमधुनैव नियुक्तोऽपि न द्रुतं व्रजति । नानेन सह वोढुमिह वयं पारयाम इति ॥ ४ ॥
पदरत्नावली
भवतो नियमोऽनुशासनं तस्यानुपथा अनुगुणमार्गाः । द्रुतमस्मद्गमनानुगुणं न व्रजति । न पारयामः न पारङ्गच्छामः ॥ ४ ॥
प्रकाशिका
भवन्नियमानुपथा भवदाज्ञानुसारिणः । अधुनैव नियुक्तोऽपीत्यनेनास्मद्वदस्य श्रमो नेति सूचयति । द्रुतमस्मद्गमनानुगुणं न व्रजति । न पारयामः पारं न गच्छामः । न शक्नुम इति यावत् ॥ ४ ॥
सांसर्गिको दोष एव नूनमेकस्यापि सर्वेषां संसर्गिणां भवितुमर्हतीति निशम्य कृपणं वचो राजा रहूगण उपासितवृद्धोऽपि निसर्गेण बलात्कृत ईषदुत्थितमन्युर-विस्पष्टब्रह्मतेजसञ्जातवेदसमिव रजसा तमसावृतमतिराह ॥ ५ ॥
पदरत्नावली
नूनमिदानीमेकस्य सांसर्गिकः सम्बन्धात्सम्भूतः सम्भावनामात्रं न तु तात्विकं विचारासहत्वादितीममर्थमपिना सूचयति अयं दुष्ट इति । (उपासिताः सेविता वृद्धा ज्ञानिनो येन स तथा ।) निसर्गेण निश्चयेन सिन्धुविषयस्याधिपतिरहमित्यभिमानबलात्कृतः पूर्णः स्वभावान्तरं राजसं प्राप्त इति वा । अत एवोत्थितकोपः ॥ ५ ॥
प्रकाशिका
नूनं निश्चितम् । एकस्य सांसर्गिकसम्बधात्प्राप्तो दोषः सर्वेषामपि तत्सह-चारिणां भवतीति नूनं निश्चितमिदानीमनुभवसिद्धं जातमित्यर्थः । निसर्गेण राज्ञां स्वभावेन बलात्कृतः परवशीकृतः सन् ॥ ५ ॥
अहो कष्टं भ्रातर्व्यक्तमुरुपरिश्रान्तो दीर्घमध्वानमेक एव ऊहितवान् सुचिरं नातिपीवा नातिसंहननाङ्गो जरसोपद्रुतो भवान्सखे नो एवापर एते सङ्घट्टिनः
॥ ६ ॥
पदरत्नावली
अहो कष्टमित्याद्याक्षेपा लक्षणतया विपरीतार्था वेदितव्याः । भ्रातः सखे इत्याक्षेपे सम्बोधनं ज्ञातव्यम् । लोके भ्रात्रादिभिः सह विरोधो नान्यैरित्यत एतादृशैः शब्दैः सम्बोधनं कृतमित्यर्थः । सङ्घट्टिनः सहवाहकाः ॥ ६ ॥
प्रकाशिका
अहो कष्टमित्याक्षेपः । लक्षणतया विपरीतार्था ज्ञातव्याः । भ्रातरित्याक्षेपे सम्बोधनम् । व्यक्तं निश्चितम् । संघट्टिनः सहवाहकाः ॥ ६ ॥
**इति बहुविप्रलब्धोप्यविद्यया विहितद्रव्यगुणकर्माशयस्वचरमकलेवर अवस्तुनि संस्थानविशेषे अहंममेत्यनध्यारोपितमिथ्याप्रत्ययो ब्रह्मभूतस्तूष्णीं शिबिकामुवाह **
॥ ७ ॥
पदरत्नावली
इति एवम्, विप्रलब्धोऽपि भर्त्सितोऽपि तूष्णीं भूत्वा शिबिकामुवाहे-त्यन्वयः । तूष्णीम्भावे कारणमाह– ब्रह्मेति ॥ ब्रह्मभूतः (ब्रह्मणि भूतं मनो यस्य स तथा’ इति कपाठः) ब्रह्मनिविष्टमना इत्यर्थः । (‘भूतं वृत्ते समे सत्ये चित्तेऽतीतेऽभिधीयते’ इत्यभिधानात्, इति कपाठः) अत्रापि कारणमाह– चरमेति ॥ इतःपरं भौतिकं शरीरम् अस्य नास्तीति द्योतनाय चरमेति स्वत्वेनाभिमतेन्त्यदेहेन अध्यारोपितो मिथ्याप्रत्ययो येन स तथा । अनात्मनि कर्तृत्वाभिमाने मिथ्याप्रत्ययः । न त्वनिर्वाच्यलक्षणः । कस्माच्छरीरस्य हेयत्वमिति तत्राह– अवस्तुनीति ॥ अवस्तुत्वादनित्यत्वादित्यर्थः । तदपि कुत इत्यत्राह– संस्थानेति ॥ अवयवविन्यासविशेषत्वाद्घटवदित्यर्थः । केन विन्यासविशेष इत्यत्राह– अविद्य-येति ॥ हरीच्छया प्रेरितया प्रकृत्या विहितानां द्रव्याणां पञ्चभूतानां गुणानां सत्वादीनां कर्मणां पुण्यपापलक्षणानामाशयः समूहो यस्मिंस्तत्तथा । द्रव्यादीन्याशेरते यस्मिन्निति वा । विहित-द्रव्यगुणकर्माशयं च स्वचरमकलेवरं चेति विग्रहस्तस्मिन्(हेत्वन्तरमप्याह– अविद्येति ॥ अविद्यया हरीच्छाप्रेरितप्रकृत्या विहिता रचिता द्रव्यादयो यस्मिन् तस्मिन् स्वचरमकेवरे अहंममेति यदात्मन्यध्यारोपितं कर्तृत्वं तद्विषयको मिथ्याप्रत्ययो यस्य नास्ती स तथा । द्रव्याणि पञ्चभूतानि, गुणाः सत्त्वादयः, कर्माणि पुण्यपापलक्षणानि, आशयोऽन्तःकरणम् । केवरं विशिनष्टि– अवस्तुनीति ॥ अवस्तुनि अनित्ये संस्थानविशेषे करचरणाद्यवयव-विन्यासविशेषवति । ‘वस्तु द्रव्ये धने नित्ये’ इत्यभिधानम्’ इति कपाठः) ॥ ७ ॥
प्रकाशिका
विप्रलब्धोऽपि विपरीतलक्षणया तिरस्कृतोऽपि तूष्णीं शिबिकामुवा-हेत्यन्वयः । तूष्णीम्भावे कारणमाह ॥ ब्रह्मभूत इति । ब्रह्मणि मनसा स्थित इत्यर्थः । कारणान्तरमप्याह ॥ अविद्ययेति । अविद्ययेश्वरेच्छया प्रकृत्या च विहिता रचिता द्रव्यादयो यस्मिंस्तस्मिन्स्वस्य चरमे कलेवरे विषयेऽहंममेति यदात्मन्यध्यारोपितं कर्तृत्वं तद्विषयको मिथ्याप्रत्ययो यस्य नास्ति स तथा । द्रव्याणि पञ्चभूतानि गुणाः शब्दादयः सत्त्वादयो वा । कर्माणि पुण्यपापरूपाण्याशयोऽन्तःकरणम् । कथं भूते कलेवरे । अवस्तुन्यनित्ये संस्थान-विशेषेऽवयवविन्यासविशेषवति अनित्यत्वोपपादकमिदम् ॥ ७ ॥
अथ पुनः स्वशिबिकायां विषमगतायां प्रकुपित उवाच रहूगणः किमरे त्वं जीवन्मृतोऽसि मां कदर्थीकृत्य भर्तृशासनमतिचरसि । प्रमत्तस्य ते करोमि चिकित्सां दण्डपाणिरिव जनताया यथा प्रकृतिं स्वां भजिष्यसीति ॥ ८ ॥
पदरत्नावली
(कदर्थीकृत्य अनादृत्य । अतिचरसि अतिक्रमसि । चिकित्सां दण्डम् । दण्डपाणिर्यमः । इति कपाठः) विचिकित्सया किं फलमत्राह– यथेति ॥ प्रकृतिं समस्वभावम्
॥ ८ ॥
प्रकाशिका
कदर्थीकृत्यानादृत्य भर्तुः स्वामिनो ममातिचरस्यतिक्रम्य चरसि । चिकित्सां दण्डं दण्डपाणिर्यमः । चिकित्साफलमाह ॥ यथेति । येन दण्डेनेत्यर्थः । स्वां स्वीयां प्रकृतिं स्वभावम् अप्रमत्ततारूपाम् ॥ ८ ॥
एवं बह्वबद्धमभिभाषमाणं नरदेवाभिमानिनं रजसा तमसानुवृद्धेन मदेन तिरस्कृताशेषभगवत्प्रियनिकेतं पण्डितमानिनं स भगवान् ब्राह्मणो ब्रह्मभूतः सर्वभूत सुहृदात्मायोगेश्वरचर्यायां नातिव्युत्पन्नमतिं स्मयमान इव विगतस्मय इदमाह ॥ ९ ॥
तात्पर्यम्
**अशेषभगवत्प्रियाणां निकेतः स एव भरतो मानुषापेक्षया । ‘तत्काल-स्थितभक्तेषु मानुषेष्वृषभात्मजः । वरोऽपि धिक्कृतो राज्ञा सुहृदा वैष्णवेष्वपि’ इति गारुडे **
॥ ९ ॥
पदरत्नावली
एवं राज्ञोपालब्धो ब्राह्मणः किमकरोदत्राह– एवमिति ॥ अबद्ध-मनन्वितम् । अबद्धाभिभाषणे कारणमाह– रजसेति ॥ फलान्तरं चाह– तिरस्कृतेति ॥ अशेषा ये भगवत्प्रिया भागवतास्तत्कालभवमनुष्यास्तेषां निकेत आश्रयो विप्रजन्मा यः स भरतोऽशेषभगवत्प्रियनिकेतस् तिरस्कृतो धिक्लृतोऽशेषभगवत्प्रियनिकेतो येन स तथा, तम् । मनुष्यपदं प्रक्षिप्य किमिति समस्यत इतीयं शङ्का ‘तत्कालस्थितभक्तेषु मानुषेष्वृषभात्मजः । वरोऽपि धिक्लृतो राज्ञा सुहृदा वैष्णवेष्वपि ॥’ इत्यनेन परिहर्तव्येति । सर्वभूतसुहृदो वैष्णवास्तेष्वात्मा मनो यस्य स तथा । अत एव ‘सुहृदा वैष्णवेष्वपि’ इति । तर्हि किमिति धिक्कार इत्यत उक्तम्– योगेश्वरेति ॥ योगेश्वराणां चर्यायां शुश्रूषायां व्यवहारे वा नाति-व्युत्पन्नमतिमनभ्यस्तबुद्धिम् । स्मयमान इवेतीवशब्दो मन्दहासस्य स्वरूपभूतत्वं दर्शयति । स्मयो नाम कश्वन दोषः, स विगतो यस्मात्स तथा । इदं राज्ञ आक्षेपवचनानामुत्तरम् ॥९॥
प्रकाशिका
अबद्धमनन्वितम् । नरदेवोऽहमित्यभिमानो यस्य तमनुवृद्धेनाभिवृद्धेनाशेषाश्च ते भगवत्प्रियाश्च तेषां निकेत आश्रयो भरतस्तिरस्कृतो धिक्कृतोऽशेषभगवत्प्रियनिकेतो येन स तथा तं सर्वभूतसुहृद् विष्णुस्तत्रात्मा मनो यस्य स तथा योगेश्वराणां चर्यायामभिमान-त्यागेनाचरणरूपायां नातिव्युत्पन्नमतिमनभ्यस्तबुद्धिम् । स्मयमान इवेतीवशब्दो मन्दहासा-भावेऽपि तत्कार्यमुख विकासोऽस्तीति सूचनाय । विगतस्मयो गताहङ्कारः । इदं राज्ञ आक्षेपवचनानामुत्तरम् । अत्र विप्रजन्मनो भरतस्याशेषभगवत्प्रियनिकेतत्वं कथमुच्यते । न हि विप्रजन्मनि स कस्यचिदाश्रय इत्याशङ्कापरिहाराय विवक्षितमर्थं दर्शयति ॥ अशेषेति । स एव ब्राह्मणजन्मैव यदा भरतोऽभूत्तदाऽशेषभगवत्प्रियाणां निकेतोऽभूदित्यर्थः । तथा चैत-द्विशेषणमस्य नैतज्जन्माभिप्रायेणेत्याशयः । नन्विदमपि बाधितम् । भरतस्यापि भगवत्प्रियदेवा-द्याश्रयत्वाभावादित्यत उक्तम् ॥ मानुषापेक्षयेति । तत्कालस्थितभगवत्प्रियमानुषापेक्षयेत्यर्थः । एवं भरतपरतया सङ्कोचेनैवेदं व्याख्येयमित्यत्र नियामकं समाख्यारूपं प्रमाणं पठति ॥ तत्काल इति । भगवत्प्रियशब्दार्थकथनम् ॥ भक्तेष्विति । ऋषभात्मजो भरतः । निकेतशब्दतात्पर्यम् ॥ वरोऽपीति । तिरस्कृतशब्दार्थकथनम् ॥ धिक्कृत इति । ब्राह्मण-जन्मनीति शेषः । राज्ञा रहूगणेन । योगेश्वरचर्यायां नातिव्युत्पन्नमित्यस्य तात्पर्यम् । वैष्णवेषु सुहृदाऽपीत्यर्थः । तथाचाज्ञानादेव धिक्कार इत्याशयः । ततश्च तिरस्कृतो भरतजन्मनि । तत्कालभाव्यशेषमानुषभगवत्प्रिया भगवद्भक्तास्तेषाम् आश्रयो येनेति मूलं व्याख्येयमिति भावः
॥ ९ ॥
ब्राह्मण उवाच–
त्वयोदितं व्यक्तमविप्रलब्धं भर्तुः स मे स्याद्यदि वीर भारः ।
गन्तुर्यदि स्यादधिगम्यमध्वा पीवेति चासौ न विदां प्रवादः ॥ १० ॥
तात्पर्यम्
‘भरणादिकृद्धरिरिति चिन्तयन्नृपमब्रवीत्’ इति च ॥ १० ॥
पदरत्नावली
अहो कष्टं भ्रातर्व्यरुपरिश्रान्तो दीर्घमध्वानमेक एव ऊहितवान् सुचिर-मित्यादि यदभ्यधायि राज्ञा तत्रोत्तरमाह– त्वयेति ॥ भो वीर निरूप्यमाणे सति(त्वयोदितं यन्मम भरणकर्तृत्वं गमनकर्तृत्वं नास्तीति तद् व्यक्तं स्पष्टमविप्रलब्धं सत्यमेवेति यावत् । कथमित्यत आह– भर्तुरिति ॥ इति कपाठः) यद्यहं भर्ता यदि च भर्तुर्मे मम स भारः स्यात् । यदि वाऽहं गन्ता यदि वा गन्तुर्ममाधिगम्यं विषयाख्यं किञ्चित्स्यात्, यदि वाध्वा मार्गः कश्चित्स्यात्तर्हि त्वयोदितमिदं सर्वं व्यक्तं स्पष्टमविप्रलब्धं सत्यं भवेत् किन्तु नाहं भर्ता, नतरां भारः, नाहं गन्ता, नतरां गन्तव्यं, नतमां मार्ग इत्यर्थः । स्वस्कन्धे शिबिकादण्डस्य प्रत्यक्षसिद्धत्वात् कथमेतद्वचनमित्यत उक्तम्– व्यक्तमिति ॥ ‘भर्ता सन् भ्रियमाणो बिभर्ति’ ‘य उ त्रिधातु पृथिवीमुत द्याम्’ इत्यादि श्रुतौ भरणादेर्हरिनियतत्वस्य व्यक्तमुक्तत्वात्तदभिप्रायेण भरतेनोच्यत इत्येतदपि ‘भरणादिकृद्धरिरिति चिन्तयन् नृपमब्रवीत्’ इति स्मृतिसिद्धम् । यदुक्तं नातिपीवेति(‘तत्र पीवत्वादेर्देहधर्मत्वेन तदभाववति चेतने पीवत्वादिप्रवादो न ज्ञानिजनसम्मत इत्याशयेनाह’ इति कपाठः) तत्राह– पीवेति ॥ पञ्चभूतात्मके शरीरे पीवेति यः प्रवादो ऽसौ विदां ज्ञानिनां पक्षे न शोभते । देहस्य परिणामित्वेन चेतनस्यापरिणामित्वेन सिद्धत्वात्
॥ १० ॥
प्रकाशिका
दीर्घमध्वानमेक ऊहितवान्सुचिरमिति विपरीतलक्षणया राज्ञा भरणकर्तृत्वा-भावो दीर्घेऽध्वनि गमनकर्तृत्वाभावश्चोक्तः । तत्रोत्तरमाह ॥ त्वयेति । त्वयोदितं त्वदभिप्रेतं यन्मम भरणकर्तृत्वं गमनकर्तृत्वं नास्तीति तद्व्यक्तं स्पष्टमविप्रलब्धं विप्रलब्धं न भवति । सत्यमेवेत्यर्थः । कथमित्यतस् तत्र क्रमेणोपपादयति ॥ भर्तुरिति । अत्र भर्तुर्मम भारो भरणं यदि स्यात्स एव नास्ति गन्तुरध्वाध्वगमनं यदि स्यात्स एव नास्तीति व्याहतमुच्यते । अतोऽत्राभिपे्रतं तात्पर्यं प्रमाणेनैवाह ॥ भरणादिकृदिति । हरिरिति चिन्तयन् हरिरेवेति ध्यायन् अब्रवीत् । विप्रजन्मा । भरत इति शेषः ॥ ततश्चायं मूलार्थः ॥ स भरतस्तद्भरणं भर्तृतया दृश्यमानस्य मम मत्कर्तृको यदि स्यात् । शिबिकाभरणं यदि मत्कर्तृकं स्यादिति यावत् । तर्ह्येवार्थाभावादूहितवानिति त्वदीयमाक्षेपवचनमसत्यं स्यात् । न हि तथा हरेरेव भरणकर्तृत्वात् । अतस्त्वयोदितं सत्यमेव । नाक्षेपरूपमित्यर्थः । एवं गन्तुर्गन्तृतया दृश्य-मानस्य मम किञ्चिद्गम्यमधिकृत्याध्वाध्वगमनं यदि स्यात् । अध्वगमनं यदि मत्कर्तृकं स्यादिति यावत् । तर्ह्येवार्थाभावात्त्वदीयमाक्षेपवचनमसत्यं स्यात् । न च तथा हरेरेव गमनकर्तृत्वात् । अतस्त्वयोदितं सत्यमेव नाक्षेपरूपमिति योज्यम् । यदुक्तं नातिपीवेत्यनेनाहं पीवेति तदपि चेतनविवक्षया चेद्बाधितार्थकमित्याशयेनाह ॥ पीवेति चेति । विदां ज्ञानिनां प्रवादो न भवति । चेतने स्थौल्यादिविकाराभावादित्याशयः ॥ १० ॥
**स्थौल्यं कार्श्यं व्याधय आधयश्च क्षुत्तृड्भयं कलिरिच्छा जरा च । **
निद्राऽरतिर्मन्युरहंमदश्च देहेन जातस्य हि मे न सन्ति ॥ ११ ॥
तात्पर्यम्
देहेन जातस्य देहाभिमानिनः । ‘देहमानी देहजातो विदेहो मानवर्जित’ इति च ॥
पदरत्नावली
नातिसंहननाङ्ग इत्यादि यदुक्तं तत्राह– स्थौल्यमिति ॥ अत्र हिशब्द एवार्थे । स्थौल्यादयो देहेन जातस्य देहाभिमानिनो ह्येव सन्ति न मे सन्ति देहाभिमाना-भावात् । ‘देहमानी देहजातो विदेहो मानवर्जितः’ इति वचनात् । देहाभिमानिन एव स्थौल्यादिकानि नान्यस्येति बोद्धव्यम् । कलिः कलहः । अरतिस्तन्द्रा । अहमहङ्कारः
॥ ११ ॥
प्रकाशिका
देहविवक्षया चेत्तत्राह ॥ स्थौल्यमिति । कलिः कलहः । अरति-र्दुःखमहमहङ्कारः । हिशब्द एवार्थः । अत्र स्थौल्यादयो देहेन जातस्यैव सन्ति । मे मम न सन्तीत्युक्त्या स्वस्य देहेन जातत्वाभावमुच्यते । न चासौ सम्भवति । स्वस्यापि देहेन जातत्वादतोऽत्र योग्यं देहशब्दार्थं दर्शयति ॥ देहेन जातस्येति । देहजातशब्दस्य देहमानि-परत्वे प्रमाणं पठति ॥ देहमानीति । देहजातो देहजातशब्दवाच्यो विदेहो विदेहशब्दवाच्यः । तथा च देहेन जातस्यैव देहाभिमानिन एवैते स्थौल्यादयो देहविकारा आक्षेपाभिप्रायेणोक्ताश्चित्त-विक्षेपका भवन्ति । मे मम देहाभिमानशून्यस्य न सन्ति तथाविधा न भवन्तीति मूलार्थ इत्याशयः ॥ ११ ॥
जीवन्मृतत्वं नियमेन राजन्नाद्यन्तवद्यद्विकृतस्य दृष्टम् ।
स्वस्वामिभावो ध्रुव एष यत्र तर्ह्यच्युतेऽसाविति कृत्ययोगः ॥ १२ ॥
तात्पर्यम्
**‘प्राणयुक्तेररत्या च जडं जीवन्मृतं स्मृतम्’ इति च । ‘स्वामित्वं तु हरेरेव मुख्यमन्यत्र भृत्यता । देवेषु तन्नियत्या च त्वदादेर्व्यावहारिकम् । मानुषेषु विशेषः को व्यवहारमृते वद । व्यत्यासान्न हि देवेषु व्यत्यासः स्वामितां गत’ इति च **
॥ १२ ॥
पदरत्नावली
जीवन्मृतोऽसीत्यस्योत्तरमाह– जीवन्मृतत्वमिति ॥ आद्यन्तवद् उत्पत्तिविनाशवद्यत्तस्य विकृतस्य जडस्य जीवन्मृतत्वं नियमेन दृष्टम् । तथाहि जीवनं प्राणयोगेन चेष्टावत्त्वं मृतत्वं प्राणत्यागेन रतिलक्षणसुखराहित्यमेतच्छरीरस्याविनाभूतं ‘प्राणयुक्ते-रयुक्त्या च जडं जीवन्मृतं स्मृतम्’ इति स्मृतेः । न चैवम् । तथाहि जीवनं प्राणयोगं न चेष्टाबलं मृतत्वं प्राणत्यागेन रतिलक्षणं मम चेतनस्य देहयोगवियोगलक्षणजन्ममरणे अन्तरेण स्वतो विकाराभावेनाद्यन्तवत्त्वायोगात् । ‘नित्यो नित्यानां चेतनश्चेतनानाम्’ इति श्रुतेः ‘देहस्य सर्वथा नाशादनाशाच्चेतनस्य च’ इत्यादेश्च । अत एव देहेन जातस्येत्युक्तम् । यच्च मां कदर्थीकृत्य भर्तृशासनमतिचरसीत्युक्तं तत्राकर्णयेतिभावेनाह– स्वस्वामीति ॥ यत्र यद्येषः स्वस्वामिभावो ध्रुवः सत्य इति त्वयोच्यते तर्ह्यसावच्युते हरौ मुख्य इत्युच्यताम्(यस्मान्न च्युतपूर्वाेऽहमच्युतस्तेन कर्मणा’ इत्याद्युक्तरीत्या सर्वेश्वरत्वादिगुणैर्न कदाऽपि च्युतो भवती-त्यच्युतस्तस्मिन्नेव मुख्यस्वामित्वमभ्युपगन्तव्यम् । ‘स हि सर्वाधिपतिः स हि सर्वपालः स ईशः स विष्णुः’‘पतिं विश्वस्यात्मेश्वरम्’‘ सर्वेशो विष्णुरेवेको नान्योऽस्ति जगतः पतिः’ इत्यादिश्रुतिस्मृतिभ्यः । तथाच त्वयि मुख्यस्वामित्वाभावात् ‘भर्तृशासनमतिचरसि’ इति त्वदुक्तं न युक्तम् । मर्त्यकोटिप्रविष्टे भवत्यपि भृत्यत्वमेव मुख्यम् । तद्भृत्यत्वं तु तारतम्यानुसारेण विज्ञाय हरेरेव सर्वस्वामित्वं नित्यमित्यवगन्तव्यम्’ इति कपाठः) । ‘एष सर्वेश्वरः’ इति श्रुतेः । न तु त्वयि । तवास्मास्वेकत्वाद् भृत्यत्वमेव मुख्यम् । तदुक्तम्– ‘स्वामित्वन्तु हरेरेव मुख्यमन्यत्र भृत्यता’(देवेषु व्यत्यासः स्वामितागतः॥’ इति । तथाच हरावेव मुख्यं नियतं च स्वामित्वम् । देवेषु तु तारतम्योपेतभृत्यत्वयुक्तममुख्यं नियतस्वामित्वमस्ति । तत्तत्पदाधि-कारस्य व्यत्यासाभावात् । मानुषेषु भृत्यत्वमेव नियतं, स्वामित्वं तु व्यवहारमात्रम् । मानुषेषु कर्मवशात् स्वाम्येव भृत्यो भवति, भृत्यश्च स्वामी भवति । एवं स्वामिभृत्यभावस्य व्यत्यासात् तेष्वमुख्यं नियतस्वामित्वमपि नास्तीति यावत् । तस्मात् स्वस्वामित्वभ्रमं विहाय‘मम स्वामी हरिर्नित्यं सर्वस्य पतिरेव च’ इत्याद्युक्तरीत्या हरेर्मुख्यस्वामित्वोपासनं सर्वैरनुष्ठेयमित्याशयेनाह– इतीति ॥) इति ॥ ‘एष राजा दण्डनाथ’ इति वचनाद् अच्युते मुख्यत्वं कथमत्राह– इतीति ॥ ‘मम स्वामी हरिर्नित्यं सर्वस्य पतिरेव च’ इति स्मृतेः सन्ध्योपासनवन् मम स्वामी हरिरिति इतिकर्तव्यतालक्षणो योग उपासनं हरावेव विहितमिति यस्मात्तस्मादिति शेषः । ध्रुव इति विशेषणादन्यत्राध्रुवस्य न्यायप्राप्तत्वाच्च ॥ १२ ॥
प्रकाशिका
यदुक्तं जीवन्मृतोऽसीति तस्योत्तरमाह ॥ जीवन्मृतत्वमिति । जीव-न्मृतत्वं जीवन्मृतशब्दवाच्यत्वं यदाद्यन्तवत्प्रतिक्षणं विकृतं जडं तस्य नियमेनाव्यभिचारेण दृष्टम् । यदाद्यन्तवद्विकृतं जडं तत्सर्वं जीवन्मृतशब्दवाच्यमित्यर्थः । अत्र घटादौ व्यभिचारादि-दमयुक्तमिवाभाति । न च शरीररूपजडाभिप्रायेणैवायं नियमः । तत्रापि जीवतो मृतत्वासम्भवेन व्याहतिप्रसक्तेरतोऽत्र यथा न व्याहतिस्तथा जीवन्मृतशब्दार्थं प्रमाणेनैव दर्शयति ॥ प्राण-युक्तेरिति । जडं शरीररूपं प्राणयुक्तेः प्राणयोगाज्जीववदित्युच्यते । अरत्या बहुतरदुःखयोगेन मृतं मरणावस्थामिव स्मृतम् । तथा च मृतशब्दः शरीरे गौणोऽतो न व्याहतिरिति भावः । ततश्च यदाद्यन्तवदत एव प्रतिक्षणं विकृतं जडं शरीरं तस्य नियमेन सर्वस्यापि जीवन्मृतत्वं प्राणयोगेन दुःखबाहुल्येन च जीवन्मृतशब्दप्रतिपाद्यत्वं दृष्टम् । तथा चात्रापि चेतनविवक्षया चेद्बाधितार्थत्वं शरीरविवक्षया चेत्सर्वसाधारणं कथमाक्षेपरूपं स्यादिति मूलार्थ इत्याशयः। यदुक्तं भर्तृशासनमतिचरसीति तत्राप्युत्तरमाह ॥ स्वस्वामिभाव इति । अत्राप्रतिपत्तिविप्रतिपत्ति-निरासाय स्वस्वामिभाव इत्यादेः सार्धश्लोकस्य तात्पर्यं प्रमाणेनैव दर्शयति ॥ स्वामित्वमिति । तुशब्दोऽन्यानधीनत्वरूपविशेषार्थः । अत एव मुख्यम् । अन्यत्र चेतने भृत्यता मुख्या । अनेनाच्युते स्वस्वामिभावो ध्रुव इत्येतदुक्तार्थम् ।
ननु कथं स्वामित्वं हरेरेव मुख्यं नियतं च । यतो देवानामपि वेदादिषु तदुच्यत इत्यत आह ॥ देवेष्विति । चशब्दोऽवधारणे । तस्य हरेर्नियमेनैव नियतमस्तीति भावः । अतो न मुख्यमित्यर्थः । ननु तर्ह्यस्मदादिषु नियतस्वामित्वव्यवहारस्य का गतिरित्यतस्तत्र व्यवहारमात्रं नार्थ इत्याह ॥ त्वदादेरिति । व्यावहारिकं व्यवहारमात्रविषय इत्यर्थः । अनेन मूले देवेषु त्वन्नियत्यैव त्वदादेर्व्यावहारिकमित्यध्याहार्यमिति सूचयति । नन्वेतद्देशाधिपतिर्नियत इति प्रतीतिसद्भावात्कथं व्यवहारमात्रमित्युक्तमित्यत उक्तं विशदयति ॥ मानुषेष्विति । मानुषेषु । राजस्विति शेषः । व्यवहारमृते विशेषोे नियतोऽमुख्यो वा स्वामित्वरूपोऽर्थः को न कोऽपि । यदर्थं प्रतीतिरङ्गीकार्या स्यादित्याशयः । कुत इत्यत उक्तम् ॥ व्यत्यासादिति । अनेन विशेषबुद्धेरित्येतदुक्तार्थम् । नन्वेवं देवेष्वपि नामुख्यं स्वामित्वं नियतं किन्तु व्यवहारमात्रमिति किं न स्यादित्यत आह ॥ नहीति । स्वामितां गतः स्वामितानिष्ठः । तथा च देवेषु स्वामित्वममुख्यं नियतमस्ति । व्यत्यासाभावात् । मानुषेषु तु कर्मवशात्स्वाम्येव भृत्यो भवति । भृत्यश्च स्वामी । अतो व्यत्यासान्नामुख्यमपि नियतं स्वामित्वमस्तीत्यर्थः । अनेन क ईश्वर इत्यादिकमुक्ततात्पर्यम् ॥
ततश्चायं स्वस्वामिभाव इत्यादेः सार्धश्लोकस्यायमर्थः ॥ एषः प्रमाणप्रसिद्धः स्वस्वामिभावो यत्र यर्हि ध्रुवो मुख्यो नियतश्च विवक्षितस्तर्ह्यसावच्युते हरावन्यत्र चाङ्गीकार्यः । अच्युते स्वामिता । अन्यत्र भृत्यतारूपा स्वतो मुख्या नियता चाङ्गीकार्येत्यर्थः । यर्ह्यध्रुवोऽमुख्यस्तर्हि देवेषु तन्नियत्याऽङ्गीकार्यस्तदादिषु च व्यवहारमात्रं नामुख्योऽप्यसौ नियतः स्वस्वामिभाव इति शेषः । इति तस्मात्त्वदादिषु कृतेः शासनरूपाया अयोगो योग्यता नेत्यर्थः । यो मुख्यस्वामी हरिर्ये चामुख्यस्वामिनो देवास्त एवास्मच्छासनयोग्या न त्वदादिरित्याशयः ॥ १२ ॥
विशेषबुद्धेर्विवरं मनाक् क्व पश्यामि यत्र व्यवहारतोऽन्यत् ।
क ईश्वरस्तत्र किमीशितव्यमथापि राजन्करवाम किं ते ॥ १३ ॥
पदरत्नावली
ननु ‘एको रुद्रो न द्वितीयोऽवतस्थे’ इति श्रुतेः रुद्रादीनामपि स्वामित्व-प्रतीतेरिति तत्राह– विशेषबुद्धेरिति ॥ मनागीषदपि विशेषबुद्धे रुद्रादौ मुख्यबुद्धेर्विवरमवकाशं स्वामिशब्दप्रवृत्तिनिमित्तं न पश्यामि । भरतस्यापरोक्षज्ञानित्वेन करतलामलकवदशेषशब्दप्रवृत्ति-निमित्तस्यापरोक्षत्वात् पश्यामीत्युक्तम् । तस्मादेतद्दर्शनेन महानिति सूचितम् । चशब्देन कर्णताडितवच्छ्रूयमाणस्य कथं नोदनमिति तत्राह– व्यवहारतोऽन्यदिति ॥ व्यवहारतोऽज्ञ-रूढिलक्षणाद्यदन्यन्मुख्यं तदिति शेषः । अतो देवेषु प्रतीयमानं यत्स्वामित्वं तद्धरिनियतमिति बोद्धव्यम् । तदुक्तम्– ‘देवेषु तन्नियत्या च’ इति । अनेन हरिमन्तरेण देवेषु यथा तारतम्यं स्वामित्वं मुख्यमिति च ज्ञातव्यं, तर्हि सिन्धुपतिरिति व्यपदेशो मम कथमित्यतो वाह– विशेषेति ॥ सैन्धवैरज्ञैस्त्वामुद्दिश्य व्यवहारो न तु मुख्य इत्यर्थः । एतदप्युक्तम्– ‘त्वदादेर्व्यावहारिकम्’ इति । आदिशब्देन भवन्तो देशाधिपतय इति गृह्यते । अस्तु व्यावहारिकमतः किं तत्राह– क ईश्वर इति ॥ हरौ देवेषु च स्वामित्वमृतेऽन्यत्र मानुषेषु तस्य व्यत्यासात् को विशेषः व्यवहारमात्रान्निर्मूलमिति तत्र तस्मिन्पक्षे स्थिते मनुष्येषु क ईश्वरः स्वमी ईशितव्यं समर्थनीयं च किं न किमपीत्यर्थः । तदुक्तम्– ‘मानुषेषु विशेषः को व्यवहार-मृते वद व्यत्यासादिति तत्र हरिर् देवेषु स्वामित्वे मुख्यतो यथाक्रमं स्थितेऽन्यत्र क ईश्वर इति वा यथा मानुषेषु स्वस्वामिभावस्य व्यत्यासो न तथा देवेष्विति द्योतनाय तत्रेति । तदुक्तम्– ‘न हि देवेषु व्यत्यासः स्वामितागतः’ इति । एवं विचार्यमाणेऽन्येभ्यो जीवेभ्यस्तव विशेषा-भावेऽपि सम्भावनार्थं तव स्वामित्वमङ्गीकृत्याप्यस्माभिः किं कर्तव्यं तद्वदेत्यभिप्रेत्याह– अथापीति ॥ विशेषबुद्धेर्यद्विवरं पश्यामि तद्व्यवहारतोऽन्यत्र कुतः मनागल्पमज्ञविषयत्वादिति वान्वयविशेषः । अवशिष्टं पूर्ववत्(‘अहं सिन्धुपतिरिति व्यवहारः कथमित्यतो वाह– विशेष-बुद्धेरिति ॥ कस्यचित् स्वामित्वं कस्यचिद् भृत्यत्वमिति विशेषबुद्धेर्विवरमवकाशं मनागपि न पश्यामि । अज्ञव्यवहारमात्रमेतत् । ज्ञानिव्यवहारे हरेरेव सर्वस्वामित्वस्योक्तत्वात् । यद् व्यवहारतोऽज्ञव्यवहारतोऽन्यत् प्राज्ञव्यवहारस्तत्र क ईश्वरः किमीशितव्यमस्ति । कर्मवशेन व्यत्याससम्भवादमुख्योऽपि न नियतः स्वामिभृत्यभाव इति भावः । अथापि नियतस्वामित्वा-भावेऽपि यद्यनियतममुख्यं स्वामित्वमवलम्ब्य आज्ञापयसि तर्हि ब्रूहि राजन् किं ते कर्म करवामेति’ इति कपाठः) ॥ १३ ॥
प्रकाशिका
नन्वेवमयमेतद्देशस्वामी नियत इत्यादिबुद्धेः का गतिरित्याशङ्कायां व्यवहारमात्रमित्येतद्विवृणोति ॥ विशेषबुद्धेरिति । मानुषेष्विति शेषः । विशेषबुद्धेः कस्य-चित्स्वामित्वं कस्यचिद्भृत्यत्वमिति बुद्धेर्यद्विवरम् । अवकाशविषयमिति यावत् । तन्मनागीषदपि व्यवहारतोऽन्यन्न पश्यामि व्यवहारमात्रमेतत् । न ज्ञानं तद्विषयो वाऽस्तीत्यर्थः । कुत इत्यत आह ॥ क इति । को मनुष्यो नियमेनेश्वरः । न कोऽपि । तत्र तस्मिन्नीश्वरे सति किं नियमेनेशितव्यमस्ति न किमपि । कर्मवशेन व्यत्यासस्यापि सम्भवादित्याशयः । मास्तु नियतमस्मदादिषु स्वामित्वं मुख्यममुख्यं वा कादाचित्कं परिदृश्यमानं किञ्चिदङ्गीकार्यमित्यत आह ॥ अथाऽपीति । अथाऽपि नियतस्वामित्वाभावेऽपि यद्यनियतं स्वामित्वमवलम्ब्य ब्रवीषि तर्हि राजन् किं ते शासनं करवाम तद्वद । तद्यथाशक्ति कुर्म इत्यर्थः । एतादृशस्वामित्वं कर्मवशाद्यदि मम भविष्यति तर्हि त्वमपि मच्छासनं करिष्यसीत्याशयः ॥ १३ ॥
उन्मत्तमत्तजडवत्स्वसंस्थां गतस्य मे वीर चिकित्सितेन ।
अर्थः कियान् भवता शिक्षितेन स्तब्धप्रमत्तस्य च पिष्टपेषः ॥ १४ ॥
पदरत्नावली
प्रमत्तस्य ते करोमि चिकित्सामिति यदुक्तं तत्र शृृण्वित्याह– उन्मत्तेति ॥ उन्मत्तादिस्वरूपस्थितिं प्राप्तस्य मे चिकित्सितेन दण्डलक्षणेन भवता शिक्षितेन विहितेन तवार्थः कियान् न कोऽपि तव रोदनादिदर्शनेन मम मनस्तृप्तिर्भवतीति तत्राह– स्तब्धेति ॥ स्तब्धश्चासौ प्रमत्तश्चेति स्तब्धप्रमत्तस् तस्य पिष्टपेषणवन्निष्फलं चिकित्सितं शिक्षासहस्रेणापि निर्मुक्तदेहाभि-मानस्य मम व्यथानुभवाभावेन रोदनाद्यनुदयादिति द्विगुणितकोपवद्भिना दग्धदेहसन्तापमन्तरेणान्य-त्प्रयोजनं नास्तीति भावः (‘प्रमत्तस्य ते करोमि चिकित्सामिति यदुक्तं तत्राह– उन्मत्तेति ॥ उन्मत्तादिवद् वर्तमानस्य । देहाभिमानरहितस्येति यावत् । अत एव स्वसंस्थां स्वे स्वातन्त्र्यादिगुणपूर्णे विष्णौ स्थितिं गतस्य । ‘स्वातन्त्र्यात् स्व इति प्रोक्तो विष्णुः सर्वेश्वरेश्वरः’ इति तत्वविवेके । एतादृशस्य मे भवता कृतेन चिकित्सितेन दण्डेन, शिक्षितेन निष्ठुरवचनादि-रूपेण वा कियानर्थः किं प्रयोजनम् ? यः स्वभावतः स्तब्धः प्रमत्तश्च तस्य शिक्षादिकं पिष्टपेषः पिष्टपेषणवद् व्यर्थमित्यर्थः’ इति कपाठः) ॥ १४ ॥
प्रकाशिका
यदुक्तं प्रमत्तस्य चिकित्सां करोमीति तत्राप्युत्तरमाह ॥ उन्मत्तेति । जडवदित्यनन्तरं वर्तमानस्येति शेषः । देहाभिमानशून्यस्येति यावत् । अत एव स्वसंस्थां मनसा स्वस्वरूपस्थितिं स्वतन्त्रे हरौ स्थितिं वा गतस्य मे भवता कृतेन चिकित्सितेन दण्डेन शिक्षितेन निष्ठुरवचनादिरूपाक्षेपेण वा कियानर्थः किं प्रयोजनम् । न किमपि । देहाभिमाना-भावेन मम तत्कृतव्यथाद्यभावादित्याशयः । अथ न त्वं देहाभिमानशून्यः किन्तु स्वभावेनैव स्तब्धः प्रमत्तश्च भवस्यतो मच्छिक्षादिकं सार्थकमित्याशङ्कायां तथाऽपि तद्व्यर्थमित्याह ॥ स्तब्ध इति । यः स्वभावतः स्तब्धः प्रमत्तश्च तस्य प्रति शिक्षादिकं पिष्टपेषः पिष्टपेष-वद्व्यर्थमित्यर्थः । स्वभावभूतस्य स्तब्धादेः शिक्षादिनाऽनपगमादित्याशयः ॥ १४ ॥
श्रीशुक उवाच–
एतावदनुवादपरिभाषया प्रत्युदीर्य मुनिवर उपशमशील उपरतानात्म्य-निमित्तमुपभोगेन कर्मारब्धं व्यपनयन् राजयानमपि तथोवाह ॥ १५ ॥
पदरत्नावली
ब्राह्मणः पुनः किमकार्षीदत्राह– एतावदिति ॥ तथा पूर्ववदुवाहेति । अनुवादपरिभाषया उक्तस्य पुनर्वचनमनुवादपरिभाषा तया (प्रत्युदीर्य) अनूद्यानूद्येत्यर्थः । अनात्मा देहस्तत्सम्बन्ध्यनात्म्यं देहान्तरग्रहणं तस्य निमित्तकारणं तदुपरतं निवृत्तं यस्य तत्तथा । तादृशमारब्धं फलदानायोन्मुखं कर्मोपभोगेन व्यपनयन् क्षपयन् यथा देहान्तरोत्पत्तये न स्यात्तथा भुञ्जान इत्यर्थः(‘अनुवादपरिभाषया अनुवादपूर्वकपरिभाषणेन प्रत्युदीर्य प्रत्युत्तरं दत्वा राजयानमपि तथा पूर्ववदुवाहेत्यन्वयः । अनात्मा देहस्तत्सम्बन्धि सुखदुःखादि अनात्म्यं तस्य निमित्तमहन्ताद्यभिमानलक्षणम् । उपरतं निवृत्तम् अनात्म्यनिमित्तं तस्य स तथा । आरब्धं कर्म भोगेन व्यपनयन् क्षपयन्’ इति कापाठः) ॥ १५ ॥
प्रकाशिका
अनुवादपरिभाषयाऽनुवादपूर्वकपरिभाषणेन प्रत्युदीर्य प्रत्युत्तरं दत्वा । अनात्मा देहः । तत्सम्बन्धि सुखदुःखादि अनात्म्यमुपरतमभिमानाभावेनापगतमनात्म्यं यस्मि-न्देहे तस्य निमित्तमात्रमारब्धं प्रारब्धं कर्मभोगेनापनयन्नाशयन् राजयानं शिबिकां यथापूर्वं तथोवाह ॥ १५ ॥
**स चापि पाण्डवेय सिन्धुसौवीरपतिस्तत्त्वजिज्ञासायां सम्यक्श्रद्धयाऽधि-कृताधिकारस् तद्घृदयग्रन्थिविमोचनं द्विजवच आश्रुत्य बहुयोगग्रन्थमतं१ त्वरयाऽवरुह्य शिरसा पादमूलमुपगतः क्षमापयन्विगतनरदेवस्मय उवाच रहूगणः **
॥ १६ ॥
पदरत्नावली
स रहूगणस्तं परित्यज्यान्येन वाहयित्वा विवक्षितगम्यं गतः किं नेत्याह– स चेति ॥ अपिपदेन स्वोक्तस्य गर्हितत्वं सूचयति । अधिकृताधिकार उपदिष्टज्ञानग्रहणयोग्यतावान् । हृदयग्रन्थिरहङ्कारबन्धस् तं मोचयतीति हृदयग्रन्थिमोचनं तत् । बहुयोगग्रन्थसम्मतम् अनेकयोगशास्त्रसिद्धम् ॥ १६ ॥
प्रकाशिका
हे पाण्डवेय । तत्त्वजिज्ञासायां सम्यक् श्रद्धयाऽधिकृतः प्रकटीकृतोऽधि-कारस्तत्त्वज्ञानयोग्यतालक्षणो यस्य हृदयग्रन्थिरहंममाभिमानस्तद्विमोचनं यस्माद्बहवो योग-प्रतिपादकग्रन्थास्तेषां मतमभिप्रेतं यस्मिंस्तद् द्विजवच आश्रुत्य विगतो नरदेवो राजाऽहमिति स्मयो गर्वो यस्य ॥ १६ ॥
कस्त्वं निगूढश्चरसि द्विजानां बिभर्षि सूत्रं कतमोऽवधूतः ।
कस्यासि कुत्रत्य इहापि कस्मात् क्षेमाय नश्चेदसि नोत शुक्लः ॥ १७ ॥
पदरत्नावली
कः किञ्जातिविशिष्टः न दृश्यते किं सत्यमित्याह– द्विजानामिति ॥ सूत्रं लक्षणं यज्ञोपवीतमात्रं मलिनं बहुग्रन्थिवरं न दृश्यते । अतः संशयः, किं चैवंविधा बहवो योगीन्द्रा भवन्ति तेषां मध्ये त्वं कतमोऽवधूतः योगीन्द्रः कस्य योगीन्द्रस्य वंशे जातोऽसि(‘यतः सूत्रमुपवीतं बिभर्षि ततो द्विजानां मध्ये कतमोऽसि । यद्वा अवधूतानां मध्ये कतमोऽवधूतः । कस्य पुत्रोऽसि’ इति कपाठः) । कुत्रत्यः कस्मिन्देशे विद्यमानः । इहास्मि-न्देशे कस्मात्कारणादभूः । चेद्यदि नोऽस्माकं क्षेमायासि तर्हि शुक्लः कपिलः वासुदेव उत किं स न भवति तल्लक्षणसामग््रयभावादित्यर्थः ॥ १७ ॥
प्रकाशिका
द्विजनां मध्ये कतमो यतः सूत्रमुपवीतं बिभर्षि । अथवा द्विजानामव-धूतानां योगिनां मध्ये कतमोऽवधूतः कस्य पुत्रोऽसि । कुत्रत्यः कस्मिन्विद्यमानः । इहा-प्यस्मिन्देशेऽपि कस्मात्कारणात्प्राप्तो नोऽस्माकं क्षेमाय चेत्प्राप्तस्तर्हि शुक्लः शुद्धः कपिलो मुनिर्न भवस्युत किमिति वितर्क इत्याशयः ॥ १७ ॥
नाहं विशङ्के सुरराजवज्रान्नत्र्यक्षशूलान्न यमस्य दण्डात् ।
नाग्न्यर्कसोमानिलवित्तपास्त्राच्छङ्के भृशं ब्रह्मकुलावमानात् ॥ १८ ॥
पदरत्नावली
ननु यो वा को वास्तु तव तावच्छिबिकावहनमलमिति चेत्तत्राह– नाहमिति (त्वं ब्राह्मणश्चेत् त्वदवमानेन मम महाननर्थो भवेदेवेति भियैवं स्तुवीते– नाहमिति ॥ वित्तपः कुबेरः । इति कपाठः)॥ ब्रह्मकुलस्य ब्राह्मणकुलस्यावमानादपराधात् शङ्के तस्माद्ब्राह्मणश्चेत् क्षमापयितुमिच्छया पृच्छामीत्यर्थः ॥ १८ ॥
प्रकाशिका
त्वं ब्राह्मणश्चेत्त्वदवमानेन ममातीवानर्थप्राप्तिर्भविष्यतीत्याशयेनाह ॥ नाहमिति । वित्तपः कुबेरोऽवमानादपराधादस्माद्भृशं शङ्के ॥ १८ ॥
तद्ब्रूह्यसङ्गो जडवन्निगूढविज्ञानवीर्यो विचरस्यपारः ।
वचांसि योगग्रथितानि साधो न नः क्षमन्ते१ मनसा विभेत्तुम् ॥ १९ ॥
पदरत्नावली
यत एवं शङ्के तत्तस्माद्यथा जडस्य सङ्गबुद्धिर्नास्ति तथा तवापीत्यसङ्गः । निगूढमप्रकाशितं विज्ञानवीर्य विशिष्टं ज्ञानवीर्यं यस्य स (‘येन सः’ इति कपाठः) तथा । अत एवापारो ऽगाधो ऽपरिमितमहिमा, मादृशानामिति शेषः । योगे अध्यात्मविषये ग्रथितानि सम्बद्धानि वचनानि (‘वचांसि’ इति कपाठः) मनसा विभेत्तुं विवेक्तुं नोऽस्माकं न क्षमं न शक्यानीत्यन्वयः । मनसा विभेत्तुं न शक्नुमः, किं पुनर्वचनेनेत्यतो मनसेति ॥ १९ ॥
प्रकाशिका
तत्तस्मात्कस्त्वमित्यादिप्रश्नानामुत्तरं ब्रूहीत्यर्थः । अहं कश्चिदुन्मत्तो जडव-च्चरामीति शङ्कायां न त्वमुन्मत्तः किन्तु योगेश्वर एवेति निश्चित्याह ॥ असङ्ग इति । निगूढं नितरां गूहितं विज्ञानरूपवीर्यं प्रभावो येनापारोऽपरिमितमहिमा । तत्र हेतुः । हे साधो । योगःग्रथितो येषु तानि ते वचांसि नोऽस्माकं मनसा विभेत्तुं विविच्य ज्ञातुं न क्षमन्ते । न शक्यानीत्यर्थः । अतस्त्वं नोन्मत्त इत्याशयः ॥ १९ ॥
**अहं च योगेश्वरमात्मतत्त्वविदां मुनीनां कपिलं गुरुं वै । **
प्रष्टुं प्रवृत्तः किमिहारणं यत्साक्षाद्धरिं ज्ञानकलावतीर्णम् ॥ २० ॥
पदरत्नावली
अहमपि कार्यान्तरमुद्दिश्य जनपदान्तरं गमिष्यामीति शङ्का माभूत् किन्तु ज्ञानार्थित्वेन कपिलवासुदेवम् अतो ज्ञानाधिकारित्वेन मम तत्वमुपदेष्टुं योग्यताऽस्तीत्यभिप्रेत्य विज्ञापयति– अहञ्चेति ॥ अहमपीह संसारे क्लिश्यमानानां जनानां यदृच्छति अवगच्छति जानात्यनेन तत्वमिति ज्ञानलक्षणमरणं शरणं तत्किमिति प्रष्टुं प्रवृत्त इत्यन्वयः । कपिलः किमयं श्रोत्रिय उत प्रवक्तेति तत्राह– गुरुमिति ॥ श्रोतुरपेक्षिताशेषश्रोत्रव्यस्योपदेष्टारं केषां किमेते पाषाणवन्मौनशीलाश्चेन्न प्रवचनेन प्रयोजनमेतादृशशिष्यान् सङ्गृह्य व्याख्या सर्वस्य सुशका चेति तत्राह– तत्वेति ॥ तत्तत्पदार्थतत्ववित्त्वमाटविकानामप्यस्तीत्यत– आत्मेति ॥ न चायं कपिलः साङ्ख्यशास्त्रप्रणेतेत्याह– हरिमिति ॥ न चायंशब्दः सावकाश इत्याह– साक्षादिति ॥ न चास्यान्यत्र व्यापृतत्वे ज्ञानोपदेशानवसर इत्याह– ज्ञानेति ॥ ज्ञानकामधेनुप्रवृत्तयेऽवतीर्णं कल कामधेनाविति धातुः, कल विस्तर इति वा ज्ञानव्याप्तय इति वा(‘इह संसारे यदरणं शरणं तत् किमिति प्रष्टुम् । कुतर्कपरिबृंहितकुशास्त्रप्रवर्तकस्य कपिलनामकस्यापरममुनेर्व्यावृत्त्यर्थं– साक्षादिति ॥ तदुक्तं पाद्मे ‘कपिलो वासुदेवाख्य-स्तन्त्रसाङ्ख्यं जगाद ह । ब्रह्मादिभ्यश्च देवेभ्यो भृग्वादिभ्यस्तथैव च । तथैवासुरये सर्ववेदार्थै-रुपबृंहितम् । सर्ववेदविरुद्धं च कपिलोऽन्यो जगाद ह । साङ्ख्यमासुरयेऽन्यस्मै कुतर्क-परिबृंहितम् ॥’ इति । ज्ञानकलायै ज्ञानविस्ताराद्यर्थमवतीर्णम् । ‘कल कामधेनौ’ इति धातुः’ इति कपाठः ) ॥ २० ॥
प्रकाशिका
किं तव देशान्तरगमनासक्तस्यास्मत्स्वरूपनिश्चयेनेत्यपेक्षायां नाहं वृथा देशान्तरगमनासक्तः किन्तु तत्त्वजिज्ञासायैवेत्याह ॥ अहं चेति । चशब्दः प्रकृतत्वानु-सन्धानार्थः । इह संसारेऽरणं रक्षकं यत्तत्किमिति कपिलं प्रष्टुम् । वैशब्दोऽवधारणे प्रष्टुमेव प्रवृत्तः । नान्यस्मै प्रयोजनाय । कथंभूतं कपिलं साक्षाद्धरिमावेशो न भवतीति प्रदर्शनाय साक्षादित्युक्तम् । कल विस्तार इति धातोः कलशब्दोऽत्र विस्तारपरः । तथा च ज्ञान-विस्तारायावतीर्णमित्यर्थः । ज्ञानकलया ज्ञानरूपांशेनावतीर्णमिति वा विज्ञानार्थं स्वरूपांशेना-वतीर्णमिति वा । तथा चायमवतारो ज्ञानकार्यतत्त्वोपदेशाद्यर्थ इत्यर्थः । अत एव तत्त्वविदां मुनीनां गुरुमित्युक्तम् ॥ २० ॥
स वै भवाल्लोकनिरीक्षणार्थमव्यक्तलिङ्गो विचरत्यपिस्वित् ।
योगेश्वराणां गतिमल्पबुद्धिः कथं विचक्षीत गृहानुबद्धः ॥ २१ ॥
पदरत्नावली
वा इत्यनेन मम कार्यान्तरे व्यापारो नास्तीति दर्शयति, ततः किं प्रकृत इति तत्राह– स वा इति ॥ भवान् स वै कपिलो भगवानेव लोकनिरीक्षणार्थं साध्व-साधुजनपरीक्षणार्थम् अव्यक्तलिङ्गो भूत्वा विचरत्यपिस्वित् किमित्यन्वयः । मादृशानामीदृशसंशयः श्लाघ्य इत्याशयेनाह– योगेश्वराणामिति ॥ विचक्षीत जानीयात् । अन्धबुद्धित्वे कारणं– गृहानुबद्ध इति ॥ २१ ॥
प्रकाशिका
असि नोत शुक्ल इत्युक्तमेव तर्कं विशदयति ॥ स इति । स एव कपिल एव भगवान् लोकनिरीक्षणार्थं साध्वसाधुजनपरीक्षणार्थमव्यक्तलिङ्गो भूत्वा विचरति । अपिस्वित्किमित्यर्थः । गतिं स्थितिं विचक्षीत जानीयात् । अल्पबुद्धित्वे हेतुः ॥ गृहानुबद्ध इति । एवं तत्स्वरूपं पृष्ट्वा तदुक्तोत्तराण्याक्षिपत्युत्तरग्रन्थेन ॥ २१ ॥
दृष्टः श्रमः कर्मत आत्मनो वै भर्तुर्गन्तुर्भवतश्चाद्य मन्ये१ ।
यथा श्रुतोदानयनादिभावाः समूलदृष्टो व्यवहारमार्गः ॥ २२ ॥
पदरत्नावली
अधुना यत्त्वयोक्तं भर्तुर्मम भारो नास्ति गन्तुः कर्मतः श्रमो नास्तीति तत्राह– दृष्ट इति ॥ यथात्मनो मम भर्तुः कण्ठभुग्नताहेतुर्भारो गन्तुर्गमनलक्षणात्कर्मतः श्रमः पादवेदनालक्षणो दृष्टस्तथा भर्तुर्गन्तुर्भवतोद्यवहनगमनादिक्रियादर्शनाच्छ्रमो युक्त इति मन्ये वै सर्वानुभवसिद्ध इति । न केवलं दृष्टिः श्रुतिरप्यस्तीत्याह– श्रुतेति ॥ श्रुता उदानयनादिभावा इति प्रयोगमुत्सृज्य एकपद्येन प्रयोगस्तु छान्दसः । उदानयनादिभावा जलाहरणसाधनघटादि-पदार्था वोढॄणां श्रमजनकाः श्रुता इतीदमपि श्रमसद्भावे प्रमाणमित्यर्थः । ‘भावो लीलाक्रिया चेष्टा’ इत्यभिधानाज्जलानयनादिक्रियाः श्रमहेतव इति वा किमत इति तत्राह– समूल इति ॥ यतो वहनगमनादिक्रियाः श्रमजनकत्वेन सत्यास् तस्माद्धानोपादानादिव्यवहारमार्गः समूलः सप्रमाणः दृष्टः साक्षिसिद्ध इत्यर्थः । केचिदुदानयनादिभावेति पठन्ति तत्र श्रुतेति पदच्छेदः । क्रियावाचिनो भावशब्दस्य टापि कृते स्त्रीलिङ्गत्वं साधु । अनेन ‘जीवन्मृतत्वं नियमेन राजन्’ इत्यत्र यद्देहस्येति उक्तं तत्प्रयुक्तं ‘शतं कुम्भम् असिञ्चन्तं सुरायाः’ इति श्रुतेः क्रियायाश्चेतननियतत्वात्(‘यदुक्तं ‘भर्तुः स मे स्याद् यदि वीर भारः’ इत्यादिना, हरेरेव भरणादिकर्तृत्वान्नाहं शिबिकाभर्ता, नाप्यहं गन्ता, तस्माद् भरणगमनादिना श्रमो मम नास्तीति तत्राह– दृष्ट इति ॥ यथा आतमनो मम कर्मतः युद्धकरणादिलक्षणात् श्रमो दृष्टस्तथा भर्तुः कण्ठभुग्नताहेतुलक्षणभारवोढुर्गन्तुश्च भवतः श्रमोऽस्तीत्यनुमन्ये । अत्रसर्वानुभवसिद्धत्वद्योतनाय वैशब्दप्रयोगः । किञ्च श्रुतिविहितकर्माचरणान्यथानुपपत्त्या जीवकर्तृत्वमङ्गीकार्यमित्याशयेनाह– श्रुतेति ॥ श्रुतानि श्रुतिविहितानि उदानि कर्माणि तेषामानयनं सम्यक् समापनं तदादयो भावाः पदार्थाः, अङ्गीकार्या इति शेषः । अन्यथा श्रुत्यप्रामाण्यप्रसङ्गादिति यावत् । तस्माद् व्यवहारमार्गो लौकिकवैदिकव्यवहारविषयो जीवकर्तृत्वरूपोऽर्थः समूलदृष्टः युक्तियुक्त-प्रत्यक्षादिसिद्धः ।’ इति कपाठः ) ॥ २२ ॥
प्रकाशिका
तत्र यदुक्तं हरिरेव जन्मादिकर्ता नाहमिति तद्दूषयति ॥ दृष्ट इति । यथाऽऽत्मनो मम कर्मतो बुध्यादिकरणरूपाद्गमनादिरूपाच्च श्रमः दृष्टः । तथा भर्तुर्गन्तुश्च भवतः भरणादिना श्रमोऽस्तीति मन्येऽनुमिनोमि । तथा चानुमितश्रमान्यथानुपपत्या भवतोऽपि भरणादिकर्तृत्वमस्तीत्यङ्गीकार्यम् । अतः कथं हरिरेव भरणादिकर्ता नाहमित्युक्तमित्याशयः । किञ्च वेदोदितकर्मकरणान्यथाऽनुपपत्त्याऽपि जीवानां कर्तृत्वमङ्गीकार्यमित्याह ॥ श्रुतेति । श्रुतानि श्रुतिविहितान्युदानि कर्माणि तेषामानयनं सम्यक् समापनं तदादयो भावाः पदार्थाः । अङ्गीकार्या इति शेषः । अन्यथा वेदाप्रामाण्यप्रसङ्गादित्याशयः । उपसंहरति ॥ समूलदृष्ट इति । तस्मादित्यादौ ग्राह्यम् । व्यवहारमार्गो लौकिकवैदिकव्यवहारविषयो जीवकर्तृत्वादिरूपोऽर्थः समूलदृष्टो युक्तिसहितप्रत्यक्षादिसिद्धः । अतोऽङ्गीकार्य इत्यर्थः ॥ २२ ॥
स्थाल्यग्नितापात्पयसो हि तापस्तत्तापतस्तण्डुलगर्भरन्धिः ।
देहेन्द्रियास्वाशयसन्निकर्षात्तत्संसृतिः पुरुषस्यानुरोधात् ॥ २३ ॥
पदरत्नावली
स्थौल्यादयो न मे सन्तीति यदवादि तत्रोच्यते– स्थालीति ॥ स्थाल्या भाण्डस्याग्निना तापाद् भाण्डस्थपयसो जलस्य अभितापः स्यात्तस्य पयसस्तापा-त्तण्डुलगर्भस्य तण्डलान्तःसारस्य रन्धिः पाकः संयोगलक्षणसम्बन्धपरम्परयाऽन्नाख्य कार्यो-त्पत्तिर्यथा तथा देहश्चेन्द्रियाणि चासव प्राणश्चाशयोऽन्तःकरणं च ते तथा तेषां सन्निकर्षात् संयोगलक्षणसम्बन्धाद् या स्थौल्यादिलक्षणा संसृतिः सा पुरुषस्य भवतीत्यन्वयः । कुत इत्यत आह– अनुरोधादिति ॥ अनुरोधाद् अभिमानात् । न चाभिमानो नास्तीति वाच्यम् । देह-सद्भावेऽभिमानस्यावश्यंभावित्वादग्निसन्तप्तायोवत् । ननु हेयाहेययोः स्वरूपे सामान्यतो ज्ञातेऽत्र प्रश्नपूर्वकं विशेषतो जिज्ञासा सञ्जाघटीतीति तदभावे स्तम्भसम्बोधनवद्व्यर्थः स्यादित्यतो वा हेयस्वरूपं निरूपयति– स्थालीति ॥ अर्थस्तूक्त एव । आत्मा संसारी संसारान्तःपाति-त्वादन्तःकरणवत्स च सत्योऽर्थक्रियाकारित्वादात्मवदित्याद्यूहनीयम् ॥ २३ ॥
प्रकाशिका
यदुक्तं देहाभिमानशून्यस्य मम देहधर्मभूताः स्थौल्यादयो न चित्तविक्षेपकरा भवन्तीति तद्दूषयति ॥ स्थाल्याग्नीति । स्थाल्याः पात्रस्याग्नितापात्तन्मध्यवर्तिनः पयसो जलस्य तापस्तस्य तापात्तण्डुलगर्भस्य तण्डुलान्तस्थसारभागस्य रंधिः पाको यथाऽऽश्रयस्य तापेनाश्रिततापो भवतीति यावत् । तथा देहश्चेन्द्रियाण्यसवश्च प्राणाश्चाशयोंऽतःकरणं च ते तथा तेषां सन्निकर्षात्तत्तैर्देहेन्द्रियादिधर्मैः स्थौल्यादिभिः पुरुषस्य देहेन्द्रियादिप्रविष्टस्य संसृतिश्चित्त-तोदादिरूपा भवति । अनुरोधाद्योग्यताकर्माद्यनुसारात् । तत्र स्थौल्यकार्श्यव्याधिजरा देहधर्मा नेन्द्रियधर्मा इन्द्रियोपरमस्येव निद्रात्वात् क्षुत्तृषोः प्राणधर्मत्वमाधयः सङ्कल्पादयश्च शिष्टा आशयधर्मास्ते सर्वे स्वाश्रयदेहादिसम्बन्धेन जीवे दुःखादिरूपसंसृत्यापादका भवंत्येवेत्यर्थः । आध्यात्मिकादितापेन देहे तप्ते इन्द्रियाणां तापस्ततः प्राणमनसोस्तेन जीवस्येति परंपरया तापो दार्ष्टान्तिकेऽपि विवक्षित इत्यप्याहुः । यद्यभिमानवत एव संसृत्यापादका न ममाभिमानशून्य-स्येत्युक्तम् । तथाऽपि देहेन जातस्य हि मे न सन्तीति वाक्यस्योक्ताभिप्रायमजानताऽऽपात-प्रतीतार्थमेवानुसृत्य तवापि देहेन्द्रियादिसंनिकर्षात्संसृतिरपरिहार्येत्युक्तमिति ज्ञातव्यम् ॥ २३ ॥
शास्ताऽधिगोप्ता नृपतिः प्रजानां यः किङ्करो वै न पिनष्टि पिष्टम् ।
स्वधर्ममाराधनमच्युतस्य यदीहमानो विजहात्यघौघम् ॥ २४ ॥
पदरत्नावली
स्तब्धप्रमत्तस्य च पिष्टपेष इति यदुक्तं तत्राह (‘यदुक्तं ‘स्वस्वामिभावो ध्रुव एष यत्र’ इत्यादि तत्राह’ इति कपाठः)– शास्तेति ॥ यो नृपतिर्दुष्टप्रजानां शास्ता, शिष्टप्रजानां गोप्ता, देवब्राह्मणमुनीनां किङ्करश्च स्वविहितं नित्यनैमित्तिकं कर्माच्युतस्याराधनं स्वधर्मं यदीहमानः कुर्वाणश्च भवति तर्हि स राजा पिष्टं न पिनष्टि । निष्फलव्यापारवान्न भवति किन्तु सफलव्यापारवानेव । एतत्कुतोऽवगम्यत इति तत्राह– विजहातीति ॥ ज्ञानमन्त-रेणान्येन न हन्यन्त इत्यघानि दुःखान्याधिव्याधिनिमित्तानि तेषामोघो यस्मिन् स संसारस्तथा तं, विजहाति मुञ्चति मुक्तो भवतीत्यर्थः । एवं संसारस्वरूपं निरूप्य राज्ञः स्वधर्मं निरूपयतीत्यतो वाह– शास्तेति ॥ २४ ॥
प्रकाशिका
यदुक्तं स्वस्वामिभावो मानुषेषु न नियत इति । स्तब्धादीनां शिक्षणं पिष्टपेष इति च तत्रोत्तरमाह ॥ शास्तेति । यो नृपतिर्मनुष्यराजो यदि स्वकालस्तब्धानां प्रजानां शास्ता सज्जनानां गोप्ता किंकरश्च भवति । तर्हि स पिष्टं न पिनष्टि । तदीयशासनादिकं न व्यर्थमित्यर्थः । कुतो यद्यस्मात्कारणादच्युतस्याराधानरूपं स्वधर्ममीहमानश्चेष्टमानोऽघौघं शासनाभावप्रयुक्तं पाप-समूहं विजहाति । तस्मादनियतस्वामित्वेनापि राज्ञः स्तब्धतादिस्वभावानां शासनादिना न पापेऽपि स्वविहितं हर्याराधनरूपप्रजाशिक्षणादिकं प्रत्यवायपरिहारार्थमवश्यं कार्यमित्याशयः ॥ २४ ॥
तन्मे भवान्नरदेवाभिमानमदेन तुच्छीकृतसत्तमस्य ।
कृषीष्ट मैत्रीं दृशं१ आर्तबन्धो यया तरेयं सदवध्यानमंहः ॥ २५ ॥
पदरत्नावली
यत एवं मम ज्ञानं शबलं न शुद्धं फलादर्शनादतः संसारनिर्मूलनकरं ज्ञानमुपदिशेत्याह– तन्म इति ॥ नराणां देवोऽहमित्यभिमाननिमित्तमदेन तुच्छीकृत– सत्तम-स्यधिक्कृतसज्जनोत्तमस्य मे यया दृशा सदवध्यानं सज्जनावज्ञाननिमित्तमंहः पापं तरेयं तीर्णो भवामि । तां मैत्रीं मित्रं सर्वस्मादिष्टतमो हरिस्तद्विषयां दृशं कृषीष्ट । अत्र करणं नाम प्रकाशनं विवक्षितं न त्वविद्यमानस्य निर्माणम् । प्रकाशयेत्यर्थः । मुक्तौ मुख्यं साधनं ब्रह्म-ज्ञानमेवान्यत्सर्वं तत्साधनमिति द्योतनाय वा कृषीष्टेत्युक्तम् । आर्तबन्धावित्यनेन संसारान्धकूपे पतितानां जनानां दीपिकालक्षणदृष्टिप्रदानेन समुद्धरणबन्धुभूतस्त्वमेव त्वादृशोऽन्यो नास्तीति स्वाभिप्रायसिद्धये प्रयुक्तमिति ज्ञातव्यम् । ‘हि गतौ’ इति धातोर्गतेर्ज्ञानस्य प्रतिबन्धकत्वेन पापार्थे अंह इति निपातनात् साधुः (‘यतस्त्वदुक्तं सर्वमज्ञस्य मम विपरीतं प्रतिभाति तस्मात् त्वं सत्तत्वोपदेशद्वारा मामुद्धरेत्याशयेनाभिष्टौति– तन्म इति ॥ नराणां देवोऽहमित्यभिमानजातेन मदेन तुच्छीकृतो धिक्कृतः सत्तमः सज्जनश्रेष्ठो भवान् येन तस्य मे मैत्रीदृशं स्नेहयुक्तां दृष्टिं कृषीष्ट करोतु । कित्रं सर्वस्मादिष्टतमो हरिस्तद्विषयां दृशं कृषीष्ट । हरिविषयकतत्वोपदेशं च करोत्विति
यावत् । सतामवध्यानमवज्ञानं, तिरस्काररूपमित्यर्थः । तरेयं तीर्णो भवेयम्’ इति कपाठः) ॥२५॥
प्रकाशिका
तस्मादेवं मम त्वदुक्तं विपरीतं प्रतिभाति त्वं त्वगाधाभिप्रायो ज्ञानी न बाधितवक्ता तत्तस्मान्नरदेवोऽहमित्यभिमानजातेन मदेन तुच्छीकृतस्तिरस्कृतः सत्तमः सज्जनश्रेष्ठो भवान् येन तस्य मे तादृशे मयि मैत्रीं मित्रभावम् । स्नेहमिति यावत् । कृषीष्ट करोतु । हे आर्तबन्धो । सतामवध्यानमज्ञानं तिरस्कारस्तन्निमित्तमंहः पापं यया दृष्ट्या तरेयं तरिष्यामि । तादृशं हरिज्ञानं कृषीष्ट । ज्ञानजनकमुपदेशं च करोत्वित्यर्थः ॥ २५ ॥
न विक्रिया विश्वसुहृत्सखस्य साम्येन वीताभिमतेस्तवापि ।
महद्विमानात्स्वकृताद्धि मादृग्धक्षत्यदूरादपि शूलपाणिः ॥ २६ ॥
॥ इति श्रीमद्भागवतमहापुराणे पञ्चमस्कन्धे दशमोऽध्यायः ॥
तात्पर्यम्
(ब्रह्महत्यासहस्रस्य पापं शाम्येत्कथञ्चन । न पुनः सदवज्ञाने कल्पकोटिशतैरपि) । स्वतो महदवज्ञानाद्रुद्रोऽप्यात्मानमादहेदि’ति च ॥ २६ ॥
पदरत्नावली
शिबिकावाहनलक्षणयास्मदवज्ञया तव कोपादिविकारो नास्तीत्याह– न विक्रियेति ॥ विश्वसुहृद् विश्वस्य विश्वात्मना सर्वप्रकारेण वा सुहृत् श्रीनारायणः स एव सखा यस्य स तथा तस्य ते तव विक्रिया सन्तापलक्षणो मनसि विकारः कोपो वा नास्ति केन हेतुनेत्यत उक्तम्– साम्येनेति ॥ मानावमानयोः समत्वकारणेन ‘मानावमानयोस्तुल्यः’ इति स्मृतेः । तत्रापि किङ्कारणमत्राह– वीताभिमतेरिति ॥ वीता विगता अभिमतिरभिमानो यस्य स तथा तस्य । सामान्यज्ञानिनोऽपि मनसि विकारो न स्याद्विशिष्टज्ञानिनस्तस्य तव किं वक्तव्यमित्यपिशब्दार्थः । वीताभिमानत्वेन तव मनसि विकाराभावोऽपि सम्भावित इति वा मम तु देहाभिमानो दुस्त्यजो यतोऽतो महदवज्ञाने प्राप्ते शास्त्रतः कर्तव्य आत्मदाहो न कृत इत्याशयेनाह– महद्विमानादिति ॥ मादृक् पुरुषः स्वकृतान्महतो भवादृशस्य विमानादव-ज्ञानाददूरात्तदानीमेवात्मानं धक्ष्यति दहति । न केवलं मादृगेवात्मानं दहति किन्तु मत्तोऽ-भ्यधिकः शूलपाणिः सदाशिवोऽपि स्वतो महदवज्ञानादात्मानं दहति ‘ब्रह्महत्या सहस्रस्य पापं शाम्येत् कथञ्चन । न पुनस्त्वदवज्ञाने कल्पकोटिशतैरपि ॥ स्वतो महदवज्ञानाद्रुद्रोऽप्यात्मान-मादहेत् ॥’ इति वाक्यद्वयं हिशब्देनोपात्तमिति ज्ञातव्यम् । अतो भवन्तं प्रार्थय इत्यपिशब्दार्थ इति (‘अपि यद्यपि विश्वस्य सुहृत् प्रत्युपकारनिरपेक्षयोपकारकृद्धरिः । ‘त्वं सर्वलोकस्य सुहृत् प्रियेश्वरः’ इत्यादेः । स एव सखा यस्य तस्य, मानापमानयोः समत्वदर्शनेन वीताभिमतेर् विगतदेहाद्यभिमानस्य तव विक्रिया अवज्ञादिनिमित्तैः कोपतापादिचित्तविकारो नास्ति । अपि तथापि स्वकृतान् महद्विमानान् महतामवज्ञानान् मादृक् मादृशोऽत्यल्पो ऽदूरात् क्षिप्रमेव आत्मानं धक्ष्यति । हि यतः शूलपाणिरपि सर्वसंहर्ता रुद्रोऽपि स्वकृतान् महद्विमानाददूराद् धक्ष्यति । किमुत मादृक् क्षुद्रजन्तुरात्मानमादहेदेवेति । तदुक्तं गारुडे ‘स्वो महदवज्ञानाद् रुद्रोऽप्यात्मानमादहेत्’ इति’ इति कपाठः) ॥ २६ ॥
॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुकृतायां
पञ्चमस्कन्धे दशमोऽध्यायः ॥
प्रकाशिका
ननु ममावज्ञाकृतविकाराभावात्कुतस्तव पापप्रसक्तिर्यत्परिहाराय मैत्र्यादि-प्रार्थनमित्यपेक्षायामाह ॥ न विक्रियेति । अपि यद्यपि विश्वसुहृद्धरिः स एव सखा यस्य तस्य तव साम्येन मानापमानयोस्तुल्यत्वेन वीताभिमतेर्विगताभिमानस्य तव विक्रिया चित्ततोदोऽवज्ञया नास्ति । तथाऽपि हरेरवज्ञया चित्तविकाराभावेऽपि तदवज्ञाकर्तुः पापेन दाहो भवति । तथाऽहमपि त्वदवज्ञानेन पापी दग्धश्च स्यामिति मध्येऽध्याहार्यम् । कुत इत्यतोऽत्र कैमुत्यन्यायमाह ॥ महद्विमानादिति । शूलपाणिरपि सर्वसंहर्ता रुद्रोऽपि स्वकृतान्महद्विमानाददूराच्छीघ्रं हि यस्माद्धक्ष्यति तदा मादृङ् मादृशोऽल्पकस्तस्माद्धक्ष्यतीति किं वाच्यमीत्यर्थः । अत्र शूलपाणिर्महद्विमानात्प्रकृतजडभरतविमानादित्यन्यथाप्रतीतिवारणाय विवक्षितमर्थं प्रमाणेनैवाह ॥ स्वत इति । तथा च मूलं स्वतो महद्विमानादिति व्याख्येयमिति भावः ॥ २६ ॥
**॥ इति श्रीमद्वेदेशपूज्यपादशिष्येण यदुपतिना विरचितायां **
श्रीमद्भागतटिप्पण्यां प्रकाशिकायां पञ्चमस्कन्धे दशमोऽध्यायः ॥ ५-१० ॥