०९ नवमोऽध्यायः

अथ कस्यचिद् द्विजवरस्याङ्गिरसप्रवरस्य

॥ अथ नवमोऽध्यायः ॥

श्रीशुक उवाच–

अथ कस्यचिद् द्विजवरस्याङ्गिरसप्रवरस्य शमदमतपःस्वाध्यायाध्ययनत्याग-सन्तोषतितिक्षाप्रश्रयविद्याऽनसूयात्मज्ञानानन्दयुक्तस्यात्मसदृशश्रुतशीलाचाररूपौदार्यगुणा नव सौदर्या अङ्गजा१ बभूवुर् मिथुनं च यवीयस्यां भार्यायाम् ॥ १ ॥

पदरत्नावली

प्रायो वैराग्यसाधनसामग्रीसम्पन्नस्यापि ब्राह्मणशरीरस्य सतः पुरुषस्य ज्ञानान् मुक्तिरित्यभिप्रेत्यास्मिन्नध्याये निरूप्यते । तदर्थमुत्पन्नज्ञानस्यापि भतरस्य विप्रतनुत्व-प्राप्तिमाह– अथेति ॥ अथ मृगशरीरोत्सर्जनानन्तरं कल्याणकरं भारतमुच्यत इति वा । त्यागो दानं देवतामुद्दिश्य द्रव्यत्यागलक्षणो यज्ञो वा । सन्तोषो यदृच्छालाभेनालम्बुद्धिः । शमाद्यात्म-ज्ञानान्तैर् य आनन्दस्तेन युक्तस्य, शमादीनामानन्देन समृद्ध्या युतस्येति वा । आत्मनः पितुर्गुणसदृशश्रुतादिगुणा येषान्ते तथा । सोदर्याङ्गजा एकस्या मातुरुदरजातत्वात् सोदर्या अङ्गजाः पुत्राः ॥ १ ॥

प्रकाशिका

अथ भरतस्य कथान्तरमारभ्यत इत्यर्थः । आङ्गिरसप्रवरस्याङ्गिरस-गोत्रोत्पन्नानां श्रेष्ठस्य । त्यागो द्रव्यादिदानं सन्तोषोऽलंबुद्धिः । विद्याकर्मादिज्ञानमात्मज्ञानं परमात्मज्ञानमेतैर्य आनन्दस्तेन युक्तस्यात्मनः स्वगुणानां सदृशाः श्रुतादिगुणा येषां ते तथा सौदर्याः समानोदरा अङ्गजाः पुत्राः । यवीयस्यां कनिष्ठायां मिथुनं स्त्रीपुरुषरूपयुग्मम् ॥ १ ॥

यस्तु तत्र पुमांस्तं परमभागवतं राजर्षिप्रवरं भरतमुत्सृष्टमृगशरीरं चरम-शरीरेण विप्रत्वं गतमाहुः ॥ २ ॥

पदरत्नावली

उत्सृष्टं मृगशरीरं येन स तथा । चरमशरीरेण अन्त्यदेहेन ॥ २ ॥

प्रकाशिका

उत्सृष्टं मृगशरीरं येन तम् ॥ २ ॥

तत्रापि स्वजनसङ्गाच्च भृशमुद्विजमानो भगवतः कर्मबन्धविध्वंसनश्रवण-स्मरणगुणविवरणेन चरणारविन्दयुगलं मनसा विदधतः२ आत्मनः प्रतिघात-माशंसमानो भगवदनुग्रहेणानुस्मृतस्वपूर्वजन्मावलिरात्मानमुन्मत्तजडबधिररूपेण दर्शयामास लोकस्य ॥ ३ ॥

पदरत्नावली

तत्रापि विप्रजन्मन्यपि । लोकस्य आत्मानमुन्मत्तादिरूपेण दर्शया-मासेत्यन्वयः । उद्विजमानः स्वस्थानप्रच्युतिरिति बिभ्यत् (‘उद्विजमानो योगामार्गाद् भ्रष्टो भविष्यामीति बिभ्यात्’ इति कपाठः) । गुणविवरणं व्याख्यानं विशेषेण दधत आत्मनः स्वस्य श्रवणादेः प्रतिघातं विघ्नमाशंसमानः निरूपयन् (‘कर्मबन्धविध्वंसनं श्रवणं स्मरणं गुणानां विवरणं व्याख्यानं च यस्य तस्य भगवतश्चरणारविन्दयुगलं मनसा विदधद् विशेषेण धारयन् आत्मनो देहस्य प्रतिघातं लोककर्तृकमानापमानादिलक्षणमाशंसमानोऽपेक्षमाणः । तत्र निमित्तमाह– अनुस्मृतेति ॥’ इति कपाठः) अनुस्मृता स्वस्य पूर्वजन्मनामावलिः परम्परा येन स तथा ॥ ३ ॥

प्रकाशिका

तत्रापि विप्रजन्मन्यपि । उद्विजमानो योगमार्गाद्भ्रष्टो भविष्यामीति बिभ्यत् । लोकस्यात्मानमुन्मत्तादिरूपेण दर्शयामासेत्यन्वयः । कथम्भूतः । भगवतश्चरणारविन्दयुगलं मनसा विदधतो ध्यायत आत्मनः स्वस्य प्रतिघातं विघ्नमाशङ्कमाशंसमानः शंकमानः । स्तत्रापि हेतुर् अनुस्मृता स्वीयपूर्वजन्मनामावलिर्येन स तथा । कीदृशेन मनसा । कर्मबन्धविध्वंसनानि श्रवणादीनि यस्य तत्तथा तेन गुणविवरणं व्याख्यानम् ॥ ३ ॥

तस्यापि हवात्मजस्य स विप्रः पुत्रस्नेहानुबद्धमना आसमावर्तनात्संस्कारा-न्यथोपदेशं विदधान उपनीतस्य च पुनः शौचाचमनादीन् कर्मनियमान-नभिप्रेतानपि समशिक्षयद् अनुशिष्टेन हि भाव्यं पितुः पुत्रेणेत्यसदाग्रहः ॥४॥

पदरत्नावली

स विप्रः पिता तस्यात्मजस्यापि लोकविद्विष्टस्यापि समावर्तनपर्यन्तं सतः संस्कारान् विप्रजातिविहितान् जातकर्मादीन् यथोपदेशं विदधानः कुर्वाणः पुनरुपनीतस्य शौचाचमनादीन् कर्मनियमान् अनभीष्टानपि समशिक्षयदित्यन्वयः । अनभिप्रेताश्चेत् किमित्य-शिक्षयदिति तत्राह– अनुशिष्टेनेति ॥ हवा इत्येतौ भरतस्यापरोक्षज्ञानित्वेन कामचारो न दोषायेति सूचयतः । अत एवासदाग्रह इत्युक्तम् ॥ ४ ॥

प्रकाशिका

स विप्रः पिता तस्यापि जडवत्स्थितस्यापि पुत्रस्नेहेनानुबद्धं मनो यस्य । जडस्य विवाहासम्भवादासमावर्तनात्समावर्तनपर्यन्तं विद्यमानान् संस्कारान् यथोपदेशं विधि-मनतिक्रम्य विदधान उपनीयोपनीतस्य चानभिप्रेतांस्ताननभीष्टानपि समशिक्षयत् । अनभिप्रेत-शिक्षणे हेतुः ॥ पितुः सकाशादनुशिष्टेनेति ॥ ४ ॥

स चापि तदुह पितृसन्निधावेव सध्रीचिनमिव करोति । छन्दांस्यध्याप-यिष्यन्सह व्याहृतिभिः सप्रणवशिरस्त्रिपदीं सावित्रीं ग्रैष्मवासन्तिकान्मासानधीय-मानमप्यसमवेतरूपं ग्राहयामास ॥ ५ ॥

पदरत्नावली

यत् पित्रा शिक्षितं तदेव सध्रीचीनं समीचीनं रमणीयमिव, किंञ्चिदन्यथा (‘तत् पितृशिक्षितं सर्वमसध्रीचीनमिव असमीचीनमिव करोति स्म’ इति कपाठरीत्या मूले ‘पितृसन्निधावेवासध्रीचीनमिव’ इति विपाठः ।) हेत्यनेन ‘अतीतानागतज्ञानी त्रैलोक्योद्धरण-क्षमः’ इत्यादिस्मार्तन्यायमनुसन्दधान इवेति दर्शयति । सह प्रणवेन शिरसा त्रिपदी सप्रणव-शिरस्त्रिपदी ताम् असमवेतरूपम् असमञ्जसरूपं यथा तथा । छन्दांसि वेदान् (‘योगनिरतस्य भरतस्य कर्माचरणं विस्मयावहमिति द्योतनाय– आहेति निपातप्रयोगः । अनवरतं भगव-द्ध्यानैकनिमग्नचित्तस्य तस्य बाह्यकर्मलोपो न दोषावहः । तस्मात् तस्य बाह्यकर्माचरण-स्यासमीचीनत्वोक्तिस्तु लोकदृष्ट्यैवेति सूचयितुमिवशब्दप्रयोगः । उपाकरणवेदव्रताद्यनन्तरं श्रावणादिमासेषु छन्दांसि वेदानध्यापयिष्यन् आदौ तावन्महाव्याहृतिभिः सह प्रणवलक्षणशिर-स्सहितां त्रिपदीं सावित्रीं ग्रैष्मवासन्तिकान् चैत्रादिचतुरो मासान् अधक्षयमानमपि असमवेत-रूपमसमञ्जसरूपं यथा भवति तथा ग्राहयामास’ कापाठकोशे अस्य श्लोकस्य व्याख्यान-मेवमस्ति) ॥ ५ ॥

प्रकाशिका

सध्रीचीनमिव समीचीनमिव । मनसस्तत्राभिनिवेशाभावेनासमीचीनता-सूचनायेवशब्दः । सर्वदा हरावेवाभिनिवेशितचित्तत्वान्मत्तादिवत्प्रवर्तमानस्य बाह्यकर्मलोपो न दोषावह इति ज्ञातव्यम् । उपाकरणवेदव्रताद्यनन्तरं श्रावणादिमासेषु छन्दांसि वेदानध्यापयिष्यन् आदौ तावद्व्याहृतिभिः सह प्रणवलक्षणशिरसा सहिता त्रिपदी सप्रणवशिरस्त्रिपदी तां ग्रैष्मवासन्तिकान् मासान् चैत्रादिचतुरो मासान् अधीयमानमप्यसमवेतरूपमसम्बद्धस्वरवर्णाद्यपेतं यथा भवति तथा ग्राहयामास । तावता कालेन स्वरवर्णादियुक्तं व्याहृत्यादिकं तेन सम्यङ्नोच्चारितमित्यर्थः । उन्मत्तवदन्यमनस्कत्वादित्याशयः ॥ ५ ॥

एवं स्वतनुजे आत्मन्यनुरागावेशितचित्तः शौचाध्ययनव्रतनियमगुर्वनल-शुश्रूषणाद्यौपकुर्वाणकानि कर्माण्यतदभियुक्तान्यपि समनुशिष्टेन भाव्यमित्य-सदाग्रहः पुत्रमनुशशास । पिता स्वयं तावदनधिगतमनोरथः कालेनाप्रमत्तेन स्वयं गृहे प्रमत्त उपसंहृतः१ ॥ ६ ॥

पदरत्नावली

‘आत्मा वै पुत्रनामाऽसि’ इति श्रुतेरात्मनेति व्यपदेशः (‘आत्मनीति व्यपदेशः’ इति कपाठः) । औपकुर्वाणकानि उपकुर्वाणयोग्यानि । उपकुर्वाणो विवाहः भिक्षाटनं वा । अतदभियुक्तानि तस्यानपेक्षितानि । एवमादीन्यपि कर्माणि ग्राहयन् पुत्रमशिक्ष-यदित्यन्वयः । अनागतमनोरथो ऽप्राप्तनिजाभिप्रायः । उपसंहृतो मृतोऽभूत् ॥ ६ ॥

प्रकाशिका

आत्मा वै पुत्रनामासीति श्रुतेरात्मनि स्वात्मभूते स्वतनुजे स्वपुत्रेऽनु-रागेणावेशितं चित्तं यस्य स तथा । औपकुर्वाणकान्युपकुर्वाणयोग्यान्युपकुर्वाणो गृहाश्रमाकांक्षी अतदभियुक्तानि तदनपेक्षितान्यनधिगतमनोरथोऽप्राप्तपुत्रपाण्डित्यरूपमनोरथः । उपसंहृतो मृतः । उपसंवृत इति पाठे विनाशित इत्यर्थः ॥ ६ ॥

अथ यवीयसी द्विजसती स्वगर्भजातमिथुनं सपत्न््नयामुपन्यस्य स्वयमनु-संस्थया पतिलोकमगात् ॥ ७ ॥

पदरत्नावली

अनुसंस्थया अनुमरणेन अग्निप्रवेशलक्षणेन ॥ ७ ॥

प्रकाशिका

अनुसंस्थयाऽनुमरणेन ॥ ७ ॥

**पितर्युपरते भ्रातर एनमतत्प्रभावविदस्त्रय्यां विद्यायामेव पर्यवसितमतयो न परविद्यायां जडमतिरिति भ्रातरमनुशासननिर्बन्धान्न्यवृत्सन्त । **

स च प्राकृतैर्द्विपदपशुभिरुन्मत्तजडबधिरेत्यभिभाष्यमाणो यदा तदनुरूपाणि प्रभाषते कर्माणि च स कार्यमाणः परेच्छया करोति । विष्टितो वेतनतो याञ्चया वा यदृच्छया चोपसादितमल्पं बहु मृष्टं कदन्नं वाभ्यवहरति परं नेन्द्रिय-प्रीतिनिमित्तम् ॥ ८ ॥

पदरत्नावली

त्रय्यां ‘अग्निष्टोमेन स्वर्गकामो यजेत’ इत्याद्यायां कर्मप्रतिपादिकायां पर्यवसितमतयः पुरुषार्थबुद्धयः ‘ब्रह्म विदाप्नोति परं’ ‘तमेवं विद्वानमृत इह भवति’ इत्याद्यायां न निष्णातमतयः । अनुशासननिर्बन्धात् शिक्षालक्षणाग्रहान् न्यवृत्सन्त निवर्तितुमैच्छन् ॥

अतः परमसौ भरतः किमकरोदत्राह– स चेति ॥ स चैवं विचचारेत्यन्वयः । कथं, प्राकृतैरित्यस्य विवरणम्– द्विपदेति ॥ चतुष्पदःपशोर्द्विपदत्वमेव विशेषः न तु ज्ञानेन, तादृशैर्मनुष्यैर्यदाह– उन्मत्तेत्यादिनामभिरभिभाष्यमाणो भवति तदा तदनुरूपाण्युन्मत्तादि-वचनानुकूलवचनानि भाषते । विष्टितः कर्तुः कर्मानुकूलद्रव्यक्लृप्तिमन्तरेण कर्मणा वेतनतो मौल्येन कर्मानुकूलद्रव्यक्लृप्त्येत्यर्थः । कदन्नं कुत्सितान्नम् अभ्यवहरति भुङ्क्ते, परं केवलं नेन्द्रिय-प्रीतिनिमित्तं न जिव्हादीन्द्रियतृप्तिकारणम् ॥ ८ ॥

प्रकाशिका

त्रय्यां विद्यायां कर्मप्रतिपादकायां पर्यवसितमतयः कर्मसाध्यस्वर्गा-द्यपेक्षयाऽन्यदुत्तमं श्रेयो नास्तीति बुद्धयोऽनुशासननिर्बन्धाच्छिक्षालक्षणगृहान्न्यवृत्संत निवर्तितु-मैच्छन्निवर्ता इत्यर्थः ॥

प्राकृतैरित्युक्तमेव विवृणोति ॥ द्विपदपशुभिरिति । चतुष्पदस्य पशोर्द्विपदत्वमेव विशेषो न तु कृतित इति भावः । तादृशैर्मनुष्यैर्यदा ह्युन्मत्तजडेत्यादिनामभिरभिभाष्यमाणो भवति तदा तदनुरूपाण्युन्मत्तादिवचनानुकूलवचनानि भाष्यते । मौल्यमन्तरा बलाद्यत्कर्म कार्यते सा विष्टिर्वेतनतो मौल्येन कर्मानुकूलद्रव्यक्लृप्तेत्यर्थः । अभ्यवहरति भुंक्ते । परं केवलम् ॥ ८ ॥

नित्यनिवृत्तदुःखस्वसिद्धविशुद्धानुभवानन्दस्वात्मलाभाधिगतः सुखदुःखयो-र्द्वन्द्वनिमित्तयोरसम्भावितदेहाभिमानः ॥ ९ ॥

पदरत्नावली

अत्र हेतुगर्भविशेषणमाह– नित्येति ॥ नित्यनिवृत्तदुःखस्वसिद्ध-विशुद्धानुभवानं दोहमिति यः स्वात्मलाभस्तमधिगच्छतीति स तथोक्तः । यद्वा जित्यनिवृत्त-दुःखत्वादिविशिष्टस्वात्मा परमात्मा स एव लाभः फलं जानातीति स तथोक्तः । अत एवासम्भावितोऽनुत्पादितो देहाभिमानो येन स तथा । शुष्कजलनारिकेरफलसम इत्यर्थः ॥९॥

प्रकाशिका

अत्र हेतुगर्भविशेषणद्वयमाह ॥ नित्येति । नित्यनिवृत्तदुःखादिरूपो यः स्वात्मा स्वतन्त्रः परमात्मा स्वस्वरूपं वा । तस्य लाभोऽनुभवस्तस्याधिगमः प्राप्तिर्यस्य स तथा । द्वन्द्वानि मानादीनि तान्येव निमित्तानि ययोस्ते तथा तयोः सुखदुःखयोरसम्भावितोऽ-नुत्पादितो देहाभिमानो येन स तथा । अत एव शीतादिष्वनावृताङ्गो विचचारेत्यन्वयः ॥९॥

शीतोष्णवातवर्षेषु वृष इवानावृताङ्गः पीनः संहननाङ्गः स्थण्डिलसंवेशनानु-न्मर्दनानुन्मज्जनेन रजसा महामणिरिवानभिव्यक्तब्रह्मवर्चाः कर्पटावृतकटि-रुपवीतेनोरुमषिणा द्विजातिरिति ब्रह्मबन्धुरिति संज्ञयाऽज्ञजनावगतो विचचार

॥ १० ॥

पदरत्नावली

उपलिप्तभूमौ शयित्वा निद्राकरणं, स्थण्डिलसंवेशनम्, अनुन्मर्दनं देहमलात्यागः, अनुन्मज्जनम् अस्नानं, कर्पटेन पटच्चरेण जीर्णवस्त्रेणेत्यर्थः । आवृता आच्छादिता कटिर्यस्य स तथा । उरुमषिणा अतिमलिनेन ॥ १० ॥

प्रकाशिका

पीनः पुष्टः । संहननानि दृढान्यङ्गानि यस्य स तथा । स्थण्डिल-संवेशनमुपलिप्तभूमौ शयनमनुन्मर्दनं देहमर्दनाभावोऽनुन्मज्जनं स्नानाभावस्तैर्यद्रजस्तेन कर्पटेन जीर्णवस्त्रखण्डेनावृता कटिर्यस्योरुमषिणाऽतिमलिनेनोपवीतेन निमित्तेन ॥ १० ॥

यदा तु परत आहारं कर्मवेतनत ईहमानः स्वभ्रातृभिरपि केदारकर्मणि निरूपितस्तदपि करोति । किन्तु न समं विषमन्यूनमधिकमिति वेद । कणपिण्याकफलीकरणकुल्माषस्थालीपुरीषादीन्यप्यमृतवदारोचयति ॥ ११ ॥

पदरत्नावली

यदा परत आहारं प्रति वेतनतः कर्म ईहमानश्चेष्टमानस् तदा स्वभ्रातृभिरपि केदारकर्मणि निरूपितस्तत्कर्मापि करोति । अस्य कर्मण इदं मूल्यं सममिदं विषममिदम् अधिकमिदं न्यूनमिति न वेद । कणं पाषाणोपेताणुतरतण्डुलं, पिण्याकं नीरसतिल-पिष्टं, फलीकरणम् अवहततण्डुलतुषं, कुल्माषः कीटादिविद्धमाषः, वनमाषो वा । स्थालीपुरीषं स्थालीतन्दुललग्नं दग्धान्नम्, यावनालश्यामाककोद्रवादीन्यादिशब्दगृहीतानि । आरोचयति मधुरीकरोति ॥ ११ ॥

प्रकाशिका

यदा तु परतः परेभ्यः कर्मवेतनतः कर्ममौल्येनाहारमीहमानोऽपेक्षमाणो भवति । तदा केदारकर्मणि शालीक्षेत्रसंरक्षणादिरूपे कर्मणि । आहारप्रलोभेन भ्रातृभिर्निरूपितो नियुक्तः सन् । तदपि तत्कर्मापि । किं त्वस्य कर्मण इदं मौल्यं सममिदम् अधिकमिदं न्यूनमिति न वेद । कणाश्चूर्णतण्डुलाः, पिण्याकं नीरसतिलपिष्टं, फलीकरणं तण्डुलतुषः कुल्माषाः कुत्सिताः, कीटग्रस्तमाषाः, स्थालीपुरीषं स्थालीलग्नदग्धान्नम् । आदिशब्दाद्याव-नालादीन्यारोचयति मधुरीकरोति ॥ ११ ॥

अथ कदाचिद् वृषलीपतिर्भद्रकाल्यै पुरुषपशुमालभतापत्यकामः ॥ १२ ॥

पदरत्नावली

भक्षितकणादिजीर्णीकरणं नातिशयितमाहात्म्यम् औषधादिनापि तत्सम्भवादित्याशङ्क्य विष्णुमाहात्म्यगर्भितं माहात्म्यांतरमाह– अथेति ॥ अथान्यमाहात्म्यं वक्ष्यामीति शेषः (‘एवं रागराहित्यादिरूपं तस्य माहात्म्यमुक्त्वाऽधुना मृत्युदशायां सन्निहिता-यामपि अनुद्विग्नत्वादिमाहात्म्यं वक्तुमुपक्रमते– अथेति ॥ अथशब्दो मङ्गलार्थ आरम्भार्थश्च । मङ्गलकरमाहात्म्यान्तरमारभ्यत इत्यर्थः । ‘मङ्गले संशयारम्भाधिकारानन्तरेष्वथ’ इत्युत्पल-माला ॥’ इति कपाठः) ॥ १२ ॥

प्रकाशिका

एवं रागराहित्यरूपं तस्य माहात्म्यमुक्त्वेदानीं मरणे प्राप्तेऽप्यसम्भ्रमरूपं माहात्म्यं वक्तुमुपक्रमते ॥ अथेति । अथ माहात्म्यन्तरमारभ्यत इत्यर्थः । वृषलीपतिः शूद्रश्चासौ पती राजा च कश्चिच्छूद्रराजेत्यर्थः । आलभत लब्धुं प्रवृत्तः ॥ १२ ॥

तस्य ह दैवविमुक्तस्य पशोः पदवीं तदनुचराः परिधावन्तो निशि निशीथ-समये तमसावृतायामनधिगतपशव आकस्मिकेन विधिना केदारान्वीरासनेन मृगवराहादिभ्यः संरक्ष्यमाणमाङ्गिरसप्रवरसुतमपश्यन् ॥ १३ ॥

पदरत्नावली

दैवविमुक्तस्य अदृष्टोद्बोधकपरमात्मोपेक्षया क्षीणायुषः । निशीथसमये मध्यरात्रिकाले अनधिगतपशवो ऽप्राप्तपुरुषाख्यपशवः । केदारान् शालिक्षेत्राणि । वीरासनेन मञ्चे स्थित्वा संरक्ष्यमाणं पालयन्तम् । यत्प्रत्ययस्तु स्वयं हरिणा पाल्यत इति द्योतनपरः

॥ १३ ॥

प्रकाशिका

दैवात्तददृष्टप्रेरकेश्वरात् । तद्विमुक्तस्य बन्धनाद्विमुक्तस्य पशोः पदवीं मार्गम् । तमसाऽऽवृतायां व्याप्तायां तत्रापि निशीथे समयेऽर्धरात्रावसानेऽनधिगतपशवोऽप्राप्त-स्वसङ्कल्पितपुरुषलक्षणपशवो वीरासनेन स्थित्वा केदारान् शालिक्षेत्राणि संरक्ष्यमाणं पालयन्तम् । हरिणा पाल्यमानमिति चार्थः । आकस्मिको हरीच्छाधीनो विधिः प्रकारस्तेनापश्यन् ॥ १३ ॥

अथ त एनमनवद्यलक्षणमवमृश्य तेन भर्तुः कर्मनिष्पत्तिं मन्यमाना बद्ध्वा रशनया चण्डिकागृहमुपनिन्युर्मुदा विकसितवदनाः ॥ १४ ॥

पदरत्नावली

रशनया रज्ज्वा ॥ १४ ॥

प्रकाशिका

अथ दर्शनानन्तरमेनं द्विजकुमारं रशनया पाशेन बद्ध्वा ॥ १४ ॥

अथ पणयस्तं स्वविधिनाभिषिच्याहतेन वाससाऽऽच्छाद्य भूषणानुलेप-स्रक्तिलकादिभिरुपस्कृतं भुक्तवन्तं धूपदीपमाल्यलाजकिसलयाङ्कुरफलोपहारो-पेतया वैशससंस्थया महता गीतस्तुतिमृदङ्गपणवघोषेण च तं पुरुषपशुं भद्रकाल्याः पुरत उपवेशयामासुः ॥ १५ ॥

पदरत्नावली

पणयो(‘पणयः पुरोहितत्वेन कल्पिताः पणिनामकाः शूद्रविशेषाः’ इति कपाठः) वृषलाश्चोरा वा । स्वविधिना स्वागमोक्तमार्गेण । अहतेन अच्छिन्नेन धौतेन वा । किसलयः पल्लवः । अङ्कुरो नवाङ्कुरः । वैशससंस्थया हिंसाविधानेन ॥ १५ ॥

प्रकाशिका

पणयः शूद्राश्चोरा वा । स्वविधिना स्वागमोक्तप्रकारेणाहतेन छिन्नेन । आहतेनेति छेदे धौतेनेत्यर्थः । उपस्कृतमलंकृतम् । किसलयः पल्लवोंऽकुरो यवाद्यंकुरो वैश-ससंस्थया हिंसाविधानेन गीतादिघोषेण च सह ॥ १५ ॥

अथ वृषलराजपणिः पुरुषपशोरसृगासवेन देवीं भद्रकालीं यक्ष्यमाण-स्तदभिमन्त्रितमसिमतिकरालं निशितमुपाददे ॥ १६ ॥

पदरत्नावली

वृषो धर्मो लीयत एभिरिति(‘वृषं धर्मं लुनन्ति छिन्दन्ति’ इति कपाठः) वृषलास्तेषां राजा वृषलराजः, अत एव पणिश्चोरः वृषलराजेषु चोर इत्यर्थः (तस्य पणिः कल्पितः पुरोहितः । ‘वृषो हि भगवान् धर्मस्तस्य यः कुरुते ह्यलम् । वृषलं तं विदुर्देवास्तस्माद् धर्मं न लोपयेत् ॥’ इत्यादेः । इति कपाठः) । असृगासवेन रक्ताख्यमद्येन । तदभिमन्त्रितं तस्या भद्रकाल्या मन्त्रेण ‘गृध्रकर्णि विरूपाक्षि लम्बस्तनि महोदरि । हन शत्रुं त्रिशूलेन क्रुद्धस्य पिब शोणितम्’ इत्यादिनाभिमन्त्रितं जप्तम् । असिं खङ्गम् ॥ १६ ॥

प्रकाशिका

वृषलराजपणिर्वृषलराजलक्षणश्चोरोऽसृगासवेन रक्तलक्षणेनासुतृप्तिकरद्रव्येण । तदभिमन्त्रितं तस्या भद्रकाल्या मन्त्रेणाभिमन्त्रितं जप्तमसिं खड्गम् ॥ १६ ॥

इति तेषां वृषलानां रजस्तमःप्रकृतीनां धनमदरजसोत्सिक्तमनसां भगव-त्कलाङ्गिरसकुलं कदर्थीकृत्योत्पथेन स्वैरं विहरतां हिंसाविहाराणां कर्मातिदारुणं यद्ब्रह्मभूतस्य साक्षाद्ब्रह्मर्षिसुतस्य निर्वैरस्य सर्वभूतसुहृदः सूनायामप्य-नभिमतस्यालम्भनं तदुपलभ्य ब्रह्मतेजसातिदुर्विषहेण दन्दह्यमानेन वपुषा सहसोच्चचाल सैव देवी भद्रकाली ॥ १७ ॥

पदरत्नावली

धनमधेनोत्पन्नं यद् रजो रागस्तेनोत्सिक्तमुच्छृङ्खलं मनो यषां ते तथा तेषाम् । भगवत्कलासन्निहिताङ्गिरसकुलं कदर्थीकृत्य (तुच्छीकृत्य उत्पथेन मर्यादामार्गबहिर्भूतेन । ब्रह्मभूतस्य हरिसदृशस्य । ‘भूतं क्ष्मादौ पिशाचादौ सादृश्यातीतजन्तुषु’ इत्युत्पलमाला । सूनायां हिंसायामनभिमतस्यापि) वृषलानां ब्रह्मर्षिसुतस्य भरतस्यालम्भनं हिंसनमतिदारुणं यत् कर्म तदुपलभ्य दृष्ट्वा । ब्रह्मतेजसा भरतगतशत्रुदहनलक्षणश्रीहरिसामर्थ्येन भृशं दन्दह्यमानेन देहेन युक्ता सा भद्रकाली सहसोच्चचाल । ‘सद्योऽर्थः सहसा श्रुत’ इति यादवः । या यष्टुमाकाङ्क्षिता सैवेत्येवशब्दार्थः । किं विशिष्टस्य । सूनायां हिंसायामनभिमतस्यायोग्यस्य सर्वप्राणिहिंसका अपि ब्राह्मणहिंसां नानुमन्यन्त इति ॥ १७ ॥

प्रकाशिका

धनमदेनजातं रजोरागस्तेनोत्सिक्तं त्यक्तमर्यादं मनो येषां ते तथा । भगवतः कला यस्मिन् तदांगिरसकुलं कदर्थीकृत्य तुच्छीकृत्य स्वैरं यथेच्छमुत्पथेन विहरतां वृषलानां यद्ब्रह्मर्षिसुतस्यालंभनं हिंसनं तद्रूपं कर्म तदुपलभ्य देवी भद्रकाल्युच्चचाल प्रतिमां त्यक्त्वा बहिर्निर्गतेत्यन्वयः । कथम्भूतस्य ब्रह्मर्षिसुतस्य । सूनायां हिंसायामनभिमतस्यापि देवानामनभिप्रेतस्यापि । ब्राह्मणहिंसा कस्या अपि देवताया नाभिमतेत्याशयः । पुनः कथंभूतस्य ब्रह्मभूतस्य । ब्रह्मणि स्वमनसा स्थितस्य । कथंभूता देवी । दुर्विषहेन सोढुमशक्येन ब्रह्मतेजसा विप्रकुमारगतहरिसामर्थ्येन दह्यमानेन वपुषा निमित्तेनोच्चचालेति वा । या यष्टुमाकांक्षिता सैवेत्येवकारार्थः ॥ १७ ॥

भृशममर्षरोषावेशरभसविलसितभ्रुकुटिविटपकुटिलदंष्ट्रारुणेक्षणाटोपातिभयानकवदना हन्तुकामेवेदं सहाट्टहासमतिसंरम्भेण विमुञ्चती तत उत्पत्त्य पापीयसां दुर्भावानां तेनैवासिना वृक्णशीर्ष्णां गलात्स्रवन्तमसृगासवमत्युष्णं सह गणैर्निपीयातिपान-मदविह्वलोच्चैस्तरां स्वपार्षदैः सह जगौ ननर्त विजहार च शिरःकन्दुकलीलया

॥ १८ ॥

पदरत्नावली

(‘अमर्षोऽपराधासहनं, रोषः स्वदेहदाहप्रयुक्तक्रोधस् तयोः’ इति कपाठः) अमर्षरोषयोर्य आवेशस्तस्य रभसेन कोलाहलेन विलसितः प्रकाशितः भ्रुकुटिलक्षणो विटपः शाखा तथा कुटिलाभ्यां दंष्ट्राभ्यां च अरुणानामीक्षणानाम् आटोपेन चातिभयङ्करं वदनं यस्याः सा तथा । इदं जगद्धन्तुकामेव अट्टहासं कुर्वती । ततः पूर्वस्थानादुत्पत्त्य उत्थायागत्य वृक्णानि च्छिन्नानि शीर्षाणि येषां ते तथा । तेषाम् ॥ १८ ॥

प्रकाशिका

सैव देवी भद्रकालीत्यन्तं गद्यं दह्यमानशरीरायास्तस्याः कृत्यमाह ॥ अमर्षोऽपराधासहनं रोषः स्वदेहदाहप्रयुक्तः कोपस्तयोरावेशः समावेशस्तस्य रभसेन वेगेन विलसित उत्तंभितो भ्रुकुटीलक्षणविटपः शाखा कुटिलदंष्ट्राश्चारुणानीक्षणानि च तेषामाटोपः सम्भ्रमस्तेनातिभयानकं वदनं यस्या इदं जगद्धन्तुकामेव हन्तुमिच्छतेव सहाट्टहासं ससिंहनादं हासं विमुंचती कुर्वन्ती ततः स्थानाद्विवृक्णानि छिन्नानि शीर्षाणि येषां गणेन परिवारेण सह शिरांस्येव कंदुकानि तेषां लीलया विजहार चिक्रीडे च ॥ १८ ॥

एवमेव खलु महदभिचारातिक्रमः कार्त्स्न्येनात्मने फलति ॥ १९ ॥

पदरत्नावली

महत्सु अभिचारो मारणोद्यमरूपो योऽतिक्रमो ऽनिष्टकरणं तदा आत्मने कर्त्रे कार्त्स्न्येनैकदेशमन्तरेण आत्मन एव फलति परिपाकं प्राप्नोति ॥ १९ ॥

प्रकाशिका

तस्मान्महतामतिक्रमः केनापि न कार्य इत्याह शुकः ॥ एवमेवेति । महत्स्वभिचाररूपोऽतिक्रमोऽपराधः ॥ १९ ॥

न वा एतद्विष्णुराताद्भुतं यदसम्भ्रमः स्वशिरच्छेदन आपतितेपि विमुक्त-देहाद्यात्मभावसुदृढहृदयग्रन्थीनां सर्वसत्वसुहृदात्मनां निर्वैराणां साक्षाद्भागवत अनिमिषारिवरायुधेनाप्रमत्तेन तैस्तैर्भावैरभिरक्ष्यमाणानां तत्पादमूलमकुतोभय-माश्रितानां भागवतपरमहंसानाम् ॥ २० ॥

॥ इति श्रीमद्भागवतमहापुराणे पञ्चमस्कन्धे नवमोऽध्यायः ॥

पदरत्नावली

आश्चर्यमेतद् यद् अन्तकान्तिकानीतोऽपि ब्राह्मणस्तूष्णीम् आसेति राजाभिप्रायज्ञो बादरायणिराह– न वा इतीति ॥ हे विष्णुरात परीक्षित् स्वशिरश्छेदन आपातितेऽप्यसम्भ्रम इति यदेतद् भागवतपरमहंसानामद्भुतं नवा नैवेत्यन्वयः । विमुक्तो देहा-दावात्मभावलक्षणसुदृढहृदयग्रन्थिर्यैस्ते तथा तेषाम् । सर्वसत्वानां सुहृदश्च आत्मभूताश्च सर्वसत्वसुहृदात्मानस् तेषम् । सुहृद् आत्मा मनो येषां ते तथा तेषामिति वा । ‘साक्षा-त्प्रत्यक्षतुर्ययोः’ इत्यभिधानात् । साक्षाद् भगवतस्तुर्यमूर्त्तेर्हरेरनिमिषारिवरायुधेन कालरूप-चकाख्यश्रेष्ठायुधेन । तैस्तैर्भावैर्भद्रकाल्यादिसंज्ञैः । परितो रक्ष्यमाणानाम् । अप्रमत्तेनेत्यनेन चक्रस्य चैतन्यमुपलक्षयति । अत एव वैलक्षण्यसूचनाय भगवत अनिमिषेत्यपसन्धिः कृतः

॥ २० ॥

॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुकृतायां

पञ्चमस्कन्धे नवमोऽध्यायः ॥

प्रकाशिका

नन्वसम्भावितमिदं यन्मरणे प्राप्तेऽप्यव्याकुलत्वं मारकेषु क्रोधाभाव इत्यादिकमित्यपेक्षायामाह ॥ न वा इति । हे विष्णुरात परीक्षित् । स्वशिरच्छेदन आपति-तेऽप्यसम्भ्रम इत्येतद्भागवतपरमहंसानामद्भुतं नैवेत्यन्वयः । कुत इत्यतोऽत्र हेतुगर्भविशेषणान्याह ॥ विमुक्तेत्यादिना । विमुक्तो देहादावात्मभावोऽहं कर्तेत्यादिरूपः स्वातन्त्र्याभिमानस्तल्लक्षणः सुदृढहृदयग्रन्थिर्यैस्ते तथा तेषां सर्वसत्त्वेषु सुहृद इत्यात्मा मनो येषाम् । अत एव निर्वैराणाम् । साक्षाद्भगवतोऽनुपचारेण भगवच्छब्दवाच्यस्यानिमिषारिवरायुधेन कालचक्ररूपश्रेष्ठायुधेन तैस्तैर्भावैः संसारे कर्मवशात्प्राप्तैरनिष्टकारिभिः पदार्थैः परितो रक्ष्यमाणानाम् ॥ २० ॥

**॥ इति श्रीमद्वेदेशपूज्यपादशिष्येण यदुपतिना विरचितायां **

श्रीमद्भागतटिप्पण्यां प्रकाशिकायां पञ्चमस्कन्धे नवमोऽध्यायः ॥ ५-९ ॥