एकदा तु महानद्यां कृताभिषेकनैगमिकावश्यको
॥ अथ अष्टमोऽध्यायः ॥
श्रीशुक उवाच–
एकदा तु महानद्यां कृताभिषेकनैगमिकावश्यको ब्रह्माक्षरमभिगृणानो मुहूर्त-त्रयमुदकान्त उपविवेश । तत्र तदा राजन्हरिणी पिपासया जलाशयाभ्याश-मेकैवोपजगाम । तया पेपीयमाने उदके तावदेवाविदूरेण नदतो मृगपतेरुरुनादो लोकत्रयभयङ्कर उदपतत् ॥ १ ॥
पदरत्नावली
सत्सङ्गतिमन्तरेणेतरसङ्गतिः संसारहेतुरिति एतन्निरूप्यतेऽस्मिन्नध्याये । तत्र भरतस्यैणशावसङ्गत्यानर्थप्रकारं कथयितुमुपक्रमते– एकदेति ॥ अभिषेकः स्नानम् । आवश्यकं मूत्रपुरीषोत्सर्जनादि नैगमिकं नित्यकर्म । अत्र क्रमस्त्वविवक्षितः । एतावत्करोतीति क्रियमाणमनुष्ठाननैगमिकं सन्ध्यानुष्ठानमावश्यकमिति वा । ब्रह्माक्षरं प्रणवः, गायत्री वा, अघमर्षण सूक्तं वा । जलाशयाभ्याशं नदीसमीपम् । तावत्तदानीं मृगपतिर् व्याघ्रः (‘पेपीयमाने अत्यासक्त्या पीयमाने सति तावत् तदानीमेव अविदूरे समीप एव नदतो मृगपतेः सिंहस्य । उदपतद् उद्गतः’ कपाठकोशे एवमस्ति) ॥ १ ॥
प्रकाशिका
सर्वथा हरेरन्यत्र कृपयाऽपि सङ्गोऽनर्थकरो योगिन इति सूचयितुं भरतस्यैणशावसङ्गेन जातमनर्थं वक्तुमुपक्रमते ॥ एकदा त्विति । अभिषेकः स्नानम् । नैगमिकानि वेदविहितानि च तान्यावश्यकानि नित्यनैमित्तिकानि कर्माणि कृतान्यभिषेकादीनि येन स तथा । अक्षरं देहनाशशून्यं ब्रह्माभिगृणानो गायत्र्यादिमन्त्रैः संस्तुवन्नुदकान्ते नदीतीरे जलाशयाभ्याशं नदीह्रदसमीपं पेपीयमानेऽत्यासक्त्या पीयमाने सति तावत्तदाऽविदूरेण समीपेन मृगपतेः सिंहस्य ॥ १ ॥
तमुपश्रुत्य सा मृगवधूः प्रकृतिविक्लवा चकितावलेकना१ सुतरामपि हरिभयाभिनिवेशव्यग्रहृदया पारिप्लवदृष्टिरगततृषातिभयात्सहसोच्चक्राम ॥ २ ॥
पदरत्नावली
प्रकृत्या स्वभावेन विक्लवा पारवश्योपेता । अत एव चलितनिरीक्षणा चञ्चलावलोकना । हरेर्व्याघ्राद् भयाभिनिवेशः भयोद्वेगस् तेन व्यग्रं भ्रान्तं हृदयं यस्याः सा तथा । ‘हरिर्व्याघ्रे पञ्चमुखे भेके सूर्यसमीरयोः’ इति । अत एव पारिप्लवदृष्टिश् चञ्चलदृष्टिः । तृषेति टाबन्तः । उच्चक्रामोत्पपात ॥ २ ॥
प्रकाशिका
प्रकृत्या स्वभावेनैव विक्लवा व्याकुलाऽत एव चकितं भयग्रस्तं निरीक्षणम् अवलोकनं यस्याः सा तथा । चलितावलोकनेति पाठे चञ्चलनिरीक्षणेत्यर्थः । सुतरां हरिभयाऽभिनिवेशः सिंहकृतभयोद्वेगस्तेन व्यग्रं व्याकुलं हृदयं यस्याः सा तथा । अत एव पारिप्लवदृष्टिरस्थिरनेत्रा । न गता तृट् यस्याः सा तथा । अगततृषा टाबन्तः । उच्चक्राम नदीपरतीरमुत्पपात ॥ २ ॥
तस्या उत्पतन्त्या अन्तर्वत्न््नया उरुभयावगलितो योनिगतो१ गर्भः स्रोतसि निपपात । तत्प्रसवणोत्सर्पणभयखेदातुरा स्वगणैर्वियुज्यमाना कस्याञ्चिद्दर्यां कृष्णसारसती निपपात चाथ ममार ॥ ३ ॥
पदरत्नावली
अन्तर्वत्न््नया गर्भिण्याः । उरुणा भयेनावगलितो निर्गतः । स्रोतसि प्रवाहे । प्रस्रवणं प्रसारः । उत्सर्पणमुत्पतनम् । हरिभयं च खेदश्च एतैरातुरा । दर्यां महागर्ते । कृष्णसारसती कृष्णमृगप्रिया ॥ ३ ॥
प्रकाशिका
अन्तर्वत्न्नया गर्भिण्या उरुणा भयेन विगलितः स्थानाच्चलितो योनिगतो निर्गतः । योनिनिर्गत इत्येव क्वचित्पाठः । स्रोतसि प्रवाहे तत्प्रस्रवणं गर्भपतनमुत्सर्पणमुत्पतनं सिंहभयं खेदश्चैतैरातुरा पीडिता दर्यां गिरिगुहायां कृष्णसारसती कृष्णसाराख्यमृगप्रिया ॥ ३ ॥
तं त्वेणकुणकं कृपणं स्रोतसा चोह्यमानमभिवीक्ष्यापविद्धबन्धुं बन्धुरिवानु-कम्पया राजर्षिर्भरत आदाय मृतमातरमेणमाश्रमपदमानयत् ॥ ४ ॥
पदरत्नावली
एणकुणकं मृगबालकम् । अपविद्धबन्धुं त्यक्तबन्धुजनम् । मृता माता यस्य स तथा तम् ॥ ४ ॥
प्रकाशिका
एणकुणकं हरिणबालकमपविद्धबन्धुं त्यक्तबन्धुजनप्रियम् । मृता माता यस्य स तथा तम् ॥ ४ ॥
तस्य हवा कुणक उच्चैस्तरां तस्मिन् कृतनिजाभिमानस्याहरहस्तत्पोषण-पालन-प्रीणनलालनानुध्यानेनात्मनियमाः सहयमाः पुरुषपरिचर्यादय एकैकशः कतिपयाहर्गणेन वियुज्यमानाः किल सर्व एवोदवसन् ॥ ५ ॥
पदरत्नावली
पोषणं तृणादिदानेन, लालनमुत्सङ्गारोपणादिना, अनुध्यानं क्षेमचिन्तनं, पोषणाद्यनुचिन्तनं वा । यमा अहिंसादयः, पुरुषपरिचर्यादयो विष्णुपूजादय उदवसन् उत्सन्ना बभूवुः ॥ ५ ॥
प्रकाशिका
कृतो निजः स्वीय इत्यभिमानो येन पोषणं तृणादिदानेन पालनं वृकादिभ्यो रक्षणं प्रीणनं कण्डूयनादिना लालनमंकारोपणादिना । एतैर्यदनुध्यानमासक्ति-स्तेनात्मना स्वस्य नियमाः स्नानादयो यमा अहिंसादयस्तत्सहिताः पुरुषपरिचर्यादयश्चेश्वर-पूजादयश्च प्रत्यहमेकैकशो वियुज्यमानाः सन्त उदवसन्नुत्सन्ना बभूवुः ॥ ५ ॥
अथेदमाह अहो बतायं हरिणकुणकः कृपण ईश्वररथचरणपरिभ्रमणरयेण स्वगणसुहृद्बन्धुभ्यः परिवर्जितः शरणं च मोपसादितो मामेव मातृपितृभ्रातृ-ज्ञातिभ्योऽधिकं गोपायनं मन्यमानो नान्यं कञ्चन वेद मय्येवातिविस्रब्धश्चात एव मया मत्परायणस्य पोषणपालनप्रीणनलालनमप्यनसूयेनानुष्ठेयं शरण्यो-पेक्षादोषविदुषा ॥ ६ ॥
पदरत्नावली
ईश्वररथचरणस्य कालचक्रस्य परिभ्रमणरयेण गमनागमनवेगेन । मा मां गोपायनं गोप्तारं रक्षितारं शरणं प्राप्तस्योपेक्षया महान्दोषो भवतीति दोषविदुषा (‘ब्राह्मणः समदृक् शान्तो दीनानां समुपेक्षकः । स्रवते ब्रह्म तस्यापि भिन्नभाण्डात् पयो यथा ॥’ इत्यादेः । एवं कपाठकोशे अधिकांशो वर्तते) ॥ ६ ॥
प्रकाशिका
तत्रैव तादृशासक्तौ निमित्तमाह ॥ अहो इत्यादिना । ईश्वररथचरणस्य कालचक्रस्य परिभ्रमणरयेन गमनागमनवेगेन मा मां गोपायनं गोप्तारं रक्षितारं शरण्यम् । प्राप्तस्योपेक्षायां दोषो भवतीति विदुषा ॥ ६ ॥
नूनं ह्यार्याः साधव उपशमशीलाः कृपणसुहृद एवंविधार्थे स्वार्थान् गुरुतरानुपेक्षन्ते ॥ ७ ॥
पदरत्नावली
मृगपोषणादिना भगवदुपासनारुपस्वार्थभङ्ग इति तत्राह– नूनमिति ॥७॥
प्रकाशिका
नन्वेवं भगवत उपासनारूपस्वार्थभङ्गमित्यत आह ॥ नूनमिति ॥ ७ ॥
इति कृतानुषङ्ग आसनस्नानाशनशयनाटनस्थानादिषु सहमृगजहुना स्नेहानुबद्धहृदय आसीत् ॥ ८ ॥
पदरत्नावली
इति उक्तप्रकारेण । कृतानुषङ्गः कृतस्नेहाभिनिवेशः । मृगजहुना मृगबालकेन ॥ ८ ॥
प्रकाशिका
इत्येवं बुद्ध्या कृतानुषंग आसक्तिर्येन । मृगजहुना मृगबालकेन ॥ ८ ॥
कुसुमकुशसमित्पलाशफलमूलोदकादीन्याहरिष्यमाणो वृकसालावृकादिभ्यो भयमाशङ्कमानः सह हरिणकुणकेन वनमाविशति ॥ ९ ॥
पदरत्नावली
आहरिष्यमाण आनयिष्यन् ॥ ९ ॥
पथि पथि च मुग्धभावेन तत्र तत्र विषक्तमतिप्रणयभारहृदयः कार्पण्यात् स्कन्धेनोद्वहति एवमुत्सङ्गे उरसि चावधायोपलालयन् परमामवाप मुदम् ॥१०॥
पदरत्नावली
कार्पण्यात् स्नेहपारवश्यात् ॥ १० ॥
क्रियायां निर्वर्त्यमानायामन्तराल उत्थायोत्थाय यदैनमभिचक्षीत तर्हि वाव स वर्षपतिः प्रकृतिस्थेन मनसा तस्मै हाशिष आशास्ते स्वस्ति स्याद्वत्स ते सर्वत इति ॥ ११ ॥
पदरत्नावली
वर्षपतिर् भरतखण्डनाथः । प्रकृतिस्थेन स्वस्थेन ॥ ११ ॥
प्रकाशिका
वर्षपतिर्भरतखण्डनाथः । प्रकृतिस्थेन स्वभावस्थेन ॥ ११ ॥
अन्यदा तु भृशमुद्विग्नमना नष्टद्रविण इव कृपणः सकरुणमतिरतितर्षेण हरिणकुणकविरहविह्वलहृदयसन्तापस्तमनुशोचन् किल कश्मलं महदभिरम्भित इति होवाच ॥ १२ ॥
पदरत्नावली
अन्यदा अदर्शने । अतितर्षेण अत्युत्कटया । कश्मलं विषादम् अभिरम्भित आश्रितः ॥ १२ ॥
प्रकाशिका
अन्यदाऽदर्शनेऽतितर्षेणात्युत्कण्ठया कश्मलं विषादमभिरंभितः प्रापितः सन्
॥ १२ ॥
अपि बत स वै कृपणैणबालको मृतहरिणीसुतोऽहो ममानार्यस्य १शठ-कितवमतेरकृतसुकृतस्य कृतविस्रम्भ आत्मप्रत्ययेन तदविगणयन् स्वजन इवागमिष्यति ॥ १३ ॥
पदरत्नावली
(‘शठो वञ्चको यः किरातो व्याधस्तद्वद् वञ्चनपरा पतिर्यस्य तस्य’ इति कपाठः) आत्मप्रत्ययेन स्वमनःशुद्ध्या । तन् ममौदासीन्यादिकम् । अविगणयन् अविञ्चितयन् । स्वजनः पुत्र इव ॥ १३ ॥
प्रकाशिका
अपिः सम्भावनायां बतेति खेदे । अहो इत्यनुकंपायाम् । शठस्येव कितवा वंचनपरा मतिर्यस्यात्मप्रत्ययेन ममायं पोषक इति बुद्ध्या । तन्मदीयानार्यत्वादिकं स्वजनः पुत्र इव ॥ १३ ॥
अपि क्षेमेणास्मिन्नाश्रमोपवने शष्पाणि चरन्तं देवगुप्तं द्रक्ष्यामि ॥ १४ ॥
पदरत्नावली
क्षेमेण सुखेन(‘शष्पाणि बालतृणानि’ इति अधिकांशो कपाठे अस्ति)
॥ १४ ॥
प्रकाशिका
क्षेमेण सुखेन । शष्पाणि कोमलतृणानि ॥ १४ ॥
अपि न वृकः सालावृकोऽन्यतमो वा नैकचरो जक्षति ॥ १५ ॥
पदरत्नावली
शालावृकः शुनकः । ‘शालावृकः कपिक्रोष्टुश्वानः स्वर्णेऽपि गैरिके’ इत्यमरः । नैकचरो ऽष्टपान्मृगविशेषः ॥ १५ ॥
प्रकाशिका
नैकचरो यूथचरः सूकरादिरष्टपान्मृगविशेषो वा न जक्षति । अपि किम् ॥१५।
निम्लोचति भगवान्सकलजगत्क्षेमोदयस्त्रयात्मा१द्यापि न मम मृगवधून्यास आगच्छति ॥ १६ ॥
पदरत्नावली
निम्लोचति अस्तङ्गच्छति । सकलजगतः क्षेमो यस्मात् स उदयो यस्य स तथा । मृगवधून्यासः मृगीनिक्षेपलक्षणोऽर्थः ॥ १६ ॥
प्रकाशिका
निम्लोचत्यस्तङ्गच्छति । जगतः क्षेमो यस्मात्स उदयो यस्य त्रय्यात्मा वेदप्रतिपाद्यः सूर्यो मृगवधून्यासो मृगीनिक्षेपलक्षणोऽर्थः ॥ १६ ॥
अपिस्विदकृतसुकृतं मामागत्य सुखयिष्यति । हरिणराजकुमारो विविध-रुचिरदर्शनीयनिजमृगदारकविनोदैरसन्तोषं स्वानामपनुदत् ॥ १७ ॥
पदरत्नावली
(‘हरिणराजस्य हरिणश्रेष्ठस्य कुमार आगत्य अपिस्वित् किंस्वित् सुखयिष्यतीत्यन्वयः’ इति अधिकांशो कपाठकोशे वर्तते) विविधाश्च रुचिराश्च दर्शनीयाश्च निजाः स्वजातिप्रयुक्ताश्च मृगदारकाणां मृगबालकानां ये विनोदा लीलाविशेषास्तैः ॥ १७ ॥
प्रकाशिका
अपिस्वित्किंस्वित् । हरिणराजस्य हरिणश्रेष्ठस्य कुमार आगत्य सुख-यिष्यतीत्यन्वयः। किं कुर्वन् । विविधा रुचिरा दर्शनीयाश्च निजाः स्वजातिप्रयुक्ताश्च मृगदारकाणां मृगबालकानां ये विनोदा लीलाविशेषाः । तैः ॥ १७ ॥
क्ष्वेलिकया मां मुधा समाधिना मीलितदृशं प्रेमसंरम्भेण चकितमागत्य पृषद् अपरुषविषाणाग्रेण लुठति२ ॥ १८ ॥
पदरत्नावली
क्ष्वेलिकया मृगजातिक्रियया नादविशेषक्रियया । प्रेमसंरम्भेण स्नेहोद्रेकेण प्रणयकोपेन वा । सचकितं सभयं पृषतः कृष्णमृगो ऽपरुषविषाणाग्रेण कोमलशृृङ्गमुखेन लुठति परिवर्तयति । अभिमुखीकरोतीत्यर्थः । उपहृन्तीति वा । लुठ उपघात इति धातुः । लुण्ठतीति पाठे अनुष्ठानालस्यं करोति । अपि लुठि आलस्ये ॥ १८ ॥
प्रकाशिका
क्ष्वेलिकया नादविशेषक्रियया । प्रेमसंरम्भेण प्रणयकोपेन । चकितं सभयम् । पृषत्कृष्णमृगो यद्वा पृषज्जलबिन्दुस्तद्वदपरुषेण मृदुना विषाणाग्रेण लुठति सङ्घट्टयति ॥ १८ ॥
आसादितहविषि बर्हिषि दूषिते मयोपालब्धो भीतभीतः सपद्युपरतरभस ऋषि कुमारवदवहितकरणकलाप आस्ते ॥ १९ ॥
पदरत्नावली
आसादितम् अवरोपितं हविर्यस्मिंस्तत्तथा, तस्मिन् बर्हिषि भक्षणादिना दूषिते सति उपालब्धो भर्त्सितः, उपरतरभसः शान्ताभिनिवेशः, अत एव अवहितकरणकलापः संवृतसर्वेन्द्रियव्यापारसमूहः ॥ १९ ॥
प्रकाशिका
आसादितमवरोपितं हविर्यस्मिंस्तस्मिन् बर्हिषि दर्भसमूहे । भक्षणादिना दूषिते सत्युपालब्धो भर्त्सित उपरतरभसः शान्तोत्साहोऽत एवावहितकरणकलापः संवृतेन्द्रिय-समूहो निश्चल इति यावत् ॥ १९ ॥
किं वा ओ आचरितं तपस्तपस्विन्यानया यदियमवनिः सविनयकृष्ण-सारतनयतनुतरसुभगशिवतमखुर१पदपङ्क्तिभिर्द्रविणविधुरातुरस्य कृपणस्य मम द्रविणपदवीं सूचयन्त्यात्मानं सर्वतः कृतकौतुकं द्विजानां स्वर्गापवर्गकामानां देवयजनं करोति ॥ २० ॥
पदरत्नावली
अनया भूम्या तप आचरितम् । तत् किमिति शेषः । सविनयस्य कृष्णसारतनयस्य तनुतरा अतिशयेनाणवश्च सुभगाः सुन्दराश्च शिवतमाः सुखतमाश्च खराः परुषाश्च खुरा येषु तेषां पदानां निक्षेपचिन्हानां पङ्क्तिभिर् द्रविणविधुरवद् दरिद्रवद् आतुरस्य । न केवलं ममोपकरोति किन्तु द्विजानामपीत्याह– आत्मानमिति ॥ कृष्णसारतनयस्य पद-पङ्क्तिभिः कृतकौतुकं कृतमङ्गलमात्मानं द्विजानां देवयजनं च करोति । इदं प्रलप्योत्थाय बहिर्गत्या पश्यतो हि वचनम्– ‘यस्मिन्देशे कृष्णमृगस्तस्मिन् धर्मान् निबोधत’ इति स्मृतिः
॥ २० ॥
प्रकाशिका
एवं बहुधा प्रलप्योत्थाय बर्हिर्गत्वा तत्पदपङ्क्तिमुपलभ्याह ॥ किं वेति । अनया भूम्या किं वा तप आचरितम् । यद्यस्मादियं भूमिः सविनयस्य कृष्णसारतनयस्य तनुतरा अतिशयेन सूक्ष्माः सुंदराश्चात एव शिवतमा अतिशयेन मङ्गलरूपाश्च खुरा येषु तेषां पदानां लक्षणतया तन्निक्षेपचिन्हानां पङ्क्तिभिर्द्रविणं मृगस्तेन रहितस्यात एवातुरस्य दुःखितस्य मम द्रविणमार्गं सूचयन्ती सती आत्मानं स्वात्मानं ताभिः कृतकौतुकं कृतपावित्र्यं देवा इज्यन्तेऽस्मिन्निति देवयजनं यज्ञभूमिं करोति । यस्मिन्देशे मृगः कृष्णस्तस्मिन्धर्मान्निबोधतेति स्मृतेः ॥ २० ॥
अपिस्विदसौ भगवानुडुप एनं मृगपतिभयान्मृतमातरं मम मृगबालकं स्वाश्रमपरिभ्रष्टमनुकम्पया कृपणजनवत्सलः परिपालयति ॥ २१ ॥
पदरत्नावली
अधुना इन्दूदयेऽप्यनागतं दृष्ट्वा तत्प्रलापप्रकारमाह– अपिस्विदिति ॥ उडुपश्चन्द्र एनं मृगबालकं परिपालयति अपिस्विदित्यन्वयः ॥ २१ ॥
प्रकाशिका
अधुना चन्द्रोदयेऽप्यनागतं दृष्ट्वा भ्रान्तस्य प्रलापप्रकारमाह ॥ अपि-स्विदिति ॥ २१ ॥
एष ते हरिणकुणकोपनिधिर्मया गुप्त इति । किं वा आत्मजविश्लेषज्वरदा-वदहन१शिखाभिरुपतप्यमानहृदयस्थलनलिनं मामुपसृत२मृगीतनयः शिशिर-शान्तानुरागगुणितनिजवदनसलिलामृतमयगभस्तिभिः स्वधयति ॥ २२ ॥
पदरत्नावली
किञ्च रक्षित्वा चाटु कुर्वन् मह्यं प्रयच्छति अपिस्विदित्याह– एष इति ॥ उपसृतश्चासौ मृगीतनतश्चेत्युपसृतमृगीतनय उपसृत्य गभस्तिभिर् मां स्वधयति लेढ्यपिस्विदित्यन्वयः । शिशिराणि शीतलानि च तानि अनुरागेण गुणितानि बहुलीकृतानि च तानि निजवदननिर्गतसलिलानि, तान्येवामृतमया गभस्तयश्चन्द्ररश्मयस्तैः किं विशिष्टं माम् आत्मज इवात्मजो मृगीतनयस्तस्य विश्लेषनिमित्तो यो ज्वरः सन्तापः स एव दवदहनः वनाग्निस्तस्य शिखाभिरुपतप्यमानं दह्यमानं हृदयस्थलनलिनं यस्य स तथा तम् ॥ ॥ २२ ॥
प्रकाशिका
रक्षित्वा च मह्यं प्रयच्छत्यापिस्विदित्याह ॥ एष इति । उपनिधिर्निक्षेप इत्युक्त्वा दास्यत्यपिस्विदिति शेषः । पुनः प्रलापान्तरमाह ॥ किं वा इति । मामुपसृतः प्राप्तो मृगीतनयः । मामुपसृत्येत्यपि क्वचित्पाठः । स्वधयति सुखयति । कैः शिशिरं हिमं तद्वत् शान्तानि शीतलानि मय्यनुरागेण गुणितान्यावर्तितानि पुनः पुनः स्रवन्ति निजवदनसलिलानि तान्येवामृतगभस्तयश्चन्द्ररश्मयस्तैः । कथंभूतं माम् । आत्मजवदात्मजो मृगीतनयस्तस्य विश्लेषनिमित्तो यो ज्वरः संतापः स एव दावदहनो वनवन्हिस्तस्य शिखाभिरुपतप्यमानहृदयलक्षणं स्थलनलिनं यस्य स तथा । तं स्थलपद्मं सन्तापं सोढुं क्षममिति सूचनाय स्थलेत्युक्तम् । इति चोवाचेत्यन्वयः ॥ २२ ॥
इति चैवमघटमानमनोरथाकुलहृदयो मृगदारकाभासेन स्वप्रारब्धकर्मणा२ योगारम्भणतो विभ्रंशितः स योगतापसो भगवदाराधनलक्षणाच्च कथमितरथा जात्यन्तर एणकुणके आसङ्गः साक्षान्निःश्रेयसप्रतिपक्षतया प्राक्३ परित्यक्त-दुस्त्यजहृदयाभिजातस्य तस्यैवमन्तरायविहतयोगारम्भणस्य राजर्षेर्भरतस्य तावन्मृगार्भकपोषणपालनप्रीणनलालनानुषङ्गेणाविगणयत आत्मानमहिरिवाखु-बिलं दुरतिक्रमः कालः करालरभस आपद्यत ॥ २३ ॥
पदरत्नावली
सङ्गफलमाह– इतीति ॥ इत्यादिप्रलपन् स योगतापसो भरतो योगा-रम्भणतो भगवदाराधनलक्षणात् कर्मणश्च विभ्रंशितः परिमोचित इत्यन्वयः । केन मृगदारक-रूपेण आ समन्ताद्भासत इति तेन । स्वारब्धकर्मणा मनुष्यस्यैवमघटमानो मृगे मनोरथः स्नेहविशेषस्तेनाकुलं हृदयं यस्य स तथा । इतरथा प्रारब्धकर्माभावे जात्यन्तरे अस्मज्जाति-विलक्षणमृगजातौ आसङ्गः स्नेहः कथं स्यात् । योगो ध्यानं तस्य भरतस्य कथम्भूतस्य साक्षान्निःश्रेयसस्य प्रतिपक्षतया विघ्नत्वेन हेतुना पूर्वं परित्यक्ता दुस्त्यजा त्यक्तुमशक्या हृदयाभिजाता औरसाः पुत्रा येन स तथा तस्य । एवं मृगपोतलालनाद्याकुलचेतसो भरतस्य मरणसमया सत्तिमाह– तस्येति ॥ अन्तरायेण विघ्नेन विहतं योगारम्भणं ध्यानोपक्रमो यस्य स तथा । तस्य पोषणादिषु अनुषङ्गेण निरन्तरस्नेहाभिनिवेशेन आत्मानं श्रीहरिं स्वम्बाऽ-विगणयतोऽचिन्तयतः । करालो रभसो वेगो यस्य स तथा ॥ २३ ॥
प्रकाशिका
ज्ञानिनः कथमेतादृश्यासक्तिरित्याशङ्कां परिहरन्नासक्तिफलमाह ॥ एवमिति । अनेन प्रकारेण मनुष्यस्य अघटमानो मृगे मनोरथः स्नेहस्तेनाकुलं हृदयं यस्य मृगदारकाभासेन मृगदारकवदवभासमानेन स्वप्रारब्धकर्मणा मृगदारकप्रापकप्रारब्धकर्मणेति यावत् । योगतापसो भरतो भगवदाराधनलक्षणात्कर्मणश्च विभ्रंशितः परिमोचितः । इतरथा प्रारब्ध-कर्माभावे जात्यन्तरेऽमनुष्ये साक्षादासङ्गः पुत्रवदासक्तिर्निःश्रेयसस्य प्रतिपक्षतया विघ्नरूपत्वेन हेतुना पूर्वपरित्यक्ता दुस्त्यजा त्यक्तुमशक्या हृदयाभिजाता औरसाः पुत्रा येन स तथा । तस्यान्तरायेन विघ्नेन विहतं योगारंभणं ध्यानोपक्रमो यस्य स तथा । तस्य पोषणादिषु सुतानुषङ्गेन स्नेहविशेषेणात्मानं हरिं स्वं वाऽविगणयतोऽविचिन्तयतः करालरभसः क्रूरवेगः कालो मरणसमयस्तावत्तदानीमेवापद्यत ॥ २३ ॥
तदानीमपि पार्श्ववर्तिनमात्मजं बन्धुमिवानुशोचन्तमभिवीक्षमाणो मृग एवाभिवेशितमना विसृज्य लोकमिमं सह मृगेण कलेवरमनुस्मृतजन्मानु-स्मृतिरितरवन्मृगशरीरमवाप ॥ २४ ॥
पदरत्नावली
इमं लोकं भरतोपाध्युपलक्षितं शरीरं मृगेण सह वर्तमानं विसृज्य इतर-मृगवन् मृगशरीरमवाप । पूर्वकलेवरम् अनु तस्यानुकूलत्वेन स्मृता जन्मानुस्मृतिर् जाति-स्मृतिर्येन स तथा । पूर्वदेहतत्कृतकर्मस्मृतिरित्यर्थः ॥ २४ ॥
प्रकाशिका
इमं लोकं भूलोकं मृगेण सह वर्तमानं कलेवरं शरीरं च विसृज्यानु-स्मृतजन्मानुस्मृतिरनुस्मृतं जन्म पूर्वं जन्म तदनुविद्यमानस्यार्थस्यापि स्मृतिर्यस्य स तथा । इतरवदज्ञानिवत् ॥ २४ ॥
तत्रापि ह वा आत्मनो मृगत्वकारणं भगवदाराधनसमीहानुभावेनानुस्मृत्य भृशमनुतप्यमान आह ॥ २५ ॥
पदरत्नावली
भगवदाराधनस्य समीहा अनुष्ठानं तस्य सामर्थ्येन ॥ २५ ॥
प्रकाशिका
समीहा सम्यगनुष्ठानयत्न इच्छा वा तदनुभावः सामर्थ्यं तेन । आह स्वचित्ते ॥ २५ ॥
अहो कष्टं भ्रष्टोऽहमात्मवत्तानुपथाद्यद्विमुक्तसमस्तसङ्गस्य विविक्तपुण्यारण्य-शरणस्यात्मवत आत्मनि सर्वेषामात्मनां भगवति वासुदेवे तदनुश्रवणमनन सङ्कीर्तनानुस्मरणाभियोगेनाशून्यसकलयामेन कालेन समावेशितं समाहितं कार्त्स्न्येन मनस्तत्तु पुनर्ममाबुधस्य रागान्मृगसुतमनुपसुस्राव ॥ २६ ॥
पदरत्नावली
किमाह– अहो इति ॥ किं कष्टं तदाह– भ्रष्ट इति ॥ आत्मवत्ता-नुपथाद् आत्मा स्वामी ममास्तीति भाववन्त आत्मवन्तः । परमात्मज्ञानिन इत्यर्थः । तेषां समूह आत्मवत्ता । जनताशब्दवत् । तस्यानुपथादनुगमनलक्षणमार्गात् । आत्मा अस्या-स्तीत्यात्मवान् तस्य भाव आत्मवत्ता तस्यानुपथाद् अनुसरणात् । ‘पथ गतौ’ इति धातोः । भ्रष्ट आलम्ब्यं मुक्त्वाधःपतितः । कुत एतदिति तत्राह– यदिति ॥ सर्वेषामात्मनां चेतना-नामात्मनि अन्तर्यामिणि वासुदेवे भगवति कार्त्स्येन कालेन समावेशितं समाहितं सन्निधाय स्थिरीकृतं यन्मम मनः पुनस्तदेव मम मनः रागान् मृगसुतमनुसुस्राव अनुसृतमभूदित्यन्वयः । तस्मादिति शेषः । विविक्तं च तत्पुण्यसाधनं च तद् अरण्यं विविक्तपुण्यारण्यं तदेव शरणं यस्य स तथा तस्य । आत्मवतो बुद्धिमतः कथं कार्त्स्येनेति विशेषणं सङ्गच्छते क्षणार्धमन्य-प्रसङ्ग सम्भवादिति तत्राह– तदिति ॥ तस्य वासुदेवस्य अनुश्रवणादिषु योऽभियोग आग्रहणलक्षणः प्रयत्नस् तेनाशून्या अविनाभूताः सफलाः सकला यामा यस्मिन् स तथा तेन
॥ २६ ॥
प्रकाशिका
किं कष्टमित्यपेक्षायां तदाह ॥ भ्रष्टोऽहमिति । आत्मा परमात्मा ज्ञेयतया येषामस्तीत्यात्मवन्तो ज्ञानिनस्तेषां भावो ध्यानादिरूप आत्मवत्ता तामनुसृत्य विद्यमानो यः पंथास्तस्माद् भ्रष्टः । कुत इत्यतोऽत्र हेतुमाह ॥ यदित्यादिना । यद्यस्माद्विविक्तं पुण्य-करमरण्यं शरणं यस्यात्मवतो वशीकृतमनसः । आत्मन्यन्तर्यामिणि वासुदेवे कार्त्स्न्येन समग्रांगेन समावेशितम् । निश्चलं यन्मम मनस्तत्पुनरबुधस्य मम रागान्मृगसुतमनुसुस्रावानु-द्रुतमभूत् । तस्मात् । वासुदेवे किं कदाचिदेव समावेशितं नेत्याह । अशून्या अविनाशभूताः सकला यामा यस्मिंस्तेन कालेनेति । केनाशून्या इत्यपेक्षायामुक्तम् ॥ तदनुश्रवणेति । तस्य वासुदेवस्यानुश्रवणादावभियोग आग्रहस्तेनेत्यर्थः ॥ २६ ॥
एवं निगूढनिर्वेदो विसृज्य मृगीं मातरं पुनर्भगवत्क्षेत्रमुपशमशील-मुनिगणदयितं शालग्रामं पुलस्त्यपुलहाश्रमं कालंजरात्प्रत्याजगाम ॥ २७ ॥
पदरत्नावली
निगूढ निर्वेदोऽन्तर्गतवैराग्यः । दयितं प्रियम् । कालञ्जराद्गिरेः ॥२७॥
प्रकाशिका
निगूढनिर्वेदो दृढतरवैराग्यः शालग्रामत्वात् शालग्रामाख्यम् । कालंजरा-द्यस्मिन्स्वयं मृगो जातस्तस्मात्पर्वतादात्मैव सहचरो यस्य । एकाकीत्यर्थः ॥ २७ ॥
तस्मिन्नपि कालं प्रतीक्षमाणः सङ्गाच्च भृशमुद्विग्न आत्मसहचरः शुष्कपर्ण-तृणवीरुधा वर्त्तमानो मृगत्वनिमित्तावसानमेव गणयन्मृगशरीरं तीर्थोदकक्लिन्न-मुत्ससर्ज ॥ २८ ॥
॥ इति श्रीमद्भागवतमहापुराणे पञ्चमस्कन्धे अष्टमोऽध्यायः ॥
पदरत्नावली
आत्मसहचर एकाकी । मृगत्वनिमित्तस्य दुष्कर्मणः प्रारब्धस्यावसानं नाशमेव गणयन् चिन्तयन् सङ्ख्याङ्कुर्वन्निति वा । तीर्थोदकेन क्लिन्नमार्द्रमिति (‘मृगशरीरम् उत्ससर्ज’ इति कपाठकोशे अधिकांश अस्ति) ॥ २८ ॥
॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुकृतायां
पञ्चमस्कन्धे अष्टमोऽध्यायः ॥
प्रकाशिका
शुष्केणैव पर्णादिना वर्तमानः शरीरयात्रां कुर्वन् । मृगत्वनिमित्तप्रारब्धपापं तस्यावसानं नाशो यस्मिंस्तं कालं गणयंश्चिन्तयन् सङ्ख्यां कुर्वन्निति वा । तीर्थोदकेन क्लिन्नमार्द्रमित्यर्थः ॥ २८ ॥
**॥ इति इति श्रीमद्वेदेशपूज्यपादशिष्येण यदुपतिना विरचितायां **
श्रीमद्भागतटिप्पण्यां पञ्चमस्कन्धे प्रकाशिकायामष्टमोऽध्यायः ॥