भरतस्तु महाभागवतो यदा
॥ अथ सप्तमोऽध्यायः ॥
श्रीशुक उवाच–
भरतस्तु महाभागवतो यदा भगवताऽवनितलपरिपालनाय सञ्चिन्तितस्तदनु-शासनपरः पञ्चजनीं विश्वरूपदुहितरमुपयेमे ॥ १ ॥
पदरत्नावली
श्रीनारायणप्रसादजनकविज्ञानसाधनकर्मकरणप्रकारो निरूप्यतेऽस्मि-न्नध्याये । तत्रादावृषभे साक्षान्नारायणावतारे राज्यलक्षणे कर्मणो निवृत्ते तत्पुत्रो भरतः किमकार्षादित्याशङ्क्य भगवद्भक्तकथाया अपि श्रीहरिकथान्तर्भूतत्वात् तत्कथाप्रसङ्गः क्रियते– भरतस्त्विति ॥ तुशब्द इतरराजकथाया अस्य कथाया विशेषं वक्ति । सञ्चिन्तितः संमन्त्र्याभिषिक्तः । ‘संमन्त्रणे स्यात् सञ्चिन्ता चर्चायामभिषेचन’ इत्युत्पलमालायाम् । तस्य ऋषभस्यानुशासनमाज्ञा ॥ १ ॥
प्रकाशिका
इदानीं भरतकथां वक्तुमुपाक्रमते ॥ भरतस्त्विति । तुशब्दो भरतस्येतर-राजेभ्यो विशेषसूचकः । तमेवाह ॥ महाभागवत इति । भगवता इति । भगवता ऋषभेण संचिन्तितः संमन्त्र्याभिषिक्तः ॥ १ ॥
तस्यामु ह वा आत्मजान् कार्त्स्न्येनानुरूपानात्मनः पञ्च जनयामास भूतादिरिव भूतसूक्ष्माणि ॥ २ ॥
पदरत्नावली
पञ्चसङ्ख्यामात्रत्वे दृष्टान्तमाह– भूतादिरिवेति ॥ भूतादिस्तामसाहङ्कारो भूतसूक्ष्माणि शब्दादीनि । चेतनस्य चेतनदृष्टान्तापेक्षायां भूतादिः परमात्मा । भूतसूक्ष्म-शब्दवाच्यान् शब्दाद्यभिमानिदेवानिव ॥ २ ॥
प्रकाशिका
भूतादिस्तामसाहङ्कार इव भूतसूक्ष्माणीति सन्ततिवृद्धौ दृष्टान्तः ॥ २ ॥
सुमतिं राष्ट्रभृतं सुदर्शनमावरणं धूम्रकेतुमिति आञ्जनाभं१ नामैतद्वर्षं भारत-मिति यत आरभ्य व्यपदिशन्ति ॥ ३ ॥
पदरत्नावली
यतो भरतात् ॥ ३ ॥
प्रकाशिका
अञ्जनस्याभेवाभा यस्येत्यंजनाभो ऋषभोंऽजनवन्नीलत्वात्तस्येदमाञ्जनाभ इत्यर्थः । यतो भरताद् आरभ्य ॥ ३ ॥
स हि बहुविन्महीपतिः पितृपितामहवदुरुवत्सलतया स्वे स्वे कर्मणि वर्तमानाः प्रजाः पर्यपालयत् ॥ ४ ॥
पदरत्नावली
बहुवित् सर्वशास्त्ररहस्यज्ञः ॥ ४ ॥
प्रकाशिका
बहुवित् सर्वज्ञः ॥ ४ ॥
ईजे च भगवन्तं यज्ञपुरुषं क्रतुभिरुच्चावचैः श्रद्धयाऽऽहिताग्निरग्निहोत्र-दर्शपूर्णमासचातुर्मास्यपशुसोमानां प्रकृतिविकृतिभिरनुसवनं चातुर्होत्रविधिना
॥ ५ ॥
पदरत्नावली
आहितः प्रतिष्ठितोऽग्निर्येन स आहिताग्निः । अग्निहोत्रादयः प्रकृतयः, पशुसोमादयो विकृतयः, समग्राङ्गयुक्तानि कर्माणि प्रकृतयः, एकदेशाङ्गयुक्तानि विकृतयः, पशुभिरेव क्रियमाणा अश्वमेधादयः सोमरसैरेव क्रियमाणाः सोमयागाः । चत्वारो होतारो यत्र तच्चातुर्होत्रं तल्लक्षणविधानेन ॥ ५ ॥
प्रकाशिका
आहितः प्रतिष्ठितोऽग्निर्येन स आहिताग्निः। पशुभिरेव क्रियमाणाः पशुसंज्ञाः सोमरसेनैव क्रियमाणाः सोमनामानोऽग्निहोत्रादयो द्विविधाः सकलांगविधानयुक्ताः प्रकृतयोऽ-तादृशा विकृतय इति तैर्द्विविधैरपीष्टवानित्यर्थः । चत्वारो होतारो यत्र चातुर्होत्रं तद्रूपविधानेन
॥ ५ ॥
सम्प्रचरत्सु १नानायोगेषु विरचिताङ्गक्रियेषु अपूर्वं यत्तत्क्रियाफलं धर्माख्यं परब्रह्मणि यज्ञपुरुषे सर्वदेवतालिङ्गानां मन्त्राणामर्थनियामकतया साक्षात्कर्तरि परदेवतायां भगवति वासुदेव एव भावयान आत्मनैपुण्यमृदितकषायो हविष्व-ध्वर्युभिर्गृह्यमाणेषु स यजमानो यज्ञभाजो देवास्तान्पुरुषावयवेष्वध्यभावयत् ॥६॥
पदरत्नावली
प्रचरत्सु कुर्वाणेषु अध्वर्युषु । अत एव नानायोगेषु देवताध्यानलक्षणेषु यजनाद्युपायेषु वा क्रियमाणेषु सत्सु यदपूर्वं क्रियाफलं धर्मसंज्ञं तद्वासुदेवे भावयानः हर्यधीनत्वेन समर्पयन् स यजमानो ये हरेश्चक्षुराद्यवयवेभ्य उत्पन्नास्तान् यज्ञभाजो यज्ञभागाधिकारिणो देवान् सूर्यादीन् पुरुषस्य पूर्णज्ञानस्य हरेश्चक्षुराद्यवयवेषु तदुत्पन्नास्तदाश्रिता इत्यध्यभावयद् अचिन्त-यदित्यन्वयः । कदा अध्वर्युभिर्हविष्षु गृह्यमाणेषु सत्सु कर्माङ्गत्वेन वासुदेवे समर्पणं, न त्विष्टत्वेनेत्यत उक्तम्– परेति ॥ सर्वदेवतानां लिङ्गभूताः प्रकाशका ये मन्त्रास्तेषां वज्रधर-
त्वादीनां तन्नाम्नां वा अर्थनियामकतया ऐश्वर्याद्यर्थप्रेरकत्वेन मुख्यकर्तरि । अभ्यर्हितत्वाच्चेत्युक्तम्– यज्ञपुरुष इति ॥ न चेदं सगुणफलप्राप्तय इत्याह– परेति ॥ कषायः पापम् ॥ ६ ॥
प्रकाशिका
सम्प्रचरत्सु सम्यक् प्रवर्तमानेषु नानायोगेषु नानाविधोपायसाध्येषु विरचिता अनुष्ठिता अङ्गक्रिया येषां तेषु । योगेष्विति शेषः । क्वचिन्नानायोगेष्वित्येव पाठः । यदपूर्वं तद्वासुदेव एव भावयानो यजमानऋत्विग्द्रव्यप्रेरकं वासुदेवकर्तृकमिति चिन्तयन् । ननु यजमानादिप्रेरका देवा एव मन्त्रेषु प्रसिद्धाः । अतः कथं वासुदेवस्य कर्तृत्वमित्यत उक्तम् ॥ सर्वदेवतेत्यादि । सर्वदेवताप्रकाशकलिङ्गयुक्तानां मन्त्राणामर्थभूता एव वज्रधरत्वादयस्तेषां नियामकतया साक्षान्मुख्यत एव कर्तर्यत एव परदेवतायाम् । तथा चेन्द्रादयो देवा न मुख्यकर्तार इत्याशयः । नन्वेवं यज्ञभागभाजो ये देवास्ते च पूज्यतया न चिन्तिता अतः कथं यज्ञस्य साङ्गत्वमित्यतो तेऽपि हर्यवयवाश्रितयैव चिन्तिता इत्याह ॥ आत्मनैपुण्येति । आत्मनैपुण्येनोक्तानुसन्धानरूपेण स्वकौशलेन मृदिता नाशिताः कषायाः पापानि यस्य स तथा । अध्वर्युभिरिति बहुवचनं नानायज्ञाभिप्रायेण । गृह्यमाणेषु सत्सु यज्ञभाजो यज्ञांग-भाजोऽवयवेष्वधिश्रिता न स्वतन्त्रा इत्यभावयदचिन्तयत् ॥ ६ ॥
एवं कर्मविशुद्धिविशुद्धसत्त्वस्यान्तर्हृदय आकाशशरीरे ब्रह्मणि भगवति वासुदेवे महापुरुषोपलक्षणैः श्रीवत्सकौस्तुभवनमालारिदरगदादिभिरुपलक्षिते निजपुरुष हृदुल्लिखितेनात्मनात्मनि पुरुषरूपेण विरोचमाने उच्चैस्तरां भक्तिरनुदिनमेधमानरयाऽजायत ॥ ७ ॥
पदरत्नावली
अधुना कर्मणा साध्यफलमाह– एवमिति ॥ भगवदर्पणेन कर्मणः विशुद्धिस्तया विशुद्धं सत्वमन्तःकरणं यस्य स तथा, तस्यान्तर्हृदये आकाशशरीरे सूक्ष्मरूपे ब्रह्मणि अपरिच्छिन्ने महापुरुषस्य हरेरुपलक्षणैश् चिह्नैर्महापुरुषं श्रीनारायणोऽयमिति उपलक्षयन्ति ज्ञापयन्ति । महापुरुषोपलक्षणैर्वा स्वभक्तानां हृद्युल्लिखितेन स्फुरितेनात्माकारेण कीदृशः स इत्यत आह– पुरुषरूपेणेति ॥ आत्मनि स्वस्मिन्नेधमानरया वर्द्धमानवेगा (‘एवमुक्तानु-सन्धानेन कर्मणां या विशुद्धिस्तया विशुद्धं सत्त्वमन्तःकरणं यस्य स तथा तस्य अन्तर्हृदये हृदयान्तरस्थे आ समन्तात् काशमाने शरीरे गुणपूर्णे । ‘आत्मब्रह्मादयः शब्दास्तमृते विष्णुमव्ययम् । न सम्भवन्ति यस्मात् तैर्नैवाप्ता गुणपूर्णता ॥’ इत्यादेः । यद्वा बृंहयति उत्तमभक्तान् तत्तद्योग्यतानुसारेण गुणतः समृद्धान् करोतीति ब्रह्म । ‘तद् वा एतद् ब्रह्माहुर्बुहति बंृहयति चेति’ इत्यादिश्रुतेः । महापुरुषं नारायणमुपलक्षयन्ति इतरव्यावृत्ततया ज्ञापयन्तीति तैः श्रीवत्सादिभिरुपलक्षिते इतरव्यावृत्ततया ज्ञाते, निजपुरुषाणां स्वोत्तमभक्तानां ब्रह्मादीनां हृदि उल्लिखितेन उत्कृष्टतया चित्रितेन पुरुषरूपेण आत्मनि स्वान्तःकरणे विरोचमाने भगवति वासुदेवे अनुदिनमेधमानो रयो वेगप्रकर्षो यस्यास्तथाभूताऽत्र एवोच्चैस्तरामतिशयेनोत्कृष्टा भक्ति-रजायत ।’ इति कपाठः ॥ ७ ॥
प्रकाशिका
उक्तकर्मभिः शुद्धान्तःकरणस्य भगवति भक्तिरुपपन्नेत्याह ॥ एवमिति । एवमुक्तानुसन्धानेन कर्मणां या शुद्धिस्तया शुद्धं सत्त्वमन्तःकरणं यस्य स तथा तस्योच्चैस्तरा-मतिशयेनोत्कृष्टा भक्तिरजायतेत्यन्वयः । कुत्रान्तर्हृदये हृदयान्तस्थे आ समन्तात्काशमाने शरीरे महापुरुषं नारायणमुपलक्षयन्तीतरव्यावृत्ततया ज्ञापयन्तीत्युपलक्षणास्तैः श्रीवत्सादिभिरुपलक्षिते इतरव्यावृत्ततया ज्ञाते निजपुरुषा भक्तास्तैर्हृदि । उल्लिखितेनोत्कृष्टतया ध्यातेनात्मना स्वरूपेणात्मनि स्वस्मिन्विद्यमानपुरुषरूपेण विरोचमाने यादृशं पुरुषरूपं भक्तैर्ध्यातं तादृशेन स्वस्मिन्विद्यमानरूपेण भासमान इत्यर्थः। अनेन तेषामुपासनं न मिथ्योपासनमित्युक्तं भवति । कथंभूता भक्तिः । अनुदिनमेधमानो वर्धमानो रयो वेगो यस्याः सा तथा ॥ ७ ॥
एवं वर्षायुतसहस्रपर्यन्तावसानावसितकर्मनिर्वाणावसरोऽधिभुज्यमानं स्वत-नयेभ्यो रिक्थं पितृपैतामहं यथादायं विभज्य स्वयं सकलसम्पन्निकेतात्स्व-निकेतनात्पुलहाश्रमं प्रवव्राज । यत्र ह वाव भगवान् हरिरद्यापि तत्रत्यानां निजजनानां वात्सल्येन सन्निधाप्यते इच्छारूपेण ॥ ८ ॥
पदरत्नावली
भरतस्य वैराग्योपजृम्भणप्रकारमाह– एवमिति ॥ वर्षायुतसहस्रावसाने अवसितस्य प्रारब्धकर्मणो निर्वाणावसरः नाशलक्षणो यस्य स तथा । (अधि अधिकृत्य भुज्यमानं’ इति कपाठः) रिक्थं राज्याख्यवित्तं स्वतनयेभ्यो यथादायं यथायोग्यं विभज्य स्वयं सकलसम्पन्निकेतात् सर्वसमृद्ध्याश्रयान्निकेतनाद् गृहात् पुलहाश्रमं शालग्रामक्षेत्रं प्रवव्राज । न तत्रान्याधीनत्वेन सन्निधानमित्यभिप्रायेणोक्तम्– इच्छेति ॥ ८ ॥
प्रकाशिका
इदानीं तस्य वैराग्येणारण्यगमनप्रकारमाह ॥ एवमिति । वर्षाणामयुतं तेषां सहस्रं तत्पर्यन्तं तदवसानकाले अवसितो निश्चितः कर्मनिर्वाणावसरो राज्यभोगकरः प्रारब्धनाशो येन स तथा । अधिकृत्य भुज्यमानं रिक्थं राज्याख्यं धनम् । सकलसम्पन्निकेता-त्सकलसमृद्ध्याश्रयान्निकेतनाद्गृहात्पुलहाश्रमं सालग्रामक्षेत्रम् । वात्सल्येन कर्तृभूतेन संन्निधाप्यते सन्निहितः क्रियते । केन रूपेणेत्यपेक्षायामाह ॥ इच्छारूपेणेति । भक्तानामपेक्षितेन रूपेणेत्यर्थः ॥ ८ ॥
यत्राश्रमपदान्युभयतो नाभिभिर्दृषच्चक्रैश्चक्रनदीनाम सरित्प्रवरा सर्वतः पवित्रीकरोति ॥ ९ ॥
पदरत्नावली
कीदृशमिच्छारूपमित्यतस्तद्विवृणोति– यत्रेति ॥ यत्र चक्रनदी नाम सरित्प्रवरा उभयतो नाभिभिर् ऊर्ध्वाधश्चक्रांकितैर्दृषच्चक्रैः शिलासमूहैः सर्वतः पवित्रीकरोती-त्यन्वयः ॥ ९ ॥
प्रकाशिका
यत्राश्रमे आश्रमपदान्याश्रमस्थानान्युभयत उपर्यधश्च नाभयोंऽतःस्थितचक्र निरीक्षणद्वारोत्पत्तिस्थानानि येषां तैर्दृषच्चक्रैः शिलासमूहैश्चक्रनदी गण्डकीनाम प्रसिद्धा ॥ ९ ॥
तस्मिन्वाव किल स एकः१ पुलहाश्रमोपवने विविधकुसुमकिसलयतुल-सिकाम्बुभिः कन्दमूलफलोपहारैश्च समीहमानो भगवत आराधनं विविक्त उपरतविषयाभिलाष उपहृतोपशमः परां निर्वृतिमवाप ॥ १० ॥
पदरत्नावली
स एकस्तस्मिन्पुलहाश्रमोपवने (‘स एकल एकान्तस्थो विविध-कुसुमादिभिर्भगवत आराधनं समीहमानः कुर्वाणो विविक्तः शुद्धान्तःकरणः, उपरतो निवृत्तो विषयाभिलाषो यस्य स तथा,’ इति अधिकांशो कपाठकोशे वर्तते) परां निर्वृतिमवापेत्यन्वयः । उपहृतः संहृतः पूर्ण उपशमो भगवन्निष्ठा यस्य स तथा ॥ १० ॥
प्रकाशिका
तस्मिन्नाश्रमोपवने परां निर्वृतिमापेत्यन्वयः । एक एकल आराधनं समीहमानः कुर्वाणो विविक्तदेशे उपहृतः सम्पादित उपशमो भगवन्निष्ठा यस्य स तथा ॥१०॥
तथैवमविरतपुरुषपरिचर्यया भगवति प्रवर्द्धमानानुरागभारहृतहृदयशैथिल्यः प्रहर्षवेगेनात्मन्युद्भिद्यमानरोमपुलककुलक औत्कण्ठ््यप्रवृत्तप्रणयबाष्पनिरुद्धाव-लोकनयनोऽभिरेमे । एवं निजरमणारुणचरणारविन्दानुध्यानेनोपचितभक्तियोग-परिप्लुतपरमाह्लादगभीरहृदयावगाढधिषणस्तां विक्रियमाणां भगवत्सपर्यां न सस्मार ॥ ११ ॥
पदरत्नावली
प्रवर्धमानानुरागभारेण हृतं गतं हृदयशैथिल्यं संशयलक्षणं यस्य स तथा । आत्मनि देहे रोमपुलककुलकः रोमाङ्कुरसमूहः (‘अत्र कप्रत्ययः समासान्तः’ इति कपाठः) औत्कण्ठ्यमन्तःकरणधर्मविशेषस् तेन प्रवृत्तमुत्पन्नं प्रणयबाष्पमानन्दाश्रु तेन निरुद्धाव-लोकनयनं यस्य स तथा । निजरमणारुणचरणारविन्दयोरनुध्यानेनोपचितेन प्रवृद्धेन भक्तियोगेन परिप्लुतपरमाल्हादश्चायं गभीरहृदय(हृदा•वगाढधिषणश्चेति स तथोक्तः । गभीरहृदये विष्णाव-वगाढा मग्ना धिषणा बुद्धिर्यस्य स तथा । यद्वा परिप्लुतं परमाह्लादं गभीरं हृदयं यस्य स तथा । अत एव हराववगाढा धिषणा यस्य स तथा ॥ ११ ॥
प्रकाशिका
प्रवृद्धमानानुरागभारेण ह्रतमपहृतं हृदयशैथिल्यं मनश्चाञ्चल्यं यस्य स तथा । आत्मनि देहे उद्भिद्यमानानां रोमपुलकानां रोमांकुराणां कुलं समूहो यस्य स उद्भिद्य-मानरोमपुलकुलकः । कप्रत्ययः समासान्तः । औत्कण्ठया प्रवृत्तेन प्रणयबाष्पेणानन्दाश्रुणा निरुद्धोऽवलोको ययोस्ते नयने यस्य स तथा । निजरमणस्य स्वप्रीतिदातुर्येऽरुणे चरणारविन्दे तयोरनुध्यानेनोपचितः समृद्धो यो भक्तियोगस्तेन परिप्लुतः सर्वतो व्याप्तः परमाल्हादो यस्य स चासौ गंभीरहृदयावगाढधिषणश्च गंभीरहृदये विष्णाववगाढा मग्ना धिषणा बुद्धिर्यस्य स तथा
॥ ११ ॥
इत्थं धृतभगवद्व्रत ऐणाजिनवाससाऽनुसवनाभिषेकार्द्रकपिशकुटिलजटा-कलापेन च विरोचमानः सूर्य इव१ भगवन्तं हिरण्मयं पुरुषं ददर्श२ सूर्यमण्डलेऽ-प्युपतिष्ठन्नेतदुहोवाच ॥ १२ ॥
पदरत्नावली
ऐणाजिनवाससा कृष्णाजिनाख्यवस्त्रेण अनुसवनाभिषेकार्द्रकपिशकुटिल-जटाकलापेन च सूर्य इव विरोचमानः (‘सूर्यर्चा ‘रमाब्रह्मशिवादिभ्यो यद् विष्णोः परमं पदम् । रूपं पश्यन्ति निर्मुक्ताः संसारात् सूरयः सदा ॥’ ‘सूरिप्राप्तो यतो विष्णुः सूर्य इत्यभिधीयते’ इत्याद्युक्तदिशा विष्णुगुणप्रतिपादकमन्त्रेण हिरण्मयं ‘स एषोऽन्तरादित्ये हिरण्मयः पुरुषः’ ‘ध्येयः सदा सवितृमण्डलमध्यवर्ती नारायणः सरसिजासनसन्निविष्टः । केयूरवान् मकर-कुण्डलवान् किरीटी हारी हिरण्मयवपुर् धृतशङ्खचक्रः’ इत्यादिनोक्तं पुरुषं गुणपूर्णं नारायणम् उज्जिहाने उद्गच्छति सूर्यमण्डले ॥’ इति कपाठकोशे अधिकांशो वर्तते) ॥ १२ ॥
प्रकाशिका
धृतानि भगवद्व्रतानि येन सः । ऐणाजिनवाससा कृष्णाजिनाख्यवस्त्रेणानु सवनाभिषेकेन त्रिषवणस्नानेनार्द्राः कपिशाश्च याः कुटिला जटास्तासां कलापेन च सूर्य इव विरोचमानः । सूर्यमण्डलेऽपीत्यपिशब्दो हृदयसमुच्चयार्थः । एतद्वक्ष्यमाणमेव ॥ १२ ॥
**परोरजाः१ सवितर्जातवेदो वेदस्य गर्भो मनसेदं जजान । **
स्वरेतसाऽदः पुनराविश्य चष्टे हंसं गृध्राणामृषभं सङ्गृणीमः ॥ १३ ॥
॥ इति श्रीमद्भागवतमहापुराणे पञ्चमस्कन्धे सप्तमोऽध्यायः ॥
तात्पर्यम्– ‘परोरजाऽरजस्कत्वात्त्रयीड्यत्वात्त्रयीसुतः । गुणात्ययात्तुरीयश्च जातवेदाश्च सर्ववित् । हंसो दुःखादिहानेन जीवेशत्वाच्च गृध्रराट् । कालः सर्वनियन्तृत्वात्परमात्मा प्रकीर्तित’ इति तन्त्रनिरुक्ते ॥ १३ ॥
पदरत्नावली
एतन्मन्त्रार्थवाचकं पद्यमाह– परो इति ॥ अथोशब्दवत् परोशब्दोऽव्ययं नाम । रजसः प्रकृते परो पर उत्तमः निरस्तः रजोगुणो वा । सवितः जगतः कर्तः । जातं सर्वं वेत्तीति जातवेदास् तस्य सम्बुद्धिर्जातवेदः । वेदप्रतिपाद्यत्वाद्वेदस्य गर्भः । वेदस्य तनय इत्यर्थः । एतादृशः भगवानिदं जगज् जजान जनयामास । किमुपकरणमत्राह– मनसेति ॥ अनेन सवितृशब्दार्थो लक्षितः । नियन्तृत्वमप्यस्यैवेत्याह– स्वरेतसेति ॥ स्वरेतसा वीर्येणादः ब्रह्मादिजगत् प्रविश्य स्थितम् । दुःखिजगत्सम्बन्धेनास्य दुःखलेशोऽपि नास्तीत्याह– हंसमिति ॥ सर्वस्य दुःखहन्तृत्वात् हंसस् तम् । स्वं स्वतन्त्रम् । गृध्राणां जीवानाम् ऋषभं स्वामिनम् । ‘गृधु अभिकाङ्क्षायां’ इति धातुः । जीवानां सर्वाकांक्षा हि एवंविधं त्वां सङ्गृणीमः स्तुम इत्यन्वयः ।(‘दुःखादिदोषान् जहातीति हं, सारत्वात् सः, हंचासौ सश्चेति तथा । यथोक्तं कौर्मे ‘नित्यं हीनोऽखिलैर्दोषैः साररूपो यतो हरिः । हंस इत्युच्यते तस्माद् वायुस्थः शुचिषत् स्मृतः ॥’ इति ॥ गृध्यन्ति भवबन्धान् मोक्षमभिकाङ्क्षन्तीति गृध्राः सज्जीवाः । ‘गृधु अभिकाङ्क्षायाम्’ इति धातोः । तेषामृषभं सत्तत्वप्रदस्वामिनं सङ्गृणीमः संस्तुमः । अत्रोक्तं तन्त्रनिरुक्ते’ इति कपाठे अस्ति) ‘परोरजाऽरजस्कत्वात् त्रयीड्यत्वात् त्रयीसुतः । गुणात्ययात् तुरीयश्च जातवेदाश्च सर्ववित् ॥ हंसो दुःखादिहानेन जीवेशत्वाच्च गृध्रराट् । कालः सर्वनियन्तृत्वात् परमात्मा प्रकीर्तितः ॥ इति वचनाद् उक्त एवार्थः । परोरजा इत्यनेन शताक्षरगायत्रीप्रतिपाद्यो नारायणो ममेष्टदेवतेत्युक्तम् । परोरजारजस्कत्वादित्यत्र अरज-स्कत्वादिति पदच्छेदश् छान्दसत्वाद्युक्त इति सन्तोष्टव्यम् ॥ १३ ॥
॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुकृतायां
पञ्चमस्कन्धे सप्तमोऽध्यायः ॥
प्रकाशिका
मन्त्रार्थसङ्ग्राहकं पद्यम् ॥ परोरजा इति । इदं दुर्गमार्थत्वात्प्रमाणेनैव विवृणोति ॥ परोरजा इति । अरजस्कत्वान्निर्दोषत्वाद् अरजस्कत्वादिति च्छेदश् छान्दसत्वेनोपपन्न इति ध्येयम् । वेदस्य गर्भ इत्यस्य तात्पर्यम् ॥ त्रयीड्यत्वादिति । वेदतात्पर्यविषयत्वादित्यर्थः । सुतो गर्भो गुणात्ययाद्गुणत्रय सम्बन्धशून्यत्वादित्यर्थः । तुरीय इत्यन्यत्र विद्यमानं तुरीयशब्दार्थकथनम् । सर्वं वेत्तीति सर्ववित् । अनेन जातं विद्यमानं सर्वं वेत्तीति जातवेदा इति निरुक्तिः सूचितेति ज्ञातव्यम् । अनेन जातवेद इत्येतदुक्तार्थम् ॥ दुःखादिहानेनेति । हानेनेत्यर्थः । आदिशब्देनेतरेषां दोषाणां ग्रहणम् । तथा च भक्तदोष-हन्तृत्वेन हंस इत्युच्यते इत्यर्थः । यद्वा हानेन परित्यागेनेत्यर्थः । तदाऽरजस्कत्वादित्यस्य रजोगुणशून्यत्वादित्यर्थः । अतो न पौनरुक्तिशङ्केति ध्येयम् ॥ जीवेशत्वादिति । अनेन गृध्रशब्दो विषयाकाङ्क्षिजीवपरो राट्शब्द ईशवाचीत्युक्तं भवति । अनेन गृध्राणामृषभ इत्येतदुक्ततात्पर्यम् । काल इत्यन्यत्र विद्यमानकालशब्दव्याख्यानम् ॥ ततश्चायं मूलार्थः ॥ परोरजा रजसो रजोगुणाद्दोषाद्वा परो विदूर इत्यर्थः । हे सवितः जगत्प्रसवितः जातं सर्वं विद्यमानं वेत्तीति जातवेदास्तत्सम्बुद्धिर् जातवेदः हे सर्वज्ञ वेदस्य वेदानां गर्भो गर्भ इवान्तस्थस्तात्पर्यविषय इत्यर्थः । जगत्प्रसवितृत्वं न क्लेशेनेत्याह । मनसेति । इच्छामात्रे-णेत्यर्थः । इदं ब्रह्मादिकं जगत्स्वरेतसा जजानोत्पादितवान् । अदो जगत्पुनरुत्पत्त्यनन्तर-माविश्य चष्टे पालयतीत्यर्थः । हंसं भक्तदोषहन्तारं निर्दोषं वा गृध्राणां विषयाकाङ्क्षावतां जीवानामीशम् ऋषभं सङ्गृणीमः स्तुमः । हे सवितर्जातवेदः यः परोरज इत्यादिविशेषणविशिष्टस् त्वं तं हंसं गृध्राणामृषभं त्वां गृणीम इति योज्यम् ॥ १३ ॥
**॥ श्रीमद्वेदेशपूज्यपादशिष्येण यदुपतिना विरचितायां **
श्रीमद्भागतटिप्पण्यां प्रकाशिकायां पञ्चमस्कन्धे सप्तमोऽध्यायः ॥ ५-७ ॥