०६ षष्ठोऽध्यायः

न नूनं भगवन्नात्मरामाणां

॥ अथ षष्ठोऽध्यायः ॥

राजोवाच–

न नूनं भगवन्नात्मरामाणां योगसमीरितज्ञानावभर्जितकर्मबीजानामैश्वर्याणि पुनः क्लेशदानि भवितुमर्हन्ति यदृच्छयोपगतानि ॥ १ ॥

पदरत्नावली

शुभयोगिजनशिक्षार्थमशुभयोगिजनमोहनार्थं च तत्प्रभृति भेदाभेदशास्त्र-प्रवृत्तिप्रकाश इत्येतद् ऋषभदेवचरितापदेशेन निरूप्यतेऽस्मिन्नध्याये ।

तत्रादौ यद्यपि देवादीनामैश्वर्यभोगेन मनःसक्त्यामुक्तिसङ्गानन्द•हासो नास्ति तथाप्यल्पाधि-कारिणां स स्यादित्यादि तात्पर्यं ज्ञाप्यते अत्रानन्तरातीताध्यायान्ते योगैश्वर्याणि नाभ्यनन्द-दित्युक्तम् । तत्र राजा शङ्कते– न नूनमिति ॥ योगेन हरेरुपास्तिलक्षणेन समीरितम् उत्पन्नं यज् ज्ञानं तेनावभर्जितं दग्धं कर्मबीजं रागादिलक्षणं येषान्ते तथा तेषां परमात्मनिरतानां यदृच्छया निच्छयोपगतानि योगैश्वर्याणि पुनः पश्चात् क्लेशदानि भवितुं नार्हन्ति नूनम् । अतः कथं तानि नाभ्यनन्ददित्यन्वयः ॥ १ ॥

प्रकाशिका

योगैश्वर्याणि नाभ्यनन्ददित्युक्तम् । तत्र राजा शङ्कते ॥ न नूनमिति । हे भगवन् । योगेन हरिध्यानरूपेण समीरितं समुत्पन्नं यज्ज्ञानं तेनावभर्जितानि दग्धानि कर्मबीजानि रागादीनि यैस्तेषां यदृच्छया प्राप्तानि योगैश्वर्याणि पुनः क्लेशदानि भवितुं नूनं निश्चितं नार्हन्ति । ज्ञानोत्तरं विकर्मकरणमसम्भावितमित्यर्थः । अतः कथं तानि नाभ्यनन्ददिति वाक्यशेषः ॥ १ ॥

शुक उवाच–

सत्यमुक्तं किन्त्विह वा एके मनसो विस्रम्भमनवस्थानस्य घटकिराट१ इव न सङ्गच्छन्ति ॥ २ ॥

पदरत्नावली

अर्धाङ्गीकारेण परिहरति– सत्यमिति ॥ अनङ्गीकारपक्षमाह– किन्त्विति ॥ एके महात्मानः घटकिराटे नूतनघटे स्थितस्य जलस्येव अनवस्थानस्य विस्त्रम्भं विश्वासं वा इत्यनेन (अर्धाङ्गीकारेण परिहरति– सत्यमिति ॥ आत्मारामाणां योगिनामैश्वर्याणि क्लेशदानि न भवितुमर्हन्तीति सत्यमुक्तम् । किन्तु एके ज्ञानिमुख्या अनवस्थानस्य चञ्चलस्य मनसो विषये विस्रम्भं विश्वासं न सङ्गच्छन्ते । अत्र दृष्टान्तमाचष्टे– शठकिरात इति ॥ शठे किराते ततो विमुक्ता मृगा यथा विस्रम्भं न सङ्गच्छन्ते तथेति । अत्रोत्तमाधिकारिणा-मैश्वर्यादिप्रदानेऽपि क्लृप्तस्य मुक्तिगानन्दस्य ह्रासो न भवति यद्यपि तथापि अधमाधिकारिणां ह्रासो भविष्यत्येव । तस्मात् तैरैश्वर्यादिकं नानुभोक्तव्यमित्यात्मभक्तानां धर्मं ज्ञापयितंु ऋषभो देवस्तन्यैश्वर्याणि न प्रदर्शितवानिति भावः । उक्तार्थे प्रमाणप्रसिद्धिद्योतको वैशब्दः’’ इति कपाठकोशे अधिकांशोऽस्ति) ‘महैश्वर्यस्वरूपोऽपि भगवान्नृषभो विराट् । नैश्वर्याणि स्वकीयानि ख्यापयामास सर्ववित् ॥ उत्तमानां ज्ञापनार्थं धर्मतत्वस्य केशवः । तेषामैश्वर्यभोगे हि मनः सक्तिं व्रजेद्यदि ॥ आनन्दो मुक्तिगो ह्रासं विकर्मकरणाद्व्रजेत् । धर्माधर्मविहीनोऽपि भगवानृषभ-स्ततः ॥ तेषां धर्मज्ञापनार्थं नाविश्चक्रे परां स्थितिम् । देवानां नाशुभात् ह्रासः शुभात्काचि-त्सुखोन्नतिः ॥ आदिकारिकजीवानामेवमन्येषु तु द्वयम् । अल्पाधिकारिणां तत्र ह्रासोऽपि भवति ध्रुवम् ॥ अशुभाभावजोन्नाहो महाधीकारिणामपि । अशुभे कृते न भवति तारतम्याच्च स स्मृतः ॥ प्रजापाश्च तथा देवा महाधीकारिणः स्मृताः । ऋष्यशीतिस्तथा सप्त पितरोऽप्सरसां शतम् ॥ गन्धर्वाणां तथा राज्ञां विंशदन्यासु जातिषु । अल्पाधिकारिणः प्रोक्ता अनधीकारिणः परे’ ॥ इति शास्त्रान्तरप्रसिद्धं तात्पर्यं ज्ञापयति । मठकिराट इति पठित्वा वागुरेति केचिद्व्याचक्षते ते प्रेक्षकाणां परिषद्यसम्प्रदायज्ञा इति परिहसनीया इति ॥ २ ॥

प्रकाशिका

अर्धाङ्गीकारेण परिहरति ॥ सत्यमिति । तर्हि किमिति नाभ्यनन्ददिति पृच्छति ॥ किं त्विति । उत्तरमाह ॥ इह वा इति । एके ज्ञानिनो घटकिराटे नूतनघटे स्थितस्य जलस्यैवेह नूतनविषये मनसोऽनवस्थानस्यावस्थानाभावस्य । आसक्त्यभावस्येति यावत् । विस्रंभं विश्वासं न सङ्गच्छन्ति न सम्यक् प्राप्नुवन्ति । अतो योगैश्वर्यप्रदर्शने मनसः पुनस्तत्रासक्तौ विकर्मकरणं स्यादेवातो नाभ्यनन्ददित्यर्थः ॥ २ ॥

तथा चोक्तम्–

न कुर्यात्कस्यचित्सख्यं१ मनसि ह्यनवस्थिते ।

यद्विस्रम्भाच्चिराच्चीर्णं चस्कन्द तप ऐश्वरम् ॥ ३ ॥

पदरत्नावली

त्रैलोक्यशिक्षार्थं श्लोकसङ्ग्रहणमुक्तमित्याह– तथा चोक्तमिति ॥ यथा मनोविश्वासे तपआदेर्विस्त्रम्भणं भवति तथा चोक्तमित्यर्थः । ऐश्वरमीश्वरविषयम् । अनेन सौभर्यादीश्वराणामपि यथा तपःस्कन्दितं तथेति ध्वनयति (‘उक्तार्थे विश्वासाधिक्यजननाय शिष्टप्रसिद्धिमेवाह– तथा चोक्तमिति ॥ मनसि ह्यनवस्थिते चञ्चले सति कर्हिचित् कदाचिदपि केनापि सह सङ्गं न कुर्यात् । यस्य मनसो विस्रम्भाद् विश्वासादैश्वरं योगेश्वराणां सौभर्यादीनां सम्बन्धि’। इति कपाठः) ॥ ३ ॥

प्रकाशिका

ज्ञानिमनसो विषयासक्त्यभावे विश्वासो नास्तीत्यत्र पूर्वाचार्यसंमतिमाह ॥ तथा चोक्तमिति ॥ न कुर्यादिति । कस्यचिदर्थस्य विषये मनसि सख्यं विश्वासम् । कथंभूते । अनवस्थिते एकत्र निष्ठाशून्ये । यद्विस्रंभाद्यस्य मनसो विश्वासादैश्वरं योगेश्वराणां सौभर्यादीनां सम्बन्धि ॥ ३ ॥

नित्यं ददाति कामस्य छिद्रं तमनु येऽरयः ।

योगिनः कृतमैत्रस्य पत्युर्जायेव पुंश्चली ॥ ४ ॥

पदरत्नावली

छिद्रमवकाशं तमनु कामानन्तरं ये अरयः क्रोधादयस् तेषां च छिद्रं ददातीत्यर्थः । कृतमैत्रस्य मनसा सहेति शेषः । पुंश्चली पुरुषमात्राभिगामिनी । जाया पत्युररीणाम् उपपतीनां प्रवेशमिव ॥ ४ ॥

प्रकाशिका

न कुर्यादित्येतदुपपादयति ॥ नित्यमिति । कृतमैत्रस्य कृतविश्वासस्य योगिनः । मन इति शेषः । कामस्य तमनु येऽरयस्तेषां यच्छिद्रमवकाशं नित्यं ददाति । यथा कृतविश्वासस्य पत्युः पुंश्चली जाया तदरीणां जाराणामवकाशं दत्वा तैः पतिं घातयति । तथा मनोऽपि कामादीनामवकाशं दत्वा तैर्योगिनं भ्रंशयतीत्यर्थः ॥ ४ ॥

कामो मन्युर्मदो लोभः शोकमोहभयादयः ।

कर्मबन्धश्च यन्मूलः स्वीकुर्यात्को नु तद्बुधः ॥ ५ ॥

तात्पर्यम्

‘महैश्वर्यस्वरूपो हि भगवान्नृषभो स्वराट् । नैश्वर्याणि स्वकीयानि ख्यापयामास सर्ववित् । उत्तमानां ज्ञापनार्थं धर्मतत्त्वस्य केशवः । तेषामैश्वर्यभोगे हि मनः सक्तिं व्रजेद्यदि । आनन्दो मुक्तिगो ह्रासं विकर्मकरणाद्व्रजेत् । धर्माधर्मविहीनोऽपि भगवानृषभस्ततः । तेषां धर्मस्थापनार्थं नाविश्चक्रे परां स्थितिम् । देवानां नाशुभाद्ध्रासः शुभात्काचित्सुखोन्नतिः । आधिकारिकजीवानामेवमन्येषु तद्द्वयम् । अल्पाधिकारिणां तत्र ह्रासोऽपि भवति ध्रुवम् । अशुभाभावजोन्नाहो महाधीकारिणामपि । अशुभे कृते न भवति तारतम्याच्च स स्मृतः । प्रजापाश्च तथा देवा महाधीकारिणः स्मृताः । ऋष्यशीतिस्तथा सप्त पितरोऽप्सरसां शतम् । गन्धर्वाणां तथा राज्ञां विंशदन्यासु जातिषु । अल्पाधि-कारिणः प्रोक्ता अनधीकरिणः पर’ इति ब्रह्माण्डे ॥ ५ ॥

पदरत्नावली

पात्रे प्राप्ते द्रव्यात्यागेच्छा लोभः । अतीतदुःखस्मरणनिमित्तचित्तविक्षेपः शोकः । विपरीतज्ञानं मोहः । पूर्वस्थितात्संवलनं भयम् । कर्मणा संसारबन्धः । यन् मनो मूलं यस्य स तथा । को नु बुधस्तन्मनो ममेष्टमिति स्वीकुर्यादित्यर्थः ॥ ५ ॥

प्रकाशिका

अरय इत्युक्तारीन् दर्शयन्नुपसंहरति ॥ काम इति । यन्मूलो यन्निमित्तो भवति तन्मनः को नु बुधः स्वीकुर्यादिदं स्वाधीनमिति विश्वासं कुर्यान्न कोऽपीत्यर्थः । नन्वत्र नाभ्यनन्ददिति पूर्वाध्यायान्ते ऋषभो विकर्मप्रसक्तिशङ्कया योगैश्वर्याणि न प्रदर्शितवानित्युक्ते ज्ञानिनो विकर्मकरणमसम्भावितमिति राज्ञा पृष्टे ज्ञानिनोऽपि विकर्मकरणं सम्भावितमिति मुनिनोपपादितं न चेदं सर्वम् ऋषभस्य सम्भवति । तस्य भगवदवतारत्वेन विकर्मप्रसक्तिशङ्काया एवाभावात् । ज्ञानिनामपि विकर्म सम्भावितमित्युपपादनमपि व्यर्थम् । तेषां विकर्मसम्भवेऽपि तल्लेपाभाववचनादिति शङ्काद्वयनिरासायैतत्प्रकरणतात्पर्यं प्रमाणेनैवाह ॥ महैश्वर्यस्वरूप इति । अनेन वासुदेवे सिद्धसमस्तार्थे परिपूर्णे इत्येतत्प्रमापितमिति ज्ञेयम् ।

नाभ्यनन्ददित्यस्यार्थमाह ॥ नैश्वर्याणीति । तत्राद्यशङ्कानिरासायाभिप्रायमाह ॥ उत्तमानामिति । उत्तमानां ज्ञानिनां धर्मतत्त्वस्य सिद्धमपि योगैश्वर्यं न प्रदर्शनीयमित्येवंरूपस्य ज्ञापनार्थम् । न त्वस्य पापशङ्कया । ज्ञानिभिरेवं भाव्यमिति शिक्षणायैव भगवता योगचर्याचरणे प्रवृत्तत्वादित्याशयः । ज्ञानिनां योगैश्वर्यप्रदर्शनेऽनिष्टमुपपादयन् द्वितीयशङ्कां परिहरति ॥ तेषामिति । तेषां मनः कर्त्रैश्वर्यभोगे । प्रदर्शिते सतीति शेषः । तर्हि विकर्म प्रसक्तं स्यात् । विकर्मकरणान्मुक्तिग आनन्दो ह्रासं व्रजेत् । ततश्च ज्ञानिनां विकर्मकरणेनाशुचित्वादिरूपफला-भावाभिप्रायेणैवालेपोक्तिः शास्त्रे न सर्वथा लेपो मौक्तानन्दह्रासरूपतया सद्भावादित्युक्तं भवति । शङ्काद्वयपरिहारमुपसंहरति ॥ धर्माधर्मेति । ततस्तेषां ज्ञानिनां विकर्मकरणेनानर्थसद्भावात् । परां स्थितिं योगैश्वर्यरूपाम् । ननु ज्ञानिनां विकर्मकरणेन मौक्तानंदह्रासे देवानामपि ज्ञानित्वा-त्तत्सम्भवे श्रुत्युक्ततारतम्यभङ्गप्रसङ्ग इत्यत आह ॥ देवानामिति । ह्रासः । क्लृप्तसुखस्येति शेषः । देवानां शुभमपि व्यर्थं किं नेत्याह ॥ शुभादिति । शुभोन्नतिः क्लृप्तस्य सर्वस्या-प्यभिव्यक्तिः । देवानामित्युपलक्षणेनोक्तम् । अन्येषामप्येवमित्याह ॥ आधिकारिकेति । एवं शुभाशुभफलाभ्यां क्लृप्तस्य वृद्धि•हासाभावः । अन्येष्वाधिकारिकजीवभिन्नेषु विशेषणद्वयम् ।

अशुभः क्लृप्तसुखह्रासः शुभात् । स्वसमानापेक्षयाऽऽधिक्येन क्लृप्तसुखाविर्भाव इति द्वयं भवतीत्यर्थः । आधिकारिकजीवानामित्युक्तस्यापवादमाह ॥ अल्पेति ॥ तत्राधिकारिजीवेषु मध्ये येऽल्पाधिकारिणस्तेषामशुभकरणेन क्लृप्तसुखस्यापि ह्रासः । अपिशब्दात्समानापेक्ष-याऽऽधिक्येन क्लृप्तसुखाभिव्यक्तिः । यथा हरिश्चन्द्रस्य राजसूययागकरणेन वृद्धिः । अतस्त्रिशंकु-पुत्रको नृपानतीत्य वर्तत इति वचनात् । आधिकारिकेषु ये महाधिकारिणस्तेषामपि विकर्म-करणात् क्लृप्तह्रासाभावेऽपि किञ्चिदनिष्टं भवतीत्याह ॥ अशुभेति । अशुभाभावजोऽशुभ-करणात्पूर्वं य उन्नाह उत्कर्षः समुद्रतरंगोपमः सोऽशुभे कृते न भवति । क्लृप्ते सुखे तरङ्ग-वदभिवृद्धिस्तदभावः प्राप्तो भवतीत्यर्थः । यथाऽर्जुनादीनामतिमानादिना मुक्तावुक्तरूपोन्नाहा-भावः । कदाचिदतिमानोऽपि त्रयाणामेषु जायते । तथाऽपि तत्फलं नैतत्तारतम्यं विमुक्तगमिति भारततात्पर्यनिर्णयेऽभिहितत्वात् । अशुभकरणप्राप्तोन्नाहाभावस्तारतम्यादेव स्मृत इत्यर्थः ।

आधिकारिकेषु के महाधिकारिणः के वाऽल्पाधिकारिणः के च तदन्या इत्यपेक्षायां तान्दर्शयति ॥ प्रजापाश्चेति । प्रजापा मरीच्यादयोऽन्यासु जातिषु सिद्धचारणादिषु विंश-द्विंशतिः परे उक्तातिरिक्ता अनधिकारिणः । आधिकारिका न भवन्तीत्यर्थः । एतादृश-प्रमाणप्रसिद्धिद्योतनायैव मूले वा इत्युक्तम् । तथा चोक्तरीत्या ज्ञानिशिक्षणाय ऋषभो नाभ्यनन्ददित्युक्ते ज्ञानिनोऽपि कुत एवं शिक्षणीयास्तेषां विकर्मकरणप्रसक्तेरेवाभावादित्यभि-प्रायेणैव राज्ञा पृष्टे ज्ञानिनामप्युक्तरीत्या सर्वेषां विकर्मकरणादिनाऽनिष्टप्रसक्तेः प्रामाणिकत्वात्ते शिक्षणीया एवेत्याशयेन शुकेन परिहार उक्तः । तदेतत्प्रकरणतात्पर्यमित्याशयः ॥ ५ ॥

**अथैवमखिललोकपालललामो विलक्षणो जडवदवधूतवेषभाषाचरितैर-विलक्षितभगवत्प्रभावो योगिनां साम्परायविधिमनुशिक्षयन्स्वकलेवरं जिहा-सुरात्मन्यात्मानम संव्यवहितमनर्थान्तरभावेनान्वीक्षमाण उपरतानुवृत्तिरुपरराम **

॥ ६ ॥

तात्पर्यम्

**‘विष्णोः कलेवरत्यागो भूत्यागोऽन्यो न विद्यते । कलेवरत्यागोऽन्येषां पञ्चत्वं समुदीरितम्’ इति कौर्मे ॥ अनर्थान्तरभावेन अर्थान्तरमिति नास्तीति मनसा **

॥ ६ ॥

पदरत्नावली

अधुना प्रासङ्गिकं मोहं परिहृत्य प्रकृतमनुसरति– अथेति ॥ ‘विष्णोः कलेवरत्यागो भूत्यागोऽन्यो न विद्यते । कलेवरत्यागोऽन्येषां पञ्चत्वं समुदीरितम्’ इति वचनात् स भगवान् स्वकलेवरं स्वाधीनां पृथिवीं जिहासुस् त्यक्तुमिच्छन् उपरराम विरतव्यापारो बभूवेत्यन्वयः । कलेवरशब्दस्य प्रतीत एवार्थः किं न स्यादित्याशङ्क्य वक्ष्यमाणानां विशेषणानां प्राकृतपुरुषेऽसम्भवादुक्त एवार्थ उचित इति भावेनाह– अखिलेति ॥ अखिललोकपालानां ललामश्चूडामणिः । अनेनाप्राकृतत्वं कथमवगतमित्यत उक्तम्– विलक्षण इति ॥ लोक-विपरीतलक्षणः । अस्थूलमनण्व•हस्वमित्यादेः । कथं तर्हि तस्य प्रभावो न लक्ष्यत इत्यत उक्तम्– जडवदवधूतेति ॥ किमतः प्रयोजनमत उक्तम्– योगिनामिति ॥ साम्परायविधिं मोक्षसाधनप्रकारम् । उपहितस्यास्य शिक्षा कथं मोक्षोपयोगिनी स्यादित्यत उक्तम्– आत्मनीति ॥ आत्मानं स्वस्वरूपमात्मनि ब्रह्मणि अनर्थान्तरभावेन भिन्नो नास्तीति मनसा संव्यवहितं व्यवधानरहितम् अन्वीक्षमाणोऽनुभवन्नुपरतानुवृत्तिर् निवृत्तविषयानुवृत्तिर् निवृत्त-मुक्त्यन्यवस्थो वा । नित्यमुक्त्यवस्थत्वादिति ॥ ६ ॥

प्रकाशिका

प्रासंगिकं समाप्येदानीं प्रकृतमाह ॥ अथेति । अखिलानां लोकपालानां ललामोऽलंकारभूतोऽत एव लोकविलक्षणः । कथं तर्हि तत्प्रभावो लक्ष्यत इत्यत उक्तम् ॥ जडवदिति । जडे यथा भगवत्प्रभावो न लक्ष्यते तथाऽवधूतवेषादिभिरविलक्षितो भगवत्प्रभावो यस्मिन्स तथा । सांपरायविधिं मोक्षसाधनप्रकारम् ॥ कलेवरं जिहासुरिति । अत्र विवक्षितं कलेवरत्यागं प्रमाणेनैव दर्शयति ॥ विष्णोरिति । विष्णोस्तदवतारस्य कलेवरत्यागो यत्रोच्यते तत्र भूत्यागो व्याख्येयः । कुत इत्यत उक्तम् । अन्यः शरीरत्यागो न विद्यते यत इत्यर्थः । शरीरत्यागपरतया व्याख्यानेन तद्वाक्यं बाधितार्थकं स्यादिति भावः । अन्येषां कलेवरत्यागो यत्रोच्यते तत्र पञ्चत्वं शरीरत्यागरूपं मरणमेव सम्यगबाधितं यथा स्यात्तथोदीरितम् । तथा च यस्य पृथिवी शरीरमित्यादिना स्वकलेवरत्वेन प्रसिद्धां भूमिं जिहासुरित्येव मूलं व्याख्येयमिति भावः । शरीरत्यागोऽर्थो न भवतीति सूचनायैवाखिललोकेत्यादि विशेषणानि । अनुशिक्षण-प्रकारमेवाह ॥ आत्मनीति । अत्रानर्थान्तरभावेनेत्यस्य प्रकृतसङ्गतमर्थं दर्शयति ॥ अनर्थान्तरेति । अर्थान्तरं भिन्नोऽर्थो नास्तीति नञोऽर्थः । नास्तीति पाठे न भवतीत्यर्थः । मध्यमपदलोपी समास इत्यभिप्रेत्य प्रकारार्थकेतिशब्दः । भावेनेत्यस्यार्थः ॥ मनसेति । तथा चात्मनि परमात्मनि । आत्मानं स्वात्मानमनर्थान्तरभावेनार्थान्तरो भिन्नार्थको नास्तीत्येवं-प्रकारको यो भावो मनस्तेनासंव्यवहितं व्यवधानरहितम् । अनवरतमिति यावत् । अन्वीक्षमाणः पश्यन् । अनेन योगिनां परमात्मन्यवताराभेदो मरणकालेऽनुसन्धेय इति शिक्षणं कृतमिति ज्ञातव्यम् । पुनः शिक्षणीयं दर्शयति ॥ उपरतानुवृत्तिरिति । परित्यक्तविषयानुभव इत्यर्थः । उपरराम समीपस्थमूलरूपस्मरणं कृतवानित्यर्थः ॥

तस्य ह वा एवं मुक्तलिङ्गस्य भगवत ऋषभस्य योगमायावसानो देह इमां जगतीमभिमानाभासेन चङ्क्रममाणः ॥ ७ ॥

एकदा तु काङ्कटकर्णाटकाद्दक्षिणकर्णाटकान् देशान् यदृच्छयोपगतः कुटचा-चलोपवने आस्यकृताश्मकवल उन्माद इव मुक्तमूर्द्धजोऽसंवीत एव विचचार

॥ ८ ॥

तात्पर्यम्

अभिमानाभासेन अभितो ज्ञानप्रकाशेन ॥ ७ ॥

पदरत्नावली

इदानीं हरेर्देहः सच्चिदानन्दत्वेन तदभिन्न इति दर्शयितुं तस्य सञ्चरण– प्रकारं वक्ति– तस्य ह वेति ॥ एकदा तस्य ऋषभस्य देह इमां जगतीं विचचारेत्यन्वयः । मुक्तलिङ्गस्य वर्णाश्रमादिलक्षणरहितस्य भौतिकशरीररहितस्य वा । योगमायाया योगसामर्थ्यं तस्यावसानं काष्ठोत्कर्षो यस्य स तथा । देहस्य जडस्य सञ्चरणं कथं घटत इत्यत उक्तम्– अभिमानाभासेनेति ॥ अभितो ज्ञानप्रकाशेन चङ्क्रममाणः पुनः पुनः पादविक्षेपं कुर्वाणः । ज्ञानात्मकत्वाद् गमनादिक्रियां कुर्वाण इत्यर्थः । अनेन देहदेहिनोरभेदोऽपि सूचित इति ।

कस्मात्कान् देशानुद्दिश्य गमनमित्यत उक्तम्– काङ्कटकर्णाटकादिति ॥ काङ्कट कर्णाटकाद् भीमरथ्युपपदनदीमातृकदेशाद् दक्षिणकर्णाटकान् सौराष्ट्रादिदेशान् स्वेच्छयोपगतः । तत्र नागपुरग्रामात्पूर्वत उत्तरनदीनामास्ति । तस्यानिकटे कुटचाचलस्य कुटचपर्वतस्य प्राचीनसानौ विद्यमाने उपवने स्थित आस्यकृताश्मकवलः मुखान्तर्गतपाषाणग्रासः । असंवीतो वस्त्राद्यावरणरहितः । उन्मादे सति पुमान् यथा चेष्टते तथेत्यर्थः ॥ ७,८ ॥

प्रकाशिका

इदानीं तस्य देशान्तरगमनप्रकारं वक्ति ॥ तस्य हवेति । एकदा ऋषभस्य देहो इमां जगतीं विचचारेत्यन्वयः । देहस्य कर्तृत्वोक्त्या तद्देहश्चेतनात्मक इति दर्शयति । अत एवाह ॥ मुक्तलिङ्गस्येति । दूरीकृतजडदेहस्येत्यर्थः । परित्यक्तवर्णाश्रम-चिन्हस्येति वा । योगमाया योगसामर्थ्यं तस्यावसानमुत्कर्षकाष्टा यस्य स तथा । अनेनापि देहस्य ऋषभाभेद उक्त इति ज्ञातव्यम् । अभिमानाभासेनेत्यस्य योग्यमर्थं दर्शयति ॥ अभिमानेति । अभीत्यस्यार्थोऽभित इति । मानेत्यस्यार्थो ज्ञानेति । आभासेनेत्यस्यार्थः प्रकाशेनेति । तथा च अभि अभितोऽण्डान्तर्बहिश्च ज्ञानप्रकाशात्मकेन । मनसेति शेषः । अनेन मनोऽपि न जडरूपमिति दर्शितम् । चङ्क्रममाणः पुनः पुनः पादविक्षेपं कुर्वाणः ।

काङ्कटकर्नाटकाद्भीमरथीप्रान्तप्रदेशाद्दक्षिणकर्नाटकान् सौराष्ट्रादिदेशान् यदृच्छया स्वेच्छयोप-गतः प्राप्तः । तत्र कुटचाचलस्य कुटकपर्वतस्योपवने मौनभङ्गभियाऽऽस्ये कृतोऽश्मकवलो येन स तथा । असंवीतो नग्न उन्माद इवोन्मादे सति पुमान्यथा चेष्टते तथेत्यर्थः ॥ ७,८ ॥

अथ समीरवेगविधुतवेणुनिर्घर्षणजातो१ दावानलस्तद्वनमालेलिहानः सह तेन ददाह ॥ ९ ॥

तात्पर्यम्

‘ज्ञानानन्दात्मको देहो ऋषभस्य महात्मनः । तादृशेनैव मनसा क्रमंस्तु कुटचाचले । दावाग्निमनुविश्याथ तत्रस्थः प्रादहज्जगत् । एवमग्नेरभिव्यक्तस्तत्स्थो विष्णुः सनातनः । ऋषभत्वेन सङ्गोप्य धर्मानद्यापि तत्रगः । आस्ते स वासुदेवात्मा वासुदेवोऽहमित्यजः ॥ सदा स्थितः स्थितिं तां तु शुश्रावार्हो दुरात्मवान् । पूर्वं तु पौण्ड्रको नाम वासुदेवः सुदुर्मतिः । जातिस्मरो द्विधा शास्त्रं पाषण्डं निर्ममे नृपः । एकं तु वासुदेवाख्यं वासुदेवोऽहमित्यपि । कुत्सितं वासुदेवत्वप्रतिपादकमात्मनः । लोकार्थं चापरमपि चकारार्हतनामकम् ॥ ‘तत्प्रशिष्यः क्रमुर्नाम न जानंस्तन्मतं परम् । वासुदेवात्मतां सर्वजीवानामवदत्कुधीः । क्रम्वाख्यं शास्त्रमकरोदभेदप्रतिपादकम् । कुशास्त्रं सर्ववेदानां विरुद्धं तामसालयम् । तद्दृष्ट्वाऽद्यापि वर्तन्ते वर्तिष्यन्ति कलौ तथा । अशौचा अव्रताचारा वासुदेवोऽहमित्यपि’ इति ब्राह्मे ॥ ९ ॥

पदरत्नावली

इदानीं तस्य देहत्यागव्याजेन दावाग्निनिविष्टस्य जगत्संहारप्रकारमाह– अथेति ॥ समीरवेगेन विधुता अन्योन्यमाकंपिता ये वेणवः वंशास्तेषां निकर्षान्निष्पेषणाज्जातो यो दवानलो ज्वलज्जिव्हया दिवमालेलिहानस्तेनाग्निना साधनेन सह भगवांस्तदुपवनं ददाहेत्यन्वयः । वनमित्युपलक्षणं जगदपीति शेषः । अत्र प्रतीतमनङ्गीकृत्यान्यार्न्थाङ्गीकारे किं प्रमाणमत्रोच्यते– ‘ज्ञानानन्दात्मको देह ऋषभस्य महात्मनः । तादृशेनैव मनसा क्रमंस्तु कुटचाचले । दावाग्निमनुविश्याथ तत्रस्थः प्रादहज्जगत् ॥’ इति । कालान्तरभाविनो विश्व-संहारस्येदानीमयं कर्तेति कथं युज्यत इति चेत् । न । तद्देहित्वेनाग्नेरभिव्यज्य तत्र स्थितस्य तस्य योगात् । तदुक्तं– ‘एवमग्नेरभिव्यक्तस्तस्थौ विष्णुः सनातनः’ इति । न केवलं विश्वक्षय-पर्यन्तमेव स्थितं किन्तु पश्चादपि मतम् । तर्हि स्वमाहात्म्यं किं न प्रकटितमिति चेन्न । भूमाववतारस्य देवशिक्षणार्थत्वेन धर्माणामप्राकट्यस्य स्वधर्मत्वात् । ‘ऋषभत्वेन सङ्गोप्य धर्मानद्यापि तत्रगः । आस्ते स वासुदेवात्मा वासुदेवोऽहमित्यजः ॥ सदा स्थित’ इत्यनेन स्वरूपज्ञानस्य कदापि तिरोभावो नास्तीति सूचितम् । निर्लेपेन सर्वज्ञेन सर्वोत्तमेन हरिणा किं प्रयोजनमकारीति चेन्न । असुरजनमोहनार्थत्वात् ॥ ९ ॥

प्रकाशिका

इदानीं तस्यांतर्धानेन स्थितिमाह ॥ अथेति । अत्र ऋषभदेहस्य दावानलस्तेन सह ददाहेत्यग्निदग्धत्वमुच्यते । तत्पूर्ववाक्यविरुद्धम् । तत्रोक्तरीत्या तद्देहस्य ऋषभाभेदावगमात् । अत एतत्प्रकरणतात्पर्यं प्रमाणेनैव दर्शयति ॥ ज्ञानानन्देति । अनेन मुक्तलिङ्गस्य योगमायावसान इत्यनयोस्तात्पर्यमुक्तमिति ज्ञातव्यम् । तादृशेनैव ज्ञाना-नन्दात्मकेनैव । मनसेत्यनेनाभिमानाभासेनेत्यस्यार्थकथनम् । मानाभ्यासाभ्यामानन्दोऽप्युपलक्ष्यो मनसेत्यध्याहार्यमिति सूचयति । क्रमंस्तु कुटचाचल इत्यनेन कुटचाचलोपवने विचचारे-त्युक्ततात्पर्यम् । दावाग्निमनुविश्याथेत्यनेनाथ समीरवेगेत्यादिकमुक्तार्थम् । अथ दावाग्निमनु-विश्येत्यन्वयः । अनेन मूलेऽथेत्यनन्तरं दावाग्नौ प्रविष्टो बभूवेति शेषं सूचयति । तत्रस्थोऽग्नौ विद्यमानस्तत्रत्यं जगत्प्रादहत् । अनेन दावानलस्तेन स्वाविष्टेन ऋषभेण सह ददाह । न तु स्वयमेवेति मूलार्थं सूचयति । एवमुक्तरीत्या तत्स्थोऽग्निस्थो विष्णुरग्नेः सकाशादजो यतोऽतः पुनरभिव्यक्तः सन् ऋषभत्वेन स्वात्मानं सङ्गोऽप्याहम् ऋषभो न भवामीति प्रतिपादयन्नित्यर्थः । अद्यापि तत्रगः कुटचाचलोपवनगो धर्मानाचरन्नास्ते । किं प्रतिपादयन्नास्त इत्यपेक्षायामुक्तम् । अहं वासुदेवोऽस्मीति यत्सन्निर्दुष्टं मतं तदास्थित आश्रितः । तत्प्रतिपादक इति यावत् । ननु वासुदेवोऽहमिति मतं कथं सदित्यत उक्तम् । यतो वासुदेवात्मा स्वयं वासुदेवस्वरूप इत्यर्थः । दुरात्मवान् दुष्टमना अर्हो नाम राजा । तुशब्दोऽवधारणे । तामेव स्थितिम् । कश्चनाग्ने-रभिव्यक्तोऽलौकिकः पुरुषोऽहमेव वासुदेव इति प्रतिपादयतीति स्थितिं शुश्राव । तदुपदिष्टर्षि-मुखादिति शेषः । दुरात्मत्वोपपादनायाह ॥ पूर्वं त्विति । वराहकल्पात्पूर्वं पद्मकल्प इत्यर्थः । जातिस्मरोऽहं वसुदेवजातत्वाद्वासुदेवो भवामीति पूर्वजन्मस्मरणवानित्यर्थः । वासुदेवो भगवान् जीवाभिन्नतयाऽऽख्यायतेऽनेनेति वासुदेवाख्यम् । एतदेवाह ॥ वासुदेवोऽहमिति । अपिशब्दो गर्हायाम् । वासुदेवोऽहमिति आत्मनोऽप्यतदर्हस्यापि स्वस्यैकस्यैव जीवस्य वासुदेवत्वप्रतिपादकमत एव कुपथं लोकार्थे परमर्हतनामकमहिंसादिकं धर्मप्रतिपादकं चकार इति द्विधा शास्त्रं निर्मम इत्यन्वयः । तन्मतमेकस्यैव जीवस्य वासुदेवत्वप्रतिपादकं मतं परमुत्तमं नेति जानन्नित्यर्थः । तामसालयं तामसाग्रहविषयम् । अनेन यस्य किलेत्यारभ्य प्रवर्तयिष्यत इत्यन्तमुक्तार्थम् । वर्तन्ते तन्मतमनुवर्तन्ते । कलावप्यनुवर्तयिष्यन्ति । वासुदेवोऽहमिति । मतमिति शेषः । अनेन येन ह वै कलावित्यादिकमुक्तार्थम् । ततश्चायमथ समीरवेगेत्यादेरर्थः । अथ दावानले प्रविष्टे । बभूवेति शेषः । समीरो वायुस्तद्वेगेनावधूतानां प्रकंपितानां वेणूनां निर्घर्षणान्नितरामन्योन्यं सङ्घर्षणाज्जातो यो दावानल आलेलिहानो ज्वालया सर्वतो ग्रसंस्तेन स्वप्रविष्टेन ऋषभेण सह न तु स्वयमेवेत्यर्थः । ददाह तत्रत्यं जगदिति शेषः ॥ ९ ॥

यस्य किलानुचरितमुपाकर्ण्य काङ्कटकर्णाटकानां दक्षिणकर्णाटकानां १राजार्हनामोपशिक्ष्य कलावधर्म उत्कृष्यमाणे भवितव्येन विमोहितः स्वधर्म-पथमकुतोभयमपहाय कुपथं पाषण्डमसमञ्जसं निजमनीषया मन्दः सम्प्रवर्त्त-यिष्यते ॥ १० ॥

पदरत्नावली

किमनेन तदभूदिति तत्राह– यस्येति ॥ जनानुपशिक्ष्य उत्कृष्यमाणे वर्धमाने । भवितव्येन विधिना । निजमनीषयेत्यनेन अर्हस्यासुरत्वमसूचि । मन्दो निर्भाग्य इत्यनेन आनन्दात्मपुरुषार्थशून्य इति ध्वनयति । भगवन्मततात्पर्यं न जानातीति वा । उपाकर्ण्येत्यनेन ‘स्थितिं तां तु शुश्रावार्हो दुरात्मवान्’ इति वाक्यं स्मारयति । पाख(ष)ण्डमद्वैतम् असमञ्जसं जैनमतमित्यनेन शास्त्रद्वयमनेनाकारीति सूचितम् । तदुक्तम्– ‘पूर्वं तु पौण्ड्रको नाम वासुदेवः सुदुर्मतिः । जातिस्मरो द्विधा शास्त्रं पाखण्डं निर्ममे नृपः । एकं तु वासुदेवाख्यं वासुदेवाहमित्यपि । कुत्सितं वासुदेवत्वप्रतिपादकमात्मनः । लोकार्थं चापरमिति चकाराऽर्हतनामकम्’ ॥ इति । अनेनार्हस्य पूर्वजन्मनि पौण्ड्रकाख्यासुरत्वं स्पष्टीकृतम् । वासुदेवोऽहमित्यात्मनो जीवस्य वासुदेवत्वप्रतिपादकवासुदेवाख्यं कुत्सितमेकं शास्त्रं परमार्हतनामकं लोकार्थं महिं साधर्मप्रतिपादकमपरं चकारेत्यन्वयः ॥ १० ॥

प्रकाशिका

यस्य पुनरग्नेरभिव्यक्तस्यानुचरितं स्थितिमुपाकर्ण्य श्रुत्वा जनानुपशिक्ष्य शिक्षयित्वोत्कृष्यमाणे वर्धमाने भवितव्येन तत्रत्यासुरजनपापफलदेन हरिणा पाषण्डमुक्तरीत्या द्विविधं शास्त्रम् । निजमनीषयेत्यनेन नायम् ऋषभाभिप्राय इति सूचयति ॥ १० ॥

येन ह वा कलौ मनुजापसदा देवमायाविमोहिताः स्वविधिनियोगशौचाचार-विहीना देवहेलनादीन्यपव्रतानि निजेच्छया गृह्णाना अस्नानानाचमनाशौचकेशो-ल्लुञ्चनादीनि कलिनाऽधर्मबहुलेनोपहतधियो ब्रह्मब्राह्मणयज्ञपुरुषलोकविदूषकाः प्रायेण भविष्यन्ति ॥ ११ ॥

पदरत्नावली

शास्त्रस्य प्रचयगमनमाह– येनेति ॥ येन शास्त्रद्वयेन । हवा इति निपात द्वयेन । तत्प्रशिष्येण क्रमुणा विरचितेन शास्त्रेणेति स्मारितं तदुक्तम्– ‘तत्प्रशिष्यः क्रमुर्नाम न जानंस्तन्मतं परम् । वासुदेवात्मतां सर्वजीवानामवदत् कुधीः ॥ क्रम्वाख्यं शास्त्रमकरोद् अभेदप्रतिपादकं कुशास्त्रं सर्ववेदानां विरुद्धं तामसालयं तद्दृष्ट्वा अद्यापि वर्तन्ते वर्तिष्यन्ति तथा कलौ अशौचा अव्रताचारा वासुदेवोऽहमित्यपि’ ॥ इति । एतदभिप्रायेण अस्नानेत्याद्युक्तम् । मनुजापसदा मनुष्याभासाः स्वविधिः स्वकीयो वेदस् तस्य नियोगं लिडाद्यर्थो ‘मलवद्वाससा न संवदेत’ इत्यादिकस् तेन विहितः शौचाद्याचारः विष्ण्वादिदेवानां हेलनादीन्य– भेददर्शनाव-ज्ञानादीनि अपव्रतानि वेदविरुद्धव्रतानि । निजेच्छया प्रमाणं विना । किंचास्नानादीनि गृह्णाना गृह्णन्तः । निमित्तमाह– कलिनेति ॥ देवहेलनादिविशिनष्टि– ब्रह्मेति ॥ ११ ॥

प्रकाशिका

येन द्विविधेन शास्त्रेण मनुजापसदा मनुष्याधमास्तत्प्रशिष्यक्रमुकृतशास्त्रानु-सारिणः स्वविधिः स्ववर्णाश्रमोचितधर्मविधायको वेदस्तस्य नियोगो नियोजनं विधानं यस्य शौचाचारस्य तेन विहीना देवहेलनादीनि देवद्रोहकरादीनि । अपव्रतानि वेदविरुद्धव्रतानि निजेच्छया प्रमाणं विना । अपव्रतानि दर्शयति ॥ अस्नानेति । देवहेलनादीनीत्यत्रादि पदोपात्तानि दर्शयति ॥ ब्रह्मेति । ब्रह्म वेदो यज्ञ इज्यमानः पुरुषो लोकाः सज्जनाः ॥११॥

तैरपि ह्यर्वाक्तनया निजलोकयात्रयान्धपरम्परयाऽत एवानाश्वस्था१स्त-मस्यन्धे स्वयमेव प्रपतिष्यन्ति ॥ १२ ॥

पदरत्नावली

तत्फलमाह– तैरपीति ॥ तैर्हेलनादिभिः क्रियमाणया अर्वाक्तनया नीचया अन्धपरम्परया निजलोकयात्रया स्वप्नमनोरथकल्पितव्यवहारेण स्वशरीरजीवनेन वा । अत एवानास्थाः (‘अनाश्वस्ता विश्वासरहिताः’ इति कपाठः) एकदापि व्यापारमन्तरेण न स्थिताः । हिशब्देन ‘अन्धेनैव नीयमाना यथान्धा’ इति श्रुतिं प्रमाणयति ॥ १२ ॥

प्रकाशिका

तेषां फलमाह ॥ तैरपीति । तैर्देवहेलनादिभिः । अपिशब्दादहं वासुदेवोऽस्मीत्युपासनाग्रहणम् । अर्वाक्तनयाऽवेदमूलकतया निजलोकानामज्ञानिलोकानां यात्रा गमनं यस्यां सा तथा तयांऽधपरंपरयाऽनाश्वस्था इतरशास्त्रेषु निष्ठाशून्याः । स्वमत एव विश्वासवन्त इति यावत् । स्वयमेव । स्वस्वबुद्धिदोषेणैव ॥ १२ ॥

अयमवतारो रजसोपप्लुतकैवल्योपशिक्षणार्थः२ तस्यानुगुणान् श्लोकान्गायन्ति

॥ १३ ॥

पदरत्नावली

न केवलमसुरमोहनार्थः किन्तु स्वपादमूलशरणजनस्य मुक्तिसाधनार्थोऽ-पीत्याह– अयमिति ॥ रजसा रजोगुणेन उपप्लुतस्य उपद्रुतस्य साधुजनस्य कैवल्यशिक्षणार्थो मुक्तिसाधनशिक्षणाभिप्राय इत्यन्वयः । कुत इति तत्राह– तस्येति ॥ तस्य कैवल्यसाधनोप-देशस्यानुगुणाननुरूपानित्यर्थः ॥ १३ ॥

प्रकाशिका

न केवलमेवम् ऋषभचरितमसुरमोहकं किन्तु साधुजनमुक्तिदं चेत्याह ॥ अयमवतार इति । रजसा रजोगुणेन तत्कार्येण संसारेणोपप्लुतस्योपद्रुतस्य साधुजनस्य कैवल्यं मोक्षसाधनं तदुपशिक्षणमर्थः प्रयोजनं यस्य स तथा । तस्य ऋषभस्यानुगुणान् अनुसारिणः

॥ १३ ॥

**अहो भुवः सप्तसमुद्रवत्या द्वीपेषु वर्षेष्वधिपुण्यमेतत् । **

गायन्ति यत्रत्यजना मुरारेः कर्माणि भद्राण्यवतारवन्ति ॥ १४ ॥

तात्पर्यम्

‘विशेषाद्भारते पुण्यं चरेयुः पापमप्यथ१ । तथैव भगवद्भक्तिं पृथिव्यां नान्यवर्षगा’ इति ब्रह्माण्डे ॥ १४ ॥

पदरत्नावली

सप्तद्वीपेषु नवसु वर्षेषु एतद् भारताख्यं खण्डमधिपुण्यम् अधिकपुण्य-साधनम् । उपलक्षणमेतत् । पापसाधनं चेति । तदुक्तं– ‘विशेषाद्भारते पुण्यं चरेयुः पापमन्यथा । तथैव भगवद्भक्तिं पृथिव्यां नान्यवर्षगाः ॥’ इति । अनेनादृष्टसाधनमेतद् अन्यानि भोगसाधनानीति विशेष उक्त इति ज्ञायते । अवतारवन्ति प्रकाशवन्ति ॥ १४ ॥

प्रकाशिका

सप्तसु द्वीपेषु नवसु वर्षेष्वेतद्भारताख्यं वर्षमधिपुण्यमधिकपुण्यसाधनम् । इदमुपलक्षणमित्याशयेनात्राभिप्रेतमर्थं प्रमाणेनैवाह ॥ विशेषादिति । तथा चाधिपापमित्युप-लक्षणया ग्राह्यमित्याशयः । अवतारवन्ति ऋषभाद्यावतारयुक्तानि ॥ १४ ॥

अहोऽनुवंशो यशसाऽवदातः प्रैयव्रतो यत्र पुमान् पुराणः ।

कृतावतारः पुरुषः स आद्यश्चचार धर्मं यदकर्महेतुम् ॥ १५ ॥

पदरत्नावली

प्रैयव्रतः प्रियव्रतसम्बन्धी । पुराणपुरुषेणावतीर्णेन किं प्रयोजनमभूदत्राह– पुरुष इति ॥ (‘पृणाति भक्तान् गुणैः पूरयति, सादयति भक्तानां दोषान् नाशयतीति पुरुषः । ‘पूरणात् सादनाच्चैव ततोऽसौ पुरुषोत्तमः’ इति भारते ।’ इति कपाठकोशे अधिकांशो वर्तते ) अकर्महेतुं मोक्षहेतुं मोक्षकारणं धर्मं लोकशिक्षार्थं चचारेति यद्यस्मात्तस्मादिति शेषः । पूर्णं पुरु तत्सनोति ददातीति पूर्णफलं मोक्षं ददातीत्यर्थः । ‘कर्तरि डः’ इति डप्रत्ययेन ढिलोपः

॥ १५ ॥

प्रकाशिका

अकर्महेतुं मोक्षकारणम् । धर्मं यद्यस्माच्चचार तस्मादवदात इत्यन्वयः

॥ १५ ॥

को न्वस्य काष्ठामपरोऽनुगच्छेन्मनोरथेनाप्यभवाय योगी ।

यद्योगमायां स्पृहयन्त्व्युदस्तां१ महत्तमा येन कृतप्रयत्नाः ॥ १६ ॥

तात्पर्यम्

योगमायां योगमायाफलं बाह्यम् । ‘नित्योदस्ता योगशक्तिरनपेक्ष्यं फलं यतः । नित्यस्वरूपभूताऽपि बहिःफलविवर्जनात् । अकर्मेत्युच्यते यद्वन्मोक्षः फल-विवर्जनात्’ इति पाद्मे ॥

पदरत्नावली

ऋषभो नाम कश्चिद्योगी न हरिरिति तत्राह– को न्विति ॥ अभवाय मुक्तये । लोकशिक्षणार्थमेव धर्माचरणं न तु तत्फलापेक्षयेत्याह– यद्योगमायामिति ॥ श्रीहरिप्रेरणया कृतप्रयत्ना महापुरुषा येन उदस्तां नित्यनिरस्तां योगमायाम् अणिमादि-बाह्ययोगफलं स्पृहयन्तीति यद् यस्मात्तस्माल्लोकशिक्षणार्थं धर्ममाचरतोऽस्य काष्ठां स्वरूपभूतां योगशक्तिं हरिमन्तरेणापरः कोऽनु योगी गच्छेत् । न कोऽपीत्यन्वयः । (‘दिशि स्थितौ तथोत्कर्षे काष्ठाशब्दोऽभिधीयते’ इत्युत्पलमाला । ननु हरिस्वरूपभूतयोगशक्तेरुदस्तता कथं युज्यते ? इति चेन्न । यथा खलु निवृत्तकर्मसाध्योऽपि मोक्षः प्रवृत्तकर्मासाध्यत्वादकर्मेत्युच्यते यथा हरेर्योगशक्तिस्वरूपत्वेऽपि तद्योगशक्तिसाध्यबाह्यफलविवर्जनाद् योगशक्तेरुदस्ततोक्तिर्युक्ता । तदुक्तं पाद्मे’ इति कपाठकोशे अधिकांशो वर्तते) ‘नित्योदस्ता योगशक्तिरनपेक्ष्यं फलं यतः ॥ नित्यस्वरूपभूताऽपि बहिःफलविवर्जनात् । अकर्मेत्युच्यते यद्वन्मोक्षः फलविवर्जनात् ॥’ इति वचनात् । उदस्तामिति विशेषणाद् योगमायामिन्द्रजालमुच्यत इत्येतन्निरस्तम् । तस्मा-दणिमादियोगशक्तिर् नित्योदस्ता । कुतः फलमनपेक्ष्यमिति । यतस्तर्हि हरेः स्वरूपभूताणि-मादिशक्तिर्नास्ति किमित्यत उक्तं– नित्येति ॥ यद्यपि स्वरूपभूताणिमादिशक्तिरस्ति तथा-प्यन्येच्छाविषयाणिमादियोगमाया बहिर्नित्यस्वरूपशक्तेः पृथक् । फलविवर्जनात् क्रियासाध्य-फलानिच्छत्वात् । तत्र दृष्टान्तः– अकर्मेति ॥ यथा मोक्षस्त्वकर्मेति वदन्ति तत्फला-निच्छत्वात् तथात्रेति ॥ १६ ॥

प्रकाशिका

अपरः को नु योग्यभवाय मुक्तयेऽस्य ऋषभस्य काष्ठां योगस्थितिं मनोरथेनाप्यनुगच्छेन्न कोऽपीत्यर्थः । कुत इत्यत आह ॥ यद्योगमायेति । अत्र येन उदस्तां परित्यक्तां योगमायां योगशक्तिमिति योगशक्तेर्भगवता त्यक्तत्वमुच्यते । न हि तत्सम्भवति । शक्तेः स्वरूपत्वेन नित्यायास्त्यागायोगादित्याशङ्कापरिहाराय योगमायाशब्दार्थमाह ॥ योग-मायामिति । फलमणिमाद्यैश्वर्यं तथा च कारणवाचकशब्देन कार्यं लक्ष्यमित्याशयः । ननु तस्यापि भगवत्स्वरूपस्य कथं त्याग इत्यत आह ॥ बाह्यमिति । तथा च स्वरूपाद्बाह्यं योगसाध्यं यदणिमादिकं तद्व्युदस्तमित्यर्थः । नन्वथाऽपि व्युदस्तेत्युक्त्या तत्प्रसक्तिः प्राप्तेत्याशङ्कां परिहरन्नुक्तार्थे प्रमाणमाह ॥ नित्येति । यद्यपि नित्यस्वरूपभूता योगशक्ति-स्तथाऽपि नित्योदस्ता नित्यमुदस्तेत्युच्यते । अनेन मूले नित्यमित्यध्याहार्यमिति सूचयति । कुत इत्यत उक्तम् । यतो यस्मात्फलमणिमादिकमनपेक्ष्यमपेक्षणीयं न भवति ।

ननु स्वरूपभूताणिमादेर्भगवदपेक्ष्यत्वात्कथमेतदित्यतोऽस्याभिप्रायमाह ॥ बहिरिति । तथा च स्वरूपभूतस्याणिमादेः फलस्यापेक्ष्यस्य सत्वेऽपि बहिः फलवर्जनाद्बाह्ययोगसाध्यफल-विवर्जनादपेक्ष्य फलं नेत्युक्तमित्यर्थः । तत्र दृष्टान्तमाह ॥ अकर्मेति । यद्वद्यथा निवृत्त-कर्मसाध्योऽपि मोक्षोऽकर्मेत्युच्यते फलविवर्जनात्प्रवृत्तकर्मसाध्यनश्वरफलाभावात्तथैवेत्यर्थः । अनेनाकर्महेतुमित्यत्राकर्मपदं मोक्षपरमित्युपपादितमिति ज्ञातव्यम् ॥ ततश्चायं मूलार्थः ॥ यद्यस्मात्कृतः प्रयत्नः श्रवणादिरूपो यैस्ते तथा । अत एव महत्तमा अतिशयेन महान्तो योगिनो येन ऋषभेणोदस्तां नित्यं परित्यक्तां योगमायां स्वरूपाद्बहिर्भूतं योगशक्तिसाध्य-मणिमादिकं स्पृहयन्ति तस्मात्कोऽनुगच्छेदित्यन्वयः ॥ १६ ॥

इति ह स्म सकललोकदेवब्राह्मणगवां परमगुरोर्भगवत ऋषभाख्यस्य विशुद्धाचरितं पुंसां समस्तदुश्चरिताभिहरणं१ परममहामङ्गलायनमिदमनुश्रद्धयोप-चितयाऽनुशृृणोत्याश्रावयत्यवहितो भगवति तस्मिन्वासुदेवे एकान्ततो भक्ति-रनयोरपि समनुवर्तते ॥ १७ ॥

पदरत्नावली

ननु कृष्णादिचरितवदस्य चरितमपि यदि संसारनाशनं स्यात्तदायमपि श्रीनारायणांश इति निश्चयेन निरुपचरित भक्तिः स्यात्तत्कथमिति शङ्कां परिहरन्नुपसंहरति– इतीति ॥ इतिशब्दः प्रभृतिवचनः । हस्मेति निपातौ उक्तार्थे श्रद्धातिशयजननार्थौ । न केवलं रामाद्यवतारवद्दुष्टभञ्जनः किन्तु व्यासाद्यवतारवज् ज्ञानस्योपदेष्टेति ज्ञापनाय– परमगुरोरिति ॥ विशुद्धाचरितं कथितमिति शेषः । इदमाचरितं विशेषतः शुद्धमेव न तु दुष्टम् । अर्हादयस्तु तात्पर्यापरिज्ञानादन्यथागृहीतवन्त इति न तेनाशुद्ध(?) श्रद्धाकर्तव्येति विज्ञापयितुम्– विशुद्धेति ॥ कुत एतदिति तत्राह– पुंसामिति ॥ दुश्चरिताभिहरणं(दुश्चरित्राभिचरणं) पापकर्मनाशनम् । न केवलमेतदेव फलमन्यच्चास्तीत्याह– परमेति ॥ ननु फलोपयोगित्वे युक्तमुक्तमखिलं तत्कथमत्राह– इदमिति ॥ उपचितया अनुदिनमेधमानया ‘इदमेव श्रेय’ इत्यन्तःकरणधर्मविशेषः श्रद्धा । अनयोः श्रोतृप्रवक्त्रोरपिशब्दात्पठतः वासुदेवे निर्द्वन्द्वा भक्तिः समनुवर्तत इत्यन्वयः ॥ १७ ॥

प्रकाशिका

उपसंहरन् ऋषभचरितश्रवणादेः फलमाह ॥ इतीति । दुश्चरिताभिहरणं पापकर्मनाशनमुपचितयाऽनुदिनमेधमानया श्रद्धयाऽवहितः सन् अनयोरपि श्रोतृश्रावयित्रोरपि समनुवर्तते सम्यगनुवृत्ता भवतीत्यर्थः ॥ १७ ॥

यस्यामेव कवय आत्मानमविरतविविधवृजिनसंसारपरितापोपतप्यमान-मनुसवनं स्नापयन्तस्तयैव परया निर्वृत्या ह्यापवर्गिकमात्यन्तिकं परमपुरुषार्थ-मपि स्वयमासादितं नैवाद्रियन्ते भागवतत्वेनैव परिसमाप्तसर्वार्थाः ॥ १८ ॥

तात्पर्यम्

‘नाद्रियन्ते तु ये मोक्षं पूर्वं तेषां परं सुखम् । स्वयोग्यं व्यज्यते मुक्तौ तच्चोक्तं तारतम्ययुक्’ इति व्योमसंहितायाम् ॥ १८ ॥

पदरत्नावली

नन्वितरेषु साधनेषु सत्स्वियमेव किं विशेष्योच्यत इत्याशङ्क्य सामान्ययुक्तेरस्याः परमानन्दहेतुत्वादित्याह– यस्यामिति ॥ कवयो यस्यां भक्त्यां स्वात्मानं मनः स्नापयन्तस्तयैव भक्त्या जातया परयोत्कृष्टया निर्वृत्या आत्यन्तिकमापवर्गिकमपवर्ग-सम्बन्धिनं पुरुषार्थं स्वयं स्वत एव प्राप्तमपि नैवाद्रियन्ते । कुतो नाद्रियन्ते तत्राह– भागव-तत्वेनेति । भक्त्या भागवता भगवतो हरेर्विशेषप्रिया इति भावेनैव परिसमाप्ताः पूर्णाः सर्वार्था येषान्ते तथा । स्नापने निमित्तमाह– अविरतेति ॥ अविरतानि निरन्तराणि विविधानि व्रजिनानि दुःखानि यानि तैर्युक्तो यः संसारः जननमरणलक्षणस् तन्निमित्तसन्तापेनोपतप्यमानं दन्दह्यमानम् अनुसवनं सर्वदा मुक्तेः पूर्वं तस्यामनादरं कुर्वतां पश्चादानन्दोत्कर्षः स्यादित्येतमर्थं हिशब्देनाह । ‘ब्रह्मणोऽन्यस्य नो पूर्णां दद्याद्भक्तिं जनार्दनः । मुक्तिं ददाति सर्वेषामुच्चानां को ह्यधीशिता ॥’ इत्यनेन । ‘नाद्रियन्ते तु ये मोक्षं पूर्वं तेषां परं सुखम् । स्वयोग्यं व्यज्यते मुक्तौ तच्चोक्तं तारतम्ययुक् ॥’ इत्यनेन चात्र तात्पर्यमवगन्तव्यम् ॥ १८ ॥

प्रकाशिका

उत्कृष्टभक्तिमतामपवर्गोऽपि न परमपुरुषार्थतयाऽऽदरणीय इत्याह ॥ यस्यामेवेति । अत्रापवर्गिकं पुरुषार्थमपि नैवाद्रियन्त इति स्वयोग्ये मोक्षेऽनादर उच्यते । स किमर्थम् । न हि प्रयोजनशून्यः प्रेक्षावतां व्यापारः सम्भवतीत्यतस्तदनादरफलं प्रमाणेनैवाह ॥ नाद्रियन्त इति । ये पूर्वन्तु पूर्वमेव साधनानुष्ठानकाल एव मोक्षं स्वयोग्यां मुक्तिं नाद्रियन्ते । तेषां परं सुखं स्वरूपसुखम् । तच्च तदपि तारतम्ययुक्तमेवोक्तं श्रुत्यादौ नैकप्रकारकमित्यर्थः ॥ ततश्चायं मूलार्थः ॥ यस्यां भक्तावेवात्मानं मनः स्नापयन्तः । स्नापने निमित्ततया मनो-विशेषणमाह ॥ अविरतेति । अविरतानि निरन्तराणि विविधानि वृजिनानि पापानि तैः सम्पादितो यः संसारपरितापस्तेनोपतप्यमानं तयैव भक्त्यभिव्यक्तया परमोत्कृष्टतया निर्वृत्या स्वरूपसुखेनात्यन्तिकं चरमप्रसादलभ्यमापवर्गिकं मुक्त्यवस्थानगतं परमपुरुषार्थं स्वयोग्यस्वरूप-सुखानुभवं स्वयमासादितमप्रार्थितं नैवाद्रियन्ते आदरवन्तो न भवन्ति । कुत इत्यत आह ॥ भागवतत्वेनेति । भगवद्भक्तत्वेनैव परिसमाप्ताः सम्यगभिव्यक्ताः सर्वार्थाः स्वयोग्यपूर्णसुखानि येषां ते तथा ॥ १८ ॥

**राजन्पतिर्गुरुरलं भवतां यदूनां देवप्रियः कुलपतिः क्व च किङ्करो वः । **

**अस्त्वेवमङ्ग भगवान् भजतां मुकुन्दो मुक्तिं ददाति कर्हिचित्स्म न **

भक्तियोगम् ॥

तात्पर्यम्

‘ब्रह्मणोऽन्यस्य नो पूर्णां दद्याद्भक्तिं जनार्दनः । मुक्तिं ददाति सर्वेषाम् उच्चानां को ह्यधीशिता’ इति ब्रह्मतर्के ॥ १९ ॥

पदरत्नावली

भगवति क्रियमाणाया भक्तेर्निर्वृतिजनकत्वेन पुरुषार्थत्वं यतोऽतस्तस्या-मुक्तेरप्यतिदौर्लभ्यमाह– राजन्निति ॥ एवं गुरुत्वादिकमस्तु तथाप्यविगानेन मुक्तिं प्रयच्छति कर्हिचित् स्म कदापि ब्रह्माणं विना न कस्मैचित् पूर्णं भक्तियोगं प्रयच्छतीत्यन्वयः । ‘ब्रह्मणोऽन्यस्य नो पूर्णां दद्याद्भक्तिं जनार्दन’ इत्यादेर् अर्जुनादीनां ज्ञानोपदेष्टृत्वेन गुरुत्वम् (‘एकान्तभक्तियोगस्य मुक्तितोऽप्यत्यधिकसुखजनकत्वेन तस्य मुक्तेरप्यतिज्यायस्त्वमुपपादयति– राजन्निति ॥ हे राजन् भवतां पाण्डवानां यदूनां यादवानां च पतिः रक्षकः, गुरुर् धर्मोपदेष्टा, देव उपास्यः, कुलपतिः कार्यनियन्ता, किं बहुना क्वच कदाचिद् वो युष्माकं किङ्करः । एवं भजतामुत्तमभक्तानां भगवान् मुकुन्दो मुक्तिमपि ददातीति तस्य पतित्वादिकं कदाचिदस्तु । तथापि भक्तियोगं फलनिरपेक्षलक्षणैकान्तभक्तियोगं तु कस्यापि न तदाति । तर्ह्येकान्तभक्तियोगः किं निरधिकारिक इत्यत आह– स्मेति ॥ अत्रैकान्तभक्तिविषये चतुर्मुखमुख्यप्राणावेव मुख्याधिकारिणौ, अन्ये उत्तमभक्तास्तु यथायोग्यमधिकारिण इति विशेषार्थद्योतकः स्मशब्दः । ‘स्म स्याद् विशेषे स्मरणे’ इत्यभिधानम् । उक्तं हि ब्रह्मतर्के ‘ब्रह्मणोऽन्यस्य नो पूर्णां भक्तिं दद्याज्जनार्दनः । मुक्तिं ददाति सर्वेषामुच्चानां को ह्यधीशिता ॥ इति । उच्चानामुत्तमाधिकारिणां को ब्रह्माऽधीशिता अधिकप्रेरको हीति सम्पूर्णभक्तियोगविषये ब्रह्मैव मुख्याधिकारित्यर्थः । ननु परमपुरुषार्थभूतमुक्तियोगादपि एकान्तभक्तियोगस्यातिज्यायस्त्वं कथमिति चेदत्रोक्तं व्योमसंहितायां ‘नाद्रियन्ते तु ये मोक्षं पूर्वं तेषां परं सुखम् । स्वयोग्यं व्यज्यते मुक्तौ तच्चोक्तं तारतम्ययुक् ॥’ इति कपाठः) ॥ १९ ॥

प्रकाशिका

सम्पूर्णभक्तियोग उत्तमाधिकारिणामपि दुर्लभ इत्याह ॥ राजन्निति । भवतां पाण्डवानाम् । अस्त्वेवं पतित्वादिकं तथाऽपि भजतां सर्वेषां मुक्तिं ददाति । कर्हिचित्कदाचिदपि भक्तियोगं सम्पूर्णभक्तिलक्षणमुपायं न कस्यापि ददाति । अत्र सम्पूर्णभक्तियोगं न कस्यापि ददातीत्युक्त्या स निरधिकारिक इत्यतोऽधिकारिणं दर्शयन् श्लोकतात्पर्यं प्रमाणेनैवाह ॥ ब्रह्मणोऽन्यस्येति । तेन ब्रह्मैव तत्राधिकारीति सूचयति । ननु कुतो ब्रह्मैव तत्राधिकारीत्यत उक्तम् । उच्चानामुत्तमाधिकारिणां को ब्रह्माऽधीशिताऽधिकप्रेरको हीति ॥ १९ ॥

नित्यानुभूतनिजलाभनिवृत्ततृष्णः श्रेयस्यतद्रचनया चिरसुप्तबुद्धेः ।

लोकस्य यः करुणयाऽभयमात्मलोकमाख्यान्नमो भगवते ऋषभाय तस्मै ॥२०॥

॥ इति श्रीमद्भागवतमहापुराणे पञ्चमस्कन्धे षष्ठोऽध्यायः ॥

पदरत्नावली

सिंहावलोकन्यायेनावतारप्रयोजनमाह– नित्येति ॥ अतद्रचनया श्रेयोविरुद्धकर्मणा श्रेयसि चिरसुप्तबुद्धेर् नष्टज्ञानस्य लोकस्य ज्ञानग्रहणयोग्यजनस्य यो भगवा-नात्मा लोक्यते दृश्यते इत्यात्मज्ञानं मुक्तिसाधनम् आख्याद् आचख्यौ । तस्माद् ऋषभाय नम इत्यन्वयः । ऋषभोक्तार्थे विस्त्रम्भाय ऋषभं विशिनष्टि– नित्येति ॥ नित्यमनुभूतोऽपरोक्षीकृतो निजलाभः स्वरूपानन्दो यस्तेन निवृत्ता तृष्णा यस्य स तथोक्तः । अनेन नित्यानन्द-ज्ञानपूर्णत्वेन नित्यसिद्धाखिलपदार्थविशेषत्वात्तदुक्तावाप्तिः सुरां सम्भवतीति ज्ञायते ॥ २० ॥

॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुकृतायां

पञ्चमस्कन्धे षष्ठोऽध्यायः ॥

प्रकाशिका

संक्षेपतो ऋषभावतारकृत्यमनुवदन् ऋषभं प्रणमति ॥ नित्येति । नित्यमनुभूतोऽपरोक्षीकृतो निजलाभः स्वरूपानन्दो यस्तेन निवृत्ता दूरीकृता विषयतृष्णा यस्य स तथा । अनेन स्वप्रयोजनमवतारे नास्तीति सूचयति । श्रेयसि मोक्षसाधनेऽतद्रचनया मोक्षविरुद्धकर्मणा चिरसुप्तबुद्धेरनादित आवृताज्ञानस्य लोकस्य साधुजनस्याभयं न विद्यते भयं यस्मात्तमात्मा परमात्मा लोक्यतेऽपरोक्षीकृतो येन साधनसंदर्भेण तमाख्यादाचख्यौ ॥ २० ॥

**॥ इति इति श्रीमद्वेदेशपूज्यपादशिष्येण यदुपतिना विरचितायां **

श्रीमद्भागतटिप्पण्यां प्रकाशिकायां पञ्चमस्कन्धे षष्ठोऽध्यायः ॥ ५-६ ॥