०५ पञ्चमोऽध्यायः

नायं देहो देहभाजां नृलोके कस्तत्कामानर्हति विड्भुजां ये

॥ अथ पञ्चमोऽध्यायः ॥

ऋषभ उवाच–

**नायं देहो देहभाजां नृलोके कस्तत्कामानर्हति विड्भुजां ये । **

तपो दिव्यं ह्यर्हथ येन सत्त्वं शुध्येद्यस्माद्ब्रह्मसुखं ह्यनन्तम् ॥ १ ॥

पदरत्नावली

पुत्राणां तत्त्वोपदेशव्याजेन लोकहिताय (‘सल्लोककृपासुधार्द्रहृदा भगवता ऋषभेण सकलसल्लोकनिश्श्रेयसाय’ इति कपाठः) सकलशास्त्रसारभूतं तत्त्वं निरूपयत्यस्मि-न्नध्याये । तत्रादौ विषयसेवा मुमुक्षुणा अवश्यं वर्जनीयेति भावेनाह– नायमिति ॥ नृलोके देहभाजां शरीरिणाम् अयं देहः स्रक्चन्दनादिभोगाय न भवति । किन्तु तपश्चरणायेति शेषः । सोऽपि पुरुषार्थेष्वेकत्वेन विहितत्वात्कर्तव्य इति तत्राह– क इति ॥ ये कामा विड्भुजां श्वसूकरादीनामपि सन्ति, को विवेकी तत्कामान् काम्यन्त इति कामा विषयास्तान् विषयानर्हति? । न कोऽपीति शेषः । तर्हि अनेन किं विधेयमत्राह– तप इति ॥ तपोऽर्हथ, कर्तुमिति शेषः । इदमेव प्रयोजनं नान्यत् । पूर्वतनैः साधितत्वादितीममर्थं हिशब्देन वक्ति । येन तपसा सत्वमन्तःकरणम् । ततः किं तत्राह– यस्मादिति ॥ यस्माच्छुद्धान्तःकरणा-दनन्तमन्त्रत्रयविधुरं सुखं सुष्ठु निर्दोषस्वज्ञानात्मकमिन्द्रियं यस्य तत्तथा । तद्ब्रह्म सिध्यतीति शेषः । हि यस्मात्तस्मात् तपश्चरणमेव देहधृतिप्रयोजनमित्यर्थः । हिना ‘मय्यनन्तगुण’ इति वाक्यं स्मारयतीति वा ॥ १ ॥

प्रकाशिका

तत्रादौ प्रेक्षावता विषयसेवात्यागपूर्वकं तप एव कार्यमित्याशयेनाह ॥ नायमिति । अयं देहो देहभाजां शरीरधारिणामधीनो न तदिच्छानुसारेण चिरं न तिष्ठतीति यावत् । अतः को विवेकी तत्कामयंस्तत्पोषणोपयुक्तविषयानर्हति । भोक्तुमिति शेषः । ननु विषयभोगस्यापि पुरुषार्थत्वात्कथं नार्हतीत्युक्तमित्यतस्ते तुच्छा अन्तवन्तश्चेत्याशयेनाह ॥ ये कामा विड्भुजां श्वसूकरादीनामपि भवन्तीति । तथा चातितुच्छा अन्तवन्तश्चेत्याशयः । तर्हि किं कार्यमित्यपेक्षायामाह ॥ तप इति । तपः कायक्लेशात्मकं शास्त्रविमर्शात्मकं च दिव्यं वैकुण्ठादिद्युलोकसाधनमर्हथ । कर्तुमिति शेषः । हिशब्दः प्रमाणप्रसिद्धिद्योतकः । येन तपसा सत्त्वमन्तःकरणं यस्माच्छुद्धान्तःकरणाद्ब्रह्म योग्यतानुसारेण पूर्णम् । अनन्तमक्षयं सुख-माविर्भूतस्वरूपसुखं भवति । हिशब्देनात्र प्रमाणप्रसिद्धिं द्योतयति । तपोऽर्हथ इत्यन्वयः । अनन्तमन्तत्रयशून्यं सुखं पूर्णसुखात्मकं ब्रह्म परं ब्रह्माप्नोतीति व्याख्येयम् ॥ १ ॥

**महत्सेवां द्वारमाहुर्विमुक्तेस्तमोद्वारं योषितां सङ्गिसङ्गम् । **

महान्तस्ते समचित्ताः प्रशान्ता विमन्यवः सुहृदः साधवो ये ॥ २ ॥

पदरत्नावली

अन्वयव्यतिरेकमुखेनेममर्थं द्रढयति– महत्सेवामिति ॥ योषितां सङ्गिभिः सह सङ्गमित्यनेन कैमुत्यन्यायो दर्शित इति ज्ञातव्यम् । निषिद्धेत्युपपदं योज्यम् । अन्यथा योषिन्मात्रस्यापि हेयत्वं प्रसज्येत । तच्चानुपपन्नम् । ‘न काञ्चन (स्त्रियं) परिहरेत्’ इति श्रुतेरिति भावः । द्वे नित्यमुक्ती । तत्रानन्तसुखलक्षणैका, नित्यदुःखलक्षणाऽन्येति बोद्धव्यम् । (‘अत्र योषिच्छब्दस्य केशवविषये अन्यथाज्ञानमित्यर्थः । यथोक्तं धर्मविवेके ‘केशवे त्वन्यथाबुद्धिः सैव स्त्री सम्प्रकीर्तिता । त्रिकालदुःखदत्वेन पुंसां सह निवासनात् ॥ जुष्टत्वाद् योषिदित्युक्ता वननाद् वनितेति च । प्रमादकरणत्वात्तु प्रमदेति च गीयते ॥ त्यजेत् तत्सङ्गिनां सङ्गं बुभुषुः पुरुषः सदा । न तादृशः क्वचिद् दोषः पुरुषस्यासुखावहः ॥’ इत्यादि । दुर्विषयासक्तैरसद्भिर्जोष्यत इति यावत् । तथा च योषितां केशवविषयकविपरीत-बुद्धीनाम् ‘अहं ब्रह्माऽस्मि’ इत्यादीनां सङ्गिभिः सङ्गं सम्बन्धं तमोद्वारं कदाऽपि निवृत्ति-रहितान्धन्मःपातस्य द्वारभूतमाहुः । तदुक्तं ‘केशवस्य समोऽस्तीति केशवोऽस्म्यहमित्यपि । ब्रह्माद्याः केशवात्मानः श्रीर्वा निर्गुण इत्यपि ॥ मुक्तस्य तद्भावमतिररूपत्वमतिस्तथा । त्रिगुणात्मकदेहोऽस्याप्यस्तीत्यपि तु या मतिः । जन्ममृत्यादिबुद्धिर्वा दुःखाज्ञानादिबोधनम् ॥ तस्यापि परतन्त्रत्वविज्ञानं च तदुत्तमः । अस्तीति या मतिस्तस्य वशादन्यस्य कस्यचित् ॥ अस्तीति भावनेत्याद्या अवज्ञाः सम्प्रकीर्तिता ।’ इति । किञ्च योषिच्छब्दस्य यथाश्रुतार्थं स्वीकृत्याप्येवं योज्यम् । योषितां स्वोत्तमस्त्रीणां सङ्गिभिः सङ्गं तमोद्वारं नित्यनरकद्वारमाहुः । नात्र स्त्रीसङ्गमात्रं निषिद्ध्यते । गृहस्थाश्रमस्य मोक्षसाधनत्वेन स्वकान्ताभिकामतः क्वाऽपि पातकाभावात् । किन्तु परदारगमनादिकमेव निषिद्ध्यते । यथोक्तं धर्मतत्त्वे ‘परदारदृशिः प्रोक्ता क्षुद्रपातकसञ्ज्ञिता । उपपातकं तद्गतिश्च वर्णबाह्येषु पातकम् । महापातकसञ्ज्ञं तु पित्रादेर्दारघर्षणम् ॥ दारदृष्टिः स्वोत्तमानां मानुषाणां स्वभावतः । सुमहापातकं प्रोक्तं तद्गतिः सुमहत् ततः ॥ ऋषिदारेषु मनसो गतिरेव ततोऽधिका । देवदाराभिकामानां सङ्गिसङ्गस्ततोऽधिकः ॥ किमु विष्णोस्ततो योषित्सङ्गस्य व्यत्ययस्थितेः । न समं पातकं क्वापि न हि स्वस्त्र्यभिकामतः । अवज्ञाता माधवादेस्तस्मात् तं दूरतस्त्यजेत् ॥’ इत्यादि ।’ इति कपाठकोशे अधिकांशो वर्तते) महल्लक्षणे ज्ञाते तत्सेवायां श्रद्धातिशयः स्यादिति तल्लक्षणमाह– महान्त इति ॥ ये समचित्तत्वादिगुणवन्तस् ते महान्त इत्यन्वयः । ‘मन ज्ञान’ इति धातुः, विशेषण ज्ञानशीलाः ‘पण व्यवहारेऽपनये च’ इति धातुर् विशिष्टव्यवहारशीला इति वा । समे ब्रह्मणि चित्तं येषां ते तथा । समं तत्तद्योग्यतानुसृतं चित्तं येषां ते तथेति वा । साधवः रागादिदोषविधुराः ॥ २ ॥

प्रकाशिका

ननु संसारासक्तानामुक्तरूपतपःकरणे कथं प्रवृत्तिरित्यतस्तत्र कारणं दर्शयन् अनर्थफलवत्त्वाच्च विषयभोगो वर्जनीय इत्याशयेनाह ॥ महत्सेवामिति । द्वारमुक्तरूपतपः करणादिद्वारकारणमित्यर्थः । योषितामिति स्वविषयोपलक्षणम् । सर्वविषयस्नेहवत्सु सङ्गं स्नेहं तमोद्वारमधोलोकसाधनं विषयवत्स्नेहसङ्गो यदाऽनर्थफलस्तदा किं वाच्यं विषयस्नेहोऽनर्थफल इति कैमुत्यन्यायेनोक्तमिति ज्ञातव्यम् । के महान्ता इत्यपेक्षायां तल्लक्षणमाह ॥ महान्ता इति सार्धश्लोकेन । समे ब्रह्मणि चित्तं येषामिति वा समं तत्तद्योग्यतानुचित्तं सकलचेतनज्ञानं येषा-मिति वाऽर्थः । परस्परं सुहृदो न मत्सरयुक्ता इत्यर्थः । साधवो रागादिदोषरहिता विहितानु-ष्ठानादिना सद्गुणयुक्ताः ॥ २ ॥

ये वा मयीशे कृतसौहृदार्था जनेषु देहंभरवार्तिकेषु ।

गृहेषु जायात्मजरातिरासु न प्रीतियुक्ता यावदर्थाश्च लोके ॥ ३ ॥

पदरत्नावली

चार्थे वाशब्दः । ये च ईशे मयि कृतं सौहृदमेवार्थः प्रयोजनं यैस्ते तथा । देहम्भराणां देहपोषण एव रतानाम्, उक्तानुक्तदुरुक्तचिन्तालक्षणं वार्तिकं वार्ता समुदायो वा एषां ते तथा तेषु । जाया चात्मजश्च रातिर्मित्रं च रा अर्थश्च येषां ते तथा, तेषु । न प्रीतियुक्तास्ते महान्तः । किञ्च लोके जने यावाञ्च्छरीरयात्रादिलक्षणोऽर्थो येषां ते तथा ॥ ३ ॥

प्रकाशिका

वाशब्दश्चशब्दार्थः । ये चेशे मयि कृतं सौहृदमेवार्थः प्रयोजनं यैस्ते तथा । देहं बिभ्रन्तीति देहम्भरा विषयास्तेषामेव वार्तिकं वार्ता न हरिविषया येषु तेषु जनेषु गृहेषु जाया चात्मजाश्च रातिर्मित्रं च रा अर्थश्च तेषु च येन प्रीतियुक्ता ये च लोके उक्तरूपे जने यावान् शरीरयात्रोप युक्तस्तावानेवार्थो धनादिरूपो येषां ते तथा ॥ ३ ॥

नूनं प्रमत्तः कुरुते कर्म दीनो यदिन्द्रियप्रीतय आवृणोति ।

न साधु मन्ये यत आत्मनोऽयमसन्नपि क्लेशद आस देहः ॥ ४ ॥

पदरत्नावली

इदानीं देहम्भरवृत्तिं कथयति– नूनमिति ॥ जन इन्द्रियाणां शब्दाद्यनुभवलक्षणप्रीतये यत्कर्म कुरुते नूनं निश्चयेन दीनः क्षीणः प्रमत्तोऽज्ञः । तत् कर्म आवृणोति स्वीकरोति । कुत इत्यत उक्तम्– यत इति ॥ असन् नश्वरत्वादमङ्गलोऽपि विण्मूत्रादिपात्रत्वेन जुगुप्सितोऽयं देहो यतः कर्मण, आत्मनः कर्तुः क्लेशदः संसाराख्यक्लेशद आसेति यतस्तस्मात् कर्म साधु श्रेयःसाधनमिति न मन्ये ।

नूनमिदानीं प्रमत्तः कर्तव्यतामूढोऽत एव दीनोऽयं जन इन्द्रियप्रीतये तत् कर्म कुरुते यत् कर्म आत्मानमेवावृणोति आच्छादयति । कथमावृणोतीति तत्राह– यत इति ॥ यतो यस्मात्कर्मण उत्पन्नोऽसन्नपि असाधुरेवायं देह आत्मनः क्लेशद आस तस्मादेतत्कर्मकरणं साधु न मन्य इति वा ।

नूनं प्रायः कर्म कुरुते अत एव दीनः । कथम् । इन्द्रियप्रीतये । आवृणोतिति यत्तदपि कुत इत्यत्राह– यत इति ॥ आत्मनः क्लेशद आसेति यतस्तस्मान्न साधु मन्य इति वा

॥ ४ ॥

प्रकाशिका

कस्तत्कामानर्हतीति विषयभोगत्याग उक्तस्तमेवोपपादयति ॥ नूनमिति । यद्यदेन्द्रियप्रीतये शब्दादिविषयभोगाय । तत्सम्पादनायेति यावत् । कर्म कुरुते तदाऽऽत्मानं तेन कर्मणा आवृणोतीति । पुनर्बद्धं करोतीत्यर्थः । कथमित्यत आह ॥ यत इति । यतः कर्मण आत्मनः स्वस्य स्वाभाविकतयाऽसन्नप्ययं देहः क्लेशद आस । इदानीं कर्मकरणेऽपि पुनस्तादृशदेहप्राप्तौ तत्रापि पुनः कर्मकरणे स्वात्मनो बन्ध एव सम्पादितः स्यादित्याशयः । अत इन्द्रियप्रीणनं साधु न मन्य इत्यर्थः ॥ ४ ॥

पराभवस्तावदबोधजातो यावन्न जिज्ञासत आत्मतत्त्वम् ।

तावत्क्रियास्तावदिदं मनो वै कर्मात्मकं येन शरीरबन्धः ॥ ५ ॥

तात्पर्यम्

क्रियाफलं तावदेव । कर्मात्मकं कर्मवशम् ॥ ५ ॥

पदरत्नावली

तस्माज्ज्ञानमेव संसारनिवृत्तिसाधनमित्यभिप्रेत्य तन्निवृत्त्यवधिमाह– पराभव इति ॥ यावदात्मतत्त्वं न जिज्ञासते तावत् पराभवः क्लेशः । किं विशिष्टः । अबोधजात आत्मानात्मतत्वाज्ञानोत्पन्नः । क्रियाः क्रियाफलं च तावत् (‘क्रियाशब्द-स्तत्फललक्षकः । कर्मात्मकमित्यत्रात्मशब्दः स्वामिपरः । कर्मस्वामिकं कर्मवशमिति यावत् । तथा च यावदात्मतत्वं न जिज्ञासते तावदेव क्रियाः क्रियाफलप्रदा भवन्ति । ‘तदधिगम उत्तरपूर्वाघयोरश्लेषविनाशौ तद्व्यपदेशात्’ इत्यादेः’ इति कपाठकोशे वर्तते) येन कर्मात्मकेन मनसा शरीरबन्धः स्यात्तत्कर्मवशं बाह्यान्तःकरणलक्षणं मनश्च तावदित्यन्वयः ॥ ५ ॥

प्रकाशिका

नन्वेवं देहादिना बन्धोऽधिकारिणः कियत्पर्यन्तमित्यपेक्षायां तपो दिव्यं ह्यर्हथेत्युक्तमुपपादयति ॥ पराभव इति । पराभवोऽस्वाभाविकेन देहादिना बन्ध आत्मतत्त्वं परमात्मस्वरूपं न जिज्ञासते न श्रवणादिरूपजिज्ञासया पश्यति । तावदेव तावत्पर्यन्तमेव । ततः परं न पराभव इत्यर्थः । नन्वपरोक्षज्ञानानन्तरमपि काम्यानां निषिद्धानां च क्रियाणां तदधीनस्य मनसश्च सत्वे कथं तत्फलरूपबन्धाभाव इत्यत आह ॥ तावत्क्रिया इति । अत्रापरोक्षज्ञानानन्तरं क्रिया एव न सन्तीति भाति । तच्च प्रत्यक्षादिबाधितमतोऽत्र विवक्षितमर्थं दर्शयति ॥ क्रियाफलं तावदेवेति । तथा च मूले क्रियाशब्दस्तत्फललक्षक इत्याशयः । कर्मात्मकमित्यस्य कर्माभिन्नमिति प्रतीतिवारणायार्थमाह ॥ कर्मात्मकमिति । अत्रात्मशब्दः स्वामिपरः । तथा च कर्मस्वामिकं कर्मवशमिति यावदिति लब्धार्थप्रदर्शनमेतदिति ज्ञातव्यम् ॥ ततश्चायं मूलार्थः ॥ क्रिया निषिद्धादिक्रियाफलं तावदेव येन शरीरबन्धस्तदिदं मनोऽपि कर्मात्मकं कर्मवशं कर्मानुसारेण फलजनकं तावदेव यावदात्मतत्त्वज्ञानं न जिज्ञासते । ज्ञानोत्तरं निषिद्धादिक्रियाणां तदधीनस्य मनसश्च सत्वेऽपि न तेभ्यः फलम् । तद्यथा पुष्करपलाश इति उत्तराघस्याश्लेषोक्तेरित्याशयः ॥ ५ ॥

एवं मनः कर्मवशं प्रयुङ्क्त अविद्ययात्मन् व्यवधीयमाने१ ।

प्रीतिर्न यावन्मयि वासुदेवे न मुच्यते देहयोगेन तावत् ॥ ६ ॥

तात्पर्यम्

अविद्यया प्रयुङ्क्ते ॥ ६ ॥

१. ‘‘आत्मन्यवधीयमाने’’ इति पाठान्तरम् ।

पदरत्नावली

शरीरबन्धात् किं करोतीत्यत्राह– एवमिति ॥ अत्रात्मपदेन जीव-परावुभावपि गृह्येते । एवमात्मानात्मतत्त्वाज्ञानिनो ऽविद्यया जीवपरयोः स्वरूपाच्छादिकया मायया आत्मनि जीवपरयोः स्वरूपेऽवधीयमाने आच्छाद्यमाने सति कर्मवशं मनो जीवं विषयेषु प्रयुङ्क्त इत्यन्वयः । एवं संसरणं कियन्तं कालमत्राह– प्रीतिरिति ॥ प्रीतिः स्नेहलक्षणा भक्तिः

॥ ६ ॥

प्रकाशिका

संसारे मोक्षे च मूलभूतं कारणान्तरं दर्शयन्नुपसंहरति ॥ एवमिति । अत्राविद्येत्यस्यात्मन्यवधीयमान इत्यनेनान्वयभ्रान्तिवारणाय विवक्षितमन्वयं दर्शयति ॥ अविद्यया प्रयुंक्त इति । तथा चायमर्थः ॥ एवं पूर्वोक्तरीत्या पुरुषोऽविद्यया भगव-त्स्वातन्त्र्याज्ञानादिरूपया मनः कर्मवशं यथा स्यात्तथा प्रयुंक्ते संसारासक्तं करोति । तथा च संसारे मूलकारणमविद्यैवेति भावः । व्यवधीयमानेऽव्यक्तस्वभावत्त्वेन व्यवहितवद्विद्यमाने आत्मन् अन्तर्यामिणि मयि वासुदेवे यावन्न प्रीतिर्भक्तिस्तावन्न विमुच्यत इत्यनेन भक्तिरेव मूलकारणमुक्तं भवति । आत्मन्यवधीयमान इति पाठे । आत्मनि मनस्यवधीयमाने स्थाप्यमाने ध्यायमाने सति यावदिति व्याख्येयम् । व्यवधीयमान इति पाठे उक्तरूपव्यवधानस्य भगवतोऽव्यक्त-त्वेनैवोपपत्तौ नाविद्यायास्तत्र निमित्तत्वम् । आच्छादनरूपे व्यवधाने विवक्षितेऽविद्याच्छादित-त्वस्यानादित्वेन वर्तमानार्थकशानच्प्रयोगानुपपत्तिः । अवधीयमान इति पाठे ध्यानरूपाव-धानेनाविद्यायाः कथमप्युपयोगोऽतोऽविद्ययेत्यस्य यथाश्रुतान्वयप्रतीतिर्भ्रान्तिरिति ज्ञातव्यम् ॥६॥

यदानुपश्यत्ययथागुणेहां स्वार्थे प्रमत्तः सहसाऽविपश्चित् ।

गतस्मृतिर्विन्दति तत्र तापानासाद्य मैथुन्यमागारमज्ञः ॥ ७ ॥

पदरत्नावली

कालतो वा प्रारब्धकर्मनाशतो वा देहवियोगेन आनन्दानुभवलक्षणा मुक्तिः स्यात् किं भक्त्येत्याशङ्क्य बन्धध्वंसिभगवत्प्रसादान्तरङ्गभक्तिं विना न कदाप्यभिमतमुक्तिः स्यात् प्रत्युतानादिकर्मपरम्परया विषयानुध्यानहेतुभूतया तृणजलूकावत्प्रवर्तमानस्य सन्ताप एव स्यादित्याह– यदेति ॥ स्वतोऽविपश्चिद् अज्ञानात्मा यदाऽयथागुणेहां स्वाभिमतविपरीतेन्द्रिय– प्रवृत्तिमनुकूलां पश्यति ममेदं हितमित्यङ्गीकरोति तदा सहसा गतस्मृतिर्नष्टशास्त्रानुसन्धानो ऽत एव स्वार्थे प्रमत्तोऽत एवाज्ञः पुरुषो मैथुन्यं स्त्रीपुंसम्बन्धयोग्यमगारं गृहम् आसाद्य तत्र गृहे तापान् विन्दतीत्यन्वयः ॥ ७ ॥

प्रकाशिका

अविद्यया मनः कर्मवशं प्रयुंक्त इत्युक्तमेव विशदयति ॥ यदेति । यदाऽविपश्चिदविवेकी । स्वार्थे मोक्षरूपप्रयोजनाय गुणेहां सत्त्वादिगुणानामीहां चेष्टां शब्दादि-विषयेच्छां वा वस्तुतो यथाभूतां विपरीतमनुपश्यत्यानुकूल्येन स्वविहितसाधनतया पश्यति । तदा सहसा गतस्मृतिर्विनष्टशास्त्रार्थस्मरणोऽत एव स्वार्थे प्रमत्तोऽत एवाज्ञो भाव्यनर्थाज्ञानी पुरुषो मैथुन्यं स्त्रीपुरुषसम्बन्धयोग्यमागारं गृहमासाद्य तत्र गृहे तापान्विन्दतीत्यन्वयः ॥ ७ ॥

पुंसः स्त्रिया मिथुनीभाव एष१ तयोर्मिथो हृदयग्रन्थिमाहुः ।

यतो गृहक्षेत्रसुताप्तवित्तैर्जनस्य मोहोऽयमहं ममेति ॥ ८ ॥

तात्पर्यम्

‘ब्रह्माद्या याज्ञवल्क्याद्या मुच्यन्ते स्त्रीसहायिनः । बध्यन्ते केचनैतेषां विशेषं च विदो विदुः’ इति सत्यसंहितायाम् ॥ ८ ॥

पदरत्नावली

केचिदेवंविधसंसारो मिथ्येति सङ्गिरन्ते तत्राह– पुंस इति ॥ पुंसः स्त्रिया सहैषः मिथुनीभावस् तयोः स्त्रीपुंसयोर्हृदयग्रन्थिं मनोबन्धनपाशमाहुरित्यर्थः । अर्थक्रियारूपत्वान्न मिथ्येति शेषः । सकलतापानामेतदेव मूलमित्यतो वाह– पुंस इति ॥ सुखसाधनान्वेषणायासेन तापा एव स्युरित्यर्थः । हृदयग्रन्थिविकारप्रकारमाह– यत इति ॥ अत एव दुःखं स्यादित्यर्थः । मिथुनीभावस्य तापहेतुत्वे ‘कुटुम्बी शुचौ देशे स्वाध्यायमधीयानः’ इत्याद्युक्त्या ‘न च पुनरावर्तत’ इति कुटुम्बिनोऽपुनरावृत्तिलक्षणमुक्तिवचनात् कथं स निन्दामर्हतीति चेन्न । प्रायिकत्वात् तस्य । ‘ब्रह्माद्या याज्ञवल्क्याद्या मुच्यन्ते स्त्रीसहायिनः । बध्यन्ते केचनैतेषां विशेषं च विदो विदुः’ इति वचनात् ॥ ८ ॥

प्रकाशिका

ननूक्तरूपगृहप्राप्तिमात्रेण कथं तापलाभ इत्यतस्तत्प्रकारं दर्शयति ॥ पुंस इति । एष मिथुनीभावस्तम् । तयोः स्त्रीपुरुषयोर्हृदयग्रन्थिमन्योन्यस्मिन्मनोबन्धपाशमाहु-रित्यर्थः । मिथुनीभावमेनमिति पाठे तु नाध्याहारप्रसक्तिः । अन्योन्यस्मिन्मनोबन्धेनापि किमित्यपेक्षायामाह ॥ यत इति । गृहादिभिर्निमित्तैरहंममेत्ययं मोहस्तेन च तापान्विंद-तीत्याशयः । अत्र पुंसस्त्रियोर्मिथुनीभावस्य तापजनकत्वोक्त्या स सर्वैरधिकारिभिर्न कर्तव्य इति भाति । न चेदं युक्तम् । कुटुम्बी शुचौ देश इत्यादिना गृहस्थानामपि मोक्षप्रतिपादनात् । अतोऽत्र विवक्षितं तात्पर्यं प्रमाणेनैव दर्शयति । ब्रह्माद्या इति ॥ केचनेति । येषां स्त्रिया सह न मुक्तिस्त इत्यर्थः । बध्यन्ते मोक्षयोग्याश्चेत्सत्समागमाभावे बद्ध्यन्ते न चेत्स्वभावेनैव बद्ध्यन्त इत्यर्थः । नन्वेवं संन्यासार्थमधिकारिणां प्रवृत्तिर्न स्यात् । स्त्रीसहायेनैवास्माकं मुक्तिरन्यथा नेति स्वस्वरूपनिर्णयस्य पूर्वमसम्भवादित्यत उक्तम् ॥ तेषामिति । चस्त्वर्थः । तेषां तु विशेषं विदो सर्वज्ञा गुरवस्तथा च तदुक्तप्रकारेण स्वरूपनिर्णये प्रवृत्तिः सम्भवतीत्याशयः । तथा च मूले पुंसः स्त्रिया सह मिथुनीभावस्य बन्धकत्वोक्तिर्येषां स्त्रिया सह न मुक्तिस्तत्परैवेत्याशयः ॥ ८ ॥

यदात्मनो हृदयग्रन्थिरस्य कर्मानुबन्धो दृढमाश्लथेत ।

तदा जनः सम्परिवर्तमानो मुक्तः परं यात्यतिहाय हेतुम् ॥ ९ ॥

पदरत्नावली

सर्वदुःखनिवृत्तौ किं कारणमित्यतो हृदयग्रन्थिविनाश एवेत्याह– यदेति ॥ (स्वस्य हृदयग्रन्थिर् हृदयस्य मनोरूपपाशस्य ग्रन्थिर्बन्धनं यस्मिन् स लिङ्गदेहः’ इति कपाठे अधिकांशोऽस्ति)कर्मणामनुबन्धः परम्परा यस्य(यस्मात्) कर्मानुबन्धः(‘दृढं यथा स्यात् तथा आश्लथेत शिथिलो भवेत्’ इति कपाठः) । संसारहेतुं हृदयग्रन्थिमतिहाय परं ब्रह्म यातीत्यन्वयः

॥ ९ ॥

प्रकाशिका

एवंविधपरितापनिवृत्तौ किं कारणमित्यपेक्षायामाह ॥ यदेति । आत्मनः स्वस्य हृदयग्रन्थिर्मनोरूपपाशस्य ग्रथनं यस्मिन्स लिङ्गदेहः कर्मणामनुबन्धः परंपरा यस्मात्स तथा । दृढं यथा स्यात्तथाऽऽश्लथेत । शिथिलो भवेत् । सम्परिवर्तमानः । संसार इति शेषः । मुक्तः सर्वतापाद्विनिर्मुक्तः परं परमात्मानं हेतुमहंममाभिमानहेतुं संसारहेतुम् ॥ ९ ॥

हरौ गुरौ मयि भक्त्याऽनुवृत्त्या वितृष्णया द्वन्द्वतितिक्षया च ।

सर्वत्र जन्तोर्व्यसनावगत्या जिज्ञासया तपसेहानिवृत्त्या ॥ १० ॥

तात्पर्यम्

‘आत्मनो विहितं कर्म वर्जयित्वाऽन्यकर्मणः । कामस्य च परित्यागो निरीहेत्याहुरुत्तमा’ इति च ॥ १० ॥

पदरत्नावली

भक्त्यादिसाधनसम्पत्त्या सत्यस्यापि बन्धस्य निवृत्तिः सुघटा गरुडध्यानेन विषनिवृत्तिवदित्यभिप्रेत्य तत्साधनमाह– हराविति ॥ हरौ मयि गुरौ स्थिते । हरौ मयीति वा । अनुवृत्त्या निरन्तरसेवया । (‘वितृष्णया विषयभोगाभिलोपरित्यागेन’ इति कपाठः) सर्वत्र योनिषु व्यसनावगत्या विविधक्लेशोऽस्तीति ज्ञानपूर्वकविचारेण(‘दुखानुसन्धानेन’ इति कपाठः) जिज्ञासया वेदान्तवाक्यविचारेण । पञ्चाग्निमध्यस्थित्यादितपसा । ईहानिवृत्त्या आत्मविहितकर्म-व्यतिरिक्तकर्मपरित्यागेन । तदुक्तम्– ‘आत्मनो विहितं कर्म वर्जयित्वाऽन्यकर्मणः । कामस्य वा परित्यागो निरीहेत्याहुरुत्तमाः ॥’ इति ॥ १० ॥

प्रकाशिका

ननु ग्रन्थिशैथिल्यमेव कथं भवेदित्यपेक्षायां तपो दिव्यं ह्यर्हथेत्यादि-नोक्तमनुक्तमन्यदपि मोक्षसाधनं सर्वं सङ्कलय्याह ॥ हराविति चतुर्भिः । गुरौ स्थिते हरौ मय्यनुवृत्त्या निरन्तरसेवया सर्वत्रेहामुत्र च व्यसनावगत्या क्लेशोऽस्तीति विचारेण तपसा कायक्लेशरूपेण । ईहानिवृत्त्येत्यस्य सर्वथा कर्मपरित्यागेनेति प्रतीतिवारणाय विवक्षितमर्थं प्रमाणेनैवाह ॥ आत्मनेति । अन्यकर्मणोऽविहितकर्मणः परित्याग इत्यन्वयः । कामस्येच्छया वा यः परित्यागस्तम् । तथा चेहाशब्दस्य चेष्टारूपकर्मार्थत्वे स्वाविहितकर्मनिवृत्त्येति । इच्छारूपकर्मार्थत्वे निषिद्धकामनिवृत्त्येति च मूलं व्याख्येयमिति भावः ॥ १० ॥

मत्कर्मभिर्मत्कथया च नित्यं मत्पादसङ्गाद्गुणकीर्तनान्मे ।

निर्वैरसाम्योपशमेन पुत्रा जिहासया देहगेहात्मबुद्धेः ॥ ११ ॥

पदरत्नावली

मत्कर्मभिर्मदाराधनलक्षणैः । मम पादः स्वरूपं येषु ते मत्पादाः । तेषां महतां सङ्गात् । मम प्रतिमा सेवालक्षणसङ्गाद्वा ‘देवकीनन्दन नन्दकुमार’ इत्यादिगुणनाम-सङ्कीर्तनात् ॥ भूतेषु निर्वैरेण साम्येनोपशमेन च देहात्मगेहात्मबुद्धेर्जिहासया हानेच्छया ॥११॥

प्रकाशिका

मत्कर्मभिर्मदाराधनलक्षणैः कर्मभिर्मम पादः सेव्यो येषां ते मत्पादा महान्तस्तेषां सङ्गात्केशवनारायणेत्यादीनि यानि गुणप्रतिपादकनामानि तेषां कीर्तनाद्भूतेषु निर्वैरेण साम्येनोपशमेन क्षांत्या च । हे पुत्राः । देहगेहयोरात्मबुद्धेरहंममेति स्वातन्त्र्याभिमानस्य जिहासया हानेच्छया ॥ ११ ॥

अध्यात्मयोगेन विविक्तसेवया प्राणेन्द्रियात्माभिजयेन सम्यक् ।

सच्छ्रद्धया ब्रह्मचर्येण शश्वदसम्प्रमादेन जयेन वाचाम् ॥ १२ ॥

पदरत्नावली

अध्यात्मयोगेन नाडीशोधनादिलक्षणेन प्राणस्येन्द्रियाणामात्मनो मनस-श्चभिजयेन वशीकरणेन सत्या प्रशस्तया श्रद्धया । असम्प्रमादेन इतिकर्तव्यताया अविस्मृत्या । वाचामिति पुनर्वागिन्द्रियग्रहणं दुःशास्त्राभ्यासनिवृत्त्यर्थम् । सर्वदा मौनकरणार्थं वा ॥ १२ ॥

प्रकाशिका

अध्यात्मयोगेनाध्यात्मशास्त्राभ्यासेन । प्राणश्चेन्द्रियाणामात्मनो मनसश्चाभि-जयेन वशीकरणेनासम्प्रमादेन इतिकर्तव्यतानामविस्मृत्या । वाचां जयेन मौनधारणेन ॥ १२ ॥

सर्वत्र मद्भावविचक्षणेन ज्ञानेन विज्ञानविराजितेन ।

योगेन धृत्युद्भवसत्वयुक्तो लिङ्गं व्यपोहेत्कुशलोऽहमाख्यम् ॥ १३ ॥

**तात्पर्यम् **

‘सर्वस्मादुत्तमो विष्णुरिति ज्ञानमुदाहृतम् । प्रतिजीवं येन मुक्ति-स्तद्विज्ञानं विदां मतम्’ इति च । ‘ज्ञानं विष्णोरुत्तमत्वे तदेव प्रतिपूरुषम् । विशेषेण तु विज्ञानं तच्च जानाति सर्ववित् । द्वात्रिंशल्लक्षणैर्युक्तस्तीक्ष्णदंष्ट्रश्च सौम्यदृक् । घोरदृक्चेति पुरुषः स सर्वज्ञ उदाहृत’ इत्यध्यात्मे ॥ ‘षण्णवत्यङ्गुलो यस्तु न्यग्रोधपरिमण्डलः । सप्त-पादश्चतुर्हस्तः स देवैरपि पूज्यत’ इति वायुप्रोक्ते ॥ न्यग्रोधमण्डलो व्यामो बाहू न्यग्रोध उच्यत’ इति ॥ १३ ॥

पदरत्नावली

मद्भावविचक्षणेन सर्वत्र मम सत्तालक्षणव्याप्तिदर्शनेन । येन मुक्तिः स्यात् तद्विज्ञानं तेन विराजितेन प्रतिजीवं विष्णुः सर्वस्मादुत्तम इति यत्तेन ज्ञानेन । तदुक्तं– ‘सर्वस्मादुत्तमो विष्णुरिति ज्ञानमुदाहृतम् । प्रतिजीवं येन मुक्तिस्तद् विज्ञानं विदां मतम्’॥ इति । यद्वा यद्विष्णोरुत्तमत्वज्ञानं तदेव प्रतिपूरुषं विशेषविषयं तद्विज्ञानं तेन विराजितेन विशेषितेन ज्ञानेन । अनयोर्विशेषं च सर्वज्ञो गुरुर्जानाति । तदुक्तम्– ‘ज्ञानं विष्णोरुत्तमत्वे तदेव प्रतिपूरुषम् । विशेषेण तु विज्ञानं तच्च जानाति सर्ववित्’ ॥ इति च । स्वस्वयोग्य-तानुसारेण सर्वेषामपि सर्वज्ञत्वेन तज्ज्ञानमपि विज्ञानं स्यादित्यतो व्यावृत्तलक्षणं वक्तव्यं तत्किमिति चेदुच्यते । द्वात्रिंशल्लक्षणाद्युपेत एव सर्वज्ञ इत्युच्यते न तु स्वयोग्यतानुसारेण विद्वान् । तदुक्तम्– ‘द्वात्रिंशल्लक्षणैर्युक्तस्तीक्ष्णदंष्ट्रश्च सौम्यदृक् । घोररुक् चेति पुरुषः स सर्वज्ञ उदाहृतः’ ॥ इति । सर्वज्ञस्य गुरोः प्रत्यक्षलक्षणान्यपि शास्त्रैर्निरूप्यन्ते– ‘षण्णवत्यङ्गुलो यस्तु न्यग्रोधपरिमण्डलः । सप्तपादश्चतुर्हस्तः स देवैरपि पूज्यते’ ॥ इत्यादौ न्यग्रोधपरिमण्डलो बाहुद्वयमण्डलमण्डितः ‘न्यग्रोधमण्डलो व्यामो बाहू न्यग्रोध उच्यते’ इति वचनात् (‘षण्णव-त्यङ्गुलः षडुत्तरनवतिसङ्ख्याकस्वाङ्गुलिपरिमितदैर्घ्यः । सप्तपादः सप्तसङ्ख्याकस्वपादपरिमित-दैर्घ्यः । चतुर्हस्तश् चतुःसङ्ख्याकस्वहस्तपरिमितदैर्घ्यः । एतादृशपुरुषो द्वात्रिंशल्लक्षणैर्युत इति यावत् । अत एव स दैवैरपि पूज्यते । उक्तं च भारततात्पर्यनिर्णये ‘सप्तपादश्चतुर्हस्तो द्वात्रिंशल्लक्षणैर्युतः । असंशयः संशयच्छिद् गुरुरुक्तो मनीषिभिः ॥’ इति कपाठकोशे अधिकांशोऽस्ति) योगेन ध्यानेन जिह्वोपस्थेन्द्रियजयो धृतिर् वैष्णवसिद्धान्तादचलनं वा । उद्भवसत्वं स्पष्टीकृतसत्त्वगुणस् ताभ्यां युक्तः, धृत्या उद्भवेन उत्कृष्टजन्मना सत्वेन ब्रह्मकल्पावध्यनशनेऽप्यम्लानेन युक्त इति वा । अहमाख्यम् अहंकारशब्दवाच्यं लिङ्गशरीरं व्यपोहेत् त्यजेत् ॥ १३ ॥

प्रकाशिका

मद्भावो मम स्थितिर्व्याप्तिस्तद्विचक्षणं तदनुसन्धानं तेन ज्ञानेन । विज्ञानविराजितेनेत्यत्र ज्ञानविज्ञानशब्दयोर्विवक्षितमर्थं प्रमाणेनैव दर्शयति ॥ सर्वस्मादिति । सर्वस्मादुत्तमो विष्णुरिति । येन ज्ञानेन । नन्वेवं विज्ञाने सर्वोत्तमत्वं न भातीत्यवगतम् । तथात्वे कथं तस्य मोक्षजनकत्वम् । तमेवं विद्वानित्यादिना सर्वोत्तमत्वज्ञानस्यैव मोक्षजनक-तयोक्तत्वादित्याशङ्कायां प्रमाणान्तरेण परिहरति ॥ ज्ञानमिति । विष्णोरुत्तमत्वविषये यज्ज्ञानं तदेव । तुशब्देन विशेषाणां तत्तद्योग्यमोक्षानुकूलत्वं द्योत्यते । प्रतिपूरुषं तु विशेषेण प्रतिपुरुषयोग्यमोक्षानुकूलं भगवद्गुणविशेषविषयेण सहितं चेद्विज्ञानं भवतीत्यर्थः । तथा च सर्वोत्तमत्वज्ञानस्यैवोक्तविशेषविषयकस्य विज्ञानस्योक्तत्वान्नोक्तशङ्काऽवकाश इति भावः । ननु प्रतिपुरुषमुपास्यभगवद्गुणविशेषाणां पूर्वं ज्ञातुमशक्यत्वात्कथमुपासनायां प्रवृत्तिरित्यत उक्तम् ॥ तच्चेति । चशब्दोऽनुक्ततदुपदेशसङ्ग्राहकः । सर्ववित्सर्वज्ञो गुरुः । तदुपदेशेनाधिकारिणः पूर्वं तज्ज्ञानं सुलभमित्यर्थः ।

ननु गुरुसार्वज्ञमेव कथं ज्ञेय इत्यतस्तदनुमापकलक्षणानि प्रमाणेन दर्शयति ॥ द्वात्रिंश-दिति । तीक्ष्णदंष्ट्रस् तीक्ष्णदन्तो भक्तानां सौम्यदृक् । अभक्तानां घोरदृक् । ननु द्वात्रिंशल्लक्षणा-न्येव कथं ज्ञेयानीत्यपेक्षायां तदनुमापकानि प्रसिद्धलक्षणान्याह ॥ षण्णवत्यङ्गुल इति । षडुत्तरनवतिसङ्ख्याकस्वांगुलिपरिमितदैर्घ्यः सप्तपादः सप्तसङ्ख्यातस्वपादपरिमितदैर्घ्यश् चतुर्हस्त-श्चतुःसङ्ख्याकस्वहस्तपरिमितदैर्घ्यः । स द्वात्रिंशल्लक्षणैर्युत इति शेषः । अत एव स देवैः पूज्यत इत्यर्थः । अत एव भारततात्पर्यनिर्णये ॥ सप्तपादश्चतुर्हस्तो द्वात्रिंशल्लक्षणैर्युत इति पाठः । मिलितानामेवैषां द्वात्रिंशल्लक्षणानुमापकत्वमतो न व्यभिचारशङ्केति ध्येयम् । न्यग्रोध-परिमण्डल इत्यस्य प्रकृतोपयोगमर्थं प्रमाणेन दर्शयति ॥ न्यग्रोधपरिमण्डल इति । व्यामो व्यामपरिमितदैर्घ्यः । ननु न्यग्रोधशब्दस्य व्यामार्थकत्वं कुत इत्यतस्तदुपपादयति ॥ बाहू इति । बाहुद्वयं न्यग्रोधशब्देनोच्यते । बाहुद्वयमेव व्यामोऽत उक्तमुपपन्नमित्यर्थः । ततश्च ज्ञानेन सर्वस्मादुत्तम इति ज्ञानेन । कथंभूतेन । विज्ञानविराजितेन । इदमेव तत्तदधिकारियोग्य-मोक्षानुकूलभगवद्गुणविशेषकं सद्विज्ञानमिति प्रतीतेनेति मूलं व्याख्येयमिति भावः । योगेन ध्यानेन धृतिर्वैष्णवसिद्धान्तादचलनम् उद् भवो यस्य तदुद्भवम् । उद्भूतमिति यावत् । सत्त्वं सत्त्वगुणस्ताभ्यां युक्तो लिङ्गं लिङ्गशरीरमहमाख्यमहङ्कारकार्यभूतेन्द्रियोपचितत्वादहङ्कार-शब्दवाच्यमहमित्यभिमानेन मूलकारणतया व्याख्यायत इत्यहमाख्यमिति वा ॥ १३ ॥

कर्माशयं हृदयग्रन्थिबन्धमविद्यासादितमप्रमत्तः ।

अनेन योगेन यथोपदेशं सम्यग्व्यपोह्योपरमेत योगात् ।

पुत्रांश्च शिष्यांश्च पिता गुरुर्वा मल्लोककामो मदनुग्रहार्थः ॥ १४ ॥

पदरत्नावली

किं विशिष्टं लिङ्गं (हेयत्वप्रदर्शनाय लिङ्गदेहस्य विशेषान्तराणि वदन् लिङ्गदेहभङ्गानन्तरं स्वरूपानन्दाविर्भावो भवतीत्याह– कर्माशयमिति ॥ इति कपाठः) कर्माण्याशेरतेऽस्मिन्निति कर्माशयम् । हृदयग्रन्थिं मिथुनीभावलक्षणं बध्नातीति हृदयग्रन्थिबन्धम् अविद्ययाऽज्ञानेन आसादितं प्राप्तम् । अनेनोक्तेन योगेन व्यपोह्य निरस्य, पश्चाद्योगादुपरमेत । प्रासादात् प्रेक्षत इतिवत् पश्चाद्योगमुपक्रम्य क्रीडत इत्यर्थः । उक्तमतिदिशति– पुत्रानिति ॥ शिक्षाफलमाह– मदनुग्रहार्थ इति ॥ ममानुग्रह एवार्थः प्रयोजनं यस्य स तथा, मत्प्रसादलभ्यो मोक्षो यस्येति वा ॥ १४ ॥

प्रकाशिका

हेयत्वप्रदर्शनाय लिङ्गदेहस्य विशेषान्तराणि वदन् लिङ्गदेहत्यागानन्तरं स्वरूपानन्दमनुभवतीत्याह ॥ कर्माशयमिति । कर्माशयं कर्मपरंपरासम्पादकं स्त्रीपुरुषयो-रन्योन्यस्मिन् हृदययोर्ग्रन्थिबन्धाविद्यया भगवदज्ञानेन तदिच्छया वा आसादितमनादितः प्राप्तमप्रमत्तः सन् व्यपोह्य त्यक्त्वा योगादपरोक्षज्ञानानन्तरमनुष्ठिताद्ध्यानादिरूपादुपायादुप भगवत्समीपे रमते । स्वस्वरूपसुखानुभववान् भवतीत्यर्थः । योगिना मत्प्रीत्यर्थं सज्जन-शिक्षाऽपि कार्येत्याह ॥ पुत्रांश्चेति । मल्लोककाम इति मध्यमाधिकार्यपेक्षया । उत्तमाधि-कार्यपेक्षया त्वाह ॥ मदनुग्रहार्थ इति । ममानुग्रह एवार्थः प्रयोजनं यस्य स तथा ॥ १४ ॥

इत्थं विमन्युरनुशिष्यादतज्ज्ञान्न योजयेत्कर्मसु कर्ममूढान् ।

कं योजयन्मनुजोऽर्थं लभेत निपातयन्नष्टदृशं हि गर्ते ॥ १५ ॥

पदरत्नावली

विमन्युर् ज्ञानशीलः, विगतपापो वा निरस्तक्रोधो वा । अतज्ज्ञान् ब्रह्मज्ञान्(‘मोक्षोपायज्ञानरहितान् अत एव कर्ममूढान् प्रवृत्तकर्मसु मूढान् एतानि काम्यकर्माण्येव परमपुरुषार्थसाधनानीति भ्रान्तिमतः कर्मसु प्रवृत्तकर्मस्वेव न योजयेन् न प्रेरयेत्’ इति कपाठः) ननु कर्मकरणप्रेरणायां गुरुत्वेन पूजादिलाभात् किमिति न योजयेदित्युच्यत इति तत्राह– कं योजयन्निति ॥ प्रवृत्तिकर्मणि प्रेरयन् कमर्थं लभेत । न कमपि । प्रत्युत ज्ञानचक्षूरहितस्य अधःपातहेतुत्वेन स्वस्यापि नरकपातः स्यादित्यभिप्रेत्याह– निपातयन्निति ॥ १५ ॥

प्रकाशिका

विमन्युरुपदिष्टोऽपि पुनरज्ञातांशप्रश्ने कोपशून्योऽतज्ज्ञान्मोक्षोपायज्ञान-शून्यान् कर्मसु काम्येषु कर्ममूढान् कर्मैवोत्तमं श्रेयःसाधनमिति भ्रान्तान् । योजने बाधकमप्याह ॥ कमिति । मनुजो ज्ञानी । अर्थं पुरुषार्थं कं लभेत न कमपि ॥ १५ ॥

लोकः स्वयं श्रेयसि नष्टदृष्टिर्योऽर्थान्समीहेत निकामकामः ।

अन्योन्यवैरं सुखलेशहेतोरनन्तदुःखं च न वेद मूढः ॥ १६ ॥

पदरत्नावली

मा भूत् परोपदेशस्तथापि स्वयमेव प्रवर्तमानो जनोऽर्थान् लभतामत्राह– लोक इति ॥ नितरां कामकामो विषयभोगेच्छा यस्य स तथा । अत एव श्रेयसि नष्ट(शास्त्र)दृष्टिः । स्वयमुपदेशं विना यो लोको जनोऽर्थानापादयितुं समीहेत इच्छेत् स जनस्तेषामर्थानां मध्ये कं पुरुषार्थं लभते । न कमपीति पूर्वेणान्वयः । न केवलं पुरुषार्थानवाप्तिर् अपि तु बहुदुःखावाप्तिश्च स्यादित्याह– अन्योन्येति ॥ सुखलेश-हेतोरन्योन्यवैरम् अनन्तदुःखं च मूढो न वेद ॥ १६ ॥

प्रकाशिका

न योजयेदित्युक्तमेवोपपादयति ॥ लोक इति त्रिभिः । नष्टदृष्टित्वे हेतुः ॥ य इति । अर्थेतरान्मोक्षेतरान् पुरुषार्थान्निकाममतिशयेन कामो यस्य स तथा । नन्वर्थेहायाः सुखहेतुत्वात्कथं तं कुर्वतो नष्टदृष्टित्वमित्यत उक्तम् ॥ अन्योन्येति । सुखं स्वल्पं बलवदनिष्ठानुबन्धि चेति न वेद । अतो मूढो नष्टदृष्टिरिति निगमनम् ॥ १६ ॥

कस्तं स्वयं तदभिज्ञो विपश्चिदविद्यायामन्तरे वर्तमानम् ।

दृष्ट्वा पुनस्तं स घृणः कुबुद्धिं प्रयोजयेदुत्पथगं यथान्धम् ॥ १७ ॥

पदरत्नावली

तर्ह्यमूढो वेत्तीत्यायातं तदस्तु, ततः किं तत्राह– कस्तमिति ॥ स्वयं तदभिज्ञः प्रवृत्तिधर्मादनन्तदुःखावाप्तिमभिजानन् को विपश्चिज् ज्ञानी पुरुषो ऽविद्यायामन्तरे अज्ञाननिमित्तसंसारबिले वर्तमानं कुबुद्धिं तं दृष्ट्वा सघृणो दयालुः पुनरपि तं पुरुषं प्रवृत्तिधर्मे प्रयोजयेत् । न प्रयोजयतीत्यर्थः । कथमिव । उत्पथगं मार्गं विहाय गच्छन्तमन्धं यथा कुमार्गे न योजयति तथेत्यर्थः ॥ १७ ॥

प्रकाशिका

तमीदृशं कुबुद्धिं दृष्ट्वा सघृणः कृपालुः कोऽभिज्ञः को विपश्चित्स्वयं तादृशानर्थाभिज्ञः सन् पुनस्तं तत्रैव प्रयोजयेत्प्रवर्तयेन्न कोऽपि । यथोत्पथगमुन्मार्गेण गच्छन्तमन्धं कृपालुर्मार्गाभिज्ञः कस्तेनैव पथा गच्छेति ब्रूयान्न कोऽपि तथैवेति ॥ १७ ॥

गुरुर्न सः स्यात्स्वजनो न सः स्यात्पिता न सः स्याज्जननी न सा स्यात् ।

दैवं न तत्स्यान्नृपतिश्च सः स्यान्न मोचयेद्यः समुपेतमृत्युम् ॥ १८ ॥

पदरत्नावली

इतोऽपि प्रवृत्तिधर्मस्योपदेष्टॄणां गुरुत्वादिकमपि न स्यादित्याह (‘ननु प्रवृत्तमार्गे को विपश्चित् प्रेरयेत्, न कोऽपीति यदुक्तं तन्न युक्तम् । यतस्तत्रेव नियोजयतां गुर्वादीनां बहूनां स्वजनानां सत्वादिति चेन्न । प्रवृत्तमार्गे प्रवृत्तिमुपदिशत्सु तेषु गुरुत्वादि-प्रतिपत्तिरेव न कर्तव्या । यतस्तेषु वास्तवं गुरुत्वादिकं नास्त्येवेत्याशयेनाह’ इति कपाठः)– गुरुरिति ॥ समुपेतमृत्युमज्ञानादवाप्तसंसारं प्रवृत्तिधर्मस्योपदेष्टरि शिष्येण गुर्वादि-बुद्धिरपि न कर्तव्येत्यतो वाह– गुरुरिति ॥ गुरुरिति पूज्यो न स्यादित्याद्युक्तम् ॥ १८ ॥

प्रकाशिका

ननु काम्यकर्मणो मयि गुर्वादिभिरुपदिष्टत्वादिन्द्रादिदेवतोद्देश्यकत्वाच्च कथं निषिध्यते इत्यपेक्षायां न ते गुर्वादय इत्याह ॥ गुरुरिति । दैवं कर्मण्युद्देश्यं समुपेत-मज्ञानादिप्राप्तं मृत्युं संसारं यो निवृत्तमार्गोपदेशादिना न मोचयेत् । प्रत्युत प्रवृत्तिमार्ग-मेवोपदिशेत्स गुर्वादिर्गुर्वादित्वेन पूज्यो न स्यादित्यर्थः ॥ १८ ॥

इदं शरीरं मम दुर्विभाव्यं सत्वं हि मे हृदयं यत्र धर्मः ।

पृष्ठे कृतो मे यदधर्म आरादतो हि मामृषभं प्राहुरार्याः ॥ १९ ॥

पदरत्नावली

अतो गुर्वादिना हरेः स्वरूपमुपदेष्टव्यमित्याशयवानाह– इदं शरीरमिति ॥ दुर्विभाव्यं दुर्निरूप्यम् अपरिच्छिन्नत्वादभौतिकत्वाज् ज्ञानात्मकत्वाच्च । कुत इत्यत्राह– सत्वमिति ॥ मे सत्वं बलज्ञानसमाहारलक्षणं वस्तु हृदयं हि यस्मात्तस्माज् ज्ञानपूर्वमनुष्ठित एव धर्मः, न त्वन्य इत्यभिप्रेत्याह– यत्रेति ॥ यत्र यस्मिन् ज्ञानात्मके हृदये धर्मः स्थितः । अनेन ज्ञानपूर्वानुष्ठितो धर्मः नित्यफलप्रद इत्युक्तं भवति । प्रसङ्गादधर्मस्थानमाह– पृष्ठ इति ॥ मे पृष्ठे भूत्वाधर्म आरात्कृतो दूरीकृत इति । यद्यस्मात्तस्माज्ज्ञानरूपत्वाद्धर्मादिस्थितिहेतुत्वाच्च ऋषभमाहुर् ज्ञानपूर्वकमनुष्ठितधर्मं हृदये बिभर्तीति । के आर्याः शब्दतत्त्वार्थवेदिन इति ॥ १९ ॥

प्रकाशिका

एवं सर्वाधिकारिसाधारणं मोक्षसाधनं निरूप्येदानीं स्वपुत्राणामेव स्पर्धानिवृत्तये ज्येष्ठभ्रातृशुश्रूषणमपि मोक्षसाधनतया विधातुं तदुपयुक्ततयाऽऽदौ तावत्स्वशरीर-स्थितिं तेषां जन्म चाह ॥ इदं शरीरमित्यादिना । इदं मनुष्यवद्दृश्यमानं दुर्विभाव्यम-प्राकृतत्वात्प्राकृतैर्ज्ञातुमशक्यम् । न लोकसाधारणमिति यावत् । कुत इत्यत आह । हि यस्मात्सत्त्वं सत्त्वगुणमेव मे हृदयं प्रति विषयं न तु रजआदिः । अत्र ज्ञापकमाह ॥ यत्रेति । यत्र मदीये शरीरे सति धर्मः प्रवृद्धोऽधर्म आराद्दूरादेव पृष्टे कृत उत्सारितः । अत्रापि ज्ञापकमाह ॥ अत इति । हिशब्दोऽवधारणे । अत एव मामृषभं श्रेष्ठमाहुः । अन्यथा तन्न स्यादित्याशयः ॥ १९ ॥

तस्माद्भवन्तो हृदयेन जाताः सर्वे महीयांसममुं१ सुनाभम् ।

अक्लृष्टबुद्ध्या भरतं भजध्वं शुश्रूषणं तद्भरणं प्रजानाम् ॥ २० ॥

तात्पर्यम्

‘नाभिरित्यथ नाम स्याद्धरेः सर्वाश्रयो यत’ इति कौर्मे । तत्तस्य मम शुश्रूषणम् ॥ २० ॥

पदरत्नावली

उक्तार्थमुपसंहरन्नेषां योग्यगुणविशिष्टं हरिमुपदिशति– तस्मादिति ॥ भवन्तः सर्वे मम हृदयेन जाता इति यस्मात्तस्माद्यूयं महीयांसं महतोऽपि महान्तं भरतं प्रजाभरणरतं सुनाभं सर्वाधारं हरिम् अक्लिष्टबुद्ध्या भजध्वम् । ‘नाभिरित्यथ नाम स्याद्धरेः सर्वाश्रयो यत’ इति वचनाद्धरेरिदं यौगिकं नाम । अनेन भरतो येषां पूज्य इति ध्वनयति । भवच्छुश्रूषणेन भवत्प्रीत्या मुक्तिः करतलगता स्यात् । ज्येष्ठानुवर्तनशुश्रूषणलक्षणेन किमित्या-शङ्क्य भवद्भिरनुवर्तितेन भरतेन यत्प्रजानां भरणं तत्रस्थस्य मम शुश्रूषणं भवतीत्याह– शुश्रूषणमिति ॥ ज्येष्ठानुवृत्त्या राष्ट्रभेदाभावेन भवद्भिरपि प्रजाभरणमनुष्ठितमिति । अतः शुश्रूषद्भिर्भवद्भिरपि मम शुश्रूषणं कृतमिति ज्ञातव्यम् (‘स्वातन्त्र्यादिगुणपूर्णत्वेन भशब्दप्रतिपाद्ये विष्णौ रतत्वेन भरतनामकं हरिभक्तप्रवरं मुख्यप्राणं भजध्वमिति चार्थो ज्ञेयः । ‘भशब्दो भवने प्रोक्तो गुणपूर्णे च केशवे’ इति इत्युत्पलमाला । ‘भ स्वातन्त्र्ये’ इति धातोश्च । अत्रैवं श्रीमद्धृषीकेशतीर्थीयधातुपाठसङ्ग्रहः । ‘भा दीप्तौ, भा ज्ञाने, भ आधारभावे, भ औदार्ये,भ सन्धाने, भ उपादाने, भ निकटभावे, भ सेव्यत्वे, भ ऊरीकरणे, भ सन्ततिभावे, भ नानाभावे, भ वैलक्षण्ये, भ आधिक्ये, भ स्वातन्त्र्ये, भ आनन्दे, भ सन्ततवचने भ पूज्यभावे, भ विस्तारे, भ विनाशने, भ स्वामिभावे, भ निश्चलभावे, भ उग्रभावे, भ उद्गाने, भ सम्मोहने, भ सञ्चारे, भ विदारणे, भ आलोचने, भ सुन्दरभावे’ इति । अत्र समुचितधातुपाठयोजनेन शिष्टजनैर्विशिष्टार्थोऽवगन्तव्यः । षष्ठ्यर्थे तदित्युक्तम् । तथाच तत् तस्य भूरिगुणभरितस्य भरतस्य शुश्रूषणं ममैव शुश्रूषणं सेवारूपम् । तद्भजनेनैव प्रजानामपि भरणं कृतं स्यात् ॥’ इति कपाठकोशे अधिकांशोऽस्ति) ॥ २० ॥

प्रकाशिका

तस्माद्धर्माभिवृद्धिजनकान्मच्छरीराद्भवन्तो हृदयेन मत्प्रीतिविषयेण सत्त्वेन सर्वे जाताः । अनेन राजपुत्रत्वादस्माकमपि कुतो न राज्यमिति स्पर्धा भवतां नोचितेति सूचितम् । यदर्थं स्वशरीरस्थित्यादिकमुक्तं तदिदानीं विधत्ते ॥ महीयांसमिति । महीयांसं महत्तमम् । अमुं भवद्भ्योऽपि ज्येष्ठं सु शोभमानो नाभिर्जनको यस्य सुनाभस्तं भरतमक्लृष्टबुद्ध्या स्पर्धारहितया बुद्ध्या भजध्वम् । अत्र ऋषभतातो नाभिरिति प्रतीतिवारणाय नाभिशब्दवाच्यत्वं हरेः प्रमाणेनैवाह ॥ नाभिरिति । अथशब्दोऽप्यर्थः । नाभिरित्यपि नाम स्यादित्यर्थः । अत एव मूले सुशब्देनायं विशेषितः । तथा च सर्वाश्रयत्वाच्छोभनो नाभिशब्दवाच्योऽहं जनको यस्य तम् । मत्पुत्रमिति यावदिति मूलं व्याख्येयमिति भावः । सर्वाश्रयस्य मम पुत्रोऽपि सर्वाश्रयो भविष्यतीति ज्ञापनायेदमुक्तमिति ज्ञातव्यम् । तदित्येतत्प्रथमान्तत्वेऽनन्वितमित्यालोच्य षष्ठ्यन्ततया व्याख्याति ॥ तत्तस्येति । तथा च तदित्यव्ययमिति भावः । तेन भरत-परामर्शप्रतीतिवारणायाह ॥ ममेति । अस्य भरणमित्यनेनान्वयप्रतीतिवारणायान्वयमाह ॥ शुश्रूषणमिति । ततश्चायमर्थः ॥ प्रजानां भरणं भरतकर्तृकं तत्तस्य भवज्जनकस्य मम शुश्रूषणं सेवारूपम् । अक्लृष्टबुध्या भरतभजने भवद्भिरपि राष्ट्रभेदाभावेन प्रजाभरणलक्षणं मच्छुश्रूषणं कृतं स्यादतोऽक्लृष्टबुध्या भरतं भजध्वमित्यर्थः ॥ २० ॥

भूतेषु वीरुद्भ्य उदुत्तमा ये सरीसृपास्तेषु सुबोधनिष्ठाः ।

ततो मनुष्याः प्रवरास्ततोऽपि गन्धर्वसिद्धा विबुधानुगा ये ॥ २१ ॥

पदरत्नावली

तारतम्यज्ञानमेव मुक्तिसाधनं नान्यद् इति भावेन तदाह– भूतेष्विति ॥ भूतेषूत्पन्नेषु प्राणिषु मध्ये वीरुद्भ्यः स्तावरेभ्यो ये सरीसृपा जङ्गमास्त उदुत्तमा उत्कृष्टतमा इति ज्ञेयाः । तेषु सरीसृपेषु ये सुबोधनिष्ठा ज्ञानयुक्तास्ते पश्वादीनामुत्तमा इति सर्वत्र योज्यम्(‘पूर्वोक्तेभ्यः पश्चादुक्तेषु यथाक्रमं हरिसन्निधानमधिकमिति ज्ञातव्यम् । विबुधानुगा देवानुचराः’ इति कपाठः) ॥ २१ ॥

प्रकाशिका

इदानीं मोक्षार्थं जीवेषु तारतम्यमप्यवश्यं ज्ञातव्यमित्याशयेन तन्निरूप-यन्ज्ञानविज्ञानविषयीभूतं सर्वोत्तमत्वं विशदयति ॥ भूतेष्वित्यादिना । भूतेषु प्राणिषु मध्ये वीरुद्भ्यः स्थावरेभ्यः सरीसृपा जंगमा उदुत्तमा उद् उच्चैरतिशयेनोत्तमास्तेषु मध्ये सुबोधा ज्ञानयुक्ता निष्ठा स्थितिर्येषां पश्वादीनामुत्तमास्तेभ्योऽपि देवाः प्रवराः ॥ २१ ॥

देवा सुरेभ्यो१ मघवान् प्रधानो दक्षादयो ब्रह्मसुताश्च तेषाम् ।

भवः परः सोऽथ विरिञ्चिवीर्यः स मत्परोऽहं द्विजदेवदेवः ॥ २२ ॥

तात्पर्यम्

द्विजदेवानां देवः ॥ २२ ॥

पदरत्नावली

ये दक्षादयो ब्रह्मसुताः सनकादयश्च तेषां सकाशान् मघवान् इन्द्रः प्रधान इत्यर्थः । अथ इन्द्रानन्तरं विरिञ्चवीर्यो विरिञ्चपुत्रो यो भवः स रुद्र उत्तमः । स विरिञ्चस्तस्माद्रुद्रात्परः । तस्मादहमेव परो नान्य इत्यत उक्तम्– मत्पर इति ॥ अहमेव परो यस्य स तथा । अनेन मुख्यप्राणस्य विरिञ्चसमत्वं सूचयति । राजभिर्ब्राह्मणभक्ति-र्विशेषतोऽनुष्ठेयेति वेदयितुमाह– अहं द्विजेति ॥ द्विजदेवानां देवः ॥ २२ ॥

प्रकाशिका

सुरेभ्यो देवेभ्यो मघवानिन्द्र प्रधानः । देवा सुरेभ्य इति पाठे विसर्गलोप-श्छान्दसः । ये दक्षादयो ब्रह्मसुतास्तेषां सकाशान्मघवान्प्रधानः । अथेन्द्रानन्तरं भवो रुद्रः परः स रुद्रो विरिञ्चवीर्यो विरिञ्चपुत्रो विरिञ्चस्तस्मादुत्तम इत्यर्थः । स विरिञ्चोऽहं परो यस्य स मत्परः । तदपेक्षयाऽहं पर इत्यर्थः । एवं तारतम्यांगत्वेन सर्वोत्तमत्वमुक्त्वेदानीं क्षत्रियै-र्भवद्भिर्ब्राह्मणा अवश्यं पूज्या इत्याशयेन तं स्तौति ॥ अहं द्विजदेव इत्यादिना । अत्र बहुव्रीहित्वं बाधितमतः षष्ठीतत्पुरुष एवेत्याशयेन विग्रहं दर्शयति ॥ द्विजदेवानामिति । द्विजदेवानां देवः । ब्राह्मणश्रेष्ठानां देवः । तथा च ब्राह्मणानां मत्पूजकत्वात्तत्पूजाऽवश्यं भवद्भिः कार्येत्याशयः ॥ २२ ॥

न ब्राह्मणैस्तुलये भूतमन्यत्पश्यामि विप्रात्किमतः परं नु ।

यस्मिन्नृभिः प्रहुतं श्रद्धयाहमश्नामि कामं न तथाऽग्निहोत्रे ॥ २३ ॥

पदरत्नावली

क्षत्रादीनामैश्वर्यमदेन ब्राह्मणतिरस्कारसम्भवेन कुलनाशः स्यात् स चानुपपन्न इति तेषु श्रद्धातिशयजननार्थमाह– न ब्राह्मणैरिति ॥ ज्ञानपात्रत्वात् (‘ब्राह्मणै-र्ब्रह्मज्ञानिभिरन्यद् भूतं प्राणिं न तुलये तुल्यं न गणयामि । मुख्यतो ब्राह्मणशब्दवाच्यैश्चतुर्मुख-मुख्यप्राणप्रमुखैरन्यद् भूतं न तुलये इति चार्थो विज्ञेयः । ब्रह्म वेदः, तदणति सम्यगवच्छतीति ब्राह्मणः । मुख्यप्राणस्य स्वरूपैर् हनूमदादिभिर् ब्राह्मणैश्च ।’ इति कपाठः) अतः (‘मुख्यप्राणात्’ इति कपाठः) विप्रात् परमुत्तमं मम सन्निधानपात्रं किन्नु? न किमपीत्यर्थः । कुत एतदत्राह– यस्मिन्निति ॥ मम तृप्तिहेतुत्वादित्यर्थः । नन्वग्न्यादेः सम्भवात् किं विशेष्योच्यत इति तत्राह– न तथेति ॥ २३ ॥

प्रकाशिका

इदानीं ब्राह्मणानां मत्पूजाधिष्ठानत्वाच्च तेऽवश्यं पूज्या इत्याशयेनाह ॥ न ब्राह्मणैरिति । अन्यद्भूतं प्राणिम् । ब्राह्मणैर्न तुलये न समं पश्यामि । ब्राह्मणसमं मत्पूजाधिष्ठानमन्यन्नैवास्तीत्यर्थः । अतो विप्रात्परं मत्पूजाधिष्ठानं किं नु पश्यामि न किमपि । समस्यैवाभावादधिकं कुतस्त्यमित्याशयः । कुत इत्यतस्तदुपपादयति ॥ यस्मिन्निति । यस्मिन् ब्राह्मणे प्रकर्षेण हुतं कामं यथा स्यात्तथाऽश्नामि । अतो विप्रादिति सम्बन्धः । अनेन मत्तृप्तिजनकहोमाधिष्ठानत्वादिति युक्तिरुक्तेति ज्ञेयम् । नन्वग्निरपि तादृशोऽस्तीत्यपेक्षायामाह ॥ न तथेति । अग्निहोत्रे अग्निरूपहोमाधिकरणे तथा नाश्नामीत्यन्वयः । अग्निहोत्राख्ये कर्मण्यग्नौ हुतमिति वा ॥ २३ ॥

धृतास्तनूरुशतीर्मे पुराणीर्येनेह सत्वं परमं पवित्रम् ।

शमो दमः सत्वमनुग्रहश्च तपस्तितिक्षाऽनुभवश्च यत्र ॥ २४ ॥

पदरत्नावली

अग्न्यादेर्गुणवैशिष्ट्यादित्याह– धृतास्तनूरिति ॥ पवित्रं सत्वं शमादिगुणा अनुभवो ज्ञानं च यत्र येषु ब्राह्मणेषु सन्ति ते ब्राह्मणा मे पुराणीर् उशतीः शुद्धास्तनू-र्मत्स्यादिलक्षणा वेदाख्या वा धृता धारयन्तीति येन । तस्माद् ब्राह्माणेभ्यः परं न किमपीति भावः । यद्वा येन ब्राह्मणकुलेन अपौरुषेयत्वेन निर्मलाः पुराणीर् अनादिनिधना मे तनूस्तनवो वेदलक्षणा धृता यत्र ब्रह्मकुले सत्वादिगुणाः सन्ति, तस्मात् परमुत्तमं न किमपीति ॥ २४ ॥

प्रकाशिका

अग्न्याद्यपेक्षया ब्राह्मणानां श्रैष्ठ्योपपादकगुणानाह ॥ धृता इत्यादिना । तनूस्तनवो वेदरूपा मत्स्यादिरूपा वोशतीरुशत्यो निर्मलाः पुराण्यनादिनित्या इह लोके येन ब्राह्मणेन धृता यत्र च ब्राह्मणे सत्त्वादयोऽष्टौ गुणाः सन्ति । अनुभवो ब्रह्मज्ञानं तस्मात्परमुत्तमं न किमपीत्यन्वयः ॥ २४ ॥

मत्तोऽप्यनन्तात्परतः परस्मात्स्वर्गापवर्गाधिपतेर्न किञ्चित् ।

येषां किमु स्यादितरेण तेषामकिञ्चनानां मयि भक्तिभाजाम् ॥ २५ ॥

पदरत्नावली

ब्राह्मणेष्वपि विशेषोऽस्तीत्याह– मत्त इति ॥ येषां मत्तोऽपि न किञ्चित्प्रयोजनमस्ति तेषामितरेण स्वर्गाद्याशीर्लक्षणेन पुरुषार्थेन किमु स्यान्न किमपीत्यन्वयः । स्ववचो विश्वासार्थमनन्तादित्यादिविशेषणं भक्तिमन्तरेणान्यन् न किमप्यपेक्षणीयमिति प्रकटनाय अकिञ्चनानां भक्तिभाजामिति विशेषणद्वयम् ॥ २५ ॥

प्रकाशिका

ब्राह्मणेष्वपि ये निस्पृहा मद्भक्ताश्च तेऽतिशयेन पूज्या इत्याशयेनाह ॥ मत्तोऽपीति । अनन्तादित्यादिविशेषणत्रयेण स्वस्य सर्वदा सर्वत्रानन्याधीनतया प्रार्थितप्रधान-सामर्थ्यमुक्तमिति ज्ञातव्यम् । न किञ्चित्प्रार्थनीयमस्तीति शेषः । तेषामितरेणोक्तविपरीतेन राजादिना किमु प्रार्थनीयं स्यान्न किमपि । अत्र हेतुकथनायोक्तम् ॥ अकिञ्चनानामिति । अः परमात्मैव किञ्चनं द्रव्यवत्प्रार्थनीयो येषां तेषामित्यर्थः । तदपि कुत इत्यत उक्तम् ॥ मयि भक्तिभाजामिति ॥ २५ ॥

सर्वाणि मद्धिष्ण्यतया भवद्भिश्चराणि भूतानि सुता ध्रुवाणि ।

सम्भावितव्यानि पदेपदे वो विविक्तदृष्टिस्तदुतार्हणं मे ॥ २६ ॥

तात्पर्यम्

विविक्तदृष्टिर्जीवानां धिष्ण्यतया परमेश्वरस्य भेददृष्टिः । ‘उपपादये-त्परात्मानं जीवेभ्यो यः पदे पदे । भेदेनैव न चैतस्मात्प्रियो विष्णोस्तु कश्चन’ इति पाद्मे ॥ ‘यो हरेश्चैव जीवानां भेदवक्ता हरेः प्रिय’ इति च ॥ २६ ॥

पदरत्नावली

इदानीं चराचरभूतानि स्वनिवासहेतुत्वेन सम्भाव्यानीत्याह– सर्वाणीति ॥ हे सुता भवद्भिः सर्वाणि भूतानि मद्धिष्ण्यतया मम निवासस्थानत्वेन ध्रुवाणि निश्चितानि । सम्भावितव्यानीत्यन्वयः । ननु मम धिष्ण्यतया मम विग्रहत्वेन स्वरूपत्वेन सम्भावितव्यानीत्यर्थः किं न स्यादित्याशङ्क्य तस्य तदपूजनत्वादित्याह– पदे पद इति ॥ या पदे पदे अनुक्षणं विविक्तदृष्टिर् जीवानां धिष्ण्यतया परमेश्वरस्य भेददृष्टिर् भेददर्शनं तदुत तदेव मे अर्हणं भवति । प्रीतिजनकं नान्यदित्यर्थ इति । यद्वा भेददर्शनमेव नार्हणम्, अपि तु भेदप्रतिपादनमपीति द्योतयितुम्– उतेति ॥ तदुक्तम्– ‘उपपादयेत् परात्मानं जीवेभ्यो यः पदे पदे । भेदेनैव न चैतस्मात् प्रियो विष्णोऽस्तु कश्चन’॥ इति । ‘यो हरेश्चैव जीवानां भेदवक्ता हरेः प्रियः’ इति च । अनेन भेददर्शनात् प्रतिपादनस्य फलाधिक्यं भवतीति ध्वनितमिति ॥ २६ ॥

प्रकाशिका

एवं ब्राह्मणानां विशेषतः स्वाधिष्ठानतया सम्भाव्यतामुक्त्वेदानीं सर्वाण्यपि भूतानि मदधिष्ठानतया यथायोग्यं सम्भावितव्यानीत्याह ॥ सर्वाणीति ॥ हे सुता भवद्भिश्चराणि जङ्गमानि ध्रुवाणि स्थावराणि सर्वाणि भूतानि मद्धिष्ण्यतया मन्निवासस्थानत्वेन सम्भावितव्यानि यथायोग्यं संमाननीयानि । ननु ब्राह्मणसम्भावनयैवालम् । किं सर्वभूत-सम्भावनयेत्यपेक्षायामाह ॥ पदे पद इति । अत्र विविक्तदृष्टिरित्यस्य प्रकृतसङ्गतमर्थं दर्शयति ॥ जीवानामिति । परमेश्वरस्य धिष्ण्यतयेति सम्बन्धः । इदमुपलक्षणम् । परमेश्वरस्याधिष्ठानतया जीवानां सकाशाद्भेददृष्टिरपि ग्राह्या । अत्र दृष्टिशब्देन युक्त्योपपादनमेव विवक्षितम् ॥ ततश्चायं मूलार्थः ॥ पदे पदे प्रतिस्थानं वो युष्माकं विविक्तदृष्टिर्मद्धिष्ण्य-त्वादिलिङ्गेन जीवेश्वरयोः परस्परं भेदोपपादनम् । तत्तदेव मेऽर्हणं मत्प्रीतिजनकम् । अतः सर्वाण्यपि भूतानि मत्तो भिन्नतया ज्ञात्वा माननीयानीति । पदे पदे भेदोपपादनं हरिप्रीतिजनक-मित्यत्र प्रमाणद्वयं पठति ॥ उपपादयेदिति । युक्त्या निश्चयं कुर्यादित्यर्थः । पदे पदे प्रतिस्थानम् । तदुतार्हणमित्यस्य तात्पर्यम् ॥ न चैतस्मादिति । आद्येन प्रमाणेनेश्वरधर्मिक-भेदोपपादनं प्रीतिजनकमित्युक्तम् । द्वितीयेन जीवधर्मिकभेदोपपादनतया युक्तमिति ज्ञातव्यम् । वक्तोपपादकः ॥ २६ ॥

मनोवचोदृक्करणैर्हितस्य साक्षात्कृतं मे परिबर्हणं हि ।

विना पुमान्येन महाविमोहकृतान्तपाशान्न विमोक्तुमीशः ॥ २७ ॥

पदरत्नावली

भेददर्शनस्य मोक्षसाधनत्वान्नायमर्थ इति तत्राह– मनोवच इति ॥ करणैः कर्मभिर् यन्मन आदिना जीवपरयोर्भेददर्शनादिकं यस्य तस्य साक्षात्कृतं मुख्यतः पूर्णं तस्य तद्धि तदेव मे परिबर्हणं पूजनं भवति । भवदर्हणेन किं फलमित्यतो वाह– मनोवच इति ॥ मनआदिसाधनैर्यन्मदर्हणं तत्साक्षात्कृतं साक्षात्कारफलं भवति । येन अर्हणेन विना पुमान् महाविमोहकृतान्तपाशाद् अज्ञानलक्षणसंसाराद्विमोक्तुमीशः समर्थो न स्यादित्यन्वयः

॥ २७ ॥

प्रकाशिका

ननु भगवत्प्रीतिसम्पादनेनापि किं फलमित्यपेक्षायां तत्साक्षात्कार-परमप्रीतिद्वारा मुक्तिरेवेत्याह ॥ मनोवचोदृक्करणैरिति । मनोवचःशब्दाभ्यां तद्व्यापारो लक्षणीयः । तथा च मनोवचोभिर्मनोवाग्व्यापारभूतैर्दृक्करणैरपरोक्षज्ञानसाधनैः श्रवणादिभिर्हितस्य परमप्रेमास्पदस्य मे साक्षात्कृतं साक्षात्कारः परिबर्हणं परमप्रीतिजनकं हि प्रसिद्धम् । येन साक्षात्कारेण विना पुमानधिकार्यहंममेत्यादिरूपो यो मोहो विमोहः । तल्लक्षणात्कृतान्त-पाशाद्धरिकर्तृकसंसारबन्धपाशस्थानीयादात्मानं मोक्तुं मोचयितुं नेशो न समर्थस्तत्साक्षा-त्कर्तुमित्यन्वयः ॥ २७ ॥

श्रीशुक उवाच–

स एवमनुशास्यात्मजान्स्वयमनुशिष्टानपि लोकानुशासनार्थं महानुभावः परमसुहृद्भगवानृषभापदेश उपशमशीलानामुपरतकर्मणां महामुनीनां भक्तिज्ञान-वैराग्यलक्षणं पारमहंस्यधर्ममुपशिक्षमाणः स्वतनयं शतज्येष्ठं परमभागवतं भगवज्जनपरायणं भरतं धरणीतलपरिपालनायाभिषिच्य स्वयं भवन एवोर्वरित-शरीरमात्रपरिग्रह उन्मत्त इव गगनपरिधानः प्रकीर्णकेश आत्मन्यारोपिताहवनीयो ब्रह्मावर्तात् प्रवव्राज ॥ २८ ॥

पदरत्नावली

यावत्प्रयोजनमनुशासनं चेत् समाप्तम् । अतः परं हरिणा किमकार्यथापि हरिकथया श्रुतया अलम्बुद्धिर्न जायतेऽतः सा वक्तव्येत्यस्य शारीरलक्षणज्ञो मुनिस्तच्चरित-शेषमुक्तमनुदृत्य वक्ति– स एवमनुशास्येति ॥ ऋषभापदेश ऋषभनामा भवन एव सर्वं परित्यज्येति शेषः । उर्वरितेति शेषः । उर्वरितशरीरमात्रपरिग्रहः । अवशिष्टशरीरमात्रपरिकरः । गगनमेव परिधानं वस्त्रं यस्य स तथा । दिगम्बर इत्यर्थः ॥ २८ ॥

प्रकाशिका

स्वयं स्वत एवानुशिष्टानपि शिक्षितानपि निमीत्तीकृत्य लोकानुशासनार्थ-मनुशशास । ऋषभ इत्यपदेशो नाम यस्य स तथा । उपशिक्षमाण उपशिक्षयिष्यन् । उर्वरितोऽवशिष्टः शरीरमात्रपरिग्रहः शरीरमात्रस्वीकारो यस्य स तथा । सर्वं परित्यज्य शरीरमात्रसहितो भूत्वेत्याशयः । गगनमेव परिधानं वस्त्रं यस्य स तथा । दिगंबर इत्यर्थः । ब्रह्मावर्तात्तन्नामकदेशात्तं देशं परित्यज्य प्रवव्राज संन्यासाश्रमं गृहीतवानित्यर्थः ॥ २८ ॥

जडान्धमूकबधिरपिशाचोन्मादकवदवधूतवेषोऽभिभाष्यमाणोऽपि जनानां गृहीतमौनव्रतस्तूष्णीं बभूव ॥ २९ ॥

तत्र तत्र पुरग्रामदुर्गाकरखेट१खर्पटशिबिरव्रजघोषसार्थगिरिवनाश्रमादि-ष्वनुपदमवनिचरापसदैः परिभूयमानो मक्षिकाभिरिव वनगजस्तर्जनताडनाव-मेहननिष्ठीवनग्रावशकृद्रजःप्रक्षेपणपूतिवातदुरुक्तैस्तदविगणयन्नेवासत्संस्थान एतस्मिन् देहोपलक्षणेऽसदपदेश अभयानुभवस्वरूपेण स्वमहिमावस्थानेना-समवरोपिताहंममाभिमानत्वादखण्डितः पृथिवीमेकचरः परिबभ्राम ॥ ३० ॥

पदरत्नावली

(‘गृहात् प्रव्रज्य सन्न्यस्तस्योत्तरस्थितिप्रकारं वक्ति– जडेत्यादिना ॥ जनानां मध्ये जडादिवद् वर्तमानस्तैर्भाष्यमाणोऽपि गृहीतमौनव्रतस्तूष्णीं बभूव ॥ २९ ॥’ इति कपाठकोशे अस्य श्लोकस्य व्याख्यानमस्ति) ।

गृहात्संन्यस्तस्य उत्तरस्थितिप्रकारं कथयति– तत्र तत्रेति ॥ कर्प्पटं वस्त्रोत्पादनस्थलं कुविन्दाश्रयः । वजो गोकुलम् । घोषो आभीरपल्ली । सार्थो परिषज्जनः। अवनिचरापसदैर् भूमिचरेषु दुर्वुत्तैर्नीचैरित्यर्थः । निष्ठीवनं थूत्कारः । पूतिवातोऽधोवायुः । तत्तर्ज्जनादिकर्म अविगणयन् तृणप्रतिपत्तिमपि अकुर्वन्नेव स्थितः । कुत इति तत्राह– असदिति ॥ असताममङ्गलानां क्लेशानां संस्थानं यस्मिंस्तस्मिन्नेतस्मिन् देहोपलक्षणे असन्नस्वतन्त्र इत्यपदेशः शब्दो यस्य स तथा तस्मिन् (‘स्वाधीनं सदिति प्रोक्तं पराधीनमसत् स्मृतम् । अविद्यमानमेत-स्माज्जगदाहुर्विपश्चितः ॥ अनाद्यनन्तकालेषु विद्यमानमपि ध्रुवम् । अस्वातन्त्र्यात्तु नास्त्येवेत्येवं वाच्यं जगत् तदा ॥’ इत्यादेः ।’ इति कपाठकोशेऽधिकांशो वर्तते) जडशब्दवाच्ये देहे । अभयानुभवस्वरूपेण सर्वभयशून्यज्ञानस्वरूपेण स्वमहिमावस्थानं यस्मिंस्तेन । समवरोपिताहं ममाभिमानत्वात्त्यक्ताहं ममाभिमानत्वादखण्डितो ऽपरिच्छिन्न इति । यस्मादिति शेषः । यद्वा असतो ब्रह्मणः संस्थानं यस्मिंस्तथा तस्मिन् । तर्हि देहदेहिनोर्भेदापत्त्या ‘नेह नानास्ति किञ्चन’ इति श्रुतिव्याकोपः स्यादित्यत आह– असदिति ॥ असद्ब्रह्मेत्यपदेशो यस्य देहस्य स तथा । देहोऽपि ब्रह्मैवेत्यर्थः । ‘विज्ञानमानन्दं ब्रह्म’ इति श्रुतिः । अस्मिन् अत्रैव तदभेदः सूच्यत इत्याह– समवरोपितेति ॥ समवरोपितः सम्यक् ज्ञातो ऽहं ममाभिमानस्तस्य भावः समवरोपिताहम्ममाभिमानत्वं तस्मात् । तद्ब्रह्मावेदाहं ब्रह्माऽस्मीति श्रुतेश्च । तर्हि स्वपरिच्छेद्य-त्वेन खण्डितत्वमत्राह– अखण्डित इति ॥ अखण्डितस्य खण्डितत्वेन ज्ञानान्न तत्र तर्कावसर इत्यर्थः । एकचर इत्यनेन अदावन्ते चाप्येक एव चरतीत्यर्थोऽपि गृह्यते इत्यभिप्रायेणोक्तमिति ज्ञायते ॥ ३० ॥

प्रकाशिका

संन्यस्तस्योत्तरावस्थां दर्शयति ॥ जडेति । जनानां जनैरभिभाष्यमाणोऽपि जडादिवद्वर्तमानस्तूष्णीं बभूव । अवधूताः परित्यक्ता येषां तेषामिव वेषो यस्य सोऽवधूतवेषः । तत्र पुरादिष्वनुपथं मार्गेऽवनिचरापसदैर्भूमिचरेषु दुर्वृत्तैस्तर्जनादिभिः परिभूयमानोऽपि तदविगणयन्नैकचर एकाकी पृथिवीं परिबभ्रामेत्यन्वयः । तत्र पुरं राजराजेश्वरस्थानम् । ग्रामा बहुजनाकीर्णा अट्टादिशून्या, दुर्गं जलादिना गन्तुमश्यक्यम्, आकरः खनिः खेटो मृगयूनामा-स्थानं, खर्पटो वस्त्रविक्रियस्थानं, शिबिरं सेनानिवासस्थानं घोषो गवां निवासस्थानं व्रजो गोपालानां सार्थवणिजानामावासस्थानम्, आश्रमो ऋषीणाम् । तर्जनं भयशब्दोच्चारणं ताडनं प्रहारो मेहनमुपरिमूत्रपुरीषोत्सर्जनम् । निष्ठीवनं मुखगतश्लेष्माद्युत्सर्जनं ग्रावणः शकृतोऽमेध्यस्य रजसश्च प्रक्षेपः । पूतिवातोऽधोवायुर्दुरुक्तं निन्दनम् । एतैरसताममङ्गलानां मूत्रपुरीषादीनां संस्थानं यस्मिंस्तस्मिन्नेतस्मिन् जडदेहरूपे । उपलक्षणे काकादिवत्कादाचित्केऽसदपदेशोऽसन्न-विद्यमान इत्यपदेशो व्यवहारो यस्य जडदेहेऽयमविद्यमान इति लोकैर्व्यव•हीयमाण इत्यर्थः । कुतः । समवरोपितः सम्यक् परित्यक्तोऽहंममाभिमानो येन स तथा तस्य भावस्तत्वं तस्मात् । परमहंसमार्गशिक्षणाय ऋषभप्रदर्शितस्थित्यनुवादोऽयं वस्तुतो ऋषभे जडदेहप्रसक्तेरेवाभावादिति ज्ञातव्यम् । अहंममाभिमानपरित्यागोऽपि कुत इत्यपेक्षायामाह ॥ अभयेति । स्वमहिम्नयव-स्थानं विषयीकरणं यस्य तत्तथा तेन । अभयानुभवस्वरूपेण भयशून्यस्वरूपानुभवेनाखण्डितो यत इत्यन्वयः । निरन्तरमनुभूयमानस्वमाहात्म्यवत्वादित्यर्थः ॥ २९,३० ॥

अतिसुकुमारकरचरणोरःस्थलविपुलबाह्वंसगलवदनाद्यवयवविन्यासः प्रकृति-सुन्दरः स्वभावहासमुखो नवनलिनदलायमानशिशिरतरचार्वरुणायतनयनसदृश-सुभगकपोल कर्णकण्ठनासोविगूढस्मितवदनमहोत्सवेन पुरवनितानां मनसि कुसुमशरमुपदधानः । परागवलम्बमानकुटिलजटिलालककपिलकेशभूरिभारोवधूत-मलिननिजशरीरेण ग्रहगृहीत इवादृश्यत ॥ ३१ ॥

पदरत्नावली

अतिसुकुमारेत्येतद्विशेषणं सर्वत्रानुगमयितव्यम् । सदृशेत्येतन् न नयनयोः सादृश्यं कपोलादीनामुक्तं किन्तु कपोलकर्णयोः । तथा चान्योन्यसदृशौ कपोलौ कर्णौ चेत्यर्थः । सम्पद्येत सुभगत्वं कर्णादीनामपि ग्राह्यम् । विगूढमीषत्स्पष्टं स्मितं यस्य तत्तथा । कुसुमशरं कामम् । परागधः ॥ ३१ ॥

प्रकाशिका

अतिसुकुमाराणां करादिरूपावयवानां विन्यासो विशिष्टसंनिवेशो यस्य स तथा प्रकृत्यैव सुंदरः स्वभावसिद्धो हासस्तेन सु शोभनं मुखं यस्य स तथा । नवनलिन-दलवदाचरतीति नवनलिनदलायमाने शिशिरे तापहारिणी तारे कनीनिके ययोस्ते शिशिरतारे चार्वरुणे आयते नयने ताभ्यां रुचिरा असदृशा अन्यूनानधिकाः सुभगाश्च कपोलकर्णकंठनासा यस्य स तथा । विगूढमीषत्स्पष्टं स्मितं यस्य तस्य वदनस्य महोत्सवेन विभ्रमेण कुसुमशरं काममुपदधान उद्दीपयन् । एवंभूतोऽपि ग्रहगृहीत इवादृश्यतेत्यन्वयः । अत्र कारणमाह ॥ परागिति । पराक् पुरतो लंबमानाश्च ते कुटिलाश्च कपिशाश्च केशास्तेषां भूरिभारो यस्य स तथा । अवधूतमनादृतमत एव मलिनं मलिनवद्दृश्यमानं निजशरीरं तेन ॥ ३१ ॥

यर्हि वाव स भगवान् लोकमिमं योगस्याद्धा प्रतीपमिवाचक्षाणस्तत्प्रति-क्रियाकर्म बीभत्सितमिति व्रतमाजगरमास्थितः शयान एवाश्नाति पिबति खादत्यवमेहति हसति स चेष्टमान उच्चरितादिग्धोद्देशस्तस्य ह यः पुरीषसुरभि-सौगन्ध्यो वायुस्तं देशं दशयोजनं समन्तात्सुरभीचकार । एवं गोमृगकाकचर्यया व्रजंस्तिष्ठन्नासीनः शयानः काकमृगगोवच्चरति पिबति खादत्यवमेहति स्म

॥ ३२ ॥

पदरत्नावली

यर्हि वाव स भगवान् ऋषभदेव इति मत्वाजगरस्य विद्यमानं (वर्तमानं) व्रतमास्थितस्तदा शयान एवाश्नात्यशनादिकं करोतित्यन्वयः । इमं लोकं योगस्य ध्याना-परपर्यायस्योपासनस्य अप्रतीपमप्रतिकूलमिवाचक्षाणः । पश्यन्निवशब्दात् प्रतिकूला– प्रतिकूल-लक्षणस्योभयस्य साधनं पश्यन्नित्यर्थः । तस्यावमेहनादेः प्रतिक्रियां प्रक्षालनादिकं कर्म बीभत्सितं योगशास्त्रनिषिद्धमिति उच्चरितेन पुरीषेणादिग्ध उपलिप्त उद्देशः देहप्रदेशो यस्य सः । पुरीषसुरभिगन्धेन सौगन्ध्यं यस्य स तथा । लोकशिक्षार्थं योगचर्यान्तरमाह– एवमिति

॥ ३२ ॥

प्रकाशिका

लोकं जनं प्रतीपं प्रतिकूलमिवशब्दादप्रतीतमप्याचक्षमाणो योगस्य ध्यानादेः प्रतिकूलो जनः कश्चिदेवाप्रतिकूल इति पश्यन्नित्यर्थः । ततः किमित्यत आह ॥ तत्प्रति-क्रियेति । तस्य योगप्रतिकूलजनस्य प्रतिक्रियाकर्म प्रतीकारकरणं बीभत्सितम् परमहंसानां निन्दितमिति पश्यन् स ऋषभो यर्हि यदाऽऽजगरव्रतमास्थितस्तदा शयान एवाश्नातीत्यादि । अनेनैतादृशमाजगरव्रतमित्यपि दर्शितमिति ज्ञातव्यम् । चेष्टमानस्तत्रैव विलुंठन् उच्चरितेन पुरीषेण दिग्धा आलिप्ता उद्देशा देहप्रदेशा यस्य स तथा । जुगुप्सितमिदमिति शङ्कावारणायाह ॥ तस्येति । पुरीषस्य सुरभिणा गन्धेन सौगन्ध्यं यस्य स वायुः । लोकशिक्षार्थं व्रतान्तरमपि प्रदर्शितमित्याह ॥ एवमिति । गोमृगकाकचर्ययेत्यस्य विवरणम् ॥ काकमृगगोवदिति । विवरणे विपरीतक्रमोक्त्या पूर्वक्रमो न विवक्षितमिति सूचयति ॥ ३२ ॥

इति नानायोगचर्याचरणो भगवान्कैवल्यपतिर्ऋषभोधिगतपरममहानन्दानुभव आत्मनि सर्वेषां सुतानामात्मभूते भगवति वासुदेवे आत्मनोऽव्यवधानेना-नन्तरोदरभावेन सिद्धसमस्तार्थैः परिपूर्णो योगैश्वर्याणि वैहायसमनोजवान्तर्धान-परकायप्रवेशदूरग्रहणादिति यदृच्छयोपगतानि नाञ्जसा हृदयेनाभ्यनन्दत् ॥३३॥

॥ इति श्रीमद्भागवतमहापुराणे पञ्चमस्कन्धे पञ्चमोऽध्यायः ॥

पदरत्नावली

आत्मभूते आधारभूते । आत्मनि स्वामिनि । अव्यवधानेनानन्तरोदर– भावेन निर्भेदब्रह्मभावेन नित्यसिद्धैः समस्तैरर्थैः पुरुषार्थैः परिपूर्णः । वैहायसमनोजवादीनि योगैश्वर्याण्यञ्जसा दर्शयितुं नैवाभ्यनन्ददित्यन्वयः । वैहायसमाकाशगमनम् । मनोजवं मनस इव देहस्य वेगम् । दूरग्रहणं दूरस्थितग्रहणं ज्ञानम् । यदृच्छया स्वेच्छया सहसा वा ॥ ३३ ॥

॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुकृतायां

पञ्चमस्कन्धे पञ्चमोऽध्यायः ॥

प्रकाशिका

योगचर्या योगस्थितिस्तामाचरतीति तथा । भगवानित्यादि विशेषणानि तस्य योगचर्याचरणं लोकशिक्षणायैवेति ज्ञापनाय । आत्मन्यादानादिकर्तर्यात्मभूतेऽन्तर्यामिभूते वासुदेवे आत्मनः स्वस्य । अव्यवधानानन्तरोदरभावेन । अव्यवधानेन न विद्यते व्यवधानं विच्छेदो यस्य तेन । अखण्डितेनेति यावत् । निरन्तरं भेदशून्यमुदरमुद्गतारं दोषरहितमिति भावेन मनसा । अनुभवेनेति यावत् । स्वभावत एव सिद्धा ये समस्तार्थास्तैः परिपूर्णो यतो वैहायसादीनि योगैश्वर्याण्यंजसा दर्शयितुं नाभ्यनन्दत् । तत्प्रदर्शनेन मनसस्तत्रासक्त्या विकर्मकरणेनानर्थप्राप्तिप्रसङ्गादित्याशयः । वैहायसमाकाशगमनम् । मनोजवं मनस इव देहस्य वेगम् । दूरग्रहणं दूरस्थदर्शनं यदृच्छया स्वेच्छया सहसा वा ॥ ३३ ॥

**॥ इति श्रीमद्वेदेशपूज्यपादशिष्येण यदुपतिना विरचितायां **

श्रीमद्भागतटिप्पण्यां प्रकाशिकायां पञ्चमोऽध्यायः ॥ ५–५ ॥