०४ चतुर्थोऽध्यायः

अथ तमुत्पत्त्यैवाभिव्यज्यमानभगवल्लक्षणं

॥ अथ चतुर्थोऽध्यायः ॥

श्रीशुक उवाच–

अथ तमुत्पत्त्यैवाभिव्यज्यमानभगवल्लक्षणं साम्योपशमवैराग्यैश्वर्यमहाविभूति-भिरनुदिनमेधमानानुभावं प्रकृतयः प्रजा ब्राह्मणा देवताश्चावनितलसमवना-यातितरां जगृधुः ॥ १ ॥

पदरत्नावली

ऋषभनाम्नो हरेर्गार्हस्थ्यधर्मप्रदर्शनव्याजेन देवादीनामवन्यवतारे तत्प्रवर्तक-प्रकारो दरीदृश्यतेऽस्मिन्नध्याये तत्रादौ तस्मिल्लौकानुरागप्रकारं कथयति– अथेति ॥ (‘अभि-व्यज्यमानानि भगवतो लक्षणानि पादतादिषु ध्वजवज्राङ्कुशादिचिह्नानि यस्य तम् । प्रकृतयो ऽमात्यप्रभृतयः । जगृधुराकाङ्क्षितवन्तः’ इति कपाठः) ॥ १ ॥

प्रकाशिका

अभिव्यज्यमानानि भगवल्लक्षणादिषु पादतलादिषु वज्रांकुशादीनि यस्य महाविभूतिः सर्वसम्पत्तिरेधमानो वर्धमानः प्रभावो यस्य तम् । प्रकृतयोऽमात्यादयो जगृधुराकांक्षितवन्तः ॥ १ ॥

तस्य हवा इत्थं वर्ष्मणा वरीयसा बृहच्छ्लोकेन ओजसा बलेन श्रिया यशसा वीर्यशौर्याभ्यां च पिता ऋषभ इतीदृक् नाम चकार ॥ २ ॥

पदरत्नावली

अथ पिता तद्गुणानुविशिष्टं नाम चकारेत्याह– तस्येति ॥ इत्थं विचिन्त्य । कथम् । ‘ऋष ज्ञाने, भा दीप्तौ’ इति धातुद्वयार्थत्वेन । वरीयसा श्रेष्ठेन वर्ष्मणा देहेन । ज्ञानदेहत्वादृषलक्षणरूप इति । ‘ऋटुरषाणां मूर्धा’ इति स्थानसाम्यादृकारेण णकारो लक्ष्यते । तेन णकारषकाराभ्यामोजोबले गृह्येते । ‘णकारो बलं, षकारः प्राण आत्मा’ इति श्रुतेः । बृहता श्लोकेन ग्रन्थनिबद्धेन यशसा किं वदन्ती । लक्षणेन सामान्यविशेषात्मना वा । श्रौतस्मार्तकर्मानुष्ठाननिमित्तप्रसिद्धलक्षणदीप्त्या वा । श्लोकेन यशसा, श्रिया, कान्त्या सर्वमेतद्भकारेण गृह्यते । ऋषभ इति समस्तेन वीर्यशौर्ये गृह्येते । ‘ऐश्वर्यस्य समग्रस्य’ इति वचनात् । शश्वत् षड्गुणवत्त्वाद्वा ऋषभ इति । ‘वलिभ’ इति वन्मत्वर्थे भः । ईदृङ्नाम ईदृक् गुणविशिष्टं नाम ॥ २ ॥

प्रकाशिका

पिता तस्य नाम चकारेत्याह ॥ तस्येति । वर्ष्मणा देहेन । तस्य विशेषणद्वयम् । वरीयसा श्रेष्ठतमेन । बृहन्तः श्लोकाः पद्यानि कवीनां यस्मिंस्तेन चेति । ओजोऽवष्ठंभनशक्तिर्वीर्यः प्रभावः शौर्यं शत्रुविजयाद्युत्साहः । ऋषभ इतीति । ऋषभशब्दो हि रूढ्या श्रेष्ठवाचकः । केन श्रैष्ठ्यमित्यपेक्षायामुक्तम् ॥ वर्ष्मादिनेति । योग्यताबललब्धार्थ-प्रदर्शनायैव देहादिकमुक्तम् । न तच्छब्दान्तर्गततयेति ज्ञातव्यम् ॥ २ ॥

तस्य हीन्द्रः स्पर्धमानो भगवान् वर्षे न ववर्ष तदवधार्य भगवान् ऋषभदेवो योगेश्वरः प्रहस्यात्मयोगमायया स्ववर्षमाञ्जनाभं नामाभ्यवर्षीत् ॥ ३ ॥

तात्पर्यम्

‘दुष्टानां मोहनार्थाय यज्ञ इन्द्रपदे स्थितः । पस्पर्ध ऋषभेणैव स्वरूपेण हरिः स्वयम्’ इति वाराहे ॥ ३ ॥

पदरत्नावली

अस्माद्धेतोश्चैवेदं नामास्येति भावेनाह– यस्येति ॥ योगमायया (‘आत्मयोगमायया’ इति कपाठः) स्वरूपसामर्थ्येन अभ्यवर्षीद् वृष्टियुक्तमकार्षीत् । अत्र इन्द्रशब्देन इन्द्रपदे स्थितः यज्ञनामाहरिर्गृह्यते (‘ननु स्वायम्भुवमन्वन्तरे हि ऋषभावतारः । तदेन्द्रोऽपि यज्ञनामको विष्णुरेव । तस्मात् कथं स्वेनैव स्वस्य स्पर्धा सम्भवतीति चेत्, दुष्टजनानां मोहनजननायेत्यवगन्तव्यम्’ इति कपठः) । तदुक्तम्– ‘दुष्टानां मोहनार्थाय यज्ञ इन्द्रपदे स्थितः । पस्मर्ध ऋषभेणैव स्वरूपेण हरिः स्वयम्’ ॥ इति ॥ ३ ॥

प्रकाशिका

तस्य ऋषभस्य वर्षे खण्डे । नन्वत्रेन्द्रः स्पर्धमान इत्ययुक्तम् । स्वायंभुव-मन्वन्तरे हि ऋषभावतारः । तत्र यज्ञनामा हरिरेवेन्द्रः । न हि स्वस्य स्वेन स्पर्धा सम्भव-तीत्याशङ्कां प्रमाणेनैव परिहरति ॥ दुष्टानामिति । यज्ञो यज्ञनामा स्वयं साक्षाद्धरिरेवेत्य-न्वयः । अनेन भगवानित्येतदुक्तार्थम् । पस्पर्ध स्पर्धां प्रदर्शितवानित्यर्थः । तथा चेन्द्रो यज्ञनामा भगवान्हरिः स्वस्वरूपेण ऋषभेण स्पर्धमानः स्पर्धां प्रदर्शयन् । तस्य ऋषभस्य वर्षे न ववर्षेति मूलार्थ इति भावः । अंजनवदाभातीत्यंजनाभो नीलवर्णो ऋषभस्तस्येदमांजनाभ-मित्यर्थः । आत्मयोगमायया स्वरूपसामर्थ्येनाभ्यवर्षीद्वृष्टियुक्तमकार्षीत् ॥ ३ ॥

नाभिस्तु यथाभिलषितं सुप्रजास्त्वमवरुद्ध्य१ प्रमोदभरविह्वलो गद्गदाक्षरया गिरा स्वैरं गृहीतनरलोकसमान२धर्मं भगवन्तं पुराणपुरुषं मायाविलसितमतिर्वत्स तातेति सानुरागमुपलालयन्परां निर्वृतिमुपगतो विदितानुरागः पौरप्रकृति-जनपदानां राजा नाभिरात्मजं समयसेतुरक्षायामभिषिच्य ब्राह्मणेषूपनिधाय सह मेरुदेव्या विशालायां प्रसन्ननिपुणेन तपसा समाधियोगेन नरनारायणाख्यं भगवन्तं वासुदेवमुपासीनः कालेन तन्महिमानमवाप ॥ ४ ॥

पदरत्नावली

सुप्रजास्त्वं सत्पुत्रत्वम् । छान्दसोऽयं प्रयोगः । ‘सुप्रजास्त्वमङ्गिरसो वा अस्तु प्रतिगृभ्णीत मानवं सुमेधसः’ इति श्रुतेः (‘रायस्पोषाय सुप्रजास्त्वाय सुवीर्याय’ इत्यादिश्रुतेः’ इति कपाठः) । स्वैरं स्वेच्छया गृहीतो नरलोकधर्मो मेहनादिः काकपक्षादिर्वा चौलादिर्वा वक्ष्यमाणगुरुकुलवासादिर्वा येन स तथा । मायया प्रकृत्या विलसिता वशीकृता मतिर्यस्य स तथा । मायाविलासमेव वक्ति– वत्सेति ॥ पौरादीनां पुत्रे योऽनुरागः स विदितो येन स तथा । समयसेतुरक्षायां ‘समयस्तु क्रियाकारे सङ्केते चरिते सताम् । सिद्धान्ते शपथे काले’ इत्यभिधानोक्तार्थरक्षणे । विशालायां बदरिकाश्रमे । नगरीग्रहणं नरनारायणाख्यमित्युक्तिं विरुणद्धि । कालेन ज्ञानादिसामग्रीलक्षितेन । तस्य हरेर्महिमानं जरामरणादिराहित्यलक्षणं, न तु स्रष्टृत्वादिलक्षणम् ॥ ४ ॥

प्रकाशिका

अवरुद्ध्य प्राप्य । अवबुध्येति पाठे आत्मन इति शेषः । स्वैरं स्वेच्छया गृहीतो नरलोकसमानधर्मो मनुष्याकारसदृशाकारादि येन तमत एव मायया मोहकशक्त्या स्वपुत्र इति विलसिता जाता मतिर्यस्य पौरादीनां पुत्रे योऽनुरागः स विदितो येन स तथा । समयसेतवः स्वसिद्धान्तमार्गास्तेषां रक्षायां रक्षणार्थं विशालायां बदरिकाश्रमे । प्रसन्नं सर्वेन्द्रियजयोपेतमत एव निपुणं स्वकार्यकरणे दक्षं यत्तपस्तेन सहितेन समाधिलक्षणयोगेन तस्य हरेर्महिमानं जननमरणादिराहित्यलक्षणमाहात्म्यम् अवाप प्राप ॥ ४ ॥

यत्र ह पाण्डवेय श्लोकावुदाहरन्ति ॥

कोऽनु तत्कर्म राजर्षेर्नाभेरन्वाचरेत्पुमान् ।

अपत्यतामगाद्यस्य हरिः शुद्धेन कर्मणा ॥ ५ ॥

ब्रह्मण्योऽन्यः कुतो नाभेर्विप्रा मङ्गलपूजिताः ।

यस्य बर्हिषि यज्ञेशं दर्शयामासुरोजसा ॥ ६ ॥

पदरत्नावली

हे पाण्डवेय ॥ तत् प्रसिद्धं कर्म । अनु तदनन्तरम् (लिखितपुस्तके अस्य श्लोकस्य व्याख्यानं नास्ति) ॥ (‘मङ्गलैर्दक्षिणादिभिः पूजिताः सन्तः’ कपाठः) ओजसा तपोजनितेन ॥ ५,६ ॥

प्रकाशिका

यत्र यस्मिन्विषये । हे पाण्डवेय । नाभेस्तत्प्रसिद्धं कर्मानु तदनन्तरं को नु पुमानाचरेत् । न कोऽपीत्यर्थः । मङ्गलैर्दक्षिणादिभिः पूजिताः सन्त ओजसा मन्त्रबलेन

॥ ५,६ ॥

अथ स भगवान् ऋषभः स्ववर्षं कर्मक्षेत्रमनुमन्यमानः प्रदर्शितगुरुकुलवास उपलब्धवरैर्गुरुभिरनुज्ञातो गृहमेधिनां धर्माननुशिक्षमाणो जयन्त्यामिन्द्रदत्ताया-मुभयलक्षणं धर्मं समाम्नायाम्नातमभियुञ्जन्नात्मजानामात्मसमानानां शतं जनयामास ॥ ७ ॥

पदरत्नावली

उपलब्धदक्षिणाख्यवरैः । (‘गुहमेधिनां गृहस्थानाम्’ इति कपाठः) उभयलक्षणं प्रवृत्तिनिवृत्तिलक्षणम् । समाम्नायाम्नातं समीचीनेषु निर्दोषेषु अम्नायेषु वेदेष्वाम्नात-मभ्यस्तम् । अभियुञ्जन् प्रयुञ्जानः । कुर्वाण इत्यर्थः । आत्मसमानानां लक्षणैरिति शेषः ॥७॥

प्रकाशिका

अन्येषां शिक्षणाय प्रदर्शितो गुरुकुलवासो येनोपलब्धः प्रदक्षिणाख्यो वरो वरणीयोऽर्थो यैरुभयलक्षणं प्रवृत्तिनिवृत्तिरूपम् । समाम्नाया निर्दोषा वेदास्तेष्वाम्नातं विहित-मभियुंजन् अनुतिष्ठन् जयंत्यां तन्नामिकायां भार्यायामात्मजानां शतं जनयामास ॥ ७ ॥

येषां खलु स महायोगी भरतो ज्येष्ठः श्रेष्ठगुण आसीद्येनेदं वर्षं भारतमिति व्यपदिशन्ति ॥ ८ ॥

पदरत्नावली

येन भरतेनाधिकृतत्वाद् भारतमिति नाम्ना कथयन्ति ॥ ८ ॥

तमनु कुशावर्त इलावर्तो ब्रह्मावर्त आर्यावर्तो मलयकेतुर्भद्रसेन इन्द्रस्पृक् विदर्भः कीकट इति नव नवतिप्रधानाः ॥ ९ ॥

पदरत्नावली

तं भरतमनु अनन्तरम् । नवतिप्रधाना नवतिभ्यः प्रधानाः ॥ ९ ॥

प्रकाशिका

तं भरतमन्वनन्तरं कुशावर्तादयो नव पुत्रा नवतिप्रधाना नवतिसङ्ख्याकेभ्यः श्रेष्ठा इत्यर्थः ॥ ९ ॥

कविर्हरिरन्तरिक्षः प्रबुद्धः पिप्पलायनः । आविर्होत्रोथद्रुमिलश्चमसः करभाजन इति भागवतधर्मदर्शना नव महाभागवतास्तेषां सुचरितं भगवन्महिमोपबृंहितं वसुदेवनारदसंवादरूपम् उपशमायमानमुपरिष्टाद्वर्णयिष्यामः ॥ १० ॥

पदरत्नावली

भागवतधर्मान् दर्शयन्तीति तथा । भगवतो महिम्नोपबृंहितं पूरितम् । उपरिष्टाद् एकादशस्कन्धे । उपशमायनं भगवन्निष्ठाप्रकारदर्शकम् ॥ १० ॥

प्रकाशिका

कविप्रमुखानां नव भागवतधर्मान् दर्शयन्तीति भागवतधर्मदर्शनाः । उपबृंहितं पूर्णम् । वसुदेवनारदसंवादेन रूप्यते निरूप्यते इति वसुदेवसंवादरूपम् । उपशमाय-मानं भगवन्निष्ठाप्रकारप्रदर्शकमुपरिष्टादेकादशस्कन्धे ॥ १० ॥

यवीयांस एकाशीतिर्जायन्तेयाः पितुरादेशकरा महाशालीना महाश्रोत्रिया यज्ञशीलाः कर्मश्रद्धा ब्राह्मणा बभूवुः ॥ ११ ॥

पदरत्नावली

जायन्तेया जयन्तीपुत्राः । महाशालीना महाशालाः कलमान्नभोजिनो वा (‘रक्तशालिर्महाशालिः कलमाश्चेति शालयः’ इत्यभिधानात्’ इति कपाठः) । गार्हस्थ्यधर्म-प्रदर्शको वा । ब्राह्मणा यजनयाजनाध्ययनादिविप्रकर्मनिष्ठितत्वेन तच्छब्दवाच्याः ॥ ११ ॥

प्रकाशिका

जायन्तेया जयन्तीपुत्रा महाशालीना महाशालाः । प्रत्यब्दयज्ञकृदिति यावत् । अत एव यज्ञशीला यज्ञकरणस्वभावाः कर्मश्रद्धाश्च ब्राह्मणा विश्वामित्रवद्-ब्रह्माणत्वजातिमन्तो बभूवुरित्यर्थः ॥ ११ ॥

भगवानृषभसंज्ञ आत्मतन्त्रः स्वयं नित्यनिवृत्तानर्थपरम्परः केवलानन्दानु-भव ईश्वर एवं विपरीतवत्कर्माण्यारभमाणः कालेनानुगतं धर्ममाचारेणोपशिक्षयन् अतद्विद्वांसमुपशान्तो मैत्रः कारुणिकोधर्मार्थयशःप्रजानन्दामृताविरोधेन गृहेषु लोकान्नियमयत्१ ॥ १२ ॥

पदरत्नावली

विपरीतवत् प्राकृतजनवत् । आचारेण स्वयमनुष्ठानेन । अतद्विद्वांसं ब्रह्माज्ञानिनं, लोकमिति शेषः । धर्मार्थादीनामविरोधेन आनुकूल्येन ॥ १२ ॥

प्रकाशिका

विपरीतवत्प्राकृतजनवदाचारेण स्वयमनुष्ठानेन । अतद्विद्वांसं धर्माज्ञानिनम् । लोकमिति शेषः । उपशिक्षयन् धर्मादीनामविरोधेनानुकूल्येनानन्दो भोगोऽमृतं मोक्षो नियम-यन्नियमितवान् । अरमयदित्यपि क्वचित्पाठः ॥ १२ ॥

यच्छीर्षण्याचरितं तदनुवर्तते लोकः ॥ १३ ॥

पदरत्नावली

शीर्षण्येन श्रेष्ठेन । ‘यद्यदाचरति श्रेष्ठः’ इति स्मृतेः ॥ १३ ॥

प्रकाशिका

ननु स्वयमनुष्ठानेन कथं लोकशिक्षेत्यतस्तदुपादयति ॥ यच्छीर्षण्येति । शीर्षण्यः श्रेष्ठस्तेनाचरितं तदनुवर्तते । यत इति शेषः । यद्यदाचरति श्रेष्ठ इति स्मृतेः ॥१३॥

यदपि स्वविदितं१ सकलं धर्मं ब्राह्मं गुह्यं ब्राह्मणैर्दर्शितमार्गेण सामादिभि-रुपायैर्जनतामनुशशास ॥ १४ ॥

पदरत्नावली

यदपि यद्यपि स्वेन विदितं तथापि ब्राह्मणैर्दर्शितमार्गेण प्रकारेण सकलधर्मं जनतामनुशशासेत्यन्वयः ॥ १४ ॥

प्रकाशिका

यदपि यद्यपि । सकलधर्मस्वरूपं ब्राह्मं वेदसम्बन्धि गुह्यं रहस्यं स्वेन विदितम् । विहितमिति क्वचित्पाठः । तथाऽपि ब्राह्मणैर्दर्शितमार्गेण प्रकारेणानुशशास ब्राह्मणा-न्पृष्ट्वैव शिक्षितवानित्यर्थः ॥ १४ ॥

द्रव्यदेशकालवयःश्रद्धर्त्विग्विविधोद्देशोपचितैः सर्वैरपि क्रतुभिर्यथोपदेशं शतकृत्व इयाज ॥ १५ ॥

पदरत्नावली

उपचितैर्युक्तैः ॥ १५ ॥

प्रकाशिका

द्रव्यदेशादिभिरुपचितैर्युक्तैः ॥ वयो यौवनम् । युवैव धर्ममन्विच्छेदिति वचनात् । विविधोद्देशो नानादेवतोद्देशो यथोपदेशं यथाविधि ॥ १५ ॥

भगवता ऋषभेण परिरक्षमाण एतस्मिन्वर्षे न कश्चन पुरुषो वाञ्छत्य-विद्यमानमिवात्मनोऽन्यस्मात्कथञ्चन किमपि कर्हिचिदपेक्षते भर्तर्यनुसवन-विजृम्भितस्नेहातिशयमन्तरेण ॥ १६ ॥

पदरत्नावली

अविद्यमानमिव न वाञ्च्छति । आत्मनोऽन्यस्मात् पुंसः किमपि नापेक्षत इत्यन्वयः । तर्ह्यपेक्षमाणं किं तत्राह– भर्तरीति ॥ (‘अनुसवनं प्रतिक्षणम्’ इति कपाठः)

॥ १६ ॥

प्रकाशिका

अविद्यमानमिवेति व्यतिरेकदृष्टान्तः । यथा कश्चित्पुरुषः स्वात्मनोऽ-विद्यमानमसिद्धं वाञ्छति । सिद्धे इच्छाविरहात्तथाऽस्मिन्वर्षे ऋषभेण परिरक्षमाणः पुरुषोऽ-न्यस्मात्पुरुषात्किमपि नापेक्षते । ऋषभानुग्रहेणैव सर्वस्याप्यपेक्षितस्य सिद्धत्वादित्याशयः । तर्हि किमपेक्ष्यत इत्यत उक्तम् ॥ भर्तरीति । स्वामिनि ऋषभेऽनुसवनं प्रतिक्षणं विजृम्भितः वर्धितः स्नेहातिशयो भक्तयुत्कर्षस् तं विनाऽन्यत्किमपि नापेक्षत इत्यर्थः ॥ १६ ॥

स कदाचिदटमानो भगवानृषभो ब्रह्मावर्तं गतो ब्रह्मर्षिप्रवरसभायां प्रजानां निशामयन्तीनामात्मजानवहितात्मनःप्रश्रयप्रणयभरं सुयन्त्रितानप्युपशिक्षयन्निति होवाच ॥ १७ ॥

॥ इति श्रीमद्भागवतमहापुराणे पञ्चमस्कन्धे चतुर्थोऽध्यायः ॥

पदरत्नावली

अटमान इति शानच् ताच्छीलिकार्थः । अटितुं कामः प्रव्रजन्नित्यर्थः । निशामयन्तीनां शृण्वन्तीनाम् । अवहितात्मन उक्तग्रहणनिरतमनसः प्रश्रयादिगुणैः सुयन्त्रितान् सुष्ठु बद्धान् । इति वक्ष्यमाणप्रकारेण ॥ १७ ॥

॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुकृतायां

पञ्चमस्कन्धे चतुर्थोऽध्यायः ॥

प्रकाशिका

निशामयन्तीनां शृृण्वन्तीनामवहितात्मन उक्तग्रहणविरतमनसः प्रश्रयादि गुणैः सुयंत्रितान् । सुष्ठु वशीकृतान् उपशिक्षयन् । प्रजार्थमिति शेषः । इति वक्ष्यमाणप्रकारेण ॥१७॥

**॥ इति श्रीमद्वेदेशपूज्यपादशिष्येण यदुपतिना विरचितायां **

श्रीभागवतटिप्पण्यां प्रकाशिकायां चतुर्थोऽध्यायः ॥ ५–४ ॥