नाभिरपत्यकामोऽप्रजया मेरुदेव्या भगवन्तं
॥ अथ तृतीयोऽध्यायः ॥
श्रीशुक उवाच–
नाभिरपत्यकामोऽप्रजया मेरुदेव्या भगवन्तं यज्ञपुरुषमवहितात्माऽयजत
॥ १ ॥
पदरत्नावली
स्वभावतोऽव्यक्तोऽपि भगवान् भक्तवत्सलतया प्रत्यक्षोऽपि भवतीत्यतो हरौ भक्तिरेव कर्तव्येति विधीयतेऽस्मिन्नध्याये । तत्र नाभिनाम्नो राज्ञोऽपत्यार्थं हरियजन-प्रकारमाह– नाभिरिति ॥ न प्रजा अपत्यं यस्याः सा तथा । तया सह ॥ १ ॥
तस्य हवाव श्रद्धया विशुद्धभावेन यजतः प्रवर्ग्येषु प्रचरत्सु द्रव्यदेशकाल-मन्त्रर्त्विग्दक्षिणाविधानयोगोपपत्त्या दुरधिगमोऽपि भगवान् भागवतवत्सलतया प्रतीत१ आत्मानमपराजितं निजजनाभिप्रायार्थ२विधित्सया गृहीतहृदयो हृदयङ्गमं मनोनयनानन्दनाभिरामावयवमाविश्चकार ॥ २ ॥
पदरत्नावली
शुद्धभावेन शुद्धान्तःकरणेन शुद्धकर्मणा वा । प्रवर्ग्येषु कर्मविशेषेषु प्रचरत्सु प्रवर्तमानेषु सत्सु । दुरधिगमो दुर्ज्ञेयोऽपि द्रव्यदेशादीनाम् उपपत्त्या सम्पत्त्या भागवतेषु वत्सलतया स्नेहातिशयेन च सुप्रीतो भगवान् गर्भवासादिदुःखैरपराजितं हृदयङ्गमं मनोहरं मनोनयनसुखकरचारुतरकरचरणाद्यवयवोपेतम् आत्मानमाविश्चकार प्रत्यक्षीचकारेत्यन्वयः । किङ्कार्यो भगवानित्यत उक्तं– निजेति ॥ (‘निजजनानां शुद्धभक्तानामभिप्रेता अर्थाः फलानि तेषां विधित्सया गृहीतमाकृष्टं हृदयं यस्य स तथा’ इति कपाठः) योगो ध्यानम् ॥ २ ॥
प्रकाशिका
नाभिराग्निध्रसुतोऽप्रजयाऽपुत्रया मेरुदेव्या भार्यया सह शुद्धभावेन प्रवर्ग्येषु कर्मविशेषेषु प्रचरत्सु प्रवर्तमानेषु सत्सु द्रव्यादयः सप्तयोगा उपायास्तेषामुपपत्त्या सम्पत्त्या दुरधिगमो दुष्प्रापोऽपि प्रतीतः प्रसिद्धः । सुप्रीत इत्यपि क्वचित्पाठः । आत्मानमाविश्चकार । कथं भूतम् । अपराजितं स्वतन्त्रं हृदयंगमं मनोहरं मनोनयने आनन्दयतीति मनोनयनानन्दना अभिरामाश्चारुतरा अवयवा यस्य तम् । किं कार्ये भगवानित्यत उक्तम् ॥ निजेति । निजभक्तानामभिप्रायो यस्मिंस्तादृशार्थविवित्सया गृहीतमाकृष्टं हृदयं चित्तं यस्य स तथा ॥ २॥
अथ हतमाविष्कृतभुजयुगलद्वयं हिरण्मयं पुरुषविशेषं कपिशकौशेयाम्बरधर-मुरसि विलसच्छ्रीवत्सललामं दरवरवनरुहवनमालास्फूर्जामृतमणिगणप्रवरादि-भिरुपलक्षितम् ॥ ३ ॥
स्फुटकिरणप्रवरमणिमयमुकुटकिरीटकुण्डलकटककटिसूत्रहारकेयूरनूपुराद्यङ्गभूषण-विभूषितम् ऋत्विक्सदस्यगृहपतयोऽधना इवोत्तमं धनमुपलभ्य सबहुमान-मर्हणेनावनतशीर्षाण उपतस्थुः ॥ ४ ॥
पदरत्नावली
निराकारं चेत् कथं ध्यानास्पदं स्यादित्यत आह– अथेति ॥ आविष्कृतं भुजयुगलद्वयं स्पष्टीकृतचतुर्भुजम् । हिरण्मयं सुवर्णवर्णं ‘कौशेयं क्रिमिकोशेत्थम्’ इत्यभिधानम् । (अत्रेदमवधेयम् । श्रीहरेर्वसनाभरणादयः सर्वेऽपि प्राधान्येन चिदानन्दात्मक-लक्ष्मीस्वरूपा एव । केचन आभरणादयो ऽप्राधान्येन ब्रह्मवाय्वादिस्वरूपाश्च भवन्ति । न तु तस्मिन्नचेतनात्मकवस्त्रादिसम्बन्धोऽवगन्तव्यः । ‘मुक्तामाला विमुक्तद्रुहिणगणतनुः’ इत्यादेः । इति अधिकांशो कपाठकोशे वर्तते) विलसन् श्रीवत्स एव ललामं चिह्नं यस्य स तथा तम् । (दरवरः शङ्खश्रेष्ठः, वनरुहं पद्मं, वनमाला लक्ष्मीस्वरूपभूतदिव्यपुरुषग्रथिता वैजयन्त्याख्य-माला, इति कपाठः) स्फूर्जामृतमणिगणप्रवराः स्फूर्जाः शाणोल्लीढा अमृतवद्धवलाश्च मणिगण-श्रेष्ठाः (‘न विद्यते मृतं मरणं येभ्यस्तेऽमृता अमृतत्वप्रदाः कौस्तुभचूडामण्यादिमणिगणप्रवराः’, इति कपाठः) एत एवादिर्येषां ते तथा तैः । दरवरादिभिः शाणतेजितधवलमणिगणश्रेष्ठादि-भिश्चोपलक्षितं विशिष्टम् । मुकुटं शिरस्त्राणं किरीटं मौलिः स्फुटकिरणानि फुल्लरश्मीनि प्रवराणि मणिमयानि मुकुटकिरीटादीनि स्फुटकिरणप्रवरमणिमयमुकुटकिरीटादीनि एतैरङ्गभूषणैर्भूषित-मलङ्कृतम् । अधना दरिद्रा उत्तमधनं रत्नमुपलभ्य । सबाहुमानम् अर्हणेन पूजासाधनेन
॥ ३,४ ॥
प्रकाशिका
आविष्कृतं भुजानां युगलं द्वयं चतुष्टयं येन । पुरुषेषु विशिष्यत इति तथा पुरुषोत्तमम् इत्यर्थः । अर्हणेन पूजासाधनेनार्घ्यादिनोपतस्थुरभजन् । कथंभूतम् । कौशेयं कृमिकोशोत्थं लसत् श्रीवत्साख्यम् । ललामं चिन्हं यस्य । दरवरः शङ्खो वनरुहं पद्मं स्फूर्जाः शाणोल्लीढा न विद्यते मृतं मरणं येभ्यस्तेऽमृता अमृतत्वप्रदा मणयस्तेषां गणे प्रवरः श्रेष्ठः कौस्तुभः । आदिपदाच्चक्रगदे ग्राह्ये । तैरुपलक्षितमितरव्यावृत्ततया ज्ञातं स्फुटकिरणा ये प्रवरा मणयस्तन्मयानि मुकुटादीन्यङ्गानां भूषणानि तैर्भूषितं मुकुटं शिरस्त्राणं किरीटं मौलिः ॥ ३,४॥
अर्हसि मुहुरर्हत्तमार्हणमस्माकम् अनुपथानां नमो नम इत्येतावदेव सदुपशिक्षितं कोऽर्हति पुमान्प्रकृतिगुणव्यतिकरमतिरनीश ईश्वरस्य प्रकृतिपुरुषयोः परस्यार्वाक्तनमतिर्नामरूपाकृतिभिर्निरूपणम् ॥ ५ ॥
पदरत्नावली
‘अर्हसि मुहुः’ इत्यारभ्य ‘इति निगदेन’ इत्यतः पूर्वतनो ग्रन्थ उपस्थानमन्त्रः । हे अर्हत्तम अनुपथानां भृत्यानां नोऽर्हणं त्वमर्हसि, गृहीतुमिति शेषः । मुहुरित्यनेन अर्हणस्य भूयस्त्वं सूचयति । किं तदर्हणं तदाह– नम इति ॥ तत्र दोषलेशो नास्तीत्याह– सदिति ॥ सद्भ्यः पुरुषेभ्य उपशिक्षितत्वात् सत्प्रशस्तम् । नमोनम इत्येतद्व्यतिरिक्तं नामादिकीर्तनस्मरणाद्यर्हणं किं न क्रियत इति तत्राह– कोऽर्हतीति ॥ नामरूपादिवेदनस्य श्रुत्यादिसिद्धत्वात् तत्कथमाक्षिप्यत इति तत्राह– प्रकृतीति ॥ प्रकृतिगुणैः शब्दादिभिर् व्यतिरेकः भ्रंशो यस्याः सा तथा, तादृशी मतिर्यस्य स तथा । (‘अत एवानीशः प्रकृतिगुणाधीनत्वेनासमर्थः’ इति कपाठः) अत एवार्वाक्तना मतिर् बहिर्बुद्धिः । तत्र कारणम्– अनीश इति ॥ सर्वेश्वरस्य तव संवित्तौ सामर्थ्याभावात् त्वदीश्वरत्व– मनुपहतमिति भावेनाह– प्रकृतीति ॥ (‘प्रकृतिपुरुषयोः परस्यात एवेश्वरस्य तव नाम्नां रूपाणामाकृतीनामाकाराणां च निरूपणं कर्तुं कः पुमानर्हतीत्यन्वयः’ इति अधिकोंऽशः कपाठकोशे वर्तते) ॥ ५ ॥
प्रकाशिका
अर्हसीत्यादिना निगदेन स्तुवन्ति । हे अर्हत्तम अतिशयेन पूजार्ह । अनुपथानां भृत्यानामर्हणमर्हसि । गृहीतुमिति शेषः । न वयं त्वां स्तोतुं शक्ता इत्याशयेनाहुः ॥ नमो नम इति । नमो नम इत्येतावदेव वचनमस्माकं त्वद्विषये कर्तव्यतया सद्भिरुपशिक्षितम् । कुत इत्यतस्तत्स्वरूपस्य केनापि निरूपयितुमशक्यत्वादित्याह ॥ कोऽर्हतीति । प्रकृतिगुणानां व्यतिकरो वैषम्यं यस्मिन्स प्रपञ्चस्तस्मिन्नेव मतिर्यस्य । अत एवानीशः । तत एवार्वाक्तनास्त्वां न स्पृशन्तीति मतिर्यस्य स पुमान् कः प्रकृतिपुरुषयोः परस्यात एवेश्वरस्य तव नाम्नां रूपाणां धर्माणामाकृतीनामाकाराणां च निरूपणं कर्तुमर्हति न कोऽपि ॥ ५ ॥
सकलजननिकायवृजिननिरसनशिवतमप्रवरगुणगणैकदेशकथनादृते ॥ ६ ॥
पदरत्नावली
तर्हि किमपि नार्हतीत्यत उक्तम् (‘यद्यपि साकल्येन भगवद्गुणगण-निरूपणमशक्यं, तथापि स्वस्वयोग्यतानुसारेणैकदेशनिरूपणं शक्यमेवेति तदवश्यानुष्ठेयत्व-ज्ञापनायाह– सकलेति ॥’ इति कपाठः)– सकलेति ॥ सकलजनानां निकायस्य वृजिनं दुःखं निरस्यन्तीति, वृजिननिरसनाश्च शिवतमा मङ्गलतमाश्च प्रवराश्च ये गुणगणास्तेषामेक-देशकथनमन्तरेणान्यत्किमपि नार्हतीत्यर्थः ॥ ६ ॥
प्रकाशिका
तर्हि तत्र मूकीभावः किमित्यत आह ॥ सकलेति । वृजिनं दुःखं निरस्यन्तीति वृजिननिरसनास्ते च ते शिवतमा मङ्गलतमाः प्रवराश्च ये गुणाः । उपलक्षण-मेतत् । नामान्याकृतयश्च ग्राह्याः । तेषामेकदेशकथनादृते कोऽर्हतीत्यन्वयः । निरूपयति चैकदेशमेव निरूपयन्ति न साकल्येनेति भावः । स्वयोग्यकिञ्चिन्निरूपणस्यावश्यकत्वप्रदर्शनाय वृजिननिरसनत्वादिकमुक्तम् ॥ ६ ॥
परिजनानुरागविरचितस्तव लवसंशब्दसलिलकिसलयतुलसीदूर्वाङ्कुरैरपि सम्भृतया सपर्यया किल परम परितुष्यसि ॥ ७ ॥
पदरत्नावली
गुणगणकथनाशक्तस्य हरिपरितोषः कया विधया स्यादत्राह– (‘भक्तिमतां पुरुषाणामाशु हरिपरितोषः स्यादित्याशयेनाह’ इति कपाठः) परिजनेति ॥ हे परम परिजनैर्भृत्यजनैरनुरागेण विरचितः स्तवः स्तोत्रं, तस्य लवो लेशस्तस्य संशब्दः कथनं, सलिलं जलं, किसलयः पल्लवस्तुलसी च दूर्वाङ्कुरश्च ते स्तवलवादयस्तैः । सम्भृतया सम्पादितया सपर्यया पूजया परितुष्यसि परितोषं यास्यसि किलेत्यन्वयः ॥ ७ ॥
प्रकाशिका
एवं साकल्येन निरूपयितुमशक्योऽपि त्वं भक्तिमतां सुखाराध्य इत्याहुः ॥ परिजनेति । हे परम । परिजनैर्भृत्यजनैरनुरागेण भक्त्या विरचितस्तव लवस्य स्तोत्रलेशस्य संशब्दः कथनं सलिलं जलं किसलयः पल्लवस्तुलसी च दूर्वांकुरश्च ते तथा तैरपि । अपिशब्दस्तेषां सुलभत्वज्ञापनाय । सम्भृतया सम्पादितया सपर्यया पूजया परितुष्यसि परितोषं यास्यसि किल ॥ ७ ॥
**अथानयापि भगवत इज्ययोरुसम्भारभरया न समुचितमर्थमिहोपलभामहे **
॥ ८ ॥
पदरत्नावली
नित्यतुष्टस्य कदाचित् परितोषो भक्तानुकम्पोन्मुखत्वं न त्वप्राप्त-प्राप्तिलक्षण इत्याह– अथेति ॥ (‘अथ अन्यथा, भक्त्यभावे सतीति यावत्’ इति अधिकांशः कपाठेऽस्ति) उरुसम्भारलक्षणो भारो यस्याः सा तथा, तया । सम्भारः साधनं भरः समूहः
॥ ८ ॥
प्रकाशिका
एवं श्रुत्यादौ श्रूयते । अथशब्दः प्रकारान्तरार्थः । भक्त्यभाव इत्यर्थः । उरुसम्भारा उत्कृष्टसाधनानि तेषां भारः समूहो यस्याः सा तथा तादृश्याऽप्यनया वेदोक्तयेज्यया पूजया भगवतः समुचितमर्थं प्राप्तुं योग्यं सुखं नोपलभामहे । श्रुत्यादिनेति शेषः । भक्त्यभावेऽपि तादृश्याऽपि पूजया न परितुष्यसीति जानीम इत्यर्थः ॥ ८ ॥
आत्मत एवानुसवनमञ्जसा व्यतिरेकेणानुबोभूयमानाशेषपुरुषार्थस्वरूपस्य किन्तु नाथाशिष आशासानामेतदभिसंराधनमात्रं भवितुमर्हति ॥ ९ ॥
पदरत्नावली
कुतोऽमुष्यनार्थ इति तत्राह– आत्मन इति ॥ स्वत एवानुसवनं सर्वदा अञ्जसा मुख्यतोऽव्यतिरेकेण अभेदेन अनुबोभूयमानोऽत्यन्तमनुभूयमानोऽशेषः पूर्णः पुरुषार्थः सुखम् अनुबोभूयमान पुरुषार्थः स एव स्वरूपं यस्य स तथा तस्य (‘भगवतस्तव समुचितमर्थं प्रयोजनमिह नोपलभामहे, श्रुत्यादिनेति शेषः’ इति कपाठः) । तर्हि किमर्थम् आराधनं क्रियत इति तत्राह– किं त्विति ॥ किन्तु तवार्थो नास्त्येव तथापि हे नाथ आशिष आशासानानां कामयमानानामेतत् कर्मलक्षणं यजनं तवाभिसंराघनमात्रं केवलमनुग्रहलक्षणसिद्धिसाधनं भवितुमर्हति ॥ ९ ॥
प्रकाशिका
भक्तिमदाराधनेनापि न तव प्रयोजनमस्तीत्याशयेन भगवत इत्युक्तं विशिनष्टि ॥ आत्मत एवेति । आत्मत एव स्वत एवानुसवनं सर्वदांऽजसा मुख्यतोऽ-व्यतिरेकेणाभेदेनानुबोभूयमानोऽत्यन्तमनुभूयमानोऽशेषः पूर्णः पुरुषार्थः सुखं स एव स्वरूपं यस्य स तथा तस्य भगवत इत्यन्वयः । तर्हि तदाराधनं किं व्यर्थमिति पृच्छति ॥ किं त्विति । उत्तरमाह ॥ नाथेति । अवधारणार्थस्य मात्रशब्दस्य बुद्ध्या विवेकेनाशासानामित्यनेनान्वयः । तथा च हे नाथ आशिषः पुरुषार्थान् आशासानां कामयमानानामेवैतद्भक्तिमदभिसंराधनं पुरुषार्थसाधनं भवितुमर्हति । न तवेत्यर्थः ॥ ९ ॥
तद्यथा बालिशानां स्वयमात्मनः श्रेयः परमविदुषां परमपुरुषप्रबलतर-करुणया१ स्वमहिमानं चापवर्गाख्यमुपकल्पयिष्यन्स्वयत्नोपचित एवेतरवदि-होपलक्षितः ॥ १०॥
पदरत्नावली
तत्कथमत्राह– तदिति ॥ (‘तत् पूर्वोक्तप्रमेयं यथा वक्ष्यमाणनिदर्शनं तथेति ज्ञेयम्’ इति कपाठकोशे अधिकांशो वर्तते) हे परमपुरुष यत्तत्प्रमेयं यथा तथा प्रतिपादयामः । तथाहि, परं परमं श्रेयोऽविदुषामजानतामत एव बालिशानां शिशुवत्स्थितानां, नः सम्बन्धिन्या प्रकृष्टया कृपया । चशब्द एवार्थे(‘चशब्दाद् इतरपुरुषार्थमपि’ इति कपाठः) । अपवर्गाख्यं संसारमोक्षलक्षणं स्वमहिमानमुपकल्पयिष्यन् समर्थयमानः स्वयत्नोपचितः स्वानुग्रहलक्षणयत्नायत्त एव इतरवत् परप्रयत्नोपचितवदुपलक्षितः (‘इह यज्ञभूमौ’ इति कपाठः) प्रकाशित इति यस्मात् ॥ १० ॥
प्रकाशिका
इममेवार्थं दृष्टान्तेनोपपादयति ॥ तद्यथेति । हे परमपुरुष । तत्पूर्वोक्तं प्रमेयं यथा वक्ष्यमाणं निदर्शनं तथा ज्ञेयम् । स्वयमितरापेक्षां विनाऽऽत्मनः स्वस्य परं श्रेयोऽविदुषामजानतामत एव बालिशानां मूर्खाणां प्रबलतरकरुणयाऽत्युत्कृष्टकृपयाऽपवर्गाख्यं स्वमहिमानं स्वरूपानन्दानुभवरूपं माहात्म्यं चकार । इतरपुरुषार्थमप्युपकल्पयिष्यन् स्वयत्नोपचित एव स्वप्रेरणयैव पूजितः सन् इतरवत्सापेक्ष इवेहास्मद्यज्ञभूमावुपलक्षितः । भक्तिमदाराधनं सफलमित्येतदत्रैवोपलब्धमित्याशयः ॥ १० ॥
अथार्हयामः परं ह्यर्हत्तम यर्हि बर्हिषि राजर्षेर्वरदर्शभो भगवान् निजपुरुषेक्षणविषय आसीत् ॥ ११ ॥
पदरत्नावली
अथ तस्मात् । हे अर्हत्तम परं फलप्राप्त्यनन्तरमपि (‘परं सर्वोत्तमम्’ इति कपाठः) त्वामर्हयामस् त्वद्विषयामर्हणक्रियां प्रार्थयामहे । कस्मादेतत्प्रार्थनमित्याशङ्क्य फलदर्शनादित्याह– यर्हीति ॥ (‘यर्हि यस्माद् राजर्षेर्नाभेर्बर्हिषि यज्ञे निजपुरुषाणां’ इति कपाठः) स्वभक्तानं दृष्टिविषय आसीदिति । यर्हि यस्मात्तस्मादिति शेषः । बर्हिषि यज्ञे
॥ ११ ॥
प्रकाशिका
अथ तस्मात् । हे अर्हत्तम परं सर्वोत्तमं त्वां परं श्रेयमुद्दिश्यार्हयामः । अथेत्युक्तमेव हेतुं दर्शयति ॥ यर्हीति । यर्हि यस्माद्राजर्षेर्बर्हिषि यज्ञे निजपुरुषेक्षणविषयो भक्तजनप्रत्यक्षविषयो भवानासीत्तस्मादित्यर्थः ॥ ११ ॥
असङ्गनिशितज्ञानानलविधूताशेषमलानां भगवत्स्वभावानाम् आत्मारामाणां मुनीनामनवरतपरिगणितगुणगण१ परममङ्गलायतनकथनोऽसि२ ॥ १२ ॥
पदरत्नावली
मुनीनामिति षष्ठी तृतीयार्थे, मुनिभिर् अनवरतं नित्यं परिगणितानां गुणगणानां परममङ्गलायतनं स्वरूपसुखविषयं कथनं कीर्तनं यस्य स तथा । असङ्गेन निशितं ते जितं यज्ज्ञानं तदेवानलोऽग्निस्तेन विधूतानि निर्मूलितानि समस्तरागादिमलानि येषां ते तथा, तेषाम् । भगवत्स्वभावानां सात्विकानाम् (‘हे अनवरतपरिगुणितगुणगण योगिवर्यैरिति शेषः । असङ्गेन वैराग्येण निशितं तीक्ष्णीकृतं यज्ज्ञानं तदेवानलस्तेन विधूतानि निर्मूलितान्यशेषमलानि रागादीनि येषां ते तथा, तेषां भवति स्वयोग्यो भावो भक्तिर्येषां ते तथा, तेषामात्मनि सर्वस्वामिनि परमात्मनि आरामः सम्यक् रतिर्येषां ते तेषां मुनीनां परममङ्गलायतनम् उत्तमश्रेयःसम्पादकं गुणगणकथनं सद्गुणसमूहसङ्कीर्तनं यस्य तथाभूतोऽसि’ इति कपाठः)
॥ १२ ॥
प्रकाशिका
इदानीं यज्ञकरणरूपाराधनेन प्रसन्नः सन्स्वात्मदर्शनफलं यतो दत्तमतो विश्वस्तास् त्वामभीष्टसिध्यै वयमर्हयाम इत्याशयः । अथ सर्वदा त्वच्चरणारविन्दस्मरणाय त्वन्नामोच्चारणमापत्कालेऽप्यस्त्विति प्रार्थयितुमादौ तन्नामोच्चारणमाहात्म्यं दर्शयति ॥ असङ्गेति । असङ्गेन वैराग्येण निशितं स्वकार्यकरणोन्मुखीकृतं यज्ज्ञानं स एवानलस्तेन विधूतान्यशेषमलानि रागादीनि येषां ते तथा तेषामत एव भगवति स्वयोग्यो भावो भक्तिर्येषामेतादृशैर्मुनिभिरनवरतं परिगणिता गुणा यस्येति सम्बोधनम् । त्वं तेषां मङ्गलायतनं सर्वश्रेयःसम्पादकं कथनं नामोच्चारणं यस्य स भवसि । त्वं भक्तानां नामोच्चारणेन सर्वं श्रेयो ददासीति भावः ॥ १२ ॥
अथ कथञ्चित्स्खलनक्षुत्पतनजृम्भणदुःखस्थानादिषु१ विवशानां नः श्रीमच्चरणारविन्दस्मरणाय ज्वरमरणदशायामपि सकलकश्मलनिरसनानि तव गुणकृतनामधेयानि वचनगोचराणि भवन्तु ॥ १३ ॥
पदरत्नावली
किमत इति तत्राह– अथेति ॥ यत एवममितमाहात्म्यसमुद्रोऽथ तस्माद् अस्माकं तव गुणकृतनामधेयानि श्रीमच्चरणारविन्दस्मरणाय वचनगोचराणि भवन्त्वित्यन्वयः । ज्ञानानन्दादिगुणाः कंसहननादिकृतानि नारायणादिनामानि च सदा सम्भवेऽप्येषु सर्वथेति भावेनाह– स्खलनेति ॥ न केवलं तात्कालिकफलदानि किन्तु पारत्रिकफलदानीत्याशये-नोक्तम्– ज्वरेति ॥ दुरितसद्भावे कथं पारत्रिकफलदानि स्युरित्यत उक्तम्– सकलेति ॥ दुःखस्थानं प्रवासादिकम् ॥ १३ ॥
प्रकाशिका
अतो वयं तदेव प्रार्थयाम इत्याशयेनापत्कालेऽपि तन्नामोच्चारणं प्रार्थयते ॥ अथेति । अथ नामोच्चारणस्यैतादृशमाहात्म्यवत्त्वात्तव गुणकृतनामधेयानि गुणकर्मणोः प्रतिपादकनामानि नोऽस्माकं कथञ्चित्सम्यगसम्यग्वा वचनगोचराणि भवन्तु । कथं भूतानां नः श्रीमच्चरणारविंन्दस्मरणाय विवशानां त्वां स्मर्तुमशक्यानामित्यर्थः । दुःखस्थानेषु पुत्रादि-शोकेनावस्थानम् । अवस्थान्तरमप्याह ॥ ज्वरेति । पूर्वमनुक्तमनिष्टनिवर्तकत्वरूपमाहात्म्यमपि दर्शयन्त आहुः ॥ सकलेति । भक्तानामिति शेषः ॥ १३ ॥
किञ्चायं राजर्षिरपत्यकामः प्रजां भवादृशीमाशासन ईश्वरमाशिषां स्वर्गाप-वर्गयोरपि भगवन्तमुपधावति प्रजायामर्थप्रत्ययो धनदमिवाधनः फलीकरणं को वा ईहते ॥ १४ ॥
पदरत्नावली
अन्यच्च प्रयोजनमस्तीति विज्ञापयन्ति– किञ्चेति ॥ ऐहिकीनामाशिषा-मीश्वरं न केवलमासामीश्वरं किन्तु स्वर्गापवर्गयोरपीति उपधावति शरणमाप्नोति । पुरुषार्थप्रदं त्वां प्राप्य प्रजालक्षणं तुच्छफलमाकाङ्क्षितं कथमिति तत्राह– प्रजायामिति ॥ अर्थप्रत्ययः पुरुषार्थबुद्धिः (‘प्रजायामेव अर्थः पुरुषार्थ इति बुद्धिर्यस्य स तथा’ इति कपाठः) । अत्र दृष्टान्तमाह– धनदमिति ॥ (को वा अधनो दरिद्रो धनदमपेक्षितद्रव्यराशिप्रदं प्राप्य’ इति कपाठः) फलीकरणं क्षुद्रकरणं पलालं वा न कोऽपि याचत इत्यर्थः ॥ १४ ॥
प्रकाशिका
अन्यच्च प्रार्थनीयमप्यस्तीत्यप्याहुः ॥ किञ्चेति । आशिषामैहिकानां स्वर्गापवर्गयोरपीश्वरं दाने समर्थं त्वामुपधावति शरणमाप्नोति । ननु पुरुषार्थान्विहाय प्रजालक्षणं तुच्छं फलं कथं तेन कामितमित्यत उक्तम् । प्रजायामेवार्थः पुरुषार्थ इति प्रत्ययो यस्येति । इदं तस्य नोचितमिति सदृष्टान्तमाहुः ॥ धनदमिति । अधनः को वा धनदं प्राप्य फलीकरणं तुषकणादिकमीहते इच्छति न कोऽपीत्यर्थः । यदीहते तदयं मूर्ख इत्याशयः ॥ १४ ॥
अपराजितापराजितया माययाऽनवसितपदध्यानाव्यापृतमति१र्विषम-विषयावृतप्रकृतिरनुपासितमहच्चरणः ॥ १५ ॥
पदरत्नावली
तर्हि कीदृश ईहत इति तत्राह– अपराजितेति ॥ हे अपराजित हरेः प्रसादं विना अपराजितया मायया मोहकशक्त्या अनवसितमनिश्चितं यत्पदं स्वरूपं तत्त्वलक्षणं तस्य ध्यानेन व्यावृत्ता मतिर्यस्य स तथा । कुतस्तत्राह– अनुपासितेति ॥ तत्रापि कारण-माह– विषमेति ॥ प्रकृतिः स्वभावः । एवंविध ईहत इत्यर्थः ॥ १५ ॥
प्रकाशिका
कुत एवं तुच्छफलमीहत इत्यत आहुः ॥ अपराजितेति । हे अपराजित अपराजितया त्वत्प्रसादं विना वशीकर्तुमशक्यया मायया बन्धकशक्त्याऽनवसितपदध्याना-व्यापृतमतिः । अनवसितमनश्चित्तं पदं तत्स्वरूपं तस्य ध्यानेऽव्यापृता मतिर्यस्य स तथा । अपराजितमायित्वे हेतुरनुपासितावसेवितौ महतां चरणौ येनेति । तत्रापि कारणमाहुः ॥ विषमेति । विषमेषु दुःखादिषु विषयेष्वावृता प्रकृतिस्तत्कार्यमन्तःकरणं यस्य स तथा । अतः प्रजालक्षणं फलमीहत इति वाक्यशेषः ॥ १५ ॥
यदु हवाव पुनरदभ्रकर्तरिह समाहूतस् तदर्थधियां मन्दानां नस्तद्देवहेलनं देवार्हसि साम्येन सर्वात्मना प्रतिवोढुमविदुषाम् ॥ १६ ॥
पदरत्नावली
तं मुनयः स्वोक्तमधिकमिति मन्वाना भगवत्क्षमां प्रार्थयन्ते– यदुहेति ॥ हे अदभ्रकर्तो ऽनल्पकर्तः दूर्वाङ्कुरार्चितस्य हरेरनाद्यनन्तकालीननिर्दोषानन्दरूपमुक्तिदत्वाद् देवदत्तदत्तमेरुस्वर्णस्य विष्णुमित्रस्य काकिणिकाधनदत्वदर्शनाच्चेति । राज्ञः पुत्रार्थमेवेह समाहूत इति यत्तदर्थधियां तत्प्रयोजनबुद्धीनां मन्दानां स्तुत्यादावपटूनां राज्ञोऽर्थे यत्तवाह्वानं विष्णवायाहीति तद् देवहेलनमवज्ञानम् । साम्येन तत्तद्वस्तुयोग्यतादर्शनेन प्रतिवोढुं क्षन्तुमर्हसीत्यन्वयः । ज्ञानपूर्वाव्हानं चेत् कथं क्षान्तिवचनमित्यत उक्तम्– अविदुषामिति ॥ अविदुषां महच्चरणोपासनोपलब्धविद्याविहीनानाम् ॥ १६ ॥
प्रकाशिका
मुनयोऽल्पप्रयोजनाय महतामाह्वानं तदपराध इति मत्वा भगवत्क्षमां प्रार्थयन्ते ॥ यदु हेति । हे अदभ्रकर्तोऽनल्पकर्तः । राज्ञः पुत्रार्थमेवेह समाहुत इति यत्त-दर्थधियां तत्प्रयोजनबुद्धीनामत एव मन्दानां विषयाविष्टचित्तानां नोऽस्माकं तदेव हेलनं देवस्य तवावज्ञानम् । हे देव । साम्येन योग्यतानुसारिदर्शनरूपेण निमित्तेन प्रतिवोढुं क्षन्तुमर्हसि । मन्दत्वोपपादनायोक्तम् ॥ अविदुषामिति । महच्चरणसेवालब्धज्ञानशून्यानामित्यर्थः ॥ १६ ॥
इति निगदेनाभिष्टूयमानो भगवाननिमिषर्षभो वर्षधराभिवन्दितचरणः सदय-मिदमाह ॥ १७ ॥
तात्पर्यम्
‘नास्ति विष्णोः सम इति जानन्तोऽप्यृषयः सदा । तज्ज्ञापनाय लोकानामन्येषां प्रार्थयन्समम्’ इति ब्रह्माण्डे ॥ १७ ॥
पदरत्नावली
निगदेन महिमाविष्कर्तॄणां स्तुतिवचनेन । अनिमिषाणां मृषभो देवश्रेष्ठः । वर्षधराभिवन्दितचरणः नाभिना अभिवन्दितश्रीपादः ॥ १७ ॥
प्रकाशिका
तत्र हरिसदृशोऽन्यो नास्तीति जानद्भिर्मुनिभिः कथं भवादृशीं प्रजामाशासान इति भगवत्समप्रजाप्रार्थनं कृतमित्याशङ्कां प्रामाणेनैव परिहरति ॥ नास्तीति । नास्ति विष्णोः सम इति जानन्तोऽप्यृषयः सदा तदित्यादि तात्पर्यम् । विष्णोः समं प्रार्थयन्नित्यन्वयः । अन्ये चात्र्यादयो दशरथादयो वा तज्ज्ञापनाय भगवत्समो नास्तीति ज्ञापनाय भगवत्समपुत्रे ऋषिभिर्याचिते । यदा भगवानेवावतीर्णस्तदा स्वसमाभावात्स्वय-मेवावतीर्ण इति लोके ज्ञापयितुमित्याशयः । निगदेन छन्दोबद्धवाक्येन । गद्यात्मकेनेति यावत् । अनिमिषर्षभो देवश्रेष्ठो वर्षधरो भरतखण्डाधिपतिर्नाभिस्तेनाभिवन्दितपादः ॥ १७ ॥
श्रीभगवानुवाच–
अहो बताहमृषयो भवद्भिरवितथगीर्भिर्वरमसुलभमभियाचितो यदमुष्य आत्मजो मया सदृशो भूयादिति ममाहमेवाभिरूपः कैवल्यादथापि ब्रह्मवादो न मृषा भवितुमर्हति ममैव हि मुखं यद्द्विजदेवकुलम् ॥ १८ ॥
पदरत्नावली
किमाहात्राह– अहो इति ॥ अहो विस्मयोयम् । बत तुष्टोऽहम् । ‘अहो हि विस्मय’ इति यादवः । ‘बत तथाभिमन्त्रणे भूते तोषे खेदे कृपायां च’ इति च । हे ऋषयोऽवितथगीर्भिः सत्यवचनैर् भवद्भिर् मया सदृश आत्मजो भूयादिति यं वरमभियाचित इति यदेतदसुलभम् । तत्कुतोऽत उक्तम्– ममेति ॥ अभिरूपः प्रतिरूपः । एतदपि कुत इत्यत उक्तम्– कैवल्यादिति ॥ अद्वितीयत्वात् । नन्वेषामृषित्वं मुनित्वं च गतम् । ‘एकमेवाद्वितीयं ब्रह्म’ इत्यादिश्रुत्युक्तरीत्या हरेरद्वितीयत्वज्ञानाभावादिति चेन्न । भगवदुक्त्या लोकज्ञापनपरत्वादर्थनाया न त्वद्वितीयत्वाज्ञानात् । तदुक्तम्– ‘नास्ति विष्णोः सम’ इति जानन्तोऽप्यृषयः सदा । तज्ज्ञापनाय लोकानामन्ये च प्रार्थयन् सम् ॥’ इति एवम् अन्ये कश्यपादयोऽपि हरिणा समं पुत्रमर्थयन्त इत्यर्थः । एवं चेद्भगवदुक्तमपि विद्वदङ्गीकृतमपहासक-मिति तत्राह– अथापीति ॥ कर्तव्यत्वे हेतुमाह– ममैवेति ॥ द्विजदेवानां ब्राह्मणश्रेष्ठानाम्
॥ १८ ॥
प्रकाशिका
कुतोऽसुलभत्वमित्यतो मत्सदृशस्यान्यस्याभावादित्याह ॥ ममाहमेवाभि-रूप इति । अभिरूपः सदृश इति । सदृशः कैवल्यात्सर्वोत्तमत्वात् । न हि सर्वोत्तमं वस्तुद्वयं भवतीत्याशयः । हि यस्माद्द्विजेषु त्रिवर्णेषु श्रेष्ठा ब्राह्मणास्तेषां कुलं ममैव मुखं मुखाज्जातं तस्मान्न मृषा भवितुमर्हति ॥ १८ ॥
तत आग्नीध्रीये क्षेत्रेऽहं कलयावतरिष्यामि आत्मतुल्यमनुपलभ्यमानः
॥ १९ ॥
प्रकाशिका
आग्नीध्रो नाभिस्तत्सम्बन्धिनि क्षेत्रे भार्यायाम् ॥ १९ ॥
इति निशामयन्त्या मेरुदेव्याः पतिं समभिधायान्तर्दधे भगवान् ॥ २० ॥
पदरत्नावली
निशामयन्त्याः पश्यन्त्याः ॥ २१ ॥
प्रकाशिका
निशामयंत्याः पश्यंत्याः पतिं नाभिम् ॥ २० ॥
बर्हिषि तस्मिन् एवं विष्णुरात भगवन्परमर्षिभिः प्रसादितो नाभेः प्रियचिकीर्षया तदवरोधजने मेरुदेव्यां च धर्मान् दर्शयितुकामो वातरशनानां श्रमणानाम् ऋषीणामूर्ध्वमन्थिनां शुक्लया तन्वा१ऽवततार ॥ २१ ॥
॥ इति श्रीमद्भागवतमहापुराणे पञ्चमस्कन्धे तृतीयोऽध्यायः ॥
पदरत्नावली
बर्हिषि यज्ञे । हे विष्णुरात हे विष्णुदत्त परीक्षित् । तस्य नाभेरवरोधजने भार्याजने, वातरशनानां वायुवस्त्राणाम् । दिगम्बराणामित्यर्थः । श्रमणानां परमहंसानां परमहंसाश्रमानुष्ठानवताम् ऊर्ध्वमन्थिनाम् ऊर्ध्वरेतसाम् ऋषीणां धर्मान् दर्शयितुकामो हरिः शुक्लया शुचं लापयति नाशयति शुकं ज्ञानं लाति रातीति वा । ‘शुक गतौ’ इति धातुः । गतिर्ज्ञानम् । अतिशयितसुखज्ञानत्वाद्वा । शुक्लया तनुवा देहेन ॥ २१ ॥
॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुकृतायां
पञ्चमस्कन्धे तृतीयोऽध्यायः ॥
प्रकाशिका
बर्हिषि यज्ञे । हे विष्णुरात विष्णुदत्तराजन् । तस्य नाभेरवरोधजने भार्याजने वातरशनानां वायुवस्त्राणाम् । दिगंबराणामिति यावत् । श्रमणानां परमहंसाश्रमिणा-मूर्ध्वमंथिनामूर्ध्वरेतसामृषीणां ज्ञानिनां धर्मान् दर्शयितुकामो हरिः शुक्लया शुद्धया तन्वा । शुक्लशोणितसम्बन्धविदूरयेति यावत् । देहेनावततार ॥ २१ ॥
**॥ इति श्रीमद्वेदेशपूज्यपादशिष्येण यदुपतिना विरचितायां **
श्रीमद्भागतटिप्पण्यां प्रकाशिकायां पञ्चमस्कन्धे तृतीयोऽध्यायः ॥ ५–३ ॥