०२ द्वितीयोऽध्यायः

एवं पितरि सन्निवृत्ते तदनुशासने वर्तमान

॥ अथ द्वितीयोऽध्यायः ॥

श्रीशुक उवाच–

एवं पितरि सन्निवृत्ते तदनुशासने वर्तमान आग्नीध्रो जम्बुद्वीपौकसः प्रजा औरसवद्धर्मानवेक्षमाणः पर्यगोपायत् ॥ १ ॥

पदरत्नावली

स्त्रीसङ्गं परिहरतः पुंसः करतलस्थैव मुक्तिरित्यभिप्रेत्य तस्यापरिहारार्थत्वं प्रतिपाद्यतेऽस्मिन्नध्याये । तत्रादावाग्नीध्रस्य राज्यलक्षणप्रकारमाह– एवमिति ॥ औरसवद् आत्मपुत्रवत् । पर्यगोपायद् अरक्षत् ‘गुपू रक्षणे’ ॥ १ ॥

प्रकाशिका

जम्बुद्वीपमोको यासां ताः प्रजा औरसवत्पुत्रवद्धर्ममवेक्षमाण इत्यर्थः । पर्यगोपायत्सम्यगरक्षत् ॥ १ ॥

स तु कदाचित्पितृलोककामः सुरवरवनिताक्रीडाचलद्रोण्यां भगवन्तं विश्व-सृजां पतिमाहृतपरिचर्योपकरण आत्मैकाग्य्रेण तपसाऽऽराधयाम्बभूव ॥ २ ॥

पदरत्नावली

विश्वसृजां पतिं ब्रह्माणं ‘पितृलोककाम’ इत्यनेन सन्तानार्थित्वं लक्षयति । ‘सोऽयं मनुष्यलोकः पुत्रेण जेयः’ इति श्रुतेः सुपुत्रेण पितुः पितृलोकप्राप्तिश्रवणात् । आक्रीडः क्रीडास्थानम् (‘सुरवरवनितानाम् आक्रीडा क्रीडास्थानभूता या अचलद्रोणी मन्दरगिरिदरी तस्यां’ इति कपाठः) आत्मनोऽन्तःकरणस्यैकाग््रयं यस्मिंस्तत्तथा तेन । आत्मैकविषयेण वा ॥ २ ॥

प्रकाशिका

पितृलोककामस्तल्लोकप्राप्तिहेतुपुत्रकामः सुपुत्रेण पितुः पितृलोकप्राप्तेः श्रुत्यादावुक्तत्वात् । आक्रीडा क्रीडास्थानभूता या अचलद्रोणी मन्दरपर्वतदरी तस्यां विश्वसृजां प्रजापतीनां पतिं ब्रह्माणम् । आहृतपरिचर्योपकरण आनीतपूजासाधनपुष्पादिः। आत्मनोऽन्तः-करणस्यैकाग्रयं यस्मिंस्तेन ।

एतदुपलभ्य भगवानादिपुरुषः सदसि गायन्तीं पूर्वचित्तिं नामाप्सर-समभियापयामास ॥ ३ ॥

पदरत्नावली

अभियापयामास प्रेषयामास ॥ ३ ॥

प्रकाशिका

एतदुपलभ्य ज्ञात्वाऽभियापयामास भोगार्थं प्रेरयामास ॥ ३ ॥

सा च तदाश्रमोपवनमतिरमणीयविविधनिबिडविटपिविटपनिकटपुटलता-कुटिल-रूढस्थलविहङ्गमिथुनैः प्लाव्यमानश्रुतिभिः प्रतिबोध्यमानसलिलकुक्कुट-कारण्डवकलहंसादिभिर्विचित्रमुपकूजितामलजलाशयकमलाकरमुपबभ्राम ॥ ४ ॥

पदरत्नावली

अतिरमणीया विविधाश्च निबिडाश्च सङ्घट्टिताश्च विटपिनो वृक्षास्तेषां विटपाः शाखास्तेषां निकटपुटेषु समीपभागेषु या लतास्तासां कुटिलेषु वक्रभागेषु रूढा आरूढाश्च स्थलविहङ्गमा मयूरकोकिलादयः (मयूरशुककोकिलादय इति कपाठः) तेषां मिथुनैः (मिथुनैः स्त्रीपुरुषद्वन्द्वैः’ इति कपाठः) प्लाव्यमाना श्रुतिर् धनुर्मण्डलमात्रप्रदेशव्यापिनी ध्वनिसन्ततिर् येषां तानि तथा तैः प्रबोध्यमानैः (‘प्लाव्यमानाः प्लुतयोच्चार्यमाणाः श्रुतयो ध्वनि-विशेषास्ताभिः प्रबोध्यमानैः’ इति कपाठः) प्रतिनादोन्मुखीकरणायेति शेषः । जलकुक्कुटादिभि-र्विचित्रं यथा भवति तथोपकूजिते निर्मलजलाशये रूढः कमलाकरो यस्मिन् तत्तथा ॥ ४ ॥

प्रकाशिका

सा च तदाश्रमोपवनमुपबभ्रामेत्यन्वयः । अतिरमणीया विविधाश्च निबिडाः परस्परसम्बंद्धाश्च विटपिनो वृक्षास्तेषां विटपाः शाखास्तेषां निकटपुटेषु समीपभागेषु या लतास्तासां कुटिलेषु वक्रभागेषु रूढा आरूढाः स्थलविहंगमा मयूरकोकिलादयस्तेषां मिथुनैः प्लाव्यमानाः प्लुतयोच्चार्यमाणाः श्रुतयो ध्वनिविशेषास्ताभिः प्रबोध्यमानैर्जलकुक्कुटादिभिर्विचित्रं यथा भवति तथोपकूजिता नादिता ये निर्मलजलाशयास्तेषु कमलानि तेषामाकरं तदाश्रमोपवन-मित्यन्वयः ॥ ४ ॥

तस्याः सुललितपदविन्यासगतिविलासेनानुपदं खणखणायमानरुचिरचरणा-भरणस्वनमुपाकर्ण्य नरदेवकुमारः समाधियोगेनामीलितनयननलिनमुकुल-युगलमीषद्विकास्याचष्ट ॥ ५ ॥

पदरत्नावली

सुललितपदविन्यासः कोमलपदविक्षेपो यया सा ललितपदविन्यासा, सा च गतिर्गमनं तस्या विलासेन शृङ्गारलक्षणशोभया अनुपदं प्रतिचरणविक्षेपं खणखणायमाने सिञ्जितध्वनिविशेषं कुर्वाणे रुचिरे शोभने चरणाभरणे नूपुरे ये तयोर्ध्वनिमाकर्ण्य स राजकुमारः (आग्निध्रः) समाधियोगेन निमित्तेन आमीलिते नयननलिनमुकुले ये तयोर्युगुलमीषदल्पं विकचय्य विकासं कृत्वा अचष्ट अद्राक्षीत् ॥ ५ ॥

प्रकाशिका

तस्याः सुललितः कोमलः पदन्यासः पादविक्षेपो यया च सा गतिर्गमनं तस्या विलासेन शोभाविशेषेणानुपदं प्रतिचरणविक्षेपं खणखणायमाने खणखणेति ध्वनिं कुर्वाणे रुचिरे मनोहरे चरणाभरणे नूपुरे तयोः स्वनं शब्दं समाधियोगेन निमित्तेन मीलिते नयने एव नलिनमुकुले तयोर्युगलमीषदल्पं विकास्य विकसितं कृत्वाऽविदूरेऽवस्थितामेवाचष्टाद्राक्षीत् ॥५॥

तामेवाविदूरे विलोक्य मधुकरीमिव सुमनस उपजिघ्रन्तीं दिविजमनुजमनो-नयनाह्लाददुघैर्गतिविहारविनयविलोकनसुस्वराक्षरावयवैर्मनसि नृणां कुसुमायुधस्य विदधतीं विवरम् ॥ ६ ॥

निजमुखविगलितमदासवामोदमदान्धमधुकरनिकरोपरोधेन द्रुतपदविन्यास-वल्गुस्पन्दनस्तनकलशकबरहाररशनां देवीं तदवलोकनेन विधृतावसरस्य भगवतो मकरध्वजस्य वशमुपनीतो जडवदिति होवाच ॥ ७ ॥

पदरत्नावली

ततः किं तत्राह– तामिति ॥ एवशब्देनान्यदर्शनं निवारयति । अन्य-दर्शनाभावे निमित्तमाह– अविदूर इति ॥ सुमनसः पुष्पाणि । दिविजादीनां मनोनयनाना-माल्हादं दुहन्तीति मनोनयनाह्लाददुघास्तैः । गतिश्च विहारश्च विनयश्च विलोकनं च सुस्वराक्ष-राणि चावयवाश्च ते तथा, तैः । कुसुमायुधस्य कामस्य विवरम् अवकाशम् ।

निजमुखाद् विगलितः स्नुतो मदजनकासवस् तस्यामोदाज्जातेन मदेनान्धा मधुकरनिकरा ये तैरुत्पन्नेन उपरोधेन निवारणक्लेशेन द्रुतपदविन्यासेन वल्गु शोभनं स्पन्दनमीषच्चलनं, येषां स्तन-कलशादीनां ते तथा । वल्गुस्पन्दनाः स्तनकलशादयो यस्याः सा तथा ताम् । पूर्वचित्ते-रवलोकनाद् बुद्धिभ्रंशविशेषोऽनेन प्राप्त इत्याह– तदिति ॥ भगवतः योनिलक्षणप्रशस्तस्थान-गतस्य सर्वजनसम्भाव्यस्य वा मकरध्वजस्य कामस्य । जडवद् वस्तुविचारपरिज्ञानशून्य इव । इति वक्ष्यमाणप्रकारेण । हशब्देन ‘प्रभवति मनसि विवेको विदुषामपि शास्त्रसम्भवस्तावत् प्रपतन्ति दृष्टिविशिखा यावन्नेन्दीवराक्षीणाम्’ इत्यादि प्रसिद्धिं दर्शयति ॥ ६-७ ॥

प्रकाशिका

कथंभूताम् । सुमनसः पुष्पाण्युपजिघ्रन्तीम् । पुनः कथंभूताम् । दिविजानां मनुष्याणां च मनोनयनाह्लादं दुहन्तीति मनोनयनाह्लाददुघास्तैर्गतिश्च विहारश्च विनयश्च विलोकनं च सुस्वराक्षराणि वाक्यानि च स्तनाद्यवयवाश्च ते तथा तैः कुसुमायुधस्य कामस्य विवर-मवकाशं विदधतीम् ।

पुनः कथंभूताम् । निजमुखाद्विगलितः स्रुतो मदासवो मदजनकासवो मद्यविशेषस्तस्यामोदो गन्धस् तेन मदांधा मधुकरनिकरा भ्रमरसमूहास्तैरुपरोध आवरणं तेन तत्परिजिहीर्षया द्रुतपदन्यासः शीघ्रपदन्यासस्तेन वल्गु शोभनं स्पन्दनं किञ्चिच्चलनं स्तनकलशयोः कबरे हारे रशनायां काञ्चीकलापे च यस्यास्तां देवीं द्योतमानाम् । ततः किमित्यत आह ॥ तदवलोक-नेनेति । तस्या अवलोकनेन विधृतावसरस्य दत्तावकाशस्य मकरध्वजस्य कामस्य जडवद्विचारशून्यपुरुष इव ॥ ६-७ ॥

**का त्वं चिकीर्षसि च किं मुनिवर्य शैले मायासि किं भगवतः परदेवतायाः । **

विज्ये बिभर्षि धनुषी सुहृदात्मनोऽर्थे किं वा मृगान्मृगयसे विपिने प्रमत्तान्

॥ ८ ॥

पदरत्नावली

जडत्वमेव दर्शयति– का त्वमिति ॥ मुनिवर्येति पुल्लिङ्गेन सम्बोध्य का त्वमिति स्त्रीलिङ्गेन प्रश्न इत्यादिकं विवेकाभावे लिङ्गम् । शैले गिरौ किं कर्तुमिच्छसि ? परदेवताया मायाऽसि किम् । तत्रापि का मायाऽसि? । नारीदैवीगान्धर्वीत्यादिषु मध्ये । विज्ये मौर्वीरहिते धनुषी भ्रूलक्षणे । सुहृदात्मनोऽर्थे सुहृदात्मनो वशीकरणाय कस्यचित्सुहृद आत्मनो वा पालनप्रयोजनविषये वा बिभर्षि । अर्थान्तरमाह– किञ्चेति ॥ भ्रूयुगलधनुर्धृत्वा मृगान्मृगयसे किं वेत्यन्वयः(विज्ये इति ॥ हे सुहृद् विज्ये मौर्वीरहिते द्वे धनुषी भ्रूलक्षणे बिभर्षि । तत् किमात्मनोऽर्थे धारयसि? किंवा प्रमत्तानजितेन्द्रियान् मृगान् मन्मथमनो-रथानुसरणेन मृगतुल्यानस्मदादीन् मृगयसे अन्वेषयसि? वशीकर्तुं धनुषी बिभर्षीत्यर्थः । अत्र ‘परिहासप्रलापादिष्वनर्था वाक् क्वचिद् भवेत्’ इति शब्दनिर्णयोक्त्यनुसारेण, मदनाधीनस्यास्य प्राज्ञस्यापि राज्ञो ऽज्ञ इव व्यर्थप्रलापः परिहासश्च सङ्गच्छत इत्यवधेयम्’ इति कपाठकोशे वर्तते) ॥ ८ ॥

प्रकाशिका

जाड््यकार्यमेव दर्शयति ॥ का त्वमिति । मुनिवर्येति पुल्लिङ्गेन सम्बोध्य का त्वमिति वचनादिकं जाड्यकार्यमेव । हे मुनिवर्य । शैले गिरौ । किं चिकीर्षसि किं कर्तुमिच्छसि । भगवतः परदेवतायाः परदेवताभूतस्य मायाऽसि किम् । भ्रुवावालक्ष्याह ॥ विज्येति । हे सुहृत् सखे । मौर्वीशून्ये धनुषी बिभर्षि । किमात्मनः स्वस्यैव परिपालनाय किंवा प्रमत्तानर्जितेन्द्रियान् मृगतुल्यानस्मदादीन् मृगयसे वशीकर्तुं धनुषी धारयसीत्यर्थः ॥८॥

बाणाविमौ भगवतः शतपत्रपत्रौ शान्तावपुङ्खरुचिरावतितिग्मदन्तौ ।

**कस्मै युयुङ्क्षसि वने विचरन्न विद्मः क्षेमाय नो जडधियां तव विक्रमोऽस्तु **

॥ ९ ॥

पदरत्नावली

(मोहककटाक्षावालक्ष्याह– बाणाविति ॥ इति कपाठः) बाणौ नयन-लक्षणौ, शतपत्रपत्रौ पद्मदलसदृशपक्ष्मयुतौ, शान्तौ स्निग्धौ, अपुङ्खरुचिरौ पुङ्खं विना शोभमानौ, अतितिग्मदन्तौ अतितीक्ष्णकटाक्षलक्षणौ एवंविधौ कस्मै पुंसे युयुङ्क्षसि प्रयोक्तुमिच्छसि ॥ ९ ॥

प्रकाशिका

कटाक्षावालक्ष्याह ॥ बाणाविति । शतपत्रलक्षणे कमले त एव पत्रे पिच्छस्थानीये ययोः शान्तौ मनोहरौ अपुंखरुचिरौ पुंखाभ्यां विनाऽपि शोभमानौ नेत्र-स्थानीयनेत्राधोभागस्य दर्शनादतितिग्मौ तीक्ष्णौ दन्तावग्रभागौ ययोस्तयोस्तौ कस्मै युयुंक्षसि प्रयोक्तुमिच्छसीति न विद्मः । अस्मासु न प्रयोक्तव्यमित्याशयेनाह ॥ क्षेमायेति । नोऽस्माकं क्षेमाय ॥ ९ ॥

शिष्या इमे भगवतः परितः पठन्ति गायन्ति साम सरहस्यमजस्रमीश ।

**युष्मच्छिखाविलुलिताः सुमनोऽभिवृष्टीः सर्वे भजन्त्यृषिगणा इव वेदशाखाः **

॥ १० ॥

पदरत्नावली

हस्तवारणलक्षणशिक्षायोग्यत्वात् (तन्मुखकमलपरिमलोभेनानुगच्छतो भ्रमरानालक्ष्याह– इति कपाठः) शिष्या इति ॥ भृंगाः (अजस्रं सन्ततम् इति कपाठः) युष्मच्छिखाविलुलिता युष्माकं केशपाशच्युताः । सुमनोभिवृष्टीः पुष्पवृष्टीः (‘सर्वे शिष्या भजन्ति’ इति कपाठे अन्वयः प्रदर्शितः) ॥ १० ॥

प्रकाशिका

तन्मुखासवगन्धलोभेनानुगच्छन्तौ भ्रमरावालक्ष्याह ॥ शिष्या इति । अजस्रं सन्ततम् । सुमनोभिवृष्टीः पुष्पवृष्टीः । सर्वे शिष्या भजन्ति । त्वत्कबरीविगलितानि पुष्पाणि सेवन्त इत्यर्थः । भजनीयरसवत्वेनोपमा वेदशाखा इवेति ॥ १० ॥

वाचं परं चरणपङ्कजतित्तिरीणां ब्रह्मन्नरूपमुखरीं शृृणुमोऽद्य तुभ्यम् ।

**लब्धा कदम्बरुचिरङ्क१विटङ्कबिम्बे यस्यामलातपरिधिः२ क्व च वल्कला ते **

॥ ११ ॥

पदरत्नावली

(नूपुरध्वनिमाकर्ण्य वर्णयति– वाचमिति ॥ इति कपाठः) हे ब्रह्मन् तुभ्यं तव चरणपङ्कजतित्तिरीणां चरणपद्मनूपुरान्तर्गतरत्नाख्योपलानां वाचं शब्दमात्रं परं शृणुमः, न तु व्यक्तार्थम् । कथंभूतां रूपं विनापि मुखरीं शब्दवादनशीलामित्यरूपमुखरीम् । ‘तित्तिरिर्नूपुरान्तस्थरत्नपक्षिविशेषयोः । वक्रमार्गे यजुर्वेदे सिल्यामपि च कथ्यते’ इत्यभिधानम् । कदम्बपुष्पवद्रुचिरस्य सुन्दरस्य अङ्कस्य सामीप्यात् कटिप्रदेशस्य विटङ्कबिम्बे उन्नतमण्डले शृृङ्गारविशेषयुक्तमण्डले वा वर्तमाना ते तव वल्कला पटः क्व लब्धा? यस्यां वल्कलायाम् अलातुपरिधिर् अलातमेवालातुस् तद्वत् स्थिता परिधिः काञ्चीलक्षणपरिवेषो वर्तते । ‘वल्कं वल्कलमस्त्रियाम्’ इत्यभिधानात् । जडत्वाल्लिङ्गव्यत्यासः । तथा च यस्य वल्कलस्योपरि अलातपरिधिरस्तीत्यन्वेतव्यम् ॥ ११ ॥

प्रकाशिका

नूपुरस्वनमाकर्ण्याह ॥ वाचमिति । हे ब्रह्मन् । तुभ्यं तव चरणपङ्कज-तित्तिरीणां पद्मे नूपुरान्तर्गतरत्नाख्योपलानां परं केवलं वाचं श्रुणुमः । न तु तस्या व्यक्तमर्थम् । कथम्भूतां वाचम् । अरूपमुखरीं रूपं विनाऽप्यदृष्टवक्त्रकाऽपि मुखरीं प्रकटताम् । नितम्बप्रदेशे विद्यमानं पीतं वस्त्रं कदम्बपुष्पकान्तिमत्वेन प्रकल्प्य पृच्छति ॥ लब्धेति । अङ्कविटङ्क-बिम्बेऽङ्कयोरलङ्कारभूतमण्डले नितम्बप्रदेशे विद्यमानकदम्बकुसुमस्य रुचिर्दीप्तिः । क्व लब्धा । रुचिराङ्केति पाठे आ समन्ताद्विद्यमानरुचिरिति व्याख्येयम् । काञ्चीमलातत्वेन प्रकल्प्याह ॥ यस्यामिति । यस्यां रुचावलातेन परिधिः परिवेषितो वर्तते । नितंबे विद्यमानवस्त्रस्य कान्ति-त्वेन कल्पितत्वाद्वस्त्रं नास्तीति मत्वा पृच्छति । ते तव वल्कला च क्व वर्तते । चशब्दः प्रश्नसमुच्चये । वल्कं वल्कलमस्त्रियामित्यभिधानात् । स्त्रीलिङ्गप्रयोगो जाड्यादिति ज्ञातव्यः । मुनिवर्येति पूर्वमुक्तत्वाद्वल्कलरूपवस्त्रं पृष्टम् ॥ ११ ॥

किं सम्भृतं रुचिरयोर्द्विज शृृङ्गयोस्ते मध्येकृशो वहसि यत्र दृशी श्रिते मे ।

पङ्कोऽरुणः सुरभिरात्मविषाण ईदृग्येनाश्रमं सुभग मे सुरभीकरोषि ॥१२॥

पदरत्नावली

मध्येकृश इत्यलुक् । कृशमध्यस्त्वं यौ वहसि ते तव तयो रुचिरयोः शृृङ्गयोः शृृङ्गवदुन्नतयोः स्तनयोः सम्भृतं किं चूचुकलक्षणनीलरत्नमिति शेषः । यत्र ययोः । द्विजेति सम्बोधनम् । जडत्वात् । कुङ्कुमाद्यङ्गरागाभिप्रायेणाह– पङ्क इति ॥ आत्मविषाणे तव स्तनद्वयेऽरुणः पङ्कः कुङ्कुमाद्यङ्गराग ईदृगीदृशगुणोपेतः । कथमत्राह– येनेति ॥ १२ ॥

प्रकाशिका

स्तनौ शृृङ्गत्वेन प्रकल्प्याह ॥ किं सम्भृतमिति । हे द्विज शृृङ्गयोः स्तनयोः किं सम्भृतं किं वस्तु पूरितमस्ति । तत्र किञ्चिदपूर्वमेव वस्तु सम्भृतमिति जानामि । यतो मध्येकृशोऽपि । अलुक्समासः । त्वं कृच्छ्रेण वहसि । यत्र च मे दृशी लोचने श्रिते संलग्नेऽन्यथाऽयं न घटत इति भावः । स्तनगतं कुङ्कुमगन्धं पङ्कत्वेन प्रकल्प्य पृच्छति ॥ पङ्क इति । आत्मनस्ते विषाणे स्तनेऽरुणे ईदृगतिसुन्दरे ॥ १२ ॥

लोकं प्रदर्शय सुहृत्तम तावकं मे यत्रत्य इत्थमुरसावयवावपूर्वौ ।

अस्मद्विधस्य मनउन्नयनौ बिभर्षि बह्वद्भुतं सरसहाससुधां च वक्त्रे ॥ १३॥

पदरत्नावली

यत्रत्यः यस्मिन् देशे भूतस्त्वमुरसा अपूर्वौ नूतनौ अवयवौ स्तनलक्षणौ बिभर्षि । किं विशिष्टावस्मद्विधस्य मनउन्नयनौ मनस उत्कर्षप्रदौ स त्वं तावकं लोकं प्रदर्शये-त्यन्वयः । अन्यदपीत्याह– बह्विति ॥ किं तदत्राह– सरसेति ॥ वक्रे रसेन सह वर्तमानः सरसहासः मन्दहासस् तेन युक्तां सुधाम् अधरामृतं च बिभर्षि । पानेन सरसहासक्रीडाकरीं सुधामिति वा ॥ १३ ॥

प्रकाशिका

हे सुहृत्तम । मे तावकं लोकं स्थानं प्रदर्शय । यत्रत्यो यस्मिंल्लोके विद्यमानस्त्वमुरसा इत्थमपूर्वावयवौ बिभर्षि मनसउन्नयनौ क्षोभकरौ । वक्त्रे च बह्वद्भुतं बिभर्षि । तत्किमित्यपेक्षायामाह ॥ सरसेति । रसेन मधुरालापेन सह वर्तमानो हासस्तेन च युक्तां सुधामधरामृतं च बिभर्षि तं लोकं प्रदर्शयेत्यन्वयः ॥ १३ ॥

का वात्मवृत्तिरदनाद्बहिरङ्ग भाति विष्णोः कलास्यनिमिषन्मकरौ च कर्णौ ।

उद्विग्नमीनयुगलं द्विजपङ्क्तिशोभि१ चासन्नभृङ्गनिकरं सर उन्मुखं ते ॥ १४॥

पदरत्नावली

हे अङ्ग तवात्मवृत्तिर् देहयात्रा का ? अन्नमिति चेत्तत्राह– अद-नादिति ॥ अदनाद् बहिर् भोजनं विनेति मे भाति । अन्नभक्षणेनैव वलीपलितदौर्ङ्गध्यादिकं स्यात्, तव नास्तीति भावना कल्प्यत इति भावः । किञ्च त्वं विष्णोः कलासीति मन्ये । अशनाद्यभावात् । लक्षणान्तरं चास्तीत्याह– अनिमिषन्मकराविति ॥ अनिमिषन्तौ उन्मीलन्तौ मकरौ मकरमत्स्यलक्षणौ कर्णौ कुण्डलाख्याकल्पौ विष्णुत्वे लक्षणमिति शेषः । इदं चास्मन्मनोहरमित्याह– उद्विग्नमीनेति ॥ ते तव मुखं सरः मुखाख्यं सर उदुत्कृष्टमित्यन्वयः (‘ते मुखमुत्सर उत्कृष्टं सर इव भाति’ इति कपाठः) । कथम्? उद्विग्नं सञ्चलितं मीनयो-र्नेत्रयोर्युगुलं (‘मीनयोर्मीनवद् विद्यमानयोः’ इति कपाठः) यस्मिंस्तत् तथा । अनवस्थिति-लक्षणव्यभिचारान्नेत्रस्थाने मीनग्रहणं सरःपदोपादानाच्च । द्विजानां दन्तवन्निबिडतया स्थितानां पक्ष्मणां पङ्क्तिभिः शोभाऽस्येति द्विजपङ्क्तिशोभि (‘द्विजाः शुभ्रतया राजहंसपक्षिस्थानीया दन्ता-स्तेषां पङ्क्त्या शोभाऽस्येति द्विजपङ्क्तिशोभि’ इति कपाठः) । अन्यत्र पक्षिणां पङ्क्तिभिः शोभि । आसन्नो भृङ्गाणां निकरो यस्मिन् तत्तथा । उभयत्र समम् । द्विजपङ्क्तिशोचिरिति केचित्पठन्ति

॥ १४ ॥

प्रकाशिका

हे अङ्ग । तवात्मवृत्तिर्देहस्थितिहेतुः का । अन्नं न भवतीत्याह । अदनादन्नाद्बहिर्विनेति भाति । दौर्गन्ध्याद्यभावादिति भावः । अन्नादनाभावेऽपि वृत्तौ हेत्वन्तरमाह । यतस्त्वं विष्णोः कलाऽसीति । विष्णुश्च नाश्नातीति भावः । मकर-कुण्डलवत्त्वाच्च त्वं विष्णोः कलाऽसीत्याह ॥ तव कर्णौ चानिमिषन्मकराविति । अनिमिषंतावुन्मीलन्तौ मकरौ तदाकारे कुण्डले ययोस्तौ भवतोऽतोऽपि त्वं विष्णुकलाऽसि । लोकविलक्षण एव त्वमित्यत्र युक्त्यन्तरमाह ॥ उद्विग्नेति । ते तव मुखमुत्सर उत्कृष्टं सर इव भाति । कथम् । उद्विग्नं चञ्चलम् । मीनयोर्मीनवद्विद्यमानयोर्नेत्रयोर्युगलं यस्मिंस्तत्तथा । द्विजाः शुभ्रतया राजहंसपक्षिस्थानीया दन्तास् तेषां पङ्क्या शोभि । आसन्नः प्राप्तः भृङ्गनिकरस् तत्स्थानीयः केशसमूहो यस्मिन् तत् । परिमललुब्धभृङ्गनिकरो यस्मिन्निति वा ॥ १४ ॥

योऽसौ त्वया करसरोजहतःपतङ्गो दिक्षु भ्रमन् भ्रमत एजयतेऽक्षिणी ते ।

युक्तं न ते स्म वरवक्रजटावरूथः१ कृष्णो२ऽनिलो हरति लम्पट

एष नीवीम् ॥ १५ ॥

पदरत्नावली

त्वया करसरोजेन हतो योऽसौ पतङ्गः कन्दुको दिक्षु भ्रमन् भ्रमतस् तवाक्षिणी एजयते चालयतीत्यन्वयः । लम्पटो रागी अत एव कृष्ट एषोऽनिलो वायुर् वरो वरणीयश्च वक्रः कुटिलश्च जटानां वरूथः समूहस्ते तव तं हरति निवीं वस्त्रबन्धं च हरतीत्ये-तन्न युक्तमित्यन्वयः ॥ १५ ॥

प्रकाशिका

पतङ्गः कन्दुको दिक्षु भ्रमन् भ्रमतस्तवाक्षिणी एजयते चालयति । लंपटो रागी अत एव कृष्णस्तामसः । कृष्ट इत्यपि क्वचित्पाठः । वर उत्तमो जटावरूथो वक्रो येन स वरवक्रजटावरूथ एषोऽनिलस्ते तव नीवीं वरवस्त्रबन्धं हरति । स्मेत्याश्चर्ये । एतन्न युक्तमित्यर्थः ॥ १५ ॥

रूपं तपोधन तपश्चरतां तपोघ्नं ह्येतत्तु केन तपसा भवतेह लब्धम् ।

चर्तुं तपोऽर्हसि मया सह मित्र मह्यं किं वा प्रसीदसि स वै

भवभावनो मे ॥ १६ ॥

पदरत्नावली

हे तपोधन तव यद्रूपं तपः कुर्वाणानां पुंसां तपोघ्नं तपोविघ्नकरम् एतद्रूपमिह तपोराशौ केन तपसा त्वया लब्धमित्यन्वयः । हे मित्र मया सह तपश्चर्तुं कर्तुमर्हसीत्यन्वयः । ‘तप ऐश्वर्य’ इति धातोरैश्वर्यनिमित्तं विषयभोगलक्षणमानन्दं गमयितुमिति वा । चरतेर्गत्यर्थत्वान् मह्यं मे त्वं प्रसीदसि किं वा, तर्हीति शेषः । कुत इति तत्राह– स इति ॥ स भवान् मे भवभावनः सम्पत्करो वा इत्यन्वयः ॥ १६ ॥

प्रकाशिका

हे तपोधन । तव रूपं तपश्चरतां तपः कुर्वतां पुंसां तपोघ्नं तपोविघ्नकरमेतद्रूपमिह भूमौ केन तपसा भवता लब्धं प्राप्तम् । हे मित्र । मया सह तपश्चर्तुं कर्तुमर्हसि । किंवा तपो विहाय मह्यं मे प्रसीदसि भोगानुकूलो भवसि । स त्वं मे भवभावनः शुभाभिवृद्धिकरः संसाराभिवृद्धिकरो वा वै प्रसिद्धम् ॥ १६ ॥

न त्वां त्यजामि दयितां द्विज दैवदत्तं यस्मिन्मनो दृगपि वा न वियाति लग्नम् ।

मां चारुशृङ्गार्हसि नेतुमनुव्रतं ते चित्तं यतः प्रतिसरन्तु शिवाः सचिव्यः

॥ १७ ॥

पदरत्नावली

हे द्विज देवेन विधिना दत्तं यस्मिन् त्वयि लग्नं मनो लग्ना दृगपि दृष्टिर्वा न वियाति अन्यत्र न गच्छति । हे चारुशृृङ्ग सुन्दरस्तन त्वं मां नेतुमर्हसि । कुतः? मम चित्तं ते तवानुव्रतम् अनुगतमिति यतः । मुग्धो ग्राम्यकाम इवाह– प्रतिसरन्त्विति ॥ इमाः शिवाः शुभाः सचिव्यो दासीवद्वर्तमाना मधुकर्यः प्रतिसरन्तु अपसरन्तु दूरङ्गच्छन्तु । अधुना अहं त्वां सम्भोक्तुकाम इति शेषः । यद्वा सचिवीवद्वर्तमानाः शिवाः सृगालस्त्रियः प्रतिसरन्तु प्रदक्षिणं गच्छन्त्विति स्वकार्यसिद्धये शकुनं प्रार्थयत इति ॥ १७ ॥

प्रकाशिका

हे द्विज । दैवेन विधिना दत्तं त्वां यस्मिंस्त्वयि लग्नं मनो लग्ना दृगपि न वियात्यन्यत्र न गच्छति । हे चारुशृृङ्ग सुन्दरस्तन । त्वं मां नेतुमर्हसि । कुतो यतो मम चित्तं ते तवानुव्रतमनुगतमरण्ये सचिव्यः सहचर्यः शिवाः शृृगालस्त्रियः । प्रतिसरन्तु प्रदक्षिणं गच्छंत्विति स्वकार्यसिद्धये शकुनं प्रार्थयते । अथवा । शिवाः सचिव्यो दासीवद्वर्तमाना मधुकर्यः प्रतिसरन्तु दूरं गच्छन्तु । ततश्च त्वया सह भोगं करिष्यामीत्याशयः ॥ १७ ॥

श्रीशुक उवाच–

इति ललनानुनयातिविशारदो ग्राम्यवैदग्ध्यया परिभाषया तां विबुधवधूमिति सभाजयामास ॥ १८ ॥

तात्पर्यम्

‘परिहासप्रलापादिष्वनर्था वाग्भवेत्क्वचिदि’ति शब्दनिर्णये ॥ १८ ॥

पदरत्नावली

विरागिणां श्रोतॄणां कर्णदुःसहाया इहशाब्दिकानामपहासहेतोरिव स्थिताया ग्राम्यकथाया अथापि समाप्तिर्नास्तीति मन्वान इवोत्तरकथाप्रसङ्गमाह– इतीति ॥ इतिशब्द आदिवचनः समाप्तिवचनो वा । ग्राम्ये विषयभोगकथायां वैदग्ध्यं पाटव्यं यस्याः सा तथा, तया परिभाषाया सञ्ज्ञालक्षणवाण्या ॥ १८ ॥

प्रकाशिका

नन्वाग्नीध्रस्य राज्ञः प्रेक्षावतः कथं का त्वं चिकीर्षसि वने मुनिवर्ये-त्याद्यर्थशून्यं वाक्यमित्यतोऽत्र सम्भावकं प्रमाणेनैवाह ॥ परिहासेति । आदिपदेन कामादिकृतचित्तभ्रंशोऽपि ग्राह्यः । अनर्थाऽर्थशून्या वाक् वाक्यं क्वचिद् भवेत् । तथा चाग्नीध्रस्य कामावेशेन चित्तभ्रंशादेतादृग्वचनं नासम्भावितमित्याशयः । अत एव पूर्वं मकरध्वजस्य वशमुपनीतो जडवदिति होवाचेत्युक्तम् । ग्राम्ये विषयभोगकथायां वैदग्ध्यं कौशलं यस्याः सा तथा तया परिभाषया स्वकल्पितार्थकवाण्या ॥ १८ ॥

**सा च ततस्तस्य वीरयूथपतेर्बुद्धिशीलरूपविद्यावयःश्रियौदार्यैः पराक्षिप्त-मनास्तेन सहायुतायुतपरिवत्सरोपलक्षणं कालं जम्बुद्वीपपतिना भोगान् बुभुजे **

॥ १९ ॥

पदरत्नावली

यद्यनया परिभाषया वशीकृता स्यात्तर्हि अस्य तत्र वैदग्ध्यमस्तीति वक्तुं युक्तम् । तत्कथमत्राह– सा चेति ॥ अन्यथा विषयभोगायोगात् सिद्धं वशीकरणम् (‘पराक्षिप्तमना मोहितचित्ता सती’ इति अधिकः पाठः कपाठकोशेऽस्ति) ॥ १९ ॥

प्रकाशिका

बुद्ध्यादीनां द्वन्द्वैक्यम् ॥ १९ ॥

तस्यामु ह वा आत्मजान्स राजवर्य आग्नीध्रो नाभिकिम्पुरुषहरिवर्षे-लावृतरम्यकहिरण्मयकुरुभद्राश्वकेतुमालसंज्ञान्नव भावयाम्बभूव सा सूत्वा तु पुत्रान्नवानुवत्सरं गृह एवापहाय पूर्वचित्तिर्भूय एवाजं देवमुपतस्थे ॥ २० ॥

पदरत्नावली

न केवलमियं भोगस्त्री किन्तु सन्तानकरीति भावेनाह– तस्यामिति (आग्निध्रराजर्षिसम्बन्धिपुण्यकथाविषये विस्मयप्रसिद्ध्यादिसूचनार्थम् उहवेति निपातसमुदायः ॥ पुत्रोत्पत्त्यनन्तरं पूर्वचित्त्या किमकारीति तत्राह– सा सूत्वेति ॥ अजं देवं ब्रह्माणम् । उपतस्थे अभजत् ॥ २० ॥

प्रकाशिका

अजं ब्रह्माणमुपतस्थेऽभजत् ॥ २० ॥

आग्नीध्रसुतास्ते मातुरनुग्रहादौत्पत्तिकेनैव संहननबलोपेताः पित्रा विभक्तात्म-तुल्यनामानि यथाभागं जम्बूद्वीपवर्षाणि बुभुजुः ॥ २१ ॥

पदरत्नावली

(‘औत्पत्तिकेन स्वभावेनैव’ इति कपाठः) संहननं देहपुष्टिः । आत्मतुल्यनामानि आत्मनामाक्षरतुल्यनामाक्षराणि । जम्बूद्वीपे विद्यमानानि वर्षाणि खण्डानि । ‘खण्डोऽस्त्री खण्डिते त्रिषु’ इति यादवः ॥ २१ ॥

प्रकाशिका

औत्पत्तिकेनैव स्वभावेनैव संहननं दृढांगत्वमात्मतुल्यनामानि स्वात्मना तुल्यनामकानि वर्षाणि खण्डानि ॥ २१ ॥

आग्नीध्रो राजपुत्रस्तामप्सरसमेवानुदिनमभिमन्यमानस्तस्याः सलोकतां श्रुतिभिरवरुन्धन् ईजे यत्र पितरो मोदयन्ते१ ॥ २२ ॥

पदरत्नावली

आग्नीध्रेण पुनः किमकारीत्यत्राह– आग्नीध्र इति ॥ तामभिमन्यमान इति ॥ तया सह सुरतोत्सवसुखं चिन्तयन्नित्यर्थः । समानलोकताम् अवरुन्धन्नाप्तुकामः । श्रुतिभिः श्रुतिविहितैः साधनैः । ईजे, श्रीहरिमिति शेषः । यद्वा एवंविधसाधनेनैव यजन्नप्सरः-समानलोकतां श्रुतिभिराकर्णनैरवरुन्धन् । लोकं विशिनष्टि– यत्रेति ॥ मादयन्ते हृष्यन्ति । अनेन पितृलोक एवाप्सरसो लोक इति ध्वनितम् ॥ २२ ॥

प्रकाशिका

अभिमन्यमानस् तया सह भोगं चिन्तयन् श्रुतिभिः श्रुतिसाधनैरवरुंधन् प्राप्तुकाम ईजे । हरिमिति शेषः। यत्र लोके मोदयन्ते मोदन्ते ॥ २२ ॥

सम्परेते पितरि नवभ्रातरो मेरुदुहितॄर्मेरुदेवीं प्रतिरूपामुग्रदंष्ट्रीं लतां रामां श्यामां नारीं भद्रां देवीमिति संज्ञा नवोदवहन् ॥ २३ ॥

॥ इति श्रीमद्भागवतमहापुराणे पञ्चमस्कन्धे द्वितीयोऽध्यायः ॥

पदरत्नावली

सम्परेते मृते । मेरोर्दुहितॄः पुत्रीः । उदवहन् विवाहितवन्तः ॥ २३ ॥

॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुकृतायां

पञ्चमस्कन्धे द्वितीयोऽध्यायः ॥

प्रकाशिका

सम्परेते मृते मेरोर्दुहितॄः पुत्रीरुदवहन् परिणीतवन्तः ॥ २३ ॥

**॥ इति श्रीमद्वेदेशपूज्यपादशिष्येण यदुपतिना विरचितायां **

श्रीभागवतटिप्पण्यां प्रकाशिकायां द्वितीयोऽध्यायः ॥ ५-२ ॥