प्रियव्रतो भागवत आत्मारामः कथं मुने
श्रीमद् भगवद्बादरायणप्रणीतम्
श्रीमद्भागवतम्
पञ्चमस्कन्धः
अथ प्रथमोऽध्यायः
ॐ नमो भगवते वासुदेवाय
राजोवाच–
प्रियव्रतो भागवत आत्मारामः कथं मुने ।
गृहेऽरमत यन्मूलः कर्मबन्धः पराभवः ॥ १ ॥
**श्रीमद्विजयध्वजतीर्थविरचिता **
पदरत्नावली
श्रीमध्ववल्लभश्रीहयग्रीवाय नमः
प्रभवति जगदेतद् यत्कटाक्षेक्षणेन स्थितयति यदुपेक्षालेशतो नाशमेति ।
गतमगतमभिज्ञा जानते यस्य वृत्तं शरणमिममयेऽहं कालसञ्ज्ञं मुकुन्दम् ॥ १ ॥
गद्यहेमाश्मगहनं पञ्चमस्कन्धपर्वतम् ।
आम्नायज्ञा महान्तो मे प्रीयन्तामारुरुक्षवे ॥ २ ॥
स्वस्वविहितधर्मसाधनसामग््रया समुद्भूतेन ज्ञानेन सतां स्वस्वयोग्या मुक्तिर्भवतीत्ये-तस्मिन्नध्याये निरूप्यते । तत्र विशेषविवित्सया परीक्षित् शुकं पृच्छति– प्रियव्रत इति ॥ जीवात्मनः पराभवः स्वपरमात्माज्ञानलक्षणः । यन्मूलः यद् अहंकलत्रादिलक्षणं मूलं यस्य सस् तथा । कस्मादित्यत उक्तम्– कर्मेति ॥ दुष्कर्मनिमित्त इत्यर्थः । एतादृशे गृहे कथमर-मतेत्यन्वयः ॥ १ ॥
**श्री यादवार्यविरचिता **
भागवतप्रकाशिका
वेदव्यासं प्रणम्याथ मध्वं वेदेशसद्गुरून् ।
पञ्चमस्कंधतात्पर्यं व्याकरिष्ये यथामति ॥ १ ॥
प्रकाशिका
यो नारदादात्मविद्यामधिगम्य पुनर्महीं भुक्त्वेति चतुर्थस्कंधान्तोक्तं नारदोप-देशानन्तरमपि प्रियव्रतकृतं महीभोगं श्रुत्वा राजा पृच्छति ॥ प्रियव्रत इति । भागवतः स्वतो भगवद्भक्तो नारदोपदेशादात्मारामश्च भूत्वा कथं गृहेऽरमत । आत्मरमणगृहरमणयोः परस्पर-विरुद्धत्वेनेदमसम्भावितमित्याशयः । ननु गृहासक्तेः कामोपभोगहेतुत्वाद् आत्मारामत्वं परित्यज्य गृहासक्तिरेव तेन कृताऽतो न विरोध इत्यत आह । यन्मूल इति । यद्गृहं मूलं यस्य सो यन्मूलः कर्मबन्धः पुनः पुनः संसारापादककर्मार्जनं, तेन च पराभवः पुनः पुनर्दुःखानुभवः । तथा च तदर्थमात्मारामत्वं न त्याज्यमित्याशयः ॥ १ ॥
न नूनं मुक्तसङ्गानां तादृशानां महामुने ।
गृहेष्वभिनिवेशोऽयं पुंसां भवितुमर्हति ॥ २ ॥
महतां खलु विप्रर्षे उत्तमश्लोकपादयोः ।
छायानिर्वृतचित्तानां न कुटुम्बे स्पृहा मतिः ॥ ३ ॥
पदरत्नावली
न केवलम् अस्यैवायुक्तं गृहे रमणमन्येषामप्येतादृशानां (‘एतादृशानां भागवतानां’ इति कपाठः) न युक्तमित्याह– न नूनमिति ॥ मुक्तसङ्गानां फलाभिसन्धि-रहितानाम् ॥ अत्र हेतुमाह– महतामिति ॥ ज्ञानलक्षणया छायया संसारसन्तापं परिहरन्त्या आल्हादं जनयन्त्या निवृत्तं प्राप्तपरमानन्दं चित्तं येषान्ते तथा तेषाम् । कुटुम्बे स्पृहया युक्ता मतिर्न भवतीत्यन्वयः ॥ २,३ ॥
प्रकाशिका
प्रत्युतात्मारामा गृहासक्तिं न कुर्वन्तीत्याह ॥ न नूनमिति द्वाभ्याम् । तादृशानां भवद्भिरुपदिष्टानामत एव मुक्तसङ्गानां न भवितुमर्हति । छायानिर्वृतचित्तानां हरिचरणध्यानाविर्भूतसुखानुभविनामित्यर्थः । स्पृहेच्छा मतिरभिमतिः ॥ २,३ ॥
संशयोऽयं महान् ब्रह्मन् दारागारसुतादिषु ।
सक्तस्य यत्सिद्धिरभूत्कृष्णे च मतिरच्युता ॥ ४ ॥
पदरत्नावली
सामन्यमुक्त्वा विशिनष्टि– संशय इति ॥ ज्ञानविरोधिषु दारागारादिषु सक्तस्य प्रियव्रतस्य कृष्णे अच्युता निरन्तरमनुवर्तमाना मतिरुपासनालक्षणा च तया सिद्धिर्मुक्ति-लक्षणा च अभूदिति यद् यस्मात्तस्मात्संशयः कुटुम्बासक्तस्य सिद्धावच्युतमतिः प्रयोजिका उत ‘गृहस्थोऽपि विमुच्यत’ इति स्मृतेः, ‘कुटुम्बी शुचौ देशे स्वाध्यायमधीयानः’ इति श्रुतेश्च । चेतसः कुटुम्बभरणलक्षणासक्तिराहोस्विदुभयमथवा निवृत्तिमार्गानुपमर्देन तत्सक्तिरविरोधिनीति
॥ ४ ॥
प्रकाशिका
यच्चोक्तं भुक्त्वा विभज्य पुत्रेभ्य ऐश्वर्यं समगात्पदमिति तदप्यसम्भावित-मिवाभातीत्याशयेनाह ॥ संशय इति । सिद्धिर्मुक्तिरभूदिति यत्तत्त्रायं संशयः । असम्भावना-शङ्का भवतीति शेषः । दारादिसक्तेः सिद्धिप्रतिबन्धकत्वादित्याशयः ॥ ४ ॥
श्रीशुक उवाच–
बाढमुक्तं भगवत उत्तमश्लोकस्य श्रीमच्चरणारविन्दमकरन्दरस आदित आवेशितचेतसो भागवतपारमहंस्यदयितः कथञ्चिदन्तरायाविहतां१ स्वां शिवतमां पदवीं न प्रायेण हि हिन्वन् आस्ते ॥ ५ ॥
पदरत्नावली
तत्र तुरीयपक्षमङ्गीकृत्य परिहरति– बाढमिति ॥ उक्तं बाढमोमिति । किं तदाह– भगवत इति ॥ सकलसौभाग्यनिधेः सदा निर्दोषयशसो हरेः सकलसम्पत्कर-पदकमलमधुरसे (‘पदकमलसम्बन्धिसौगन्ध्यसौन्दर्यादिमाहात्म्यरूपमधुश्रेष्ठे’ इति कपाठः) आदित आवेशितचेतसो जन्मप्रभृतिसंस्थापितान्तःकरणस्य पुरुषस्य गृहस्थाश्रमो निवृत्ति-मार्गविरोधी न स्यादिति यत्तदिति शेषः । तर्हि कस्य विरोध इति चतुर्थाश्रमिण इत्याह– बाढमिति ॥ वेदशिरस्त्वेनोत्तमः श्लोको वेदान्तलक्षणो यस्य स तथा तस्य हरेः श्रीमच्चरणार-विन्दमकरन्दरसे निरन्तररतिलक्षणास्वादनोत्सुकान्तःकरणस्य भगवतः सर्वपूज्यस्य सन्न्यासिनः । ‘स्त्रीभूहिरण्यपशवो यतेर्यस्य परिग्रहाः । तादृशं कश्मलं दृष्ट्वा सचैलो जलमाविशेत् ॥’ इति यन्निन्दावचनं तद् बाढमिति वा । सिद्धावच्युतमतिः प्रयोजिकेति यत् तत्रापीदमेवोत्तरम्– बाढमिति ॥ तर्हि कुटुम्बासक्तिर्विरुणद्धीति तत्राह– भगवत इति ॥ वायोर्विषमिव हरिचरणैकशरणस्य पुंसः कुटुम्बाभिनिवेशो न मुक्तिपदवीपरिपन्थी । किन्तु भूषण-मेवेत्यभिप्रायः । ‘गृहस्थोऽपि विमुच्यते’ इत्यत्र भगवदर्पणबुद्ध्या यदि कर्म करोति तर्हि ज्ञानजननद्वारा मुक्तिसाधनमन्यथाऽनर्थ इत्यङ्गीकारश्चेदिदमेवोत्तरम्– बाढमिति ॥ नैष्कर्म्य-मप्यच्युतभाववर्जितमिति स्वोक्तेः । अनेन तृतीयपक्षोऽपि व्याख्यातः । अत्रापि भगवत इत्युक्तिरेव हेतुः । कुटुम्बभरणव्यासक्तस्य वित्तेषणादिविघ्नैर् भगवदुपासनालक्षणपरिचर्याया (‘कुटुम्बभरणादिषु संसक्तस्य भगवत्सेवया’ इति कपाठः) विहतिरवश्यंभाविनीति तत्राह– भागवतेति ॥ भागवतश्च (यो भागवतपारमहंस्यदयितो भागवतानां परमहंसाश्रमसम्बन्धिनाम् इति कपाठः) परमहंससमाजश्च भागवतपारमहंस्यस् तस्य दयितः प्रियो जनः स्वां स्वविहितां शिवतमां शुभतमां पदवीं निवृत्तिलक्षणां वित्तेषणाद्यन्तरायैर्विहतां विच्छेदाभिमुखीमपि प्रायेण बहुलं न हिन्वन् न त्यजन् ह्येवास्त इत्यन्वयः । (‘उत्तमज्ञानिजनसमागमेन निवृत्तमार्गाभिज्ञस्तं मार्गं गृहाश्रमरत्यर्थं कदाऽपि न परित्यजतीत्येत् प्रमाणप्रसिद्धमिति हिशब्देन द्योतयति । अस्मदादिव्यावृत्त्यर्थं प्रायेणेत्युक्तम्’ इत्यधिकांशः कपाठकोशेऽस्ति) अत्यागे कारणम्– भागवतेति ॥ अथवा भगवत उत्तमश्लोकस्येत्येतदत्रापि हेतुत्वेन सम्बध्यते । समावेशित-चेतस्त्वादिति । भगवतः प्रियं परमहंसाश्रमं दयितः प्राप्तोऽपि दयदानगतिशोषणादिष्विति धातुः । अत्रापि पूर्वोक्त एव हेतुः । दारादिषु सक्तस्य प्रियव्रतस्य कृष्णविषयाच्युतमत्या सिद्धिः कथमभूदिति प्रश्नपरिहारः (‘बाढमित्याद्येकं वा महान्संशयो म इति यदुक्तं तद्बाढं सत्यम् इत्यर्द्धाङ्गीकारः । कथं मन्दानां सन्देहावकाशो न विदुषाम् । तथा हि प्रियव्रतस्य प्रथम-शरीरग्रहणमारभ्य हरिचरणारविन्दमकरन्दरसास्वादनैकचित्तत्वात् कुटुम्बासक्तिर्मुक्तिपरिपन्थिनी न स्यात् । त्रिजगद्गुरुवरचतुर्मुखाज्ञाकारित्वेन गुणकरी च । एतत्कुत इति तत्राह– भागवतेति ॥ शेषं पूर्ववत्’ इति अयमंश अष्टमश्लोकव्याख्यानावसरे पूर्वमुद्रितपुस्तकेषु दृश्यते । परन्तु अत्र स्वीकार्यं वा न वा इति महान्तः प्रमाणम्) ॥ ५ ॥
प्रकाशिका
प्रश्नद्वयस्य क्रमेणोत्तरं वक्तुमादौ तावद्राज्ञोक्तमङ्गीकरोति ॥ बाढमिति । आत्मारामस्य गृहे रमणमसम्भावितमिति यदुक्तं तद्बाढं सत्यमित्यर्थः । कुत इत्यतोऽयमर्थः प्रमाणप्रसिद्ध इत्याह ॥ भगवत इत्यादिना । चरणारविंदस्य मकरंदरसमाहात्म्यरूपमधुश्रेष्ठे आदित आवेशितेऽनादिकालमारभ्यावेशितचेतस उत्तमभक्तस्य सकाशात् । तदनुग्रहादिति यावत् । यो भागवतपारमहंस्यदयितो भागवतानां परमहंसाश्रमसम्बन्धिनां प्रियः सः स्वां शिवतमां शुभतमां निवृत्तपदवीं मार्गं कथञ्चित्केनापि प्रकारेणान्तरायै रागद्वेषादिरूपैर्विघ्नैर-विहतामननभिताम् । अन्तरायविहतामिति पाठेऽपि विशब्दस्य निषेधार्थत्वादुक्त एवार्थो द्रष्टव्यः । प्रायेण न हिन्वन्नपरित्यजन्नास्ते । हि प्रसिद्धमेतत् । उत्तमभक्तसङ्गत्या निवृत्त-मार्गाभिज्ञस्तं मार्गं गृहाश्रमरत्यर्थं कदाऽपि न परित्यजतीत्येत्प्रमाणप्रसिद्धमित्याशयः । अस्मादादिव्यावृत्त्यर्थं प्रायेणेत्युक्तम् ॥ ५ ॥
यर्हि वाव स राजपुत्रः प्रियव्रतः परमभागवतो नारदस्य चरणोपसेवयाञ्ज-साऽवगतपरमार्थसत्तत्त्वो ब्रह्मसत्रेण दीक्षिष्यमाणोऽवनितलपरिपालनायाम्नात-प्रवरगुणगणैकान्तभाजनतया स्वपित्रोपामन्त्रितो भगवति वासुदेव एवाव्यव-धानसमाधियोगेन समावेशितसकलकारकक्रियाकलापो नैवाभ्यनन्दत् ॥ यदपि तदप्रत्याम्नातव्यं तदधिकरण आत्मनोऽन्यस्मादसतो यदा पराभवमन्वीक्षमाणः
॥ ६ ॥
पदरत्नावली
कथमागत इति तद्वक्तुमुपक्रमते (कथमित्यत आह इति कपाठः)– यर्हीति ॥ प्रियव्रतोप्येष्वेक इति कृत्वा तच्चरितं वक्तुमुपक्रमते इत्यतो वाह– यर्हीति ॥ यर्हि यदा स राजपुत्रः प्रियव्रतो भवनरक्षणाय स्वपित्रा स्वायम्भुवेनोपामन्त्रितो नियोजितोऽपि राज्यरक्षणलक्षणं (‘प्रियव्रतोऽवनितपरिपालनाय भूतरक्षणार्थमाम्नाता वेदेषूक्ता ये प्रवराः प्रकृष्टाः स्थैर्यशौर्यादयः क्षत्त्रियगुणास्तेषां गणस्य समूहस्यैकान्तेन नियमेन भाजनतया तादृश-प्रवरगुणसमूहाश्रयत्वेन निमित्तेन स्वपित्रा स्वायम्भुवेन उपामन्त्रितो नियोजितः । अधिराज्य-रक्षणरूपं’ इति अधिकोंऽशः कपाठकोशे दृश्यते) पितृवचनं नैवाभ्यनन्दन् नाङ्गीकृतवान् । वाव किल । अथ तदा आत्मयोनिर्ब्रह्मा स्वभवनादवततार हेत्यन्वयः । अनभिनन्दने किं कारणमित्यत उक्तम्– ब्रह्मेति ॥ ब्रह्मसत्रेण सन्न्यासेन दीक्षिष्यमाणः सन्न्यासदीक्षां प्राप्नुयामिति मन्वानः । ननु अज्ञाततत्वस्य सन्न्यासाधिकारः कथमस्य सम्भवतीत्यत उक्तम्– अवगतेति ॥ अवगतं परमार्थसत्तत्वं येन स तथा । अवगतपरमार्थसत्तत्वः कालत्रयेऽप्य-बाधितपरब्रह्मज्ञानीत्यर्थः । अलौकिकस्य वस्तुनो विशेषज्ञानं गुरुकटाक्षं विना न घटत इत्यत उक्तम्– चरणेति ॥ गुरोरिति शेषः । एवंविधस्य समग्रानुग्रहकर्ता गुरुः कः येन तत्त्वज्ञानं स्यादित्यत उक्तम्– नारदस्येति ॥ नन्वयोग्यश्चेत्तत्वज्ञानग्रहणं कथं सम्भाव्यत इत्यत उक्तम्– परमभागवत इति ॥ इदं चानभिनन्दने कारणमित्याह– भगवतीति ॥ अव्यवधानो व्यवधानरहितोऽप्रतिबद्धो यः समाधियोगश् चित्तैकाग्रतालक्षणस्तेन वासुदेवे भगवत्येव सम्यगा-वेशितः समर्पितः सकलानां कारकाणां चक्षुरादीन्द्रीयाणां क्रियाकलापो व्यापारसमूहो येन स तथा । जीवस्य ब्रह्माधीनत्वनिरीक्षणलक्षणसमाधियोगेन सन्न्यस्ताहंकर्तृत्वादिसमुदायो वा । नन्वज्ञवत् पितुरादेशम् उदलङ्घयत् कथमयमिति तत्राह– यदपीति ॥ राज्यं कुर्विति यत् पित्रोक्तं तद् वचनम् अप्रत्याम्नातव्यं न करोमीति निराकर्तुमयुक्तं यदपि यद्यपीति । जानातीति शेषः । तथाऽपि तदधिकरणे राज्यरक्षणाधिकरणे क्रियमाणे असतोऽप्रशस्तादन्यस्माद् शब्दादे (रूपरसादिविषयजाताद् इति कपाठः) र्विषयादात्मनो मनआदेः पराभवं पुनःपुनः संसार-प्राप्तिलक्षणं पराजयमन्वीक्षमाणः सम्यक् पश्यन् गुरुवचनं चात्मस्नेहनिमित्तमिति सम्पश्यमानो नैवाभ्यनन्ददित्यन्वयः । अनेन गुर्वादेशोल्लङ्घनदोषोऽपि पर्यहारीति द्रष्टव्यम् । नन्वेवंविधश्चेत् किमिति पित्रोपामन्त्रित इति तत्राह– आम्नातेति ॥ आम्नाता नीतिशास्त्रेण परिपठिताः प्रवरा उत्तमा राज्ञाङ्गुणा अभिगम्यादयो ये तेषामेकान्तभाजनतया नियतपात्रत्वात् ॥ ६ ॥
प्रकाशिका
इदानीं प्रथमप्रश्नस्यात्मारामः प्रियव्रतो गृहेषु नैवारमतेत्युत्तरमाह ॥ यर्हीति । यर्हि यदा राजपुत्रः प्रियव्रतोऽवनितलपरिपालनाय भूतलरक्षणार्थमाम्नाता वेदेषूक्ता ये शौर्यादयः क्षत्रियगुणास्तेषां गणस्य समूहस्यैकान्तेन नियमेन भाजनतया तादृशगुणसमूहाश्रयत्वेन निमित्तेन स्वपित्रा स्वायंभुवमनुनोपामन्त्रित आज्ञप्तस्तदा तदाज्ञां नाभ्यनन्दत्कर्तुं नैच्छत् । कुत इत्यत उक्तम् ॥ ब्रह्मसत्रेण संन्यासेन दीक्षिष्यमाण इति । संन्यासं गृहीष्यामीति सङ्कल्प-वान्यत इत्यर्थः । तदपि कुत इत्यत उक्तम् ॥ परमभागवत इत्यादि सत्तत्व इत्यन्तम् । अवगतं परमार्थमुत्तमं ज्ञेयं स तु निर्दुष्टं तत्त्वमनारोपितं स्वरूपं येन स तथा । किञ्च भगवति वासुदेव एव समावेशितः समर्पितः सकलकारकाणामिन्द्रियाणां कलापो ज्ञानकर्मरूपः कार्यसमूहो येन स तथा । तत्रापि निमित्तमाह ॥ वासुदेव एवाव्यवधानसमाधियोगेनेति । निरन्तरचित्तैकाग्रयलक्षणोपायेनेत्यर्थः । नन्वज्ञवत्कथं पित्रादेशमुल्लङ्घितवानित्यत आह ॥ यदपीति । यद्यपि तद्राज्यं कुर्विति पितृवचनमप्रत्याम्नातव्यं न प्रत्याख्येयमिति । जानातीति शेषः । तथाऽपि तदधिकरणे राज्यरक्षणाधिकरणे क्रियमाणेऽऽसतोऽमङ्गलादन्यस्माद्विषय-जातादात्मनो मनसः पराभवं तिरस्कारं हरिं विहायान्यत्र गमनरूपमन्वीक्षमाणः पुनः पुनरालोचयन्नाभ्यनन्ददित्यन्वयः । गुरूणां वचनमपि मोक्षमार्गविरोधि चेत्तन्न ग्राह्यमिति शास्त्रार्थमालोच्येति पूरणीयम् ॥ ६ ॥
अथ ह भगवानादिदेव एतस्य गुणविसर्गस्य परिबृंहणानुध्यानेन व्यवसित-सकलजगदभिप्राय आत्मयोनिरखिलनिगमनिजजनपरिवेष्टितः स्वभवनादवततार
॥ ७ ॥
पदरत्नावली
नन्वतर्किताभ्यागमने किं कारणमिति तत्राह (‘चतुर्मुखब्रह्मागमने कारणमाह’ इति कपाठः)– एतस्येति ॥ गुणैः सत्वादिगुणैर्विविधः सर्गो यस्य तत्तथा । तस्यैतस्य जगतः परिबृंहणं वृद्धिस्तस्यानुध्यानं सदा सञ्चिन्तनं तेन व्यवसितो निश्चितो सकलजगदभिप्रायो येन स तथा । परिबृंहणं सृष्टिस् तदनन्तरकालीनानुध्यानेनापरोक्षीकृत इष्टानिष्टप्राप्तिपरिहारोपायलक्षणो जगदभिप्रायो येनेति वा । आत्मयोनिर्ब्रह्मा अखिलैर्मूर्ति-मद्भिर्निगमैर्वेदादिशास्त्रैर्मरीच्यादिनिजगणैश्च परिवृत इत्यनेन श्रुतशास्त्रस्य प्रियव्रतस्यात्मयो-निवचोऽतिविश्वासजननायोक्तमिति दर्शितम् ॥ ७ ॥
प्रकाशिका
तर्हि महीं भुक्त्वेति कथं स्कन्धान्त उक्तमित्याशङ्कायां प्रियव्रत-स्वरूपयोग्यताऽभिज्ञेन ब्रह्मणा तव गृहाश्रम एव हरिपूजात्मकं विविधभोगान् भुञ्जानस्य पश्चाद्विरक्त्या परमहंसाश्रमं प्राप्तस्य मुक्तिरित्युपदिष्टं श्रुत्वा महीं भुञ्जत इत्युत्तरं वक्तुमत्र ब्रह्मण आगमनं तावद्वक्ति ॥ अथेति । अथ पित्रादेशोल्लङ्घनानन्तरं गुणैः सत्त्वादिभिर्विविधः सर्गो यस्य स तथा तस्यैतस्य जगतः परिबृंहणं वृद्धिस्तस्यानुकूलं ध्यानमालोचनं तेन व्यवसितो निश्चितः सकलजगदभिप्रायो येन स तथा । आत्मयोनिर्ब्रह्मा । अखिलनिगमैर्मूर्तिमद्भि-र्वेदैर्निजजनैर्मरीच्यादिभिश्च स्वभवनात्सत्यलोकात् ॥ ७ ॥
तत्र तत्र गगनतल उडुपतिरिव विमनावलिभिरनुपथममरपरिवृढैरभिपूज्यमानः पथि पथि च वरूथशः सिद्धगन्धर्वसाध्यचारणमुनिगणैरुपगीयमानो गन्ध-मादनद्रोणीमवभासयन्नुपससर्प ॥ ८ ॥
पदरत्नावली
तद्वचनस्याग्राह्यत्वे तन्माहात्म्यमाह– तत्र तत्रेति ॥ उडुपतिश्चन्द्र इवेति दृष्टान्तः । सौम्यत्वे अमरपरिवृढैर्देवश्रेष्ठैरनुपथमिति । पथि पथि इति वीप्सायाम् । गन्ध-मादनस्य पर्वतस्य द्रोणीं निम्नं (‘दरीम्’ इति कपाठः) नितम्बप्रदेशं प्रियव्रततपःस्थानं प्रकाशयन्नुपससर्प प्राप ॥ ८ ॥
प्रकाशिका
उडुपतिरिव चन्द्र इवावभासयन्नित्यन्वयः । अमरपरिवृढैर्देवश्रेष्ठैर्गन्धमादनस्य पर्वतस्य द्रोणीं दरीं प्रियव्रततपःस्थानमवभासयन्प्रकाशयन् उपससर्प प्राप । यदा ब्रह्मा प्राप तदा तस्यां द्रोण्यां प्रियव्रतं नारद उपदिशति । मनुरपि तन्नेतुमागतस्तत्र तिष्ठतीति ग्राह्यम् । अत्र सर्वत्र ह वावेत्यादयो निपाताः श्रद्धातिशयजननायास्वादनार्था इति ज्ञातव्यम् ॥ ८ ॥
तत्र ह वा एनं देवर्षिर् हंसयानेन पितरं भगवन्तं हिरण्यगर्भमुपलभ्ममानः ॥ सहसैव सह पितापुत्राभ्याम् अवहिताञ्जलिरुपतस्थे ॥ ९ ॥
भगवानपि भारत तदुपनीतार्हणः सूक्तवाकेनातितरामुदितगुणगणावतार-सुविजयः प्रियव्रतमादिपुरुषस्तं सदयहासावलोक इति होवाच ॥ १० ॥
पदरत्नावली
हवा इत्येतौ निपातौ गद्यवाक्यालङ्कारार्थौ इतिहास श्रद्धातिशयजननार्थौ वा । तत्र तस्यामवस्थायां हंसयानेनलक्षणेन स्वपितरं चतुर्मुखम् उपलम्भमानः पश्यन्नारदः शिष्यशिक्षणाय पूर्वमुपविष्टः सहसै वझढित्येव पितापुत्राभ्यां नाम्नास्वायम्भुवप्रियव्रताभ्यां सह बद्धाञ्जलिर् उपतस्थे उत्थानसेवामकरोत्तेन प्रियव्रतेन मनुनाचोपनीतमर्पितमर्हणम् अर्ध्यपाद्यादि-पूजनं यस्मै सतथा हिरण्यगर्भः समवर्तताग्र इत्यादि सूक्तवचनेन स्वागतमुपविशासनमित्यादि प्रियवाक्येनवा नितरामतिशयेनोदितौ प्रकाशितौ गुणावतारो गुणविस्तारश्चशोभनो विजयश्च यस्य स तथा दयया सहितो हासस् तादृशेन युक्तोवलोकोयस्य स तथा एवंविध आदिपूरुषश्चतुर्मुखस्तं प्रियव्रतमिति वक्ष्यमाणप्रकोरणोवाच ह किल प्रत्यारम्भेप्रसिद्धौहवार्तासम्भावयोः किलेतियादवः सूक्तवाक्येनहितोपदेश सहितवाक्येनवा ॥ ९-१० ॥
प्रकाशिका
तत्र तस्यामवस्थायामेनं ब्रह्माणं हंसयानेन तल्लक्षणभूतेन स्वपितरं पिता-पुत्राभ्यां मनुप्रियव्रताभ्यां सहावहितांजलिः सन् सहसैवोपतस्थे प्रत्युत्थानमकरोत् ॥ भगवानादि-पुरुषो ब्रह्मा । हे भारत । तेन समनुना प्रियव्रतेनोपनीतं कृतमर्हणमर्घ्यपाद्यादिपूजनं यस्मै स तथा । हिरण्यगर्भः समवर्तताग्र इत्यादि सूक्तवाकेनातितरामतिशयेनोदितः प्रकाशितो गुणगणावतारो गुणविस्तारः शोभनो विजयश्च यस्य स तथा । दयया सहितः सदयः स चासौ हासश्च तेन युक्तोऽवलोको यस्य स तथा इति वक्ष्यमाणप्रकारेण ॥ ९-१० ॥
ब्रह्मोवाच–
निबोध तातेदमृतं ब्रवीमि माऽसूयितुं देवमर्हस्यमेयम् ।
अहं भवस्ते तत एष महर्षिर्वहाम सर्वे विवशा यस्य दिष्टम् ॥ ११ ॥
पदरत्नावली
ऋतं शास्त्रविहितं किन्तत्तदाह । मासूयितुमिति । देवेन श्रीहरिणा स्व धर्मोदुष्टदमनं धर्मज्ञानानुपालनमित्यादि स्वोक्तिलक्षणाज्ञा राज्ञां विहिता तदाज्ञामुल्लङ्घ्य निवृत्तिमार्गाङ्गीकारे तद्वक्तरि हरौ दोषाविष्कारलक्षणासूयारोपेण तव महादोषित्वेनाधःपातो दुष्परिहारः स्यादितिदेवमसूयितुं मार्हसीत्यन्वयः । स्वामेयत्ववत्तद्वाक्याभिप्रायस्याप्यमेयत्वं सूचयितुम् अमेयमिति तेन तद्वाक्याभिप्रायापरिज्ञानेन भ्रान्तवद्वर्तसे इत्यर्थोपि लभ्यते । इयमपि क्रीडैव नतु प्राप्तव्यप्रयोजनार्थितयेति सूचनाय देवमिति ते तव ततस्तातो मनुर् वेर्विष्णोर्वशा विःपक्षिपरमात्मनोरिति यादवः । दिष्टमाज्ञाम् ॥ ११ ॥
प्रकाशिका
यस्याधिकारिणो येन कर्मणा मुक्तिस्तं प्रति तदेव कर्म हरिणा विहितम् । तद्विहितमेव सर्वे वयं कुर्मोऽतस्त्वमपि त्वद्योग्यतानुसारेण हरिणा विहिते गृहाश्रम एव स्थित्वा तत्र हरिपूजात्मकानुपभोगान् भुङ्क्त्वाऽमुत्र विरक्त्या संन्यस्य मुक्तिं गमिष्यसि नान्यथेत्याह ॥ निबोधेति नवभिः । ऋतं शास्त्रे हरिणा प्रतिपादितम् । विहितमिति यावत् । देवं त्वादृशानां राज्ञां गृहाश्रमेणापि मुक्तिरिति प्रतिपादयन्तं हरिं प्रत्यसूययितुम् । किमर्थमस्माकमयं चित्त-विक्षेपकराश्रमो विहित इति रोषं कर्तुं नार्हसि । कुत इत्यत आह ॥ अहमिति । ते तव ततस्तातो मनुर्विवशा अस्वतन्त्राः सन्तो यस्य येन दिष्टं विहितं सर्वं वहामः कुर्मः सर्वेशस्याज्ञाऽनुल्लंघ्येत्याशयः ॥ ११ ॥
न तस्य कश्चित्तपसा विद्यया वा न योगवीर्येण मनीषया वा ।
नैवार्थधर्मैः परतः स्वतो वा कृतं विहन्तुं तनुभृद्विभूयात् ॥ १२ ॥
पदरत्नावली
ननु तपआदिसामर्थ्योपेतैस्तदाज्ञोल्लङ्गनं सुशकं स्यादत्राह- न तस्येति ॥ तस्य हरेराज्ञालक्षणं कृतं शास्त्रात्मना विहितं स्वधर्मं विहन्तुम् उल्लङ्घ्यास्वाविहितं कर्तुं न विभूयात् समर्थो न भवेदित्यन्वयः । परतः सहायभूतैः स्वतः सहायमन्तरेण ॥ १२ ॥
प्रकाशिका
ननु तपआदिसामर्थ्योपेतैस्तदाज्ञोल्लङ्घनं कर्तुं शक्यमित्यत आह ॥ न तस्येति । तस्य कृतं तेन विहितं विहन्तुमन्यथा कर्तुं तनुभृज्जीवो न विभूयात्समर्थो न भवेत् । परतः सहायभूतैः स्वतः सामर्थ्येनैव । अत्र त्रयाणां नञां श्रवणाद्विभूयादित्यस्यावृत्त्या प्रत्येकं तत्सम्बन्धेन वाक्यत्रयमेतदिति ज्ञातव्यम् ॥ १२ ॥
भवाय नाशाय च कर्म कर्तुं शोकाय मोहाय सदाभयाय ।
सुखाय दुःखाय च देहयोगमव्यक्तदिष्टं जनताऽङ्ग धत्ते ॥ १३ ॥
पदरत्नावली
विवशा इत्युक्तं स्पष्टमाह– भवायेति ॥ अङ्ग इयं जनता भवाद्यर्थ-मव्यक्तेन हरिणा हरिप्रेरितजडप्रकृत्या वा दिष्टं दत्तं स्वकर्मफलभोगाय कल्पितं निर्मितं वा देहयोगं धत्ते पुष्णाति कर्मभिरिति शेषः । भवो भद्रे हरे प्राप्तौ सत्तासंसारजन्मस्विति यादवः
॥ १३ ॥
प्रकाशिका
कुत इत्यतः सर्वेषां तद्वशत्वादित्याशयेन तद्वशत्वमुपपादयति ॥ भवायेति त्रिभिः । तत्र तावद्देहयोगेन तद्वशत्वं दर्शयति ॥ भवायेति । भवो जन्म । तस्मै । हे अङ्ग प्रियव्रत । जनता जनसमूहः । अव्यक्तेनेश्वरेण दत्तं दिष्टं देहयोगं सदा धत्ते नत्वन्यथा कर्तुं शक्नोति ॥ १३ ॥
यद्वाचि तन्त्यां गुणकर्मनामभिः स्वदामभिर्वत्स वयं सुयोजिताः ।
सर्वे वहामो बलिमीश्वराय प्रोता नसीव द्विपदे चतुष्पदः ॥ १४ ॥
पदरत्नावली
हरेराज्ञालङ्गने विध्यतिक्रमदोषेण प्रत्यवायोऽपि स्यादित्याशयेनाह ॥ यद्वाचीति ॥ यस्य हरेर्वाचि वेदाख्यायां तन्त्यां गोवृषबन्धनदीर्घरज्ज्वां तत्तद्योग्यगुणैर्ब्राह्मणादि-योग्यकर्मभिर्ब्राह्मणक्षत्रियादिनामभिश्चगुणकर्म निमित्तनामभिर्वा स्वदामभिर्ह्र स्वपाशैः सुष्ठु योजिता बद्धा वयमीश्वराय बलिं वहामः ब्रह्मार्पणत्वेन तत्तद्वेदवाक्यविहितं कर्म कुर्म इत्यर्थः । कथमिव नसि नासिकायां प्रोताश्चतुपदो गावो द्विपदे मनुष्याख्यस्वामिने गोण्यादिकं वहन्ति यथा तथेति पारतन्त्र्यमात्रे दृष्टान्तोयं न तु बुद्धिपूर्वकर्तृत्वे ॥ १४ ॥
प्रकाशिका
कर्मकरणेऽपि तद्वशत्वमाह ॥ यद्वाचि तन्त्यामिति । यस्य हरेर्वाचि वेदाख्यायां तन्त्यां वृषभबन्धनदीर्घरज्वां ब्राह्मणादियोग्यगुणैस्तद्योग्यकर्मभिर्ब्राह्मणक्षत्रियादि-नामभिस्तल्लक्षणैः स्वदामभिः स्वबन्धकह्रस्वपाशैः सुष्टु योजिता बद्धाः सन्तः हे वत्स वयं सर्वेश्वरायास्मत्स्वामिने बलिं वहामः । वेदे ईश्वरेण विहितं स्वस्वयोग्यकर्म तत्पूजात्वेन कुर्म इत्याशयः । कर्मकरणसमयेऽपि तदधीनत्वे दृष्टान्तो नसि नासिकायां प्रोताश्चतुष्पदो बलीवर्दा द्विपदे मनुष्यरूपाय स्वस्वामिने गोण्यादिकं यथा वहन्ति तथैवेति ॥ १४ ॥
ईशावसृष्टं ह्यवरुन्ध्महेऽङ्ग दुःखं सुखं वा गुणकर्मसङ्गात् ।
आस्थाय यत्तद्यदयुङ्क्त नाथश्चक्षुष्मताऽन्धा इव नीयमानाः ॥ १५ ॥
पदरत्नावली
यथा कारणमीश्वराधीनं तथा फलं च तदधीनमित्याह ईशेति । ईशावसृष्टं श्री हरिणा दत्तं यच्छरीरमयुंक्त अचीक्लृत्तत्तच्छरीरमास्थायावरुन्ध्महे अङ्गीकृत्य भुंक्ष्महे । कथमिव चक्षुष्मता नीयमाना अन्धा इव चक्षुष्मद्दर्शित मार्गमभ्युपेत्य तद्दत्तमेव भुञ्जते यथा तथेति ॥ १५ ॥
प्रकाशिका
कर्मफलभोगेऽपि तद्वशत्वमाह ॥ ईशावसृष्टमिति । ईशेनावसृष्टं दत्तमेव । हे अङ्ग प्रियव्रत । अवरुन्ध्महे स्वीकुर्मः । नन्वेवमीश्वरवैषम्यादिप्रसङ्ग इत्यत उक्तम् । गुणकर्मसङ्गाद्गुणः प्राग्भवीयः प्रयत्नः प्राग्भवीयमेव कर्म तयोः सङ्गात्सम्बन्धात् । नाथो हरिर्यद्यदेव तिर्यगादिलक्षणं शरीरं न्ययुंक्त योजितवान् तत्तदास्थायेति । अत्र दृष्टान्तमाह ॥ चक्षुष्मतेति । यथा चक्षुष्मता नीयमाना अन्धास्तद्दर्शितं ग्राममुपेत्य तत्र दत्तमेव भुञ्जते तथैवेत्यर्थः ॥ १५ ॥
मुक्तोऽपि तावद्बिभृयात्स्वदेहमारब्धमश्नन्नभिमानशून्यः ।
यथोपयातं प्रतियातनिद्रः किन्त्वन्यदेहाय गुणान्न वृङ्क्ते ॥ १६ ॥
पदरत्नावली
उत्पन्नज्ञानस्यापि चरमदेहिनो देहपातपर्यन्तं स्वविहितकर्म कर्तव्यमित्याह मुक्तोपीति । यथोपयातं दैवत आप्तं तदपि प्रारब्धं फलदानायोपक्रान्तं कर्मफलमश्र-न्नभिमानशून्यो देहाभिमानरहितः प्रतियातनिद्रः निवृत्ताज्ञानान्यथाज्ञानी जीवन्मुक्तोपि यावत्प्रारब्धकर्मनाशस् तावत्स्वदेहं बिभृयात् तत्र विहितं राज्यादिपालनकर्मच कर्तव्यमित्यर्थः । तर्हि विद्वदविदुषोः को विशेष इति तत्राह किन्त्विति । ज्ञान्यज्ञानिवदन्यदेहाय शरीरान्तरा-रम्भकान् रागादिलक्षणान्न वृंक्ते न स्वीकरोति तादृशकर्माणि न करोतीत्यर्थः ॥ १६ ॥
प्रकाशिका
नन्वेतत्सर्वमज्ञानिन एव न जीवन्मुक्तस्येत्यपेक्षायामाह ॥ मुक्तोऽपीति । अपरोक्षज्ञानेन कर्मक्षयरूपमुक्तिं प्राप्तोऽपीत्यर्थः । यथोपयातं दैवतः प्राप्तं स्वदेहं यावदारब्धं प्रारब्धं कर्म तावत्प्रतियातनिद्रो निवृत्ताज्ञानोऽत एवाभिमानशून्य आरब्धं प्रारब्धं कर्मफलं सुखादिकमश्नन् बिभृयात् । तर्हि विद्वदविदुषोः को विशेष इत्यत आह ॥ किं त्विति । अन्यदेहाय प्रारब्धकर्मनिमित्तकदेहारंभाय गुणान्सत्त्वादीन्न वृंक्ते न सम्भजते । अयमेवा-ज्ञान्यपेक्षया ज्ञानिनो विशेषः । कर्मानुसारेणेश्वरदत्तदेहेषु कर्मफलभोगस्तूभयोरविशेष एवेत्याशयः
॥ १६ ॥
भयं प्रमत्तस्य वनेष्वपि स्याद्यतो वसन्ते सह षट्सपत्नाः ।
जितेन्द्रियस्यात्मरतेर्बुधस्य ग्रहाश्रमः किन्नु करोत्यवद्यम् ॥ १७ ॥
पदरत्नावली
ननु कर्दमाक्रान्तस्य कर्दमलेपवद् गृहाश्रमरतस्य तन्निमित्तभवभयमापद्यत एवातो वनाश्रम एव श्रेयानिति तत्राह– भयमिति ॥ प्रमत्तस्य विस्मृतस्वकार्यस्य वनेषु निर्जनप्रदेशेषु स्थितस्यापि पापाद्भयं स्यात्कुत इति तत्राह– यत इति ॥ षट्सपत्नाः षडिन्द्रियाख्याः शत्रवः सह व सन्त इति यतोऽत इति शेषः । तर्हि कथं कारं भवभयाभावः स्यादिति तत्राह– जितेन्द्रियस्येति ॥ अवद्यं दोषं बुधस्य कर्तव्यं जानतः वशीकृतेन्द्रिय-ग्रामस्येन्द्रियजयः कथं ज्ञायत इति तत्राह– आत्मेति ॥ आत्मनि हरौ रतिरुपासनालक्षणा यस्य स तथा तस्य ॥ १७ ॥
प्रकाशिका
ननु गृहाश्रमे विद्यमानस्य तन्निमित्तं भयमापद्यत एव । अतः कथं मया तत्स्वीकारः कार्य इत्यत आह ॥ भयमिति । प्रमत्तस्याजितेन्द्रियस्य । वनेष्विति बहुवचन-माद्यर्थे । वानप्रस्थाद्याश्रमेष्वित्यर्थः । षट् कामक्रोधलोभमोहमदमत्सराख्याः सपत्ना वैरिणः । ननु वानप्रस्थाद्याश्रमेष्विन्द्रियजये सति भगवज्ज्ञानिनः परमात्मन्येव रतौ सत्यां कामादि-सपत्नानुदये भयं न भवतीत्यत आह ॥ जितेन्द्रियस्येति । गृहाश्रमः किं न्ववद्यं भयं करोति न किमपीत्यर्थः । जितेन्द्रियत्वादिकं गृहाश्रमिणोऽप्यस्ति चेत्तर्हि कामाद्यनुदयेनाभय-प्राप्तिस्तस्यापि भविष्यत्येवेत्याशयः ॥ १७ ॥
यः षट्सपत्नान्विजिगीषमाणो गृहेषु निर्विद्य यतेत पूर्वम् ।
युध्येत दुर्गाश्रित ऊर्जितारीन् क्षीणेषु कामं विचरेद्विपश्चित् ॥ १८ ॥
पदरत्नावली
तर्हीन्द्रियजयोपायः कथमत्राह इन्द्रियाख्यषट्शत्रून् जेतुकामो यः सः पूर्वङ्गृहस्थाश्रमेषु स्थित्वा तदुपभोगेन निर्विद्यालम्बुद्धिं प्राप्य यतेत श्रेयस इति शेषः । यतनप्रकारं वक्ति युत्ध्येतेतिभगवन्निष्ठालक्षणदुर्गाश्रित ऊर्जितारीन् विषयभोगेषु सन्नद्धेन्द्रियाख्य शत्रून्युध्येत विषयगमनं निरुध्यात्माधीनान्कुर्यात्पुनः क्षीणेषूपरतविषयप्रचारेष्विन्द्रियेषु सत्सु-विपश्वित्कामं निर्भयोविचरेदित्यन्वयः विपश्विदित्यनेन न जातु कामः कामानामुपभोगेन शाम्यति हविषाकृष्णवर्त्मेवभूय एवाभिवर्धत इत्येतन्निरस्तम् ॥ १८ ॥
प्रकाशिका
इन्द्रियजयेनैव कामादिसपत्नजयस्तेन च भयाभाव इत्येतदुपपादयति ॥ य इति । षट् सपत्नान् कामादीन् गृहेषु इन्द्रियविषयेषु पूर्वं निर्विद्य अलं बुद्धिं सम्पाद्य मनोबुद्ध्यादीन्द्रियजयं सम्पाद्येति यावत् । तान् जेतुं यतेत । तस्मात्त्वमिन्द्रियाण्यादौ नियम्य भरतर्षभ । पाप्मानं प्रजहि ह्येनम् इति वचनादिन्द्रियजयेनापि कथं कामादिजय इत्यतो भगव-द्भक्तिद्वारेणेत्याशयेनाह ॥ युद्ध्येतेति ॥ इन्द्रियजयसाध्यभगवद्भक्तिरूपदुर्गाश्रित ऊर्जितारीन् कामादीन्युद्ध्येत । पुनर्यथा तेषामुदयो न स्यात्तथा कुर्यादित्यर्थः । तेषु क्षीणेषु कामान्विचरेत् । गृहाश्रमे वाऽन्यत्राश्रमे स्वेच्छानुसारेण विचरेत्तथा सति तस्य न कुत्रापि भयमस्तीति भावः
॥ १८ ॥
त्वं त्वब्जनाभाङ्घ्रिसरोजकोशदुर्गाश्रितो निर्जितषट्सपत्नः ।
भुङ्क्ष्वेह भोगान् पुरुषातिसृष्टान् विमुक्तसङ्गः प्रकृतिं भजस्व ॥ १९ ॥
श्रीमद्-आनन्दतीर्थभगवत्पादाचार्यविरचितः श्रीमद्भागवततात्पर्यनिर्णयः
तात्पर्यम्
‘विहितो यस्य यो धर्मो विष्णुना प्रभविष्णुना । तेन मुक्तिर्भवेत्तस्य तं गुरुर्वेद सर्वविदि’ति प्रवृत्तसंहितायाम् ॥ १९ ॥
पदरत्नावली
बह्वालापैरलं किम् अधुना कर्तव्यमत्राह– त्वमिति ॥ तुना प्रियव्रत-स्यान्यस्माद्विशेषं सूचयति तमेवाह– अञ्चनाभेति ॥ पुरुषातिसृष्टान् श्रीनारायणप्रसादोपनतान् विमुक्तसङ्गः पुत्रादिस्नेहलक्षणसङ्गरहितः स त्वं प्रकृतिं सच्चिदानन्दलक्षणस्वभावं संन्यासाश्रमेण मोक्षो नान्याश्रमेणेत्ययं बुद्धिव्यामोह एव विहितो यस्य यो धर्मो विष्णुना प्रभविष्णुना तेन मुक्तिर्भवेत्तस्य तं गुरुर्वेद सर्वविदिति स्मृतेस्तव विहिते न प्रजापालनलक्षणधर्मेण स्वयोग्य-मुक्तिरिति विदित्वा तत्र विमुखं त्वामुद्बोध्य तत्करणायायासिषमित्यतस्तत्कुर्वित्येतद्वा तुनाह
॥ १९ ॥
प्रकाशिका
अस्त्वेवं तथाऽपि मद्योग्यं कर्तव्यं ब्रूहीत्यपेक्षायामाह ॥ त्वं त्विति । तुशब्देन त्वमेतादृश एवाधिकारीति सूचयति । कोशे रतिलक्षणदुर्गाश्रितो निर्जितषट्सपत्नः सन् इह गृहाश्रमे पुरुषेण हरिणाऽतिसृष्टान् दत्तान् भोगान् भुंक्ष्व । नन्वेवं तर्हि तत्रासक्त्या मुक्ति-रसम्भावितेति द्वितीयप्रश्नस्योत्तरमाह ॥ विमुक्तसङ्ग इति । विषयेषु विमुक्तस्नेहः । हरिपूजात्मनैव भोगान् भुञ्जान इति यावत् । पश्चाद्विरक्त्या संन्यस्त इति यावदिति वा । प्रकृतिं स्वभावमाविर्भूतस्वरूपम् । अप्रतिपत्तिविप्रतिपत्तिनिरासायैतत्प्रकरणतात्पर्यं प्रमाणेनैव दर्शयति ॥ विहितो यस्येति । यस्याधिकारिणो यो धर्मो गृहाश्रमादिसम्बन्धी विहितः । मुक्तिसाधनतयेति शेषः । तेन तदाश्रमोचितधर्मेण । नन्वेवं मोक्षमार्गे न कस्यापि निःशङ्क-प्रवृत्तिः स्यात् । स्वमुक्तिसाधनतया विष्णुविहिताश्रमधर्मस्य पूर्वमज्ञानादित्यत आह ॥ तमिति । सर्ववित्सर्वयोग्यताऽभिज्ञो गुरुस्तं वेद । तदुपदेशेनाधिकारिणस्तज्ज्ञानं सुलभमिति वाक्यशेषः । तथा च तदनन्तरं निःशङ्कप्रवृत्त्युपपत्तिरित्याशयः । प्रकृते च प्रियव्रतस्य योग्यताऽभिज्ञो गुरुर्बह्मैव । तेन गृहाश्रमे स्थित्वा तत्र भोगान् भुञ्जानः पश्चाद्विमुक्तसङ्गः प्रकृतिं भजस्वेत्युपदिष्टम् । प्रकृते च प्रियव्रतस्य तथाऽनुष्ठानेनैव मुक्तिर्जायत इत्याशयः ॥ १९ ॥
श्रीशुक उवाच–
इति समभिहितो महाभागवतो भगवतस्त्रिभुवनगुरोरनुशासनमात्मनो लघुतयावनतशिरोधरो बाढमिति सबहुमानमुवाह ॥ २० ॥
पदरत्नावली
अथ प्रियव्रतस्य शिष्टजनशिक्षणाय विरिञ्चस्याज्ञाग्रहणप्रकारमाह– इतीति ॥ विरिञ्चादात्मनः स्वस्य लघुतयामितमहिमत्वादवनतशिरोधरः प्रणतकण्ठः ॥ २० ॥
प्रकाशिका
प्रियव्रतस्य विरिंचाज्ञास्वीकारप्रकारं दर्शयति ॥ इतीति । समभिहितोऽनु-ग्रहपूर्वकमुक्तो महाभागवतः प्रियव्रतस्त्रिभुवनगुरोर्ब्रह्मण आत्मनः स्वस्य विरिंचापेक्षया लघुतयाऽ-तीव नीचतयाऽवनत शिरोधरः प्रणतकण्ठः सन् बाढमिति तथा करिष्यामीत्युवाह जग्राह
॥ २० ॥
भगवानपि मनुना यथावदुपकल्पितापचितिः प्रियव्रतनारदयोरनिमिषमभि-समीक्षमाणयोरात्मसमवस्थानं वाङ्मनसोः क्षयमव्यवहितमगमत् ॥ २१ ॥
पदरत्नावली
स्वाज्ञाग्रहणात्प्रियव्रताय तुष्यन्विरिञ्चः सत्यलोकमापेत्याह– भगवा-नपीति ॥ मनुना यथावदुपकल्पिता अपचितिः पूजा यस्मै सो ऽनिमिषमिति क्रियाविशेषणं पक्ष्मविवृत्त्य आत्मसमवस्थानं स्वस्थानं सत्यलोकं वाङ्मनसोर् वाचो मनसश्च क्षयं विषयीकर्तुम् अशक्यम् अव्यवहितं सतामिति शेषः । रागादिदोषरहितत्वात् ॥ २१ ॥
प्रकाशिका
ब्रह्मणः स्वधामगमनप्रकारमाह ॥ भगवान् ब्रह्मेति । मनुना । सन्तुष्टेनेति शेषः । उपकल्पितापचितिः पूजा यस्य । अनिमिषमिति क्रियाविशेषणम् । पक्ष्मविवृत्यात्मसमवस्थानं सत्यलोकं मनसो वाचो मनसश्च क्षयं विषयीकर्तुमशक्यम् । तदुभय-देवतायाः सरस्वत्याः क्षयं निवासस्थानमिति वा अव्यवहितमविलंबितं यथा भवति तथा शीघ्र-मेवागमदित्यर्थः ॥ २१ ॥
मनुरपि परेणैवेत्थं समभिसन्धितमनोरथः सुरर्षिवरानुमतेनात्मजमखिल-धरामण्डलस्थितिगुप्तय आस्थायातिविषयविषमविषजलाशयादुपरराम ॥ २२ ॥
पदरत्नावली
स्वायंभुवमनोरपि संसारत्यागप्रकारमाह– मनुरपीति ॥ परेण विरिञ्चेन सुरर्पिवरानुमतेन देवर्षीणां मध्ये वरःश्रेष्टः नारदस् तस्यानुमतेन गुप्ती रक्षा अतिविषमविषय एव विषं तदेव जलाशयो ह्रदस्तस्मात् ॥ २२ ॥
प्रकाशिका
मनोरपि राज्यत्यागप्रकारमाह ॥ मनुरपीति । परेण विरिञ्चेनाभिसंधितः सम्पादितो मनोरथः पुत्रं राज्येऽभिषिच्य वनं यास्यामीत्येवं रूपो यस्य स तथा । सुरर्षिवरो नारदस्तस्यानुमतेन धरामण्डलस्थितिगुप्तये भूमण्डलगतमर्यादारक्षणायातिविषमो दुस्तरः स चासौ विषयश्च स एव विषमनर्थहेतुत्वात्तत्पूर्णो यो जलाशयो ह्रदस्तत्स्थानीयः संसारस्तस्मादुपरराम उपरतोऽभूत् ॥ २२ ॥
इति ह वाव स जगतीपतिरीश्वरेच्छयाधिनिवेशितकर्माधिकारोऽखिलजगद्बन्ध-ध्वंसनपरानुभावस्य भगवत आदिपुरुषस्याङ्घ्रियुगलानवरतध्यानानुभावेन परिरन्धितकषायाशयावदातोऽपि मानवर्धनो महतां महीतलमनुशशास ॥ २३ ॥
पदरत्नावली
प्रियव्रतस्य यथा विरिञ्चोपदेशं क्षितिरक्षणप्रकारं ब्रवीति– इति हेति ॥ इतिशब्दो हेत्वर्थः । यस्माद्गुरुणा मनुशासनमनुल्लङ्घनीयमत इति बन्धध्वंसनपरानुभावः प्रभावः सामर्थ्यं यस्य स तथा तस्य ध्यानानुभावेन ध्यानसामर्थ्येन ध्यानादुत्पन्नज्ञानेन वा कषायः पापं ‘‘रधि दाहे’’रन्धि तं दग्धम् अपि सम्भावितमिति ॥ २३ ॥
प्रकाशिका
प्रश्नद्वयोत्तरमुपसंहरति ॥ इति ह वावेति । अधिनिवेशितः प्रापितः कर्माधिकारो गृहाश्रमविहितराज्यपालनादिरूपकर्माधिकारो यस्य स तथा । अखिलस्याधिकारिणो बन्धध्वंसने परानुभाव उत्तमं सामर्थ्यं यस्य स तथा । भगवतः पदमङ्घ्रियुगलं तस्यानवरतध्यानं तदनुभावेन तत्सामर्थ्येन परिरन्धितकषायो दग्धरागादिमल आशयोऽन्तःकरणं यस्यावदातोऽपि जीवन्मुक्तोऽपि महतां नारदादीनां सकाशान्मानवर्धनो स्वज्ञानवृद्धिकरो महतां स्वपूर्वेषां ब्रह्मादीनामाज्ञापरिपालनेन मानवर्धन इति वा ॥ २३ ॥
अथ च दुहितरं प्रजापतेर्विश्वकर्मण उपयेमे बर्हिष्मतीं नाम । तस्यामु हवा आत्मजानात्मसमानशीलगुणकर्मरूपवीर्योदारान् दश भावयाम्बभूव । कन्यां यवीयसीमूर्जस्वतीं नाम ॥ २४ ॥
पदरत्नावली
वानप्रस्थाश्रमस्थ एवायं राज्यमपालयद्विरक्तत्वान्न तु गृहाश्रमस्थ इति शङ्कां परिहर्तुमाह– अथेति । साप्युभयकुलशुद्धिकरीत्याशयेनाह– तस्यामिति । उ हवा इति निपाताः । प्राक् पुत्रानुत्पत्तौ सन्तापं पश्चात्सन्तोषं तत्र प्रसिद्धिं सूचयन्ति भावयाम्ब-भूवोत्पादयामास ॥ २४ ॥
प्रकाशिका
अथ चानन्तरमेव । तस्यामु तस्यामेव । हवेति निपातकृत्यं पूर्वोक्तम् । भावयाम्बभूवोत्पादयामास ॥ २४ ॥
आग्नीध्रेध्मजिह्वयज्विबाहुमहावीरहिरण्यरेतोघृतपृष्ठसवनमेधातिथिवीतिहोत्रकवय इति सर्व एवाग्निनामानः ॥ २५ ॥
पदरत्नावली
तेषां नामान्याह– आग्नीध्रेति । यज्विबाहोरनुजो महावीरः, घृतपृष्ठोऽ-नुजः सवनः, वीतिहोत्रानुजः कविः ॥ २५ ॥
प्रकाशिका
तानाह ॥ आग्नीध्रेति । आग्नीध्र इध्मजिव्हो यज्विबाहुर्महावीरो हिरण्यरेतो घृतपृष्ठः सवनो मेघातिथिर्वीतिहोत्रः कविश्चेत्यग्नीनां नामानि येषां ते ॥ २५ ॥
एतेषां कविर्महावीरः सवन इति त्रय आसन्नूर्ध्वरेतसः । त आत्मविद्याया-मर्भकभावादारभ्य कृतपरिचयाः पारमहंस्यमेवाश्रममभजन् ॥ २६ ॥
पदरत्नावली
ऊर्ध्वरेतसो ब्रह्मचर्याख्यव्रतधारिणो ऽर्भकभावाद्बाल्यात्प्रभृति आत्मविद्यायां परविद्यायां कृतपरिचयाः पूर्णाभ्यासा एवशब्देन मानसपरमहंसाश्रमं व्यावर्तयति ॥ २६ ॥
प्रकाशिका
अर्भकभावाद्बाल्यादारभ्यात्मविद्यायां ब्रह्मविद्यायां कृतपरिचयाः पूर्णाभ्यासाः
॥ २६ ॥
तस्मिन्नु हवा उपशमशीलाः परमऋषयः सकलजीवनिकायावासस्य भगवतो वासुदेवस्य संसारभीतानां शरणभूतस्य श्रीमच्चरणारविन्दाविरतस्मृतिविगलित-परमभक्तियोगानुभावेन परिभावितान्तर्हृदयाधिगते भगवति सर्वेषां भूता-नामात्मभूते प्रत्यगात्मन्येव तादात्म्यमविशेषेण समीयुः ॥ २७ ॥
पदरत्नावली
तस्मिन्नाश्रमे वर्तमानाः स्वयोग्यगुणोपसंहारेण मुक्तिः स्यादिति दर्शयितुं सकलजीवेत्यादिगुणविशिष्ठत्वं हरेरुक्तं न तु गुणानामियत्तया अविरतस्मृत्या विगलितस्य तैलधारायितस्य परमभक्तियोगस्यानुभावेन परिभाविते वशीकृतेतर्त्दृदयेऽधिगते ज्ञाते आत्मभूते अतिप्रिये प्रत्यगात्मनि स्वबिम्बेऽन्तर्यामिणि अविशेषेण पार्थिवदेहत्यागेन तादात्म्यं तद्रूप-साम्यमेवापुः सर्वे चतुर्बाहव इत्यादेर् भगवतीति सप्तमीनिर्देशान्नैक्यमत्रोच्यते तदधीनत्वं तत्स्वा-मित्वं वा तदेकचित्तत्वं वा तत्कामितकामित्वं वा विशेषेण स्वातन्त्र्यमन्तरेणेति च ॥ २७ ॥
प्रकाशिका
तस्मिन्नाश्रमे वर्तमानास्तदुपासनायोग्यगुणान् दर्शयितुं सकलेत्यादि वासुदेव विशेषणानि । अविरतस्मृत्याऽविगलितस्य तैलधारवदखण्डस्य भक्तियोगस्यानुभावेन सामर्थ्येन परिभाविते शोधितेऽन्तर्हृदयेऽधिगते ज्ञाते आत्मभूते स्वामिभूते प्रत्यगात्मनि बिंबभूतेऽन्तर्यामिणि सर्वप्राणिनामन्तर्यामिरूपेष्वित्यर्थः । तादात्म्यमेव तदत्यन्ताभेद एव विशेषेण तद्गुणानां तारतम्याभावेन निमित्तेन समीयुः सम्यग्ज्ञातवन्तः । यद्वा अविशेषेणैव साम्येनैव । न तु परापेक्षया स्वेषां विशेषेणेत्यर्थः ॥ २७ ॥
अन्यस्यामपि भार्यायां त्रयः पुत्रा आसन् । उत्तमस्तापसो रैवत इति मन्वन्तराधिपतयः ॥ २८ ॥
पदरत्नावली
हरेः पुंसां भक्तानामेवं विधः पुरुषकारो माहात्म्यविशेषश्चित्रं न भवतीति कुत इति तत्राह– तदङ्घ्रिरजसेति ॥ निषेवितेनेति शेष । षड्गुणाः कामादयो आरामादयो वा अशनादयो वा मनसा सह शब्दादयो वा यैरेते जितास्ते तथोक्ता इतोऽपि चित्रं नेत्याह– विदूरेति ॥ विप्रविवक्षया विदूरः शूद्रस्तस्मादपि विगतश्चण्डालः यस्य हरेर्नारायणादिनामधेयं सकृदाददीत स अधुना सद्य एव संसारलक्षणं बन्धं जहा न केवलमस्यैकैव पत्नी किं तु द्वितीयाप्यस्ति सापि प्रयोजकपुत्रप्रसूरित्याह– अन्यस्यामपीति ॥ तत्कृत्यमुक्तं– मन्वन्त-राधिपतय इति ॥ २८ ॥
एवमुपशमायनेषु स्वतनयेष्वथ जगतीपतिर्जगतीमर्बुदान्येकादशपरिवत्सराणा-मव्याहताखिलपुरुषकारसारभूतदोर्दण्डयुगलापीडितकोदण्डमौर्वीगुणस्तनित-विरमित– धर्मप्रतिपक्षो बर्हिष्मत्यां चानुदिनमेधमानप्रमोदप्रसरणपोषणव्रीडा-प्रमुषितहासावलोकरुचिरक्ष्वेलनादिभिः पराभूयमानविवेकोऽनवबुध्यमान इव महामना बुभुजे ॥ २९ ॥
पदरत्नावली
स प्रियव्रतो राजाकियं तं कालं राज्यमभुङ्क्तेति तत्कालावधिमाह– एवमिति ॥ उपशमायनेषु संन्यस्तेषु भगवतोऽधिकनिष्ठैवायनमाश्रयो येषान्ते तथा तेष्विति वा परिवत्सराणामेकादशार्बुदानि मौर्वीगुणः ज्याख्यरज्जुः स्तनितेन विस्फूर्जितेन प्रमोदप्रसरण-मानन्दप्रवाहस्तस्य पोषणं प्रवर्धनं तेन च व्रीडया च विशिष्टचेष्टालक्षणया च प्रमुषितहास ईषत्तिरस्कृतहसनं ते न युक्तोऽवलोको यस्तेन रुचिरा क्ष्वेलना नर्मवागेवं पूवैः पराभूयमान-विवेकोऽनाविर्भूतविवेकज्ञानत्वादनवबुध्यमान इवाज्ञतुल्यः । तत्त्वज्ञ इत्यर्थः । ‘‘महामना’’ इत्यक्तेः ॥ २९ ॥
प्रकाशिका
उपशमायनेषु संन्यासाश्रमिषु सत्सु दशकोटिभिरेकमर्बुदम् । एतादृशानि परिवत्सराणां वर्षाणामेकदशार्बुदानि जगतीं बुभुज इत्यन्वयः । राज्ञो धर्मपालनविषयभोग-प्रभावैर्भाव्यम् । तत्र धर्मपरिपालनमस्यानायासेनास्तीत्याह ॥ अव्याहतेति । अव्याहता अखिलाः पुरुषकाराः पौरुषाणि । येषां सारभूतः श्रेष्ठः पुरुषकारो ययोस्तौ दोर्दण्डौ तयो-र्युगलेनापीडित आकृष्टो मौर्वीगुणो ज्यारज्जुस् तस्याः स्तनितं खङ्कारस्तेनैव । युद्धं विनेति यावत् । विरमिता निरस्ता धर्मे प्रतिपक्षा येन स तथा । विषयभोगमाह ॥ बर्हिष्मत्यामिति । स्वभार्यायामनुदिनमेधमानैः प्रमोदप्रसरणमानन्दप्रवाहस्तस्य पोषणं प्रवर्धनं तेन च व्रीडया च प्रमुषितः सङ्कोचितो हासो हसनं तेन युक्तोऽवलोकस्तेन रुचिरा च क्ष्वेलना परिहासवाक् तदादिभिः पराभूयमानविवेकः किञ्चित्तिरस्कृततत्त्वज्ञानोऽनवबुध्यमानोऽज्ञानी स इव न त्वज्ञानीत्यर्थः । महामना महत् हरिनिष्ठतया पूज्यं मनो यस्य ॥ २९ ॥
यावदवभासयति सुरगिरिमनुपर्याक्रमन् भगवानादित्यो वसुधातलमर्धेनैव प्रतपति अर्धेनैवाच्छादयति तदा हि भगवदुपासनोपचितातिपुरुषप्रभावस्तद-नभिनन्दन्समजवेन रथेन ज्योतिर्मयेन रजनीमपि दिनं करिष्यामीति सप्तकृत्व-स्तरणिमनुपर्याक्रामत्स द्वितीय इव पतङ्गः ॥ ३० ॥
पदरत्नावली
नन्वत्रास्य विषमविषयभोगविशेष एवोक्तो न तु माहात्म्यविशेष इत्यतस्तमाह– यावदिति ॥ अयमादित्यो भगवान्सुरगिरिमनुक्रामन्यावदवभासयतीत्युक्तमेव विवृणोति– वसुधातलमिति ॥ प्रतपति प्रकाशयति पुरुषमानमतिक्रम्य वर्तमानः प्रभावो यस्य स तथा । तदादित्यप्रवर्तनमात्मराज्यान्धकारकरणं समजवेन सूर्यरथसदृशवेगेन रजनीं रात्रिमपि दिनं प्रकाशवद् व्यवहारयोग्यं करिष्यामीति मत्वा तरणिमन्वादित्यस्य पृष्ठतः सप्तवारं पर्याक्रामत् परिसरभूमिमिति शेषः । पतङ्गः सूर्यः ॥ ३० ॥
प्रकाशिका
प्रभावमप्याह ॥ यावदिति । सुराणां गिरिं मेरुमनुपर्याक्रामत्प्रदक्षिणी-कुर्वन्नादित्यो यावल्लोकालोकपर्वतपर्यन्तमवभासयति । तावदपि वसुधातलमर्धेनैवोपलक्षितं प्रतपति प्रकाशयति । अर्धेन चाच्छादयति । तमसाऽऽवृतं करोति । हि यस्मात्तस्मात्तदा स्वभूपतित्व-काले तदर्धेन तमसाऽऽच्छादनमनभिनन्दन् समजवेन सूर्यरथसदृशवेगवता रथेन तरणिं सूर्यमनु पश्चाद्वितीयः पतंगः सूर्य इव पर्याक्रामत् । मेरुं प्रदक्षिणीकृत्यागमत् । केनाभिप्रायेणेत्यत उक्तं रजनीमपि तमसाऽऽवृतं कालमपि दिनं प्रकाशवन्तं करिष्यामीति मत्वेति । अस्यैतादृशं सामर्थ्यं कुत इत्यत उक्तं भगवदुपासनेनोपचितः सम्पादितोऽतिपुरुषः पुरुषानतिक्रम्य वर्तमानः प्रभावः सामर्थ्यं यस्येति ॥ ३० ॥
या वा इह तद्रथचरणनेमिकृतपरिखास्ताः सप्त सिन्धव आसन् यत एवंकृता सप्तभुवो द्वीपाः ॥ ३१ ॥
पदरत्नावली
अद्य दृश्यमानं तल्लक्षणं किं तदिति तत्राह– या वा इहेति ॥ अत्र वा इत्यादि निपाताः । अस्य ग्रन्थस्य वेदतुल्यत्व द्योतनायात एव संहितायामिति प्रत्यध्याय-मुक्तिरिति । इह भूतले तस्य प्रियव्रतस्य रथचरणस्य नेमेर्याः प्रान्तधारास्ताभिः कृताः परिखा दीर्धिकास् ताः सप्तसिन्धव आसन्नित्यन्वयः वा इत्यनेन समुद्राणां पूर्वसद्भावप्रसिद्धिं ध्वनयति । अयं तु तेषां स्थौल्यङ्कृतवानिति तदुक्तं पूर्वसृष्टान् रथावृत्त्या स्थूलांश्चक्रे प्रियव्रतः समुद्रांस्तेन तत्कर्तेत्याहुरेनं प्रियव्रतमिति । यतो येभ्यः समुद्रेभ्यः सीमाभूतेभ्य । एवं भुवः सप्तद्वीपाः कृताः । यद्वा एव शब्दः प्रधानभूताः सप्तैवान्येवान्तरद्वीपा बहवः सन्तीति विशेषद्योतनार्थः । ते सिन्धवः सप्तेति शेषः ॥ ३१ ॥
प्रकाशिका
इह भूतले तस्य प्रियव्रतस्य रथचरणस्य रथचक्रस्य नेमयः प्रान्तधारा-स्ताभिः कृताः परिखा दीर्घिकास्ताः सप्तसिन्धव आसन् । या भुवो भूतेभ्यः समुद्रेभ्य एव समाभूतेभ्यो भुवः सम्बन्धिनः सप्त द्वीपाः कृतास् ते सप्त सिन्धव इत्यन्वयः ॥ ३१ ॥
जम्बूप्लक्षशाल्मलिकुशक्रौञ्चशाकपुष्करसंज्ञास् तेषां परिमाणं पूर्वस्मात् पूर्वस्मादुत्तरोत्तरे यथासङ्ख्यं द्विगुणेन बहिः समन्तत उपक्लृप्ताः ॥ ३२ ॥
पदरत्नावली
तेषां नामान्याह– जम्ब्वित्यादिना । तेषां द्वीपानां परिमाणं श्रुण्विति शेषः किमित्यत उक्तं– पूर्वस्मादिति ॥ पूर्वस्मात्पूर्वस्मादुरोत्तर इत्यान्तरादान्तराद् बाह्यो बाह्य इत्यन्तर्बहिर्भावेन वर्तमाना द्वीपा यथासङ्ख्यं द्विगुणेन बहिः समं तत उपक्लृप्ताः ॥ ३२ ॥
प्रकाशिका
द्वीपानां नामान्याह ॥ जम्ब्वित्यादिना ॥ तेषां परिमाणम् । श्रुण्विति शेषः । पूर्वपूर्वद्वीपविस्तारमानादुत्तरोत्तरद्वीपविस्तारमानं यथासङ्ख्यं द्विगुणमित्येव मानेन परिमाणेन सिन्धुभ्यो बहिः समंतत उपक्लृप्ता रचिताः ॥ ३२ ॥
लवणोदेक्षुरसोदसुरोदघृतोदक्षीरोददधिमण्डोदशुद्धोदनाः सप्तजलधयः सप्तद्वीप-परिखा अभ्यन्तरद्वीपसमाना एकैकशो यथानुपूर्वं सप्तस्वपि बहिर्द्वीपेषु पृथक् पृथक् परित उपकल्पिताः । तेषु जम्ब्वादिषु बर्हिष्मतीपतिरनुवृत्तानात्मजा-नाग्नीध्रेध्मजिह्वयज्विबाहुहिरण्यरेतोघृतपृष्ठमेधातिथिवीतिहोत्रसञ्ज्ञान्-यथासङ्ख्यमेकैकस्मिन्नेकमेकमेवाधिपतिं विदधे ॥ ३३ ॥
पदरत्नावली
सिन्धुनामान्याह– लवणेति ॥ अभ्यन्तरद्वीपसमाना इति ॥ जम्बूद्वीपसमानो लवणोदधिः प्लक्षद्वीपसमान इक्षुरसोदधिरित्येवं सङ्ख्येयम् । तत्राराजकत्वे-तत्रत्यानां जनानां मिथोविवादेन विनाशः स्यादिति कृत्वाग्नीध्रादिसप्तपुत्रांस्तत्पतींश्चक्र इत्याह तेष्विति ॥ ३३ ॥
प्रकाशिका
यथा सिन्धुभ्यो बहिरेकैकशो द्वीपा एवं द्वीपानामपि बहिः सिन्धव इत्याह ॥ लवणोदेति । दधिमण्डो मथितं दधि । अभ्यन्तरद्वीपसमाना इति । जम्बुद्वीप-समानो लवणोदधिः प्लक्षद्वीपसमान इक्षुरसोदधिरित्यादिरूपेण स्वस्वाभ्यन्तरद्वीपसमान-विस्तारमाना इत्यर्थः । बहिर्द्वीपेषु सिन्धुभ्यो बहिर्विद्यमानेषु द्वीपेषु ॥ ३३ ॥
दुहितरमूर्जस्वतीं नामोशनसे प्रायच्छद्यस्यामासीद्देवयानीनामकाव्यसुता
॥ ३४ ॥
पदरत्नावली
पारिबर्हदाने सुतानां मिथो विवादः स्यादिति कृत्वा कन्यादानमपि स्वयमेव चक्र इत्याह– दुहितरमिति ॥ उशना शुक्रः काव्य इति हलायुधः । तत्पुत्र्यपि राजकुलवृद्धिकरीति भावेन तत्सुतामाह– यस्यामिति ॥ ३४ ॥
प्रकाशिका
काव्यसुता शुक्रसुता तद्दुहितर्यपि राजकुलाभिवृद्धिर्जातेति सूचनायेदमुक्तमिति ज्ञातव्यम् ॥ ३४ ॥
नैवंविधः पुरुषकार उरुक्रमस्य पुंसां तदङ्घ्रिरजसा जितषड्गुणानाम् ।
चित्रं विदूरविगतः सकृदाददीत यन्नामधेयमधुना स जहाति बन्धम्
॥ ३५ ॥
पदरत्नावली
एषां विक्रमस्योरुक्रम विक्रमसम्बन्धित्वान्मुमुक्षुणा श्रवणादिनावश्य-मभ्यसनीय इति भावेनाभिष्टौति– नैवं विध इति ॥ हरेः पुंसां भक्तानामेवंविधः पुरुषकारो माहात्म्यविशेषश्चित्रं न भवतीति कुत इति तत्राह– तदङ्घ्रिरजसेति ॥ निषेवितेनेति शेषः । षड्गुणाः कामादयो आरामादयो वा अशनादयो वा मनसा सह शब्दादयो वा यैरेते जितास्ते तथोक्ता । इतोऽपि चित्रं नेत्याह– विदूरेति ॥ विप्रविवक्षया विदूरः शूद्रस्तस्मादपि विगत-श्चण्डालः यस्य हरेर् नारायणादिनामधेयं सकृदाददीत स अधुना सद्य एव संसारलक्षणं बन्धं जहाति त्यजतीत्यन्वयः । तस्योरुक्रमस्येति । यद्वा विदूर विगतः दूराद्दूरं गतो दोषनिमित्ता-द्बहिष्कृतोऽपि बन्धं दोषलक्षणमिति ॥ ३५ ॥
प्रकाशिका
प्रियव्रतस्योक्तं सामर्थ्यमाश्चर्यमहो इति राज्ञोऽभिप्रायं ज्ञात्वा हरिभक्तानां नैतदाश्चर्यमित्याह शुकः ॥ नैवंविध इति । पुरुषकारः पुरुषसामर्थ्यविशेषः पुसां भक्तानाम् । तदङ्घ्रिरजसा निषेवितेनेति शेषः । षड्गुणाः कामादयः । चित्रमाश्चर्यं नेत्यर्थः । कुत इत्यतोऽत्र कैमुत्यमभिप्रेत्योरुक्रमसामर्थ्यमाह ॥ विदूरेति । विप्रविवक्षया विदूरः शूद्रस्तस्मादपि विगतो विदूरगतश्चण्डालो यस्योरुक्रमस्य नारायणादिनामधेयं सकृदाददीत भक्तिश्रद्धाद्यतिशय-पूर्वकमुच्चारयेद्यः सोऽधुना तत्क्षणमेव बन्धनं बन्धकं पापं जहाति । तथा च यस्य नामोच्चारण-सामर्थ्येन हीनजातीनामेतादृशं फलं तदा तद्भक्तानामुत्तमजातीनां तच्चरणरजःसेवकानामुक्तसामर्थ्यं भवतीति किं वाच्यमित्याशयः ॥ ३५ ॥
स एवमपरिमितबलपराक्रम एकदा तु देवर्षिचरणानुसेवयानुपतितगुणविसर्ग-संसर्गेणानिवृत्तमिवात्मानं मन्यमान आत्तनिर्वेद इदमाह ॥ ३६ ॥
पदरत्नावली
इदानीं पूर्वानुवादपूर्वकं वैराग्येण तस्य संसारनिन्दाप्रकारं कथयति– स एवमिति ॥ अनुपतितो यदृच्छया प्राप्तो गुणविसर्गः ‘‘सन्धिं च विग्रहं चैव यानमासनमेव च । द्वैधीभावं संशयं च षड्गुणान् कवयो विदुः’’ इत्यादि गुणप्रयोगो गुणकार्यविषयप्रपञ्चो वा तस्य संसर्गेण सम्बन्धेन आत्तनिर्वेदः प्राप्तवैराग्यः ॥ ३६ ॥
प्रकाशिका
तस्य पूर्वोक्तं पराक्रममनुवदन् संसारान्निर्वृतिरूपमाह ॥ स एवमिति । देवर्षिचरणानुसेवयाऽऽत्तनिर्वेद इत्यन्वयः । अनुपतित ईश्वराज्ञया प्राप्तो गुणविसर्गः सत्त्वादि-कार्यवनितादिस्तस्य सर्गेण ॥ ३६ ॥
अहो असाध्वनुष्ठितं यदभिनिवेशितोऽहमिन्द्रियैरविद्याविरचितविषमविषयान्ध- कूपे तदलमलं मनुष्यवनिताविनोदमृगं मां धिग्धिगिति गर्हयाञ्चकार ॥ ३७ ॥
पदरत्नावली
किमाहेत्यत्राह– अहो इति ॥ विनोदमृगं क्रीडामृगम् ॥ ३७ ॥
प्रकाशिका
अहो आश्चर्यम् । मयाऽनुष्ठितं यत्तदसाधु यतो यस्मादविद्यारचिते भगव-दिच्छानुगृहीते प्रकृतिविनिर्मिते विषयलक्षणान्धकूपे इन्द्रियैरहमभिनिवेशितोऽभिमानं प्रापितस्त-त्तस्मात्तदसाध्वनुष्ठानम् । अलमलं विनोदमृगं मर्कटम् ॥ ३७ ॥
परदेवताप्रसादाधिगतात्मप्रत्यवमर्शनपरिनिर्वृतः स्वपुत्रेभ्य इमां गां यथादायं विभज्य भुक्तभोगां च महिषीं मृतकमिव स ह महाविभूतिमपहाय स्वयं निहितनिर्वेदो हृदि गृहीतरुचिरहरिविहारानुभावो भगवतो नारदस्य पदवी-मनुससार ॥ ३८ ॥
पदरत्नावली
तस्य संसारविरक्त्या संन्यासप्रकारं वक्ति– परदेवतेति ॥ परदेवता नारायणस् तस्य प्रसादेनाधिगतं प्राप्तमात्मप्रत्यवमर्शनं प्राप्तपरमात्मज्ञानं तेन परिनिर्वृतो नष्टलब्धचिन्तामणिरिव परमानन्दमाप्तः यथादायं यो योग्यः पितृधनस्य तस्य तथा मृतकं शवमिव महतीविभूतिर्यस्याः सा तथा तां नारदस्यपदवी निवृत्तिमार्गः संन्यासलक्षणस् ताम्
॥ ३८ ॥
प्रकाशिका
परदेवता नारायणस्तस्य प्रसादेनाधिगतं प्राप्तमात्मप्रत्यवमर्शनं परमात्मज्ञानं तेन परिनिर्वृतः सम्यगाविर्भूतानन्दपूर्ण इमां गां भूमिं यथादायं यो यावतः पितृधनस्य योग्यस्तस्य तावद्यथा स्यात्तथा महाविभूतिः साम्राज्यसम्पत्तत्सहितां महिषीं मृतकमिव शव-मिवापहाय परित्यज्य हृदि गृहीतौ हरेर्विहारानुभावौ क्रीडासामर्थ्ये येन स तथा । नारदस्य पदवीं निवृत्तमार्गं संन्यासम् ॥ ३८ ॥
तस्य ह वा एते श्लोकाः ।
प्रियव्रतकृतं कर्म को नु कुर्याद्विनेश्वरम् ।
यो नेमिनिम्नैरकरोच्छायां घ्नन्सप्तवारिधीन् ॥ ३९ ॥
पदरत्नावली
प्रियव्रतचरित्रश्रवणस्मरणादिनानायासेन मुक्तिसाधनत्वान्नित्यजयाय श्लोक-रूपेण सङ्क्षिप्य तच्चरितं कीर्तयति– तस्येति ॥ रथचक्रनेमिकृतनिम्नैश् छायां रात्रिकृताम् ॥३९॥
प्रकाशिका
तस्य प्रियव्रतस्य महिमोपनिबन्धनश्लोकाः पूर्वप्रसिद्धाः । कथ्यन्त इति शेषः । यथा वेदे तदप्येषः श्लोको भवतीति कथ्यते तथैवेति ज्ञातव्यम् । को नु कुर्यान्न कोऽपि । नेमिनिम्नै रथनेमिकृतनिम्नप्रदेशैः । छायां घ्नन् तमो निरस्यन् ॥ ३९ ॥
भूसंस्थानं कृतं येन सरिद्गिरिवनादिभिः ।
सीमा च भूतनिर्वृत्यै द्वीपे द्वीपे विभागशः ॥ ४० ॥
पदरत्नावली
भूसंस्थानं भुवोऽवयवविशेषनाम । भूतनिर्वृत्यै प्राणिनां सुखाय ॥ ४० ॥
प्रकाशिका
भूसंस्थानं द्वीपैः कृतं सरिद्गिरिवनादिभिः सीमा च येन कृता भूतानां निर्वृत्यै सुखाय । अन्यथा परस्परविवादेन दुःखमेव स्यादिति ज्ञातव्यम् ॥ ४० ॥
भौमं दिव्यं मानुषं च महित्वं योगकर्मजम् ।
यश्चक्रे निरयौपम्यं पौरुषं तु जनप्रियम् ॥ ४१ ॥
॥ इति श्रीमद्भागवतमहापुराणे पञ्चमस्कन्धे प्रथमोऽध्यायः ॥
तात्पर्यम्
‘पूर्वसृष्टान् रथावृत्त्या स्थूलांश्चक्रे प्रियव्रतः । समुद्रांस्तेन तत्कर्तेत्याहुरेनं प्रियव्रतम्’ इति गारुडे ॥ ४१ ॥
पदरत्नावली
महित्वं माहात्म्यं योगकर्मजं योगसामर्थ्यजातं निरयौपम्यं निरयसुखसमम्
॥ ४१ ॥
॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुकृतायां
पञ्चमस्कन्धे प्रथमोऽध्यायः ॥
प्रकाशिका
महित्वं माहात्म्यं योगकर्मजं योगसामर्थ्यजातं निरयोपम्यं निरयसुखतुल्यं पुरुषानुजना विष्णुभक्तास्त एव प्रिया यस्य । अत्र यो नेमिनिम्नैः सप्त वारिधीनकरोदित्युक्त्या पूर्वं समुद्रसृष्ट्यभावः प्रतीयते स च प्रमाणविरुद्धः । अतोऽत्राभिप्रायं प्रमाणेनैवाह ॥ पूर्वसृष्टानिति ॥ पद्मकल्पे सृष्टान्समुद्रान् तत्प्रलये खातपूरणेन संकुचितान्पुनर्वाराहकल्पे सप्तकृत्वः स्वरथपरिभ्रमणेन प्रियव्रतः पूर्ववत्स्थूलांश्चक्रेऽतः समुद्रकर्तेत्युच्यत इत्यर्थः ॥ ४१ ॥
**॥ इति श्रीमद्वेदेशपूज्यपादशिष्येण यदुपतिना विरचितायां **
श्रीमद्भागतटिप्पण्यां प्रकाशिकायां पञ्चमस्कन्धे प्रथमोऽध्यायः ॥ ५-१ ॥