तत उत्पन्नविज्ञाना आश्वधोक्षजभाषितम्
अथ एकत्रिंशोऽध्यायः
मैत्रेय उवाच–
तत उत्पन्नविज्ञाना आश्वधोक्षजभाषितम् ।
स्मरन्त आत्मजे भार्यां विसृज्य प्राव्रजन् गृहात् ॥ १ ॥
पदरत्नावली
शास्त्रान्तरेषु बहूनामितरेषां साधनानां मुक्तिसाधनत्वेन कथनस्य सावकाशत्व-प्रकाशनायास्मिन्नध्याये पुनरपि मुक्तिसाधनं ब्रह्मज्ञानमेवेति निश्चीयते । तत्र तत्साधनमपि मुख्यं चतुर्थाश्रम एव । सर्वस्मात् तस्य श्रैष्ठ्यादित्यभिप्रेत्य प्रचेतसां राज्यपालनानन्तरं तमाचष्टे– तत इति ॥ आश्वाविर्भूताधोक्षजभाषितम् । ततो मानुषगणितद्वादशलक्षकालात् परमुत्पन्नविज्ञाना वेदान्तविज्ञान-सुनिश्चितार्थाः । अनेन संन्यासाधिकारे योग्यतां लक्षयति ॥ १ ॥
प्रकाशिका
ततो मानुषद्वादशलक्षवत्सरेषु राज्यपरिपालनानन्तरमुत्पन्नविज्ञाना उपायास्यथ मद्धाम निर्विद्य निरयादत इत्यधोक्षजभाषितं स्मरन्तः ॥ १ ॥
दीक्षिता ब्रह्मसत्रेण सर्वभूतात्ममेधसा ।
प्रतीच्यां दिशि वेलायां सिद्धोऽभूद् यत्र जाजलिः ॥ २ ॥
तात्पर्यम्
‘पारिव्राज्यं ब्रह्मसत्रं न्यास इत्यभिधीयत’ इत्यभिधानम् ॥ सर्वभूतात्मनि हरौ मेधा यत्र तद्ब्रह्मसत्रं सर्वभूतात्ममेधः । ‘हरिमेधास्तु संन्यासो हरौ मेधाऽत्र यद्भवेत्’ ॥ इति षाड्गुण्ये ॥ २ ॥
पदरत्नावली
एतदेव विशिनष्टि– दीक्षिता इति ॥ सर्वभूतात्मनि सर्वभूतस्वामिनि सर्व-भूतान्तर्यामिणि वा हरौ मेधा ज्ञानं यत्र तद् ब्रह्मसत्रं सर्वभूतात्ममेधस् तेन ब्रह्मसत्रेण दीक्षिता गृहीताः, गृहीतसंन्यासाश्रमा इत्यर्थः । ‘पारिव्राज्यं ब्रह्मसत्रं न्यास इत्यभिधीयते’ इत्यभिधानात्, ब्रह्मविषयेण यागविशेषेणेति नार्थोऽत्र ग्राह्यः । प्राव्रजन्निति विरोधाच्च । ‘हरिमेधस्तु सन्न्यासो हरौ मेधा यतो भवेत् ॥’ इति वचनेन संन्यासस्य विशेषितत्वाच्च, न सर्वभूतानां स्वस्वरूपत्वज्ञानेनेत्यर्थः । उत्तरत्रापि तत्त्वं नापुः, किन्तु तद्गतमिति वक्ष्यमाणत्वात् । यत्र जाजलस्यापत्यं जाजलिर् मुनिः सिद्धो मुक्तोऽभूत् तस्यां प्रतीच्यां दिशि समुद्रवेलायां हरिमुपासीनाः १स्युरित्यन्वयः ॥ २ ॥
प्रकाशिका
ब्रह्मसत्रेणेत्यस्य यागविशेषार्थकत्वं प्रतीयते । संन्यासिनां यागाभावादतोऽस्य योग्यमर्थं प्रमाणेनैवाह ॥ पारिव्राज्यमिति । तथा च ब्रह्मसत्रेण संन्यासाश्रमेण दीक्षिताः । तदाश्रमोचिताचारानुष्ठाने बद्धसङ्कल्पा इति यावत् । सर्वभूतानामात्मा मनस्तस्य मेधसा ज्ञानेनेत्य-न्यथाप्रतीतिवारणाय स्ववाक्येन व्याचष्टे ॥ सर्वेति । सर्वभूतात्मनि सर्वस्वामिनि सर्वभूतान्तर्यामिणि वा हरौ मेधा ज्ञानं यत्र तद्ब्रह्मसत्रं सर्वभूतात्ममेधः । ब्रह्मसत्रमित्यन्यपदार्थप्रदर्शनेनैव ब्रह्मसत्रमित्यनेन विशेषणतया चेति दर्शितम् । उक्तार्थे प्रमाणमाह ॥ हरिमेधा इति । अत्र संन्यासे यद्यस्मात्सर्वेषां भूतानां प्राणिनामात्मनि हरौ मेधा ज्ञानं यस्मिन्साधयितुं शक्यं तेन ब्रह्मसत्रेण दीक्षिता इति मूलार्थ इति भावः । देशविशेषमाह ॥ प्रतीच्यामिति । यत्र जाजलस्यापत्यं पुमान् जाजलिर्मुनिः सिद्धो मुक्तोऽभूत्तस्यां प्रतीच्यां दिशि समुद्रवेलायां समुद्रतीरे दीक्षिताः ॥ २ ॥
तान् निर्जितप्राणमनोवचोदृशो जितासनाञ्छान्तसमानविग्रहान् ।
परेऽमले ब्रह्मणि योजितात्मनः सुरासुरेड्यो ददृशे स्म नारदः ॥ ३ ॥
पदरत्नावली
तत्रापि नारदसङ्गमं तेषामाह– तन्निर्जितेति ॥ शान्तश्च समानश्च विग्रहो देहो येषां ते तथा तान् योजितमेकाग्रतया स्थापितं मनो यैस्ते तथा तान् ॥ ३ ॥
प्रकाशिका
तत्रापि नारदसमागमं तेषामाह ॥ तानिति । निर्जिताः प्राणमनोवचोदृशो यैस्तान् शान्ता उपरताः समानाः सर्वावस्थास्वेकप्रकारा विग्रहा येषाम् । ब्रह्मणि योजित आत्मामनो येषाम् । सुरैरसुरैश्चेड्यः स्तुत्यः ॥ ३ ॥
तमागतं त उत्थाय प्रणिपत्याभिनन्द्य च ।
पूजयित्वा यथादेशं सुखासीनमथाब्रुवन् ॥ ४ ॥
स्वागतं ते सुरर्षेऽद्य दिष्ट्या नो दर्शनं गतः ।
तव चङ्क्रमणं ब्रह्मन्नभयाय यथा रवेः ॥ ५ ॥
पदरत्नावली
यथादेशं यथोपदेशम् । देशानुसारेण वा ॥ चङ्क्रमणं पुनः पुनरागमनम् । रवेरुदयाख्यागमनम् ॥ ४,५ ॥
प्रकाशिका
यथादेशं यथाविधि पूजयित्वा ॥ ४,५ ॥
यदादिष्टं भगवता शिवेनाधोक्षजेन च ।
तद् गृहेषु प्रसक्तानां प्रायशः क्षपितं प्रभो ॥ ६ ॥
तन्नः प्रद्योतयाध्यात्मज्ञानं तत्त्वार्थदर्शनम् ।
येनाञ्जसा तरिष्यामो दुस्तरं भवसागरम् ॥ ७ ॥
पदरत्नावली
सदाशिवाधोक्षजाभ्यां ज्ञानस्योपदिष्टत्वान् न मया पृथगुपदेशाय प्रयतनीयमिति तत्राह– यदादिष्टमिति ॥ क्षपितं नष्टमिति यावत् ॥ येनात्मज्ञानेन ॥ ६,७ ॥
प्रकाशिका
आदिष्टमुपदिष्टं यदात्मतत्त्वं तत्क्षपितं विस्मृतम् ॥ ६,७ ॥
मैत्रेय उवाच–
इति प्रचेतसा पृष्टो भगवान् नारदो मुनिः ।
भगवत्युत्तमश्लोक आविष्टात्माऽब्रवीन्नृपान् ॥ ८ ॥
प्रकाशिका
प्रचेतसा प्रचेतोभिः । प्रचेतसामिति पाठे कर्तरि षष्ठी ॥ ८ ॥
नारद उवाच–
तज्जन्म तानि कर्माणि तदायुस्तन्मनो वचः ।
नृणां येन हि विश्वात्मा सेव्यते हरिरीश्वरः ॥ ९ ॥
पदरत्नावली
यद्धरिसेवासाधनं जन्मादि तदेव सफलम् । न तु सत्कुलजन्मादीत्याह– तज्जन्मेत्यादिना ॥ येन जन्मादिना ॥ ९ ॥
प्रकाशिका
यद्धरिसेवासाधनं जन्मादि तदेव सफलमित्याह ॥ तज्जन्मेत्यादिना ॥ ९ ॥
किं जन्मभिस्त्रिभिर्वेह शुक्लसावित्रयाज्ञिकैः ।
कर्मभिर्वा त्रयीप्रोक्तैः पुंसोऽपि विबुधायुषः ॥ १० ॥
पदरत्नावली
किमित्येवं विशिष्य स्तौषीति तत्राह– किं जन्मभिरिति ॥ यत्र जन्मादौ हरिरात्मप्रदो न स्यात् तज्जन्मादिना किं फलमित्यन्वयः । शुक्लं जन्म उभयकुलशुद्धम् । सावित्रं जन्म उपनयनादि । याज्ञीयमग्न्याधानलक्षणं जन्म ॥ १० ॥
प्रकाशिका
हरिसेवाभावेन जन्मादिकं व्यर्थमित्याह ॥ किं जन्मभिरिति । त्रिभिरित्युक्तं विवृणोति ॥ शुक्लेति । शुक्लं जन्मोभयकुलशुद्धं सावित्रं जन्मोपनयनादि याज्ञीयमग्न्याधानाख्यम् । एवं त्रिभिर् जन्मभिः किं त्रयीप्रोक्तैर्वेदविहितैर्विबुधानां देवानामिव दीर्घायुषा किम् ॥ १० ॥
श्रुतेन तपसा वा किं वचोभिश्चित्तवृत्तिभिः ।
बुद्ध्या वा किं निपुणया बलेनेन्द्रियराधसा ॥ ११ ॥
पदरत्नावली
इन्द्रियराधसा बहुग्रहणसामर्थ्येन ॥ ११ ॥
प्रकाशिका
वचोभिरन्यवार्ताभिः । चित्तवृत्तिभिर्नानाऽवधानसामर्थ्यैरिन्द्रियाणां राधसा पाटवेन
॥ ११ ॥
किं वा योगेन सांख्येन न्यासस्वाध्याययोरपि ।
किं वा श्रेयोभिरन्यैश्च न यत्रात्मप्रदो हरिः ॥ १२ ॥
पदरत्नावली
सांख्येन यथार्थज्ञानेन । न्यासस्वाध्याययोः क्रिययाऽपि । अन्यैस्तीर्थसेवादिभिः
॥ १२ ॥
प्रकाशिका
योगेन प्राणायामादिना । साङ्ख्येन देहादिव्यतिरिक्तात्मज्ञानमात्रेण न्यासस्वाध्या-ययोः संन्यासवेदाध्ययनाभ्यामप्यन्यैर्व्रतैर्वैराग्यादिभिः । श्रेयोभिः श्रेयःसाधनैर्यत्र येषु हरिः सेवितः सन् आत्मप्रदो न तैः पूर्वोक्तैः किमित्यर्थः ॥ १२ ॥
श्रेयसामपि सर्वेषामात्मा ह्यवधिरर्थितः ।
सर्वेषामपि भूतानां हरिरात्माऽऽत्मदः प्रियः ॥ १३ ॥
तात्पर्यम्
तावत्पर्यन्तमेव फलमित्यवधिः ॥ १३ ॥
पदरत्नावली
इतोऽपि विहितानां पुण्यानां हरेरनुग्रहपर्यन्तमेव फलमित्याह– श्रेयसामिति ॥ यावत् प्रसीदति तावत्पर्यन्तं पुण्यफलमित्यवधेरर्थः । ननु सेवितः किं फलं ददाति येन श्रेयसामवधिः स्याद् इत्याशङ्क्यान्ये सेविता यावत् प्रसीदन्ति तावत्पर्यन्तं पुंसां स्वव्यतिरिक्तमेव पुण्यफलं प्रयच्छन्ति । अयं तु स्वात्मानमेव ददातीत्येतादृशः कृपासमुद्रः कोऽस्तीत्यभिसंधायाह– सर्वेषामिति ॥ आत्मा आनन्दरूपः ॥ १३ ॥
प्रकाशिका
नन्वेवं हरिसेवारूपाणि पूर्वोक्तानि श्रेयःसाधनानि कियत्पर्यन्तमनुष्ठेयानीत्य-पेक्षायामाह ॥ श्रेयसामिति । श्रेयसां श्रेयःसाधानानामर्थितः फलतयोद्दिष्ट आत्मा परमात्मा । तत्प्राप्ति-रिति यावत् । अवधिर्हि प्रसिद्धेत्यर्थः । अत्रात्मनोऽवधित्वं कथमित्यतस्तदुपपादयति ॥ तावत्पर्यन्त-मिति । परमात्मप्राप्तिपर्यन्तमित्यर्थः । फलं साध्यं ज्ञानमानन्दवृद्ध्यादिकं वा । श्रेयःसाधनमिति शेषः । एवकारेण परमात्मप्राप्त्यनन्तरं तत्फलं नेति दर्शयति । इति हेतोरवधिरुच्यते इत्यर्थः । पर्यन्तेऽवधि-शब्दस्य रूढत्वादिति भावः । तथा च यानि श्रेयःसाधनानि कर्मादीनि तानि ज्ञानात्पूर्वकालीनानि ज्ञानजनकानि तदुत्तराण्यानन्दवृद्धिकराणि । परमात्मप्राप्तिरूपमोक्षानन्तरमनुष्ठितानामपि तेषां न किंचित्फलम् । अतः प्राप्यपरमात्माऽवधिरुच्यत इत्याशयः । नन्वेवं हरेरेव पूज्यत्वे ब्रह्मादिसर्व-प्राणिनामर्हणं वेदविहितं न कार्यं स्यादित्यतस्तत्रापि तदन्तर्यामितया हरिरेवेष्टः सन् फलं ददातीत्या-शयेनाह ॥ सर्वेषामिति । भूतानां ब्रह्मादीनामात्मान्तर्यामी प्रियश्च यतोऽतस्तेष्वन्तर्यामितया स्वार्चकानामात्मदः स्वप्राप्तिदः ॥ १३ ॥
यथा तरोर्मूलनिषेचनेन तृप्यन्ति तत्स्कन्धभुजोपशाखाः ।
प्राणोपहाराच्च यथेन्द्रियाणां तथैव सर्वार्हणमच्युतेज्या ॥ १४ ॥
पदरत्नावली
किं वा श्रेयोभिरन्यैरित्यत्र देवादिसेवालक्षणश्रेयांसि कथं निषिध्यन्ते ? तत्सेवाया अपि तत्तद्फलावाप्तये कर्तव्यत्वादिति तत्राह– यथेति ॥ प्राणोपहारो भोजनलक्षणपूजा इन्द्रियाणां तृप्तिलक्षणपूजां जनयति । अच्युतेज्या सर्वदेवाद्यर्हणफलं ददाति । अत्रैवकारेण प्राधान्यपूजा निषिध्यते । न त्ववान्तरपूजा । तस्या विहितत्वेन अच्युतस्य पूजात्वादित्यभिप्रायः । ‘परिवारतया ग्रह्या अपि हेयाः प्रधानतः’ इत्युक्तेः ॥ १४ ॥
प्रकाशिका
नन्वेवं ब्रह्मादीनामर्हणाभावे तेषां कोपादनर्थ एव स्यादित्याशङ्कायां तेष्वन्तर्यामि-तया हर्यर्पणमेव तेषामर्चनं हरेस्तदाधारत्वादिति दृष्टान्तमाह ॥ यथेति । प्रथमविभागः स्कन्धास्तद्विभागा भुजास्तेषामपि विभागा उपशाखाः । उपलक्षणमेतत् । पत्रपुष्पादयोऽपि ग्राह्याः । तृप्यन्ति । न तु मूलसेकं विना स्वस्वनिषेचनेन । प्राणस्योपहारो भोजनं तस्मादेवेन्द्रियाणां तृप्तिर्न तु तत्तदिन्द्रियेषु पृथक् पृथगन्नपानेन । तथैवाच्युतेज्याऽन्तर्यामितयाऽच्युतार्हणं सर्वार्हणं सर्वेषां ब्रह्मादीनां प्रीतिजनकं नामार्हणं भवतीत्यर्थः ॥ १४ ॥
यथैव सूर्यात् प्रभवन्ति गावः पुनश्च तस्मिन् प्रविशन्ति काले ।
भूतानि भूमौ स्थिरजङ्गमानि तथा हरावेव गुणप्रवाहः ॥ १५ ॥
पदरत्नावली
ननु हरिपूजया देवादिपूजाफलं कथं स्यात् ? न हि देवदत्तभोजनतृप्त्या यज्ञदत्तस्तृप्यतीति तत्राह– यथेति ॥ उदयकाले आषाढादिकाले वा गावो रश्मयो जलानि च सूर्याद् यथा प्रभवन्ति निर्गच्छन्ति उत्पद्यन्ते वा पुनश्च सन्ध्याकाले हेमन्तादिकाले वा तस्मिन् सूर्ये प्रविशन्ति, गवां मण्डलप्रवेशो वारिणां मरीचिपीतत्वमित्येष विशेषः । यथा च स्थिरजङ्गमानि भूतानि भूमेरुत्पद्यन्ते भूमावेव प्रविशन्ति तथायं गुणप्रवाहस्त्रिगुणात्मकजगल्लक्षणो हरेरुत्पद्यते । हर्याधारतया तिष्ठतीत्यन्वयः । अनेन हरेः सर्वकर्तृत्वेन स्वतृप्त्या देवादीनां स्वाश्रितत्वेन तृप्तिर्युज्यत इत्येतत् सूचितमिति ॥ १५ ॥
प्रकाशिका
ननु सर्वाधारत्वमेव हरेः कथमित्यतस्तदपि दृष्टान्तमुखेनोपपादयति ॥ यथैवेति । काले उदयकाले आषाढादिकाले वा गावो रश्मयो यथा सूर्यात्प्रभवन्ति निर्गच्छंत्युत्पद्यन्ते वा पुनः संध्याकाले हेमन्तादिकाले वा तस्मिन्सूर्ये वा । यथा स्थिरजङ्गमानि भूमेरुत्पद्यन्ते भूमौ प्रविशन्ति । तथैवायं गुणप्रवाहस्त्रिगुणात्मकजगत्प्रवाहो हरेरेवोत्पद्यते हरावेव प्रविशति । अतो हरिरेव सर्वोपजीव्य इति तदर्चनेनैवान्येषामर्चनं तदभावे न स भातीत्याशयः ॥ १५ ॥
एतत् परं तज्जगदात्मनः पदं सकृद् विभातं सवितुर्यथा प्रभा ।
यदाऽसवो जाग्रति सुप्तवृत्तयो द्रव्यक्रियाकारकविभ्रमात्ययः ॥ १६ ॥
तात्पर्यम्
‘आत्मभावः शरीरे तु द्रव्यभ्रम उदाहृतः । क्रियाभ्रमस्त्वहं कर्ता मदीया-नीन्द्रियाणि तु । कारकभ्रम इत्युक्तस्त एते विभ्रमा यदा । श्वासादिवृत्तिलोपेन प्राणा उद्योगिन-स्तदा । विलीयन्ते प्राणभक्त्या नित्यं स्वापवतां१ स्फुटम् । उद्योग एव जाग्रत्स्याद्योगिनां मुक्तिसिद्धये’ ॥ इत्यध्यात्मे ॥ १६ ॥
पदरत्नावली
अस्तु सर्वश्रेयसामात्मावधित्वम् । एषु सत्सु कथङ्कारं प्रकाशत इति तत्राह– एतदिति ॥ पूर्वसञ्चीर्णश्रेयस्सु सत्सु यदा सुप्तवृत्तयो विलीनश्वासादिवृत्तयोऽसुप्तप्रवृत्तयः प्रवृद्धवृत्तयोऽसव इन्द्रियाणि जाग्रति पुरुषं बोधयन्ति उद्योगे स्थिता वा, यदा च द्रव्यक्रियाकारकविभ्रमात्ययस् तदा यत्तदुपनिषद्वेद्यं तदेतज्जगदात्मनः प्रपञ्चस्वामिनो हरेः परं पदं यथा सवितुः प्रभा सकलपदार्थप्रकाशिका सूक्ष्मापि, तथा सकृद् विभातं भवति । यथा नारदस्य पुनरम्यासे सर्वदैवेत्यन्वयः । देहात्मभावभ्रमो द्रव्यभ्रमः । अहं कर्तेति क्रियाभ्रमः । मदीयानीमानीन्द्रियाणीति कारकभ्रमः । मुख्यप्राणप्रसादेन प्राणशब्दवाच्येष्विन्द्रियेषु ज्ञानार्थं पुरुषोद्बोधनोद्योगवत्सु जाग्रतो योगिनो ज्ञानोत्पत्त्या द्रव्यादि-विभ्रमनिवृत्त्या भगवत्स्वरूपं प्रकाशत इति भावः । ननु हरावेव गुणप्रवाह इत्युक्ते गुणप्रवाहाधारत्वेन सोपाधिकत्वं हरेः स्यादित्यत आह– एतदिति ॥ एतदेव विष्णोः पदं तदुत्पन्नं जगदात्मन उपाधेः परम् उपाध्यसंबन्धम् । आधाराधेयभावो गगनगन्धर्वनगरवज् ज्ञातव्यः । तर्हि शून्यम् ? तत्राह– सकृद्-विभातमिति ॥ प्रज्ञानघनं यथा सवितृप्रभा प्रभाता तद्वत् स्थितम् । यज्ज्ञानाद् द्रव्यक्रियाज्ञानभिदाभ्रमो जगद्भेदभ्रमस्तस्य निवृत्तिर्भवति । किंलक्षणो हरिरित्यनेन तल्लक्षणं तज्ज्ञानं चोच्यते । प्रज्ञानघनाज् जडस्य जगतः कथमुत्पत्तिरित्याशङ्क्य दृष्टान्तेनोपपादयति– यथेति ॥ यथाऽसव इन्द्रियाणि अजाग्रति सुप्तिकाले सुप्तवृत्तयोऽपहृतव्यापारा आत्मनि लीनास्ततः प्रबोधे प्रज्ञानघनादप्यात्मनो जायन्ते तद्वद् ब्रह्मणो जगदित्येतदपव्याख्यानम् ‘आत्मभावः शरीरेषु द्रव्यभ्रम उदाहृतः । क्रियाभ्रमस्त्वहं कर्ता मदीयानीन्द्रियाणि तु ॥ कारकभ्रम इत्युक्तस्त एते विभ्रमा यदा । श्वासादिवृत्तिलोपेन प्राणा उद्योगिन-स्तदा ॥ विलीयन्ते प्राणभक्त्या नित्यं स्वापवतां स्फुटम् । उद्योग एव जाग्रत् स्याद्योगिनां मुक्ति-सिद्धयेः ॥’ इत्यनेनैतद्व्याख्यानरूपेण संप्रदायविभ्रमप्रकाशकेन निरस्तमिति ज्ञायते । ‘एको देवः सर्वभूतेषु गूढः’ ‘यस्मिन् सर्वाणि भूतानि’ इत्यादिष्वेकस्य हरेराधाराधेयभावस्य सत्यत्वावगमात् । न हि सुषुप्ताविन्द्रियाणामात्मनि लयः प्रज्ञानघनादुत्पादोऽपि स्वकपोलकल्पितत्वमन्तरेण प्रामाणिक इति
॥ १६ ॥
प्रकाशिका
ननूक्तेषु श्रेयःसाधनेष्वासक्तावपि कुतो न हरिः सर्वदा भातीत्यपेक्षायामाह ॥ एतदिति । एतज्जगदाधारत्वेनोक्तं तत्पूर्वोक्तं परं लोकविलक्षणं जगदात्मनो जगत्स्वामिनः पदं स्वरूपं सकृत्कदाचिदेव विभातं स्फुरितं भवति । अत्र दृष्टान्तमाह ॥ यथेति । यथा सवितुः प्रभा कदाचिदेव विभाति न सर्वदा तथैवेत्यर्थः । ननूक्तसाधनवतां सकृद्वा कदा विभातीत्यत आह ॥ यदेति । अप्रतीत्या विवक्षितमर्थं प्रमाणेनैव दर्शयति ॥ आत्मभाव इति । तुशब्दोऽवधारणे । आत्मभाव एव स्फुटतर-विवेकाभाव एव द्रव्यभ्रम उदाहृतः । वक्ष्यमाणभ्रमद्वयसाधनत्वात् । उपलक्षणयाऽऽत्मशब्दः प्रतिपादित इत्यर्थः । अहमेव कर्तेति भ्रमः क्रियाभ्रम उदाहृतः । इन्द्रियाण्येव मदीयान्येव इति भ्रमः कारकभ्रम इति शब्देनोक्तः । त एते विभ्रमा यदा नित्यं स्वापवतामनाद्यज्ञानावृतत्वलक्षणस्वापयुक्तानामधिकारिणां प्राणभक्त्या जातेन श्वासादिवृत्तिलोपेन प्राणेन्द्रियमनोजयेन विलीयन्ते तदा प्राणाः स्फुटमुद्योगिनः । हरिसाक्षात्कारजनन इति शेषः । नित्यस्वापवतामिति पाठे योगिनामेतद्विशेषणम् । अत्र यदेत्यनेन यथेत्यस्य प्राणा इत्यनेनासव इत्यस्योद्योगिन इत्यनेन जाग्रतीत्यस्य नित्यं स्वापवतामित्यनेन सुप्तशक्तय इत्यस्यात्मभाव इत्यादिना द्रव्यक्रियाकारकभ्रम इत्यस्य विलीयन्त इत्यनेनात्यय इत्यस्य चार्थ उक्त इति ध्येयम् । ननु जाग्रतीत्यस्य कथमुद्योगिन इति व्याख्यानमित्यतस्तदुपपादयति ॥ उद्योग एवेति । इन्द्रियाणां स्वस्वव्यापारकरणे उद्योग एव जाग्रच्छब्दवाच्यतया प्रसिद्धः । अतोऽत्रापि योगिनां मुक्तिसिद्धयेऽविद्यास्वापनिवृत्त्यर्थमुद्योग एव जाग्रत् ॥ जाग्रच्छब्दार्थतयोक्त इत्यर्थः । ततश्चायं श्लोकार्थः ॥ यदा योगिनां द्रव्यक्रियाकारकविभ्रमाणामुक्तरूपाणामत्ययो विलयः प्राणस्य हरेश्च भक्त्या जातेन प्राणेन्द्रियजयेन भवति । तदा सुप्तशक्तयो विलीनश्वासादिवृत्तयः पूर्वमविद्यावरणाद्धरि-दर्शनोद्योगरहिता असवः प्राणा जाग्रति हरिदर्शने उद्योगिनो भवन्ति । पुरुषं बोधयन्ति । उद्योगे स्थिता वा । तथा च न शुद्धजन्मादिकमेव हरिदर्शनसाधनं किन्तु प्राणेन्द्रियजयादिनोक्तत्रिविधविभ्रम-निवृत्तिरपि । सा यदा भवति तदैव हरिर्भातीत्याशयः ॥ १६ ॥
यथा नभस्यभ्रतमःप्रकाशा भवन्ति भूयो न भवन्त्यनुक्रमात् ।
एवं परे ब्रह्मणि शक्तयस्त्वमू रजस्तमस्सत्वमिति प्रवाहः ॥ १७ ॥
पदरत्नावली
ननु पङ्किलप्रदेशे प्रवर्तमानदेवदत्तवत् सृष्ट्यादौ गुणपङ्के प्रवृत्तस्य तत्कृतलेपः स्यात् । स चानुपपन्नः । असङ्गो ह्ययं पुरुष इति श्रुतेरिति तत्राह– यथेति ॥ यथा नभस्यभ्रतमःप्रकाशा आगमापायिनो ऽनुक्रमेण भवन्ति न भवन्ति च, न तावताऽऽकाशस्य तत्सम्बन्धलेपोऽस्ति, एवं परेऽ-सङ्गे ब्रह्मणि रजस्तमस्सत्वमित्यमूः शक्तयो भवन्ति । तदेकाधीनत्वात् शक्तिशब्दवाच्याः । इति अयं गुणप्रवाहो न तस्मिन् विशेषमापादयतीत्येतत् तुशब्दादवगन्तव्यम् । ननु शक्तीनां मिथ्यात्वात् शक्तिं प्रकाशयितुं नैपुण्याभावाद् ब्रह्मणि लेपाभाव इत्यतो वाऽऽह– इतीति ॥ अयं सत्य इति शेषः । एतदभिप्रायेण प्रवाह इत्युक्तम् । यथाऽग्निप्रतिष्टम्भनसमर्थस्यापि तत्प्रयुक्तदाहदुःखाभावो, न त्वग्ने-र्मिथ्यात्वात्, एवं ब्रह्मणो लेपकत्वशक्तिरपि द्रव्याणां भगवदधीनेति विशेषं तुशब्दो वक्तीति वा ॥१७॥
प्रकाशिका
नन्वेवं जगदाश्रयस्य तत्तत्सम्बन्धेन तत्तद्दोषलेपप्रसक्तिरित्याशङ्कां दृष्टान्तमुखेन परिहरन्हरावेव गुणप्रवाह इत्युक्तं विशदयति ॥ यथेति । नभस्याकाशे यथा भ्रमतः प्रकाशाः क्रमेण भवन्ति न भवन्ति च तावता नाकाशे तत्सम्बन्धकृतलेपोऽस्ति । एवं परेऽसङ्गे ब्रह्मण्यमूः शक्यत्वा-च्छक्तिशब्दवाच्या ये रजस्तमःसत्त्वमिति गुणास्तेषां प्रवाहस्तद्रूपं जगत्क्रमेण भवति न भवति नश्यति च । तथाऽपि ब्रह्मणि तत्सम्बन्धकृतदोषलेपापादको न भवति । अभ्रसाम्यं च रजसस्तमःसाम्यं च तमसः प्रकाशसाम्यं सत्त्वगुणस्येति ज्ञातव्यम् । न भवन्तीत्युक्त्या न नदीजलप्रवाहवदयं प्रवाहो विच्छिन्नः किन्तु मध्ये प्रलये न विच्छेदोऽस्तीति प्रतिपादनाद्गुणशब्दार्थप्रदर्शनाच्च विशदनमिति ज्ञातव्यम् ॥ १७ ॥
तेनैकमात्मनमशेषदेहिनां कालं प्रधानं पुरुषं परेशम् ।
स्वतेजसा ध्वस्तगुणप्रवाहमात्मैकभावेन भजध्वमद्धा ॥ १८ ॥
तात्पर्यम्
‘पूर्णो विष्णुः स एवैक इति भावो य ईरितः । आत्मैकभाव इति तं विदु-र्ब्रह्मात्मदर्शिनः’ ॥ इति सत्यसंहितायाम् ॥ १८ ॥
पदरत्नावली
मथितार्थमाह– तेनेति ॥ यत एवं प्रवृत्तिमत्वेऽपि तत्कृतदोषलेपाभावस्तेन विष्णुरेक एव पूर्णो न त्वन्य इति लक्षणात्मैकभावेन एतमितः प्रेत्याभिसम्भावितास्मीति बुद्ध्या परमात्मानं भजध्वमित्यन्वयः । ‘पूर्णो विष्णुः स एवैक इति भावो य ईरितः । आत्मैकभाव इति तं विदुर्ब्रह्मात्मदर्शिनः ॥’ इति वचनादात्मैकभावेनेति नैक्यमुच्यते । ‘एकमेवाद्वितीयम्’ ‘आत्मानमेव लोकमुपासीत’ ‘प्रधानादिदमुत्पन्नम्’ इत्यादि श्रुतीः सप्रमाणीकर्तुमेकमित्यादीनि विशेषणानि बोद्धव्यानि ॥ १८ ॥
प्रकाशिका
अस्त्वेवमसंगस्ततः किमित्यतस्तस्यैव भजनं कार्यमिति विधत्ते ॥ तेनेति । उक्तरीत्या जगत्सम्बन्धकृतदोषलेपाभावेनेत्यर्थः । अशेषदेहिनामात्मानमन्तर्यामिणं तथाऽप्येकं स्वगत-भेदशून्यमद्धाऽतिशयेन भजध्वम् । ननु श्रुत्यादिषु काल एव भजनीयतया क्वचिदुच्यते क्वचित्प्रधानं क्वचित्पुरुषोऽतस्तद्विरोध इत्याशङ्कायां तत्र कालादिशब्दा हरिपरा एवेत्याशयेनाह ॥ कालमिति । कालमित्यादिविशेषणाद्धरिः कालादिशब्दवाच्य इत्यर्थः । परेशं ब्रह्मादीनामपीशम् । ननु तस्यापि गुणबद्धत्वेन न मुख्यतो भजनीयत्वमित्यत उक्तम् ॥ स्वतेजसेति । स्वसामर्थ्येनैव दूरीकृतगुणकार्यबन्ध इत्यर्थः । भजने इत्थम्भावमाह ॥ आत्मैकभावेनेति । अत्र जीवैक्येनेत्यन्यथाप्रतीतिवारणाय विवक्षित-मर्थं प्रमाणेनैव दर्शयति ॥ पूर्णो विष्णुरिति । विष्णुरेव पूर्णः संपूर्ण एक एवेति भावो भावना । ध्यानमिति यावत् । ब्रह्मात्मदर्शिनः परब्रह्मणो जीवानां च स्वरूपविदः । तथा चात्मनः पूर्णस्य विष्णोरेकत्वभावनया विष्णुरेक एव पूर्ण इति भावनयेति मूलार्थ इत्याशयः ॥ १८ ॥
निरस्तसङ्कल्पविकल्पमद्वयं द्वयापवादोपरमोपलम्भनम् ।
अनादिमध्यान्तमजस्रनिर्वृतिं संज्ञप्तिमात्रं भजतामुया दृशा ॥ १९ ॥
तात्पर्यम्
‘‘सङ्कल्पश्च विकल्पश्च ऋते विष्णुप्रसादतः । नैव सम्भवतो विष्णोः समाभावात्तु सोऽद्वयः ॥’’ इति तन्त्रभागवते ॥ १९ ॥
पदरत्नावली
भक्तानां निरस्तौ संकल्पविकल्पौ येन स तथा । हरिप्रसादमन्तरेण तौ निरस्तौ न स्यातां पुंसामित्यर्थः । तम् । अमद्वयं द्वितीयसमरहितम् । ‘सङ्कल्पश्च विकल्पश्च ऋते विष्णुप्रसादतः । नैव सम्भवतो विष्णोः समाभावात्तु सोऽद्वयः ॥’ इति वचनं चात्र मानम् । द्वयस्य पञ्चविधभेदस्यापवादः कुतर्कैर्निरासः, तमुपरमन्ति न कुर्वन्तीति ते द्वयापवादोपरमास् तेषूपलम्भनं दर्शनं यस्य स तथा तं च । न आदिमध्यान्ता यस्य स तथा । तम् । अजस्रनिर्वृत्तिं नित्यातन्दं संज्ञप्तिमात्रं विज्ञानघनम् । अमुयाऽत्युत्तमया दृशा दर्शनेन निरस्तसङ्कल्पादिगुणविशेषास् तानुपसंहृत्य भजतेत्यन्वयः ॥ १९ ॥
प्रकाशिका
भजने पुनरपीत्थम्भावान्तरमाह ॥ निरस्तसङ्कल्पेति । अत्र विष्णोः सङ्कल्प-विकल्पौ न स्त इति प्रतीयते । तथाऽद्वयमिति द्वितीयाभाव उच्यत इति भाति । अतोऽद्वयपदं निरस्त-सङ्कल्पविकल्पमिति पदं च प्रमाणेनैव व्याख्याति ॥ सङ्कल्पश्चेति । विष्णुप्रसादतो विष्णुप्रेरणातो नैव सम्भवतः । जनानामिति शेषः । विष्णोः समाभावात्सोऽद्वयश्चोच्यत इत्यर्थः ॥ ततश्चायं श्लोकार्थः ॥ जाननां स्वप्रेरणाभावे निरस्तावनुत्पादितौ सङ्कल्पविकल्पविशेषौ येन तम् । स्वसमानाभावादद्वयम् । द्वयस्य द्वीतीयस्यापवादो निरासो येभ्यस्ते विमतं मिथ्या दृश्यत्वादित्यादयः कुतर्कास्तेषामुपरमो निराकरणं तेनोपलम्भनं सत्यजगत्सृष्टृत्वादिरूपेण ज्ञानं यस्मिन्विषये स तथा तम् । न विद्यत्ते आदिमध्यान्ता यस्य तम् । अजस्रनिर्वृतिं नित्यानन्दम् । संज्ञप्तिमात्रं जडामिश्रममुया दृशोक्तप्रकारानु-सन्धानेन भजत ॥१९॥
दयया सर्वभूतेषु संतुष्ट्या येन केन वा ।
सर्वेन्द्रियोपशान्त्या च तुष्यत्याशु जनार्दनः ॥ २० ॥
पदरत्नावली
साधनान्तरं चाह– दययेति ॥ येन केनचिच्छास्त्रविहितेन लब्धेनान्नपानादिना सन्तुष्ठ्या अलम्बुद्ध्या ॥ २० ॥
प्रकाशिका
अविलम्बेन विष्णुप्रसादजनकं साधनमाह ॥ दययेति । येन केन वा यदृच्छया लब्धेन शास्त्रविहितेन सन्तुष्ट्या अलम्बुध्या । तुष्ट्याऽपि किमित्याशङ्कापरिहारायोक्तम् ॥ जनार्दन इति जननमर्दयतीत्यर्थः ॥ २० ॥
अपगतसकलेषणामलात्मन्यविरतमेधितभावनोपहूतः ।
निजजनवशगत्वमाप्तवान् यो न सरति च्छिद्रवदक्षरः सतां हि ॥ २१ ॥
पदरत्नावली
ननु बहुजन्मचीर्णसुकृतानन्त्येन प्रसाद्य सकृद्विभातं, यदि पश्चान्नेति पक्षे बहुक्लेशेन साधनानुष्ठानं व्यर्थं पारदसाधनवदिति तत्राह– अपगतेति ॥ अपगता दूरतो निरस्ताः समस्ताः सकला ईषणाः पुत्रवित्तादिकामा यस्मात् स तथा, अत एवामलश्चात्मा अपगतसकलेषणा-मलात्मा । तस्मिन्नेवं शुद्धान्तःकरणे निरन्तरमेधितया भावनया भक्त्या आहूत इवागत्यात्मानं प्रकाश्य सन्निहितो हरिः श्रीनारायणः सतां हृदयान्न सरति न गच्छति न तिरोभवति । अत्र हेतुमाह– निजेति ॥ स्वभक्तवशगतत्वं प्राप्तवानिति यत् तस्मात् । छिद्रवदाकाशवत् । एतन्निदर्शनकथनेन व्याप्तस्याभिव्यक्तिरेव विवक्षितेति ध्वनयति । पूर्वदेशवियोगलक्षणक्रिययोत्तरदेशसम्योगसम्भवाद् व्याप्तिभङ्गापत्तेरिति न क्षरति न स्रवतीति अक्षरशब्दनिरुक्त्या च भक्तजनहृदयान्नापगच्छतीति भावेनोक्तम्– अक्षर इति ॥ हिशब्देन हरेर्ज्ञानिप्रियत्वं मानसिद्धमिति स्मारयति ‘ज्ञानी त्वात्मैव मे मतम्’ इति ॥ २१ ॥
प्रकाशिका
वैराग्यसन्ततध्यानलक्षणे च साधने दर्शयन् भगवानेवं भजतां मनसि व्यक्तः कदाऽपि नापयातीत्याह ॥ अपगतेति । अपगता दूरतो निरस्ताः समस्ताः सकलेषणाः पुत्रवित्तादि-कामा यस्मात्स तथा । अत एवामलमात्म मनस् तस्मिन्नेवं विशुद्धान्तःकरणेऽविरतं निरन्तरमेधितया भावनया भक्तिपूर्वकध्यानेनोपहूत इव व्यक्तः सन् अक्षरो हरिः सतां हृदयाच्छिद्रवत्तत्रत्याकाशवन्न सरति नापगच्छति । न तिरोभवतीति यावत् । अत्र हेतुमाह ॥ निजजनेति । यद्यस्मान्निजजनानां भक्तजनानां वशगत्वमधीनत्वमाप्तवान् । तत्तस्मात् । छिद्रवदिति दृष्टान्तो नित्यसंनिहितत्वमात्रेणाभिव्यक्ततायामिति ज्ञातव्यम् । हिशब्देनात्र प्रमाणप्रसिद्धिं दर्शयति ॥ २१ ॥
न भजति कुमनीषिणां स इज्यां हरिरधनात्मधनप्रियो रसज्ञः ।
श्रुतधनकुलकर्मणां मदैर्ये विदधति पापमकिञ्चनेषु सत्सु ॥ २२ ॥
तात्पर्यम्
अधनाश्च त एवाऽत्मधनाश्चाधनात्मधनाः ॥ २२ ॥
पदरत्नावली
व्यतिरेकमाह– न भजतीति ॥ अकिञ्चनेषु मदहेतुधनरहितेषु श्रुतधनकुलकर्मणां मदैश्च ये पापमपराधं विदधाति स हरिस्तेषां कुमनीषिणां पुंसामिज्यां यागादिपूजां न भजति स्वीकृत्य फलं न ददातीत्यन्वयः । कीदृशो हरिः ? अधना हिरण्यादिधनरहिताश्चात एवात्मधनाश्चाधनात्मधनास्त एव प्रिया यस्य स तथा । तेषां प्रियो वा । अस्मिन्नर्थे इदं प्रमाणम् । ‘प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः’ इति । प्रियत्वे निमित्तमाह– रसज्ञ इति ॥ भक्तैः क्रियमाणं रसमनुरागं भक्तिं जानातीति रसज्ञः । रसो रागे विषे वीर्ये इति यादवः । रागोऽनुरागे लाक्षादाविति च । श्रुतं च धनं च कुलं च कर्माणि च तानि तथा तेषां मदैर्बुद्धिभ्रंशहेतुवृत्तिविशेषैः ॥ २२ ॥
प्रकाशिका
सतामेव वश्योऽसावसतां तु पूजामपि न गृह्णातीत्याह ॥ न भजतीति । कुमनीषिणां कुमतीनामिज्यां पूजाम् । अधनात्मधनप्रियः । अत्राधनात्मधनशब्दयोः कर्मधारय एव समास इत्याशयेनाह । अधनाश्चेति ॥ तथा च न विद्यते धनं हरिपूजानुपयुक्तं येषां तेऽधनास्ते च ते आत्मा परमात्मा धनं धनवत्प्रियो येषां ते आत्मधनास्तेषां प्रिय इत्यर्थः । रसज्ञो रसो रागोऽनुरागः । भक्तिरिति यावत् । तं जानातीति रसज्ञः । भक्तैः क्रियमाणभक्तिज्ञानवानित्यर्थः । कुमनीषिणां सकाशाज्जातैर्मदैर्बुद्धिभ्रंशहेतुवृत्तिविशेषैर्येऽकिञ्चनेषु । सत्सु । उपलक्षणमेतत् । आत्मधनेषु च पापमपराधं विदधति कुर्वन्ति तेषां कुमनीषिणामित्यन्वयः ॥ २२ ॥
श्रियमनुचरतीं तदर्थिनश्च द्विपदपतीन् विबुधांश्च यः स्वपूर्णः ।
न भजति निजभृत्यवर्गतन्त्रः कथममुमुद्विसृजेत् पुमान् कृतज्ञः ॥ २३ ॥
तात्पर्यम्
‘श्रियं देवांश्च भृत्यत्वान्मनुते बहु केशवः । नात्मार्थाय यतस्ते तु भक्त्या सर्वोत्तमोत्तमाः’ ॥ इति च ॥ २३ ॥
पदरत्नावली
अस्मिन्नर्थे इदं प्रमाणयति– श्रियमिति ॥ द्विपदपतीन् मनुष्यप्रधानान् । तदर्थिनः श्रीप्रसादप्रार्थनाशीलान् । स्वपूर्ण इत्ययं तदपेक्षामन्तरेण स्वापेक्षाभावे हेतुः । निजभृत्यवर्गतन्त्र इति जयस्तम्भप्रकटनार्थः । अन्यथा लक्ष्म्यादीनामभक्तत्वेन पृथक्करणं प्रसज्येत । न च तद्युक्तम् । निजवने तुलसीभिरीशभ्यर्चतीति लक्ष्म्या अपि मायापटलान्तराभावेऽपि सुखात्मकभक्त्या तत्पूजा-विधानात् । उद्विसृजेद् उद्विग्नो भूत्वा त्यजतीत्यर्थः ॥ २३ ॥
प्रकाशिका
भक्त्यधीनस्यानुग्रहसाध्यं फलं दर्शयन् एवंविधस्य त्यागो नोचित इत्याह ॥ श्रियमिति । अत्र निजभृत्यवर्गतन्त्रः श्रियं विबुधांश्च न भजतीत्युक्त्या श्रियाद्यपेक्षया भृत्यवर्गाणा-माधिक्यमुच्यत इति भाति । अतोऽत्र विवक्षितमर्थं प्रमाणेनैव दर्शयति ॥ श्रियमिति । विबुधा-नित्यस्यार्थः देवानिति । चशब्दाद्विपदपतीनां राज्ञां ग्रहणम् । बहुमनुते संमानयति । अनेन भजतीत्ये-तदुक्ततात्पर्यम् । निजभृत्येत्यनेन सूचितं हेतुमाह ॥ भृत्यत्वादिति । श्रियादीनामिति शेषः । न भजतीति निषेधस्यार्थमाह ॥ नात्मार्थायेति । न स्वप्रयोजनायेत्यर्थः । तथा च न भजतीत्यत्रात्मार्थायेति पूरणीयमिति भावः । ननु भृत्यत्वेन तेषु मान एव कर्तव्यो न बहुमान इत्यत आह ॥ यत इति । तुशब्दोऽवधारणे । भक्त्येत्युपलक्षणम् । भक्त्यादिगुणैरेव सर्वोत्तमोत्तमाः । तारतम्येनोत्तमा इत्यर्थः । अनुचरतीं तदर्थिनश्चेति पदद्वयसूचितमेतदिति ज्ञातव्यम् ॥ ततश्चायं श्लोकार्थः ॥ अनुचरतीं साक्षाद्भृत्यभूतां श्रियं तदर्थिनः श्रीप्रसादप्रार्थिनो विबुधांस्तदर्थिनः श्रियो देवानां च प्रसादार्थिनो द्विपदपतीन् राज्ञश्च । तारतम्येनोत्तमानिति यावत् । यतोऽतः सर्वेषां वैमानिकानां धिष्ण्येभ्यः परमुत्तमं भजति बहुमानयति । कुतः । यतो निजभृत्यवर्गतन्त्रः । तेषां भृत्यत्वात्स्वस्य च भृत्याधीनत्वाद्बहुमानं करोतीत्यर्थः । नन्वेवं सर्वोत्तमो यं कमपि न भजतीति श्रुत्यादिप्रसिद्धिविरोध इत्यत उक्तम् ॥ य इति । यतः स्वपूर्णः स्वेनैव पूर्णोऽत आत्मार्थाय न भजति । किन्तु भक्तवात्सल्यस्वभावेनैव । अतोऽमुं भक्तवत्सलं कृतज्ञः पुमान् कथमुद्विसृजेत् सर्वथा परित्यजेन्न कथमपीत्यर्थः ॥ २३ ॥
भवतां वंशधुर्योऽभूद् धु्रवश्चित्ररथः स्वराट् ।
गुरुदारवचोबाणैर्निर्भिन्नहृदयोऽर्भकः ॥ २४ ॥
पदरत्नावली
भवत्पूर्वजाः सर्वेऽपि भगवद्भक्तास्तत्र ध्रुवो विशेषभक्त इति तद्भक्तिफलं किञ्चिद् विशिनष्टि– भवतामिति ॥ चित्ररथ इति ध्रुवस्य नामान्तरम् । ‘भगवत्प्रसादपात्रत्वे कोऽपि चित्ररथानुगः । यस्य प्रियश्रवाः कृष्णः स्वात्मानमपि दत्तवान् ॥’ इति विष्णुपुराणोक्तेः । रथ गताविति धातोः, चित्रा आश्चर्यभूता गतिर्यस्य स इति वा । चित्रवन्नानावर्णो रथो यस्य स इति वा । स्वमात्मानं राजयतीति स्वराट् राजान्तरवर्जितश्चक्रवर्तीत्यर्थः । गुरोः पितुर्दारा भार्याशब्दवाच्याः ॥ २४ ॥
प्रकाशिका
भवत्पूर्वजेन ध्रुवेण यो भगवानाराधितस्तस्मै विशिष्टं फलं दत्तवान् अतो भवद्भिरपि विशिष्टफलार्थं तद्भजनमेव कर्तव्यमित्याह ॥ भवतामिति । चित्रः नानावर्णो रथो यस्य स चित्ररथ इति ध्रुवस्य नामान्तरमित्याहुः । स्वयमेव राजत इति स्वराट् स च चक्रवर्तीत्यर्थः । गुरोः पितुर्दारा भार्याशब्दवाच्याः ॥ २४ ॥
त्यक्त्वा स्त्रैणं च तं गच्छन् दृष्टो मे पथ्युदारधीः ।
पञ्चवर्षो मदादेशैः संराध्य पुरुषेश्वरम् ॥ २५ ॥
पदरत्नावली
स्त्रैणं स्त्रीजितं पितरं पूजास्पदम् ॥ २५ ॥
प्रकाशिका
स्त्रैणं स्त्रीजितम् । तं पितरम् ॥ २५ ॥
तत् पदं१ सर्वधिष्ण्येभ्यो मायाधिष्ठितमारुहत् ।
मुनयोऽद्याप्युदीक्षन्ते परं नापुरवाङ् नृपाः ॥ २६ ॥
तात्पर्यम्
‘सर्वोत्तमत्वाद्विष्णुर्हि माय इत्येव शब्द्यत’२ इति व्योमसंहितायाम् । ‘देवा-नत्युत्तममुनीन्विना के शैंशुमारकम् । हरेर्ग्रहं प्रविष्टास्तु ध्रुवो देवाश्च तद्गताः’ ॥ इति मात्स्ये
॥ २६ ॥
पदरत्नावली
सर्वेषां वैमानिकानां धिष्ण्येभ्यः स्थानेभ्यः परमुत्तमम् । उत्तमत्वे कारणमाह– मायेति ॥ मायेन सर्वोत्तमेन विष्णुनाऽधिष्ठितं सन्निधाय स्थितम् । अनिर्वाच्यमायाकल्पितमित्यङ्गीकारे ‘सर्वोत्तमत्वाद् विष्णुर्हि माय इत्येव शब्दितः’ इति स्मृतिविरोधः स्यात् । तस्मिन् पक्षे माया-कल्पितमित्येव स्यात्, न त्वधिष्ठितमिति । मुनयो नृपाश्चर्वाक् स्थिता उदीक्षन्ते, परं नापुरित्यत्र देवानुत्तममुनीन् विनोत्यनुसन्धेयम् । ‘देवानत्युत्तममुनीन् विना के शैंशुमारकम् । हरेर्गृहं प्रविष्टास्तु ध्रुवो देवाश्च तद्गताः ॥’ इति वचनात् । अनेनापि मायाधिष्ठितमित्यत्र पुल्लिङ्ग एव मायशब्दोऽत्र विवक्षितो, न तु मायेत्याबन्तः ॥ २६ ॥
प्रकाशिका
तत्पदं तस्य हरेः पदम् । मायाधिष्ठितमित्यत्र माया शब्दस्यानिर्वाच्याविद्यापरत्व-प्रतीतिवारणाय विवक्षितमर्थं प्रमाणेनैव दर्शयति ॥ सर्वोत्तमत्वादिति । विष्णुरेवेति सम्बन्धः । हिशब्देन मायानां प्रधानानामयं स्वामीति मायः सर्वोत्तम इति निर्वचनं प्रसिद्धमिति सूचयति । तथा च मायेन सर्वोत्तमेन विष्णुनाऽधिष्ठितं व्यक्ततया स्थितमिति मूलं व्याख्येयमिति भावः । मुनयो यदुदीक्षन्त इत्यत्र हे नृपा मुनयोऽर्वाक् स्थिताः सन्तः परं केवलं यद्ध्रुवस्थानमुदीक्षन्ते न तु तत्र गच्छन्तीति सर्वेषां मुनीनां तत्र गमनाभावः प्रतीयते । अतोऽत्र विवक्षिततात्पर्यं प्रमाणेनैव दर्शयति ॥ देवानिति । शैंशुमारकं हरेर्गृहं ध्रुवस्थानरूपं के प्रविष्टाः । न केऽपि । तर्हि के तत्र प्रतितिष्ठन्तीत्यपेक्षायामाह ॥ ध्रुव इति । तुशब्दोऽवधारणे । ध्रुवो देवाः सर्वे । चशब्दादत्युत्तमा मुनयश्च ग्राह्याः । तथा च मूले मुनय इत्यनेनात्युत्तममुनिव्यतिरिक्ता एव ग्राह्या इत्याशयः ॥ २६ ॥
तं यूयं सर्वभूतानामन्तर्यामिणमीश्वरम् ।
रुद्रादिष्टोपदेशेन भजध्वं भवनुत्तये ॥ २७ ॥
पदरत्नावली
उपसंहरति– तमिति ॥ यस्यानुग्रहाद् ध्रुवोऽत्युत्तमस्थानमाप तमीश्वरम् ॥२७॥
प्रकाशिका
तं भवत्पूर्वजस्य ध्रुवस्य फलपद्रम् । रुद्रेणादिष्ट उपदिष्ट उपदिश्यत इत्युपदेशो मन्त्रस्तेन भवनुत्तये संसारनिवृत्तये ॥ २७ ॥
मैत्रेय उवाच–
इति प्रचेतसो१ राजन्नन्यांश्च भगवत्कथाः ।
श्रावयित्वा ब्रह्मलोकं ययौ स्वायम्भुवो मुनिः ॥ २८ ॥
तेऽपि तन्मुखनिर्यातं यशो लोकमलापहम् ।
हरेर्निशम्य तत्पादं ध्यायन्तस्तद्गतिं ययुः ॥ २९ ॥
पदरत्नावली
प्रचेतसामुक्तैव कथा कथिता नारदेन, किमन्याश्च कथा उक्ताः सन्तीति तत्राह– इतीति ॥ यद्येतत् कथितं प्रचेतसां मुक्तिप्रापकं स्यात् तर्ह्येतदुपादेयं स्यात् । तत्कथ-मित्याशङ्क्यानेनैवापेक्षितगतिरभूत् तेषामित्याह– तेऽपीति ॥ २८,२९ ॥
प्रकाशिका
प्रचेतसः कर्मभूतान् । प्रचेतसां राज्ञामित्यपि क्वचित्पाठः ॥ २८,२९ ॥
एतत् तेऽभिहितं क्षत्तर्यन्मां त्वं परिपृष्टवान् ।
प्रचेतसां नारदस्य संवादं हरिकीर्तनम् ॥ ३० ॥
पदरत्नावली
हरेः कीर्तनं यत्र स तथा ॥ ३० ॥
प्रकाशिका
हरेः कीर्तनं यस्मिन् ॥ ३० ॥
य एष उत्तानपदो मानवस्यानुवर्णितः ।
वंशं प्रियव्रतस्यापि निबोध नृपसत्तम ॥ ३१ ॥
पदरत्नावली
अत्र शुको वृत्तानुवर्णनपूर्वकमुत्तरकथां प्रतिजानीते– य एष इति ॥ अनेन शुकेनोक्तमेव विदुरायोक्तं मैत्रेयेणेति ज्ञातव्यम् ॥ ३१ ॥
प्रकाशिका
अत्र शुको वृत्तानुवर्णनपूर्वकमुत्तरकथां प्रतिजानीते ॥ य एष इति । अनेन शुकेनोक्तमेव विदुरायोक्तं मैत्रेयेणेति भावः । य एष वंशः सोऽनुवर्णितः । हे नृपसत्तम । प्रियव्रतस्यापि निबोध । वंशमिति शेषः ॥ ३१ ॥
यो नारदादात्मविद्यामधिगम्य पुनर्महीम् ।
भुक्त्वा विभज्य पुत्रेभ्य ऐश्वरं समगात् पदम् ॥ ३२ ॥
पदरत्नावली
श्रोतृजनतृप्त्यर्थं प्रियव्रतचरितं प्रस्तौति– यो नारदादिति ॥ ३२ ॥
प्रकाशिका
श्रोत्रजनतुष्ठ्यर्थं प्रियव्रतचरितं प्रस्तौति ॥ यो नारदादिति । यः प्रियव्रतः । नारदादात्मविद्यां भगवद्विषयकविद्यामधिगम्य प्राप्य पुनर्महीं भुक्त्वा पुत्रेभ्यो महीं पृथ्वीं विभज्य दत्वैश्वर्यमीश्वरसम्बन्धिपदं स्थानमगात्प्राप्तवान् ॥ ३२ ॥
इत्थं तु कौषारविणोपवर्णितां क्षत्ता निशम्याजितपादसत्कथाम् ।
प्रवृद्धभावाश्रुकलाकुलो मुनेर्दधार मूर्ध्ना चरणं हृदा हरेः ॥ ३३ ॥
पदरत्नावली
मैत्रेयोक्तहरिकथाश्रवणेन विदुरे को विशेषोऽभूद् ? अत्राह– इत्थमिति ‘नारायणोऽजितपदो वामनो मधुसूदनः । श्रीधरः शङ्कराध्यक्षो ब्रह्माध्यक्षो महानदः ॥’ इत्यभिधानम् । अजितस्य हरेः पादसत्कथां चरणविषयां कथां वा । अजितपादानां हरेरंशभूतानां विशेषावेशवतां राज्ञां वा । मुनेश् चरणं मूर्ध्ना दधार । हरेश्चरणं हृदा ॥ ३३ ॥
प्रकाशिका
मैत्रेयेणोपदिष्टः क्षत्ता किं कृतवानित्यपेक्षायामाह ॥ इत्थमिति । अजितो विष्णुः
॥ ३३ ॥
विदुर उवाच–
सोऽयं तेन महायोगिन् भवता करुणात्मना ।
दर्शितस्तमसः पारो यत्राकिञ्चनगो हरिः ॥ ३४ ॥
पदरत्नावली
नतेरष्टाङ्गत्वं द्योतयितुं मुनिं स्तौति– सोऽयमिति ॥ यत्र तमसः पारे स्थितः
॥ ३४ ॥
प्रकाशिका
यत्र तमसः पारे स्थितोऽकिञ्चनगोचरो हरिः स्थितः सोऽयं तमसः पारः ॥ ३४ ॥
श्रीशुक उवाच–
इत्यानम्य तमामन्त्र्य विदुरो गजसाह्वयम् ।
स्वानां दिदृक्षुः प्रययौ ज्ञातीनां निर्वृताशयः ॥ ३५ ॥
पदरत्नावली
स्तुत्वा नत्वा पुनः किमकार्षीद् ? अत्राह– इतीति ॥ स्वानां ज्ञातीनामिति कर्मणि षष्ठी । निर्वृताशय इत्यनेन ज्ञातव्यांशस्य पूर्तिं दर्शयति ॥ ३५ ॥
प्रकाशिका
स्वानां ज्ञातीनामिति कर्मणि षष्ठी ॥ ३५ ॥
एतद् यः शृणुयाद् राजन् राज्ञां हर्यर्पितात्मनाम् ।
आयुर्धनं यशः स्वस्ति गतिमैश्वर्यमाप्नुयात् ॥ ३६ ॥
पदरत्नावली
शुक एतस्य श्रोतुरैहिकमामुष्मिकं च फलमाह– एतद् य इति ॥ ३६ ॥
चतुर्थस्कन्धोऽयं हरिचरितरत्नावलिनिधिः ।
कथञ्चिद् व्याख्यातो हरिगुरुमहानुग्रहबलात् ॥
महान्तः प्रीयन्तामनुगुणसुलुब्धाः शुचिधियः ।
सहन्तां चावद्यं मम विवृतिमार्गे स्खलनतः ॥ १ ॥
सुमनस्सुमनोमौलौ लसन्ती मुरभिद्गले ।
पदरत्नावलिर्नाम वनमालेव राजताम् ॥ २ ॥
॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुकृतायां
चतुर्थस्कन्धे एकत्रिंशोऽध्यायः ॥
॥ इति चतुर्थस्कन्थटीका ॥
प्रकाशिका
शुक एतस्य श्रोतुः फलमाह ॥ एतद्य इति । राज्ञां चरितमिति शेषः ॥ ३६ ॥
वेदेशगुरुशिक्षातो भूयाद्यदुपतीरिता ।
चतुर्थस्कन्धतात्पर्यटिप्पणी प्रीतये हरेः ॥
**॥ इति श्रीभागवतटिप्पण्यां श्रीमद्वेदेशगुरुशिष्येण यदुपतिना विरचितायां **
चतुर्थः स्कन्धः समाप्तः ॥ ४ ॥
इति चतुर्थस्कन्धः ॥ श्रीकृष्णार्पणमस्तु ॥