३० त्रिंशोऽध्यायः

ये त्वयाऽभिहिता ब्रह्मन् सुताः प्राचीनबर्हिषः

अथ त्रिंशोऽध्यायः

विदुर उवाच–

ये त्वयाऽभिहिता ब्रह्मन् सुताः प्राचीनबर्हिषः ।

ते रुद्रगीतेन हरिं सिद्धिमापुः प्रतोष्य काम् ॥ १ ॥

पदरत्नावली

अव्यक्तस्वभावो हरिस्तपआदिसामर्थ्येन प्रसन्नो व्यक्तो भवतीत्येतद् रुद्राद्युत्त-मत्वं च निरूप्यतेऽस्मिन्नध्याये । तत्र पूर्वप्रसक्तप्रमेयं विस्तरतः श्रोतुकामो विदुरो मैत्रेयं पृच्छति– ये त्वयेति ॥ रुद्रगीतेन सदाशिवोपदिष्टेन स्तोत्रेण हरिं प्रतोष्य कां सिद्धिं पुरुषार्थरूपां प्रापुरित्यन्वयः

॥ १ ॥

प्रकाशिका

हरिं प्रतोष्य कां सिद्धिं पुरुषार्थं प्रापुः ॥ १ ॥

किं चेह नार्हन्त्यपरत्र वा सुखं कैवल्यनाथप्रियपार्श्ववर्तिनः ।

आसाद्य देवं गिरिशं यदृच्छया प्रापुः परं नूनमथ प्रचेतसः ॥ २ ॥

पदरत्नावली

विष्णुतद्भक्तभक्तानां सिद्धिरस्त्येव । सा तु कीदृशीति भावेन पृच्छतीत्याह– किं चेति ॥ तदेतत्प्रेय इति श्रुतेः कैवल्यनाथश्चासौ प्रियश्च कैवल्यनाथप्रियस्तस्य कैवल्यनाथप्रियस्य विष्णोः, कैवल्यस्य नाथः कैवल्यनाथस्तस्य कैवल्यनाथस्य प्रियो रुद्रस्तस्य वा, पार्श्ववर्तिनः समीपे वर्तमानाः पुरुषा इह लोकेऽथवाऽमुष्मिंल्लोके पुरुषार्थलक्षणं किं सुखं नार्हन्ति ? सर्वमर्हन्ति । तत्र प्रचेतसो यदृच्छया दैवेच्छया गिरिशमासाद्य परमुत्कृष्टं सुखं नूनं प्रापुरित्यन्वयः । गिरेर् ब्रह्मणः प्रसादेन शं सुखं यस्य स गिरिशः । तं ब्रह्म गिरिरित्याचक्षत इति श्रुतेः । गिरि वाचि शेत इति वा । गिरौ कैलासे शेत इति वा गिरिशः । पूर्वत्रालुक्समासः । शीङो डप्रत्ययश्च । पृ पालनपूरणयोरिति धातोः परं जगत्पालनं मुक्तिलक्षणपूर्णानन्दमुतेति । अनेन प्रचेतसो यानि योग्यानि कल्याणान्यर्हन्ति तेषु किं मुख्यमापुरिति प्रश्नतात्पर्यार्थः ॥ २ ॥

प्रकाशिका

ये लोके विष्णुभक्तभक्तास्ते ऐहिकामुष्मिकसकलपुरुषार्थभाजो भवन्त्येते तु विष्णु-भक्तोत्तमं हरं प्राप्ता अतः कीदृशीं सिद्धिं प्राप्ता इति पृच्छति ॥ किं चेहेति । कैवल्यनाथो विष्णुस्तस्य प्रिया ब्रह्माद्यास्तेषां पार्श्ववर्तिनः समीपे वर्तमानाः । तद्भक्ता इति यावत् । इह लोकेऽपरत्रामुष्मिंल्लोके किं पुरुषार्थरूपं सुखं नार्हन्ति ? सर्वमर्हन्त्येवातो प्रचेतसः गिरिशं देवं यदृच्छया हरीच्छयैवासाद्य परं पुरुषार्थं प्रापुरिति नूनं निश्चितमतः सः कीदृश इत्याशयः ॥ २ ॥

मैत्रेय उवाच–

प्रचेतसोऽन्तरुदधौ पितुरादेशकारिणः ।

जपयज्ञेन तपसा पुरञ्जनमतोषयन् ॥ ३ ॥

तात्पर्यम्

‘पुरेषु त्वञ्जनाज्जीवः पुरञ्जन इतीरितः । पुराणां जननाद्विष्णुर्व्यञ्जकत्वं तयोरपि’ ॥ इति तन्त्रभागवते ॥ ३ ॥

पदरत्नावली

जगत्पालनादिसर्वाः सिद्धीरापुरिति परिहारं वक्तुमुपक्रमत इत्याह– मैत्रेय इति । जपयज्ञेन रुद्रगीताख्यस्तोत्रयज्ञेन । पुराणां शरीराणां जननाज् जन्मना व्यञ्जयितृत्वात् पुरुञ्जनो जीवः । यतस्तपसा पुरञ्जनं जीवनामानमशोषयंस्तेन पुरञ्जनं विष्णुमतोषयन् प्रसादाभिमुखं चक्रुरित्यर्थद्वयद्योतनाय पुरञ्जनपदं प्रायोजीत्यतः पूर्वोक्तः पुरञ्जनो नात्रोच्यते । ‘पुरेषु त्वञ्जनाज्जीवः पुरञ्जन इतीरितः । पुराणां जननाद् विष्णुर्व्यञ्जकत्वं द्वयोरपि’ इति वचनात् सिद्धमिदमर्थद्वयमिति । लृतुलसानां दन्ता इचुयशानां ताल्वित्यतस्तकारशकारयोः स्थानसामीप्याद् उपूपध्मानीयानामोष्ठावित्यनुबन्धोकारस्यैकस्थानत्वाच्च वा अशोषयन्नतोषयन्निति युज्यते ॥ ३ ॥

प्रकाशिका

सर्वमपि पुरुषार्थं प्रापुरिति वक्तुमुपक्रमते ॥ प्रचेतस इति । अत्र पुरञ्जनं पूर्वोक्तराजानमतोषयन्निति प्रतीतिनिवारणाय पुरंजनशब्दं विष्णुपरतया प्रमाणेनैव निर्वक्ति ॥ पुरेष्विति । विष्णुः पुराणां जननात्पुरंजन इतीरितः । अनेन पुरमिति समुदायापेक्षयैकवचनम् । पुरं जनयतीति पुरंजन इति निर्वचनं सूचितम् । नन्वेवं पूर्वं पुरंजनशब्देन जीवग्रहणे विरोध इत्यतस्तत्र निर्वचनान्तर-मभिप्रेतमित्याह ॥ पुरेष्विति । तुशब्दोऽवधारणे । अंजनादेव व्यञ्जनादेव । अञ्जु गताविति धातोः । न जननादित्यर्थः । यथा पुरञ्जनकत्वं विष्णावेव तथा पुरेष्वंजनमपि जीव एव किं नेत्याह ॥ व्यञ्जकत्वमिति । व्यक्तीकर्तृत्वमित्यर्थः । तथा च पुरेष्वंजति व्यक्तीभवतीति पुरंजनशब्दवाच्यत्वं द्वयोरपि भवतीति भावः ॥ ततश्चायं श्लोकार्थः ॥ जपयज्ञेन रुद्रगीतस्तोत्रजपलक्षणयज्ञेन तपसा च पुरञ्जनं सर्वशरीरोत्पादकं सर्वशरीरेषु नियामकतया व्यक्तं विष्णुमतोषयन्प्रसादाभिमुखं चक्रुः ॥ ३ ॥

दिव्यवर्षसहस्रान्ते पुरुषस्तु सनातनः ।

तेषामाविरभूत् कृच्छ्रं शान्तेन शमयन् रुचा ॥ ४ ॥

सुपर्णस्कन्धमारूढो मेरुशृङ्गमिवाम्बुदः ।

पीतवासा मणिग्रीवः कुर्वन् वितिमिरा दिशः ॥ ५ ॥

पदरत्नावली

प्रचेतसां शान्तेन भगवन्निष्ठया जातयाऽनुग्रहलक्षणया रुचा तेषां कृच्छ्रं दुःखं शमयन् ॥ मणिग्रीवः कण्ठामुक्तकौस्तुभः । वितिमिरा निरस्तान्धकाराः ॥ ४,५ ॥

प्रकाशिका

तेषां कृच्छ्रं क्लेशं रुचा कान्त्या शमयन् शान्तेन सुखकरेणैव वपुषाऽऽविरभूत्

॥ ४,५ ॥

कासिष्णुना कनककर्णविभूषणेन भ्राजत्कपोलवदनो विलसत्किरीटः ।

अष्टायुधैः करवरैर्मुनिभिः सुरेन्द्रैरासेवितो गरुडकिन्नरगीतकीर्तिः ॥ ६ ॥

पदरत्नावली

कासृ दीप्तौ । भ्राजद्भ्यां राजद्भ्यां कपोलाभ्यां युक्तं वदनं यस्य स तथा । भ्राजदित्युक्त्याऽऽत्मनेपदे परस्मैपदित्वं काल्पनिकमिति ध्वनयति ॥ ६ ॥

प्रकाशिका

कासिष्णुना । कासृ दीप्ताविति धातोः । दीप्यमानेन कनकमयेन कर्णभूषणेन मकरकुण्डलेन । भ्राजद्भ्यां कपोलाभ्यां युक्तं वदनं यस्य स तथा ॥ ६ ॥

पीनायताष्टभुजमण्डलमध्यलक्ष्म्या

स्पर्धच्छ्रिया परिवृतो वनमालया यः ।

बर्हिष्मतः पुरुष आह सुतान् प्रपन्नान्

पर्जन्यनादरुतया सघृणावलोकः ॥ ७ ॥

पदरत्नावली

पीनानामायतानामष्टानां भुजानां मण्डलस्य मध्ये वक्षसि स्थितया लक्ष्म्या सह स्पर्धमानावद् वर्तमाना श्रीर्विकासलक्षणा यस्याः सा तथा । अश्ववदाचरतीत्यश्वन्नित्यादौ दर्शना-दौपचारिकोऽयं प्रयोगः । न हि हरेरपि वक्षसि स्थितयोर्लक्ष्मीवनमालयोरौत्सर्गिकी स्पर्धा सञ्जाघटीति । पर्जन्यो मेघस्तन्नादवद् रुतं ध्वनिर्यस्याः सा तथा, वाचेति शेषः । घृणया दयया सह वर्तत इति सघृणस्तादृशोऽवलोको यस्य स तथा ॥ ७ ॥

प्रकाशिका

पीनाश्चते आयता अष्टौ भुजास्तेषां मण्डलः समूहस्तन्मध्ये उरसि स्थितया लक्ष्म्या स्पर्धती स्पर्धमानेव स्थिता श्रीः शोभा यस्याः सा तया वनमालया परिवृत आद्यः पुरुषः प्रपन्नान् बर्हिष्मतः सुतानाह । पर्जन्यस्य मेघस्य नादवद्रुतं नादो यस्याः सा तया वाचा । घृणया कृपया सह वर्तत इति सघृणस्तादृशावलोको यस्य स तथा ॥ ७ ॥

श्रीभगवानुवाच –

वरं वृणीध्वं भद्रं वो यूयं मे नृपनन्दनाः ।

सौहार्देनापृथग्धर्मास्तुष्टोऽहं सौहृदेन वः ॥ ८ ॥

पदरत्नावली

सौहार्देन हेतुनाऽपृथग्धर्मा एकविषयधर्मचारिणः । तेन किं तव? तत्राह– तुष्ट इति । अतो वरं वृणीध्वमित्यर्थः ॥ ८ ॥

प्रकाशिका

सौहार्देन हेतुना हे पृथग्धर्माः शयनाशनगमनादिरूपा येषां ते तथा । अहं वः सौहृदेन परस्परं मित्रभावेन मयि भक्त्या वा तुष्टोऽस्मि । वो भद्रमस्तु मे मत्तो वरं वृणीध्वम् ॥ ८ ॥

योऽनुस्मरति सन्ध्यायां युष्माननुदिनं नरः ।

तस्य भ्रातृष्वात्मसाम्यं तथा भूतेषु सौहृदम् ॥ ९ ॥

पदरत्नावली

न केवलं मत्तो युष्माकमेव फलम् । अन्येषां भवदनुस्मर्तॄणामपि फलविशेषो भवतीत्याह– य इति ॥ यथा मत्प्रीतिहेतुर्मत्तोषकरं युष्मदपृथग्धर्मत्वस्मरणमितरेषां भ्रातृष्वात्मसाम्यफलं स्यात् तथा ॥ ९ ॥

प्रकाशिका

भ्रातृष्वात्मसाम्यं ज्ञानादिगुणैरात्मसाम्यम् । तथा चोपासकः स्वसमानगुण-कर्मादियुक्तभ्रातृमान् भवति । भूतेषु प्राणिषु सौहृदं च भविष्यति ॥ ९ ॥

ये तु मां रुद्रगीतेन सायंप्रातः समाहिताः ।

स्तुवन्त्यहं कामवरान् दास्ये प्रज्ञां च शोभनाम् ॥ १० ॥

पदरत्नावली

रुद्रगीतेन मां स्तुवद्भ्योऽपि कामवरान् दास्यामीत्याह– ये तु मामिति ॥१०॥

प्रकाशिका

तेभ्यो दास्ये । किं युष्मभ्यमिति शेषः ॥ १० ॥

यद् यूयं पितुरादेशमग्रहीष्ट मुदाऽन्विताः ।

अतो व उशती कीर्तिलोकाननुभविष्यति ॥ ११ ॥

पदरत्नावली

अन्यं च वरं दास्यामीत्याह– यद् यूयमिति ॥ अनेन विमलकीर्तिकामैः पुरुषैर्गुर्वादेशः सर्वथाऽनुष्ठेय इति शिक्षा दर्शिता ॥ ११ ॥

प्रकाशिका

अग्रहीष्ठ गृहीतवन्तः । अथो इति पाठे तस्मादित्यर्थः । उशती निर्मला । अनुभविष्यति प्राप्तो भविष्यतीत्यर्थः ॥ ११ ॥

भविता विश्रुतः पुत्रोऽनवमो ब्रह्मणो गुणैः ।

य एतामात्मवीर्येण त्रिलोकीं पूरयिष्यति ॥ १२ ॥

पदरत्नावली

सत्पुत्राभावे किं प्रयोजनं जन्मना ? ‘सोऽयं मनुष्यलोकः पुत्रेण जय्यः’ इति श्रुतेस्तत्राह– भवितेति ॥ पुत्रशब्दार्थं ध्वनयति– य एतामिति ॥ १२ ॥

प्रकाशिका

आत्मनो वीर्येण सन्तानेन ॥ १२ ॥

कण्डोः प्रम्लोचया लब्धा कन्या कमललोचना ।

तां चापविद्धां जगृहुर्भूरुहा नृपनन्दनाः ॥ १३ ॥

पदरत्नावली

अनुकूलभार्याभावे कथम् औरसपुत्रसंपदित्यतस्तत्प्राप्तिं वक्तुमुपक्रमते– कण्डोरिति ॥ प्रम्लोचया अप्सरसा मातृपितृमरणकारणयोगे तज्जातत्वात् तत्परिहारार्थमपविद्धां त्यक्तां भूरुहा वृक्षा जगृहुरित्यन्वयः ॥ १३ ॥

प्रकाशिका

अनकूलभार्याभावे कथमौरसपुत्रप्राप्तिरित्यत आह ॥ कण्डोरिति । प्रम्लोचयाऽ-प्सरसा । लब्धा उत्पादिता । तां कन्यां प्रम्लोचयैव अपविद्धां त्यक्तां भूरुहा वृक्षाः । जगृहुः । अनेन कण्डुना ऋषिणा तपसि क्रियमाणे तन्नाशार्थमिन्द्रेण प्रेषितया प्रम्लोचया मोहितः कण्डुस्तया बहुकालं रेमे सा च ततः स्वर्गं गच्छती कण्डोर्जातं गर्भं वृक्षेषु त्यक्त्वा जगाम । तदा गर्भं वृक्षाः पालयामासुरिति कथां सूचयति ॥ १३ ॥

क्षुत्क्षामाया मुखे राजा सोमः पीयूषवर्षिणीम् ।

देशिनीं रोदमानाया निदधे स दयान्वितः ॥ १४ ॥

पदरत्नावली

क्षुत्क्षामायाः श्रान्तायाः । स सोमः ॥ १४ ॥

प्रकाशिका

क्षुत्क्षामायाः श्रान्तायाः प्रसिद्धो वनस्पतीनां राजा सोमश्चन्द्रोऽमृतस्राविणीं देशिनीं तर्जनीं रुदंत्यास्तस्या मुखे निदधे ॥ १४ ॥

प्रजाविसर्ग आदिष्टाः पित्रा मामनुवर्तता ।

तत्र कन्यां वरारोहां तामुद्वहत माचिरम् ॥ १५ ॥

पदरत्नावली

प्रजाविसर्गे प्रजानां विविधसृष्टौ । ततः किम् ? अत्राह– तत्रेति ॥ तत्र तस्मिन् कार्ये कर्तव्ये सति ॥ १५ ॥

प्रकाशिका

प्रजाविसर्गे प्रजानां विविधसृष्टौ । तत्र तस्मिन्प्रजासर्गे कर्तव्ये ॥ १५ ॥

अपृथग्धर्मशीलानां सर्वेषां वः सुमध्यमा ।

अपृथग्धर्मशीलेयं भूयात् प्रत्यर्पिताशया१ ॥ १६ ॥

पदरत्नावली

बहूनामस्माकमियमेकाऽनुकूला कथं स्यात् ? अत्रापि तादृशं वरं दास्या-मीत्याह– अपृथग्धर्मशीलानामिति ॥ १६ ॥

प्रकाशिका

बहूनामस्माकं कथमेका भार्या स्यादित्यत आह ॥ अपृथगिति । अपृथग्धर्मः शीलं येषां वः पत्नी भूयात् । भवत्सु प्रत्यर्पितः समर्पित आशयो यया सा । धर्मशीलयोरैक्यान्मद्वाक्याच्च न दृष्टादृष्टविरोध इति भावः ॥ १६ ॥

दिव्यवर्षसहस्राणां सहस्रममितौजसः ।

भौमान् भोक्ष्यथ भोगान् वै दिव्यांश्चानुग्रहान्मम ॥ १७ ॥

तात्पर्यम्

दिव्यवर्षसहस्राणामिति सहस्रशब्दो बहुत्ववाची । ‘मानुषाणां वत्सराणां लक्षद्वादशकं पुरा । प्रचेतोभिरियं पृथ्वी पालिताऽव्याहतेन्द्रियैः’ ॥ इति ब्रह्माण्डे ॥ १७ ॥

पदरत्नावली

दिव्यवर्षसहस्राणामित्यत्र सहस्रशब्दो बहुलवाची । प्रतीतार्थस्य प्रमाण-विरुद्धत्वादनुपपन्नत्वात् । तदुक्तम्– ‘मनुष्याणां वत्सराणां लक्षद्वादशकं पुरा । प्रचेतोभिरियं पृथ्वी पालिताऽव्याहतेन्द्रियैः ॥’ इति ॥ १७ ॥

प्रकाशिका

दिव्यवर्षसहस्राणां सहस्रमित्यनेन देववर्षाणां दशलक्षसहस्रवर्षपर्यन्तं प्रचेतोभि राज्यपालनं कृतमित्याभाति । अतोऽत्र विवक्षितं सहस्रशब्दार्थं दर्शयति ॥ दिव्यवर्षेति । दिव्यवर्षसहस्राणामिति वाक्ये विद्यमानः सहस्रमिति शब्दार्थो योग्यबहुत्ववाचीत्यर्थः । प्रतीत एवार्थः किं न स्यादित्यतः प्रचेतसां राज्यपरिपालनकालनियमप्रतिपादकप्रमाणं पठति ॥ मनुष्याणामिति । अव्याहतेन्द्रियैरित्यनेनामितौजस इत्येतदुक्ततात्पर्यम् । इति ब्रह्माण्डे यत उक्तमतो बहुत्ववाची । अन्यथा तद्विरोध इत्याशयः । तथा च त्रयाणां दिव्यवर्षसहस्राणामुपरि सहस्रं दिव्यवर्षाणां त्रयस्त्रिंशदधिकानि त्रीणि शतानि मनुष्यवत्सराणां चतुर्विंशत्यधिकशतमित्येवं रूपं बहुकालमिति मूलार्थ इत्याशयः ॥१७॥

अथ मय्यनपायिन्या भक्त्या पक्वगुणाशयाः ।

उपयास्यथ मद्धाम निर्विद्य निरयादतः ॥ १८ ॥

पदरत्नावली

एवमैहिकं वरं दत्वा पारत्रिकं वरं ददाति– अथेति ॥ पक्वः परिपाकं प्राप्तो गुणाशयः प्राकृतान्तःकरणं येषां ते तथा । अतो निरयादस्मात् संसारात् ‘अतो निन्दाहेतुविचित्रेषु’ इत्यभिधानाच् चित्रात् पुण्यपापमिश्रितात् । ‘चित्रमालेख्यमिश्रयोः’ इत्यभिधानात् ॥ १८ ॥

प्रकाशिका

पक्वं परिपाकं प्राप्तो गुणाशयः प्राकृतान्तःकरणं येषां ते तथा । अतो निरया-न्निरयतुल्यात्संसारात् ॥ १८ ॥

गृहेष्वाविशतां चापि पुंसां कुशलकर्मणाम् ।

मद्वार्तायातयामानां न बन्धाय गृहा मताः ॥ १९ ॥

पदरत्नावली

गृहाविष्टचेतस्त्वेन पुत्रमित्रादिस्नेहबद्धानां कथं धामप्रवेशो घटत इति तत्राह– गृहेष्विति ॥ मद्वार्तया यातो गतो यामः कालविशेषो येषां ते तथा । ‘गृहाः पुंसि च भूमि्न’ इत्यमरः । जसि पुल्लिङ्गः ॥ १९ ॥

प्रकाशिका

ननु गृहेषु प्रविष्ठानामस्माकं तदासक्त्या बन्ध एव स्यादतः कथं त्वद्धामप्राप्ति-रित्यत आह ॥ गृहेष्विति । कुशलं मय्यर्पितं कर्म येषां मद्वार्तया याता गता याममः कालविशेषा येषाम् । चशब्दोऽवधारणे । नैवेत्यन्वयः ॥ १९ ॥

न व्यवह्रियते यज्ञो ब्रह्मैतद् ब्रह्मवादिभिः ।

न मुह्यन्ति न शोचन्ति न हृष्यन्ति यतो गताः ॥ २० ॥

तात्पर्यम्

यज्ञो ब्रह्म विष्ण्वाख्यं ब्रह्म यथानुभवं न व्यवह्रियते । ‘सूक्ष्मेण मनसा विद्मो वाचा वक्तुं न शक्नुमः’ इति भारते ॥ २० ॥

पदरत्नावली

ननु भगद्वार्ता संसारच्छेदिनी यदि तर्हि सर्वेऽपि किं न मुक्ताः ? तस्याः सुलभत्वादिति तत्राह– न व्यवह्रियत इति ॥ यतो यस्य हरेः प्रसादाद् गताः सूक्ष्मेण मनसाऽव-गच्छन्तो जानन्तो ये विपदि न मुह्यन्ति न शोचन्ति, संपदि न हृष्यन्ति, तैर्ब्रह्मवादिभिरप्येतद्यज्ञो ब्रह्म विष्ण्वाख्यं ब्रह्म यथानुभवं न व्यवह्रियत इत्यन्वयः । अतो मद्वार्ताया असुलभत्वान्न सर्वेषां मुक्तिरित्यर्थः । ‘ब्रह्मवादिभिर्भवद्भिर्गृहेऽपि यज्ञो निजकर्म न व्यवच्छिद्यते यतो भवन्तो मदाज्ञया गृहगता न मोहादिकं कुर्वन्तीत्येवमादि मयोपदिष्टमेतद् रहस्यं तस्मान्मा शोचत’ इत्यपव्याख्यानं ‘सूक्ष्मेण मनसा विद्मो वाचा वक्तुं न शक्नुमः’ इति वचनेन निरस्तमिति ज्ञायते । यज्ञपदस्य निजकर्मार्थत्वं ब्रह्मपदस्य रहस्यार्थत्वं च न व्यवच्छिद्यत इति ग्रन्थव्यत्यासश्च संप्रदायापरिज्ञानविजृम्भितं चेति । यज्ञो विष्णुर्देवता, ब्रह्मविदाप्नोति परमिति सूचनाय– ब्रह्मवादिभिरिति ॥ प्रसिद्धयज्ञपरिहाराय– ब्रह्मेति ॥ विप्रादिव्यावृत्तये– यज्ञ इति ॥ २० ॥

प्रकाशिका

ननु भगवद्वार्ता संसारच्छेदिनी चेत्तर्हि तस्याः सुलभत्वात्सर्वेऽपि कुतो न मुच्यन्त इत्यत आह ॥ न व्यवह्रियत इति । अत्र यज्ञस्य क्रियारूपत्वात्कथं यज्ञो ब्रह्मेति सामानाधि-करण्यमित्याशङ्कापरिहाराय तदनूद्य व्याख्याति ॥ यज्ञो ब्रह्मेति । विष्ण्वामित्यनेन यज्ञशब्दो विष्णुपरो न क्रियापर इति सूचयति । ब्रह्मवादिभिर्ब्रह्म न व्यवह्रीयत इति व्याहतोऽतोऽत्रापेक्षितमध्याहृत्य योजयति ॥ यथाऽनुभवमिति । अत्र प्रमाणमाह ॥ सूक्ष्मेणेति । सूक्ष्मविषयकेन मनसा योग्यतानुसारेण जानीमो विद्मः । तथाऽपि यथाऽनुभवं वक्तुं न शक्नुम इत्यर्थः ॥ ततश्चायं श्लोकार्थः । यतो यस्मिन्विषये गता योग्यतानुसारेण अवगतवन्तः । विपदि न मुह्यन्ति न शोचन्ति । सम्पदि न हृष्यन्ति । तदेतद्यज्ञो ब्रह्म विष्ण्वाख्यं ब्रह्म ब्रह्मवादिभिर्यथाऽनुभवं न व्यवह्रीयते । अतो मोचिकाया मद्वार्ताया असुलभत्वान्न सर्वेषां मुक्तिरिति भावः । यज्ञविद्याऽपि ब्रह्मपरेति सूचयितुं यज्ञ इत्युक्तम् ॥ २० ॥

मैत्रेय उवाच–

एवं ब्रुवाणं पुरुषार्थभाजनं जनार्दनं प्राञ्जलयः प्रचेतसः ।

तद्दर्शनध्वस्ततमोरजोमला गिराऽगृणन् गद्गदया सुहृत्तमम् ॥ २१ ॥

पदरत्नावली

प्रचेतोभिरेवं भगवतो मतमवाप्य स्वपरहितं किमकारीति तत्राह– एवमिति

॥ २१ ॥

प्रकाशिका

पुरुषार्थं भाजयति प्रापयतीति तथा तम् ॥ २१ ॥

प्रचेतस ऊचुः–

नमो नमः क्लेशविनाशनाय निरूपितोदारगुणाह्वयाय ।

मनोवचोवेगपुरोजवाय सर्वाक्षमार्गैरगताध्वने नमः ॥ २२ ॥

पदरत्नावली

स्तुतिः प्रेक्षावच्चित्तहर्षिणी चेदुपादेया स्यादन्यथेत्थं बधिरवदप्रयोजकीत्यतोऽपि ग्राह्यगुणविशिष्टमाहुरित्याह– नमो नम इति ॥ निरूपितोदारगुणाह्वयाय निरूपिता उदारगुणा येषां ते तथा महागुणा आह्वया नामानि यस्य स तथा तस्मै । मनोवचोवेगपुरोजवाय वाङ्मनसवेगमतीत्य वर्तमानवेगाय । ‘तद्धावतोऽन्यानत्येति’ इति श्रुतेः । सर्वाक्षाणां सर्वेन्द्रियाणां मार्गैर्निर्मार्गणैरगताध्वनेऽ-ज्ञातमार्गाय ॥ २२ ॥

प्रकाशिका

निरूपिताः प्रतिपादिता उदारगुणा यैस्ते तथाविधा आह्वया नामानि यस्य तस्मै । वाङ्मनसोर्वेगादपि पुरोग्रतो जवो वेगो यस्य मनोवचसोरगोचरायेत्यर्थः । अत एव सर्वेषामक्षाणां मार्गैरगतोऽनवगतोऽध्वा यस्य तस्मै नमः ॥ २२ ॥

शुद्धाय शान्ताय नमः स्वनिष्ठमनस्यपार्थे विलसद्द्वयाय ।

नमो जगत्स्थानलयोदयेषु गृहीतमायागुणविग्रहाय ॥ २३ ॥

तात्पर्यम्

सु अनिष्ठमनसि । ‘अनवस्थितबुद्धीनां द्वितीयं दृश्यते हरेः । १सम्यक्स्वस्थि-तबुद्धीनामिदं सर्वं हरेर्वशे’ ॥ इति च । ‘नित्यं गृहीताः सत्वाद्या विग्रहाश्च त्रयः सदा । ज्ञानानन्दात्मकास्ते तु विग्रहा निर्गुणास्तथा । द्वौ तत्र ब्रह्मरुद्रस्थावेको वैकुण्ठधामगः’ इति प्रवृत्तसंहितायाम् ॥ २३ ॥

पदरत्नावली

शुद्धायेत्यदशुद्धाक्षाज्ञेयत्वे लिङ्गम् । शान्ताय पूर्णानन्दस्वभावाय । अपगतोऽ-पेक्षितोऽर्थो यस्मात् तदपार्थं, तस्मिन् सुष्ठु निष्ठा व्यवस्था यस्य नास्ति तत् स्वनिष्ठं, संशयात्मक-मित्यर्थः । तच्च मनः स्वनिष्ठमनः, तस्मिन् समाधानरहिते मनसि विलसद्द्वयाय प्रकटितस्वतन्त्र-वस्तुद्वयाय । ‘अनवस्थितबुद्धीनां द्वितीयं दृश्यते हरेः । सम्यक् सुस्थितबुद्धीनामिदं सर्वं हरेर्वशे ॥’ इति वचनादुक्त एवार्थो, न तु प्रकटितप्रपञ्चरूपायेति । नित्यं गृहीता मायाया गुणाः प्रकृतेः सत्त्वादिगुणाः, सत्त्वादिगुणप्रवर्तनानुगुणाः सत्त्वादिगुणरहिता ज्ञानानन्दात्मकविग्रहा ब्रह्मादिशब्दवाच्याश्च येन स तथा तस्मै । ‘नित्यं गृहीताः सत्त्वद्या विग्रहाश्च त्रयः सदा । ज्ञानानन्दात्मकास्ते तु विग्रहा निर्गुणास्तथा ॥ द्वौ तत्र ब्रह्मरुद्रस्थावेको वैकुण्ठधामगः ॥’ इति वचनान्न प्रकृतिगुणविरचितदेहत्वं हरेरङ्गीकर्तुं युक्तम्

॥ २३ ॥

प्रकाशिका

शान्तायाक्रूराय सुखपूर्णायेति वा ॥ स्वनिष्ठमनसीति । अत्र स्वनिष्ठे स्वाश्रिते मनस्यपार्थं यथा स्यात्तथा विलसद्द्वयायेतीश्वरस्य भ्रान्तित्वमुच्यत इति भाति । अतोऽत्र विवक्षितं छेदं दर्शयन् व्याख्याति ॥ सु अनिष्टेति । ततश्च सु सम्यगनिष्टे स्वस्मिन्ननवस्थिते जनानां मनसीति मूलार्थ इत्याशयः । अपार्थे विलसद्द्वयायेत्यनेन द्वितीयस्य जगतोऽसत्वमुच्यत इति भाति । अतोऽत्र विवक्षित-मर्थं प्रमाणेनैव दर्शयति ॥ अनवस्थितेति । अनेन स्वनिष्ठमनसीत्यस्योक्तव्याख्यानमपि प्रमापितमिति ज्ञातव्यम् । द्वितीयं स्वतन्त्रं हरेः सकाशात् । हरेर्वशे दृश्यत इत्यन्वयः । गृहीतमायागुणविग्रहायेत्यत्र प्रकृतिगुणानां सत्त्वादीनां ब्रह्मविष्णुरुद्राख्यानां विग्रहाणां च ग्रहणं कादाचित्कमिति प्रतीयतेऽतोऽत्र विवक्षितं तात्पर्यं प्रमाणेनैव दर्शयति ॥ नित्यं गृहीता इति । सदा गृहीतास् ते विग्रहास्तु विशेषेण ज्ञानानन्दात्मकाः । निर्गुणा गुणविकाररहिताः । ब्रह्मरुद्रस्थौ ब्रह्मरुद्रदेहस्थौ तन्नामानावेकोऽन्यो विष्णुनामा ॥ ततश्चायं श्लोकार्थः ॥ अशुद्धबुद्धीनां जनानां सु अनिष्टमनसि सम्यक् स्वात्मन्यनवस्थिते मनस्यपार्थेऽपगतोऽर्थो यथा स्यात्तथा विलसत्प्रतीयमानं द्वयं द्वितीयं स्वतन्त्रं यस्मात्स तथा तस्मै । स्थानं स्थितिर्लयः संहार उदय उत्पत्तिस्तदर्थं गृहीता नित्यं गृहीता अपि स्वकार्योन्मुखीकृतायाः प्रकृतेर्गुणाः सत्त्वाद्या विष्ण्वादिनामकास्त्रयो विग्रहाश्च येन ॥ २३ ॥

नमो विशुद्धसत्त्वाय हरये हरिमेधसे ।

वासुदेवाय कृष्णाय प्रभवे सर्वसात्वताम् ॥ २४ ॥

नमः कमलनाभाय नमः कमलमालिने ।

नमः कमलपादाय नमस्ते कमलेक्षण ॥ २५ ॥

तात्पर्यम्

‘हरणाज्ज्ञानरूपत्वाद्धरिमेधा विभुः स्मृतः’ । इति च ॥ २४ ॥

पदरत्नावली

विशुद्धश्चायं सत्वः सर्वगुणात्मकश्च विशुद्धसत्त्वस्तस्मै । ‘हरिः सर्वगुणात्मक-त्वात् सत्व इत्यभिधीयते’ इति वचनाद् रजआदिमिश्ररहितसत्वगुणायेत्यर्थो नोचितः । ‘हरणाज् ज्ञानरूपत्वात् हरिमेधा विभुः स्मृतः’ इत्यतः पापहरणाज् ज्ञानरूपत्वाद्धरिमेधाः । सृष्टौ रजःसंपर्कात् कपिलवर्णज्ञान इत्यर्थो न ग्राह्यः, ‘‘हरिर्ना कपिले त्रिष्वि’त्यभिधानात् । अतो गदित एवार्थः । तस्मै

॥ २४,२५ ॥

प्रकाशिका

विशुद्धसत्त्वाय निर्दोषज्ञानबलरूपाय हरिमेधस इत्यस्य विवक्षितमर्थं प्रमाणेनैव दर्शयति ॥ हरणादिति । तथा च भक्तानां पापहरणाद्धरिः । ज्ञानरूपत्वान्मेधाः । हरिश्चासौ मेधाश्च हरिमेधास्तस्मा इति मूलार्थ इत्याशयः ॥ २४,२५ ॥

नमः कमलकिञ्जल्कपिशङ्गामलवाससे ।

सर्वभूतनिवासाय नमोऽयुङ्क्ष्महि साक्षिणे ॥ २६ ॥

पदरत्नावली

अयुङ्क्षमहि नमस्काराख्यं योगमकार्ष्म ॥ २६ ॥

प्रकाशिका

नमो नमस्कारम् । अयुंक्ष्महि त्वत्सम्बन्धमकार्ष्म ॥ २६ ॥

रूपं भगवता त्वेतदशेषक्लेशसङ्क्षयम् ।

आविष्कृतं नः क्लिष्टानां किमन्यदनुकम्पया ॥ २७ ॥

पदरत्नावली

अनुकम्पया भवताप्येतद्रूपमाविष्कृतम् । अन्यत् किम्, अस्मदनुकम्पां विना ? न किमपीत्यर्थः ॥ २७ ॥

प्रकाशिका

यदुक्तं वरं वृणीध्वमिति तत्रोत्तरमाहुः ॥ रूपमिति । अशेषाणां समस्तानां क्लेशानां सङ्क्षयो यस्मान्नोऽनुकम्पयाऽऽविष्कृतं प्रकटितम् । अतोऽन्यत्किं न किमपि । एतादृश्यानु-कम्पैवास्माभिः प्रार्थ्येत्याशयः ॥ २७ ॥

एतावत्त्वं हि विभुभिर्भाव्यं दीनेषु वत्सलैः ।

यदनुस्मर्यते काले स्वबुद्ध्याऽभद्ररन्धन ॥ २८ ॥

पदरत्नावली

अभद्ररन्धन पापदहन ॥ २८ ॥

प्रकाशिका

कुत इत्यत आह ॥ एतावदिति । हे अभद्ररन्धन पापदहन । दीनेषु वत्सलै-र्विभुभिः प्रभुभिः काले भक्तानां क्लेशकाले प्राप्त्या स्वबुद्ध्या प्रार्थनाद्यभावेऽपि अयं रक्षणीय इति स्वबुद्ध्या भक्तोऽनुस्मर्यत इति यत् । एतावत्त्वमेतादृशधर्मवत्त्वं तेषां भाव्यं प्रसिद्धमेतदित्यर्थः ॥ २८ ॥

येनोपशान्तिर्भूतानां क्षुल्लकानामपीहितम् ।

अन्तर्हितोऽन्तर्हृदये कस्मान्नो वेद नाशिषः ॥ २९ ॥

पदरत्नावली

यदुक्तं हरिणा वरं वृणीध्वमिति तत्राहुरित्याह– येनेति ॥ क्षुल्लकाना-मल्पकानामपि भूतानामन्तर्हृदये अन्तर्हितस्त्वं तेषामीहितं चेष्टितं चावैषि । येन तस्मान् न आशिषः कस्मान्न वेद ? अपि तु वेदैवेत्यन्वयः ॥ २९ ॥

प्रकाशिका

येनेहितेन क्षुल्लकानामल्पानामपि भूतानामुपशान्तिः सुखं भवति तदीहितमिष्ट-मन्तर्हृदयेऽन्तर्हितोऽप्रत्यक्षः सन् भगवान्वेदातो नोऽस्माकमाशिषो मनोरथान्कस्मान्न वेद । अपि तु जानास्येवेत्यर्थः ॥ २९ ॥

असावेव वरोऽस्माकमीप्सितो जगतां पते ।

प्रसन्नो भगवानेषामपवर्गगुरुर्गतिः ॥ ३० ॥

पदरत्नावली

त्वत्प्रसादादन्यो वरो न प्रार्थनीय इत्याहुरित्याह– असाविति ॥ एषामस्माकं भगवान् प्रसन्नः । असौ भगवत्प्रसाद एवेप्सितो वरो नान्य इत्यन्वयः ॥ ३० ॥

प्रकाशिका

अस्माकं त्वत्प्रसादादन्यो वरो न प्रार्थनीय इत्याहुः ॥ असावेवेति । येषामस्माकं भवान्प्रसन्नोऽसौ प्रसन्नो भगवानेवास्माकमीप्सितो वरो नान्य इत्यन्वयः । कीदृशः । अपवर्ग-गुरुर्मोक्षमार्गोपदेष्टा । गम्यत इति गतिः ॥ ३० ॥

वरं वृणीमहेऽथापि नाथ त्वत् परतः परात् ।

न ह्यन्तस्त्वद्विभूतीनां योऽनन्त इति गीयते ॥ ३१ ॥

पदरत्नावली

यद्यपि भगवत्प्रसाद एवेप्सितो वरस्तथापि परतः परात् त्वत् सङ्गतिलक्षणं वरं वृणीमह इत्यन्वयः । परतः परत्वमुपपादयति– न हीति ॥ ‘नान्तोऽस्ति मम दिव्यानां विभूतीनां परन्तप’ ‘अतो अनन्तेन तथा हि लिङ्गं’ ‘परो मात्रया’ इत्यादि प्रमाणात् ॥ ३१ ॥

प्रकाशिका

यद्यपि त्वत्प्रसाद एव प्रार्थ्योऽथापि । हे नाथ । त्वत् त्वत्तः सुसङ्गगतिलक्षणं वरं वृणीमहे । कथं भूतात् । परतो रमादेरपि परात् । परतः परत्वमुपपादयति ॥ न हीति । अत एव स त्वमनन्त इति गीयसे ॥ ३१ ॥

पारिजातेऽञ्जसा लभ्ये सारङ्गोऽन्यन्न सेवते ।

त्वदङ्घ्रिमूलमासाद्य साक्षात् किं किं वृणीमहे ॥ ३२ ॥

पदरत्नावली

यतस्त्वमेवानन्तोऽतोऽन्यस्मान्मनसा वराभिलाषो नास्त्येवेति भावेनाह– पारिजात इति ॥ लुप्तोपममेतत् । यथा पारिजाते पुष्पेऽञ्जसा तत्वेन लभ्ये लब्धुं योग्ये सारङ्गो भृङ्गोऽन्यच्चम्पकादिपुष्पं न सेवते तथा साक्षात् त्वदङ्घ्रिमूलमवाप्यन्यदभीष्टं किं किं वृणीमहे ? न किमपीत्यन्वयः ॥ ३२ ॥

प्रकाशिका

वक्ष्यमाणादन्यं वरं न वृणीमह इत्याशयेनाह ॥ पारिजात इति । लुप्तोपममेतत् । यथा पारिजाते पुष्पेंऽजसा तत्त्वेन लभ्ये लब्धुं योग्ये सारङ्गो भ्रमरोऽन्यच्चंपकादिपुष्पं न सेवते सर्वपुष्परसानां कल्पवृक्षपुष्प एव लाभात् । तथा साक्षात्त्वदङ्घ्रिमूलमासाद्य किमन्यत्पुरुषार्थं किं किमर्थं वृणीमहे । सर्वेषां त्वदंघ्रिमूलप्राप्त्यैव लाभादित्याशयः ॥ ३२ ॥

यावत् ते मायया स्पृष्टा भ्रमाम इह कर्मभिः ।

तावद् भवत्प्रसङ्गानां सङ्गः स्यान्नो भवे भवे ॥ ३३ ॥

पदरत्नावली

माभूदन्यतो वराभिलाषः । अस्मत्तः कोऽसौ वर इति तत्राह– यावदिति ॥ भवतः प्रसङ्गो येषां ते भवत्प्रसङ्गास्तेषाम् ॥ ३३ ॥

प्रकाशिका

एवमन्यदप्रार्थ्यमित्युक्त्वेदानीं वरणीयं वरमाहुः ॥ यावत्त इति । स्पृष्टाः सम्बद्धाः सन्तो भवतः प्रकृष्टः सङ्गो येषां तेषां सङ्गो नोऽस्माकं भवेज् जन्मनि जन्मनि ॥ ३३ ॥

तुलयाम लवेनापि न स्वर्गं नापुनर्भवम् ।

भगवत्सङ्गिसङ्गस्य मर्त्यानां किमुताशिषः ॥ ३४ ॥

पदरत्नावली

सत्सङ्गो वाच्छनीय इति भावेनाह– तुलयामेति ॥ ३४ ॥

प्रकाशिका

सत्सङ्गस्य श्रैष्ठ्यमुपपादयति ॥ तुलयामेति चतुर्भिः । भगवत्सङ्गिनां सङ्गस्य लवेनापि ॥ ३४ ॥

यत्रेड्यन्ते कथा मृष्टास्तृष्णायाः प्रशमो यतः ।

निर्वैरं यत्र भूतेषु नोद्वेगो यत्र कश्चन ॥ ३५ ॥

यत्र नारायणः साक्षाद् भगवान् न्यासिनां गतिः ।

प्रस्तूयते सत्कथासु मुक्तसङ्गैः पुनः पुनः ॥ ३६ ॥

पदरत्नावली

सत्सङ्गतावेते गुणा लभ्यन्त इत्याह– यत्रेति ॥ ३५ ॥

प्रकाशिका

विषयेषु तृष्णाया निर्वैरं वैराभावः ॥ ३५, ३६ ॥

तेषां विचरतां पद्भ्यां तीर्थानां पावनेच्छया ।

भीतस्य किं न रोचेत तावकानां समागमः ॥ ३७ ॥

पदरत्नावली

रुच्यभावे कथं घटत इति तत्राह– तेषामिति ॥ तीर्थानां पावनेच्छया पद्भ्यां तीर्थानि विचरतां तावकानां समागमः संसाराद् भीतस्य पुंसो न रोचेत किम् ? रोचत एवेत्यन्वयः । संसाररोगपरिहारौषधपानसम्भवादत्र रुचिर्जायत इत्यर्थः ॥ ३७ ॥

प्रकाशिका

तीर्थानां पावनेच्छया पद्भ्यां तीर्थानि विचरतां तावकानां समागमः संसाराद्भीतस्य पुंसो न रोचेतेति न किन्तु रोचत एव । तेषां विचरतामित्यस्य तीर्थयात्राव्याजेन स्वयमेव प्राप्ता-नामित्याशयः ॥ ३७ ॥

वयं तु साक्षाद्भगवत्प्रियस्य प्रियस्य सख्युः क्षणसङ्गमेन ।

सुदुश्चिकित्सस्य भवस्य मृत्योर्भिषक्तमं त्वाऽद्य गतिं गताः स्मः ॥ ३८ ॥

यन्नः स्वधीतं गुरवः प्रसादिता विप्राश्च वृद्धाश्च सदानुवृत्त्या ।

आर्या ह्यनाथाः सुहृदो भ्रातरश्च सर्वाणि भूतान्यनसूययैव ॥ ३९ ॥

पदरत्नावली

सत्सङ्गफलमनुभवसिद्धं चेत्याहुरित्याह– वयं त्विति ॥ भगवान् प्रियो यस्य स तथा, तस्य तव प्रियस्य सख्युः संहारादौ सहकारिणः शिवस्य । मृत्योर्मारकस्य । भिषक्तमं वैद्यश्रेष्ठम् ॥ वेदाध्ययनादिपुण्यं यत् तत्सर्वं भवत्प्रसादजनकमस्त्विति निवेदयन्तीत्याह– यन्न इति ॥ सुष्ठु अधीतं वेदाध्ययनम् । अनाथा मृतभर्तृकाः ॥ ३८,३९ ॥

प्रकाशिका

सत्सङ्गफलमस्माभिरेवानुभूतमित्याहुः ॥ वयं त्विति । भगवान्प्रियो यस्य स तथा तस्य तव सख्युर्भवस्य रुद्रस्य । भवस्य संसारलक्षणस्य मृत्योर्मारकस्य व्याधेरित्यर्थः । भिषक्तममतिशयेन चिकित्सकं वैद्यं त्वा त्वां गतिं गम्यं गताः प्राप्ताः । स्मेति स्वानुभवप्रसिद्धिं प्रमाणयति ॥ ३८,३९ ॥

यन्नः सुतप्तं तप एतदीश निरन्धसां कालमदभ्रमप्सु ।

सर्वं तदेतत् पुरुषस्य भूम्नो वृणीमहे ते परितोषणाय ॥ ४० ॥

पदरत्नावली

निरन्धसां त्यक्तपितृदत्तान्नानाम् । त्यक्तसर्वथान्नानां वा । अदभ्रमनल्पम् ॥४०॥

प्रकाशिका

वरान्तरमपि वृणुते ॥ यन्न इति द्वाभ्याम् । निरन्धसां निरन्नानाम् । अदभ्रमनल्पम्

॥ ४० ॥

मनुः स्वयंभूर्भगवान् भवश्च येऽन्ये तपोज्ञानविशुद्धसत्त्वाः ।

अदृष्टपारा अपि यन्महिम्नः स्तुवन्त्यथो त्वाऽऽत्मसमं गृणीमः ॥ ४१ ॥

पदरत्नावली

ननु ब्रह्मादिवत् परिच्छिन्नत्वे पूर्वोक्तानन्तत्वं न युज्यते । अपरिच्छिन्नत्वे स्तुतिर्न घटत इति तत्राह– मनुरिति ॥ यन्महिम्नः पारमदृष्टवन्तोऽपि ब्रह्मादयो वेदाद्युक्तानुसारेण यद् यथा त्वां स्तुवन्ति अथो तथा वयमप्यात्मबुद्धिसमं गृणीम इत्यन्वयः ॥ ४१ ॥

प्रकाशिका

अज्ञानिनामप्यस्माकं त्वत्स्तुतिर्न युक्तेत्याहुः ॥ मनुरिति । यस्य तव महिम्नो न दृष्टं पारं यैस्तेऽपि त्वामात्मसमं स्वशक्त्यनुरूपं स्तुवन्ति । अथो तस्माद्वयमप्यात्मसमं गृणीमः ॥४१॥

नमः समाय शुद्धाय पुरुषाय पराय च ।

वासुदेवाय सत्वाय तुभ्यं भगवते नमः ॥ ४२ ॥

तात्पर्यम्

‘हरिः सर्वगुणात्मत्वात्सत्व इत्यभिधीयते’ । इति षाड्गुण्ये ॥ ४२ ॥

पदरत्नावली

आत्मसममित्युक्त्या प्रचेतसां बुद्धीनामस्मद्बुद्धितो महागुणितत्वात् तदुक्त-स्तुतिपदानामनेकार्थत्वेनास्मद्बुद्ध्यविषयत्वेन नास्माभिस्तदर्थकथनाय प्रयत्नः क्रियते । किन्तु व्याख्यानप्रतिज्ञाभङ्गपरिहाराय प्रतीतोऽर्थः कथ्यते । तथा हि, समाय वैषम्यनैघृण्यरहिताय । सहिता मा लक्ष्मीर्यस्य स समस्तस्मा इति वा । शुद्धाय निरञ्जनाय । ‘यदयं पाप्मन उत्सस्तस्मात् पुरुषो नाम’ इति श्रुतेः समस्तपापविनाशाय । परायोत्कृष्टाय । वासुदेवाय बलज्ञानात्मकमुख्यप्राणप्रवर्तकाय । सर्व-माच्छाद्यातिक्रम्य दीव्यतीति वासुदेवस्तस्मै । सत्त्वाय पराक्रमरूपाय, भगवते सौभाग्यरूपाय ऐश्वर्यादिगुणवते वा ॥ ४२ ॥

प्रकाशिका

भक्त्युद्रेकात्पुनर्नमन्ति ॥ नम इति । समाय सर्वत्रैकप्रकाराय वैषम्यनैर्घृण्य-रहितायेति वा । लक्ष्म्यासहितायेतिवा । अत्र सत्त्वायेत्यस्य विवक्षितमर्थं प्रमाणेनैव दर्शयति ॥ हरिरिति । तथाच सत्त्वाय सर्वगुणात्मने इति मूलं व्याख्येयमिति भावः ॥ ४२ ॥

मैत्रेय उवाच–

इति प्रचेतोभिरभिष्टुतो हरिः प्रीतस्तथेत्याह शरण्यवत्सलः ।

अनिच्छतां यानमतृप्तचक्षुषां ययौ स्वधामानपवर्गविक्रमः ॥ ४३ ॥

पदरत्नावली

हरेः स्वधामप्रयाणमाह– इतीति ॥ यानं गमनम् । अनपवर्गविक्रमो अविनष्ट-पराक्रमः । अनेन कर्मणामपि नित्यत्वमसूचीति ज्ञायते ॥ ४३ ॥

प्रकाशिका

यानं गमनमनिच्छतां सतामनपवर्गविक्रमोऽविनष्टपराक्रमः गां महीम् ॥ ४३ ॥

अथ निर्याय सलिलात् प्रचेतस उदन्वतः ।

वीक्ष्याकुप्यन् द्रुमैश्छन्नां गामारोढुमिवोत्थितैः ॥ ४४ ॥

पदरत्नावली

इदानीं प्रचेतसां विक्रमविशेषं वक्तुमुपक्रमते– अथेति ॥ गां भूमिम् ॥ ४४ ॥

प्रकाशिका

प्रचेतस उदन्वतः सिन्धोः सलिलान्निर्याय निर्गत्य गां स्वर्गमारोढुमिवोत्थितैर्द्रुमैर्गां महीं छेन्नां वीक्ष्य द्रुमेभ्यो ऽकुप्यन् । तदा प्राचीनबर्हिषः प्रव्रजितत्वादराजके कर्षणाद्यभावाद् द्रुमैर्भूमिश् छन्नाऽभूदिति ज्ञातव्यम् ॥ ४४ ॥

ततोऽग्निमारुतौ राजन्नमुञ्चन् मुखतो रुषा ।

महीं निर्वीरुधं कर्तुं सांवर्तक इवाप्यये ॥ ४५ ॥

पदरत्नावली

अप्यये प्रलये । सांवर्तकः प्रलयकालीनोऽग्निः ॥ ४५ ॥

प्रकाशिका

निर्गता वीरुधो यस्याः सा तथाभूतां कर्तुं सांवर्तकः प्रलयकालाग्निरिवाप्यये प्रलये

॥ ४५ ॥

भस्मसात् क्रियमाणांस्तान् द्रुमान् वीक्ष्य पितामहः ।

आगतः शमयामास पुत्रान् बर्हिष्मतो नयैः ॥ ४६ ॥

पदरत्नावली

ब्रह्मणाऽऽगत्य क्रियमाणं तत्क्रोधशमनप्रकारमाह– भस्मसादिति ॥ नयैर्युक्तिभिः ॥ ४६ ॥

प्रकाशिका

नयैर्युक्तिभिः ॥ ४६ ॥

तत्रावशिष्टा ये वृक्षा भीता दुहितरं तदा ।

आजह्रुस्ते प्रचेतोभ्य उपदिष्टाः स्वयंभुवा ॥ ४७ ॥

पदरत्नावली

प्रीतिकरणं विना केवलं नयैरेव कोपशान्तिः कथमभूदिति तत्राह– तत्रेति

॥ ४७ ॥

प्रकाशिका

आजह्रुः समर्पयामासुः ॥ ४७ ॥

ते च ब्रह्मण आदेशान्मारिषामुपयेमिरे ।

यस्यां महदवज्ञानादजन्यजनयोनिजः ॥ ४८ ॥

पदरत्नावली

प्रतिपक्षभूतैर्वृक्षैर्दीयमानं कन्यादानं निःशङ्कं कथं सङ्गच्छत इति तत्राह– ते चेति ॥ आप्तत्वे ब्रह्मणो वचनं कारणमित्यर्थः । वन्ध्या चेत् किमित्युपनयन(उपयमन)मकार्षुरिति तत्राह– यस्यामिति ॥ न जायत इत्यजनो विष्णुः । स एव योनिरुत्पत्तौ कारणं यस्य सोऽजनयोनि-र्ब्रह्मा । तस्माज्जातोऽजनयोनिजो दक्षः । अजनि जज्ञे । तामुपयेमिर इत्यन्वयः । महतो रुद्रस्यावज्ञानान् निन्दनात् ॥ ४८ ॥

प्रकाशिका

मारिषां तन्नामिकाम् । अजनयोनिर्ब्रह्मा तस्माज्जातो दक्षो महतो महारुद्र-स्यावज्ञानान्निंदात् । अजनि जज्ञे । तामुपयेमिरे । ब्रह्मपुत्रस्यापि क्षत्रिययोनिजनने महादेवावज्ञैव कारणमित्याशयः ॥ ४८ ॥

चाक्षुषे त्वन्तरे प्राप्ते प्राक्सर्गे कालविप्लुते ।

यः ससर्ज प्रजा इष्टाः स दक्षो दैवचोदितः ॥ ४९ ॥

पदरत्नावली

तज्जन्मप्रयोजनमाह– चाक्षुष इति ॥ प्राक्सर्गे पूर्वसृष्टौ कालेन विप्लुते नष्टायाम् । दैवेन विष्णुना ब्रह्मणा च चोदितः । चुद प्रेरण इति धातुः ॥ ४९ ॥

प्रकाशिका

तज्जन्मप्रयोजनमाह ॥ प्राक् सर्गे पूर्वसृष्टौ कालेन विप्लुते नष्टे दैवेन हरिणा ब्रह्मणा चोदितः ॥ ४९ ॥

यो न्यक्चकार सर्वेषां तेजस्तेजस्विनां रुचा ।

स्वयोग्योपात्तदाक्ष्याच्च कर्मणा दक्षमब्रुवन् ॥ ५० ॥

पदरत्नावली

किंनामऽयं जात इति निरुक्तिपूर्वकं तन्नामाह– य इति ॥ स्वयोग्योपात्त-दाक्ष्यात् स्वयोगसामर्थ्येन प्राप्तपदत्वात् ॥ ५० ॥

प्रकाशिका

तस्य दक्षनामप्रवृत्तौ निमित्तमाह ॥ यो न्यक्तकारेति । कर्मणा स्वयोग्यो-पात्तदाक्ष्याच्च स्वयोग्यतानुसारेण प्राप्तकौशलाच्चेत्यर्थः । अब्रुवन् । ब्रह्मादय इति शेषः ॥ ५० ॥

तं प्रजासर्गरक्षायामनादिर्भगवानजः ।

युयोज युयुजुस्तं वै सर्वेऽन्ये च प्रजेश्वराः ॥ ५१ ॥

पदरत्नावली

इदं च तन्नामकरणे लिङ्गमिति भावेनाह– तं प्रजेति ॥ अनादिर्ब्रह्मा । प्रजेश्वरा मरीच्यादयः । युयुजुरन्वाधानलक्षणं योगमकुर्वन्निति ॥ ५१ ॥

॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुकृतायां

चतुर्थस्कन्धे त्रिंशोऽध्यायः ॥

प्रकाशिका

अनादिर्ब्रह्मा युयोज प्रजेश्वरा मरीच्यादयश्च युयुजुः । सोऽजनीत्यन्वयः ॥ ५१ ॥

**॥ इति श्रीमद्वेदेशपूज्यपादशिष्येण यदुपतिना विरचितायां **

श्रीमद्भागवतटिप्पण्यां चतुर्थस्कन्धे त्रिंशोऽध्यायः ॥ ४-२७ ॥