२९ एकोनत्रिंशोऽध्यायः

भगवंस्ते वचोऽस्माभिर्न सम्यगवगम्यते

अथ एकोनत्रिंशोऽध्यायः

प्राचीनबर्हिरुवाच–

भगवंस्ते वचोऽस्माभिर्न सम्यगवगम्यते ।

कवयस्तद्विजानन्ति न वयं कर्ममोहिताः ॥ १ ॥

पदरत्नावली

भक्तिजनितज्ञानमेव हरेः प्रसादजनकं न कर्मादिकं तत्र साधनमित्येतदस्मि-न्नध्याये निरूप्यते । तत्रादौ प्राचीनबर्हिः स्वयं विद्वानपि लोकोपकाराय सम्यक् पृच्छति– भगव-न्निति ॥ नारदस्य हर्षार्थं भगवन्निति सम्बोधनम् । अस्माभिरस्मादृशैः । प्रवक्तृबोधकशक्त्यभाव-परिहारार्थं सम्यगिति । तत्र किं कारणम् ? तत्राह– न वयमिति ॥ कवीनां कर्माभावेन विविदिषन्ति यज्ञेन दानेनेत्यादिविधानं व्यर्थमितीयं शङ्का कवय इत्यनेन पर्यहारि । कर्मणा शुद्धान्तःकरणस्य हर्युपासनासाध्यप्रकारेणातिक्रान्तदर्शनस्य कवित्वात् ॥ १ ॥

प्रकाशिका

कथमुक्तकथाया अध्यात्मपरतेत्याशयेन राजा पृच्छति ॥ भगवंस्त इति । वचो राजकथारूपं कवयोऽध्यात्मविदः । कर्ममोहिताः कर्मणैव पुरुषार्थो भवतीति भ्रमवन्तः ॥ १ ॥

नारद उवाच–

पुरुषं पुरञ्जनं विद्याद् यद् व्यनक्त्यात्मनः पुरम् ।

एकद्वित्रिचतुष्पादं बहुपादमपादकम् ॥ २ ॥

पदरत्नावली

व्यनक्तीत्यनेन पुरञ्जनपदं निरुक्तम् । पुरस्य देहस्याञ्जनं यस्मात् स पुरञ्जन इत्यर्थः । अञ्जू व्यक्तीकरण इति धातुः । पुरं जनयति प्रकाशयतीति वा पुरञ्जनः । जनी प्रादुर्भाव इति धातुः । पुरमपि नैकविधमित्याह– एकेति ॥ एकपादादिजातिजन्तुशरीरापेक्षया, पिशाचशरीरमपेक्ष्य वा । द्वौ पादौ मनुष्यादेस्त्रयः पादा ज्वरादेः । चत्वारः पादाः पश्वादेः । बहवः पादाः सहस्रपादादेः । अपादकं सर्पादि ॥ २ ॥

प्रकाशिका

पुरुषं मानुषजीवं पुरञ्जनशब्दवाच्यं विद्यात् । कथमित्यतस्तत्प्रयोगं दर्शयति ॥ यदिति । यद्यस्मादात्मनः स्वस्य पुरं सूक्ष्मदेहं व्यनक्ति कर्मवशात्स्थूलं करोति । ततश्च पुरं जनयतीति योग उक्त इति ज्ञातव्यम् । तथा च पुरञ्जनगुणकर्मादिकं पूर्वमुक्तं तज्जैवमित्याशयः। कर्मवशाज्जायमानं पुरमपि नैकविधमित्याह ॥ एकेति । एकपादादिजातिजन्तुशरीरापेक्षया पिशाचशरीरमपेक्ष्य वा । द्वौ पादौ मनुष्यादेस्त्रयः पादो ज्वरादेश्चत्वारः पादः पश्वादेर्बहुपादः सहस्रपादादेरपादकं सर्पादि ॥ २ ॥

योऽविज्ञाताह्वयस्तस्य पुरुषस्य सखेश्वरः ।

यन्न विज्ञायते रूपैर्नामभिर्वा क्रियागुणैः ॥ ३ ॥

पदरत्नावली

ननु परमाणोरप्यविज्ञातत्वात् किं विशिष्योच्यत इति तत्राह– यन्नेति ॥ अनेन भक्तानुग्रहार्थं नामरूपादिग्रहणं, न स्वतोऽस्ति । न तथा परमाणोः । शुक्लभासुरमपाकजमित्यादि निरूपितत्वादित्यादि प्रदर्शितम् ॥ ३ ॥

प्रकाशिका

तस्याविज्ञातनामासीत्सखेत्युक्तः प्रकृते क इत्यपेक्षायामाह ॥ योऽविज्ञाताह्वय इति । ईश्वरेऽविज्ञातनामार्थं दर्शयति ॥ यन्नेति । रूपैरित्यादि विशिष्टार्थकथनम् । तथा च न केनापि विशेषेण ज्ञात इत्यविज्ञातनामनिर्वचनं सूचयति । तथा चाविज्ञातनामकस्य सख्युर्यच्चेष्टितमुक्तं तदीश्वरसम्बन्धीत्युक्तमिति ज्ञातव्यम् ॥ ३ ॥

यदा जिघृक्षुः१ पुरुषः कार्त्स्न्येन प्रकृतेर्गुणान् ।

नवद्वारं द्विहस्ताङ्घ्रि पुरं मनुत साध्विति ॥ ४ ॥

पदरत्नावली

यदा प्रकृतेर्गुणान् जिघृक्षन् स्रक्चन्दनादिविषयानादातुमिच्छति तदा नवद्वारादि- लक्षणं साधु तत्साधनमिति न्यरूपयत् ॥ ४ ॥

प्रकाशिका

सोऽन्वेषः यमाणः शरणमित्यादिश्लोकत्रयस्य प्रकृते विवक्षितमर्थं दर्शयति ॥ यदेति । पुरुषो जीवो यदा प्रकृतेर्गुणान्विकारभूतान्विषयान्कार्त्स्न्येन सामस्त्येन जिघृक्षुर्गृहीतुमिच्छुर्भवति तदा नवद्वारं पुरं शरीरं साध्विति अमन्यत । पश्वादिशरीरव्यावृत्त्यर्थमुक्तं द्वौ हस्तावाङ्घ्री च यस्य तद्द्विहस्ताङ्घ्रीति । अङ्घ्रिमिति पाठे बिन्दुश्छान्दसः । अनेन लक्षितलक्षणामित्येतद्विवृतमिति ज्ञातव्यम् । तत्र तेषु पुरेषु मध्ये पश्वादिशरीराणि न सर्वविषयभोगाय पर्याप्तानि मनुष्यशरीरं तु तादृशमिति ज्ञात-वानिति जीवपक्षे श्लोकत्रयार्थो ज्ञातव्य इति भावः । तथा च नवद्वारपुरसम्बन्धि यत्कालकन्याभि-भूतत्वादिकमुक्तं तस्य मनुष्यशरीरस्योक्तमिति ज्ञातव्यम् ॥ ४ ॥

बुद्धिं तु प्रमदां विद्यान्ममाहमिति यत्कृतम् ।

यामधिष्ठाय देहेऽस्मिन् पुमान् भुङ्क्तेऽक्षिभिर्गुणान् ॥ ५ ॥

पदरत्नावली

अधिष्ठाय ‘खमक्षमिन्द्रियं श्रोत्रम्’ इत्यभिधानाद् अक्षिभिरिन्द्रियैः । चक्षुषा रूपं दृष्ट्वाऽनन्तरमन्येन्द्रियप्रवृत्तिरिति चक्षुषः प्राधान्यद्योतनायाक्षैरित्युक्तिं विहायाक्षिभिरिति । गुणान् विषयान् ॥ ५ ॥

प्रकाशिका

प्राकारोपवनेत्यादिश्लोकषट्कोक्तं पुरवर्णादिकं न जीवपक्षेऽभिप्रेतमत एव तदन्य-त्तस्य केवलमित्युक्तमित्याशयेन तद्विहाय यदृच्छयाऽऽगतां तत्रेत्यस्य प्रकृते तात्पर्यमाह ॥ बुद्धिमिति । तुशब्दोऽन्तःकरणविशेषद्योतकः । अत एव ममाहमिति ज्ञानं यद्यया कृतमिति बुद्धेः प्रमदात्वं कथमित्यतो भोगसाधनत्वसाम्यादित्याशयेनाह ॥ यामिति । अधिष्ठायाश्रित्याक्षिभिरिन्द्रियैर्गुणा-न्विषयान् । अनेन प्रकर्षेण मदयति सुखयति प्रमदेति निर्वचनं सूचितम् ॥ ५ ॥

सखाय इन्द्रियगणो ज्ञानं कर्म च यत्कृतम् ।

सख्यस्तद्वृत्तयः प्राणः पञ्चवृत्तिर्यथोरगः ॥ ६ ॥

पदरत्नावली

यद् येनेन्द्रियगणेन । तेषाम् इन्द्रियाणां विषयेषु वृत्तयो व्यापाराः । पुररक्षणे यथोरगो निरूपितस्तथा देहरक्षणे । ‘उरस्तु वक्षसि श्रेष्ठे’ इत्यभिधानात्, उरः श्रेष्ठश्च गमको ब्रह्मप्रापकश्चेत्युरगो मुख्यप्राणः । ‘श्रेष्ठश्च’ स एनान् ब्रह्म गमयति’ इति सूत्रश्रुत्योरयमर्थः । अन्यत्र उरसा वक्षसा गच्छतीत्युरगः सर्पः । पञ्चधा वृत्तिर्यस्य स पञ्चवृत्तिर् विस्तृतव्यापारो वा । फणोत्क्षेपणं, फणाया भूमावाक्षेपणं, मण्डलीकरणमाकुञ्चनं, मण्डलमोक्षः प्रसारणं, दीर्घीभूयगमनमिति पञ्चवृत्ति-र्नागस्य ॥ ६ ॥

प्रकाशिका

भृत्यैर्दशभिरित्यस्य तात्पर्यमाह ॥ सखाय इति । अनेन पूर्वमुक्तो भृत्यशब्दः सखिपर इति सूचयति । कुत इन्द्रियगणस्य सखित्वमित्यत उपकारित्वसाम्यादित्याशयेनाह ॥ ज्ञान-मिति । यद्येन इन्द्रियगणेन । एकैकशतनायकैरित्यत्रोक्ता नायकाः प्रकृते का विवक्षिता इत्यपेक्षाया-माह ॥ सख्यस्तद्वृत्तय इति । तेषामिन्द्रियाणां वृत्तयः । कार्याणि ज्ञानकर्मरूपाणि । सख्यो नायकाः । तथा च नायकशब्दः सखिपर इति भावः । पञ्चशीर्षाहिनेत्युक्ताहिस्थानीयः क इत्यत आह ॥ प्राण इति । बाह्यपुरे यथा पञ्चशीर्षोहिः पालक उक्तस्तथा तत्स्थानीयोऽत्र पञ्चवृत्तिः प्राण इत्यर्थः ॥ ६ ॥

बृहद्बलं मनो विद्यादुभयेन्द्रियनायकम् ।

पञ्चालाः पञ्चविषया यन्मध्ये नवखं पुरम् ॥ ७ ॥

पदरत्नावली

मनसा वा अग्रे सङ्कल्पयत्यथ वाचा व्याहरतीति श्रुतेर् ज्ञानकर्मेन्द्रियाणां विषयं प्रति नेतृत्वादुभयेन्द्रियनायकमित्युक्तम् । एषां विषयाणां मध्ये नव खानि द्वारलक्षणानि च्छिद्राणि यस्य तत्तथोक्तम्, तत् पुरं शरीरम् ॥ ७ ॥

प्रकाशिका

तेषां परिवृढ इत्यत्रोक्तं परिवृढं प्रकृते दर्शयति ॥ बृहद्बलमिति । बृहद्बलं यस्मादित्यर्थः । अनेन सर्वेषां बलमुद्वहन्नित्येतदनूदितमिति ज्ञातव्यम् । उभयेन्द्रियनायकमित्यनेन परिवृढत्वम् । कर्म ज्ञानेन्द्रियाणां विषयं प्रति नेतृत्वात् । दक्षिणपाञ्चालमुत्तरपाञ्चालमित्यत्र पाञ्चालशब्दार्थमाह ॥ पञ्चाला इति । नन्वेवं पुरञ्जनपुरवच्छरीरस्यापि दक्षिणोत्तरविषयमध्यस्थत्वेन भाव्यमित्यतस्तदप्यस्तीत्याह ॥ यन्मध्य इति । दक्षिणोत्तरमध्य इत्यर्थः । नवखं नवछिद्रं पुरं शरीरम् । सुप्तायामपि जागर्ति नागोऽयं पालयन्पुरीमित्यनेन सुप्त्यवस्थायां बुद्ध्याद्युपरमेऽपि प्राणो जागर्तीति सूचयति । अन्वेषमाणमृषभमित्यारभ्य हृदिनीमाविशच्छुचावित्यन्तमपि तदन्यत्तस्य केवलमिति वचना-द्राजपक्ष एव योज्यम् । सप्तोपरिकृता द्वार इत्यादेः शरीरपक्षयोजना स्पष्टैव ॥ ७ ॥

अक्षिणी नासिके कर्णौ मुखं शिश्नगुदाविति ।

द्वे द्वे द्वारौ बहिर्याति तत्तदिन्द्रियसंयुतः ॥ ८ ॥

पदरत्नावली

तत्तदिन्द्रियसंयुतो ऽक्षादिद्वारेण बहिर्विषयबुभुक्षौ१ सति नेत्रादीन्द्रियेण विषयं भुङ्क्त इत्यर्थः ॥ ८ ॥

प्रकाशिका

खद्योताविर्मुखी चेत्यादेः सङ्क्षेपेणार्थमाह ॥ अक्षिणीति । द्वे द्वे द्वारौ खद्योतादि-शब्दवाच्यतयाऽत्र विवक्षिते । ताभिर्बहिर्याति बाह्यार्थानवगच्छति । द्युमत्सखोऽवधूतसख इत्यादेस्तात्पर्यं तत्तदिन्द्रियसंयुत इति । अत्रेन्द्रियशब्देनाभिमानिदेवा अपि ग्राह्याः ॥ ८ ॥

अक्षिणी नासिके आस्यमिति पञ्च पुरस्कृताः ।

दक्षिणा दक्षिणः कर्ण उत्तरा चोत्तरः स्मृतः ॥ ९ ॥

पदरत्नावली

अक्षिणी इत्यादिना द्वे द्वे द्वार इत्युक्तम् । तद्विवेचयति– अक्षिणीति ॥ ९ ॥

प्रकाशिका

पञ्चद्वारस्तु पौरस्त्या इत्यत्रोक्ताः पञ्चद्वारः प्रकृते दर्शयति ॥ अक्षिणीति । पुरः पूर्वभागे कृताः । दक्षिणैका तथोत्तरेत्येतदनूद्य व्याख्याति दक्षिणेति ॥ दक्षिणद्वाः प्रकृते दक्षिणः कर्णो विवक्षित इत्यादिरूपा योजना । उत्तरो वामः ॥ ९ ॥

पश्चिमे इत्यधोद्वारौ गुदशिश्नाविहोदिते ।

खद्योताविर्मुखी चात्र नेत्रे एकत्र निर्मिते ॥ १० ॥

पदरत्नावली

पश्चिमे द्वे इत्युक्तम् । तत्राह– पश्चिमेति ॥ खद्योतेत्याद्युक्तं विवृणोति– खद्योतेति ॥ १० ॥

प्रकाशिका

पश्चिमे द्वे इत्युक्तस्यार्थमाह ॥ पश्चिमे इतीति । पश्चिमे इत्यनेनोक्ते द्वेऽधोद्वारौ गुदशिश्ननामके इह जीवपक्षे उदिते । खद्योताविर्मुखीत्यादिकस्य मोहं प्रसादं हर्षं वा यातीत्यस्य प्रकृते विवक्षितमर्थं क्रमेण दर्शयति ॥ खद्योतेति । खद्योताविर्मुखीशब्दाभ्यामत्र जीवपक्षे नेत्र एव विवक्षिते इत्यर्थः । अत्र खद्योतादिशब्दानां नेत्रादिषु निर्वचनप्रकारः सर्वज्ञकृतग्रन्थान्तरादवगन्तव्यः ॥ १० ॥

रूपं विभ्राजितं ताभ्यां विचष्टे चक्षुषेश्वरः ।

नलिनी नालिनी नासे गन्धः सौरभ उच्यते ॥ ११ ॥

पदरत्नावली

नलिन्याद्याह– नलिनीति ॥ ११ ॥

प्रकाशिका

ताभ्यां विभ्राजितमित्यनूद्य रूपमिति व्याख्यातम् । बहिर्यातीत्यस्य तात्पर्यम् ॥ रूपं चक्षुषा विचष्ट इति । जीवो न तत्र स्वतन्त्रः किं त्विश्वर एवेति प्रदर्शनायेश्वर इत्युक्तम् । नलिनीनालिनीशब्दाभ्यां प्रकृते नासे विवक्षिते । सौरभशब्देनात्र गन्ध उच्यत इत्यर्थः ॥ ११ ॥

घ्राणोऽवधूतो मुख्याऽऽस्यं विपणो रसविद् रसः ।

आपणो व्यवहारोऽत्र चित्रमन्धो बहूदनम् ॥ १२ ॥

पदरत्नावली

अवधूतमाह– घ्राण इति ॥ मुख्या नाम पुरस्ताद् द्वा इत्यस्यार्थमाह– मुख्येति ॥ या मुख्या नाम द्वा आस्यम् । रसज्ञविपणान्वित इत्येतदाह– विपण इति ॥ विपणो वागिन्द्रियम् । रसविद् रसज्ञः । रसो रसनेन्द्रियम् । आपणं व्यचष्टे– आपण इति ॥ चित्रमन्ध इत्यादौ बहूदनमित्यस्य विविधौदनः ॥ १२ ॥

प्रकाशिका

अवधूत इत्यनूद्य घ्राण इति व्याख्यातम् । मुख्येत्यनूद्यास्यमिति व्याख्यातम् । रसज्ञविपणान्वित इत्यत्र विपणरसज्ञपदयोरर्थमाह ॥ विपण इति । विपणशब्देन वागिन्द्रियं विवक्षित-मित्यर्थः । रसविद्रसज्ञस्तच्छब्दवाच्यो रसो रसनेन्द्रियमित्यर्थः । आपणबहूदनशब्दयोरर्थमाह ॥ आपण इति । अत्र जीवपक्षे बहूदनशब्दार्थश्चित्रमन्धश्चित्रान्नमित्यर्थः ॥ १२ ॥

पितृभूर्दक्षिणः कर्ण उत्तरो देवभूः स्मृतः ।

प्रवृत्तं च निवृत्तं च शास्त्रं पाञ्चालसंज्ञितम् ॥ १३ ॥

पदरत्नावली

पाञ्चालशब्दस्यार्थान्तरमाह– प्रवृत्तमिति ॥ १३ ॥

प्रकाशिका

देवभूर्दक्षिणकर्णः पितृभूरुत्तरो वामः । कर्ण इति योज्यम् । दक्षिणोत्तरपाञ्चाल शब्दयोरर्थान्तरमाह ॥ प्रवृत्तमिति । प्रवृत्तं प्रवृत्तकर्माभिधायकम् । निवृत्तं निवृत्तकर्माभिधायकम् ॥१३॥

पितृयानं देवयानं श्रोत्रात्१ श्रुतधरो व्रजेत् ।

आसुरी मेढ्रमर्वाग्२ द्वार्व्यवायो ग्रामिणां रतिः ॥ १४ ॥

उपस्थो दुर्मदः प्रोक्तो निर्ऋतिर्गुद उच्यते ।

वैशसं नरकं पायुर्लुब्धकोऽन्धौ तु मे शृणु ॥ १५ ॥

पदरत्नावली

श्रुतधरेत्यस्य– श्रोत्रमिति ॥ तेनोत्क्रान्तः पितृयानादिमार्गं व्रजति । आसुर्याः कृत्यमाह– मेहनार्थमिति ॥ मेहनं पुरीषोत्सर्जनम् । ग्रामिणां रतिर्मैथुनम् ॥ १४ ॥

प्रकाशिका

प्रवृत्तनिवृत्तकर्माभिधायकग्रन्थान्तरविरोधपरिहारायाह ॥ पितृयानं देवयानमिति । निवृत्तकर्माभिधायकशास्त्रं देवयानसाधनत्वाद्देवयानशब्देनोच्यते । तथा प्रवृत्तकर्माभिधायकशास्त्रं पितृयान-साधनत्वात्पितृयानशब्देनोच्यते । अतो ग्रन्थान्तरे पितृयानादिकं व्रजेदित्युक्तावपि न विरोध इत्याशयः । श्रुतधरान्वित इत्यस्य व्याख्यानम् ॥ श्रुतिधरो व्रजेदिति । ततः श्रुतिधरशब्दार्थमाह ॥ श्रोत्रादिति । व्रजेद् व्रजति । आसुरीशब्दार्थमाह ॥ आसुरी मेढ्रमिति । अर्वाक् द्वा अर्वाक्द्वारत्वेनोक्ता । आसुरीं मेढ्रं गुह्येन्द्रियस्थानमित्यर्थः । ग्राम्यकं नाम विषयमित्यस्यार्थमाह ॥ ग्रामिणां रतिरिति । तथा च ग्राम-शब्दो ग्रामिपरः कशब्दो रतिवाचीति भावः । एवमर्थतस्तदुपपाद्यार्थमाह ॥ व्यवायो मैथुनमिति

॥ १४,१५ ॥

हस्तपादौ पुमांस्ताभ्यां युक्तो याति करोति च ।

अन्तःपुरं च हृदयं विषूचिर्मन उच्यते ॥ १६ ॥

प्रकाशिका

विषूचीनपदार्थानुवादः विषूचिरिति । तद्गुणैर्मनोगुणैस्तमआदिभिः ॥ १६ ॥

तत्र मोहं प्रसादं वा हर्षं प्राप्नोति तद्गुणैः ।

यथा यथा विक्रियते गुणाक्तो विकरोति वा ॥ १७ ॥

पदरत्नावली

तद्गुणैर्मनोगुणैर्बुद्धिगुणैर्वा । एतदेव प्रतिपादयति– यथेति ॥ स्वप्नकाले करि-तुरगादिदृष्टश्रुतवस्तुवासनावासितं मनो बुद्धिर्वा विक्रियते, दैवेनेति शेषः । बहुसंस्काराधिवासितत्वा-दन्यत्र प्रवाहमन्तरेणैव स्वयं वा विकरोतीत्याह– गुणेति ॥ १७ ॥

प्रकाशिका

महिषीयद्यदीहेतेत्यादेरर्थं संगृह्याह ॥ यथेति । बुद्धिर्यथा यथा विक्रियते श्रोत्रादीन्द्रियानुग्राहिका सती श्रवणादिवृत्तिरूपेण विक्रियते विकारं प्राप्नोति । वाशब्दो व्यवस्थित-विकल्पे । कदाचिद्वागादिकर्मेन्द्रियानुग्राहिका सती विकरोति विविधं कर्म करोति । करणे कर्तृत्वोपचारः ॥ १७ ॥

तथा तथोपद्रष्टाऽऽत्मा तद्वृत्तिरिति कीर्त्यते ।

देहो रथस्त्विन्द्रियाश्वः संवत्सरवयोगतिः ॥ १८ ॥

पदरत्नावली

यथा यथा विषयाकारेण परिणमते तथा तथा स्वप्नादेरुपद्रष्टाऽऽत्मा जीव-स्तद्वृत्तिर्बुद्धिमनोवृत्तेरनुकूलवृत्तिरिति कीर्त्यते । यथा यथा मनो विक्रियते गुणान्कामात्मना गुणरूपिता-बुद्धिस्तथा विकरोति, बुद्धिर्यथा विकरोति तथाऽऽत्मापीति वा । उभयेन्द्रियनायकमित्युक्तेर्मनो-विकारानुकारिबुद्ध्यनुकारिप्रवृत्तिमत्त्वमात्मनो युज्यते । इन्द्रियाण्येवाश्वा यस्य स तथा । संवत्सरेत्युप-लक्षणम् । दिनरात्रिपक्षमाससंवत्सरलक्षणैर्वयोभिर्गतिर्यस्य स तथा ॥ १८ ॥

प्रकाशिका

तथा तथा गुणाक्तः सत्त्वादिगुणबद्ध आत्मा जीवस्तद्वृत्तिः । अत्र वृत्तिशब्द उभयेन्द्रियकार्यपरः । तथा च सोभयेन्द्रियजन्या वृत्तिर्यस्य स तथा कीर्त्यते । कुतः । यत उपद्रष्टा बुद्ध्यादिकरणसमीपे दृष्टृतया कर्मतया चायमेव व्यवस्थितः । तथा च क्वचित् शृृणोति शृृण्वन्त्या-मित्यादेः क्वचिद्गायति गायन्त्यामित्यादेश्च सर्वस्य सङ्ग्रहो भवतीति ज्ञातव्यम् ।

रथं पञ्चाश्वमाशुगमित्यादेः प्रकृते विवक्षितमर्थमाह ॥ देहो रथ इत्यादिना । पञ्चेन्द्रियाण्येवाश्वा यस्य स तथा । आशुगमित्येतद्व्याचष्टे ॥ संवत्सरेति । संवत्सरलक्षणैर्वयोभिर्गतिर्यस्य स तथा ॥१८॥

द्विकर्मचक्रस्त्रिगुणध्वजः पञ्चासुबन्धुरः ।

मनोरश्मिर्बुद्धिसूतो हृन्नीडो द्वन्द्वकूबरः ॥ १९ ॥

पदरत्नावली

द्विकर्मेत्यादिषु बहुव्रीहिः । पञ्चासुबन्धुरः पञ्चासवः प्राणा एव बन्धुरो यस्य स तथा । एकरश्म्येकदमनमित्यस्यार्थमाह– मन इति ॥ १९ ॥

प्रकाशिका

द्वेऽहंममतालक्षणे ईषे दण्डिके यस्येति द्वीषमिति स्पष्टत्वान्न व्याख्यातम् । द्विचक्रमित्यस्यार्थमाह ॥ द्विकर्मेति । द्वे पुण्यपापलक्षणे कर्मणी चक्रे यस्य । एकः सूत्रात्मा वायुरक्षो यस्येत्यपि स्पष्टत्वान्न व्याख्यातम् । त्रिवेणुमित्यस्यार्थमाह ॥ त्रिगुणध्वज इति । त्रयः सत्त्वादिगुणा एवात्र ध्वजस्थानीया इत्यर्थः पञ्चबन्धुरमित्यस्यार्थः ॥ पञ्चास्विति । पञ्चासवः प्राण एव बन्धुरा बन्धनस्थानीया यस्य । एकरश्मिरित्यस्यार्थः ॥ मनोरश्मिरिति । एकदमनमित्यस्यार्थः ॥ बुद्धिसूत इति । एकनीडमित्यस्यार्थः ॥ हृन्नीड इति । द्विकूबरशब्दार्थमाह ॥ द्वन्द्वेति । द्वौ शीतोष्णादिरूपो द्वन्द्वौ कूबरौ यस्येत्यर्थः ॥ १९ ॥

पञ्चेन्द्रियार्थप्रक्षेपः सप्तधातुवरूथकः ।

आकूतिर्विक्रमो बाह्यो मृगतृष्णां प्रधावति ॥ २० ॥

तात्पर्यम्

‘सुखवद्दूरतो दृश्यं तत्काले दुःखमेव यत् । मृगतृष्णेत्यतः प्राहुर्भोगं वैषयिकं बुधाः’ ॥ इति शब्दनिर्णये ॥ २० ॥

पदरत्नावली

पञ्चप्रहरणमित्यस्यार्थमाह– पञ्चेति ॥ प्रतीतितः सुखम्, अनुभवे यद् दुःखं सा मृगतृष्णिका ताम् । तदुक्तम्–‘सुखवद् दूरतो दृश्यं तत्काले दुःखमेव यत् । मृगतृष्णेत्यतः प्राहुर्भोगं वैषयिकं बुधाः ॥’ इति ॥ २० ॥

प्रकाशिका

पञ्चप्रहरणमित्येतद्व्याचष्टे ॥ पञ्चेन्द्रियेति । पञ्चानामिन्द्रियाणां स्वार्थेषु प्रहरणं प्रक्षेपः सन्निकर्ष आयुधस्थानीयो यस्मिन्नित्यर्थः । सप्तवरूथमित्यस्यार्थमाह ॥ सप्तधात्विति । पञ्चविक्रममित्यत्र विक्रमशब्दस्य विवक्षितमर्थमाह ॥ आकूतिरिति । आकूतिरभिप्रायः । तथा च पञ्चसु विषयेषु विक्रम आकूतिर्यस्येति पञ्चविक्रममित्येतद्व्याख्येयमिति भावः । आकृतिरिति पाठे पञ्चभिः कर्मेर्न्द्रियैर् आ सम्यक् कृतिः करणं यस्येति व्याख्येयम् । हेमोपस्करमारुह्य स्वर्णवर्माक्षयेषु धीरित्ये-तदपि तदन्यत्तस्य केवलमिति राजपक्षे एवं योज्यम् । पञ्चप्रस्थमगाद्वनमित्यस्यार्थमाह ॥ बाह्य इति । बाह्ये बहिर्विद्यमानपञ्चविषयभोगार्थं मृगतृष्णां मरुमरीचिकाजलं प्रतीव धावति । बाह्य इत्यनेन पञ्चप्रस्थेत्यत्र मृगतृष्णामित्यनेन वनमित्यस्यार्थ उक्तः । लुप्तोपमेयमिति ज्ञातव्यम् । अत्र मृगतृष्णा-दृष्टान्तकथनेन वैषयिकभोगस्य मिथ्यात्वमुच्यत इति भाति । अतस्तदभिप्रायं प्रमाणेनैव दर्शयति ॥ सुखवदिति । यद्यस्मात्कारणाद्दूरतः सुखवत्सुखसाधनवद्दृश्यते तत्काले तत्प्राप्तिकाले दुःखमेव दुःख-साधनमेवात एव तस्मादेव साधर्म्याद्वैषयिकं भोगं मृगतृष्णेति प्राहुर्न मिथ्यात्वादित्यर्थः ॥ २० ॥

एकादशेन्द्रियचमूः पञ्चसूनाविनोदकृत् ।

संवत्सरश्चण्डवेगः कालो येनोपलक्षितः ॥ २१ ॥

पदरत्नावली

पञ्चेन्द्रियद्वारेण विषयसेवालक्षणहिंसाकलाविनोदं करोतीति पञ्चसूनाविनोद-कृत् । येन संवत्सरेण । द्विपरार्धायुर्लक्षणः कालः ॥ २१ ॥

प्रकाशिका

एकादशचमूनाथ इत्यस्यार्थमाह ॥ एकादशेन्द्रियाण्येव चमूर्यस्येति । चचार मृगयां तत्रेत्यादेस्तात्पर्यमाह ॥ पञ्चसूनेति । विषयभोगार्थं छेदभेदनादिरूपपञ्चसूनालक्षणविनोदकृत् । तत्करणसमये न पापशङ्केति सूचनाय विनोदकृदित्युक्तम् । प्रधावतीति पूर्वेणान्वयः ॥

ततः क्षुत्तृट्परिश्रान्त इत्यारभ्य कुटुम्बासक्तचेतस इत्यन्तं जीवसंसारासक्तिप्रदर्शनार्थं प्रवृत्तं राजपक्ष एव योज्यमित्याशयेन तावत्त्युक्त्वाऽऽससाद स वै काल इत्यादेस्तात्पर्यमाह ॥ संवत्सर इत्यादिना । चण्डवेगशब्दवाच्यः प्रकृते संवत्सरो विवक्षित इत्यर्थः । स एव द्विपरार्धादिकालज्ञापकत्वात्काल शब्दवाच्य इत्याशयेनाह ॥ काल इति । येन संवत्सरेण कालो द्विपरार्धायुर्लक्षण उपलक्षितो ज्ञातव्यः

॥ २१ ॥

तस्याहानीह गन्धर्वा गन्धर्व्यो रात्रयः स्मृताः ।

हरन्त्यायुः परिक्रान्त्या षष्ट्युत्तरशतत्रयम् ॥ २२ ॥

पदरत्नावली

परिक्रान्त्या परिवृत्त्या, पुनः पुनरावर्तनेनेत्यर्थः ॥ २२ ॥

प्रकाशिका

परिक्रान्त्या परिभ्रमणेन ॥ २२ ॥

कालकन्या जरा साक्षाल्लोकस्तां नाभिनन्दति ।

स्वसारं जगृहे मृत्युः क्षयाय यवनेश्वरः ॥ २३ ॥

पदरत्नावली

क्षयाय, जगत इति शेषः ॥ २३ ॥

प्रकाशिका

कालस्य कर्मानुसारित्वज्ञापनाय प्रवृत्तं ते चण्डवेगानुचरा इत्यारभ्य नाविदद्भय-मित्यन्तं राजपक्ष एव योज्यमित्याशयेन तत्परित्यज्य कालस्य दुहितेत्यादेस्तात्पर्यमाह ॥ कालकन्येति या कालकन्योक्ता सा जरेत्यर्थः । साक्षादित्यनेन दिवसादीनां यथा गन्धर्वादिस्थानीयत्वेन ततो भेदो न तथाऽत्रेति सूचयति । जराशब्देन तदभिमानिन्यपि विवक्षिता ।

यो यवनेश्वर उक्तः सोऽत्र मृत्युः स्वसारं जगृहे भगिनीत्वेन जगृहे । उभयोरपि कालजन्यत्वान् न भार्यात्वेनेत्याशयः । लोकानां क्षयाय ॥ २३ ॥

आधयो व्याधयस्तस्य सैनिका यवनाः खलाः ।

भूतोपसर्गा अरयः प्रज्वारो १द्विविधो ज्वरः ॥ २४ ॥

पदरत्नावली

भूतोपसर्गा ग्रहोपद्रवाः ॥ २४ ॥

प्रकाशिका

यवनेश्वर इत्युक्तयवनानाह ॥ आधय इति । चरा वनसंचारिण इत्यर्थः । यवनैररिभी राजन् उपरुद्ध इत्यत्रारिशब्दविवक्षितानाह ॥ भूतोपसर्गा इति । ग्रहोपद्रवा इत्यर्थः । द्विविधः शीतोष्णरूपेण ॥ २४ ॥

एवं बहुविधैर्दुःखैर्दैवभूतात्मसम्भवैः ।

क्लिश्यमानः शतं वर्षं देहे देही तमोवृतः ॥ २५ ॥

प्राणेन्द्रियमनोधर्मानात्मन्यध्यस्य निर्गुणः ।

शेते कामलवं ध्यायन् ममाहमिति कर्मकृत् ॥ २६ ॥

पदरत्नावली

अधुना लक्षणया वृत्योक्तमर्थं विवृत्त्यर्थं प्रत्यक्षमाह– एवमिति ॥ दैवभूतात्म-सम्भवैरधिदैवाधिभूताध्यात्मविषयतया जातैरेवं बहुविधैर्दुःखैः क्लिश्यमानस्तमोवृतस् तत्परिहारोपायमजानन् देही शेते इति श्लोकद्वयेनान्वयः । कियन्तं कालम् ? शतवर्षम् । क्लृप्तत्वात् ‘‘शतायुर्वै पुरुष’’ इति न्यूनातिरेकसम्भवेप्येवमुक्तम् । दुःखोत्पत्तौ कारणमाह– कामेति ॥ प्राणधर्मानशनापिपासादीनिन्द्रिय-धर्मानन्धत्वादीन् मनोधर्मान् शोकमोहादीनात्मनि स्वस्मिन्नध्यस्यारोप्य बुभुक्षितः पिपासितोऽहमन्धः काणोऽहं शुष्कोऽहं मुग्धोऽहमिति । निर्गुणश्चेतनत्वेन स्वतो गुणरहितः । ननु शरीरकारणक्षये मोक्षसम्भवात् क्लेशानुभवोऽप्युपकाराय स्याद् देहिन इत्यत्राह– कर्मकृदिति ॥ ‘आचतुर्दशमाद् वर्षात् कर्माणि नियमेन तु । दशावराणां देहानां कारणानि करोत्ययम् ॥’ इत्यादेर्न कर्मक्षयान्मुक्तिः । नन्वस्तु कर्मकर्तृत्वं, हर्यर्पणेन क्रियमाणानां न दुःखदातृत्वमित्यत्राह– ममेति ॥ २५,२६ ॥

प्रकाशिका

एवं परोक्षत्वेनोक्तार्थं व्याख्याय सज्जनानुग्रहाय स्पष्टमेवोपदिशति ॥ एवमित्या-रभ्य विरम क्रमेणेत्यन्तेन ॥ प्राणधर्माः श्वासादय इन्द्रियधर्मा ज्ञानानि कर्माणि च मनोधर्माः सुख-दुःखादयः । तथा च प्राणेन्द्रियमनांसि तद्धर्माश्चात्मनि स्वस्मिन्ममाहमित्यध्यस्य ममैतानि प्राणेन्द्रिय-मनांसि तद्धर्माणामहमेव कर्तेत्यारोप्येत्यर्थः । अध्यासत्वोपपादनायोक्तम् ॥ निर्गुण इति । स्वातन्त्र्येणोक्तकार्यरहितेत्यर्थः । अध्याससाध्यमाह ॥ कामेति । कामलवं विषयसुखलेशानित्यर्थः ध्यायंस्तदनुसारि कर्मकृद् देहे शेत इत्यन्वयः ॥ २५,२६ ॥

यदाऽऽत्मानमविज्ञाय भगवन्तं परं गुरुम् ।

पुरुषस्तु विषज्जेत गुणेषु प्राकृतेष्वदृक् ॥ २७ ॥

गुणाभिमानी स तदा कर्माणि कुरुतेऽवशः ।

शुक्लं कृष्णं लोहितं वा यथाकर्माभिजायते ॥ २८ ॥

पदरत्नावली

कर्मकृदित्यत्र कीदृशं कर्म करोतीति तत्राह– यदेति ॥ यदा अदृगज्ञानी पुरुषः संसारे इष्टानिष्टफलदमात्मानं स्वान्तर्यामिणमविज्ञाय प्राकृतेषु गुणेषु विषज्जते तदा स गुणाभिमानी देही शुक्लादीनि सात्विकादीनि कर्माणि यथा कुरुते तथा सात्विकादिशरीरतया जायते । अवशः विष्णुवशः स इत्यनेन कर्मणः स्वातन्त्र्यं निराह । आत्मशब्दस्य साधारणत्वेन कथं निर्णय इत्यतो भगवन्तमित्यादिविशेषणत्रयम् ॥ २७,२८ ॥

प्रकाशिका

एतदेव विशदयति ॥ यदात्मानमिति । तमोवृत इत्यस्यार्थः ॥ अदृक् अज्ञानीति । यदा भगवन्तमात्मानं स्वान्तर्नियामकमविज्ञाय प्राकृतेषु प्रकृतिनिर्मितेषु गुणेषु देहेन्द्रियादिकार्येषु विषज्जते ममाहमित्यध्यासवान् भवति तदा गुणाभिमानी देहेन्द्रियाद्यभिमानी जीवः शुक्लं सात्त्विकं कृष्णं तामसं लोहितं राजसं वेत्येवंरूपाणि कर्माणि कुरुते । तत्र स्वातन्त्र्यवारणायावशः परमात्मवशः सन्नित्युक्तम् । वाशब्दान्न सात्त्विकादिकर्मणां यौगपद्यमिति सूचयति । ततः किमित्यत आह ॥ यथाकर्मेति । सात्त्विकादिकर्मानुसारेण सात्त्विकादिजन्म प्राप्नोतीत्यर्थः ॥ २७,२८ ॥

शुक्लान् प्रकाशभूयिष्ठान् लोकानाप्नोति कर्हिचित् ।

दुःखोदर्कान् क्रियायासान् तमश्शोकोत्कटान् क्वचित् ॥ २९ ॥

पदरत्नावली

त्रिविधकर्मणां फलमाह– शुक्लानिति ॥ प्रकाशभूयिष्ठांस्तेजोमयान् देवादीन्, क्रियायासान् क्लेशकर्मसाध्यान् राजसान्, दुःखोदर्कान् दुःखप्रचुरान् मनुष्यादीन्, तमश्शोकोत्कटान् तामसान् स्वकर्मणः१ शोकभूयिष्ठान् तिर्यगादीनाप्नोतीत्यन्वयः ॥ २९ ॥

प्रकाशिका

एतदेव प्रकाशयति ॥ शुक्लानिति द्वाभ्याम् । प्रकाशो भूयिष्ठो येषु तान् लोका-न्देवादिदेहान् । दुःखमुदर्कं सुखापेक्षयोत्कृष्टं येषु तान् क्रिययाऽऽयासो येषु तान् मनुष्यदेहान् लोहितादाप्नोति । तमोऽज्ञानं तमःशोकावुत्कृष्टौ येषु तान्पश्वादिदेहान्कृष्णादाप्नोति ॥ २९ ॥

क्वचित् पुमान् क्वचिच्च स्त्री क्वचिन्नोभयमन्धधीः ।

देवो मनुष्यस्तिर्यग् वा यथाकर्मगुणं भवः ॥ ३० ॥

पदरत्नावली

क्वचित् क्वचिदिति बहुजन्मापेक्षया । नोभयं नपुंसकत्वम् । एतदेव विशिनष्टि– देव इति ॥ यथाकर्मगुणं यथा यथा कर्मणां गुणानामानुगुण्यं तथा भव उत्पत्तिर्देवादिविषया ॥ ३० ॥

प्रकाशिका

क्वचित्क्वचिदिति बहुजन्मापेक्षया । नोभयं नपुंसकत्वम् । प्रकाशभूयिष्ठानित्युक्तं प्रपञ्चयति ॥ देव इति । यथाकर्मगुणं कर्मगुणावनतिक्रम्य भवो जन्म ॥ ३० ॥

क्षुत्परीतो यथा दीनः सारमेयो गृहं गृहम् ।

चरन् विन्दति यद् दिष्टं दण्डमोदनमेव वा ॥ ३१ ॥

पदरत्नावली

तत्र दृष्टान्तमाह– क्षुदिति ॥ दण्डं प्रहारम् । दिष्टं दैवतः प्राप्तम् ॥ ३१ ॥

प्रकाशिका

तेषु जन्मसु दैववशेन सुखदुःखे प्राप्नोतीति सदृष्टान्तमाह ॥ क्षुत्परीत इति द्वाभ्याम् । क्षुधया परीतो व्याप्तः सारमेयः श्वा । दण्डं ताडनम् ॥ ३१ ॥

तथा कामाशयो जीव उच्चावचपथा भ्रमन् ।

उपर्यधो वा मध्ये वा याति दिष्टं प्रियाप्रियम् ॥ ३२ ॥

पदरत्नावली

कामे विषये आशयो यस्य स तथा ॥ ३२ ॥

प्रकाशिका

कामेषु विषयेष्वाशयोऽन्तःकरणं यस्य स तथा दिष्टं दैवतः प्राप्तम् ॥ ३२ ॥

दुःखेष्वेकतरेणापि दैवभूतात्महेतुषु ।

जीवस्य न व्यवच्छेदः स्याच्चेत् तत्तत्प्रतिक्रिया ॥ ३३ ॥

तात्पर्यम्

तत्प्रतिक्रियाऽपि दुःखमेव ॥ ३३ ॥

पदरत्नावली

एवं भ्रमतः सुखं क्वापि न स्यात् किम् ? तत्राह– दुःखेष्विति ॥ दैवादिहेतुषु दुःखेषु मध्ये एकतरेण दुःखेनापि जीवस्य व्यवच्छेदो वियोगो नास्तीत्यन्वयः । प्रतिक्रियया सुखं स्याद् ? अत्राह– स्याच्चेदिति ॥ तस्य तस्य दुःखस्य प्रतिक्रिया परिहारः ॥ ३३ ॥

प्रकाशिका

ननु संसारे सुखं तावदस्ति कदाचिद्दुःखप्रसक्तौ तत्प्रतीकारसम्भवात्कुतः समत्वं तस्येत्यत आह ॥ दुःखेष्विति । चेदित्यनेनेदं सूचयति । दुःखस्य न प्रतीकारोऽस्ति स्याच्चेत्तस्य प्रतिक्रिया तथाऽपि त्रिविधेषु दुःखेषु मध्ये एकतरेणापि दुःखेन व्यवच्छेदो वियोगो नास्तीति । ननु पतिक्रियायामपि दुःखस्य व्यवच्छेदो नास्तीति विरुद्धं कथमुच्यत इत्यतोऽस्याभिप्रायमाह ॥ तदिति । दुःखमेव दुःखाविनाभूतैवेत्याशय इति शेषः । तस्य दुःखस्य प्रतिक्रिया परिहारो दुःखमेव ॥ ३३ ॥

यथा हि पुरुषो भारं शिरसा गुरुमुद्वहन् ।

तं स्कन्धेन स आधत्ते तथा सर्वाः प्रतिक्रियाः ॥ ३४ ॥

पदरत्नावली

सोऽपि दुःखमेव स्कन्धस्य यथा भवति तथा सर्वाः प्रतिक्रिया दुःखरूपा इत्यन्वयः ॥ ३४ ॥

प्रकाशिका

प्रतिक्रियाया दुःखाविनाभूतत्वे दृष्टान्तमाह ॥ यथा हीति । स्कन्धस्य दुःखं यथा भवति तथा सर्वाः प्रतिक्रिया इत्यनन्तरं दुःखाविनाभूता इति शेषः ॥ ३४ ॥

नैकान्ततः प्रतीकारः कर्मणां कर्म केवलम् ।

द्वयं ह्यविद्योपसृतं स्वप्ने स्वप्न इवानघ ॥ ३५ ॥

पदरत्नावली

अग्निष्टोमादिकर्मणाऽन्यकर्मनिवृत्तौ प्रबोधकाभावात् सर्वदुःखव्यवच्छेदो घटत इति चेत् तत्राह– नैकान्तत इति ॥ केवलं श्रीनारायणार्पणबुद्धिरहितं कर्म कर्मणामेकान्ततो नियमेन प्रतीकारो न भवति । कुत इति तत्राह– द्वयमिति ॥ निवर्त्यं निवर्तकं चेति कर्मद्वयमविद्योपसृतम् ईश्वरा-ज्ञानानुविद्धं हि, यस्मात् तस्मादिति शेषः । तत्र दृष्टान्तः– स्वप्ने वर्तमानः स्वप्नो यथा तस्य निवर्तको न भवति । किन्तु अतः प्रबोधोऽस्मादिति तत्र प्रबोधादावीश्वर एव । स्वप्नसंसृत्योः कियानेव विशेष इति

॥ ३५ ॥

प्रकाशिका

ननु दुःखमूलभूतकर्मणां प्रायश्चित्तादिरूपकर्मभिर्निवृत्तौ सर्वथा दुःखाभावः स्यादित्यत आह ॥ नैकान्तत इति । कर्मणां दुःखमूलभूतानां नारायणार्पणरहितं केवलं प्रायश्चित्त-रूपमेकान्ततो नियमेन । सर्वथेति यावत् । प्रतीकारो निवर्तकं न हि । हि यस्मान् निवर्त्यं निवर्तकं च कर्माविद्योपसृतमज्ञानप्राप्तम् ॥ तस्मादिति शेषः । अत्र दृष्टान्तमाह ॥ स्वप्ने इति । यथा स्वप्ने दृष्टस्य करितुरगादेरुच्छेदार्थं स्वाप्नो यत्नः सर्वथा न तन्निवर्तकः । तत्कारणा-ज्ञानानिवर्तकत्वात्तथैवेत्यर्थः

॥ ३५ ॥

अर्थे ह्यविद्यमानेऽपि संसृतिर्न निवर्तते ।

मनसा लिङ्गरूपेण स्वप्ने विचरतो यथा ॥ ३६ ॥

तात्पर्यम्

‘संसृतेः स्वप्नसाम्यं तु यथार्थज्ञानवर्जनम्’ । इति च । ‘जाग्रत्यविद्यमानं तु देहात्मत्वादि केवलम् । अविद्यमानं स्वप्ने तु जाग्रत्त्वज्ञानमेव च’ इति षाड्गुण्ये ॥ ३६ ॥

पदरत्नावली

स्वप्नवद्धरेः संसारो निवर्ततामिति तत्राह– अर्थेति ॥ हरेरपरोक्षज्ञान-लक्षणपदार्थे अविद्यमाने संसृतिर्न निवर्तते । कथमिव ? लीनानां वासनानां गमकेनोद्बोधकेन मनसा स्वप्ने विचरतो विषयान् भुञ्जानस्य पुंसः संसारो यथा न निवर्तते, निद्राया अनिवृत्तत्वात्, तथाऽत्र । ननु स्वप्नसंसारयोः कथं साम्यम् । स्वप्नदृष्टानां तत्क्षणं नष्टत्वात् संसारदृष्टानां किञ्चित्स्थायित्वदर्शना-दित्यस्यापीदमेवोत्तरमित्यभिप्रायेणोक्तम्– अर्थ इति ॥ अयं भावः । यथार्थज्ञानाभावादुभयोः साम्यम् । न तु स्थायित्वात् । न हि दृष्टान्तदार्ष्टान्तिकयोः सर्वसाम्यं क्वापि दृष्टम् । ‘संसृतेः स्वप्नसाम्यं तु यथार्थज्ञानवर्जनम् ॥’ इति वचनात् । ‘जाग्रत्यविद्यमानं तु देहात्मत्वं तु केवलम् । अविद्यमानं स्वप्ने तु जाग्रत्वज्ञानमेव च ॥’ इति वचनात्, उभयत्र यथशर्थज्ञानाभावोऽपि ज्ञायते । संसारे लब्धजन्मा यदि भगवज्ज्ञानं नापादयेत् तर्ह्ययं संसारो निष्प्रयोजनः स्यादित्यतो– अर्थे ह्यविद्यमानेऽपीति ॥ न तु मिथ्यात्वादितीममर्थं हिशब्देन सूचयति ॥ ३६ ॥

प्रकाशिका

नन्वहंममतादिरूपस्वातन्त्र्यभ्रमनिमित्तो हि दुःखादिरूपसंसारः । स च स्वप्नवत्स्वत एव तादृशभ्रमनिवृत्तौ निवृत्तो भविष्यतीत्यपेक्षायामाह ॥ अर्थ इति । पूर्वश्लोकेऽविद्योपसृतं द्वयमित्युक्त्याऽनिर्वचनीयाविद्याकल्पितत्वेन स्वप्नसाम्यं संसृतेरुच्यत इति भाति । अत्राप्यर्थे ह्यविद्यमान इत्यसत्वं प्रतीयतेऽतः श्लोकद्वयतात्पर्यं क्रमेण प्रमाणेनैवाह ॥ संसृतेरिति । संसृतेरविद्याकार्यत्वेन स्वप्नसाम्यवचनं यथार्थज्ञानवर्जनमेवाभिप्रेत्य न कल्पितत्वमित्यर्थः । तथा चाविद्योपसृतमित्येतद्यथार्थ-ज्ञानाभावप्राप्तमिति व्याख्येयमिति भावः । द्वितीयश्लोके यदविद्यमानमुक्तं तज्जाग्रति जाग्रदवस्थायां केवलं देहात्मत्वादि देहात्मनोः स्फुटतरविवेकाग्रहादिकमेव । न सुखदुःखादिकं सर्वम् । आदिशब्दादहं-ममतादिरूपस्वातन्त्र्यं ग्राह्यम् । तुशब्दौ प्रकृतत्वानुसन्धानार्थौ । जाग्रत्वेन ज्ञानं यस्य तत्तथा । जाग्रद्दृष्टपदार्थतादात्म्यमित्यर्थः । चशब्दाद्बाह्यमृदाद्युपादानकत्वादिसङ्ग्रहः ॥ तथा चायमर्थः ॥ अर्यत इति व्युत्पत्त्याऽर्थशब्दो ज्ञेयवाची । तथा चाहंममतादिरूपे देहात्मत्वादिरूपे वाऽर्थे विषयेऽविद्य-मानेऽपि । तज्ज्ञानस्य भ्रमत्वेऽपीति यावत् । तन्मूला दुःखादिरूपा संसृतिर्न निवर्तते । तत्कारणस्य देहात्मनोः स्फुटतरविवेकाभावस्य स्वातन्त्र्यभ्रमस्य च स्वत एव निवृत्तेरसम्भवादित्याशयः । कुत इत्यत उक्तम् ॥ लिङ्गरूपेण मनसेति । लिङ्गशरीरान्तर्गतमनसा निमित्तेनेत्यर्थः । स्वरूपमनोव्यावृत्त्यर्थम् ॥ लिङ्गरूपेणेति । तत्रापि मनसः प्राधान्यसूचनाय मनोग्रहणम् । तथा चानादिजडमनोलक्षणकारण-सत्वेनोक्तरूपभ्रमोऽनुवर्तत एवेत्याशयः । अत्र दृष्टान्तमाह ॥ स्वप्न इति । यथा लीनमर्थं गमयतीति लिङ्गं वासना तद्रूपेण तदात्मकेन मनसा निमित्तेन स्वप्ने विचरतो जाग्रदृष्टपदार्थाभेदेन स्वप्नपदार्था-न्विजानतः स्वाप्नासंसृतिर्न सर्वथा निवर्तते । वासनायुतस्य मनसः सत्वेन प्रत्यहं जायमानत्वात्तथैवेत्यर्थः

॥ ३६ ॥

अथात्मनोऽर्थभूतस्य यतोऽनर्थपरम्परा ।

संसृतिस्तद्व्यवच्छेदो भक्त्या परमया हरौ ॥ ३७ ॥

पदरत्नावली

एवंविधज्ञानोत्पत्तौ किं मुख्यसाधनम् ? अत्राह– अथेति ॥ यस्मात् केवल-कर्मणो दुःखहेतुः संसारः, सति भगवज्ज्ञाने च निवर्तते, अथ तस्मात् संसारनिवृत्त्यर्थे अर्थभूतस्य पुरुषार्थयोग्यस्यात्मनो जीवस्य यतो यस्य हरेरज्ञानादनर्थपरम्परा श्वयोनेः कृकलासयोनिरित्यादिलक्षणा संसृतिर्या तद्व्यवच्छेदस्तस्य संसारस्य निवृत्तिर्यया हरिभक्त्या स्यादिति यतस्तस्मात् तस्य हरेर्ज्ञानजननीं भक्तिमेव कुर्यादित्यन्वयः ॥ ३७ ॥

प्रकाशिका

एवं संसृतिप्रवृत्तिप्रकारमुक्त्वेदानीं तन्निवृत्तिप्रकारमुपदिशति ॥ अथेति । यस्मात्केवलकर्मणो दुःखहेतुः संसारः सति भगवत्ज्ञाने च निवर्ततेऽथ तस्माल्लिङ्गरूपमनसः संसार-मूलकारणत्वादर्थभूतस्य स्वभावतो निर्दुःखानन्दात्मकस्य पुरुषार्थयोग्यस्य वाऽऽत्मनो जीवस्य यतो लिङ्गमनसो हरेरज्ञानाद्वाऽनर्थपरंपररूपा संसृतिर्भवति । तस्य लिङ्गमनसोर्व्यवच्छेदो वियोगो हरौ परमया भक्त्यैवेत्यर्थः ॥ ३७ ॥

वासुदेवे भगवति भक्तियोगः समाहितः ।

सध्रीचीनेन वैराग्यं ज्ञानं च जनयिष्यति ॥ ३८ ॥

पदरत्नावली

ज्ञानद्वारा भक्तेः संसारोच्छेदकत्वमिति भावेनाह– वासुदेव इति ॥ सध्रीचीनेन प्राणायामादिवह्निना निर्दग्धमलेनान्तःकरणेन समाहितः सम्यक् स्थापितः । सध्रीचीनेन निष्कामेण पुरुषेणेति वा । यद्यपि भक्तेः पूर्वभावि वैराग्यम् । तथापि पश्चाद् दृढं कृतवतीत्यतो वैराग्यं जनयिष्य-तीति । ज्ञानं द्विविधम् ॥ ३८ ॥

प्रकाशिका

ननु वैराग्यं ज्ञानं चान्यत्र संसृतिनिवर्तकत्वेनोक्तम् । अतः कथं भक्त्यैवेत्युच्यत इत्यत आह ॥ वासुदेव इति । तथा च भक्तेर्वैराग्यादिद्वारैव मोक्षजनकत्वमुक्तं न साक्षादतो न विरोध इत्याशयः । ननु वैराग्यं ज्ञानं च भक्तेः पूर्वभावी तत्कथमत्र साध्यतयोच्यत इत्यत उक्तम् ॥ सध्रीचीनेनेति । सध्रीचीनेन समीचीनप्रकारेण प्राणायामादिवन्हिना निर्दग्धमलेनान्तःकरणेनेति यावत् । समाहितः सम्यक् स्थापितः सध्रीचीनेन निष्कामेन पुरुषेणेति वा । तथा च समीचीनं ज्ञानं वैराग्यं चात्र साध्यं न पूर्वभावीत्याशयः ॥ ३८ ॥

सोऽचिरादिव राजर्षे स्यादच्युतकथाश्रयः ।

शृृण्वतः श्रद्धधानस्य नित्यदा स्यादधीयतः ॥ ३९ ॥

पदरत्नावली

भक्तियोगस्य साधनमाह– सोऽचिरादिति ॥ अच्युतकथा आश्रयो यस्य स तथा । अनेन हरिकथा भक्तियोगस्य साधनम् । अच्युतकथाधिकारप्रकारमाह– शृृण्वत इति ॥ श्रद्धादि-गुणसंपत्तिरधिकारलक्षणम् ॥ ३९ ॥

प्रकाशिका

नन्वेतादृशो भक्तियोग एवं कथं स्यादित्यत आह ॥ स इति । स भक्तियोगो नित्यदा शृृण्वतः । हरिकथामिति शेषः । अचिरात्स्यादाविरासीत् । कुतः यतोऽच्युतकथा हरिकथाऽऽ-श्रयोत्पादिका यस्य स तथा ॥ ३९ ॥

यत्र भागवता राजन् साधवो विशदाशयाः ।

भगवद्गुणानुकथनश्रवणाव्यग्रचेतसः ॥ ४० ॥

पदरत्नावली

कुत्रेयं सम्भूयत इति तत्राह– यत्रेति ॥ अव्यग्रचेतसस्तदेकचित्ताः ॥ ४० ॥

प्रकाशिका

ननु हरिकथाऽपि कुत्र स्यादित्यपेक्षायामाह ॥ यत्रेति । अव्यग्रचेतसस्तदेकचित्ताः

॥ ४० ॥

तस्मिन् महन्मुखरिता मधुभिच्चरित्र-

पीयूषतोयसरितः परितः स्रवन्ति ।

ता ये पिबन्त्यनुसवं नृप गाढकर्णै-

स्तान् न स्पृशन्त्यशनतृड्भयशोकमोहाः ॥ ४१ ॥

पदरत्नावली

तस्मिन् सतां समाजे महद्भिर्मुखरिताः शब्दात्मना निर्गमिता यास्ताः सरितः । तान् पुरुषान् ॥ ४१ ॥

प्रकाशिका

तस्मिन्देशे सतां समाजे महद्भिर्मुखरिताः कीर्तिताः । मधुभिदो हरेश्चरितमेव पीयूषं तल्लक्षणतोयपूर्णाः सरितः सन्तीत्यर्थः । पीयूषशेषेति पाठे पीयूषस्य शेष एकदेशो यास्विति व्याख्येयम् । ननु क्षुत्तृडादिभिः पीडितानां कथं हरिकथाश्रवणं नित्यदा स्यादित्यत आह ॥ ता इति । अवितृषोऽ-लम्बुद्धिरहिताः सन्तो गाढैः सावधानैः कर्णैस्ताः सरितः पिबन्ति । आदरेण शृृण्वन्ति । अशनशब्देन क्षुधा लक्ष्यते । तान्न स्पृशन्ति । तान्पुरुषान्न बाधत इत्यर्थः ॥ ४१ ॥

एतैरुपद्रुतो नित्यं जीवलोकः स्वभावजैः ।

न करोति हरेर्नूनं कथामृतनिधौ रतिम् ॥ ४२ ॥

पदरत्नावली

अशनादिस्पर्शफलमाह– एतैरिति ॥ एतैरशनादिभिः । स्वभावजैः सहजैः । हरिकथामृतनिधिरतिविघ्नः फलम् ॥ ४२ ॥

प्रकाशिका

नन्वेवं हरिकथां श्रुत्वा सर्वे कुतो न मुच्यन्त इत्यत आह ॥ एतैरुपद्रुत इति । एतैरशनादिभिः । स्वभावजैः शरीरस्वभावजातैः ॥ ४२ ॥

प्रजापतिपतिः साक्षाद्भगवान् गिरिशो मनुः ।

दक्षादयः प्रजाध्यक्षा नैष्ठिकाः सनकादयः ॥ ४३ ॥

तात्पर्यम्

‘प्रजापतिपतिर्ब्रह्मा विरिञ्चश्चेति कथ्यते’ इति शब्दनिर्णये ॥

पदरत्नावली

अधुनाऽशनाद्युपद्रवविधुरेणापि साकल्येन श्रीहरिज्ञानं दुर्लभमित्याह– प्रजापतिरित्यादिना ॥ ‘प्रजापतिपतिर्ब्रह्मा विरिञ्चश्चेति कथ्यते’ इति वचनात् प्रजापतिपतिर्ब्रह्मा ॥४३॥

प्रकाशिका

भक्तियोगेनापि भगवान्साकल्येन केनापि ज्ञातुं न शक्य इत्याह ॥ प्रजापतिरिति । अत्र प्रजापतिपतिशब्दविवक्षितमर्थं प्रमाणेनैवाह ॥ प्रजापतीति । नैष्ठिका ऊर्ध्वरेतसः ॥ ४३ ॥

मरीचिरत्र्यङ्गिरसौ पुलस्त्यः पुलहः क्रतुः ।

भृगुर्वसिष्ठ इत्येते मदन्ता ब्रह्मवादिनः ॥ ४४ ॥

पदरत्नावली

अहमेवान्तो येषां ते मदन्ताः ॥ ४४ ॥

प्रकाशिका

अहं नारद अन्तो येषां ते मदन्ताः ॥ ४४ ॥

अद्यापि वाचस्पतयस्तपोविद्यासमाधिभिः ।

पश्यन्तोऽपि न पश्यन्ति तद् विष्णोः परमं पदम् ॥ ४५ ॥

पदरत्नावली

ब्रह्मवादित्वेऽपि वाक्पटुत्वाभावान्न पश्यन्तीत्यतो वाचस्पतय इति । यत् पश्यन्तोऽपि न पश्यन्ति तद् विष्णोः परमं पदमित्यन्वयः ॥ ४५ ॥

प्रकाशिका

वाचस्पतयोऽपि न पश्यन्ति साकल्येन । तपोविद्यासमाधिभिरित्यत्र भक्तिरपि ग्राह्या । यत्पश्यन्तोऽपि न पश्यन्ति तद्विष्णोः परमं पदमित्यन्वयः ॥ ४५ ॥

शब्दब्रह्मणि दुष्पारे चरन्त उरुविस्तरे ।

मन्त्रलिङ्गैर्व्यवच्छिन्नं भजन्तो न विदुः परम् ॥ ४६ ॥

तात्पर्यम्

‘मन्त्रलिङ्गैर्व्यवच्छिन्नं वेदशब्दोक्तमात्रकम् । वेदो वदन्नपि हरिं न सम्यग्वक्ति कुत्रचित् । नारोहयत्यनुभवमप्रसिद्धस्वरूपतः । अथाप्यनुभवारोहः प्रसन्ने केशवे भवेत् । किञ्चिदेव सुसम्यक् च स्वयं त्वनुभवत्यमुम्’ ॥ इति वाराहे ॥ ४६ ॥

पदरत्नावली

तत्साधनमानबाहुल्याभावात् तद्विषयज्ञानानुदयान्न पश्यन्ति चेत् ? तत्राह– शब्देति ॥ निर्दोषः शब्द आगम इति निर्दोषशब्दराशौ दुष्पारेऽनन्ते । कुत इत्यत उक्तम्– उरुविस्तर इति ॥ चरन्तो जिज्ञासया वर्तमाना अपि मन्त्रलिङ्गैर्वेदोक्तलक्षणैर्व्यवच्छिन्नमुक्तमात्रं, न तु सम्यगुक्तं, एवंविधं परं परमात्मानं भजन्त उपासमाना अपि तन्न विदुरित्यन्वयः । ‘विभ्रद् द्रार्पि हिरण्ययं वरुणो बस्तनिर्णिजम्’ इत्यादिवेदो वदन्नप्यनुभवानारोहयितृत्वेन वक्ति । अतोऽप्रसिद्धस्वरूपत्वेन सम्यङ् न जानन्ति । तस्य सेवाऽपि न व्यर्था । तत्प्रसादेनानुभवारोहोऽपि क्रमेण स्यादिति । तदुक्तम्– ‘वेदो वदन्नपि हरिं न सम्यग् वक्ति कुत्रचित् । नारोहयत्यनुभवमप्रसिद्धस्वरूपतः ॥ तथाप्यनुभवारोहः प्रसन्ने केशवे भवेत् । किञ्चिदेव सुसम्यक् च स्वयं चानुभवत्यमुम् ॥’ इति । यद्वा मन्त्राख्यैलिङ्गैर्हेतुभि-र्व्यवच्छिन्नं क्रोडीकृतं कृष्णरामादिलक्षणं परमं भजन्तोऽपि तत्प्रसादमन्तरेण परं व्याप्तं साकल्येन न विदुरिति । शबलं भजन्तः परं शुद्धं न विदुरित्यर्थोऽनुपपन्नः । परमार्थभेदाभावेनैकस्मिञ्जातेऽन्यज्ञानस्य नान्तरीयकत्वात् । ‘येनाश्रुतं श्रुतं भवती’ति श्रुतेश्च । यथा रामस्मरणेन कृष्णस्वरूपज्ञानं जाम्बव-तस्तयोरेकत्वादित्याहुः ॥ ४६ ॥

प्रकाशिका

एतदेव विशदयति ॥ शब्दब्रह्मणीति । निर्दोषशब्द आगम इति निर्दोषशब्दराशौ दुष्पारेऽनन्ते । कुत इत्यत उक्तम् । उरु विस्तरे चरन्तो विचारयन्तो मन्त्रलिङ्गैः श्रीपतित्वादि-रूपैर्व्यवच्छिन्नमितरव्यावृत्ततया ज्ञातं परं परमात्मानं न विदुः । अत्र ज्ञातं न विदुरिति व्याहतमिवा-भाति । अतोऽत्र विवक्षितं तात्पर्यं प्रमाणेनैवाह ॥ मन्त्रलिङ्गैरिति । वेदशब्दो वेदे विद्यमानं नाम न सम्यग्वक्ति । न सम्यगित्युक्तं विवृणोति ॥ नारोहयत्यनुभवमिति । अनुभवारूढं न करोतीत्यर्थः । अत्रानुभवारोहो नाम क्वचिद्युगपदणुत्वमहत्वादावसम्भावनादिराहित्येन निश्चयः । नन्वनुभवारोहाभावे कथं ध्यानादिना तदपरोक्षज्ञानमित्यत उक्तम् ॥ अथापीति । किञ्चिदेवानुभवारोहः । अनेन यदेत्युत्तरश्लोकतात्पर्यमप्युक्तमित्यवमन्तव्यम् । सु सम्यगनुभवारोहः कस्य भवतीत्यपेक्षायामाह ॥ सुसम्यगिति । स्वयमेवामुं केशवमनुभवति । तथा च सम्यगनुभवारोहो यथा स्यात्तथा न विदुरिति मूलाशयः । अतो न व्याहतिशङ्केति भावः ॥ ४६ ॥

सर्वेषामिह जन्तूनां सततं१ देहपोषणे ।

अस्ति प्रज्ञा समायत्ता को विशेषस्तया नृणाम् ॥ ४७ ॥

पदरत्नावली

नन्विदानीं मायया क्षिप्तमपि चेतनसमवेतं ज्ञानमदृष्टवशात् कस्मिंश्चित् कालेऽनुसन्धानलक्षणं कंचिद्विशेषमापादयेत् । अतोऽनुसन्धानाननुसन्धाने युक्ते इति तत्राह– सर्वेषामिति ॥ इह कर्मभुवि सर्वेषां जन्तूनां सन्ततं देहपोषणे प्रज्ञा बुद्धिः समायत्ता सन्ततास्ति । नृणां तया प्रज्ञया को विशेषः स्वरूपानुसन्धानलक्षणः समापन्नः ? न कोऽपीत्यन्वयः । त्वत्पक्षे त्वदृष्टादीनां मिथ्यात्वेनार्थक्रियायामसामर्थ्यादेव न कस्यचिदैक्येऽनुसन्धानमवश्यं भवतीति ॥ ४७ ॥

प्रकाशिका

साकल्यानुभवारोहाभावे किं तत्ज्ञानेन लौकिकप्रज्ञयैवालमित्याशङ्कापरिहाराय लौकिकमात्रज्ञानिनिन्दापूर्वकं योग्यतानुसारेणेश्वरज्ञानिनः स्तौति ॥ सर्वेषामिति श्लोकद्वयेन । इह भारतवर्षे को विशेषः । पश्वादिभ्य इति शेषः ॥ ४७ ॥

लब्ध्वेहान्ते मनुष्यत्वं हित्वा देहाद्यसद्ग्रहम् ।

आत्मसृत्या विहायेदं जीवात्मा स विशिष्यते ॥ ४८ ॥

पदरत्नावली

जीवन्मुक्त्यवस्थायामपि जीवात्मत्वाहानेर्हरेर्भेदः सत्य इति भावेन स्वरूपत्व-सिद्धये साधनमाह– लब्ध्वेति ॥ इह बहुजन्मनामन्ते भगवदुद्बोधितपूर्वादृष्टविशेषान् मनुष्यत्वं लब्ध्वा ममाहमिति देहाद्यसद्ग्रहं संसारे देही हित्वा आत्मसृत्या आत्मज्ञानेनेदं कलेवरं विहाय यः संसारी जीवात्मा स विशिष्यते न तु ब्रह्मेत्यन्वयः ॥ ४८ ॥

प्रकाशिका

इह कर्मभुवि आत्मसृत्या परमात्मज्ञानेनेदं शरीरं विहाय यो जीवात्मा वर्तते स विशिष्यत इत्यर्थः । अतः स्वयोग्येश्वरज्ञानाय प्रयत्नः कार्य इत्याशयः ॥ ४८ ॥

यदा यस्यानुगृह्णाति भगवानात्मभावितः ।

स जहाति मतिं लोके वेदे च परिनिष्ठिताम् ॥ ४९ ॥

तात्पर्यम्

‘यदा त्वनुभवी भूयाच्छब्दमात्रानुरोधनम् । त्यक्त्वाऽथ तं विदुः प्राज्ञास्त्यक्त-वेद इति स्म ह । यदैवं त्यक्तवेदः स्यादथास्मान्मुच्यते भयात् । प्रायस्तु वैदिका एव रुद्राद्या अपि वै पुरा । वैदिकस्त्यक्तवेदश्च ब्रह्मैवैकः प्रजापतिः । ततस्तु केशवं भक्त्या सम्पूज्य बहु-जन्मसु । त्यक्तवेदत्वमापन्नाः प्रसादात्परमेष्ठिनः ॥’ इति महासंहितायाम् । ‘केवलं वेदशब्देन जानन्वैदिक उच्यते । वेदं विनाप्यनुभवाज्जानंस्तु त्यक्तवैदिकः ॥’ इत्यध्यात्मे ॥ ‘तत्त्वं वेदानु-सारेण चिन्तयन्वैदिको भवेत् । वेद ऊहामनुसरेद्यस्य स त्यक्तवैदिकः’ ॥ इति षाड्गुण्ये ॥४९॥

पदरत्नावली

हरिप्रसादं विना तज्ज्ञानं न स्यात् । तस्मिन् सत्युत्पाद्यमानस्य ज्ञानस्य फलमाह– यदेति ॥ यदा ‘आत्मेति तूपगच्छन्ति ग्राहयन्ति च’ इति सूत्रोक्तप्रकारेणात्मभावितः मम स्वामी हरिर्नित्यमिति भावेनोपासितो भगवान् यस्योपासकस्यानुगृह्णात्यात्मानं प्रकाश्यानुभवमुत्पादयति स पुमान् लोके वेदे च परिनिष्ठितां मतिं जहाति बाह्यपदार्थविषयां संविदमपहाय परमात्मानमेव सर्वेन्द्रियैरनुभवन्नास्त इत्यन्वयः । अनेनोपासकस्य मुक्तिकल्पने कथां ध्वनयति । तदुक्तम्– यदा त्वनुभवी भूयाच्छब्दमात्रानुरोधनम् । त्यक्त्वाऽथ तं विदुः प्राज्ञास्त्यक्तवेद इति स्म ह । यदैव त्यक्तवेदः स्यादथास्मान्मुच्यते भयात्’ इति । निर्दोषशब्दलक्षणवेदप्रहाणे बौद्धराद्धान्तानुप्रवेशः स्यादित्यत उक्तम्– ‘प्रायस्तु वैदिका एव रुद्राद्या अपि वै पुरा’ इति । आदिशब्देन मुक्तियोग्यमात्रं गृहीतम् । पुरेत्यनेन जन्मप्रभृति वैदिकत्वमस्तीति ज्ञापयति । प्राय इत्यनेन त्यक्तवेदत्वं पश्चादिति । तदप्येतद् द्वयं कस्य मुख्यमित्यत उक्तम्– ‘वैदिकस्त्यक्तवेदश्च ब्रह्मैवैकः प्रजापतिः’ इति रुद्रादीनां कथङ्कारं पश्चादपि त्यक्तवेदत्वं प्राप्तमित्यत उक्तं– ‘ततस्तु केशवं भक्त्या सम्पूज्य बहुजन्मसु । त्यक्तवेदत्वमापन्नाः प्रसादात् परमेष्ठिनः ॥’ इति । ‘केवलं वेदशब्देन जानन् वैदिकम् उच्यते । वेदं विनाप्यनुभवाज् जानंस्तु त्यक्तवैदिकः ॥’ इत्यनेन मिथो विरुद्धयोर्वैदिकत्यक्तवेदशब्दयोरेकाधिकरणत्वं कथं युज्यत इतीदं चोद्यमपनोदितम् । ‘तत्त्वं वेदानुसारेण चिन्तयन् वैदिको भवेत् । वेद ऊहामनुसरेद् यस्य स त्यक्त-वैदिकः ॥’ इत्यनेन वेदशब्देन ज्ञातृत्वं तमन्तरेणानुभवितृत्वं च कथं विविच्यत इति चोद्यं परिहृतम् । त्यक्तवैदिकस्त्यक्तवेदराशिरित्यर्थः ॥ ४९ ॥

प्रकाशिका

किञ्चिदनुभवारोहोऽप्यधिकारिणो न स्वप्रयत्नेन भवतीत्याह ॥ यदा यस्येति । अत्र वेदे च मतिं जहातीति वेदपरित्याग उच्यते । स तु प्रमाणविरुद्धोऽतोऽत्र विवक्षितं वेदपरित्यागं प्रमाणेनैव दर्शयति ॥ यदात्विति । शब्दमात्रानुरोधनं वैदिकशब्दानुसारेणैवानुभवारोहं त्यक्त्वा यदाऽनु-भवी स्वभावसिद्धप्रतिभयैव वैदिकार्थानुभवारोहवान् भूयात् । अथ तं तदा त्यक्तवेद इति विदुः । एतादृशवेदपरित्यागो नानर्थफलक इत्याह ॥ यदैवमिति । एतादृशस्त्यक्तवेदो दुर्लभ इत्याशयेनाह ॥ प्रायस्त्विति । तुशब्दो वैदिकत्वे तारतम्यरूपविशेषद्योतकः । पुराऽपि रुद्रादीनां कदाचित्त्यक्तवेदस्यापि सत्वात्प्राय इत्युक्तम् । पुराऽनादितो रुद्रादीनामपि त्यक्तवेदत्वस्य सत्वात्कथं ब्रह्मैवैक इत्युक्तमित्यत आह ॥ ततस्त्विति । ततो वैदिकत्वानन्तरम् । तु तारतम्यरूपविशेषेण परमेष्ठिनः प्रसादात्त्यक्त-वेदत्वमापन्ना रुद्राद्याः । न तु ब्रह्मवदनादितः । अतो ब्रह्मैवैक इत्युक्तमिति भावः । वैदिकत्यक्त-वैदिकशब्दयोरत्र विवक्षितमर्थं प्रमाणेनैव दर्शयति ॥ केवलमिति । केवलं वेदशब्देन तदनुसारेण जानन् अनुभवारोहवान् । वेदं विना वेदानुसरणं विनाऽनुभवादपि स्वभावसिद्धप्रतिभाबलादपि जानन् अनुभवारोहवान् । तुशब्दोऽवधारणे । त्यक्तवैदिक उच्यते । नन्वेवंविधयोर्वैदिकत्वत्यक्तवैदिकत्वयोः परस्परविरुद्धयो रुद्रादौ कालभेदेन समावेशसम्भवेऽपि न ब्रह्मणि तयोः पूर्वोक्तः सर्वदा समावेशः सम्भवतीत्याशङ्कायां तत्र वैदिकत्यक्तवैदिकशब्दयोर्विवक्षितमर्थान्तरं प्रमाणेनैवाह ॥ तत्त्वमिति ॥ वेदानुसारेणेति । अत्र केवलमिति न विवक्षितमतो न विरोध इत्याशयः । चिन्तयन् अनुभवारूढं कुर्वन्यस्योहां प्रतिभामनुसरेत्स त्यक्तवैदिकोऽत्र विवक्षितो भवेदित्यर्थः । एतादृशं वैदिकत्वं त्यक्त-वैदिकत्वं च ब्रह्माणं विना नान्यत्रास्तीत्याशयः ॥ ततश्चायं श्लोकार्थः ॥ यदाऽऽत्मना भावित आत्मना मनसा भावितो ध्यातो भगवान् यस्योपासकस्यानुगृह्णाति प्रसन्नः सन् स्वभावसिद्ध्या प्रतिभयैवानु-भवारूढो भवति । सोऽधिकारी लोके पौरुषेये भारतादौ वेदे च परिनिष्ठितां मतिं तत्रत्यलिङ्ग-शब्दाद्यनुरोधेनैवानुभवारोहं जहाति ॥ ४९ ॥

तस्मात् कर्मसु बर्हिष्मन्नज्ञानादर्थकाशिषु ।

माऽर्थदृष्टिं कृथाः श्रोत्रस्पर्शिष्वस्पृष्टवस्तुषु ॥ ५० ॥

पदरत्नावली

उपसंहरति– तस्मादिति ॥ यस्माज् ज्ञानेनैव मोक्षस्तस्माद् अज्ञानाद् भगव-त्तत्वापरिज्ञानादर्थकाशिषु सप्रयोजनत्वेन प्रकाशमानेष्वग्निष्टोमादिलक्षणेषु कर्मस्वर्थदृष्टिं मा कृथा न कुरुत इत्यन्वयः । तत्प्रवृत्तौ निमित्तमाह– श्रोत्रस्पर्शिष्विति ॥ अपाम सोममिति श्रवणे श्रोत्रमुखं स्पृशन्तीति ददतीति श्रोत्रस्पर्शीनि तेषु । हेयत्वे कारणं वक्ति– अस्पृष्टवस्तुष्विति ॥ परमात्माख्य-वस्तुसम्बन्धगन्धरहितेषु ॥ ५० ॥

प्रकाशिका

एवं मोक्षसाधनपरमात्मविद्यां स्पष्टतयोपदिश्येदानीं तत्र रुच्युत्पादनाय काम्य-कर्मरतित्यागमुपदिशति ॥ तस्मादिति । यस्मात्ज्ञानेनैव मोक्षस्तस्मादज्ञानाद्भगवत्तत्त्वापरिज्ञानात्परम-पुरुषार्थाज्ञानाद्वाऽर्थकारिषु प्रयोजनसाधनत्वेन प्रकाशमानेष्वग्निष्टोमादिलक्षणेषु कर्मसु अर्थदृष्टिं पुरुषार्थसाधनदृष्टिं मा कृथा न कुरुत । श्रोत्रस्पर्शिषु श्रोत्रप्रियेषु हेयत्वे निमित्तमाह ॥ अस्पृष्टेति । अस्पृष्टवस्तुषु परमात्माख्यवस्तुसम्बन्धरहितेषु ॥ ५० ॥

स्वलोकं न विदुस्ते वै यत्र देवो जनार्दनः ।

आहुर्धूम्रधियो वेदं सकर्मकमतद्विदः ॥ ५१ ॥

पदरत्नावली

अज्ञानादित्युक्तं विवृणोति– स्वलोकमिति ॥ ये कर्मनिष्ठास्ते यत्र लोके जनार्दनो देवोऽस्ति तं स्वलोकं स्वेन प्राप्यं वैकुण्ठादिस्थानं न विदुरित्यन्वयः । अनेन वैकुण्ठादि-स्थानमीदृशमिति न जानन्ति, किमुत हरिमित्यर्थाद् ध्वनितमिति ज्ञायते । अन्यथाविदुश्चेत्याह– आहुरिति ॥ धूम्रे धूमरते धूममार्गे धीर्येषां ते धूम्रधियः । तत्र निमित्तमाह– अतद्विद इति ॥ तस्य वेदस्य तत्त्वं ब्रह्मलक्षणं न विदन्तीति । कर्मणा सह वर्तत इति सकर्मकस्तम् ॥ ५१ ॥

प्रकाशिका

तर्हि कथं प्रेक्षावतां प्रवृत्तिरित्यतो न ते प्रेक्षावन्त इत्याह ॥ स्वलोकमिति । ये कर्मनिष्ठास्ते यत्र लोके जनानर्दयतीति जनार्दनोऽस्ति । तं स्वलोकं स्वेन गम्यं वैकुण्ठादिस्थानं ज्ञानसाध्यं न विदुरित्यन्वयः । अन्यथा विदुश्चेत्याह ॥ आहुरिति । धूम्रे धूमतरे धूममार्गे धीर्येषां ते धूम्रधियः । वेदं सकर्मकं कर्मण्येव तात्पर्योपेतमाहुः । कुतः । यतोऽतद्विदस्तत्तात्पर्यज्ञानशून्याः ॥५१॥

आस्तीर्य दर्भैः प्रागग्रैः कार्त्स्न्येन क्षितिमण्डलम् ।

ततो बृहद्वधान्मानी कर्म नावैषि यत् परम् ॥ ५२ ॥

पदरत्नावली

कर्म विनान्यन्न वक्तीति सकर्मकत्वमित्ययमविवेक इत्याह– आस्तीर्येति ॥ बृहतां बहूनां वधात् संज्ञपनलक्षणाद् यष्टाऽहमिति मानी त्वं कर्म नावैषि । प्राचीनाग्रदर्भास्तरणं कृत्वा पशुसंज्ञपनमेव जानासि । न तु कर्मस्वरूपमित्यर्थः । ‘कुरु कर्मैव तस्मात्वं पूर्वैः पूर्वतरं कृतम्’ इत्यादिना विधीयमानं यत् परं कर्म तन्न जानासीत्युच्यते, न तु कर्ममात्रम् ॥ ५२ ॥

प्रकाशिका

त्वमपि तेष्वेक इत्याह ॥ आस्तीर्येति । बृहतां बहूनां वधात्संज्ञपन-लक्षणाद् यष्टाऽहमिति मानी त्वं यत्परं मोक्षजनकं भगवत्प्रीत्यर्थं क्रियमाणं कर्म तन्नावैषि न जानासि । प्राचीनाग्रदर्भास्तरणं कृत्वा पशुसंज्ञपनमेव जानासि न तु कर्मस्वरूपमित्यर्थः ॥ ५२ ॥

तत् कर्म हरितोषं यत् सा विद्या तन्मतिर्यया ।

हरिर्देहभृतामात्मा स्वयं प्रकृतिरीश्वरः ॥ ५३ ॥

पदरत्नावली

कल्पोक्तद्रव्यसामग््रया क्रियमाणस्य कर्मणः कथं परत्वाभाव इति तत्राह– तत् कर्मेति ॥ हरेस्तोषोऽनुग्रहलक्षणो यस्मात् तत् कर्म । तस्माद् ब्रह्मार्पणबुद्ध्या क्रियमाणस्य कर्मणः परत्वं, न द्रव्यसामग््रयाः, तस्यावरत्वेन दारिद्र्यहेतुत्वात् । ननु ममापि वेदविद्याधिकारित्वेन कर्मानुष्ठानस्य तत्पूर्वकत्वमस्तीति तत्राह– सा विद्येति ॥ यया विद्यया तस्य हरेर्मतिर्ज्ञानमुत्पद्यते सा विद्या वेदार्थज्ञानलक्षणा, नान्या । अन्या त्वविद्या कर्मविषया हेयपक्ष इति । कोऽसौ हरिर्येन तज्ज्ञानपूर्वकमनुष्ठितं कर्म सफलं स्याद् ? अत्राह– हरिरिति ॥ दुरितहरणशिलत्वाद्धरिर्देहभृतां जीवानामात्मा स्वामी । स्वयं सर्वव्यावृत्तः । प्रकृतिर्मूलकारणम् । ईश्वरोऽणिमाद्यष्टैश्वर्यरूपः । एषां गुणानामधिकरणभूतो यः स हरिरिति ज्ञातव्यम् ॥ ५३ ॥

प्रकाशिका

ननु कर्मविद्योक्तकर्मणा कर्म कुर्वाणोऽहं कथमज्ञानी स्यामित्यत आह ॥ तत्कर्मेति । यद्धरेस्तोषोऽनुग्रहलक्षणो यस्मात्कर्मणस्तद्धरितोषं तदेव कर्म नेतरत् । तस्य भगवतो मतिर्ज्ञानं यया विद्यया सैव विद्या वेदार्थज्ञानलक्षणा न कर्ममात्रपरेत्यर्थः । तथा च कर्मकाण्डस्यापि हरिपरत्वे एव विद्यात्वं तदुक्तस्य च कर्मणो हरितोषकत्वे एव कर्मपरत्वं नान्यथेत्याशयः । कोऽसौ हरिरित्यपेक्षायां तत्स्वरूपं दर्शयंस्तत्ज्ञानिनः स्तौति । हरिरिति द्वाभ्याम् । यो दुरितहरणशीलत्वा-द्धरिर्देहभृतां जीवानामात्मांऽतर्यामी स्वयमनन्याधीन एव प्रकृतिः प्रकृष्टकृतिमान् ईश्वरोऽणिमाद्यष्टैश्वर्यरूप एषां गुणानामधिकरणभूतः स हरिरिति ज्ञातव्यम् ॥ ५३ ॥

तत्पादमूलं शरणं यतः क्षेमो नृणामिह ।

सवै प्रियतमो ह्यस्य यतो न भयमण्वपि ।

इति वेद स वै विद्वान् यो विद्वान् स्वगुरुर्हरिः ॥ ५४ ॥

नारद उवाच–

प्रश्न एवं हि संच्छिन्नो भवतः पुरुषर्षभ ।

अत्र मे वदतो गुह्यं निशामय सुनिश्चितम् ॥ ५५ ॥

पदरत्नावली

हरिरेवंविधश्चेत् ततः किम् ? अत्राह– तत्पादेति ॥ यतो यस्मात् क्षेमो भवेन्नृणां तस्य हरेः पादमूलं शरणं रक्षकम् । शरणं गृहरक्षित्रोरित्यभिधानम् । पित्रादीनां वयसि गते पुत्रादीनामपि शरणत्वदर्शनात् किं विशिष्योच्यत इति तत्राह– स वा इति ॥ भगवत्संपर्कात् पुत्रादीनां प्रियत्वात् हरेः प्रियतमत्वम् । कुत इति तत्राह– यत इति ॥ श्रीनारायणचरणारविन्दशरणं गतस्यास्य संसारिणोऽण्वपि भयं नास्ति यतोऽथ तस्माद्धरिः पुत्रादेः प्रेष्ठ इति कृत्वा पुंसस्तत्पादमूलं शरण-मित्यन्वयः । एवं वेत्तुरेव विद्वत्ता नानेवंविद इत्याह– इतीति ॥ इतिशब्दो हेत्वर्थः । यस्माद्धरिचरण-शरणस्य मोक्षादिसर्वपुरुषार्थावाप्तिस् तस्माद् य एवं वेद स वा एव विद्वान्, नान्यः । कुतः ? स्वगुरुः स्वापेक्षिताशेषज्ञानोपदेष्टा । तत्र हरेः सन्निधानविशेषात् तत्सामर्थ्यमस्येति भावेनाह– हरिरिति ॥ अनेन गुर्वादिशब्दप्रयोगेण देवादीनां मुख्यविद्वत्तेत्याह ॥ अत्रेति ॥ निशामय शृृणु ॥ ५४,५५ ॥

प्रकाशिका

अस्याधिकारिणो यो वै प्रियतमः । स्वदेहादेरप्यतिशयेन प्रियो यतोऽण्वपि भयं नास्ति । स एव हरिर्यो विद्वान्सर्वज्ञोऽत एव स्वगुरुर्व्यासादिरूपेण हितोपदेष्टा सोऽपि हरिरिति यो वेद स एव हि विद्वान्मतिमानित्यर्थः ॥ ५४,५५ ॥

क्षुद्रञ्चरं सुमनसां शरणे मथित्वा

रक्तं षडङ्घ्रिगणसामसुलुब्धकर्णम् ।

अग्रे वृकानसुहृदोऽविगणय्य यान्तं

पृष्ठे मृगं मृगयुलुब्धकबाणभिन्नम् ॥

अस्यार्थः सुमनसां सधर्माणां स्त्रीणां शरण आश्रमे पुष्पमधुगन्धवत् क्षुद्रतमं काम्यकर्मविपाकजं कामसुखलवं जैह्व्यौपस्थ्यादि विचिन्वन्तं मिथुनीभूय तदभि-निवेशितमनसं षडङ्घ्रिगणसामगीतवदतिमनोहरवनितादिजनालापेष्वतितरामति-प्रलोभितकर्णमग्रे वृकयूथवदात्मन आयुर्हरतोऽहोरात्रान्तान् काललवविशेषानविगणय्य गृहेषु विहरन्तं पृष्ठत एव परोक्षमनुप्रवृत्तो लुब्धकः कृतान्तः शरेण यमिह परिविध्यति तमिममात्मानमहो राजन् भिन्नहृदयं द्रष्टुमर्हसीति ॥ ५६ ॥

पदरत्नावली

सुमनसां समानधर्माणां पुष्पवत् कोमलशरीराणां शरण आश्रमे, अन्यत्र पुण्याश्रये वने, क्षुद्रं पुष्पमधुगन्धवदल्पम् । किं तत् ? काम्यकर्मविपाकजं प्रवृत्तकर्मफलं विषयसुखलेशं जैह्व्यौपस्थ्यादिविषयं चरं चरन्तं भुञ्जानमितस्ततो गत्वा विचिन्वंतमन्विच्छन्तं तदर्थित्वान् मिथुनीभूय तदभिनिविष्टचेतनं षडङ्घ्रिगणसामगानवद् भ्रमरनिकरसुन्दरगानवदतिमनोहरस्त्रीजनसंलापेषु अतितरा-मत्यन्तं प्रलोभितौ कर्णौ यस्य स तथा तम् । तदेकमग्नश्रोत्रमित्यर्थः । कुतः ? अग्ने वृकान् वृकसमान-धर्मान् असुहृदो ऽसुलक्षणमायुर्हरतोऽहोरात्रादिकालविशेषानविगणय्यागणयित्वा यान्तं क्रीडागृहे विहरन्तमित्यर्थः । पृष्ठे परोक्षमवस्थित उपशये स्थितो लुब्धकसमानः कृतान्तः शरसमेनादृष्टेन यमात्मानं पराविध्यति तमिममात्मानं जीवं भिन्नहृदयं मृगपर्यालोचनयाऽलोच्य च द्रष्टुमर्हसीत्यर्थः । कथमिव ? मृगयुहतं मृगं हरिणमिवेति ॥ ५६ ॥

प्रकाशिका

वैराग्यपूर्वकं हरिभजनाय मृगसाम्यं स्वात्मनो विद्धीत्याह ॥ क्षुद्रञ्चरमिति द्वाभ्याम् ॥ क्षुद्रमल्पं चरतीति । अलुक् समासः । सुमनसां पुष्पाणां शरणे आश्रमे वाटिकायां मथित्वा मिथुनीभूय । स्त्रिया सह मिलित्वेति यावत् । रक्तं तत्रैवासक्तं षडङ्घ्रयो भ्रमरास्तेषां सामसु गीतेषु लुब्धौ कर्णौ यस्य तमविगणय्यागणयित्वा पृष्ठे लुब्धकस्य बाणेन भिन्नं मृगं मृगय विचारपूर्वकं पश्य ॥ ५६ ॥

स त्वं विचक्ष्व मृगचेष्टितमात्मनोऽन्त-

श्चित्तं नियच्छ हृदि कर्णधुनीं च चित्तिम् ।

१जह्यङ्गनाश्रममसत्तमयूथगाथं

प्रीणीहि हंसशरणं विरम क्रमेण ॥ ५७ ॥

तात्पर्यम्

‘चित्तिर्बुद्धिरिति ज्ञेया चित्तं तु स्मृतिकारणमि’ति शब्दनिर्णये ॥ ५७ ॥

पदरत्नावली

मद्वाक्ये श्रद्वा चेद्धितमुपदिशामीत्याह– स त्वमिति ॥ यः पूर्वं कर्मठः स त्वं मृगवच्चेष्ठितं चेष्टा यस्य स तथा तम् । मृगस्येव विषयानन्विच्छतो जीवस्य चेष्टितमिति वा । विचक्ष्व पश्य । आत्मनस्तव चित्तं पूर्वकृतस्मरणसमर्थमन्तःकरणविशेषमन्तःस्थिते हृदि सर्वपापहरे हृन्नामि्न हरौ नियच्छ तत्रैव स्थापय । कर्णधुनीं कर्णधारमिव स्थितां चित्तिं बुद्धिं च हरौ स्थापय । कर्णादीन्द्रिय-प्रवृत्तिहेतुभूतां वा । कर्णाख्यधुनीं वा । तत्कथाश्रवणे बुद्धिं च । तद्गुणनिर्णये वा । असत्तमानां विषयिणां यूथस्य गाधाविषयवार्तावदाकारो यस्मिन् तमङ्गनाभ्रमं जहि । हंसो निर्दोषः परमात्मा मम शरणमिति कृत्वा प्रीणीहि तृप्तो भव । यद्वा हंसानां संन्यासिनां शरणं प्रीणीहीति । क्रमेण साधनसामग्य्रनुसारेण विरम संसाराद् विरतो भूया इत्यन्वयः ॥ ५७ ॥

प्रकाशिका

ततश्च किमित्यत आह ॥ स त्वमिति । यः काम्यकर्मासक्तः स त्वमित्यर्थः । आत्मनः स्वस्य मृगवच्चेष्टितं मृगतुल्यचेष्टां विचक्ष्व । कुतः । यस्मात्त्वमपि परिणामविरसत्वेन पुष्पसमानानां स्त्रीणामाश्रमे मिथुनीभूय स्थितस्तासु रक्तं षडङ्घ्रिगणगीततुल्यमनोहरवनितादिजनगीतेषु लुब्धकर्णोऽग्रे वृकयूथवदसुहृदः प्राणहारिण आयुर्हरत कालविशेषान् अगणयित्वा यासि पृष्ठे हिंसकतया लुब्धकसदृशयमस्य दण्डेन भिन्नो विदारितश्च यासीत्यर्थः । अत एवं विचार्यात्मनस्तव चित्तं हृद्यन्तःस्थिते भगवति सर्वपापहरे हृन्नामि्न हरौ नियच्छ तत्रैव स्थापय । उपलक्षणतया कर्णादीन्द्रियाणि धुनोतीति कर्णधुनी तां चित्तिं च नियच्छ । अत्र चित्तिचित्तशब्दयोः पौनरुक्त्या पदार्थभेदं प्रमाणेनैवाह ॥ चित्तिरिति । तथा च स्मृतिकारणीभूतं चित्तं बुद्धिरध्यवसानायेति वचनादध्यवसान-कारणीभूतां बुद्धिं च केशवे स्थापयेति मूलार्थ इत्याशयः । असत्तमानामतिशयेन दुष्टानां विषयाणां यूथस्य समूहस्य गाथा विषयवार्ता यस्मिंस्तमङ्गनाश्रमं गृहाश्रमं जहि त्यज । अङ्गनाभ्रममिति पाठेऽङ्गनानां भ्रमो यस्मिन्निति गृहाश्रममित्येवार्थः ॥ ५७ ॥

राजोवाच–

श्रुतमन्वीक्षितं ब्रह्मन् भगवान् यदभाषत ।

नैतज्जानन्त्युपाध्यायाः किन्न ब्रूयुर्विदुर्यदि ॥ ५८ ॥

संशयोऽत्र न मे विप्र संच्छिन्नस्तत्कृतो महान् ।

ऋषयोऽपि हि मुह्यन्ति यत्र नेन्द्रियवृत्तयः ॥ ५९ ॥

पदरत्नावली

राजा तावद् इयन्तं कालं मया भाषितं, तदस्य हृद्गतं नाभूत्, प्रतिवाक्या-श्रवणादिति संशयनिरासायाह– श्रुतमिति ॥ श्रुतं श्रुतिप्रसिद्धमन्वीक्षितं विचारितमात्मयोग्यज्ञानं यद् भगवानभाषत नैतन्ममोपाध्याया जानन्ति । तत्र हेतुमाह– किं नेति ॥ प्रथमं त्वन्मुखाच्छु्रतं पश्चादन्वीक्षितमाम्रेडितमिति वा ॥ अथ किम् ? तत्राह– संशय इति ॥ अत्रास्मिन्नर्थे मे संशयो न च्छिन्नः । अल्पत्वान्मया न च्छेदित इति नेत्याह– तत्कृत इति ॥ तत्कृते तदर्थविषये महान् संशय इत्यर्थः । सूक्ष्मत्वेनाज्ञातविषयत्वान् महत्वं न तु स्थूलपरिमाणत्वादिति भावेनाह– ऋषय इति ॥ कुत्र मुह्यन्तीत्यत्राह– यत्रेति ॥ यत्र संशयार्थे । चक्षुरादीन्द्रियव्यापारागोचरत्वादित्यर्थः । अतस्त्वां पृच्छामीति शेषः ॥ ५८,५९ ॥

प्रकाशिका

राजा प्रमेयान्तरं प्रष्टुमेतावत्पर्यन्तं यत्त्वयोक्तं तत्सम्यगवगतं मयेत्याह ॥ श्रुतमिति । ब्रह्मन्नारद । ममोपाध्यायाः कर्मोपदेष्टार एतत्प्रष्टव्यं न जानन्ति । सावधानं श्रुतमन्वीक्षितं विचारितं चेति । अतोऽत्र प्रष्टव्ये प्रमेये मे संशयो न सञ्छिन्नः । तत्कृत उपाध्यायाज्ञाननिमित्तः । १तत्कृते इति तदर्थमित्यर्थः । वक्ष्यमाणविषये इत्यर्थः ॥ ५८,५९ ॥

कर्माण्यारभते येन पुमानिह विहाय तम् ।

अमुत्रान्येन देहेन जुष्टान्यसकृदश्नुते ॥ ६० ॥

इति वेदविदां वाचः श्रूयन्ते तत्र तत्र ह ।

कर्म च क्रियते प्रोक्तं परोक्षं न प्रकाशते ॥ ६१ ॥

पदरत्नावली

कोऽसौ संशय इत्यत्राह– कर्माणीति ॥ इह पुमान् येन देहेन कर्माण्यारभते तस्य प्रारब्धकर्मक्षये तं देहं विहायामुत्र परलोके स पुमान् अन्येन प्रेताख्येन जुष्टानि कर्मफलानि अश्नुत इति यत् (तत्) कथम् ? अन्यः कर्ताऽन्यो भोक्तेत्यकृताभ्यागमादिदोषापत्तेः ॥ तदप्रामाणिकमिति च वक्तुं न शक्यमित्याह– इतीति ॥ श्रूयन्त इत्यनेन श्रुतयः स्मृतयोऽपि गृह्यन्ते । तेनाबालवृद्ध-प्रसिद्धिर्द्योत्यते । अतो महान् संशय इत्यर्थः । अनेन देहव्यतिरिक्तात्मसद्भावे कथमिति संशयो युज्यते, स एव नास्ति, देहभस्मीभावेन तस्यापि भस्मीभूतत्वादिति मतमपि प्रत्युक्तम् । आगमस्याप्रामाण्ये तद्गुरुवाक्यस्यापि समन्यायः स्यादिति । किं च स्वर्गादिकामैर्जनैः कर्म क्रियते । तत् परोक्षम्, पश्चान्न प्रकाशते नष्टत्वात् । तादृशं कर्म अर्थफलं न ददाति । न हि मृतः पिता पुत्रायानीय कदलीफलं रातीति युज्यत इत्ययमन्योऽपि संशयः ॥ ६०,६१ ॥

प्रकाशिका

तमेव संशयविषयं प्रष्टव्यमर्थं दर्शयति ॥ कर्माणीति द्वाभ्याम् । पुमान्कर्माणि येन देहेन करोति तस्य प्रारब्धकर्मक्षये तं देहमिहैव विहायामुत्र लोकान्तरेऽन्येन देहेन जुष्टानि कर्मफलानि स जीवोऽसकृदश्नुत इति यत् तत् कथं तज्जीवैक्येऽपि तत्कर्तृत्वभोक्तृत्वापादकयोर्देहयोर्भेदाद् उभयानुस्यूत-देहान्तरस्य चाभावात् । अन्यथा कृतहान्यकृताभ्युपमप्रसङ्ग इति भावः । न देहे भेदोऽप्रामाणिक इत्याह ॥ इतीति । प्रश्नान्तरं करोति ॥ कर्म चेति । प्रोक्तं वेदोक्तं कर्म क्रियते जनैस्तच्चानन्तरक्षण एव परोक्षं न प्रकाशते नश्यति । तथा च कर्मणो नष्टत्वाद्भोगस्य लोकान्तरे कथमित्याशयः ॥ ६०,६१ ॥

नारद उवाच–

येनैवारभते कर्म तेनैवामुत्र तत् पुमान् ।

भुङ्क्ते ह्यव्यवधानेन लिङ्गेन मनसा स्वकम् ॥ ६२ ॥

पदरत्नावली

प्रथमप्रश्नं प्रत्याह– येनेति ॥ लिङ्गं शीरम् । तस्य मनःप्रधानत्वाद् लिङ्गेन मनसेति सामानाधिकरण्यम् । मनसा प्रेरितेन येन लिङ्गेन देहेन पुमान् कर्मारभते तेनैवामुत्र स्वर्गादाव-व्यवधानेन प्रत्यक्षेण कालेन स्वकं कर्म भुङ्क्ते तत्फलं सुखदुःखलक्षणमनुभवतीत्यन्वयः । स्थूलशरीरस्य लिङ्गनिमित्तत्वात् तन्नाशेऽपि कर्तुर्लिङ्गस्याविनष्टत्वान्नाकृताभ्यागमादिदोषप्रसक्तिः । सूक्ष्मरूपेण सत्वात् । लिङ्गेन लीनकर्मफलज्ञापकेन मनसा तत्फलानुभवोपपत्तेरिति वा ॥ ६२ ॥

प्रकाशिका

स्थूलदेहभेदेऽपि कर्तृत्वभोक्तृत्वापादकमनःप्रधानकस्य लिङ्गदेहस्योभयत्रैक-स्यैवानुस्यूतत्वान्नोक्तदोष इत्याशयेन प्रथमस्योत्तरमाह ॥ येनैवेति । लिङ्गशरीरस्य मनःप्रधानकत्वा-ल्लिङ्गेन मनसेति सामानाधिकरण्यम् । येन मनःप्रधानकेन लिङ्गेनाव्यवधानेनोभयत्रानुस्यूतेन पुमान्कर्मा-रभते । तेनैवामुत्र स्वर्गादौ स्वकं कर्म भुङ्क्ते तत्फलं सुखदुःखलक्षणमनुभवतीत्यन्वयः । स्थूलदेहयोरपि मनोद्वारेणैव कर्तृत्वभोक्तृत्वापादकत्वाद्येनैव तेनैवेत्युक्तम् ॥ ६२ ॥

शयानमिममुत्सृज्य श्वसन्तं पुरुषो यथा ।

कर्मात्मन्याहितं भुङ्क्ते तादृशेनेतरेण वा ॥ ६३ ॥

पदरत्नावली

कथमिव ? स्वप्नकाले श्वसन्तं प्राणवृत्तिमन्तं पर्यङ्के शयानम् इमं दृष्टिविषयं देहमुत्सृज्य पुरुषो भोक्ता तादृशेन शयने शयानशरीरसदृशेन इतरेण पतितदेहविलक्षणदेहेन वा । आत्मनि मनस्याहितं सन्निहितं कर्म भुङ्क्ते । एतदुक्तं भवति । स्थूलदेहस्य शय्यायां शयानत्वात् स्वप्नभोगनिमित्तकर्मोपार्जितेन देहेन लिङ्गिन एव यथा भोक्तृत्वमत्राप्येवमिति । आत्मन्याहितमित्यनेन द्वितीयप्रश्नोऽपि प्रत्युक्त इति ज्ञायते ॥ ६३ ॥

प्रकाशिका

स्थूलदेहभेदेऽपि मनस एकत्वेन भोक्तृत्वं स्वप्नदृष्टान्तेनोपपादयति ॥ शयानमिति । इमं जाग्रदवस्थायां विद्यमानं श्वसन्तं जीवन्तमुत्सृज्य तदभिमानं त्यक्त्वाऽऽत्मनि मनसि संस्कार-रूपेणाहितं सन्निहितं कर्म कर्मफलभूतं स्वाप्नसुखदुःखादिकं तादृशेन शयानदेहसदृशेनेतरेण तद्विलक्षणेन पश्वादिदेहेन वा भुङ्क्ते । यथैव तथैव लोकान्तरेऽपीत्यर्थः ॥ ६३ ॥

ममेति मनसा यद् यदसावहमिति ब्रुवन् ।

गृह्णीयात् तत् पुमान् राद्धं कर्म येन पुनर्भवः ॥ ६४ ॥

पदरत्नावली

ननु साक्षात्कर्तृत्वं भोक्तृत्वं मनसो लिङ्गस्योतोभयोस्तद्वतो वेति संशय-निरासार्थमाह– ममेति ॥ यः पुमान् ममेदं सुखसाधनमिति मनसा सङ्कल्प्य कृष्णमित्रस्याहिताग्नेः पुत्रोऽसावहं नारायणमित्रो याज्ञिकः कथं स्यामिति वाचा वदन् यद् यत् कर्म कर्तुं गृह्णीयादुपादत्ते स एव पुमांस्तद् राद्धं सिद्धं कर्म भुङ्क्ते, येन भुक्तशेषेण कर्मणा पुनर्भवः पुनरुत्पत्तिः, मर्त्यलोक इति शेषः । तस्मात् साक्षात्कर्ता भोक्ता च पुरुष एव । तत्र मनसोऽन्तरङ्गत्वमिति भावः । अनेन जन्मान्तरेऽपि कर्मणः फलदातृत्वप्रतीतेः किं पुनः परलोक इति दर्शितम् ॥ ६४ ॥

प्रकाशिका

अहंममेत्यभिमान एव कर्तृत्वभोक्तृत्वापादक इति शङ्कापरिहाराय मनस एव कर्तृत्वभोक्तृत्वापादकं विशदयति ॥ ममेति । मनसा ममैते पुत्रादय इति सोऽहं कर्तेति च ब्रुवन् अभिमानं कुर्वन्यः पुमान्यद्यत्कर्म गृह्णीयादुपादत्ते । संपादयतीति यावत् । स एव पुमांस्तद्राद्धं संपादितं कर्म भुङ्क्ते । येन भुक्तकर्मशेषेण कर्मणा पुनर्भवः पुनरुत्पत्तिः । मर्त्यलोके इति शेषः । अनेनादृष्टमुत्पाद्यैव कर्म नश्यति । कथमन्यथा कर्मानुसारिणी पुनरुत्पत्तिरिति द्वितीयप्रश्नस्याप्युत्तरं सूचितमिति ध्येयम्

॥ ६४ ॥

यथाऽनुमीयते चित्तमुभयैरिन्द्रियेहितैः ।

एवं प्राग्देहजं कर्म लक्ष्यते चित्तवृत्तिभिः ॥ ६५ ॥

पदरत्नावली

ननु कर्मणो देहाद्यारम्भकत्वं कथं सञ्जाघटीति ? आचरणानन्तरक्षण एव नष्टत्वादत एव मनसोऽप्यन्तरङ्गत्वमिति न शङ्क्यम् । कृष्णचापमुक्तशरवेगसंस्कारवत् कर्मणोऽपि कार्यकारणक्षमत्वोपपत्तिः । अन्तरङ्गत्वं मनसोऽन्वयव्यतिरेकसिद्धमित्यभिप्रेत्याह– यथेति ॥ उभयेषां ज्ञानकर्मेन्द्रियाणामुभयविधैरीहितैश्चित्तमन्तःकरणापरपर्यायमस्तीत्यनुमीयते । तस्मिन् सति ज्ञानं कर्म चोत्पद्यते । असति आलोकादिसाधनसामग््रयां सत्यामपि । तस्मात् तन्नियामकमन्तःकरणं किञ्चिदस्तीति ज्ञायते यथा, तथान्तःकरणवृत्तिविषयेषु मनोव्यापारैः प्राग्देहजातं कर्मेदृशं शुक्लरक्तकृष्णान्यतममिति लक्ष्यतेऽनुमीयते । देहवत एवेदृशज्ञानसम्भवात् कर्मणो देहाद्यारम्भकत्वं च युक्तमिति बोद्धव्यम् ॥६५॥

प्रकाशिका

यत्कर्म नश्यतीति सूचितं तद्दृष्टान्तमुखेनोपपादयति ॥ यथेति । उभयैरुभयविधै-रिन्द्रियेहितैर्ज्ञानिकर्मेद्रियजन्यव्यापारैः सात्त्विकादिभेदेन भिन्नैश्चित्तं तज्जननानुकूलं सात्त्विकादिरूप-मेवानुमीयते । एवं चित्तवृत्तिभिः सात्त्विकादिभेदेन भिन्नाभिः प्राग्देहजं पूर्वदेहसंपादितं कर्म सात्त्विकादिरूपं तत्तद्वृत्तिजन्यजनकतया लक्ष्यतेऽनुमीयत इत्यर्थः । कथमन्यथा केषाञ्चिच्चित्तवृत्तिः सात्त्विकी, केषाञ्चिद्राजसी, केषाञ्चित्तामसीति विभाग इति भावः ॥ ६५ ॥

नानुभूतं क्व चानेन देहेनादृष्टमश्रुतम् ।

कदाचिदुपलभ्येत यद्रूपं यादृगात्मनि ॥ ६६ ॥

पदरत्नावली

किं च प्राणिनां प्रवृत्तिवैचित्र्यं दृश्यते । तदपि वासनावैचित्र्यं विना न च घटत इति भावेनाह– नानुभूतमिति ॥ यद्रूपं यस्य शुक्लादिरूपं तद्रूपं यादृग् यज्जातिलक्षणं यस्य तादृक् यद्वस्तु स्वात्मनि क्वचित् कस्मिंश्चिद् देशे कदाचित् कालेऽनेनेदृग्देहेनादृष्टमश्रुतं वाऽनुभूतमननुभूतं वाऽऽत्मनि मनस्युपलभ्येत तेनोपलम्भेन पूर्वस्मिन् जन्मनि दृष्टं श्रुतमनुभूतमित्युपलभ्येत बुध्येत न त्वन्यथा । अनेन देहेन जाग्रदवस्थायामदृष्टमश्रुतमननुभूतं नोपलभ्येत स्वप्ने । किन्तु स्वप्ने दृष्टादिकमेव यथा, तथा पूर्वस्मिन् जन्मनि दृष्टादिकमनेन देहेन पश्यतीति वा ॥ ६६ ॥

प्रकाशिका

पूर्वोत्तरदेहयोर्मनस एकत्वमित्येतदुपपादयति ॥ नानुभूतमिति । अनेन वर्तमानेन देहेन क्व च कुत्रचिदपि यन्नानुभूतमस्यैव विवरणमदृष्टमश्रुतं च यद्रूपं यदात्मकं यादृग्यत्प्रकारं च तत्कदाचिदस्माकं स्वप्नावस्थायां महतां जाग्रदवस्थायामेवात्मनि मनसि उपलभ्येत ॥ ६६ ॥

तेनास्य तादृशो राजन् लिङ्गिनो देहसम्भवः ।

श्रद्धत्स्वाननुभूतार्थं न मनः स्प्रष्टुमर्हति ॥ ६७ ॥

पदरत्नावली

ननु कर्मणो देहाद्यारंभकत्वं कथमित्यस्य चोद्यस्य परिहारः कथं स्फुटित इति तत्राह– तेनेति ॥ यतः पूर्वकर्मानुसारेण दर्शनादिकं तेन तदनुसारेणास्य लिङ्गिनो देहसम्भवस् तादृशः पूर्वानुसृत इति श्रद्धत्स्व आप्तिं कुरु । कुत इत्यत उक्तमेवार्थं स्मारयति– अननुभूतार्थमिति ॥ यतः पूर्वस्मिन् जन्मन्यननुभूतो योऽर्थस्तं मनः स्प्रष्टुं नार्हतीत्यन्वयः ॥ ६७ ॥

प्रकाशिका

तेन हेतुनाऽस्य लिङ्गिनो मनःप्रधानकलिङ्गशरीरवतो जीवस्य तादृशं तादृग्रूपा-दित्युक्तं देहसम्भवं पूर्वदेहसम्भवं श्रद्धत्स्व निश्चयेन मन्यस्व । एतदेव व्यतिरेकमुखेनोपपादयति ॥ अननुभूतार्थम् इति । यः सर्वथाऽननुभूतोऽर्थः सः मनःस्पृष्टं मनसि स्फुरितंु नार्हति । तथा च पूर्वोत्तरदेहयोरेकमेव मनोऽस्तीत्यङ्गीकार्यमित्याशयः ॥ ६७ ॥

मन एव मनुष्यस्य पूर्वरूपाणि शंसति ।

भविष्यतश्च भद्रं ते तथैव नभविष्यतः ॥ ६८ ॥

पदरत्नावली

ननु देहवन्मनसोऽप्यनेकत्वे कथमेतदुक्तं घटत इत्याशङ्क्यामोक्षं लिङ्गशरीरवद् बाह्यान्तःकरणमेकमेवेत्यभिप्रेत्याह– मन इति ॥ मनसोऽनेकत्वे पूर्वानुभूतहितादिज्ञापनमनुपपन्नं स्यादित्यर्थः । ‘रूपं शब्दे पशौ श्लोके ग्रन्थावृत्तौ हितादिषु’ इति यादवः । स्वानुभवसिद्धः सर्वानु-भूतार्थोऽपि । कर्मणो देहाद्यारम्भकत्वं युक्तं मनसा संयुक्तत्वादित्यतो वाह– मन इति ॥ यथा ते तव मनो भविष्यतस्तथा नभविष्यतः स्ववस्तुनो विषयं भद्रं शंसति ज्ञापयति तथा मनुष्यस्य मनः पूर्वरूपाणि सात्त्विकानि कर्माणि शंसति यथा नभविष्यतो वर्तमानस्य तव मनः पूर्वरूपाणि शंसत्येवं भविष्यतोऽपि तावद् भद्रं ज्ञापयतीति वा ॥ ६८ ॥

प्रकाशिका

यथेदानीन्तनकार्यबलेन मनस्तदनुकूलं पूर्वदेहं ज्ञापयति तथैव भूतभविष्यत्कालयोः कर्माप्यस्तीति ज्ञापयतीत्याह ॥ मन एवेति । पूर्वरूपाणि शरीराण्युक्तरीत्या शंसति ज्ञापयति यथा तथैव भविष्यतः स्वार्गादिकं प्राप्स्यतो न भविष्यतो वर्तमानस्य च ते तव भद्रं पूर्वोत्तरकालगतं पुण्यरूपमदृष्टं मन एव शंसत्यस्तीति ज्ञापयति । कथमन्यथा ते तवेदानीं साम्राज्याधिपत्यमुत्तरत्र च स्वर्गप्राप्तिः स्यादित्याशयः । अत्र भद्रमिति वचनेन कर्मनाशेऽपि तज्जन्यमदृष्टं न नश्यतीति सूचयति । तस्यैतदनु-भवारूढं कर्तुं तवेत्युक्तम् ॥ ६८ ॥

अदृष्टमश्रुतं चेह क्वचिन्मनसि दृश्यते ।

यथा तथाऽनुमन्तव्यं देशकालक्रियाश्रयम् ॥ ६९ ॥

पदरत्नावली

ननु यदवादि पूर्वानुभूतमेव मनः स्प्रष्टुमर्हति नाननुभूतमिति तदयुक्तम् । यतः स्वप्नादौ स्वशिरश्छेदादिकमत्यन्तादृष्टचरं दृश्यते, तत्राह– अदृष्टमिति ॥ इह जन्मन्यदृष्टमश्रुतं वा क्वचिन्मनसि दृश्यते तद् यथा घटते तथानुमन्तव्यं घटनीयं कथम् ? अत्राह– देशेति ॥ देशकालक्रिया आश्रयो यस्य दर्शनस्य तत्तथा, देशान्तरे शिरः कालान्तरे छेदनक्रियां दृष्ट्वा स्वप्ने तयोः सामानाधि-करण्यं भ्रान्त्या पश्यतीति । अथवा नानुभूतमित्यनेन यदवादि तदनेनानुमीयते । अत्र जन्मनि यददृष्टादिकं दृश्यते मनसि तद् यथा पूर्वजन्मनि दृष्टं श्रुतमनुभूतं तथाऽनुमानं कर्तव्यम् । जाग्रति बाह्यालीप्रदेशे पूर्वाह्ने चरन्तमश्वं दृष्ट्वा स्वप्ने यथा तदवस्थं पश्यति तथा कर्माण्यपि तथा, आर्यावर्ते द्वापरे सम्भूतोऽर्जुनः पञ्चतामुपेत्य केरलदेशे कलिकाले जातो यदत्रादृष्टादिकं पश्यति करोति वा तदार्यावर्ते द्वापरेऽनुष्ठितमिति ज्ञातव्यम् । दृष्टश्रुतदर्शनादिमात्र एव दृष्टान्त इति न विरोधः ॥ ६९ ॥

प्रकाशिका

एतदेव विशदयति ॥ अदृष्टमिति । यथैतज्जन्मन्यदृष्टमश्रुतं च क्वचित्कदा-चिन्मनसि उक्तरीत्या दृश्यते । तेन तत्पूर्वजन्मनि दृष्टं श्रुतं चेति कल्प्यते । तथेह जन्मनि क्वचिद्देशे काले च शब्दादिरूपं विषयजातं भोग्यं तत्क्रियासाध्यं दृश्यते तेन तदनुगुणदेशकालक्रियाश्रयं क्रमिकदेशकाल-विशेषकृतकर्मसाध्यमदृष्टमनुमन्तव्यमित्यर्थः ॥ ६९ ॥

सर्वे क्रमानुरोधेन मनसीन्द्रियगोचराः ।

आयान्ति वर्गशो यान्ति सर्वे सुमनसो जवात् ॥ ७० ॥

पदरत्नावली

ननु यदि पूर्वदृष्टादिकमेवेदानीं दृश्यते श्रूयत इति मतं तर्हि जन्मनामनन्तत्वा-दहमहमिकया युगपद्दर्शनादिकं प्रसज्येत । तदयुक्तं विरोधात् । तत्राह– सर्व इति ॥ ये सर्वे शब्दादयो विषया बहुजन्मस्विन्द्रियद्वारेण मनसि प्रविष्टा वासनारूपेण स्थितास्ते सर्वेन्द्रियगोचरविषयाः सुमनसो देवस्य हरेरिच्छया क्रमानुरोधेन क्रममनुसृत्य मनसि जीवे वर्गश आयान्ति, जवाद् वेगाद् यान्ति च, नदीप्रवाहवदित्यन्वयः । इन्द्रियद्वारेण मनसि प्रविष्टा इन्द्रियगोचराः शब्दादयः क्रमशो जीवे वर्गश आयान्ति । पुनः सुष्ठु मनसो वेगाद् यान्ति च । सर्वपदार्थानामिह जन्मनि जन्मान्तरे वा मनसि इन्द्रियद्वारेण प्रवेशात् संस्काररूपेण स्थिरत्वादिहादृष्टस्य वाऽश्रुतस्य वाऽनुभवो युज्यत इत्यतो वाऽऽह– सर्व इति ॥ दवीयसि देशे काले चानुभूतानामधुनाऽनुभवः कथं घटत इत्यतो वाऽऽह– सर्व इति ॥ अचिन्त्यानन्तेश्वरशक्तिः प्रयोजिकेति सन्तोष्टव्यम् ॥ ७० ॥

प्रकाशिका

देशकालक्रियाश्रयमित्यनेन सूचितस्य क्रमिकत्वस्य प्रयोजनमाह ॥ सर्व इति । तस्मादित्यादौ ग्राह्यम् । तत्तद्देशकालकृतकर्मणां क्रमिकत्वात्तत्साध्याः सर्वेन्द्रियगोचराः शब्दादयः क्रमानुरोधेन क्रममनुसृत्यैव मनसि भोग्यतयाऽऽयान्ति । अन्यथा युगपदेव प्राप्ताः स्युरित्यर्थः । नन्वेवं क्रमिककर्मणामनन्तत्वात्तत्साध्यविषयभोग एव पुनःस्यान्न मुक्तिरित्यत आह ॥ वर्गश इति । सुमनसः परिपक्वध्यानयुतमनसो जवाद्वेगात् । तद्वृत्तिरूपापरोक्षज्ञानादिति यावत् । सर्वेन्द्रियगोचरा वर्गशः समस्तशो न यान्ति न प्राप्नुवन्ति । तन्मूलानां कर्मणां नाशादित्याशयः ॥ ७० ॥

सत्त्वैकनिष्ठे मनसि भगवत्पार्श्ववर्तिनि ।

तमश्चन्द्रमसीवेदमुपरज्यावभासते ॥ ७१ ॥

पदरत्नावली

जीवस्य मनआदेः स्वरूपत्वेऽनेकजन्मानुभूतपदार्थसंस्काराणामनेकत्वेन तदनु-भवेनैव कालगमनात् कदाचिन्मुक्त्यनुदयेन यावज्जीवं संसार एव स्यात् । अस्वरूपत्वे लिङ्गशरीरादेः स्थूलदेहनाश एव नाशसम्भवेन पूर्वदृष्टादिपदार्थदर्शनाद्यनुपपत्तिरिति तत्राह– सत्त्वैकनिष्ठ इति ॥ सत्त्वो जीवस्तदेकनिष्ठे तदरूपे भगवत्पार्श्ववर्तिनि भगवद्विषये मनसि इदं लिङ्गशरीरादिकमुपरज्य स्वेच्छया सङ्गमय्यावभासते, भिन्नतयेति शेषः । कथमिव ? चन्द्रमसि तमो राहुरिव, मेघान्धकारो वा । लिङ्ग-शरीरादेरस्वरूपत्वेऽपि भगवदपरोक्षज्ञानं विना स्थूलदेहनाश एव नाशाभावाच्चिरायुष्ट्वेन स्थितिसम्भवात् पूर्वकर्मनिमित्तसुखदुःखानुभवो घटत इति भावः । यद्वा सत्त्वगुणस्यैकत्वनिष्ठा उत्कर्षो यस्मिंस्तत् सत्त्वैकनिष्ठम् । तस्मिन् । भगवत्पाश्ववर्तिनीत्यनेन सत्त्वगुणोत्कर्षं लक्षयति । अन्यथा तन्न स्यात् । एवंविधमनसि इदं दुःखादिकमुपरज्यावभासते प्रतीयते । निदर्शनं व्याख्यातार्थम् ॥ ७१ ॥

प्रकाशिका

नन्वपरोक्षज्ञानिनामपि विषयप्राप्तिदर्शनात्कथमेतदित्यत आह ॥ सत्त्वैकनिष्ठ इति । केवलसत्त्वकार्यज्ञानभक्त्यादियुक्त इत्यर्थः । अत एव भगवत्पार्श्ववर्तिनि सर्वदा भगवदनुसंधानयुक्ते मनसीदं प्रारब्धकर्मसाध्यं विषयजातमुपरज्य दूरादेव सम्बद्ध्यावभासते । प्राप्तमपि तत् हर्यनुसन्धान-प्राप्तसुखमग्नो तन्न गणयतीत्याशयः । दूरादेव सम्बध्यावभासत इत्यत्र दृष्टान्तमाह ॥ तम इति । चन्द्रमसि तमो राहुरिवेति ॥ ७१ ॥

नाहंममेति भावेन पुरुषो१ व्यवधीयते ।

तावद् बुद्धिमनोऽक्षार्थगुणव्यूहो ह्यनादिमान् ॥ ७२ ॥

पदरत्नावली

नन्वेवं तर्हि कियन्तं कालमिदं दुःखादिकमवभासते इति तत्राह– नाहमिति ॥ यावत् पुरुषेऽनादिमानयमहंममेति भावो न व्यवधीयते तिरोहितो नष्टो न भवति, तावद् बुद्धि-मनोऽक्षार्थगुणव्यूहः संसारोऽपि न तिरोहितो भवतीत्यर्थः । अनादिमानिति व्यूहविशेषणं वा । अनेन संसारस्य मिथ्यात्वं निराचष्ठे । ‘अक्षमिन्द्रियं स्रोतः’ इत्यभिधानाम् ॥ ७२ ॥

प्रकाशिका

ननु लिङ्गमनसोऽहंममेत्यभिमानद्वारेणैव कर्तृत्वभोक्तृत्वापादकत्वं न केवलस्ये-त्युक्तम् । तथात्वेऽहंममेत्यभिमानस्य कदाचिदकस्मान्नाशे संसारानुवृत्तिर्न स्यादित्याशङ्कायां लिङ्गदेहसत्वे तन्नाशो न सम्भवतीत्याह ॥ नाहमिति । पुरुषो जीवोऽहंममेति भावेन न व्यवधीयते न कदाचिदपि विरहितो भवति । कियत्पर्यन्तम् । अनादिमान् अनादिर्बुद्ध्यादीनां व्यूहः समूहस्तदात्मको लिङ्गदेहो यावदस्ति तावत्पर्यन्तम् । अक्षाणीन्द्रियाणि अर्था भूतानि गुणाः सत्त्वादयः ॥ ७२ ॥

सुप्तिमूर्च्छोपतापेषु प्राणायनविघाततः ।

नेहतेऽहमिति ज्ञानं मृत्युप्रज्वारयोरपि ॥ ७३ ॥

पदरत्नावली

ननु यद्यहंममेतिभावतिरोभावः पुरुषार्थस्तर्हि सुप्त्यादौ तत्सद्भावात् तदनुदयः कथम् ? अत्राह– सुप्तीति ॥ सुप्त्यादौ प्राणानामिन्द्रियाणामयनस्य प्रवृत्तिलक्षणस्य विघाततो निरोधादभावादहमिति ज्ञानं नेहते नाभिव्यज्यते । तथापि स्वरूपेन्द्रियेणास्त्येव । सुखमहमस्वाप्स-मित्युत्तरकालीनानुभवदर्शनात् । तदा तदभावे परामर्शानुपपत्तेः । उपतापः पुत्रादिवियोगदुःखानल-ज्वालाप्रवेशनम् । मृत्युरपमृत्युः । अत्र देवदूतैर्नीतस्य ‘किमर्थमानीतोऽयम् ? नयत स्वस्थानम्’ इति वचनात् प्रत्यानयनदर्शनानुभवात् । साक्षाद्देहवियोगलक्षणमरणेऽहमिति ज्ञानं सन्दहेत् । प्रज्वारोऽति-रोगावस्था ॥ ७३ ॥

प्रकाशिका

नन्विदमयुक्तम् । सुप्त्यादौ लिङ्गदेहसद्भावेऽप्यहंममेत्यभिमानाभावादित्यत आह ॥ सुप्तीति । उपताप इष्टवियोगादिदुःखम् । प्रज्वारो ज्वरस्तेषु । अहमिति ज्ञानमहंममेति ज्ञानं नेहते न प्रकाशते । न भवतीति यावत् । प्राणायनानामिन्द्रियाणां विघातत उपरमाल्लिङ्ग-देहस्थितिपर्यन्तमहंममेति भावेन वर्तन्त इत्यस्य लिङ्गदेहस्य स्थितिमात्रं नाहंममेत्यभिमानप्रयोजकं किन्तु लिङ्गदेहजस्थूल-देहोत्पत्ताविन्द्रियैः स्वस्वविषयज्ञानेषूत्पादितेषु सत्स्वहंममाभिमानो भवति । न चैवं सुप्त्यादौ व्यभिचारचोदनावकाश इति भावः ॥ ७३ ॥

गर्भे बाल्येऽप्यपौष्कल्यादेकादशविधं तदा ।

लिङ्गं न दृश्यतेऽयूनः कुह्वां चन्द्रमसो यथा ॥ ७४ ॥

पदरत्नावली

ननु हन्तैवं तर्हि गर्भादेरुत्क्रान्तस्य तत्कालीनसुखदुःखपरामर्शादर्शनादत्राह– गर्भ इति ॥ गर्भे वर्तमानस्य बाल्ये वयसि स्थितस्यायूनः बालस्य पुंसोऽषौष्कल्यादनुपचितावयवत्वात् पञ्च पञ्च ज्ञानकर्मभेदेन सङ्ख्यातानीन्द्रियाणि मनश्चेति एकादशविधमेकादशभ्यो विधीयते उत्पाद्यतेऽहं-ममेति ज्ञानाख्यं लिङ्गं लक्षणं, न दृश्यते, न ज्ञायते, उक्तहेतोरित्यन्वयः । यावान् यावाञ्छरीर-स्योपचयस्तावदिन्द्रियाणां पौष्कल्यम् । तस्मिन् उपचिते तेषामिति नियमात् तन्निमित्तमहंममेति ज्ञानम् । तदभावे तदभाव इति गर्भादौ तदभाव इत्यर्थः । अत्रास्पष्टमात्रे दृष्टान्तमाह– चन्द्रमस इति ॥ यथाऽमावास्यायां चन्द्रमसो लिङ्गं शरीरं न दृश्यते तथेति ॥ ७४ ॥

प्रकाशिका

ननु तथाऽपि गर्भस्थे बाल्ये च लिङ्गदेहस्य स्थूलदेहेन्द्रियजज्ञानद्वारा सत्वा-त्कुतोऽहंममताभिमानानुत्पत्तिरित्यत आह ॥ गर्भ इति । गर्भे गर्भस्थत्वावस्थायां बाल्ये बाल्यावस्थायां वर्तमानस्यायूनो बालस्य दशेन्द्रियाणि मनश्चैकादशविधं लिङ्गं न दृश्यते । स्वकार्याहंममाभिमान-जनकतयेति शेषः । अपौष्कल्यादनुपचितावयवत्वात् । इन्द्रियाणामिति शेषः । सतोऽपि स्वकार्याक्षमतयाऽदृश्यत्वे दृष्टान्तः । यथा कुह्वाममावास्यायां चन्द्रमसो लिङ्गं स्वरूपं तथैवेति । तथा च पौष्कलैरेवेन्द्रियैरर्थग्रहणं द्वारतया विवक्षितत्वमित्याशयः ॥ ७४ ॥

अर्थे ह्यविद्यमानेऽपि संसृतिर्न निवर्तते ।

ध्यायतो विषयानस्य स्वप्नेऽनर्थागमो यथा ॥ ७५ ॥

पदरत्नावली

ननु चन्द्रबिम्बावरणनिवृत्तिवदयं गर्भवासादिलक्षणः संसारोऽपि कालेन स्वतो निवर्तत इति तत्राह– अर्थ इति ॥ अपि सम्भाविते ज्ञानलक्षणेऽर्थेऽविद्यमाने सत्यस्य जीवस्य संसृतिर्न निवर्तते हि, यस्मात् तस्मान्निवर्तकमपेक्षितमित्यन्वयः । निवर्तकानुदये निमित्तमाह– ध्यायत इति ॥ शब्दादिविषयध्यानं प्रतिबन्धकमित्यर्थः । स्वप्ने प्रवर्तमानस्य पुंसः प्रबोधाद्यभावेऽनर्थागमो यथा न निवर्तते तथेति । विषयध्यानेन संसारपरम्परा स्यादित्यभिप्रायेणानर्थागम इत्युक्तम् । चन्द्रबिम्बावरणानां मेघादीनां वाय्वादिसद्भाव एव कारणं प्रत्यक्षसिद्धमिति ज्ञातव्यम् ॥ ७५ ॥

प्रकाशिका

नन्वहंममेत्यभिमानस्याविद्यमानस्वातन्त्र्यविषयकस्य स्वत एव कदाचिन्निवृत्तौ तन्मूलो दुःखाद्यनुभवरूपः संसारोऽपि निवृत्तो भविष्यति । अतस्तदर्थं प्रीणीहि हंसशरणमिति कथमुक्तमित्यत आह ॥ अर्थे हीति । अर्थेऽहंममेत्यभिमानविषयस्वातन्त्र्यादिरूपे ज्ञानलक्षणे वाऽविद्य-मानेऽपि । तदभिमानस्य भ्रमत्वेऽपीति यावत् । तन्मूलावस्थस्य जीवस्य संसृतिर्न निवर्तत । कुत इत्यतो हेतुगर्भविशेषणमाह ॥ विषयान्ध्यायत इति । पुनः पुनर्विषयध्यानेनोक्तभ्रमनिवर्तकभगवत्प्रीत्यनु-दयेऽभिमानरूपभ्रमनिवृत्तिरेवासम्भाविनीत्याशयः ॥ अत्र दृष्टान्तमाह ॥ स्वप्न इति । स्वप्ने स्पप्नदृष्टकरि-तुरगादौ जाग्रत्वरूपेऽर्थेऽविद्यमानेऽपि । तज्ज्ञानस्य भ्रमत्वेऽपीति यावत् । तन्निवर्तकप्रबोधाभावे यथा तत्र तन्मूलकस्वाप्नदुःखादिरूपानर्थस्यागमः प्राप्तिस्तथैवेत्यर्थः ॥ ७५ ॥

एकं पञ्चविधं लिङ्गं त्रिवृत् षोडशविस्तरम् ।

एष चेतनया युक्तो जीव इत्यभिधीयते ॥ ७६ ॥

तात्पर्यम्

‘प्राणेन्द्रियान्तःकरणभेदेन त्रिविधं मतम् । पञ्च पञ्चैव ते सर्वे प्राण-बुद्धीन्द्रियाणि च । कर्मेन्द्रियाणि च तथा तस्मात्पञ्चविधं स्मृतम् । लिङ्गं षोडशकं प्राहुर्मनसा सह तत्पुनः’ ॥ इति ब्राह्मे ॥ ७६ ॥

पदरत्नावली

देहात्मबुद्धेः संसारस्य तत्त्वेन प्रतीतिः कथमित्याशङ्क्य योन्यग्न्योरिव चिदचितोः संयोगलक्षणसंपर्कादौपचारिकीयं प्रतीतिरित्यभिप्रेत्य तत्स्वरूपं निरूपयति– एकमिति ॥ एकं लिङ्गशरीरं षोडशविस्तरम् । कथम् ? त्रिवृत् प्राणेन्द्रियान्तःकरणभेदेन त्रिविधम् । अनेन षोडशविस्तरत्वमवगतम् । कथम् ? पञ्चविधम् । त्रिधा भिन्नया पञ्चविधया पञ्चप्राणाः पञ्चज्ञानेन्द्रियाणि पञ्चकर्मेन्द्रिणीति पञ्चदशविधम् । मनसा षोडशविधम्–‘प्राणेन्द्रियान्तःकरणभेदेन त्रिविधं मतम् । पञ्च पञ्चैव ते सर्वे प्राणा बुद्धीन्द्रियाणि च ॥ कर्मेन्द्रियाणि च तथा तस्मात् पञ्चविधं स्मृतम् । लिङ्गं षोडशकं प्राहुर्मनसा सह तत्पुनः ॥’ इति । एष षोडशविस्तारो देहश्चेतनया युक्तो जीवः प्राणीत्युच्यते । इतिशब्दोऽत्र समाप्तिवचनः ॥ ७६ ॥

प्रकाशिका

ननु ग्रन्थान्तरे षोडशकलो जीव एवाहंममाभिमानद्वारा संसृतिहेतुरित्युच्यते । अतस्तद्विरोध इत्यत आह ॥ एकमिति । अत्र षोडशत्वविवरणायैकं पञ्चविधं त्रिवृदित्युक्तम् । तेन नवविधत्वमेव प्रतीयते । अतोऽत्राभिप्रायं प्रमाणेनैव दर्शयति ॥ प्राणेन्द्रियेति । त्रिवृदित्यस्य विवरणम् ॥ प्राणेति । पञ्चविधमित्यत्र प्रत्येकमिति शेषमित्यभिप्रेत्यार्थमाह ॥ पञ्च पञ्चैवेति । प्रकारान्तरेणापि तदभिप्रायमाह ॥ कर्मेन्द्रियाणि चेति । तथा च पूर्वमिन्द्रियशब्देन ज्ञानेन्द्रियाण्येव गृहीतान्यत्र तु दशेन्द्रियाणि । पाञ्चविध्ये बुद्धिर्मनःशब्देनैव ग्राह्येत्याशयः । मनसा सहेत्यनेनैक-विधमित्येतदुक्तार्थम् । एष इत्यस्यार्थः लिङ्गमिति । विधेयापेक्षया पुल्लिङ्गप्रयोगः ॥ ततश्चायं श्लोकार्थः ॥ एकमेकेन मनसा सहितं त्रीन्प्राणेन्द्रियान्तःकरणाख्यान्वृणोतीति त्रिवृत्तत्प्रत्येकं प्राणेन्द्रियान्तःकरणभेदेन पञ्चविधम् । अथवा । पञ्चप्राणाः पञ्चज्ञानेन्द्रियाणि पञ्चकर्मेन्द्रियाणीति प्रत्येकं पञ्चविधम् । पञ्चविधमन्तःकरणमेकशब्देन ग्राह्यम् । एवं षोडशभिर्विस्तारं विस्तारो यस्य तल्लिङ्गशरीरम् । एष एव जीवशब्देन ग्रन्थान्तरे तदभिमानजनकतयाऽभिधीयते प्रतीपाद्यतया विवक्षितः । तत्र निमित्तमाह ॥ चेतनयेति । चेतनेन युक्तो यत इत्यर्थः । तथा च जीवसम्बन्धे लिङ्गे जीवशब्दो लक्षणया प्रयुज्यते । अतो न विरोध इत्याशयः ॥ ७६ ॥

अनेन पुरुषो देहानुपादत्ते विमुञ्चति ।

हर्षं शोकं भयं दुःखं सुखं चानेन विन्दति ॥ ७७ ॥

पदरत्नावली

अनेन लिङ्गशरीरेण स्थूलदेहानुपादत्ते । अनेन स्थूलदेहेन हर्षादिकमाप्नोति

॥ ७७ ॥

प्रकाशिका

नाहंममेति भावोन पुरुषो व्यवधीयत इत्यत्रोक्तलिङ्गशरीरस्य स्थूलशरीराहभिमान-द्वारा संसृतिकारणत्वं प्रपञ्चयति ॥ अनेनेति । लिङ्गदेहेनेत्यर्थः । हर्षं शोकमैहिकं सुखं दुःखं पारलौकिकम् । अतो न पुनरुक्तिः ॥ ७७ ॥

यथा तृणजलूका च नोपयात्यपयाति च ।

न त्यजेन्म्रियमाणोऽपि प्राग्देहाभिमतिं जनः ॥ ७८ ॥

पदरत्नावली

ननु यदाऽनेन संसारी स्थूलदेहानुपादत्ते तदा हर्षादिकं विन्दते यदा तान् मुञ्चति तदा निवृत्तहर्षादित्वेन मुक्तिः स्यात् ? अत्राह– यथेति ॥ तृणजलूका कीटविशेषः यावदन्यतृणं न विन्देत तावन्नोपयाति । यावद् विन्देत तावदेवापयाति । पूर्वं गृहीतं विसृज्य पश्चात् तृणान्तरं यथा याति तथाऽयं जनो म्रियमाणोऽपि पूर्वदेहाभिमतिं न त्यजेत्, देहान्तरं प्राप्य पूर्वां त्यजतीत्यर्थः । किमिति झटिति न त्यजतीति तत्राह– व्यवधानेति१ ॥ कर्मणां प्राचीनानां व्यवधानेन विलम्बफलदातृत्वेन हेतुना । अनेकेषां पूर्वेषां कर्माणां सत्त्वेन भगवत्प्रसादमन्तरेण विनाशानुपपत्तेः सर्वदेहवियोगासम्भवेन मुक्त्यनुदय इति भावः ॥ ७८ ॥

प्रकाशिका

ननु मरणानन्तरं देहप्राप्तौ विलम्बश्रवणात्कथं न व्यवधीयत इत्युक्त-मित्यतस्तदुप-पादयति ॥ यथेति । तृणजलूका कीटविशेषो यावदन्यत्तृणं न विन्देत तावन्नोपयाति । यदा तद्विन्देत तदाऽपयाति । पूर्वतनं परित्यज्य तृणान्तरं प्रति गच्छति । तथा म्रियमाणोऽपि जनः जीवो यावदन्यं तेजोमयं यातनारूपं वा देहं न विन्देत तावत्प्राग्देहाभिमतिं पूर्वतनदेहाभिमानं न त्यजेत् । विलम्बश्रवणं तु पुनर्भूमावेव यद्देहान्तरं तदभिप्रायकमिति भावः ॥ ७८ ॥

यावदन्यं न विन्देत व्यवधानेन कर्मणाम् ।

मन एव मनुष्येन्द्र भूतानां भवभावनम् ॥ ७९ ॥

पदरत्नावली

अनर्थदर्शनेन जातया विरक्त्या कर्माकरणेन तत्समाप्तेर्देहारम्भककर्माभावेन देहाभावान्निर्वाणोपपत्तिरिति तत्राह– मन एवेति ॥ १मनः संप्रयुक्तैरक्षैश्चरितं कर्म ध्यायंस्तदनुसारेणा-सकृत् कर्मण्याचिनुते करोतीति यत् तस्मान्मन एव भूतानां भवं संसारं जन्म वा भावयति उत्पादयतीति भवभावनम् । मनःप्रधानत्वद्योतनार्थ एवशब्दः । ‘न हि कश्चित् क्षणमपि जातु तिष्ठत्यकर्मकृत्’ इति स्मृतेः ॥ ७९ ॥

प्रकाशिका

उपसंहरति ॥ व्यवधानेनेति । तस्मादित्यादौ ग्राह्यम् । कर्मणामभिमानजनक-स्थूलदेहापादकानां व्यवधानेन तल्लक्षणावान्तरव्यापारेण विलम्बफलदातृत्वेन हेतुना वा । मन एव मनःप्रधानकलिङ्गशरीरमेव भूतानां प्राणिनां भवभावनं संसारजनकम् । कर्मणां स्थायित्वस्य संसार-कारणत्वस्य च येन पुनर्भव इत्यत्रोक्तत्वादत्र तद्ग्रहणमिति ध्येयम् ॥ ७९ ॥

यदक्षैश्चरितं ध्यायन् कर्माण्याचिनुतेऽसकृत् ।

सति कर्मण्यविद्यायां बन्धः कर्मण्य आत्मनः ॥ ८० ॥

पदरत्नावली

अविद्यायां विषयेच्छायां सत्यां कर्म भवति, तस्मिन् सत्यात्मनो जीवस्य बन्धः कर्मण्यः कर्महेतुक इति यदतस्तदपबाधार्थं कर्मनिवृत्त्यर्थं सर्वात्मना पुत्रादिस्नेहत्यागेन हरिं भजेत्यन्वयः । एनं जीवं बन्धयामीतीश्वरेच्छायां वा तस्येच्छाया अपसरणार्थं न बन्धयामीति ॥ ८० ॥

प्रकाशिका

कर्मणां संसारहेतुत्वमुपपादयति ॥ यदेति । लिङ्गान्तर्गतमनःप्रयुक्तैरक्षैश्चरितान् भुक्तान्विषयान्ध्यायंस्तत्प्राप्त्यनुकूलानि कर्माण्याचिनुते करोति । तदा कर्मणि सत्यविद्यायां स्थूल-देहात्मिकायां प्रकृतौ वन्धोऽहंममाभिमानरूपबन्धो भवति । कर्मण्यः पुनः कर्महेतुः । आत्मनो जीवस्य । तथा च लिङ्गरूपेण मनसा पूर्वकर्मानुसारेण स्थूलदेहप्राप्तिस्तत्रचाहंममाभिमानेनेन्द्रियविषयाणां ध्यानं तेन पुनस्तदनुकूलकर्मकरणं तेन पुनर्देहान्तरमित्यनादिरेवायं संसारप्रवाह इत्युक्तप्रकारेणानर्थ इत्याशयः ॥ ८० ॥

अतस्तदपबाधार्थं भज सर्वात्मना हरिम् ।

पश्यंस्तदात्मकं विश्वं स्थित्युत्पत्त्यप्यया यतः ॥ ८१ ॥

पदरत्नावली

भजनं नाम गुणोपसंहारः, तदर्थं तद्गुणानाह– पश्यन्निति ॥ यतो हरेर्विश्वस्य स्थित्यादयः स्युस्तद्विश्वं तदात्मकं तद्व्याप्तं तदधीनसत्ताकं पश्यंश्चिन्तयन्निति पूर्वेणान्वयः । तत्तदधि-कार्युपास्तियोग्यानां गुणानां स्थित्यादावन्तर्भावात् तदर्थं स्थित्यादिग्रहणम् ॥ ८१ ॥

प्रकाशिका

यत एवं लिङ्गकर्माभ्यां जायमानः संसारोऽनादिरतस्तदपबाधार्थं तयोर्विनाशाय सर्वात्मना सर्वप्रकारेण हरिं भज ॥ ८१ ॥

भक्तिः कृष्णे दया जीवेष्वकुण्ठज्ञानमात्मनि ।

यदि स्यादात्मनो भूयादपवर्गस्तु संसृतेः ॥ ८२ ॥

तात्पर्यम्

‘देहादिव्यतिरेकेण चिद्रूपोऽहमिति स्फुटम् । सदैवानुभवो भक्तिर्विष्णौ तद्दर्शनादनु । यस्यासौ मुच्यते क्षिप्रं संसारान्नात्र संशयः’ ॥ इति हरिवंशेषु ॥ ८२ ॥

पदरत्नावली

नन्वेवमुपासीनस्य कदा साधनसामग्य्रा मुक्तिः स्यादित्यत्राह– भक्तिरिति ॥ कृष्णे पूर्णानन्दे हरावपरोक्षज्ञानजननी भक्तिः । उपलक्षणमेतत् । स्वगुरुमारभ्य ब्रह्मान्तेषु स्वोत्तमेषु तत्तद्योग्यतानुसारेण निष्कपटा भक्तिश्च । जीवेषु स्वावरेषु या चित्तस्य द्रवीभावता दया । दय दानगतिशोषणेष्विति धातोस् तत्त्वविरोधिषु शोषणहेतुर्द्वेषश्च । आत्मनि स्वस्वरूपेऽकुण्ठज्ञानं हरिदर्शनानन्तरं देहादिव्यतिरेकेण ज्ञानानन्दरूपोऽहमित्यव्यवधानेन निरन्तरानुभवलक्षणमितीयं साधनसामग्री यदि यदा स्यात् तदा कालव्यवधानमन्तरेणात्मनस्तव संसारादपवर्गः क्रियासाध्य-फलावाप्तिः स्यादित्यन्वयः । ‘देहादिव्यतिरेकेण चिद्रूपोऽहमिति स्फुटम् । सदैवानुभवो भक्तिर्विष्णौ तद्दर्शनादनु । यस्यासौ मुच्यते क्षिप्रं संसारान्नात्र संशयः’ इत्यनेन हेतुवाचितुशब्दसूचितेनोक्त एवार्थो नाद्वैतार्थः ॥ ८२ ॥

प्रकाशिका

संसारनिवृत्तिरूपमुक्तावविलम्बेन साधनान्याह ॥ भक्तिरिति । नन्वर्थे ह्यविद्यमानेऽपीत्यत्र स्फुटतरविवेकाग्रहोऽहंममेति स्वातन्त्र्यभ्रमश्च संसारप्रवाहे हेतुरित्युक्तः । अतः क्षिप्रं तन्निवर्तकत्वं भक्तिज्ञानविशेषयोरेव भवति न साधारणभक्तिज्ञानयोरित्याशयेन प्रमाणं पठति ॥ देहादीति । देहादिव्यतिरेकेण देहेन्द्रियादावभिमानं त्यक्त्वाऽहं चिद्रूप इति स्फुटं सदैवानुभव इत्यकुण्ठज्ञानशब्दार्थकथनम् । दर्शनादन्वपरोक्षज्ञानानन्तरं विष्णौ यस्य भक्तिरिति भक्तिशब्दार्थ-कथनमित्यवगन्तव्यम् । तथा च देहात्मनोः स्फुटतरविवेकाग्रहोऽपरोक्षज्ञानोत्तरकालीना परमभक्ति-श्चात्राविलम्बेन संसारनिवर्तकतयोक्तेत्याशयः ॥ तथा चायमर्थः ॥ कृष्णे संसारनिवर्तके परमानन्दरूपे च विष्णौ भक्तिस्तद्दर्शनोत्तरकालीनो माहात्म्यज्ञानपूर्वकसुदृढः सर्वतोऽधिकप्रेमप्रवाहः सज्जीवेषु दया । उपलक्षणमेतत् । स्वसमेषु मैत्री स्वोत्तमेषु तारतम्येन भक्तिरित्यपि ग्राह्यम् । अन्यत्रोक्तत्वात् । आत्मनि स्वस्वरूपे देहाद्यभिमानव्यतिरेकेण चिद्रूपोऽहमित्यकुंठं यथा स्यात्तथा ज्ञानम् । सर्वदा देहात्मनोः स्फुटतरविवेकग्रह इति यावत् । इत्येतत्सर्वं यदि स्यात्तदाऽऽत्मनो जीवस्य संसृतेरपवर्गो मोक्षः क्षिप्रं स्यात् । आत्मनः परमात्मनः प्रसादादिति वा ॥ ८२ ॥

अदृष्टं दृष्टवन्नङ्क्ष्येद् भूतं स्वप्नवदन्यथा ।

भूतं भवद् भविष्यच्च सुप्तं सर्वरहोरहः ॥ ८३ ॥

तात्पर्यम्

‘संसारस्थमिदं सर्वमनित्यत्वाद्वृथा यतः । अतः प्राहुः स्वप्नसमं प्राज्ञा जगदिदं मृषा’ ॥ इति विष्णुसंहितायाम् । ‘सुषुप्तिस्वप्नयोश्चैव स्वर्गव्योम्नोस्तथैव च । अन्योन्यनामता ज्ञेया मनोबुध्द्योस्तथैव च’ ॥ इति शब्दनिर्णये ॥ अतो भूतं भवद्भविष्यच्च स्वप्न इत्यर्थः । ‘रहो ब्रह्म तथा यज्ञः स्वः सत्यमिति गीयते’ । इति च ॥ ८३ ॥

पदरत्नावली

ननु प्रथमभाविवैराग्याख्यसाधनमन्तरेण भक्त्यादिना कथं मुक्त्यनुदय इत्यतः सिंहावलोकनन्यायेन तदाह– अदृष्टमिति ॥ अदृष्टं स्वर्गादिफलं सस्यादिदृष्टफलवन्नङ्क्ष्येन्नश्यति । भूतमुत्पन्नमिदं सर्वं जगद् अन्यथा अनित्यम् । कथमिव ? स्वप्नदृष्टपदार्थसमम् । नश्वरत्वात् स्वप्नसमम् । न तु बोधनिवर्त्यत्वात् । ‘संसारस्थमिदं सर्वमनित्यत्वाद् वृथा यतः । अतः प्राहुः स्वप्नसमं प्राज्ञा जगदिदं मृषा ॥’ इति वचनान्न मिथ्यात्वं प्रपञ्चस्येति । अस्तु भूतमनित्यत्वात् स्वप्नसमं भविष्यच्च स्वप्नसमं न स्यादित्याशङ्क्य यथा भूतमनित्यत्वात् स्वप्नसमं तथा भविष्यच्च सर्वमनित्यत्वेन स्वप्नसम-मित्याह– भूतमिति ॥ सुप्तशब्दस्य कथं स्वप्नार्थत्वमपर्यायत्वादितीयमाशङ्का ‘सुषुप्तिस्वप्नयोश्चैव स्वर्गव्योम्नोस्तथैव च । अन्योन्यनामता ज्ञेया मनोबुद्ध्योस्तथैव च ॥’ इत्यनेन परिहर्तव्येति । सर्वमनित्यं चेन्नित्यं वस्तु किम् ? तदाह– सर्वरहोरह इति ॥ सर्वरहः सर्वशास्त्रप्रतिपाद्येषु रहस्यम् । गुरूपदेश-(श्य)त्वाद्रह इति । स्वभक्तदोषात् स्वयं च निर्दोषतया सदा स्थितं रहो ब्रह्म१ । तदुक्तम्– ‘रहो ब्रह्म तथा यज्ञः स्वः सत्यमिति गीयते’ इति । नित्यनिर्दोषं ब्रह्म, इतरत् सर्वमनित्यमसारं चेति विज्ञानं वैराग्यमिति भावः । विरक्त्या भक्तिस्तया गुणोपसंहारलक्षणमुपासनं तेनापरोक्षज्ञानं तेन श्रीनारायण-प्रसादस्तेन स्वयोग्यमुक्तिरिति क्रममुल्लङ्घ्य वैराग्यस्य सर्वत्रानुसन्धानार्थं पश्चादप्युक्तमिति ज्ञातव्यम्

॥ ८३ ॥

प्रकाशिका

सर्वदा नित्यानित्यवस्तुविवेको मुक्तौ प्रथमसाधनमित्याशयेनाह ॥ अदृष्टमिति । अत्र भूतं स्वप्नवदन्यथेत्यस्य च संसारे प्रतीतस्य स्वप्नवन्मिथ्यात्वमुच्यत इति भाति । अतस्तन्निरासाय विवक्षितमर्थं प्रमाणेनैव दर्शयति ॥ संसारस्थमिति । इदं सर्वं स्वोपयुक्तं चेतनाचेतनात्मकं वृथा परमपुरुषार्थोपयोगी न भवतीत्यर्थः । स्वप्नसमं स्वप्नदृष्टकरितुरगादिसमम् । तथा चान्यथेत्यस्य न मिथ्येत्यर्थः । किन्तु वृथात्वमेवेत्युक्तं भवति । भूतं भवद्भविष्यच्च सुप्तमित्यत्र सुप्तशब्दार्थं प्रमाणेनैव दर्शयन्व्याख्याति ॥ सुषुप्तीति । सुषुप्तिस्वप्नयोरन्योन्यनामता ज्ञेयेति सम्बन्धः । चशब्दाः परस्पर-मन्योन्यनामता समुच्चायकाः । अवधारणानि तु न घटपटादिरूपयोर्द्वयोरित्यर्थकानि । तथाशब्द उभयत्रान्योन्यनामतेत्यनुकर्षणार्थः । यत एवं शब्दनिर्णये सुषुप्तिवाचकशब्दवाच्यत्वं स्वप्नस्योक्तमत इत्यर्थः । सुप्तमित्यस्य सुषुप्तिवाचकस्य स्वप्नोऽर्थ इत्यवगम्यत इत्यर्थः । चतुर्थपादे रह इत्यस्यापि योग्यमर्थं प्रमाणेनैव दर्शयति ॥ रह इति । ब्रह्म इत्यादिभिः शब्दैर्गीयत इत्यर्थः ॥ ततश्चायं श्लोकार्थः ॥ अदृष्टं स्वर्गादिकं दृष्टवदैहिकैश्वर्यादिवन्नंक्ष्येन् नश्वरमिति जानीयात् । भूतं संसारे विद्यमानं पुत्र-कलत्रादिकं देहगेहादिकं च स्वप्नवत्स्वप्नदृष्टकरितुरगाद्यैश्वर्यवदन्यथाऽनित्यमतस्तस्मात्स्वप्नैश्वर्यादिवदन्यथा वृथा परमपुरुषार्थोपयोगी न भवतीत्यर्थः । किम्बहुना भूतम्भवद्भविष्यच्चेत्येतत्सर्वं सुप्तं स्वप्नस्वापि्नक-गजादितुल्यमनित्यत्वाद् वृथैवेत्याशयः । तर्हि किं नित्यं पुरुषार्थोपयोगि चेत्यपेक्षयामाह ॥ सर्वरह इति । सर्वेषां रहस्यं सर्वशास्त्रमहातात्पर्यविषयमित्यर्थः । अयोग्येषु गोप्यत्वाद्रहोनामकं ब्रह्मैवोक्तादन्यथा नित्यं पुरुषार्थोपयोगी चेत्यर्थः । तथा चान्यदनित्यं वृथा चेति ज्ञात्वा तद्विपरीतं ब्रह्मेति च ज्ञात्वा तत्रैव निष्ठा कार्येत्याशयः ॥ ८३ ॥

मैत्रेय उवाच–

भागवतमुख्यो भगवान् नारदो हंसयोर्गतिम् ।

प्रदर्श्य ह्यमुमामन्त्र्य सिद्धलोकं ततोऽगमत् ॥ ८४ ॥

पदरत्नावली

उपसंहरति– भागवतमुख्य इति ॥ हंसयोर्जीवपरमात्मनोर्गतिं सच्चिदानन्द-लक्षणां हरेर्जगदुत्पत्त्यादिलक्षणां जीवस्य तदधीनत्वादिलक्षणां वा । सिद्धजातिषु नारदस्य प्राधान्य-द्योतनाय प्रथमपादस्याक्षराधिक्यम् ॥ ८४ ॥

प्रकाशिका– हंसयोर्जीवपरमात्मनोर्गतिं स्थितिं सच्चिदानन्दलक्षणां हरेर्जगदुत्पत्त्यादिलक्षणां जीवस्य तदधीनत्वादिलक्षणां वा । सिद्धजातिषु नारदस्य प्राधान्यद्योतनाय प्रथमपादस्याक्षराधिक्यम् ॥ ८४ ॥

प्राचीनबर्ही राजर्षिः प्रजासर्गाभिरक्षणे ।

आदिश्य पुत्रानगमत् तपसे कपिलाश्रमम् ॥ ८५ ॥

पदरत्नावली

सर्गः स्वभावनिर्मोकनिश्चयाध्यायसृष्टिष्वित्यभिधानात् प्रजानां स्वभावविद्या-धर्मादिपुरुषार्थरक्षणे । तत्परिपन्थिनिरासेनेति शेषः ॥ ८५ ॥

प्रकाशिका– प्रजानां सर्गे रक्षणे च पुत्रानादिश्य मन्त्रिणामग्रे कथयित्वा ॥ ८५ ॥

तत्रैकाग्रमना वीरो गोविन्दचरणाम्बुजम् ।

विमुक्तसङ्गोऽनुभजन् भक्त्या तत्साम्यतामगात् ॥ ८६ ॥

पदरत्नावली

विमुक्तसङ्गो निष्कामः । तस्य हरेः साम्यतां निर्दोषत्वलक्षणाम् ॥ ८६ ॥

प्रकाशिका

तत्साम्यतां तस्य हरेः साम्यतां निर्दुःखत्वेन परमानन्दत्वेन च समताम् ॥ ८६ ॥

एतदध्यात्मपारोक्ष्यं गीतं देवर्षिणाऽनघ ।

यः श्रावयेद् यः श्रुणुयात् स लिङ्गेन विमुच्यते ॥ ८७ ॥

पदरत्नावली

एतस्येतिहासस्याभ्यासेन किं फलमुदेति, येनायमवश्यं ज्ञातव्यः स्यात् ? अन्यथा नारदेन बाललीलाकथावद् विनोदार्थमुक्तं, फलानुक्तेरिति परीक्षितो हार्दं चोद्यं परिहरतीत्याह– एतदिति ॥ अधिकात्मनः परमात्मनोऽधिगतात्मनः प्रत्यक्षसिद्धस्य जीवात्मनो वा, स्वरूपं पारोक्ष्यं परोक्षतया शब्दलक्षणतया गीतं शब्दितं न साक्षादुक्तम् । देवप्रियत्वात् । परोक्षप्रिया इव हि देवा इति श्रुतेरित्यर्थः । देवर्षिणेत्यनेन नारदस्य विनोदकथाकथनस्वभावो नास्तीति ध्वनयति । लिङ्गेन शरीरेण मुच्यते रहितो भवतीत्यनेन तृतीयावचनेन पूर्वमपि स्वरूपाद् भिन्नमिति ध्वनयति । स्वरूपभूतदेहेन सहसैव१ गच्छतीति च । सोऽनानन्दाद् विमुक्त आनन्दी भवतीति श्रुतेः ॥ ५७ ॥

एतन्मुकुन्दयशसा भुवनं पुनानं

देवर्षिवर्यमुखनिःसृतमात्मशौचम् ।

यः कीर्त्यमानमधिगच्छति पारमेष्ठ्यं

नास्मिन् भवे भ्रमति मुक्तसमस्तबन्धः ॥ ८८ ॥

पदरत्नावली

न केवलमिदं प्राचीनबर्हिषः प्रयोजनं किं तु सर्वेषामपीति भावेन पुन उक्तं विशिनष्टि– एतदिति ॥ मुकुन्दस्य यशसा सहितमेतत् पुरञ्जनोपाख्यानम् आत्मशौचमात्मनो मनसः शुचिता यस्मात् तत् तथा । पारमेष्ठ्यं परमेष्ठिनः सर्वोत्तमस्य हरेर्ज्ञप्तौ परमात्मसाधनमधिगच्छति गुरोः सकाशाज् जानाति । भवे संसारे यस्मिन् जन्मनि जानाति अस्मिन्निति वा । अनेन संसारभ्रम एव निवार्यते न तु तद्बन्ध इति मन्दाशङ्कां निवारयति– मुक्तेति ॥ ८८ ॥

प्रकाशिका

आत्मनो मनःशौचं शुद्धिर्यस्मात्तत्तथा । पारमेष्ठ्यं परमेष्ठिनः सर्वोत्तमस्य हरेः सम्बन्धि । अधिगच्छति गुरोः सकाशाज्जानाति । अस्मिन् भवे संसारे न भ्रमति । कुतः । यतो मुक्तसमस्तकर्मादिबन्धो भवति ॥ ८८ ॥

अध्यात्मपारोक्ष्यमिदं मयाऽधिगतमद्भुतम् ।

एवं त्रय्याश्रयः पुंसश्छिन्नोऽमुत्र च संशयः ॥ ८९ ॥

पदरत्नावली

शिष्टजनेष्वेकेन मैत्रेयेणाधिगतत्वादेतच्चावश्यमधिगन्तव्यमिति भावेनाह– अध्यात्मेति ॥ मया मैत्रेयनाम्ना गहनत्वादद्भुतमिदं नारदेन प्राचीनबर्हिषे उपदिष्टमध्यात्मपारोक्ष्य-मधिकाद् गुरुमुखादधीतमेव तवोपदिष्टम् । अत एव त्वयाऽप्यतिश्रद्धयाऽधीत्याऽभ्यसनीयमिति शेषः । नन्वेतदधिगमेन यदि वेदविषयोऽपि संशयश्छिन्नः स्यात् तर्ह्यधिगन्तव्यान्तराभावेन धन्यः स्याम् । अतः कथं निर्णयः स्यात् । अत्राह– एवमिति ॥ यः पुंसो जिज्ञासोस्त्रय्याश्रयस्त्रिवेदीविषयः संशयोऽध्यात्म-स्वरूपो छिन्नः । एवममुत्राधिदैवादिस्वरूपे च संशयो मम च्छिन्नः । अत एव तवापि च्छिन्नः स्यादिति शेषः । अनेन पुरञ्जनोपाख्यानस्य वेदविषयत्वप्रतीतेस्तदतिश्रद्धयाऽध्येयमिति सिद्धम् । यद्वा एतदध्यात्मपारोक्ष्यमधिगतं यथा एवं त्रयी चाधिगता एकविषयत्वात् । ततः किं फलम् ? अत्राह– आश्रय इति ॥ पुंस आश्रय इहामुत्र च संशयश्छिन्नो भवतीत्येतत्फलं भवतीत्यर्थः ॥ ८९ ॥

अतिगहनं जलनिधिवत् क्षुराग्रमिव दुर्ग्रहं निशितम् ।

तीक्ष्णं पुरञ्जनोपाख्यानं व्याख्याच्छलेन मयाऽतारि ॥

तरणिरिव व्योमतलं पवनात्मज इव पयोराशिम् ।

क्षुरधारामिव निगदतोऽतारिषमध्यात्मपारोक्ष्यम् ॥

॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुकृतायां

चतुर्थस्कन्धे एकोनत्रिंशोऽध्यायः ॥

प्रकाशिका

मया मैत्रेयनामकेन गहनार्थत्वादद्भुतमिदं नारदेन प्राचीनबर्हिष उपदिष्टमध्यात्म-पारोक्ष्यमधिगतमधिकाद्गुरुमुखादधीतमेवातस्तवोपदिष्टं मत्त एव त्वयाऽप्यतिश्रद्धयाऽप्यधीत्याभ्यसनीय-मिति शेषः । पुंसो जिज्ञासोस्त्रय्याश्रयो वेदोक्तकर्माविषयक इहाध्यात्मस्वरूपेऽमुत्राधिदैवादिस्वरूपे देहभेदविषयश्च संशयः । एवं कर्मणामदृष्टद्वारा स्थिरत्वप्रतिपादनेन लिङ्गदेहैक्यप्रतिपादनेन च छिन्न इत्यर्थः ॥ ८९ ॥

**॥ इति श्रीमद्वेदेशपूज्यपादशिष्येण यदुपतिना विरचितायां **

श्रीमद्भागवतटिप्पण्यां चतुर्थस्कन्धे एकोनत्रिंशोऽध्यायः ॥ ४-२९ ॥