सैनिका भयनाम्नो ये बर्हिष्मन् दिष्टकारिणः
अथ अष्टाविंशोऽध्यायः
नारद उवाच–
सैनिका भयनाम्नो ये बर्हिष्मन् दिष्टकारिणः ।
प्रज्वारकालकन्याभ्यां विचेरुरवनीमिमाम् ॥ १ ॥
पदरत्नावली
ईश्वरेच्छोपनतकर्मवशाच्छरीरमनुविश्य स्थितस्य जीवस्य जाग्रदाद्यवस्थाभेदं प्रतिपाद्याधुना शरीरवियोगलक्षणामवस्थां वक्तुमुपक्रमते– सैनिका इत्यादिना ॥ वातादिव्याधिसमूहा इमामवनिं विचेरुरित्यनेन जरादिव्याधयोऽस्मिन् प्रपञ्च एव नान्यत्रेति ज्ञायते ॥ १ ॥
प्रकाशिका
इदानीं पुरञ्जनस्य पुंदेहत्यागप्रकारकथनपूर्वकं स्त्रीजन्मप्राप्तिप्रकारमाह ॥ सैनिका इत्यादिना राजसिंहस्य वेश्मनीत्यन्तेन । दिष्टमादिष्टं तत्कारिणो मृत्योरादेशकारिण इत्यर्थः ॥ १ ॥
त एकदा तु रभसा पुरञ्जनपुरीं नृप ।
रुरुधुर्भौमभोगाढ्यां जरत्पन्नगपालिताम् ॥ २ ॥
पदरत्नावली
भौमा बहवः भोगा अशनपानवसनलक्षणा रुरुधुः शरीरं विविशुः । जरत्पन्नग इति प्राणबलाच्चेष्टाल्पत्वं लक्ष्यते । न तु प्राणस्य । तस्य निस्सीमबलत्वात् ॥ २ ॥
प्रकाशिका
भौमा बहवः भोगा अशनपानवसनादयः ॥ २ ॥
कालकन्याऽपि बुभुजे पुरञ्जनपुरीं बलात् ।
ययाऽभिभूतः पुरुषः सद्यो निस्सारतामियात् ॥ ३ ॥
पदरत्नावली
कन्यापि बुभुज इति यौवनानन्तरं विवेश ॥ ३ ॥
प्रकाशिका
बुभुजे प्रविवेश ॥ ३ ॥
तयोपभुज्यमानां वै यवनाः सर्वतो दिशम् ।
द्वार्भिः प्रविश्य सुभृशं प्रार्दयन् सकलां पुरीम् ॥ ४ ॥
तस्यां प्रपीड्यमानायामभिमानी पुरञ्जनः ।
अवापोरुविधांस्तापान् कुटुम्बी ममताकुलः ॥ ५ ॥
पदरत्नावली
प्रार्दयन्निति जराग्रस्तस्य पलितस्याक्षिमान्द्यं बधिरत्वं दन्तभङ्गः क्षामाकुलत्व-मग्निदौर्बल्यं कण्ठे घुरुघुरुत्वमित्यादिनानाव्याधयो दृश्यन्त इति ॥ ४ ॥
प्रकाशिका
द्वार्भिर्नवभिः ॥ ४,५ ॥
कन्योपगूढो नष्टश्रीः कृपणो विषयात्मकः ।
नष्टप्रज्ञो हतैश्वर्यो गन्धर्वयवनैर्बलात् ॥ ६ ॥
विशीर्णां स्वपुरीं वीक्ष्य प्रतिकूलाननादृतान् ।
पुत्रपौत्रानुगामात्यान् जायां च गतसौहृदाम् ॥ ७ ॥
पदरत्नावली
पुत्रान् गोलकलक्षणान् पौत्रानिन्द्रियाणि अमात्यान् अमा सह वर्तनीया अमात्या इन्द्रियाभिमानिनो देवास्तांश्च । अत सातत्यगमन इति धातोः । बुद्धेरपि पूर्ववदतिशयो नास्तीति गतसौहृदम् ॥ ७ ॥
प्रकाशिका
विषयात्मको विषयनिविष्टमानसः ॥ ६,७ ॥
आत्मानं कन्यया ग्रस्तं पाञ्चालानरिदूषितान् ।
दुरन्तचिन्तामापन्नो न लेभे तत्प्रतिक्रियाम् ॥ ८ ॥
पदरत्नावली
कन्यया जरसा । पाञ्चालान् विषयान् अरिदूषितान् विघ्नप्रतिहतान् ॥ ८ ॥
प्रकाशिका
कन्यया जराख्यया निमित्तया ॥ ८ ॥
कामानभिलषन् दीनो यातयामांश्च कन्यया ।
गतात्मसंविन्निस्स्नेहः पुत्रदारांश्च लालयन् ॥ ९ ॥
पदरत्नावली
यातयामान् गतसारान् । गतात्मसंविन् नष्टपरमात्मज्ञानः, अत एव निःस्नेहः परमात्मनि भक्तिरहितो विरुद्धस्नेहो वा ॥ ९ ॥
प्रकाशिका
यातयामान् गतसारान् कामान् अभिलषन् ॥ ९ ॥
गन्धर्वयवनाक्रान्तां कालकन्योपमर्दिताम् ।
हातुं प्रचक्रमे राजा तां पुरीमनिकामतः ॥ १० ॥
पदरत्नावली
अनिकामतोऽनिच्छातः ॥ १० ॥
प्रकाशिका
अनिकामतोऽनिच्छयाऽपि ॥ १० ॥
भयनाम्नोऽग्रजो भ्राता प्रज्वारः प्रत्युपस्थितः ।
ददाह तां पुरीं कृत्स्नां भ्रातुः प्रियचिकीर्षया ॥ ११ ॥
पदरत्नावली
प्रज्वरः पुरीं ददाहेति शरीरे च ज्वरः प्रवृत्त इत्यर्थः । भ्रातुर्मृत्युनाम्नो हितकरणेच्छया ॥ ११ ॥
प्रकाशिका
भ्रातुर्मृत्युनाम्नो हितकरणेच्छया ॥ ११ ॥
तस्यां संदह्यमानायां सपौरः सपरिच्छदः ।
कौटुम्बिकः कुटुम्बिन्या उपातप्यत सान्वयः ॥ १२ ॥
प्रकाशिका
सपरिच्छदो भृत्यवर्गसहितः कुटुम्बेनेदं दीव्यतीति कौटुम्बिकः सान्वयः पुत्रादि-सहितः ॥ १२ ॥
यवनोपरुद्धायतनो ग्रस्तायां कालकन्यया ।
पुर्यां प्रज्वारसंस्पृष्टः पुरपालोऽन्वतप्यत ॥ १३ ॥
पदरत्नावली
यवनैर्व्याधिभिरुपरुद्धमायतनं शरीरनाडीलक्षणं यस्य स तथा । पुरपालः प्राणः । अनुतापो जीवक्लेशं प्रेक्ष्य ॥ १३ ॥
प्रकाशिका
पुरपालः पुरञ्जनः । अन्वतप्यतेति पुनरनुतापोक्तिरेकमात्रविवक्षया । पूर्वं तु कुटुम्बादिसहितस्यातो न पुनरुक्तिरिति ध्येयम् ॥ १३ ॥
न शेके सेवितुं तत्र पुरुकृच्छ्रोरुवेपथुः ।
गन्तुमैच्छत् ततो वृक्षकोटरादिव सानलात् ॥ १४ ॥
शिथिलावयवो यर्हि गन्धर्वैर्हृतपौरुषः ।
यवनैररिभी राजन्नुपरुद्धो रुरोद ह ॥ १५ ॥
पदरत्नावली
सानलादग्निवृताद् गृहबिलादिव ॥ १४ ॥
प्रकाशिका
सानलादग्नियुताद्वृक्षकोटरादिव ॥ १४,१५ ॥
दुहितॄः पुत्रपौत्रांश्च जामिजामातृपार्षदान् ।
स्मृत्वाऽवशिष्टं यत्किञ्चिद् गृहकोशपरिच्छदम् ॥ १६ ॥
पदरत्नावली
अधुना कामिनां मरणव्यवस्थां दर्शयति– दुहितृरिति ॥ अत्र वृत्तिमन्तरेण बाह्यदुहित्रादयोऽपि ग्रहीतुं शक्यन्ते ॥ १६ ॥
प्रकाशिका
दुहित्रादीन्दध्यावित्युत्तरेणान्वयः । जामयोऽत्र स्नुषाः । स्वत्वमात्रेण अवशिष्टं भोगस्तु प्रागेव क्षीणः ॥ १६ ॥
अहं ममेति स्वीकृत्य गृहेषु कुमतिर्गृही ।
दध्यौ प्रमदया दीनो विप्रयोग उपस्थिते ॥ १७ ॥
पदरत्नावली
विप्रयोगे मरणलक्षणे प्रमदया बुद्ध्या अन्यया च ॥ १७ ॥
प्रकाशिका
विप्रयोगे मरणे ॥ १७ ॥
लोकान्तरं गतवति मय्यनाथा कुटुम्बिनी ।
वर्तिष्यते कथं त्वेषा बालकाननुशोचती ॥ १८ ॥
पदरत्नावली
लोकान्तरं गतवतीत्यादि कथालङ्कारः ॥ १८ ॥
प्रकाशिका
ध्यानमेवाह । लोकान्तरमिति ॥ १८ ॥
न मय्यनशिते भुङ्क्ते नास्नाते स्नाति मत्परा ।
मयि तुष्टे सुसन्तुष्टा भर्त्सिते यतवाग् भयात् ॥ १९ ॥
पदरत्नावली
अनशिते अभुक्ते । भर्त्सिते भर्त्सने कृते । यतवाक् तूष्णींभावमाश्रिता ॥ १९ ॥
प्रकाशिका
अनशितेऽभोजिते । भर्त्सिते भर्त्सने कृते । यतवाक् तूष्णीम्भावमाश्रिता भवति
॥ १९ ॥
प्रबोधयति माऽविज्ञं१ व्युषिते शोककर्षिता ।
वर्त्मैतद् गृहमेधीयं वीरसूरपि नेष्यति ॥ २० ॥
पदरत्नावली
व्युषितेऽन्यत्र स्थिते नेष्यत्यनुवर्तयिष्यति किम् ? ॥ २० ॥
प्रकाशिका
अविज्ञमविवेकिनं मा मां प्रबोधयति । व्युषिते देशान्तरं गते । गृहमेधीयं वर्त्म गृहधर्मं नेष्यति नानुवर्तिष्यति । मद्विरहमसहमाना मरिष्यतीत्यर्थः । तत्र पुत्रवत्या निषिद्धमिति सूचनाय वीरसूरपीत्युक्तम् ॥ २० ॥
कथं नु दारका दीना दारिका अपरायणाः ।
वर्तिष्यन्ते मयि गते भिन्ननाव इवोदधौ ॥ २१ ॥
पदरत्नावली
भिन्ना नौर् येषां ते भिन्ननावः ॥ २१ ॥
प्रकाशिका
दारकाः पुत्रा दारिकाः पुत्र्योऽपरायणा न विद्यते परमयनमाश्रयो येषां ते तथा । भिन्ना नौर्येषां ते इव ॥ २१ ॥
एवं कृपणया बुद्ध्या शोचन्तमतदर्हणम् ।
ग्रहीतुं कृतधीरेनं भयनामाऽभ्यपद्यत ॥ २२ ॥
पदरत्नावली
अतदर्हणं शोकायोग्यं मरणयोग्यमिति वा ॥ २२ ॥
प्रकाशिका
अतदर्हणं शोकायोग्यं मरणयोग्यमिति वा । वस्तुतस्तस्य सत्स्वभावत्वादित्याशयः
॥ २२ ॥
पशुवद् यवनेनैष नीयमानः स्वकं क्षयम् ।
अन्वद्रुवन्ननुपथाः शोचन्तो भृशमातुराः ॥ २३ ॥
पदरत्नावली
स्वकं क्षयं कर्मणा शरीरान्तरम् । अनुपथाः प्राणेन्द्रियादयः ॥ २३ ॥
प्रकाशिका
क्षयं स्थानम् । अनुपथा भार्यादयः ॥ २३ ॥
पुरीं विहायोपगत उपरुद्धो विहङ्गमः ।
तदा तमेवानुपुरी विशीर्णा प्रकृतिं गता ॥ २४ ॥
पदरत्नावली
यदा विहङ्गमो भुजङ्गमः पुरीं विहायोपगतस्तदा तमनु शरीरं च विशीर्णं प्रकृतिं पञ्चभूतात्मतां गताम् । पञ्चभूतेभ्य उत्पन्नं पुनस्तदवशेषमापेत्यर्थः ॥ २४ ॥
प्रकाशिका
उपरुद्ध उपरुद्धपुरः । यदा भुजंगमः पुरीं विहायोपगतस्तदा तमनुपुरी विशीर्णा सती प्रकृतिं पञ्चभूतात्मतां गता ॥ २४ ॥
विकृष्यमाणः प्रसभं यवनेन बलीयसा ।
नाविन्दत् तमसाऽऽविष्टः सखायं सुहृदं परम् ॥ २५ ॥
पदरत्नावली
तम आविष्टो ऽज्ञाननिमित्तमोहं प्राप्तः सखायं परं सदा सह वर्तमानं परमात्मानं सुहृदमनिमित्तबन्धुं नाविदन् नास्मरदित्यन्वयः ॥ २५ ॥
प्रकाशिका
विकृष्यमाणः पुरंजनः । तमसाऽऽविष्टोऽज्ञाननिमित्तमोहं प्राप्तः सखायमविज्ञात-नामानं परं सदा सहवर्तमानं परमात्मानं सुहृदमनिमित्तबन्धुं नाविन्दन्नोऽस्मरत् ॥ २५ ॥
तं यज्ञपशवोऽनेन संज्ञप्ता येऽदयालुना ।
कुठारैश्चिच्छिदुः क्रुद्धाः स्मरन्तो वैशसं तु तत् ॥ २६ ॥
पदरत्नावली
अदयालुना क्रूरेण हिंसाकर्मरतेनेत्यर्थः । तुशब्देन ब्रह्मार्पणबुद्ध्याऽननुष्ठानं सूचयति ॥ २६ ॥
प्रकाशिका
अदयालुना निर्घृणेन संज्ञप्ता हिंसिताः । वैशसं हिंसनम् । तुशब्देन हरिस्मरणाद्यङ्गसाकल्यवैधुर्यं सूचयति ॥ २६ ॥
अनन्तपारे तमसि मग्नो नष्टस्मृतिः समाः ।
शाश्वतीरनुभूयार्तीः प्रमदासङ्गदूषितः ॥ २७ ॥
पदरत्नावली
अनन्तपारेऽवसानरहिते तमसि निरये प्रमदासङ्गेन विषयबुद्धिस्वीकारेण दूषितोऽशुद्धः ॥ २७ ॥
प्रकाशिका
अनन्तपारे बहुकालीने तमसि नरके शाश्वतीः समा आर्तिमनुभूय ॥ २७ ॥
तामेव मनसा गृह्णन् बभूव प्रमदोत्तमा ।
अनन्तरं विदर्भस्य राजसिंहस्य वेश्मनि ॥ २८ ॥
पदरत्नावली
तां विषयबुद्धिमेव । उत्तमा उद्गततमा प्रगतमदा मदरहिता बुद्धिरभूत् । अत्र मरणजनने कथालङ्कारार्थे । अध्यात्मार्थस्य मण्डूकप्लुतिन्यायेन पदाक्षिप्तस्यापि सम्भवात् ‘वाच्य-मपच्युत्य’ इति वचनात् ॥ २८ ॥
प्रकाशिका
तामेव मनसा गृह्णन् स्मरन् पूर्वम् मरणकाल इति शेषः । अनन्तरं नरक-भोगानन्तरं प्रमदोत्तमा बभूव । सुंदरस्त्रीजन्म प्राप्तवानित्यर्थः । राजसिंहस्य राजश्रेष्ठस्य ॥ २८ ॥
उपयेमे वीर्यपणां वैदर्भीं मलयध्वजः ।
युधि निर्जित्य राजन्यान् पाण्ड््यः परपुरञ्जयः ॥ २९ ॥
पदरत्नावली
उपयमनं नाम स्वाधीनताकरणम् । वीर्यपणां ब्रह्मचर्यादिसाधनसाध्यां वैदर्भीं निशितम् । क उपयेमे ? मलं यापयतीति मलयः शान्तमनस्संस्कारः, स एव ध्वजो यस्य स तथा । हरिसेवादिना संस्कृतमना इत्यर्थः । रूपकमात्रस्य लिङ्गव्यत्ययो न दोषाय । मनसा वा अग्रे सङ्कल्पयत्यथ वाचा व्यवहरतीति श्रुतेर् मनसोऽपि बुद्ध्यधीनकरणशक्तिरुपपत्तिमतीति बोद्धव्यम् । किं कृत्वा ? युधि यमनियमनादिलक्षणे युद्धे राजन्यान् राजृ दीप्ताविति धातोर्दीपकानीन्द्रियाणि वशीकृत्य । चञ्चलस्य मनसो बुद्ध्यधीनकरणशक्तिः कथमिति तत्राह– पाण्ड्य इति ॥ पाण्डोर्धर्र्र्र्माज्जातं विवेकज्ञानं तेन सम्पन्नः । तत्कुत इति तत्राह– परेति ॥ परेषामिन्द्रियाणां विषयलक्षणं पुरं जयतीति । आत्मा-नभिमतमार्गगन्तृत्वादिन्द्रियाणां परत्वम् । तदभावे सुहृत्त्वमेव । मननान्मन उद्दिष्टमिति मनश्चेतनो वा । बाह्यार्थस्त्वेवं– पुरञ्जनः पुरञ्जनीसङ्गेन तद्वासनादूषितो नाम्ना वैदर्भी प्रमदोत्तमाऽभूत् । पुरञ्जनी तत्पुरञ्जनसङ्गातिशयेन वासनावशान्नाम्ना मलयध्वजः पुमानभूत् । विषयसङ्गातिरेकलक्षणकारणात् पुंसः स्त्रीत्वम् । स्त्रियाः पुंस्त्वं च । अन्ततः स्त्रीत्वमेवावशिष्यते । विषयसङ्गातिरेको न कर्तव्य इति शिक्षणार्थं चेदमुक्तमिति तात्पर्यं ज्ञातव्यम् ॥ २९ ॥
प्रकाशिका
वीर्यपणां वीर्यमेव पणं मौल्यं यस्यास्ताम् ॥ २९ ॥
तस्यां सञ्जनयांचक्रे आत्मजामसितेक्षणाम् ।
यवीयसः सप्तसुतान् सप्तद्रविडभूभृतः ॥ ३० ॥
एकैकस्याभवत् तेषां राजन्नर्बुदमर्बुदम् ।
भोक्ष्यते यद्वंशधरैर्मही मन्वन्तरं परम् ॥ ३१ ॥
पदरत्नावली
तस्यां बुद्धौ । असितो नित्यमुक्तो हरिः, तस्येक्षणं यथा भवत्यसितेक्षणा आत्मजा विष्णुभक्तिः । विरागविनयदानधैर्यास्पर्धनविवेकदमाः सप्त संख्याता बुद्धेर्जातत्वात् सुता इत्युच्यन्ते । विष्णुभक्त्यनन्तरकाले स्पष्टत्वाद् यवीयस इति । सप्तेत्यनेन जरायुबन्धो लक्ष्यते । संबन्धो द्रविलः प्राप्तगर्भलक्षणगतिस्तस्य जीवस्य भूः स्थानं मुक्तिलक्षणं बिभ्रति उत्पाद्य ददातीति सप्तद्रविड-भूभृतः । डलयोरभेदः, मृा जरित्र इति दर्शनात् । सप्तेन्द्रियाणि वाऽनेनोच्यन्ते । रागादिभ्यो मुक्ताः प्रकाशितरूपाः सुता इत्युच्यन्ते ॥ अर्बुदमर्बुदमित्यनेन सत्यो वृत्तयो गृह्यन्ते । मही शास्त्रविरुद्ध-विषयलक्षणा मन्वन्तरं मनुष्यजीवनावधिपरं शतवर्षं प्रारब्धपुण्यवशाद् बुद्ध्या वरणादिभिः प्राणै-रिन्द्रियैरेव विषयान् भुङ्क्त इत्यर्थः ॥ ३०,३१ ॥
प्रकाशिका
द्रविडभूभृतो द्रविडदेशराजानः ॥ ३०,३१ ॥
अगस्त्यः प्राग्दुहितरमुपयेमे धृतव्रताम् ।
यस्यां दृढच्युतो जात इध्मवाहात्मजो१ मुनिः ॥ ३२ ॥
पदरत्नावली
स्त्यै ष्ट्यै शब्दसंघात इति धातोर् अगं भगवन्तं स्त्यायति शब्दसमूहेन स्तुतिं करोतीत्यगस्त्यो भक्तः, प्राञ्चं पुरातनं श्रीनारायणं दोग्धीति दुहिता भक्तिस्तामुपयेमे । संसारनिवर्तने शक्तिमत्तयाऽचलामकरोदित्यर्थः । कीदृशीम् ? ब्रह्मचर्यादिव्रतसाध्याम् । दृढं च्युतः पुत्रादिस्नेहो यस्मात् स दृढच्युतः । पूर्वस्माद् विरागो दृढतरोऽभूदित्यर्थः । इध्मवासो गुरुकुलवास एवात्मजो यस्य स तथा । वैराग्यादेव गुरुकुलवासो भवति, ‘परिक्ष्य लोकान् कर्मचितान् ब्राह्मणो निर्वेदमायान्नास्त्यकृतः कृतेन तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत्’ इति श्रुतेः । ‘सौम्येमाः समिध आहर’ इति च ॥ ३२ ॥
प्रकाशिका
प्राक् प्रथमोत्पन्नां पूर्वमिध्मवाहात्मजः ॥ ३२ ॥
विभज्य तनयेभ्यः क्ष्मां राजर्षिर्मलयध्वजः ।
आरिराधयिषुः कृष्णं स जगाम कुलाचलम् ॥ ३३ ॥
हित्वा गृहान् सुतान् भोगान् वैदर्भी मदिरेक्षणा ।
अन्वधावत पाण्ड््येशं ज्योत्स्नेव रजनीकरम् ॥ ३४ ॥
पदरत्नावली
वैराग्यादिसंपत्त्या राजत इति राजा । विवेकित्वाद् ऋषिः । राजा चासा-वृषिश्चेति राजर्षिः । वैराग्यविवेकज्ञानसंपन्नः । शुद्धवासनाङ्कितः पुरुषस्तनयस्थानीयेभ्यो विरागादिभ्य इन्द्रियेभ्यो वा क्ष्मां शास्त्रलक्षणां वा विभज्य ‘इदं श्रोतव्यं नेदम्’ इति विविच्य ‘अयं विषयः सेवनीयो नायम्’ इति, कुलाचलं निश्चलवासार्थं गुरुकुलं जगाम । वैराग्यादिगुणसंपन्नः शरीरयात्रानिर्वाहक-विषयभोगी गुरुकुलसन्निधिमवात्सीदित्यर्थः । कृष्णं पूर्णानन्दमाराध्यापरोक्षीकर्तुकाम इत्यर्थः ॥ मदिर्दृष्टिस्तां रातीति मदिरं तादृशमीक्षणं ज्ञानं यस्यां सा तथा शुद्धज्ञाना विषयानुषङ्गं विहाय तदनु-सारिणी बभूवेति पाण्ड्येशमन्वपद्यतेत्यभिप्रायः । अत्र सुतशब्देन रागादयो लक्ष्यन्ते तान् विहायेत्यर्थः । मुक्तावपि बुद्ध्याऽऽत्मनो राहित्यं नास्तीति दर्शयितुं ज्योत्स्नेवेति ॥ ३३,३४ ॥
प्रकाशिका
कृष्णं पूर्णानन्दमारिराधयिषुरपरोक्षीकर्तुकामः ॥ ३३,३४ ॥
तत्र चन्द्रवटा१ नाम ताम्रपर्णी परोदका१ ।
तत्पुण्यसलिलैर्नित्यमुभयत्रात्मनो मृजन् ॥ ३५ ॥
पदरत्नावली
तत्र गुरुकुलावासे चन्द्रवदाह्लादकं निर्मलं च वदति ज्ञापयतीति वेदान्त-शास्त्रम् । ययौ चन्द्रमदेति पाठे शसाविति सूत्राद् वकारस्य मकारः । चन्द्रबिम्बं विषयीकरोतीति वा । नाम लोकप्रसिद्धम् । पर्ण आच्छादन इति धातोस् ताम्रं रजस्तमश्च पर्णयत्याच्छादयति परिभवतीति ताम्रपर्णी वेदान्तव्याख्या । तश्चामरश्चेति ताम्रं पृणातीति प्रकाशलक्षणं दानं करोतीति वा, पृण दान इति धातोः । नदीवत् पदवर्णस्वरलक्षणप्रवाहात् श्रोतृणामुदकवदाह्लादजननाद्वा वरोदका । तस्या व्याख्यायाः प्रकाशितैः पुण्यैः शोधकैः सलिलैर्युक्तिलक्षणैर् आत्मनोऽन्तःकरणस्य उभयत्र प्रतिवादि-निमित्तं बाह्यं दुर्युक्तिमलं संशयाद्यान्तरमलं मृजन् शोधयन् ॥ ३५ ॥
प्रकाशिका
तत्पुण्यसलिलैस्तासां चन्द्रवटादीनां सलिलैरित्यर्थः । आत्मनोऽन्तःकरण-स्योभयत्रान्तर्बहिर्विद्यमानं मलं मृजन् शोधयन् ॥ ३५ ॥
कन्दादिभिर्मूलफलैः पुष्पपर्णैस्तृणोदकैः ।
वर्तमानः शनैर्गात्रकर्षणं तप आस्थितः ॥ ३६ ॥
पदरत्नावली
मूल प्रतिष्ठायामिति धातोर् मूलं जगदाधारं ब्रह्म फलन्ति निष्पादयन्तीति मूलफलानि तैः । कं सुखं ददातीति कन्दं मिताशनं, तदादिर्येषां मितस्वापादीनां तानि कन्दादीनि योगसाधनानि तैः । ‘नात्यश्नतस्तु योगोऽस्ति न चैकान्तमनश्नतः’ इति स्मृतेः । पुष्पवन्मृदुलैः पर्णैराच्छादनैरुद्गतमकं दुःखं येभ्यस्तान्युदकानि । १तृणानि आस्तरणानि । तैरेतेश्च वर्तमानः शरीरयात्रां कुर्वाणः । गं ज्ञानं गमयतीति गात्रमज्ञानं कर्शयत्यल्पीकरोतीति गात्रकर्शनं तप आलोचन इति धातोरालोचनं मननमनुतिष्ठन् ॥ ३६ ॥
प्रकाशिका
वर्तमानः शरीरयात्रां कुर्वाणः ॥ ३६ ॥
शीतोष्णवातवर्षाणि क्षुत्पिपासे प्रियाप्रिये ।
सुखदुःखे इति द्वन्द्वान्यजयत् समदर्शनः ॥ ३७ ॥
पदरत्नावली
शीतोष्णादीनि द्वन्द्वान्यजयत् सहमानो वर्तत इत्यन्वयः । शीतोष्णादिशब्दैः कामादयो लक्ष्यन्त इति ज्ञातव्यम् । उभयेषां शरीराधिकरणत्वात् ॥ ३७ ॥
प्रकाशिका
अजयत्सहमानो वर्तते ॥ ३७ ॥
तपसा विद्यया पक्वकषायो नियमैर्यमैः ।
युयुजे ब्रह्मणाऽऽत्मानं विजिताक्षानिलाशयः ॥ ३८ ॥
आस्ते स्थाणुरिवैकत्र दिव्यं वर्षशतं स्थितः ।
वासुदेवे भगवति नान्यद् वेदोद्वहन् रतिम् ॥ ३९ ॥
पदरत्नावली
तपसा मननलक्षणेन जातया विद्यया ज्ञानेन नियमादिभिश्च पक्वकषायः शिथिलीकृतपापआत्मानमन्तःकरणं ब्रह्मणा युयुजे विषयेभ्य आनीय श्रीनारायणेन सह वर्तमानमकरोत् । तदेकनिष्ठमकुरतेत्यर्थः । यद्वा आत्मानमन्तर्यामिरूपं ब्रह्मणा व्याप्तरूपेण युयुजे एकत्वेन दध्यावित्यर्थः । विजिताक्षानिलाशयो वशीकृतेन्द्रियप्राणान्तःकरणः । आशयोऽभिलापो वा ॥ स्थाणुरिव स्थित एकत्र गुरुकुले श्रुतमतशास्त्रे बुद्धिप्रसादजनके विविक्तस्थाने वा दिव्यं वर्षशतं बहुकालमुपासीन आस्त इत्यन्वयः । मुक्तिसाधनं भक्तिरेव नान्यदिति तस्या अतिशयफलमाह– वासुदेव इति ॥ उपासको वासुदेवे भगवति वेदान्तविचारनिर्णीतगुणरत्नाकरे हरावुपासनालक्षणां रतिमुद्वहन् कुर्वन् अन्यत् स्वतन्त्रं वस्तु न वेद । किन्तु सर्वं तदधीनमेव ज्ञातवानित्यर्थः ॥ ३८,३९ ॥
प्रकाशिका
आत्मानमन्तःकरणं ब्रह्मणा युयुजे ब्रह्मध्यानं चकारेत्यर्थः ॥ ३८,३९ ॥
स व्यापकतयाऽऽत्मानं व्यतिरिक्ततयाऽऽत्मनि ।
विद्वान् स्वप्न इवामृश्य साक्षिणं विरराम ह ॥ ४० ॥
तात्पर्यम्
‘स्वप्नेन शारीरमभिप्रहत्यासुप्तः सुप्तानभिचाकशीती’ति श्रुतिप्रसिद्धः । स्वप्न इवेति दृष्टान्तत्वेनोच्यते । स्वप्ने हि जीवस्यास्वातन्त्र्यं प्रसिद्धम् । अतस्तत्र परमेश्वराधीनत्वं प्रसिद्धमेव । अतो जीवव्यतिरिक्त ईश्वरः सिद्धः । ‘स्वप्नो यतो न स्वतन्त्रस्तत्र तद्दर्शकः परः । जीवादन्यस्तु विज्ञेयः स विष्णुरवधार्यताम् ॥’ इति वाराहे ॥ ४० ॥
पदरत्नावली
ननु ब्रह्मव्यतिरिक्तस्य वस्तुनोऽभावादेकमेवाद्वितीयमिति श्रुतेरेतदेव नान्यद् वेदेति प्रतीत एवार्थः किं न स्यादिति तत्राह– स व्यापकतयेति ॥ स आमृश्य विचार्याऽऽत्मनि जीवे स्थितं साक्षिणं ‘स्वप्नेन शारीरमभिप्रहत्यासुप्तः सुप्तानभिचाकशीति’ इति श्रुतेः साक्षाद् द्रष्टृत्वेन वर्तमानं स्वप्ने यथा परतन्त्रतया जीवं पश्यति तथा अन्यदापीति विद्वांस्तथाऽऽत्मानं व्यापकतया सर्वव्यापित्वेन चेतनाचेतनात्मकजगद्व्यतिरिक्ततया च विद्वान् विरराम संसाराद् विरक्तो जीवन्मुक्त्यवस्थामापेत्यन्वयः । यद्वा आत्मानं व्यापकतया आत्मनि जीवे व्यतिरिक्ततया च विद्वान् स्वप्न इव स्वतन्त्रं साक्षिणं, जीवं परतन्त्रमामृश्य निश्चित्य विररामेति । हेत्यनेन जीवस्यास्वातन्त्र्ये हरेस्तदन्यत्वे ‘यतः स्वप्नो न स्वतन्त्र-स्ततस्तद्दर्शकः परः। जीवादन्यस्तु विज्ञेयः स विष्णुरवधार्यताम्’ इति प्रसिद्धिः सूच्यते ॥ ४० ॥
प्रकाशिका
स मलयध्वज आत्मनि मनसि जीवे वा विद्यमानं साक्षिणं साक्षाद्द्रष्टारमात्मानं परमात्मानं व्यापकतया अत एव व्यतिरिक्ततया विद्वान्स्वप्ने इवामृश्य स्वप्ने यथा जीवव्यतिरिक्तेश्वर-स्तदवस्थाप्रेरको विज्ञेयस्तथाऽत्राप्यामृश्य मनसि दृढीकृत्य विरराम संसाराद्विरक्तो जीवन्मुक्त्यवस्था-मापेत्यर्थः । हेत्यनेनात्र प्रमाणप्रसिद्धिं दर्शयति । अत्र स्वप्न इवेति दृष्टान्तोक्त्या स्वप्ने जीवव्यति-रिक्तेश्वरः सिद्ध इति सूचितं तत्कथमित्यतो हेत्यनेन सूचितं प्रमाणं दर्शयंस्तदुपपादयति ॥ स्वप्नेनेति । प्रसिद्धजीवव्यतिरिक्तेश्वर इति शेषः । अनुमानेनापि तत्र जीवव्यतिक्तेश्वरसिद्धिं वक्तुमाह ॥ स्वप्न इति । हिशब्दो यस्मादित्यर्थे । तत्र स्वप्ने परमेश्वराधीनत्वं जीवस्येति शेषः । परमेश्वरस्य जीवस्वप्नावस्था-प्रदर्शकत्वमिति यावत् । इदानीमनुमानमाह ॥ अत इति । स्वप्नावस्थाप्रदर्शकत्वात् । तथा चेश्वरः स्वप्नावस्थायां जीवव्यतिरिक्तस्तदा तस्य स्वप्नार्थप्रदर्शकत्वात् । न चासिद्धिः । जीवस्य तस्याम-स्वातन्त्र्यात् । अन्यस्यासम्भवात् । ईश्वर एव तत्सिद्धेर् इत्युक्तं भवति । अत्र प्रमाणसंवादमाह ॥ स्वप्न इति । परः स्वतन्त्रः स च विष्णुरन्यस्यासम्भवात् । तस्माज्जीवादन्य इति अवधार्यतामित्यर्थः ॥ ४० ॥
साक्षाद्भगवतोक्तेन गुरुणा हरिणा नृपः ।
विशुद्धज्ञानदीपेन स्फुरता विश्वतो मुखम् ॥ ४१ ॥
पदरत्नावली
तर्ह्यभेदश्रुतेः कोऽभिप्राय इत्याशङ्क्य जीवान्तर्यामिणो हरेः ‘ब्रह्मविदाप्नोति परम्’ इति श्रुतिप्रतिपाद्यस्य व्याप्तस्यापि न कश्चिद् भेदोऽस्तीत्यर्थ इत्यभिप्रेत्याह– साक्षादिति ॥४१॥
प्रकाशिका
केनेदं ज्ञानं प्राप्तमित्याशङ्कां परिहरन्नुक्तमेव विशदयति ॥ साक्षादिति । विश्वतो मुखं यथा स्यात्तथा स्फुरता । बहुविषयकेणेति यावत् ॥ ४१ ॥
परे ब्रह्मणि चात्मानं परं ब्रह्म तथाऽऽत्मनि ।
वीक्षमाणो विहायेक्षामस्मादुपरराम ह ॥ ४२ ॥
पतिं परमधर्मज्ञं वैदर्भी मलयध्वजम् ।
प्रेम्णा पर्यचरद्धित्वा भोगान् सा पतिदेवता ॥ ४३ ॥
पदरत्नावली
आत्मानं जीवान्तर्यामिणम् । ईक्षां तयोर्भेददर्शनम् । अस्माच्छरीरात् । हेत्यनेनास्य प्रामाणिकत्वं द्योतयति ॥ पतिं स्वाश्रयम् इन्द्रियद्वारेण । भोगान् विहाय परिचरणं नाम तस्य हितप्रेरकत्वम् ॥ ४२,४३ ॥
प्रकाशिका
आत्मानं परमात्मानमात्मनि स्वस्मिन् ईक्षां तादृशवृत्तिमपि विहाय वाऽस्मा-च्छरीरात्संसाराद्वा । हेत्यनेन प्रमाणप्रसिद्धिं दर्शयति ॥ ४२,४३ ॥
चीरवासा व्रतक्षामा वेणीभूतशिरोरुहा ।
बभावुप पतिं शान्ता शिखाशान्तमिवानलम् ॥ ४४ ॥
पदरत्नावली
चीरवासाः सत्वगुणलक्षणवेणी चक्षुषि शिरोरुहलक्षणा वृत्तयो यस्य सा तथा । उप पतिं पत्युः स्वमनसः समीपे । शान्तमित्यनेन धूमराहित्यं न तु निर्वाणत्वम् । न हि नष्टस्याग्नेः शिखा । कथापक्षे यथास्थित एवार्थः । अभूतदृष्टान्तस्य सम्भवात् । तस्मान् निर्धूमतया ज्वलतोऽग्नेः शिखेव निर्मलतया श्रेयसोऽन्तरङ्गमित्यर्थः ॥ ४४ ॥
प्रकाशिका
उप पतिं पत्युः समीपे शिखाशान्तं ज्वालाशान्तं निर्धूमम् ॥ ४४ ॥
अजानती प्रियतमं यदोपरतमङ्गना ।
सुस्थिरासनमासाद्य यथा पूर्वमुपाचरत् ॥ ४५ ॥
पदरत्नावली
इदानीं बुद्धेर्वृत्तिविशेषान् लक्षयति– अजानतीति ॥ अङ्गना भगवज्ज्ञान-साधनम् । उपरतं जीवन्मुक्त्यवस्थामाप्तं प्रियतमं स्वस्या आत्यन्तिकं प्रियतममजानती बाह्यवृत्तिविशिष्टा सुस्थिरासनं तदेकवृत्तिनिष्ठालक्षणं पीठमाप्य पूर्वसंस्कारवशाद् यथापूर्वमुपाचरत् शुभकर्मणि प्रेरयामास
॥ ४५ ॥
प्रकाशिका
उपरतं मृतम् । अजानती । अज्ञाने कारणमाह ॥ सुस्थिरेति । तदानीमपि सुस्थिरमासनं यस्येति ॥ ४५ ॥
यदा नोपलभेताङ्घ्रावूष्माणं पत्युरर्चती ।
आसीत् संविग्नहृदया यूथभ्रष्टा मृगी यथा ॥ ४६ ॥
आत्मानं शोचती दीनमबन्धुर्विक्लवाऽश्रुभिः ।
स्तनावासिच्य विपिने सुस्वरं प्ररुरोद सा ॥ ४७ ॥
उत्तिष्ठोत्तिष्ठ राजर्षे इमामुदधिमेखलाम् ।
दस्युभ्यः क्षत्रबन्धुभ्यो बिभ्यतीं पातुमर्हसि ॥ ४८ ॥
पदरत्नावली
यदैवं प्रेरयति च यदा पत्युरङ्घ््रयवयवैकदेशे ऊष्माणमौष्ण्यं नोपलभेत शुष्क-जलनारिकेलफलवद् देहाभिमानं विहाय स्थितत्वादौष्ण्यानुपलंभस्तस्या इति । ततोऽपि वृत्त्यन्तर-वैशिष्ट्यमाह– आसीदिति ॥ तदा संविग्नहृदया वृत्त्यन्तरविशिष्टाऽऽसीत् । मिश्रबुद्धिमपहाय स्वरूप-बुद्ध्याऽवतिष्ठते । तदेवमवस्थाविशेष इति तात्पर्यं ज्ञातव्यम् ॥ बन्धुः स्वामी । तदनुमानराहित्याद-बन्धुः । शोचन्ती प्रकाशयन्ती । विक्लवेत्यादिना प्रतिक्षणमनन्तबुद्धिवृत्तयो लक्ष्यन्ते । विपिने देहलक्षणे स्थिता सुस्वरं प्ररुरोदेतीदं बुद्धिलक्षणम् । अस्या मुक्तिकाले नाशाच् चिदचिद्बुद्ध्या व्यापारविशेषाद् लक्षणवैलक्षण्यं प्रतिक्षणं ज्ञातव्यम् ॥ उदधिः कर्म तदेव मेखलास्थानीयं यस्याः सा तथा ताम् । दस्युभ्योऽहङ्कारादिभ्यः क्षत्रबन्धुभ्यो मिथ्याज्ञानादिभ्यो बिभ्यतीं मां रक्षितुमर्हसि । त्वदनुगृहीतया बुद्ध्याऽज्ञानादयो निवर्तन्त इत्यर्थः ॥ ४६-४८ ॥
प्रकाशिका
पत्युरङ्घ्रिमर्चती ॥ ४६-४८ ॥
एवं विलपती बाला विपिनेऽनुगता पतिम् ।
पतिता पादयोर्भर्तू रुदन्त्यश्रूण्यवर्तयत् ॥ ४९ ॥
पदरत्नावली
विपिने वासनावने विलपती विधावतीव दर्शयन्ती भर्तुः पादयोः पतिता स्वामिनं विहाय स्थिता अश्रूण्यवर्तयन् मुग्धेवाभवत् ॥ ४९ ॥
प्रकाशिका
अवर्तयत्प्रवर्तयामास ॥ ४९ ॥
चितिं दारुमयीं कृत्वा तस्यां पत्युः कलेवरम् ।
आदीप्य चानुमरणे विलपन्ती मनो दधे ॥ ५० ॥
पदरत्नावली
दारुमयीं भेदविषयां चितिं संविदं कृत्वा प्रकाश्य तस्यां संविदि पत्युः कलेवरं संसारकारणमादीप्य दग्ध्वा अनुमरणे अनुस्यूतदोषनाशे मनो दधे तादृशीं वृत्तिं प्राकाशयत् ॥ ५० ॥
प्रकाशिका
आदीप्य दग्ध्वा ॥ ५० ॥
तत्र पूर्वतरः कश्चित् सखा ब्राह्मण आत्मवान् ।
सान्त्वयन् वल्गुना साम्ना तामाह रुदतीं प्रभो ॥ ५१ ॥
पदरत्नावली
तत्र तस्यामवस्थायां कश्चिद् वेदान्तवाक्यार्थो हितोपदेष्टृत्वेन सखिधर्मे वर्तमानो ब्राह्मणो ब्रह्मसम्बन्धी निर्दोषशब्दलक्षणागमसंबन्धीव आत्मवान् परमात्मगुणप्रतिपादनपरः, साम्ना अखिलार्थप्रकाशनेन सान्त्वयन् प्रतिपदं दर्शितान्वयः, बुद्धिमाह अबोधयद् इति । कथापक्षे प्रतीत एवार्थः ॥ ५१ ॥
प्रकाशिका
सखा ईश्वरः । ब्राह्मणो ब्राह्मणरूपी । आत्मवान्मनस्वी । साम्ना प्रियवाक्येन
॥ ५१ ॥
का त्वं कस्यासि को वाऽयं शयानो यस्य शोचसि ।
जानासि किं सखायं मां येनाग्रे विचचर्थ ह ॥ ५२ ॥
पदरत्नावली
तदनुकरणतया बोध्यत इत्याह– केति ॥ का किंजातिविशिष्टा ? न कापि । किं च कस्यासि ? कं पुरुषमाश्रित्य तिष्ठसि ? न कमपि । सर्वचेतनानुस्यूतत्वान् न विशिष्टुं शक्यते । यस्य शोचसि यदीयाऽहमिति प्रकाश्य वर्तसे । अयं शयानः शरीरलक्षणः पदार्थः कः ? पाञ्चभौतिक-त्वात् तव चास्य न कोऽपि सम्बन्धः । किन्तु चेतनस्यैवेत्यर्थः । त्वं का नामतो गोत्रतो लिङ्गतश्च ? न तव त्रयमप्यस्ति । कस्यासि पुत्री भार्या वा ? न कस्यापीत्यर्थः । को वाऽयं शयानः ? तव (त्वयि) निरूपिते सत्यनेन संबन्धः । यस्य मरणं शोचसि स इति वा । अग्रे पूर्वकाले येन मया विचचर्थ विचारितवानसि, वेदान्तवाक्यमिति शेषः । विचार्य मां ज्ञातवानसि, तं सखायं त्वया सह वर्तमानं मां जानासि किम् ? सखित्वाज् ज्ञातुं प्राप्तिरस्तीत्येतत् हशब्देनाह ॥ ५२ ॥
प्रकाशिका
का किं जातिः कस्यासि कं पुरुषमाश्रित्य तिष्ठसि । यस्य शोचस्ययं शयानः कः । अग्रे पूर्वजन्मनि येन मया विचचर्थ सख्यसुखमनुभूतवानसि । तं मां जानासि किम् ॥ ५२ ॥
अपि स्मरसि चात्मानमविज्ञातसखं सखे ।
हित्वा मां पदमन्विच्छन् भौमभोगरतो गतः१ ॥ ५३ ॥
पदरत्नावली
किञ्च हे सखे अविज्ञातः परमात्मा सखा यस्य स तथा तमात्मानं त्वं स्मरस्यपि ? न स्मरसि चेत् तं स्मरेति चार्थः । चिद्बुद्ध्यात्मनोरभेदादिदमुभयं विषयम् । इदानीं ज्ञानात्मानं चेतनमविभज्येवाह– हित्वेति ॥ विषयभोगरतस्तदर्थं भोगस्थानमन्विच्छन् मृगयन् मां हित्वा गतः पृथक्कृत इव । अग्रत इति पाठे पदमन्विच्छन् अभूदित्यन्वयः ॥ ५३ ॥
प्रकाशिका
यद्यपि मां न जानासि तथाऽप्यात्मानं त्वां चाविज्ञातसखमविज्ञातनाम कश्चिन्मे सखाऽऽसीदित्येवं स्मरसि किम् । सख इति पुल्लिङ्गेन सम्बोधनं प्राक्तनपुंस्त्वस्मरणाय । सख्यं स्मारय-न्वैराग्यजननाय स्ववियोगकृतमनर्थमाह ॥ हित्वेति । पदं स्थानं मृगयार्थं वनं गत इत्यर्थः ॥ ५३ ॥
हंसावहं च त्वं चार्य सखायौ मानसायनौ ।
अवात्स्व रमणौ चोभौ सहस्रपरिवत्सरान् ॥ ५४ ॥
स त्वं विहाय मां बन्धो गतो ग्राम्यमतिर्महीम् ।
विचरन् पदमद्राक्षीः कयाचिन्निर्मितं स्त्रिया ॥ ५५ ॥
पदरत्नावली
वाक्यार्थाभिमानी कश्चिच्चेतनः स्वात्मनो रूपं बोध्यस्वरूपं च तत्त्वत उपदिशति– हंसाविति ॥ आर्य प्राज्ञ अहं च त्वं च हंसौ स्वतो निर्लेपौ । मानसं ज्ञानमयनं ययोस्तौ तथा । सहस्रपरिवत्सरान् बहुकालं रमणौ रममाणौ अवात्स्व । अन्यत्र मानससरोवराश्रयौ हंसौ प्रसिद्धौ । प्राक्चीर्णपुण्यनिचयादवाप्तजातिस्मृती ॥ पुनः प्रारब्धकर्मवशाद् ग्राम्यमतिर्मां विहाय कर्मभूमिं गतो विचरन् पर्यटन् किंचित्पदं भोगस्थानमद्राक्षीः । स्त्रिया विषयबुद्ध्या रचितम् ॥ ५४,५५ ॥
प्रकाशिका
हे आर्य प्राज्ञ । अहं त्वं च हंसौ शुद्धौ । सहस्रपरिवत्सरान् बहुकालं रमणौ रममाणौ अवात्स्व । मानससरोवराश्रयौ । मानसं हृदयम् ॥ ५४,५५ ॥
पञ्चारामं नवद्वारमेकपालं त्रिकोष्ठकम् ।
षट्कलं१ पञ्चविपणं पञ्चप्रकृति स्त्रीधवम् ॥ ५६ ॥
पदरत्नावली
एकः पालः प्राणो यस्मिंस्तत् तथा तत् । स्त्री धवः पतिः स्वामी यस्मिन् तत् स्त्रीधवम् ॥ ५६ ॥
प्रकाशिका
पञ्च आमा उपवनानि यस्मिन् त्रीणि कोष्टानि प्राकारा यस्मिन् षट् कलानि यस्मिन् पञ्च विपणं ह्रदा यस्मिन्पञ्चप्रकृतयो यस्मिन् । स्त्री धवः पतिः स्वामी यस्मिन् ॥ ५६ ॥
पञ्चेन्द्रियार्था आरामा द्वारो घ्राणादयः प्रभो ।
तेजोबन्नानि कोष्ठानि गोलकेन्द्रियसंग्रहः ॥ ५७ ॥
तात्पर्यम्
इन्द्रियाणि यत्र सङ्गृह्यन्ते स गोलकेन्द्रियसङ्ग्रहः ॥ ५७ ॥
पदरत्नावली
पञ्चारामार्थमाह– पञ्चेति ॥ इन्द्रियार्थाः शब्दादयः । नवद्वारामित्यस्यार्थ-माह– द्वार इति ॥ घ्राणादयो द्वार इत्युच्यन्ते । त्रिकोष्ठमाह– तेज इति ॥ षट्कूलमाह– गोलकेति ॥ गोलकेष्विन्द्रियाणि गृह्यन्त इति गोलकेन्द्रियसंग्रहः ॥ ५७ ॥
प्रकाशिका
इमं श्लोकमध्यात्मपक्षे स्वयमेव व्याख्याति ॥ पञ्चेति । श्रोत्रादिपञ्चेन्द्रियाणामर्थाः शब्दादय आरामा भोगार्थत्वसाम्यात् । नवद्वारः घ्राणादय इन्द्रियछिद्राणि । तेजोऽबन्नानि पृथिव्यप्तेजो-भूतानि । षट्कलमाह गोलकेति । गोलकेन्द्रियेत्यनेनेन्द्रियसङ्ग्रहग्रहणमित्यस्याप्रतीतेरर्थमाह ॥ इन्द्रियाणीति । इन्द्रियाणि ज्ञानेन्द्रियाणि यत्र सङ्गृह्यन्ते स गोलक इन्द्रियसङ्ग्रहशब्देन विवक्षित इत्यर्थः । गोलकश्चासाविन्द्रियसङ्ग्रहश्चेति कर्मधारयः । क्वचित्स गोलक इन्द्रियसङ्ग्रह इत्येव पाठः
॥ ५७ ॥
विपणस्तु क्रियाशक्तिर्भूतप्रकृतिरव्यया ।
शक्त्यधीशः पुमानत्र प्रविष्टो नावबुद्ध्यते ॥ ५८ ॥
पदरत्नावली
विपणो व्यवहारः । क्रियाशक्तिः कर्मेन्द्रियशक्तिः । पञ्चप्रकृतीत्येतदाह– भूतेति ॥ पञ्चभूतानां या प्रकृतिर्मूलकारणं सा पञ्चप्रकृतिरित्युच्यते । अव्यया नित्या । स्रीधवमाह– शक्तीति ॥ शक्तिर्बुद्धिः । सैवाधीशा पुरोपभोगे कारणं यस्य स शक्त्यधीशः । अन्यत्र कोष्ठानि भाण्डागारस्थानानि । कूलानि बहिष्ठपदार्थदर्शनाय निर्मितस्थानानि ॥ ५८ ॥
प्रकाशिका
क्रियाणां कर्मणां जनने शक्तिर्यस्य कर्मेन्द्रियसमूहस्य स तथा । अव्यया प्रकृति-रुपादानं कार्यनाशेऽपि नाशाभावादव्ययेत्युक्तम् । स्त्रीधवमित्यस्यार्थमाह ॥ शक्त्यधीश इति । शक्तिर्बुद्धिरधीशा यस्य स पुमान् । अत्र शरीराख्ये पुरे प्रविष्टोऽपि न पतित्वेनात्र बुद्ध्यते । बुद्ध्यधीनत्वात्किन्तु बुद्धेरेव पतित्वेनावबुद्ध्यते । अतः स्त्रीधवमित्युच्यत इत्यर्थः । एकः प्राणः पालो यस्येति स्पष्टत्वान्नोक्तम् । यद्यपीदमुत्तराध्याये एव वक्तव्यं तथाऽप्येतज्ज्ञानस्य वैराग्यजनकतया तत्कथनप्रसङ्गतयाऽत्रैवोक्तमिति मन्तव्यम् ॥ ५८ ॥
तस्मिंस्त्वं रामया स्पृष्टो रममाणो हतस्मृतिः ।
तत्सङ्गादीदृशीं प्राप्तो दशां पापीयसीं विभो ॥ ५९ ॥
पदरत्नावली
रामया विषयबुद्ध्या स्पृष्टो वशीकृतः हतस्मृतिः शास्त्रज्ञानरहितः । विषय-बुद्धिसङ्गफलं नरकादि भवतीत्यर्थः ॥ ५९ ॥
प्रकाशिका
स्पृष्टोऽभिभूतो हतस्मृतिः शास्त्रज्ञानरहितः ॥ ५९ ॥
न त्वं विदर्भदुहिता नायं वीर सुहृत् तव ।
न पतिस्त्वं पुरञ्जन्या रुद्धो नवमुखे यया ॥ ६० ॥
पदरत्नावली
न त्वमित्यादि विषयवैराग्यमुच्यते ॥ ६० ॥
प्रकाशिका
स्वाभाविकीस्थितिं वक्तुमाह ॥ न त्वमिति । स्वभावतस् त्वं विदर्भदुहितान नायं तव स्वभावतः पतिः । न पतिः स्वभावतः । नवद्वारे पुरे यया रुद्धोऽसि ॥ ६० ॥
माया ह्येषा मया सृष्टा यत् पुमांसं स्त्रियं पतिम् ।
मन्यसे नोभयं यद् वै हंसं पश्यात्मनो गतिम् ॥ ६१ ॥
पदरत्नावली
प्रारब्धकर्मणैवंविधफलानुभवार्थं मया मदन्तर्यामिणा हरिणा सृष्टा संक्लृप्तैषा माया बन्धकशक्तिरिच्छा वा । सा चाचिन्त्यमहिमेत्याह– यदिति ॥ तर्हि किं तत्त्वज्ञानमिति तद् विविच्याह– हंसमिति ॥ तत्त्वतो नामगोत्रादिराहित्येन चेतनं हंसं निर्मलं पश्य । आत्मनो हरेर्गतिं तत्तत्सत्ताप्रदत्वेन स्थितिं पश्य । आत्मनो मम गतिं त्वां प्रबोध्य गच्छतो मम यात्रां पश्येति वा । अनेन बोध्यबोधकयोरनुभवसिद्धत्वादबाधितो भेद इति ज्ञातव्यम् ॥ ६१ ॥
प्रकाशिका
तस्याः पूर्वजन्मनि पुमांसमिदानीं च स्त्रियं यन्मन्यसे माया प्रकृतिर्मया स्पृष्टा । त्वद्बन्धकतयेति शेषः । प्रकृतिबन्धनिमित्तमेतदित्याशयः । नोभयं पूर्वतनः पुंदेह इदानींतनस्त्रीदेहश्चेत्युभयं न स्वाभाविकमित्यर्थः । यद्यस्माच्च स्वभावतः हंसं निर्मलं त्वत्स्वरूपं पश्य । आत्मनः परमात्मनो गतिं स्थितिं च पश्य ॥ ६१ ॥
अहं भवान्न चान्यस्त्वं त्वमेवाहं विचक्ष्व भो ।
न नौ पश्यन्ति कवयश्छिद्रं जातु मनागपि ॥ ६२ ॥
तात्पर्यम्
‘जीवसत्ताप्रदत्वाच्च सदृशत्वाच्च केशवः । कथ्यते तदभेदेन न तु जीव-स्वरूपतः’ ॥ इति च ॥ ६२ ॥
पदरत्नावली
ननु ‘‘कर्माणि विज्ञानमयश्च आत्मा परेऽव्यये सर्व एकीभवन्ति,’’ ‘‘तत्त्व-मस्यहं ब्रह्मास्मी’’त्यादिश्रुतिभिरैक्यस्य प्रतिपाद्यत्वात् कथं भेदोऽबाधित इति ज्ञायते ? । न चेदमौप-चारिकं गुरुशिष्योपदेशत्वाद् विप्रलम्भानुपपत्तेरित्याशङ्क्य जीवसत्ताप्रदत्वाच् चेतनत्वेन तत्सदृश-त्वाच्चाभेदव्यपदेशः । ‘तद्गुणसारत्वात्तु तद्व्यपदेशः प्राज्ञवत्’ इति सूत्रात् । ‘जीवसत्ताप्रदत्वात्तु सदृशत्वाच्च केशवः । कथ्यते तदभेदेन न तु जीवस्वरूपतः ॥’ इति प्रमाणविरोधबाहुल्यात् । यत्र त्वस्य सर्वमात्मैवाभूत् तत् केन कं पश्येत्’’ इति दूषितत्वाच्चाभेदस्येत्यभिप्रेत्याह– अहमिति ॥ भवानहं त्वं मत्तोऽन्यो न च त्वं तु अहमेवेति विचक्ष्व पश्य । अत्र प्रमाणमाह– नेति ॥ कवयस्तत्त्वदर्शिनः । क्वचिन्मनागल्पमपि नावयोच्छिद्रमन्तरं पश्यन्ति । द्रव्यं कर्म च कालश्चेति वाक्यार्थं पश्यन्तोऽस्मदन्त-र्यामिणमन्तरेणावयोः सत्तापि नास्ति किमुत इष्टानिष्टप्राप्तिपरिहारलक्षणप्रवृत्तौ शक्तिरित्यतः शून्य-देशीययोरन्तर्यामिणस्तप्तखर्पराग्न्योरिव भेदं पश्यन्तोऽपि न पश्यन्तीत्यभिप्रायः । भवदन्तर्यामी मदन्त-र्यामी चान्यो न भवति । किन्तु त्वमेवाहमेक एवेति जानीहि । त्वयि स्थितस्त्वमित्यसाविति प्रमाणयतां कवीनां दर्शनादिति वा । अहं भवान् न, किन्तु त्वमन्यः । अतस्त्वं त्वमेव अहमहमेवेति विचक्ष्व । अन्यथा न पश्य । कुतः ? नो मनाक् छिद्रं कियानेव विशेष इति न पश्यन्ति । किन्तु महान्तं भेदं पश्यन्तीति वा ॥ ६२ ॥
प्रकाशिका
का सा परमात्मनो गतिरित्यपेक्षायामाह ॥ अहं भवानिति । अत्राभेदकथनस्य तात्पर्यं प्रमाणेनैवाह ॥ जीवसत्तेति । जीवस्वरूपतो जीवस्वरूपाभेदेनैव यतः केशव इति योजना ॥ तथा चायमर्थः ॥ भो जीव । भवानहं मदधीनसत्ताकः । मत्तोऽन्यो न मदनधीनसत्ताको न । न केवलमेतावत् । किन्तु त्वमहं च मत्सदृशश्चेत्येवं विचक्ष्व । न स्वरूपाभेदेनेत्येवकारार्थः । तथा चास्योक्तरूपप्रतिबिम्बत्व एव तात्पर्यमित्याशयः । अत्र ज्ञानिप्रत्यक्षं प्रमाणयति ॥ न नाविति । जातु कदाचिदपि नावावयोर्मनागपीषदपि छिद्रमवकाशं नियम्यनियामकशून्यत्वं न पश्यन्ति । सर्वदैव जीवसत्ताप्रदत्वमीश्वरस्य पश्यन्तीत्यर्थः ॥ ६२ ॥
यथा पुरुष आत्मानमेकमादर्शचक्षुषोः ।
द्विधाभूतमिवेक्षेत तथैवान्तरमावयोः ॥ ६३ ॥
पदरत्नावली
जीवसत्ताप्रदत्वाज् जीवेनाभेदः परस्येत्यत्र दृष्टान्तमाह– यथेति ॥ आदर्श-चक्षुषोः प्रतीयमानस्य प्रतिबिम्बस्य सत्तादेर्द्रष्टुर्बिम्बाधीनत्वात् तदेवेदमितिवद् आवयोरन्तरं मत्सत्ताया अप्यस्मत् स्वाम्यधीनत्वादावां तदभिन्नाविति व्यवहारः । यथा दर्पणाद्युपाधिष्वेकमात्मानं बहुधा पश्यन्ति तथा आवयोरन्तर्यामिणोरन्तरमिति वा ॥ ६३ ॥
प्रकाशिका
नन्वेवं जीवस्य भगवत्प्रतिबिम्बत्वे कथं जीवे दुःखादिरूपवैसादृश्यं कथं चैकप्रतिबिम्बानां जीवानां मिथो वैचित्र्यमित्याशङ्काद्वयं दृष्टान्तमुखेन परिहरति ॥ यथेति । यथा पुरुष आदर्शाद्युपाधौ प्रतिबिम्बितमात्मानं स्वात्मानमेकमेकविधं द्विधा वैसादृश्येन मालिन्यादियुक्ततयेक्षते । तथैवावयोरन्तरं वैसादृश्यमीक्षेत मालिन्यादिवत् । दुःखादिरूपवैसादृश्यमीक्षते । दुःखादिरूपं वैसादृश्यं देहाद्युपाधिकृतमित्याशयः । अत्रादर्श इत्येव वक्तव्ये चक्षुषोऽपि ग्रहणेन द्वितीयशङ्कोत्तरमपि सूचितम् । तथाहि । यथा पुरुष आत्मानं बिम्बरूपमेकमप्यादर्शे परचक्षुषि च प्रतिबिम्बितं द्विधाभूतं परस्पर-विलक्षणमीक्षते । तथैवैके भगवत्प्रतिबिंबानामस्माकमन्तरं परस्परवैचित्र्यमीक्षेत बिम्बस्यैकत्वेऽपि दुःखाद्युपाधि(देहाद्युपाधिः)वैचित्र्यात्प्रतिबिम्बवैचित्र्यमित्याशयः ॥ ६३ ॥
एवं स मानसो हंसो हंसेन प्रतिबोधितः ।
स्वस्थस्तद्व्यभिचारेण नष्टामाप पुनः स्मृतिम् ॥ ६४ ॥
पदरत्नावली
उपसंहरति– एवमिति ॥ तद्व्यभिचारेण विषयबुद्धिप्रसङ्गातिशयेन नष्टां तिरोहितां स्मृतिं शास्त्रविषयामापेत्यन्वयः ॥ ६४ ॥
प्रकाशिका
मानसो हंसस्तत्तुल्यः पुरञ्जनः । हंसेन निर्मलेन भगवता । तद्व्यभिचारेण तद्वि-योगेन नष्टां तिरोहिताम् ॥ ६४ ॥
बर्हिष्मन्नेतदध्यात्मं पारोक्ष्येण प्रदर्शितम् ।
यत् परोक्षप्रियो देवो भगवान् विश्वभावनः ॥ ६५ ॥
पदरत्नावली
कथा बाह्याध्यात्मपक्षभेदेन निरूप्यत इत्येतत् कथमवगतमिति तत्राह– बर्हिष्मन्निति ॥ पारोक्ष्येणान्यापदेशेन । एवं कथने किं कारणं तत्राह– यत् परोक्षेति ॥ ‘‘परोक्षप्रिया इव हि देवाः’’ इत्यादि श्रुतिः । अनेनाहं भवानित्यादेरप्यस्मदुक्त एवार्थो न प्रातीतिक इत्येतत् सुतरामबोधि
॥ ६५ ॥
॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुकृतायां
चतुर्थस्कन्धे अष्टाविंशोऽध्यायः ॥
प्रकाशिका
उक्तकथायाः कथं प्रकृतोपयोग इत्यपेक्षायामाह ॥ बर्हिष्मन्निति । आत्मानं जीव-मधिकृत्य वर्तमानं संसारस्वरूपं पारोक्ष्येण राजकथामिषेण । अत्र हेतुः ॥ यद्यस्मादिति । परोक्षप्रियः परोक्षोपदेशप्रियः । प्रत्यक्षोपदेशेऽसुराणामपि ज्ञानप्राप्तिप्रसङ्गेन भगवतो न प्रिय इत्याशयः ॥ ६५ ॥
**॥ इति श्रीमद्वेदेशपूज्यपादशिष्येण यदुपतिना विरचितायां **
श्रीमद्भागवतटिप्पण्यां चतुर्थस्कन्धे अष्टाविंशोऽध्यायः ॥ ४-२८ ॥