इत्थं पुरञ्जनं सध्य्रग् वशमानीय विभ्रमैः ।
अथ सप्तविंशोऽध्यायः
नारद उवाच–
इत्थं पुरञ्जनं सध्य्रग् वशमानीय विभ्रमैः ।
पुरञ्जनी महाराज रेमे रमयती पतिम् ॥ १ ॥
पदरत्नावली
पुरुञ्जननाम्नो जीवस्य जाग्रत्स्वप्नयोरन्यस्यामवस्थायां विषयप्रसरणमाह– इत्थमिति ॥ विभ्रमैर्वृत्तिविशेषै रेमे । विषयेषु व्यावृत्तवत्त्यां जयलक्षणवृत्त्यां सुषुप्तजनवत्स्थितम् ॥ १ ॥
प्रकाशिका
सध्य्रक् सम्यक् । विभ्रमैर्विलासैः ॥ १ ॥
स राजा महिषीं राजन् रुचिराम्बरसंवृताम् ।
कृतस्वस्त्ययनां तृप्तामभ्यनन्ददुपागताम् ॥ २ ॥
पदरत्नावली
रुचिरेण कमनीयेनाम्बरेण नानावसनेन संवृताम् । कृतं स्वस्त्ययनं स्वस्त्याशी-र्वचनस्यायनं वृत्तिविशेषो यस्याः सा तथा ताम् । तामसानां तामससङ्गमो सुखकारण इति द्योतनायैव-मुक्तिः ॥ २ ॥
प्रकाशिका
रुचिरेण कमनीयेनाम्बरेण वस्त्रेण संवृतां युक्तम् । कृतं स्वस्त्ययनं मङ्गलं कुङ्कुमादिभिर्यया ताम् ॥ २ ॥
तयोपगूढः परिरब्धकन्धरो रहोऽनुमन्त्रैरपकृष्टचेतनः ।
न कालरंहो बुबुधे दुरत्ययं दिवा निशेति प्रमदापरिग्रहः ॥ ३ ॥
पदरत्नावली
कयाचिद् वृत्त्या परिरब्धवृत्त्यन्तराख्यकन्धरः । कण्ठो ग्रीवा कन्धरा चे’’त्यभिधानम् । रहोऽनुमन्त्रैर्भणितादिलक्षणवृत्तिभिरपकृष्टं चेतनं स्वरूपज्ञानं यस्य स तथा । इदं दिवा ज्ञानमियं निशाऽज्ञानमिति कालरंहो ज्ञानाज्ञानविशेषावस्थाम् । प्रमदा वैषयिकबुद्धिरेव परिग्रहो यस्य स तथा ॥ ३ ॥
प्रकाशिका
उपगूढः परिरब्धकन्धरः यस्याः । रह एकान्तेऽनुमन्त्रैरनुकूलविचारैरपकृष्टं चेतनं स्वरूपज्ञानं यस्य । कालरंहः कालवेगम् । आयुर्व्यय इति यावत् । प्रमदैव परिग्रहो यस्य ॥ ३ ॥
शयानमुन्नद्धमदो महामना महार्हतल्पे महिषीभुजोपधे ।
तामेव वीरोऽमनुत व्यवायतस्तमोऽभिभूतो न निजं परं हि तत् ॥ ४ ॥
पदरत्नावली
शयानस्तत्त्वमजानन् महार्हतल्पे ज्ञाननाशिनि वृत्तिविशेषे महिषीभुजोपधे बुद्धेरहङ्कारलक्षणवृत्तिशिरोऽधिष्ठाने तामेवामनुत कर्ता भोक्ता सुखी दुःखीति तद्धर्मानात्मन्यमन्यत । तत्र कारणमाह– व्यवायत इति ॥ मैथुनलक्षणज्ञानवृत्तिविशेषात् । इदमेवाह– तम इति ॥ निजमात्मानं तत् परं ब्रह्मलक्षणं तत्त्वं नामन्यत । निजमात्मात्मीयमित्यभिधानम् ॥ ४ ॥
प्रकाशिका
महार्हतल्पे उत्कृष्टशय्यायां शयानो महिष्या भुज उपधिरुपधानमुच्छीर्षकं यस्य । तस्मिंस्तां महिषीमेव परं केवलममनुत पुरुषार्थमित्यमन्यत । तत्र कारणमाह ॥ व्यवायेति । व्यवायतो मैथुनात्तमोऽभिभूत इति । परमित्यस्य व्यावर्त्यं दर्शयति ॥ निजमिति । निजमात्मीयं यत्प्रसिद्धं परं ब्रह्म तन्नामनुत नामन्यत ॥ ४ ॥
तस्यैवं रममाणस्य कामकश्मलचेतसः ।
क्षणार्धमिव राजेन्द्र व्यतिक्रान्तं नवं वयः ॥ ५ ॥
पदरत्नावली
वयः शुद्धज्ञानानन्दरूपलक्षणं व्यतिक्रान्तं गतप्रायमासीत् ॥ ५ ॥
प्रकाशिका
व्यतिक्रान्तं गतप्रायमिवासीत् ॥ ५ ॥
तस्यामजनयत् पुत्रान् पुरञ्जन्यां पुरञ्जनः ।
शतान्येकादश विराडायुषोऽर्धमथात्यगात् ॥ ६ ॥
पदरत्नावली
अभिभूतनिजज्ञानस्य तस्य विषयबुद्धेर्नानावृत्युत्पत्तिप्रकारमाह– तस्यामिति ॥ चक्षुरादीनि मनोऽन्तानीन्द्रियाण्येकादशसंज्ञानि विषयीकृत्य शतमनन्ताः परिणामा वृत्तयो भवन्ति । ताः शतान्येकादशपुत्रा उच्यन्ते । बाल्यावस्थायां बुद्धिविस्ताराभावाद् यौवनावस्थायां तत्सम्भावनमपेक्ष्या-युषोऽर्धमगादित्युच्यते । विषयमेव राजयतीति विराट् ॥ ६ ॥
प्रकाशिका
विराट् संम्राट् ॥ ६ ॥
दुहितॄर्दशोत्तरशतं पितृभ्रातृयशस्करीः ।
शीलौदार्यगुणोपेताः पौरञ्जन्यः प्रजापते ॥ ७ ॥
स पाञ्चालपतिः पुत्रान् पितृवंशविवर्धनान् ।
दारैः संयोजयामास दुहितॄः सदृशैर्वरैः ॥ ८ ॥
पुत्राणां चाभवन् पुत्रा एकैकस्य शतं शतम् ।
यैर्वै पौरञ्जनो वंशः पाञ्चालेषु समेधितः ॥ ९ ॥
पदरत्नावली
परिणामानन्तरं बुद्धिवृत्तयो दुहितृरित्युच्यन्ते । पितृशब्दवाच्यानामिन्द्रियाणां परिणामानां भ्रातृशब्दवाच्यानां ज्ञानानन्दलक्षणयशसो नाशिनीः । कृ विक्षेप इति धातुः । स्वजाति-प्रसिद्धशीलौदार्यगुणयुक्ताः । बाह्यविवक्षया संख्याकथनम् । अन्तस्त्वनेकत्वसंख्यैव । पौरञ्जन्योऽनेक-देहजननहेतवः । हे प्रजापते ॥ पुत्रान् बुद्धिपरिणामान् दारैः परिणामानन्तरचेष्टाभिः संयोजनम् । दुहितृर्बुद्धिवृत्तीः सदृशैर्वृरैर्वृत्तियोग्यविषयैः ॥ पुत्राणां पुत्रा अभवन्निति परिणतवृत्तिभ्यो वृत्त्यन्तराणीति । पाञ्चालेषु विषयेषु ॥ ७-९ ॥
प्रकाशिका
पुरञ्जनकन्यात्वात्पौरञ्जन्यः । हे प्रजापते ॥ ७-९ ॥
तेषु तद्रिक्थहारेषु गृहकोशानुजीविषु ।
निगूढेन ममत्वेन विषयेष्वन्वबध्यत ॥ १० ॥
पदरत्नावली
तस्य रिक्थं विषयधनं हरन्तीति तद्रिक्थहारास्तेषु, नाना वासना गृह्णातीति गृहं, तच्च कोशो मनस्तदुपजीव्य वर्तन्त इति गृहकोशानुजीविनस्तेषु निगूढेन प्रविष्टेन ममैते परिणामादय इति कल्पितेन ममत्वेन विशेषेण सक्तो नात्मानं परं च जानातीत्यन्वयः ॥ १० ॥
प्रकाशिका
विषयेष्वात्महितेषु ॥ १० ॥
ईजे च क्रतुभिर्विप्रैर्दीक्षितः पशुमारकैः ।
देवान् पितॄन् भूतपतीन् नानाकामो यथा भवान् ॥ ११ ॥
पदरत्नावली
देवान् काम्यफलदान् भूतपतीन् भैरवादीन् ॥ ११ ॥
युक्तेष्वेवं प्रमत्तस्य कुटुम्बासक्तचेतसः ।
आससाद स वै कालो योऽप्रियः प्रिययोषिताम् ॥ १२ ॥
पदरत्नावली
एवंविधया क्रियया युक्तेषु काम्येषु, सक्तस्येति शेषः । हरौ मनोयोगवत्सु ज्ञातेषु एवमुक्तप्रकारेण प्रमत्तस्य तद्वार्तारहितस्येति वा । प्रिया हृद्या योषितो येषां ते तथा तेषाम् । विषयिणा-मपि योऽप्रियोऽनपेक्षितः ॥ १२ ॥
प्रकाशिका
स वै प्रसिद्धः कालः संहारकः । गन्धर्वाधिपतिराससाद । प्रिया योषितो येषां तेषामप्रियः ॥ १२ ॥
चण्डवेग इति ख्यातो गन्धर्वाधिपतिर्नृप ।
गन्धर्वास्तस्य बलिनः षष्ट्युत्तरशतत्रयम् ॥ १३ ॥
पदरत्नावली
गन्धर्वाणां कलाकाष्ठादीनां स्वावयवानामधिपतिश् चण्डो वेगो यस्य स तथेति ख्यातः स काल आससादेत्यन्वयः ॥ १३ ॥
प्रकाशिका
तस्य नामाह ॥ चण्डवेग इतीति ॥ १३ ॥
गन्धर्व्यस्तावतीरस्य मैथुन्यश्च सितासिताः ।
परिवृत्त्या विलुम्पन्ति सर्वकामान् विनिर्मितान् ॥ १४ ॥
पदरत्नावली
गन्धर्व्यो रात्रयस्तावतीस्तावत्यः मिथुनीभूय वर्तमाना मैथुन्यः । सिता दिवसा असिता रात्रय इति सितासितपरिवृत्त्या परिभ्रमणेन पुनः पुनरावर्तनेन कामान् विलुम्पन्ति क्षपयन्तीत्यन्वयः ॥ १४ ॥
प्रकाशिका
मैथुन्यो मिथुनीभूय वर्तमानाः सितासिताः केचिच्छुक्लाः केचित्कृष्णाः । परिवृत्या परिभ्रमणेन पुनः पुनरावर्तनेन कामान्विषयान्विलुंपन्ति क्षपयन्ति ॥ १४ ॥
ते चण्डवेगानुचराः पुरञ्जनपुरीं यदा ।
हर्तुमारेभिरे तत्र प्रत्यषेधत् प्रजागरः ॥ १५ ॥
पदरत्नावली
हर्तुं जीर्णबलां कर्तुम् । प्रजागरः प्राणः । प्राणाग्नय एवैतस्मिन् पुरे जाग्रतीति श्रुतेः । प्राणबलाद् व्यापाराय प्रवर्तत इत्यर्थः ॥ १५ ॥
प्रकाशिका
प्रजागरः पुररक्षणाय सदा जागरणशीलः ॥ १५ ॥
स सप्तभिः शतैरेको विंशकेन शतं समाः ।
पुरञ्जनपुराध्यक्षो गन्धर्वैर्युयुधे बली ॥ १६ ॥
पदरत्नावली
स सप्तभिः शतैर्विंशद्भिश्चाहोरात्रैः शतं समाः शतवर्षपर्यन्तं युयुधे । तेषां पराक्रमं निरुध्य स्वयं प्राणबलाद् देहमपालयदित्यर्थः ॥ १६ ॥
प्रकाशिका
विंशकेन सहितैः सप्तभिः शतैर्विंशत्यधिकसप्तशतैरित्यर्थः । शतं समाः शतवर्ष-पर्यन्तम् । गन्धर्वैगन्धर्वा गन्धर्व्यश्च गन्धर्वास्तैः ॥ १६ ॥
क्षीयमाणे स्वसामर्थ्ये एकस्य बहुभिर्युधि ।
चिन्तां परां जगामार्तः सराष्ट्रपुरबान्धवः ॥ १७ ॥
पदरत्नावली
राष्ट्रेण विषयेण पुरेण देहेन बान्धवैरिन्द्रियैः सह वर्तमानः ॥ १७ ॥
स एव पुर्यां मधुभुक् पाञ्चालेषु स्वपार्षदैः ।
उपनीतं बलिं गृह्णन् स्त्रीजितो नाविदद् भयम् ॥ १८ ॥
पदरत्नावली
स्त्रीजितो बुद्ध्याऽविवेकं प्राप्तः विषयेषु स्वपार्षदैरिन्द्रियैरुपनीतं बलिं रूपादि-विषयं गृह्णन् मधुभुक् कर्मफलभुक् कालनिमित्तं भयं नाज्ञासीदित्यन्वयः ॥ १८ ॥
प्रकाशिका
पाञ्चालेषु विद्यमानैः स्वपार्षदैरुपनीतं मधुभुक् सुखभोक्ता । भयं वैरिपराभवरूपं नाविदन्नाज्ञासीत् ॥ १८ ॥
कालस्य दुहिता काचित् त्रिलोकीं वरमिच्छती ।
पर्यटन्ती न बर्हिष्मन् प्रत्यनन्दत कश्चन ॥ १९ ॥
पदरत्नावली
अस्ति जायते विपरिणमते वर्धत इति चतुरूर्मिप्रकारप्राप्तिं निरूप्य प्रक्षीयते विनश्यतीत्येतद् वक्तुं जराप्राप्तिमाह– कालस्येति ॥ कालाज् जराजायत इति कालस्य दुहितेति । विशेषनामाश्रवणात् काचिदिति ॥ १९ ॥
प्रकाशिका
कालस्य गन्धर्वाधिपतेः । दुहिता जरा नाम्नी जराभिमानिनी ॥ १९ ॥
दौर्भाग्येनात्मनो लोके विश्रुता दुर्भगेति सा ।
यां तुष्टो राजऋषये पितादात् पूरवे वरम् ॥ २० ॥
पदरत्नावली
या सात्मनः शरीरस्य दौर्भाग्येन सौन्दर्याभावेन लोके दुष्टो भगो यस्याः सा तथेति विश्रुता । यां जरां तुष्टः पिता ययातिः राजश्रेष्ठाय पूरवे वरमदात् । तां कश्चन न प्रत्यनन्द-तेत्यन्वयः ॥ २० ॥
प्रकाशिका
आत्मनः शरीरस्य दौर्भाग्येन सौन्दर्याभावेन लोके दुष्टो भगो यस्याः सा तथेति विश्रुता यां जरामुद्दिश्य तुष्टः पिता ययातिः । राजर्षये पुरूरवे स्वपुत्राय वरमदात् । स ययातिः शुक्रशापाज्जरां प्राप्य स्वपुत्रानुवाच । इमां यः स्वीकरिष्यति तस्मै ददामीति । तदा तां ज्येष्ठाश्चत्वारो न गृहीतवन्तः । पुरुस्तु जगृहे । ततो ययातिस्तस्मै वरं ददाविति भारते प्रसिद्धम् ॥ २० ॥
कदाचिदटमाना सा ब्रह्मलोकान्महीं गतम् ।
वव्रे बृहद्व्रतं मां तु जानन्ती काममोहिता ॥ २१ ॥
पदरत्नावली
तुशब्दोऽप्यर्थे । या मां बृहद्व्रतं ब्रह्मचारिणं जानन्त्यपि ब्रह्मलोकान्महीमागतं वव्र इत्यन्वयः । तत्र हेतुः– काममोहितेति ॥ २१ ॥
प्रकाशिका
बृहद्व्रतमूर्ध्वरेतसं जानन्नपि ब्रह्मलोकान्महीमागतं मां वव्र इत्यन्वयः । तत्र हेतुः ॥ काममोहितेति ॥ २१ ॥
मयि संरभ्य विपुलमदाच्छापं सुदुःसहम् ।
स्थातुमर्हसि नैकत्र मद्याञ्चाविमुखो मुने ॥ २२ ॥
पदरत्नावली
ततः किमभूदिति तत्राह– मयीति ॥ २२ ॥
प्रकाशिका
प्रख्यातवती मयि संरभ्य क्रोधं कृत्वा नैकत्र स्थातुमर्हसीति शापमदात् ॥ २२ ॥
ततो विहतसङ्कल्पा कन्यका यवनेश्वरम् ।
मयोपदिष्टमासाद्य वव्रे नाम्ना भयं पतिम् ॥ २३ ॥
पदरत्नावली
सा कन्या यवनेश्वरं नानाधिव्याधीनां स्वामिनं नाम्ना भयं मृत्युं पतिं वव्र इत्यन्वयः ॥ २३ ॥
प्रकाशिका
सा कन्या यवनेश्वरं नानाधिव्याधीनामीश्वरं स्वामिनं भयं भयनामकं तस्याभिमानिनं वव्रे वरणाय प्रार्थनां चक्रे ॥ २३ ॥
ऋषभं यवनानां त्वां वृणे वीरेप्सितं पतिम् ।
सङ्कल्पस्त्वयि भूतानां कृतः किल न रिष्यति ॥ २४ ॥
पदरत्नावली
न रिष्यति न दह्यति ॥ २४ ॥
प्रकाशिका
न रिष्यति न नश्यति ॥ २४ ॥
द्वाविमावनुशोचन्ति बालावसदवग्रहौ ।
यल्लोकशास्त्रोपनतं न राति न तदिच्छति ॥ २५ ॥
तात्पर्यम्
‘अलौकिकं च शास्त्रीयं कर्तव्यं लौकिकं कुतः । लोकार्थं शास्त्रहा याति निरयं त्वितरः सुरान्’ इति पाद्मे ॥ २५ ॥
पदरत्नावली
असन्नवग्रह आग्रहो ययोस्तौ तथा बालौ स्वकार्याज्ञौ अनुशोचन्ति, सर्व इति शेषः । कौ तौ ? यौ लोकशास्त्रयोरविरोधतयोपनतं प्राप्तमर्थिभ्यो न राति न ददाति, दायं स्वीयं नेच्छति, ताविति शेषः । नन्वनेन लोकविरुद्धं चेच्छास्त्रीयमपि न कर्तव्यमित्यायातम् । समत्वेन सहोक्तेन ‘तस्माच्छास्त्रं प्रमाणं ते कार्याकार्यव्यवस्थितौ’ इत्यादिविधानं व्यर्थमितीयं शङ्का ‘अलौकिकं च शास्त्रीयं कर्तव्यं लौकिकं कुतः । लोकार्थं शास्त्रहा याति निरयं त्वितरः सुरान्’ इत्यनेन परिहर्तव्या । तस्माच्छात्रानुसारिलौकिकं कर्तव्यं नेतरदिति तात्पर्यम् । इतरः शास्त्रानुकूललौकिकं कुर्वाणः सुरान् याति स्वर्गादिपुरुषार्थमाप्नोतीत्यर्थः ॥ २५ ॥
प्रकाशिका
असन्नवग्रह आग्रहो ययोस्तौ तथा बालौ स्वकार्यानभिज्ञौ । कौ तौ । लोकतः शास्त्रत उपनतमनिषिद्धतया प्राप्तं यत्तद्याचमानं यो न राति न ददाति दीयमानं तद्यो नेच्छति न गृह्णाति ताविमौ द्वौ प्रत्यनुशोचन्ति सन्तः । अत्र लोकशास्त्रोपनतमित्युक्त्या तदुभयप्राप्तपरित्यागे निन्दा क्रियते । न च सा सम्भवति । शास्त्रीयकर्तव्यसंरक्षणार्थं लौकिककर्तव्यपरित्यागस्यानिन्द्यत्वात् । अतोऽत्र विवक्षिततात्पर्यं प्रमाणेनैवाह ॥ अलौकिकं चेति । लौकिकं शास्त्रीयं चेत्कर्तव्यमिति कुतः किं वाच्यमित्यर्थः । लोकार्थं लोकप्राप्तसंरक्षणार्थं शास्त्रहा तदुक्तपरित्यागी । इतरः शास्त्रसंरक्षणार्थं लोकप्राप्तपरित्यागी । तथा च मूले उभयपरित्यागीवैकमात्रपरित्यागेऽपि लोकार्थं शास्त्रपरित्यागी निन्द्यतयाऽभिप्रेतो न तु शास्त्रार्थं लौकिकपरित्याग्यपीति भावः ॥ २५ ॥
अथो भजस्व मां भद्र भजतीं मे दयां कुरु ।
एतावान् पौरुषो धर्मो यदार्ताननुकम्पते ॥ २६ ॥
पदरत्नावली
उपसंहरति– अथो इति ॥ यस्मादिदं शास्त्रीयमथो तस्मात् । संक्षिप्य स्वकार्यस्य कर्तव्यतामाह– एतावानिति ॥ पौरुषः पुरुषनिष्ठः ॥ २६ ॥
प्रकाशिका
यस्मादिदं शास्त्रीयमथो तस्मात्पुरुषेण कर्तव्यो धर्मः पौरुषः ॥ २६ ॥
कालकन्योदितां वाचं निशम्य यवनेश्वरः ।
चिकीर्षुर्देवगुह्यं स सस्मितं तामभाषत ॥ २७ ॥
पदरत्नावली
तस्माद् दुर्भगत्वमनपेक्ष्य तद्वचनस्यादरप्रकारमाह– कालकन्येति ॥ देवस्य विधातुर्गुह्यं रहस्यं वक्ष्यमाणमर्थं सस्मितमभाषतेत्यन्वयः ॥ २७ ॥
प्रकाशिका
यवनेश्वरो भयनामा मृत्युर्देवगुह्यं मरणं तद्धि प्राणिनां वैराग्यजननाय देवैर्गोप्यते । अथवा । देवस्य विधातुर्गुह्यं रहस्यं वक्ष्यमाणमर्थं सस्मितमभाषत ॥ २७ ॥
मया निरूपितस्तुभ्यं पतिरात्मसमाधिना ।
नाभिनन्दति लोकोऽयं त्वामभद्रामसम्मताम् ॥ २८ ॥
पदरत्नावली
तत्र भोगोपायमुपदिशति– नाभिनन्दतीति ॥ अयं लोकोऽसम्मतां त्वां नाभिनन्दतीति यस्मात् ॥ २८ ॥
प्रकाशिका
आत्मसमाधिना ज्ञानदृष्ट्याऽयं लोकोऽसंमतां त्वां नाभिनन्दतीति यस्मात् ॥२८॥
त्वमज्ञातमतिर्भुङ्क्ष्व लोकं कर्मविनिर्मितम् ।
याहि मे पृतनायुक्ता प्रज्वरस्त्वां१ प्रणेष्यति ॥ २९ ॥
पदरत्नावली
तस्मात् त्वमज्ञातगतिर्लोकं भुङ्क्ष्व ॥ २९ ॥
प्रकाशिका
तस्मात्त्वमज्ञातगतिर्लोकं भुंक्ष्व । तथा च सर्वो लोकस्तव भोग्यो भविष्यतीत्याशयः । तथापि पत्या भाव्यमित्यपेक्षायामाह ॥ प्रज्वर इति । ज्वर इत्यर्थः । त्वां प्रणेष्यति गृहीष्यति ॥ २९ ॥
प्रज्वारोऽयं मम भ्राता त्वं च मे भगिनी भव ।
चराम्युभाभ्यां लोकेऽस्मिन्नव्यक्तो भीमसैनिकः ॥ ३० ॥
पदरत्नावली
योऽयं मम भ्राता प्रज्वरः शैववैष्णवोभयलक्षणः सोऽप्रजोऽनपत्यस्त्वां प्रणेष्यति ग्रहीष्यतीत्यन्वयः । भीमा भयंकराः सैनिकाः सेनापतयो यस्य स तथा सः ॥ ३० ॥
॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुकृतायां
चतुर्थस्कन्धे सप्तविंशोऽध्यायः ॥
प्रकाशिका
भीमा भयङ्कराः सैनिकाः सेनापतयो यस्य स तथा ॥ ३० ॥
**॥ इति श्रीमद्वेदेशपूज्यपादशिष्येण यदुपतिना विरचितायां **
श्रीमद्भागवतटिप्पण्यां चतुर्थस्कन्धे सप्तविंशोऽध्यायः ॥ ४-२७ ॥