२६ षड्विंशोऽध्यायः

स एकदा महेश्वासो रथं पञ्चाश्वमाशुगम्

अथ षड्विंशोऽध्यायः

नारद उवाच –

स एकदा महेश्वासो रथं पञ्चाश्वमाशुगम् ।

द्वीषं १द्विचक्रमेकाक्षं त्रिवेणुं पञ्चबन्धुरम् ॥ १ ॥

पदरत्नावली

अधुना जाग्रदवस्थाप्रकारकथनेन संसारप्राप्तिं कथयन् जाग्रदवस्थाप्रवेशं तावदाह– स एकदेति ॥ स पुरञ्जन एकदा स्वप्नविषयभोगप्रापककर्मक्षये जाग्रद्भोगप्रापककर्मागमने सति । पञ्चेन्द्रियद्वारेण सूनार्थमात्मा प्रतिष्ठते अस्मिन्निति पञ्चप्रस्थवनं जाग्रद्विषयलक्षणकान्तारम् अगादनुबभूवेत्यग्रेणान्वयः । किं कृत्वा ? कथं भूतः ? इति तदाह– महेश्वास इति ॥ मह्यत इति महः प्रणवः । स एवेश्वासो धनुर्यस्य स तथा । यथार्थकथनमेतत् । अन्यत्र महांश्चासौ इष्वासो यस्येति । स्वर्णवर्णलक्षणं रजोगुणाख्यं वर्म यस्य स तथा । अक्षये प्रवृत्तिनिवृत्तिलक्षणे इषुधी यस्य स तथा । एकादशेन्द्रियलक्षणायाश्चम्बा नाथः । पञ्चेन्द्रियाण्येवाश्वा यस्य स तथा तम् । आशु गच्छत्यस्ति जायत इत्यादिविकारं परिणामलक्षणमित्याशुगस्तम् । द्वे पुण्यपापलक्षणे कर्मणी एव चक्रे यस्य स तथा तम् । एकः सूत्रात्मा वायुरक्षो यस्य स तथा तम् । त्रयः सत्त्वादिगुणा एव वेणवो ध्वजा यस्य स तथा तम् । पञ्चप्राणा एव विनतोन्नतप्रदेशा बन्धुराख्या यस्य स तथा तम् । अनेन प्राणसञ्चारहेतवो नाडीविशेषाः कथ्यन्ते, आधारो वा ॥ १ ॥

प्रकाशिका

तस्य मृगयात्रां वक्तुमाह ॥ एकदेति । सः पुरंजनो महान्निश्वासो धनुर्यस्य द्वे इषे यस्य तद् द्वीषम् । द्वे चक्रे यस्य तत् । द्विचक्रम् । त्रयो वेणवो ध्वजा यस्य तत् । पञ्च बन्धुराणि बन्धनानि यस्य तत् ॥ १ ॥

एकरश्म्येकदमनमेकनीडं द्विकूबरम् ।

पञ्चप्रहरणं सप्तवरूथं पञ्चविक्रमम् ॥ २ ॥

पदरत्नावली

एको मनआख्यो रश्मिः प्रग्रहो यस्य स एको बुद्ध्याख्यो दमनः सारथिर्यस्य स चैकरश्म्येकदमनस्तम् । ‘बुद्धिं तु सारथिं विद्धि मनः प्रग्रहमेव च । प्राणा बन्धुरमुद्दिष्टा गुणाः सत्त्वादयो ध्वजाः । मूलवायुरक्षसंज्ञश्चक्रे द्वे पुण्यदुष्कृते । इन्द्रियाण्यश्वसंज्ञानि हृदयं नीडमुच्यते । शीतोष्णलक्षणौ द्वौ तु कूबरौ शब्दपूर्वकम् । पञ्चप्रहरणं सप्त त्वगाद्या गुप्तयः स्मृताः । पृथिव्याद्या विक्रमाख्या देहाख्यो रथ उच्यते ॥’ इत्यध्यात्मयोगे । एकं हृदयलक्षणं नीडं यस्य स तथा तम् । द्वे शीतोष्णलक्षणौ कूबरौ युगन्धरौ यस्य स तथा तम् । पञ्चानामिन्द्रियाणां पञ्चशब्दादिविषयाणां च सन्निकर्षलक्षणानि प्रहरणानि यस्मिन् स तथा तम् । पञ्चसूनासाधनानि यस्मिन्निति वा । सप्त त्वगाद्या धातवो वरूथो गुप्तिर्यस्य स तथा तम् । पञ्चानां भूतानां विक्रमः प्रभावो यस्मिन् स तथा तम् ॥ २ ॥

प्रकाशिका

एको दमनः सारथिर्यस्य । एकरश्मिश्चासौ एकदमनश्च तम् । एकं नीडं रथिन उपवेशस्थानं यस्य स तथा । द्वौ कूबरौ युगन्धरौ युगबन्धनाधारौ यस्य स तथा । पञ्च प्रहरणान्यायुधानि यस्मिन् । सप्त वरूथा रथार्थमावरका यस्य । पञ्च विक्रमा गतिप्रकारा यस्य ॥ २ ॥

हेमोपस्करमारुह्य स्वर्णवर्माक्षयेषुधिः ।

एकादशचमूनाथः पञ्चप्रस्थमगाद् वनम् ॥ ३ ॥

पदरत्नावली

हेमोपस्करं मुकुटकुण्डलाभरणैः स्वर्णविकारैर्भूषितं रथं रथ गताविति धातोर् ज्ञानलक्षणगमनसाधनं देहमारुह्याधिष्ठायेति । अक्षयेषुधिरनन्तवृत्त्या लम्बमानान्तःकरणोपाधिरिति वा । इषून् रागादीनस्यति निरस्यति ग्लापयतीति इष्वासो ज्ञानलक्षणः । स च महान् यस्य स इति वा ॥३॥

प्रकाशिका

हेमोपस्करं सुवर्णाभरणम् । स्वर्णवर्मा सुवर्णमयकवचः । एकादश-सङ्ख्याक-चमूनाथः । पञ्चप्रस्थं पञ्चधा विभक्तम् ॥ ३ ॥

चचार मृगायां तत्र दृप्त आत्तेषुकार्मुकः ।

विहाय जायामतदर्हां मृगव्यसनलालसः ॥ ४ ॥

पदरत्नावली

इषवश्च कार्मुकं चात्तं गृहीतं येन स तथा । रागाद्या इषवः । कार्मुकं विवेक-कार्यं स्वकृत्यं मुञ्चत्यनेनेति निरुक्त्या । तत्र जाग्रद्विषयकानने मृगयां शब्दादिभोगलक्षणां चचार बुभुज इत्यन्वयः । अतदर्हां त्यागायोग्यां सद्बुद्धिलक्षणां विहाय, असद्बुद्धिलक्षणां चादायेति शेष इति विवेकः । मृग्यन्त इति मृगा विषयास् तेषां व्यसने भोगलक्षणे लालस उत्सुकः । अन्यत्र हरिणानां हिंसनायोत्कटव्यापारवान् ॥ ४ ॥

प्रकाशिका

इषवश्च कार्मुकं चात्तं गृहीतं येन स तथा । मृगव्यसनलालसो हरिणादिमृगाणां हिंसनायोत्कटव्यापारवान् ॥ ४ ॥

आसुरीं वृत्तिमाश्रित्य घोरात्मा निरनुग्रहः ।

न्यहनन्निशितैर्बाणैर्वनेषु वनगोचरान् ॥ ५ ॥

पदरत्नावली

आसुरीं हिंसालक्षणां वृत्तिं घोरात्मा विषयप्रसङ्गनिमित्तसंसारभयरहितः । निर्गतोऽनुग्रहो दयालक्षणो यस्मात् स तथा । न्यहनत् हन हिंसागत्योरिति नितरामगच्छदसेवतेत्यर्थः । निशितैर्बाणैः कपटमनोवृत्तिभिः । वनेषु जाग्रद्विषयप्रदेशेषु । वनगोचरांस्तत्रत्यशब्दादिविषयलक्षणान् मृगान् ॥ ५ ॥

प्रकाशिका

आसुरीं हिंसालक्षणां वृत्तिम् । निर्गतोऽनुग्रहो दयालक्षणो यस्मात् । वनगोचरा-न्मृगान्न्यहनत् ॥ ५ ॥

तीर्थेषु श्रुतिदृष्टेषु राजा मेध्यान् पशून् वने ।

यावदर्थमलं लुब्धो हन्यादिति नियम्यते ॥ ६ ॥

तात्पर्यम्

अलुब्धो लोकोपकारार्थं घ्नन्नात्मार्थादधिकमपि हन्यात् । ‘उपकारः सतां येन तत्कृत्वा नैव दुष्यति । अतीव निन्दितमपि बहुहिंसायुगेव वा । अथवा ज्ञानिनः कर्म न दुष्टमपि लिप्यत’ इत्यध्यात्मे ॥ ६ ॥

पदरत्नावली

ननु राज्ञो हि मृगयानिष्ठतया पशुहिंसाया ‘राजा मृगार्थी मृगयां चरन् दोषैर्न लिप्यते’ इति, अग्नीषोमीयं पशुमालभेतेत्यादाविव विहितत्वात् कथमासुरीं वृत्तिमाश्रित्येति निन्द्यत इति तत्राह– तीर्थेष्विति ॥ श्रुतिदृष्टेषु श्रुतिस्मृतिविहितेषु तत्तत्स्थानेषु राजा स्वविहिताचारनिष्ठया शोभमानो मेध्यान् पशूनजमृगप्रभृतीन् यावदर्थं यावत् प्रयोजनं लुब्धः फलार्थी हन्याद् इत्यलं नियम्यते । विधिवाक्यैरिति शेषः । अध्यात्मपक्षे श्रुतिप्रमाणकेषु तीर्थेषु विहितान् मेध्यान् मेधयोग्यान् ज्ञानयोग्यान् पशून् गोसधर्मान् रमणीयान् विषयान् वने विषयव्यवहारे वर्तमानो लुब्धो गृध्नुर्यावता देहावस्थितिस्तावन् मात्रमलमत्यर्थं हन्याद् गच्छेत् । सेवार्थमिति शेषः । इति नियम्यते शिक्षाविषयीक्रियत इति । अलमिति विशेषणादलुब्धो लोकोपकारार्थं पशून् घ्नन् आत्मार्थादधिकमपि हननमपि कुर्वन्न दुष्यतीति तात्पर्यं ज्ञायते । तदुक्तम्– ‘उपकारः सतां येन तत् कृत्वा नैव दुष्यति । अतीव निन्दितमपि बहुहिंसायुगेव वा ॥ अथ वा ज्ञानिनः कर्म न दुष्टमपि लिप्यते ॥’ इति ॥ ६ ॥

प्रकाशिका

नन्वासुरीं वृत्तिमाश्रित्येति कथं मृगया निन्द्यते । राज्ञां मृगयाया विहितत्वादित्यत आह ॥ तीर्थेष्विति । न राज्ञोऽपि मृगया विधीयते रागप्राप्तत्वात्किन्तु नियम्यते । प्रवृत्तिः संकोच्यते । नियममेव दर्शयति ॥ यावदर्थमिति । यद्यलमत्यर्थं लुब्धो रागी सन् पशून्हन्यात्तर्हि तीर्थेषु श्रुतिदृष्टेषु श्राद्धादिष्वेव राजैव मेध्यानेव वने हन्यात् । यावदर्थं यावदुपयोगमेवेति । अत्र लुब्ध इत्यस्य व्यावर्त्त्यं दर्शयति ॥ अलुब्ध इति । अलुब्धो रागशून्यः । लोकोपकारार्थं सज्जनोपकारार्थं घ्नन्नप्यात्मार्थादधिक-मपि हन्यात् । तदधिकहननेऽपि न दोष इत्यर्थः । अत्र प्रमाणमप्याह ॥ उपकार इति । अथवेति व्यवस्थितो विकल्पः । अलुब्धो राजा द्विविधः । जिज्ञासुर्ज्ञानी च । तत्र जिज्ञासुर्येन कर्मणा सता-मुपकारः स्यात्तदतीव निन्दितमपि बहुहिंसायुगेव वा कृत्वा नैव दुष्यति । ज्ञानिनो लुब्धस्यापि न दुष्कर्मलेपप्रसक्तिः किम्वलुब्धस्येत्यर्थः । अनेन य एवमित्युत्तरश्लोकतात्पर्यमुक्तमित्यवगन्तव्यम् । तथा चैतादृशालुब्धव्यावृत्त्यर्थं मूले लुब्धम् इत्युक्तमित्याशयः ॥ ६ ॥

य एवं कर्म नियतं विद्वान् कुर्वीत वा न वा ।

कर्मणा तेन राजेन्द्र ज्ञानेन स न लिप्यते ॥ ७ ॥

पदरत्नावली

ननु नियतकर्माकरणे ज्ञानिनोऽपि दुष्कर्मलेपः स्यादिति तत्राह– य एवमिति ॥ यो नियतमनियतं वा विद्वान् जानन्नेवंविधं पुण्यं पापं वा कर्म कुर्वीत वा, न वा कुर्वीत, स ज्ञानी तेनोभयविधेन कर्मणा न लिप्यते । केन निमित्तेनेत्यत उक्तम्– ज्ञानेनेति ॥ कर्मलेपाभावे ज्ञानकारणमित्यर्थः । ‘तद्यथा पुष्करपलाश आपो न श्लिष्यन्त एवमेवंविदि पापं कर्म न श्लिष्यते’ इति श्रुतेः । ‘अथ वा ज्ञानिनः कर्म न दुष्टमपि लिप्यते’ इति स्मृतेश्च ॥ ७ ॥

प्रकाशिका

नियम्यत इत्युक्तो नियमो नापरोक्षज्ञानिनं प्रतीत्याह ॥ य एवमिति । कर्म हिंसारूपम् । न वेत्यनेन नियतकरणमनियताकरणं च ग्राह्यम् । यो नियतं विद्वान् जानन् एवं विधं पापं पुण्यं वा कर्म कुर्वीत न वा कुर्वीत तेनोभयविधेन कर्मणा स ज्ञानी ज्ञानेन निमित्तेन न लिप्यते । केन निमित्तेनेत्यत उक्तम् ॥ ज्ञानेनेति । कर्मलेपाभावे ज्ञानं कारणमित्यर्थः । तद्यथा पुष्करपलाश आपो न श्लिष्यन्त एवंविदि पापं कर्म न श्लिष्यत इति श्रुतेः ॥ ७ ॥

अन्यथा कर्म कुर्वाणः कामरूढो निबद्ध्यते ।

गुणप्रवाहपतितो नष्टप्रज्ञो व्रजत्यधः ॥ ८ ॥

पदरत्नावली

अन्यपक्षे बाधकमाह– अन्यथेति ॥ अन्यथा ज्ञानाभावे । अनर्थोऽपि भवतीत्याह– गुणप्रवाह इति ॥ ८ ॥

प्रकाशिका

लुब्धस्योक्तक्रमोल्लङ्घने बाधकमाह ॥ अन्यथेति । अन्यथोक्तान्विहाय कर्म हिंसात्मकम् । निबद्ध्यत इत्युक्तमेव विशदयति ॥ गुणप्रवाहेति । तथा चासुरीं वृत्तिमाश्रित्ये-त्युक्तनिन्दा त्यक्तोक्तनियमानां राज्ञामित्युक्तं भवति ॥ ८ ॥

तत्र निर्भिण्णगात्राणां चित्रवाजैः शिलीमुखैः ।

विप्लवोऽभूद् दुःखितानां दुस्सहः करुणात्मनाम् ॥ ९ ॥

शशान् वराहान् महिषान् गवयान् रुरुशल्यकान् ।

मेध्यानन्यांश्च विविधान् विनिघ्नन् श्रममध्यगात् ॥ १० ॥

पदरत्नावली

एवं प्रासङ्गिकीं कथां समाप्य प्रकृतमनुसरति– तत्रेति ॥ तत्र विषयलक्षणे वने चित्रवाजैरनेकाड्कुरमुखाख्यपक्षोपेतैः शिलीमुखैः शिलावद् दृढमुखैर् लम्पटेन्द्रियमनोवृत्तिविशेषै-र्निर्भिन्नगात्रणामृदितनानावयवानां करुणात्मनां पापनिमित्तेन मुक्तानामस्माकं परलोकेऽपि न गति-रस्तीति रुदितानामिव स्थितानां यथाशास्त्रमुक्तानां विषयाणां विप्लवो विनाशः समाप्तिलक्षणोऽ-भूदित्यन्वयः । अन्यत्र व्यक्तम् ॥ शशान् वराहानिति मेध्यान् महिषानित्यादिना त्वमेध्यान् । शशानतिशयितानन्दलक्षणान् वराहान् वरणीयत्वेनाहेयान् महिषान् महितं ददातीति निरुक्त्या । सन दान इति धातुस्तस्य डप्रत्ययः सकारस्य मूर्धन्यादेशः । गवयान् गतवयसः जरसङ्गतानिति शेषः । रुरून् रोदनहेतून् । शं सुखं विलापयतीति शल्यकानित्येवमादिविषयान् निघ्नन् गच्छन् भुञ्जान इत्यर्थः

॥ ९,१० ॥

प्रकाशिका

एवं प्रासङ्गिकं समाप्य प्रकृतमाह ॥ तत्रेति । तत्र वने । चित्रा वाजाः पक्षा येषां तैः शिलीमुखैर्बाणैर्विप्लवो नाशः । करुणात्मनां कृपालूनां दुःसहः ॥ ९,१० ॥

ततः क्षुत्तृट्परिश्रान्तो निवृत्तो गृहमेयिवान् ।

कृतस्नानोचिताहारः संविवेश गतक्लमः ॥ ११ ॥

आत्मानमर्हयाञ्चक्रे धूपलेपस्रगादिभिः ।

साध्वलंकृतसर्वाङ्गो महिष्यामादधे मनः ॥ १२ ॥

पदरत्नावली

जाग्रद्विषयाननुभूय सुषुप्तिप्राप्तिप्रकारमाह– तत इति ॥ ततो जागरणान्निवृत्तः क्षुत्तृड्लक्षणमनोवृत्तिभ्यां व्याप्तः श्रान्तः । हृल्लक्षणनाडीविशेषं प्राप्तः । कृतं जाग्रद्विषयभोगरजोमार्जन-लक्षणं स्नानं येन सः । उचित आहारः स्वरूपसुखावाप्तिलक्षणो यस्य स तथा संविवेश सुप्तोऽ-भूदित्यन्वयः ॥ १२ ॥

स्वापात्पूर्वव्यापारमाह– आत्मानमिति ॥ महिष्यां बुद्धौ । अथ वा धूपादिलक्षणवृत्तिभि-रात्मानमन्तर्यामिलक्षणं ब्रह्मस्वरूपमर्हयाञ्चके्र संपत्तिलक्षणमलङ्कारमकरोत् । ‘सता सोम्य तदा संपन्नो भवति’ इति श्रुतेः । संपत्तिलक्षणालङ्कारयुक्तसर्वावयवः । हृष्ट इत्यादिना सुप्तावस्थाविशिष्ट उच्यते । अनेन स्वप्नप्राप्तिरपि निरूप्यत इति ज्ञातव्यम् । तदा वृत्त्याद्यनुभवः स्पष्ट एव । स्वप्नप्रापककर्मोद्रेके सति महिष्यां बुद्धौ मन आदध इत्युपपद्यते ॥ ११,१२ ॥

प्रकाशिका

वनान्निवृत्तः संविवेश शय्यामाश्रितः ॥ ११,१२ ॥

तृप्तो हृष्टः सुदृप्तश्च कन्दर्पाकृष्टमानसः ।

न व्यचष्ट वरारोहां गृहिणीं गृहमेधिनीम् ॥ १३ ॥

पदरत्नावली

कं स्वरूपसुखं दर्शयति प्रकटयतीति कंदर्पः स्वापस् तेनाकृष्टं मानसं यस्य स तथा । स्वप्नावस्थायामपि स्वापस्य सत्त्वात् । बुद्ध्याहितमनाः किमकृतेति तत्राह– न व्यचष्टेति ॥ गृहमेधिनीमुपात्तज्ञानवतीम् । गृहिणीं नानावासनाकारमनोवृत्तिमतीम् । वरस्य हरेरारोहो विषयतया यस्याः सा वरारोहा तां शास्त्रीयां बुद्धिं न व्यचष्ट । दर्शनं नाम निश्चयज्ञानं नोपैतीति ज्ञातव्यम् । स्वप्नस्य वासनात्मकत्वान् निर्णयज्ञानवान्नाभूदित्यर्थः ॥ १३ ॥

प्रकाशिका

गृहमेधिनीं गृहस्थाश्रमोचितधर्मानुकूलाम् ॥ १३ ॥

अन्तःपुरस्त्रियोऽपृच्छद् विमना इव वेदिषन् ।

अपि वः कुशलं रामाः सेश्वरीणां यथा पुरा ॥ १४ ॥

पदरत्नावली

हे वेदिषन् प्राचीनबर्हीः । अन्तःपुरस्त्रिय इन्द्रियवृत्तीर्मनोवृत्तीर्वा । अपृच्छत् स्वप्नव्यापारमकरोत् । हे रामा इति वृत्तयः संबोध्यन्ते । ईश्वरी बुद्धिः ॥ १४ ॥

प्रकाशिका

हे वेदिषन् प्राचीनबर्हे । हे रामाः । सेश्वरीणां वः कुशलमपि किम् ॥ १४ ॥

न तथैतर्हि रोचन्ते गृहेषु गृहसम्पदः ।

यदि न स्याद् गृहे माता पत्नी वा पतिदेवता ॥ १५ ॥

व्यङ्गे रथ इव प्राज्ञः को नामासीत दीनवत् ।

क्व वर्तते सा ललना मज्जन्तं व्यसनार्णवे ।

या मामुद्धरति प्रज्ञां दीपयन्ती पदे पदे ॥ १६ ॥

पदरत्नावली

गृहसंपदः शरीरेन्द्रियादिशोभा बुद्धौ विद्यमानायां रोचन्ते नान्यदेति । व्यङ्गे चक्राश्वादिरहिते रथे । प्राज्ञो बुद्धिमान् रथी । अङ्गलक्षणेन प्राणेन हीने देहे । प्राज्ञः सुषुप्तिप्रवर्तकः परमात्मा ॥ पदे पदेऽनुलक्षणं मम प्रज्ञां दीपयन्ती भगवद्विषयज्ञानमुद्बोधयन्ती या मामुद्धरति, संसारादिति शेषः, सा ललना शोभना बुद्धिः क्व वर्तत इत्यन्वयः ॥ १५,१६ ॥

प्रकाशिका

एतर्हीदानीम् । व्यङ्गे चक्राश्वादिरहिते पदे पदे प्रतिक्षणम् ॥ १५,१६ ॥

रामा ऊचुः–

नरनाथ न जानीमस्त्वत्प्रिया यद् व्यवस्यति ।

भूतले निरवस्तारे शयानां पश्य शत्रुहन् ॥ १७ ॥

पदरत्नावली

बाह्यकथामनुसृत्योत्तरकथाप्रत्युत्तरमाह– नरनाथेति ॥ यद् व्यवस्यति यन्निश्चित्य तिष्ठति तन्न जानीम इत्यन्वयः । निरवस्तारे आस्तरणरहिते भूतले पूर्णे भगवत्पादमूले शयानां विषयीकुर्वाणाम् । यथार्थवर्णनमेतत् ॥ १७ ॥

प्रकाशिका

यद्व्यवस्यति यन्निश्चित्य तिष्ठति तन्न जानीम इत्यन्वयः । निरवस्तारे आस्तरण-रहिते भूतले ॥ १७ ॥

नारद उवाच–

पुरञ्जनः स्वमहिषीं निरीक्ष्यावधुतां भुवि ।

तत्सङ्गोन्मथितज्ञानो वैक्लव्यं परमं ययौ ॥ १८ ॥

पदरत्नावली

इदानीमसद्बुद्धिनिमित्तप्रवृत्तिप्रकारमाह– पुरञ्जन इति ॥ प्राचीनकर्मवैचित्र्यात् प्रतिक्षणं वृत्तिभेदोऽपि प्रामाणिक एवेत्यत एतद्वचनमुपपद्यत इति । अवधुतां, सद्वृत्तिभिरिति शेषः । तस्या वैषयिक्या बुद्धेः सङ्गेन स्वीकारेण तादृशकर्मणा प्राप्तेनोन्मथितं नष्टं ज्ञानं यथार्थलक्षणं यस्य स तथा ॥ १८ ॥

प्रकाशिका

अवधुतां त्यक्तदेहादराम् । वैक्लव्यं पारवश्यम् ॥ १८ ॥

सान्त्वयन् श्लक्ष्णया वाचा हृदयेन विदूयता ।

प्रेयस्याः प्रेमसंरम्भलिङ्गमात्मनि नाध्यगात् ॥ १९ ॥

पदरत्नावली

प्रेयस्या बुद्धेः प्रेम्णा संरम्भो हिंसालक्षणो नाशो यस्तस्य लिङ्गं कारणमात्मनि स्वस्मिन् नाध्यगान् न ज्ञातवान् । रजसाकुलितान्तरत्वात् । रम्भ हिंसायाम् ॥ १९ ॥

प्रकाशिका

प्रेमसंरम्भः प्रणयकोपः । तस्य लिङ्गं कुटिलदृष्ट्यादि तदात्मनि स्वस्मिन्नाध्यगान्न लब्धवान् ॥ १९ ॥

अनुनिन्येऽथ शनकैर्वीरोऽनुनयकोविदः ।

पस्पर्श पादयुगलमाह चोत्सङ्गलालिताम् ॥ २० ॥

पदरत्नावली

अनुनिन्य इत्यादिकथालङ्कारः । अनुनयो नाम विषयबुद्धिवश्यत्वप्रकटनम् । बुद्धेर्मनआदिचत्वारः पादास्तेष्वंशद्वयं पस्पर्श स्वीकृतवान् । मनोलक्षण उत्सङ्गे सम्भाविताम् । इदमेव स्वीकरणम् ॥ २० ॥

प्रकाशिका

उत्सङ्गमारोप्य लालिताम् ॥ २० ॥

नूनं त्वकृतपुण्यास्ते भृत्या येष्वीश्वराः शुभे ।

कृतागस्स्वात्मसात् कृत्वा शिक्षादण्डं न युञ्जते ॥ २१ ॥

पदरत्नावली

ये येषु कृतापराधेषु शिक्षालक्षणं दण्डं न कुर्वते नूनं तेऽकृतपुण्या इत्यन्वयः

॥ २१ ॥

प्रकाशिका

हे शुभे । ईश्वराः स्वामिनो येषु कृतागस्सु कृतापराधेषु भृत्येष्वात्मसात्कृत्वा स्वाधीनान्कृत्वा शिक्षारूपं दण्डं न युञ्ज्यते ते भृत्या नूनं निश्चितम् । अकृतपुण्या मन्दभाग्या इत्यर्थः

॥ २१ ॥

परमानुग्रहो दण्डो भृत्येषु प्रभुणाऽर्पितः ।

बालो न वेद तत् तन्वि बन्धुकृत्यममर्षणः ॥ २२ ॥

पदरत्नावली

दण्डस्य निग्रहलक्षणत्वात् कथं प्रार्थ्यत इत्यत आह– परम इति ॥ तर्हि लोकः कथं दुःखं मन्यत इति तत्राह– बाल इति ॥ दण्डस्य पापप्रायश्चित्तरूपत्वान्न जानातीत्यर्थः । अनुतापादिवृत्तिविशेष इति ज्ञातव्यम् ॥ २२ ॥

प्रकाशिका

यतः परमानुग्रहो दण्डो यस्त्वेवं न वेद स मूर्ख इत्याह ॥ बाल इति । बन्धुकृत्यं शिक्षाकरणममर्षणः क्रोधाधीनः । ततश्चाहमपराधी त्वद्भृत्यश्च तस्मान्मयि त्वया दण्डः प्रयोज्य इत्याशयः ॥ २२ ॥

सा त्वं मुखं सुदति सुभ्र्वनुरागभारव्रीडाविलम्बविलसद्धसितावलोकम् ।

नीलालकालिभिरुपस्कृतमुन्नसं नः स्वानां प्रदर्शय मनस्विनि वल्गुवाक्यम् ॥ २३ ॥

पदरत्नावली

उपस्कृतं मण्डितम् ॥ २३ ॥

प्रकाशिका

हे सुभ्रु हे सुदति हे मनस्विनि । सा त्वं स्वानामस्माकं मुखं दर्शय । कीदृशम् । अनुरागभारेण व्रीडया विलम्बो मधुरता तेन विलसन् हसितावलोको यस्मिन् । नीलालका एवालयः । तैरुपस्कृतं भूषितम् । उन्नसमुच्चनासिकम् । वल्गु वाक्यं यस्मिंस्तत् ॥ २३ ॥

तस्मिन् दधे दममहं तव वीरपत्नि योऽन्यत्र भूसुरकुलात् कृतकिल्बिषस्तम् ।

पश्ये न वीतभयमुन्मुदितं त्रिलोक्यां क्रुद्धस्य वै मुररिपोरितरत्र दासात् ॥ २४ ॥

पदरत्नावली

भूसुरकुलाद् ब्रह्मकुलात् । क्रुद्धस्य मे सकाशाद् वीतभयं नष्टभयं तं न पश्ये

॥ २४ ॥

प्रकाशिका

हे वीरपत्नि । वीरस्य मम भार्ये । यस् तव त्वयि कृतकिल्बिषस्तस्मिन्नहं भूसुरकुलाद्ब्राह्मणकुलादन्यत्रान्यस्मिन् मुररिपोर्हरेर्दासादितरत्रेतरस्मिन् दमं दण्डं दधे करोमि । किञ्च त्वदपराधीनं वीतभयं विगतभयमुन्मुदितमुच्चैर्मुदितं त्रिलोक्यामन्यत्र लोकत्रयाद्बहिरपि न पश्यामि । स यत्र स्थितस्तत्र मद्भयग्रस्त एव स्थास्यतीति भावः ॥ २४ ॥

वक्त्रं न ते वितिलकं मलिनं विहर्षं संरम्भभीममविमृष्टमपेतरागम् ।

पश्ये स्तनावपि शुचोपहतौ सुजातौ बिम्बाधरं विगतकुङ्कुमपङ्करागम् ॥ २५ ॥

पदरत्नावली

इतः पूर्वं वक्त्रादिकं विगततिलकादिकं न पश्यामीत्यन्वयः । शुचा शोका-श्रुणोपहतौ । सुजातौ कोमलौ ॥ २५ ॥

प्रकाशिका

संरम्भभीमं कोपेन भयङ्करमविमृष्टमप्रक्षालितमनुज्वलितमिति वा । अपेतरागं स्नेहशून्यम् । सुजातौ शौभनौ । शुचा शोकाश्रुभिरुपहतौ । अत एव विगतः कुङ्कुमरागो याभ्यां तौ । बिंबफलवदरुणम् । मधुरं पश्यन् अहं शं सुखं न पश्यामि ॥ २५ ॥

तन्मे प्रसीद सुहृदः कृतकिल्बिषस्य स्वैरं गतस्य मृगयां व्यसनातुरस्य ।

का देवरं वशगतं कुसुमास्त्रवेगविस्रस्तपौंस्यमुशती न भजेत कृत्ये ॥ २६ ॥

पदरत्नावली

कुसुमास्त्रस्य कामस्य वेगेन विस्रस्तं श्लथितं पौंस्यं पौरुषं यस्य स तथा तम् । देवं रतिक्रीडादिकं राति ददातीति देवरः पतिस्तम् । कृत्ये प्रयोजननिमित्ते प्राप्तम् उशती कामयमाना का स्त्री न भजेत ॥ २६ ॥

॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुकृतायां

चतुर्थस्कन्धे षड्विंशोऽध्यायः ॥

प्रकाशिका

तत्तस्मात्कृतं किल्बिषमपराधो येन । तस्य किल्बिषमेवाह ॥ स्वैरं गतस्येति । स्वैरं स्वातन्त्र्येण त्वामपृष्ट्वा मृगयां गतस्येत्यर्थः । देवो देवनं क्रीडा तां रातीति देवरः पतिस्तम् । कुसुमास्त्रः कामस्तस्य वेगेन विस्रस्तं श्लथितं पौंस्यं पुरुषत्वं यस्य स तथा तम् । उशती कामयमाना । कृत्ये कर्तुं योग्येऽर्थे उपस्थिते सति का न भजेत । सर्वाऽपि भजेदेव । अतो मयि कृपां कुर्वित्याशयः ॥ २६ ॥

**॥ इति श्रीमद्वेदेशपूज्यपादशिष्येण यदुपतिना विरचितायां **

श्रीमद्भागवतटिप्पण्यां चतुर्थस्कन्धे षड्विंशोऽध्यायः ॥ ४-२६ ॥