२५ पञ्चविंशोऽध्यायः

इति संदिश्य भगवान् बार्हिषदैरभिपूजितः

अथ पञ्चविंशोऽध्यायः

मैत्रेय उवाच –

इति संदिश्य भगवान् बार्हिषदैरभिपूजितः ।

पश्यतां राजपुत्राणां तत्रैवान्तर्दधे हरः ॥ १ ॥

रुद्रगीतं भगवतः स्तोत्रं सर्वे प्रचेतसः ।

जपन्तस्ते तपस्तेपुर्वर्षाणामयुतं जले ॥ २ ॥

प्राचीनबर्हिषं क्षत्तः कर्मस्वासक्तमानसम् ।

नारदोऽध्यात्मतत्वज्ञः कृपालुः प्रत्यबोधयत् ॥ ३ ॥

पदरत्नावली

अध्यात्मगर्भपुरञ्जनोपाख्यानप्रकथनेन संसारसागरे दुराग्रहदुरवरोहे निमज्जतां दूरीकृतसत्सङ्गानां हरिचरणारविन्दमकरन्दसेवानभिज्ञानां गमागमादिनानाव्यसनभराक्रान्तशिरोधराणां शिशुकलभाषणहतश्रवणानां कुटुम्बभरणातिवाहितदिनकरगमागमानां पुरुषाणां वैराग्यरसानुभावितनिपुण- बलभक्तिप्रदीपानुगृहीतापवर्गलक्षणपुरुषार्थसाधनभगवदपरोक्षज्ञानललनाकटाक्षप्रसन्नमुरमथनप्रसादपरशु-मन्तरेण संसारतरूच्छेदो न स्यादिति तादृशी साधनसामग्री निरूप्यते पञ्चस्वध्यायेषु । तत्रोपोद्घातं रचयति– इतीति ॥ रुद्रान्तर्धानानन्तरं प्रचेतोभिः किमकारीति तत्राह– रुद्रगीतमिति ॥ एतदन्तरे श्रोतुं योग्यां कथां वदन्, तत्कथाशेषं तदनन्तरं श्रोष्याम इति क्षत्तुरान्तरीं शङ्कां मैत्रैयः परिहरतीत्याह– प्राचीनबर्हिषमिति ॥ स्यात् कृपालुः कारुणिक इति वचनात् साधुरयं शब्दः ॥ १-३ ॥

प्रकाशिका

प्रचेतसां तपोगमनान्तरं तत्पितुर्वृत्तमाह ॥ प्राचीनबर्हिषमिति ॥ ३ ॥

नारद उवाच–

श्रेयस्त्वं कतमद् राजन् कर्मणाऽऽत्मन ईहसे ।

दुःखहानिः सुखावाप्तिः श्रेयस्तन्नेहयेष्यते१ ॥ ४ ॥

पदरत्नावली

ईहया कर्मणा श्रेयसामवाप्तिरिष्यते । त्वं तत्र श्रेयसां कतमच्छ्रेय आत्मन ईहसे कर्मणेच्छसि ? एतदेव विशिनष्टि– दुःखहानिरिति ॥ अत्रायं भावः । पुरुषार्थिना पुरुषेण प्रार्थ्यानि श्रेयांसि बहूनि सन्ति । तेषां कतमच्छ्रेयो दुःखहानिलक्षणमुत सुखावाप्तिमथ वोभयमथान्यत् सदपत्यादि-लक्षणमिति । इह कर्मणि तदुभयं न ॥ ४ ॥

प्रकाशिका

आत्मनः स्वस्य कर्मणा यच्छे्रयःफलमीहसे इच्छसि । तत्कतमत्स्वर्गादिरूपं चेत्तुच्छमित्याशयः । मोक्षश्चेन्न स्वर्गादिकामनावतस्तव भविष्यतीत्याह ॥ दुःखहानिरिति । संसार-निवृत्तिः स्वरूपसुखावाप्तिश्चेत्येतद्रूपं श्रेय ईहया स्वर्गादिकामनया । तद्वत इति यावत् । नेष्यते । प्रामाणिकैरिति शेषः । तत्रेहयेष्यत इति पाठे तत्रोक्तरूपश्रेयसि ईहयेच्छया । मोक्षेच्छयेति यावत् । इष्यते । सा च तव नास्ति परमात्मज्ञानाभावादित्याशय इति योज्यम् ॥ ४ ॥

प्राचीनबर्हिरुवाच–

न जानामि महाभाग परं कर्मापविद्धधीः ।

ब्रूहि मे विमलं ज्ञानं येन मुच्येय कर्मभिः ॥ ५ ॥

पदरत्नावली

अत्र राजा सर्वश्रेयोवाप्तौ मुख्यसाधनं ज्ञानमेवेति नारदस्य हार्दं विद्वांस्तदेव भवतोपदेष्टव्यमिति प्रार्थयते– न जानामीति ॥ नारदेन सहोत्तरप्रत्युत्तरायासान् न जानामीति वाक्यं सुखमिति मन्वानेन तत् तथोक्तम् ॥ ५ ॥

प्रकाशिका

अत एव राजा परं परमात्मानं न जानाम्यतो मोक्षाय तज्ज्ञानं यथा स्यात्तथा ब्रूहीत्याह ॥ कर्मभिरिति । कर्मभिः काम्यैर्निषिद्धैश्च ॥ ५ ॥

नारद उवाच–

गृहेषु कूटधर्मेषु पुत्रदारधनार्थधीः ।

न परं विन्दते मूढो भ्राम्यन् संसारवर्त्मसु ॥ ६ ॥

पदरत्नावली

काम्यधर्ममयेषु गृहाश्रमेषु पुत्रादिरेवार्थ इति धीर्यस्य स तथा ॥ ६ ॥

प्रकाशिका

मोक्षे वैराग्यं प्रथमसाधनमतस्तदवश्यमपेक्षितमित्याशयेन तदभावे मोक्षाभावं दर्शयति ॥ गृहेष्विति । पुत्रादिरेवार्थः पुरुषार्थ इति धीर्यस्य स तथा । परं परमात्मानं न विन्दते न प्राप्नोति । परं श्रेयो मोक्षरूपं न विन्दत इति वा । अतो मुमुक्षोर्वैराग्यमावश्यकमित्याशयः ॥ ६ ॥

भो भो प्रजापते राजन् पशून् पश्य त्वयाऽध्वरे ।

संज्ञापितान् जीवसङ्घान् निर्घृणेन सहस्रशः ॥ ७ ॥

पदरत्नावली

यद्यपि कर्म ज्ञानोत्पत्तौ सहकारि तथापि कर्तुमसुशकमिति मत्वा निन्दति– भो भो इति ॥ ‘यथावत् कर्म कर्तुस्तु ज्ञानं साहाय्यकारकम् । अन्यथा कुर्वतः कर्म निरयाय भविष्यति ॥ तथापि कर्म निन्दन्ति न यतः कर्तुमञ्जसा । शक्यं ज्ञानफलस्यापि बहुत्वान्मोहनाय च ॥’ इति वचना-न्निन्दनं युक्तम् । तस्मात् कर्मविधानं च न व्यर्थमिति तात्पर्यार्थ इति निरणायि । संज्ञापितान् हिंसितान्

॥ ७ ॥

प्रकाशिका

कर्मफलेषु वैराग्यमुत्पाद्य ब्रह्मविद्यामुपदेष्टुं योगसामर्थ्येन मृतान्यज्ञपशून्प्रत्यक्षेण प्रदर्शयन्नाह ॥ भो भो इति । संज्ञापितान् हिंसितान् ॥ ७ ॥

एते त्वां सम्प्रतीक्षन्ते स्मरन्तो वैशसं तव ।

सम्परेतमयःकूटैश्छिन्दन्त्युत्थितमन्यवः ॥ ८ ॥

तात्पर्यम्

‘यथावत्कर्म कर्तुस्तु ज्ञानसाहाय्यकारकम् । अन्यथा कुर्वतः कर्म निरयाय भविष्यति । तथापि कर्म निन्दन्ति न यतः कर्तुमञ्जसा । शक्यं ज्ञानफलस्यापि बहुत्वान्मोहनाय च’ ॥ इति ब्रह्माण्डे ॥ ८ ॥

पदरत्नावली

संप्रति तेभ्य उपद्रवाभावेऽपि परत्रास्तीत्याह– एते त्वामिति ॥ वैशसं शस्त्रेण छेदनम् । संपरेतं मृतम् । अयोनिर्मिता आयुधविशेषाः कूटाः । ‘कूटोऽस्त्री पुञ्जमायाद्येष्वद्रिशृृङ्गेषु भेदयोः’ इति यादवः ॥ ८ ॥

प्रकाशिका

तव वैशसं त्वत्कृतहिंसनम् । संपरेतं मृतम् । अयःकूटैरयोनिर्मितायुधविशेषैश् छिन्दन्ति छेत्स्यन्ति । अत्र कर्मनिन्दितुर्नारदस्याभिप्रायं प्रमाणेनैवाह ॥ यथावदिति । कर्म यथा-वद्विद्ध्युक्तप्रकारेण कर्तुर्ज्ञाने जननीये साहाय्यकारणं श्रवणादिसहकारिकारणम् । न स्वतन्त्रम् । एवं ज्ञानेनानन्दाभिवृद्धौ जननीयायां ज्ञानसहकारिकारणम् । न स्वतन्त्रम् । अन्यथाऽङ्गवैकल्येन कुर्वतः कर्म निरयाय भविष्यति निरयजनकं भविष्यति । यद्यपि कर्मनिन्दा न युक्तेति । तथाऽपि कर्म निन्दन्ति मुनय इति शेषः । यतो यत्कर्माञ्जसा साङ्गतया न कर्तुं शक्यम् । सर्वारम्भा हि दोषेण धूमेनाग्निरिवावृता इति वचनात् । अतो ज्ञानफलस्य बहुत्वादपि ज्ञानफलमोक्षापेक्षया कर्मफलस्य स्वर्गादेस्तुच्छत्वान्निन्दन्तीति भावः । मोहनाय चेति । सर्वथा कर्म न कर्तव्यमित्यसुराणां भ्रान्तिर्भवत्वित्याशयेनोक्तम् । द्विविधं कर्म प्रवृत्तं निवृत्तं चेति । तत्राद्यं निवृत्तकर्मनिन्दकाभिप्रायोपपादकमिति ज्ञेयम् ॥ ८ ॥

अत्र ते कथयिष्येऽहमितिहासं पुरातनम् ।

पुरञ्जनस्य चरितं निबोध गदतो मम ॥ ९ ॥

पदरत्नावली

अत्रेममर्थमितिहासेन बोधयिष्यामीत्याह– अत्रेति ॥ पुरे शरीरे अतति सततं विषयीकृत्य वर्तत इति पुरातनम् । अध्यात्मविषयमित्यर्थः । अत सातत्यगमन इति धातुः । अन्यथा इतिहासः पुरावृत्तमिति वाक्यात् पुनरुक्तं स्यात् । कमधिकृत्य वर्तत इत्यत उक्तम्– पुरञ्जनस्येति ॥९॥

प्रकाशिका

गृहेषु कूटधर्मेष्विति श्लोकोक्तसंसारासक्तस्य परमात्मज्ञानं नास्तीत्यस्मिन्नर्थे इतिहासं कथयिष्यामीत्याह ॥ अत्रेति । तस्मिन्नितिहासे प्रतिपाद्यं पुरञ्जनस्य चरितं निबोधेत्यर्थः । अत्र पारोक्ष्येण जीवसंसारस्थितिरेवोच्यत इत्यग्रे स्वयमेव वक्ष्यति । अतो नेदानीं तत्प्रपञ्च्यते ॥ ९ ॥

आसीत् पुरञ्जनो नाम राजा राजन् बृहच्छ्रवाः ।

तस्याविज्ञातनामाऽऽसीत् सखाऽविज्ञातचेष्टितः ॥ १० ॥

पदरत्नावली

पुरञ्जनो नाम कः, यमाश्रित्येयं कथा वर्तते ? बृहच्छ्रवा इत्यनेन विशिष्टो जीवो भवतीत्युच्यते । अभिमानेन सर्वेषां जीवानां मुख्याभिमानी चतुर्मुखो ब्रह्मा देवानां विशेषतः । अत्र पुरञ्जनस्तु जात्या क्षत्रियो मुक्तियोग्योऽसुरान् विना मनुष्यजीवाभिमानी । असुराणां कलिः । अत्र जीवसंसारज्ञप्त्यै श्रोतृणां पापपरिहाराय पुण्यवृद्धये च नारदेन पुरञ्जनस्य कथाप्रसङ्गोऽकारीति । तदुक्तम्– ‘देवजीवाभिमानी तु ब्रह्मैव तु चतुर्मुखः । मनुष्याणां तु जीवानामभिमानी पुरञ्जनः ॥ स तु राजा हरेः पुत्रश्चासुराणां कलिः स्वयम् । जीवसंसृतिवत् तस्मात् पुरञ्जनकथापि तु ॥ तस्माज्जीवसृतिज्ञप्त्यै पुरञ्जन-कथां मुनिः । नारदोऽश्रावयत् तस्मान्नृपं प्राचीनबर्हिषम् ॥ प्रायस्तु तत्कथा जीवे स्थिता प्रत्येकशोऽपि तु । प्रत्येकं यत् तु युज्येत तदुन्नेयं यथा तथा ॥ उक्तं भागवतेऽप्येतत् पुराणे यावदिष्यते । प्रत्येकशस्तु जीवानां तदन्यत् तस्य केवलम् ॥’ इति । अतोऽत्र यथासम्भवं तत्तत्पदानि तत्तदर्थपरतया योज्यानीति निर्वक्तव्यम् । आचतुर्दशमाद् वर्षादित्यादेः । क्षत्रजातिज्ञापनाय– राजेति ॥ इतिहासत्वद्योतनाय– आसीदिति ॥ तस्य पुरञ्जनस्य शरीरिणोऽपि नामरूपादिभिः स्वरूपं न ज्ञायत इत्यविज्ञातं नाम यस्येति सोऽविज्ञातनामा परमात्मा सखाऽऽसीदित्यन्वयः । द्वा सुपर्णेत्यादि श्रुतेः । अन्यस्तु प्रसिद्धः । तर्हि शून्य इत्यतो– विज्ञातेति ॥ विज्ञातं चेष्टितं जगत्सृष्ट्यादिलक्षणं यस्य स तथा । अन्यत्र नीतिशास्त्रप्रसिद्धव्यापारः ॥ १० ॥

प्रकाशिका

अविज्ञातनाम तस्योपपादयति ॥ अविज्ञातेति । अविज्ञातमज्ञातं चेष्टितं यस्य स तथा ॥ १० ॥

सोऽन्वेषमाणः शरणं बभ्राम पृथिवीं प्रभुः ।

नानुरूपं यदाविन्ददभूत् स विमना इव ॥ ११ ॥

पदरत्नावली

सः स्वर्गादिस्थानादवाग्गतः कर्मणा शरणं सुखदुःखभोगयोग्यं शरीरमन्वेष-माणः पृथिवीं कर्मभूमिं बभ्राम । अन्यत्र पुरम् । प्रभवं(व)त्यस्मात्कर्मणीति प्रभुः । अन्यत्र परपाप-मर्दनसमर्थः । अनुरूपं दुःखभोगमन्तरेण सुखभोगयोग्यम् । अन्यत्र दुर्गादिलक्षणम् ॥ ११ ॥

प्रकाशिका

शरणं पुरम् ॥ ११ ॥

न साधु मेने ताः सर्वा भूतले यावतीः पुरः ।

कामान् कामयमानोऽसौ तस्य तस्याभिपत्तये ॥ १२ ॥

पदरत्नावली

यावतीस्तिर्यगादिलक्षणाः पुरः शरीराणि । अभिपत्तये प्राप्त्यै । ‘ताभ्यो गामानयत् ता अब्रुवन् न वै नोऽयमलम्’ इत्यादिश्रुतिः । अन्यत्र शत्रुसाध्यत्वात् ॥ १२ ॥

प्रकाशिका

तस्य तस्य कामस्याभिपत्तये प्राप्तये ॥ १२ ॥

स एकदा हिमवतो दक्षिणेष्वथ सानुषु ।

ददर्श नवभिर्द्वारैः पुरीं लक्षितलक्षणाम् ॥ १३ ॥

पदरत्नावली

एकदाऽभीप्सितशुभकर्मफलोदयसमये । हिमवतो दक्षिणेषु सानुषु कर्मफल-सम्भजनपटुषु । वनषण सम्भक्ताविति धातुः । भारतभूप्रदेशेषु । ‘प्रत्येकं यत् तु युज्येत तदुन्नेयं यथा तथा’ इत्युक्तत्वाद् यथासम्भवमुन्नीयते । श्रोत्रादिनवद्वारैर्लक्षितलक्षणाम् अन्धपङ्गुबधिरत्वादिदुर्लक्षणशून्यां पुरीं पुरुषशरीरं ददर्श । दृष्ट्वा प्राविशदित्यध्याहार्यम् । ताभ्यः पुरुषमानयत् ता अब्रुवन् सुकृतं बतेति श्रुतिः । अन्यत्र स्पष्टम् ॥ १३ ॥

प्रकाशिका

दक्षिणेषु सानुषु भारतभूप्रदेशेषु लक्षितानि दृष्टानि लक्षणानि यस्याम् ॥ १३ ॥

प्राकारोपवनाट्टालपरिखैरुच्चतोरणैः ।

स्वर्णरौप्यायसैः शृङ्गैः संकुला सर्वतो गृहैः ॥ १४ ॥

पदरत्नावली

पुरीमित्युपक्रान्तत्वात् तदनुसारेण तद्वर्णनं क्रियते– प्राकारेत्यादिना ॥ अध्यात्मान्तःशब्दाद्यैरस्थिनाड्यादयो यथानुकूलं लक्षणीयाः । प्राकारो दुर्गभित्तिः । अट्टालो भित्त्यन्त-र्भूप्रदेशः । परिखा दुर्गबहिः परितः खातनदी ? स्वर्णादिभी रचितैः शृृङ्गैः शिखरैः । अन्यत्र सात्त्विकराजसतामसैः सङ्कुलाम् ॥ १४ ॥

प्रकाशिका

प्राकारो दुर्गभित्तिरट्टालो भित्त्यन्तभूप्रदेशः परिखा भित्तेर्बहिः परितः खातनदी । परिखैरिति पुल्लिङ्गं छान्दसम् । शृृङ्गैः शिखरैः ॥ १४ ॥

नीलस्फटिकवैदूर्यमुक्तामरकतारुणैः ।

क्लृप्तहर्म्यस्थलीं दीप्तां श्रिया भोगवतीमिव ॥ १५ ॥

पदरत्नावली

नीलादिभिरिन्द्रनीलरत्नादिभिः क्लृप्ता विरचिता हर्म्यस्थल्यो यस्यां सा तथा ताम् । भोगवतीं नागपुरीम् ॥ १५ ॥

प्रकाशिका

नीलपदमिन्द्रनीलपरम् । अरुणपदं माणिक्यपरम् । नीलादिभिः क्लृप्ता विरचिता हर्म्यस्थली यस्याः सा तथा ताम् । भोगवतीं नागपुरीमिव ॥ १५ ॥

सभाचत्वररथ्याभिराक्रीडायतनापणैः ।

चैत्यध्वजपताकाभिर्युक्तां विद्रुमवेदिभिः ॥ १६ ॥

पदरत्नावली

आक्रीडा क्रीडाभूमिः । आपणः क्रयस्थानम् । चैत्यं वन्दनशाला । वेदिः परिष्कृता भूमिरित्यमरः ॥ १६ ॥

प्रकाशिका

चत्वरं चतुष्पथो रथ्या राजमार्ग आक्रीडायतनं द्यूतादिस्थानमापणः क्रयस्थानं चैत्यं जनानां विश्रामस्थानं ध्वजेषु पताकास्ताभिः ॥ १६ ॥

पुर्यास्तु बाह्योपवने दिव्यद्रुमलताकुले ।

नदद्विहङ्गालिकुलकोलाहलजलाशये ॥ १७ ॥

पदरत्नावली

स राजा विषयलक्षणबाह्योद्याने स्थितस् तत्र यदृच्छयाऽऽगतां प्रमदोत्तमां ददर्शेति चतुर्थश्लोकेनान्वयः ॥ १७ ॥

प्रकाशिका

स राजा बाह्योपवने स्थितस्तत्र यदृच्छयाऽऽगतां प्रमदोत्तमां ददर्शेति चतुर्थे-नान्वयः । नदतां विहङ्गालिकुलानां कोलाहलो येषु ते जलाशया यस्मिन् ॥ १७ ॥

हिमनिर्झरविप्रुष्मत्कुसुमाकरवायुना ।

चलत्प्रवालविटपिनलिनीतटसंपदि ॥ १८ ॥

पदरत्नावली

हिमनिर्झराणां शीतलतुङ्गस्थलपतज्जलधाराणां विप्रुष्मता तोयबिन्दुमता कुसुमाकरसौरभवता वायुना चलन्तः प्रवाला येषु ते तथा । ते च विटपिनश्च चलत्प्रवालविटपिन-स्तैर्युक्तानां नलिनीतटानां पद्माकरतीराणां सम्पदो यस्मिंस्तत् तथा, तस्मिन् ॥ १८ ॥

प्रकाशिका

हिमनिर्झराणां शीतलजलधाराणां विप्लुषो बिन्दवस्तद्वत् कुसुमाकरः पुष्पस्थानं तत्सम्बन्धिना वायुना चलन्तः प्रवाला येषु ते तथा ते च विटपिनो वृक्षाश्चलत्प्रवालविटपिनस्तैर्युक्तानां नलिनीतटानां सरसस्तीराणां संपदो यस्मिंस्तत्तथा । तस्मिन् ॥ १८ ॥

नानारण्यमृगव्रातैरनाबाधे मुनिव्रतैः ।

आहूतं मन्यते पान्थो यत्र कोकिलकूजितैः ॥ १९ ॥

पदरत्नावली

आबाधा महती पीडेत्यभिधानम् । अनाबाधे उपद्रवरहिते । कोकिलकूजितानां मात्राविशेषैरेहि आविशेत्याहूतमात्मानं निरूपयति । अन्यत्र प्राकारो देहचर्म । उपवनं रोमादि । अट्टालं तन्मध्ये मेदो वसादि । परिखा मांसबहिस्त्वक् । तोरणस्थानीयो बाहुः । अङ्गुल्यः पताकाः । पार्श्वद्वयस्योर्ध्वमुखवंशस्यास्थि वा तोरणम् । शृृङ्गं शृृङ्गस्थानीयं कर्णादि । गुहा उदरादिप्रदेशाः । नीलवैडूर्याद्यैस्तोरणविशेषैः समलङ्कृतं हर्म्यस्थलीस्थानीयं चर्मादि । भोगसाधनत्वाद् भोगवती । सभा हृदयम् । सर्वदेवानां निवासस्थानीयत्वाच् चत्वरं नाडीसन्धिः । रथ्या ब्रह्मनाडी । आक्रीडा हस्तः । आयतनानीन्द्रियगोलकानि । आपणो वाक् । चैत्यं मस्तकम् । ध्वजः केशपाशः । विद्रुमवेदी रत्नाद्यलङ्कृतकटिप्रदेशः । बाह्योपवनं देहबाह्यविषयोद्यानम् । तस्य रमणीयतां वर्णयति– दिव्ये-त्यादिना ॥ वक्त्राद्यध्यात्मार्थो वर्णनीयः । बाह्येत्युक्तत्वात् । प्रकर्षेण मदयन्तीति प्रमदा वैषयिक्यो बुद्ध्यस्तासां मध्ये उद् उत्कृष्टं तमः स्थानं पुरुषाणां यस्याः सा प्रमदोत्तमा । प्रधानेत्युक्ते आत्मा-नात्मविवेकविचक्षणा बुद्धिरित्यर्थः स्यात् । स चानुपपन्नः । तां बुद्धिं विहाय वैषयिकीं बुद्धिं प्राप्य मुग्धोऽभूदित्यर्थः । अन्यथाऽप्रतीत एव कीदृशीं दशभिर्भृत्यैर्ज्ञानकर्मेन्द्रियसंज्ञैः सहागच्छन्तीति च कीदृशाः । एकैकस्य शतमित्यनन्ताः । अनन्ता या वृत्तयस्तासां नायकाश्च केचन वृत्तिविशेषास्तैर्युक्तैः

॥ १९ ॥

प्रकाशिका

अनाबाधे तत्कृतोपद्रवशून्ये मुनिव्रतैरहिंस्रैः पांथ आत्मानमाहुतं मन्यते । कोकिलध्वनीनां मात्राविशेषैरात्मानमाहूतं कल्पयतीत्यर्थः ॥ १९ ॥

यदृच्छयाऽऽगतां तत्र ददर्श प्रमदोत्तमाम् ।

भृत्यैर्दशभिरायान्तीमेकैकशतनायकैः ॥ २० ॥

प्रकाशिका

कथं भूतैर्भृत्यैः । एकैकं प्रत्येकं शतं बहुसंख्याका नायकाः स्त्रियो येषाम् ॥२०॥

तेषां परिवृढो राजन् सर्वेषां बलिमुद्वहन् ।

सस्त्रीकाणां सखा तस्या बहुरूपोऽग्रणीः स्त्रियः ॥ २१ ॥

पदरत्नावली

अत्र पुरञ्जनस्य ये भृत्या याश्च भार्याद्यास्ते सर्वेऽपि मानुषेन्द्रियाभिमानिनः । गायत्र्याद्या देवेन्द्रियतद्वृत्तीनामभिमानिन्य इति । तदुक्तम्– ‘ये पुरञ्चनभृत्याद्या भार्याद्याः सर्व एव च । तेऽपि मानुषबुद्ध्यादेर्विज्ञेया अभिमानिनः ॥ गायत्र्याद्यास्तु देवानां तेऽपि चैतेषु संस्थिताः । अलक्ष्मीद्वापरद्यास्तु आसुरास्तेऽपि मानुषाः ॥’ इति ॥ तेषां सर्वेषां परिवृढो मनोनामा जीवो वा । तत्तद्विषयवैचित्र्यमपेक्ष्य मनसो बहुरूपत्वम् । जीवस्य तु योनीनां वैचित्र्यात् ॥ २१ ॥

प्रकाशिका

तेषां भृत्यानां परिवृढः पतिः । तस्याः स्त्रियः सखा ॥ २१ ॥

पञ्चशीर्षाहिना गुप्तां प्रतीहारेण सर्वतः ।

अन्वेषमाणामृषभमप्रौढां कामरूपिणीम् ॥ २२ ॥

पदरत्नावली

पञ्चशीर्षाहिना प्राणादिपञ्चवृत्त्याख्यशिरसा मुख्यप्राणाख्यसर्पेण प्रतीहारेण द्वारपालकवद् वर्तमानेन । ऋषभं पतिम् । स्वकृत्यनुकूलवृत्तिलक्षणं पुरुषमित्यर्थः । अत एवाप्रौढामनूढा-मपरिगृहीतपाणिमिव स्थितामित्यर्थः । कामरूपिणीं विषयवैचित्र्यात् तत्तदाकारानुमिताकाराम् ॥२२॥

प्रकाशिका

प्रतीहारेण द्वारपालस्थानीयेन ऋषभं पतिम् । अप्रौढामनूढाम् ॥ २२ ॥

सुनासां सुदतीं बालां सुकपोलां वराननाम् ।

समविन्यस्तकर्णाभ्यां बिभ्रतीं कुण्डलश्रियम् ॥ २३ ॥

पदरत्नावली

उन्नताभिमानलक्षणनासिकाम् । सुदतीं विषयवृत्तिलक्षणदन्ताम् । बालां सुकुमारवृत्तिम् । बाह्याभ्यन्तरवृत्तिलक्षणभ्यां शोभनाभ्यां वरं वरणीयमाननं चेष्टा यस्याः सा तथा ताम् । अन चेष्टायामिति धातुः । समं यथा तथा विन्यस्ताभ्यां कल्पिताभ्यां बाह्यान्तःकरणविशेषाभ्यां सङ्कल्प- विकल्पभेदेन द्वाभ्यां मनोरूपाभ्यां कुण्डलश्रियं विषयेषु परिवर्तनश्रियं बिभ्रतीं परिवर्तयन्तीम् ॥ २३ ॥

प्रकाशिका

समं विन्यस्तौ रचितौ कर्णौ यस्याः सा तथा ताभ्यां कुण्डलश्रियं कुण्डलशोभां बिभर्ती ॥ २३ ॥

पिशङ्गनीवीं सुश्रोणीं श्यामां कनकमेखलाम् ।

पद्भ्यां क्वणद्भ्यां चलतीं नूपुरैर्देवतामिव ॥ २४ ॥

पदरत्नावली

पिशङ्गा विषयोपरक्ता नीवी आच्छादनवृत्तिर्यस्याः सा तथा ताम् । सुश्रोणीं सुष्ट्वाश्रयवृत्तिमतीम् । श्यामां तमोगुणप्रचुराम् । कनकमेखलां रजोगुणलक्षणसुवर्णकाञ्चीम् । पद्भ्यां रजस्तमोविकृतवृत्तिविशेषाभ्याम् । नूपुरैः शिशुकलभाषणलक्षणैः । क्वणद्भ्यामित्यादिप्रयोगाल्लक्षणावृत्त्या ऊहनीया न वाच्यवृत्त्या । क्वचिच्चानयेति क्वचित् सद्वृत्तिविषयत्वाद् देवतामिवेति ॥ २४ ॥

प्रकाशिका

नूपुरैरिति जातौ बहुवचनम् ॥ २४ ॥

स्तनौ व्यञ्जितकैशोरौ समवृत्तौ निरन्तरौ ।

वस्त्रान्तेन निगूहन्तीं व्रीडया गजगामिनीम् ॥ २५ ॥

पदरत्नावली

व्यञ्जितकैशोरौ अभिव्यञ्जितमध्यमावस्थौ । मध्यमां वुद्धिसंस्थामित्युक्तेः । ध्वन स्तनशब्द इति धातोः स्तनौ शब्दौ । समवृत्तौ वर्णवृत्तलक्षणोपेतौ । निरन्तरमेकस्मिन्नेव वृत्ते विद्यमानौ गुरुलधुभेदरहितावित्यर्थः । व्रीडया वृत्तिविशेषेण वस्त्रान्तेन, वस आच्छादन इति धातोराच्छादनशील-वृत्तिभागेन, निगूहन्तीमनभिव्यक्तिं कुर्वाणाम् । गजगामिनीं गजवदूर्ध्वमूलाधारादायन्तीं बुद्धिम् ॥२५॥

प्रकाशिका

व्यञ्जितं कैशोरं यौवनोपक्रमो याभ्यां समौ च वृत्तौ च ॥ २५ ॥

तामाह ललितां वीरः सव्रीडस्मितशोभिनीम् ।

स्निग्धेनापाङ्गपुङ्खेन स्पृष्टः प्रेमभ्रमद्भ्रुवा ॥ २६ ॥

पदरत्नावली

आहेति ॥ स्वकार्यविषये प्रवर्तयितुमभिमुखीचकार । वीरो विशिष्टप्राण-बलोपेतः । सव्रीडस्मितशोभिनीं स्वकार्याभिमुखीम् । अपाङ्गपे्रमेत्यादिनाऽपि तत्तद्योगवृत्तिविशेषं लक्षयति । प्रेम्णा भ्रमन्ती भ्रूः प्रेमभ्रमद्भ्रूस्तया ॥ २६ ॥

प्रकाशिका

अपाङ्गपुङ्खेन कटाक्षैकदेशेन प्रेम्णा भ्रमन्ती भ्रूस्तया च ॥ २६ ॥

का त्वं कञ्जपलाशाक्षि कस्यासीह कुतः सति ।

इमामुपपुरीं भीरु किं चिकीर्षसि शंस मे ॥ २७ ॥

पदरत्नावली

का त्वमित्यादि लोकानुकारवचनम् । भ्रान्त्या प्रलापो वा उपपुरीमित्यनेन ज्ञायते । अन्यथोपपुरीति ह्रस्वत्वेन प्रयोगः स्यात् । देहसमीपे वर्तमानाम् ॥ २७ ॥

प्रकाशिका

कुतः स्थानादिहागतोऽसि । हे सति । इमां पुरीम् उप समीपे वर्तमानाम् ॥ २७ ॥

क एतेऽनुपथा एत एकादशमहाभटाः ।

एता वा ललना सुभ्रु कोऽयं तेऽहिः पुरस्सरः ॥ २८ ॥

पदरत्नावली

अनुपथाः स्वमार्गमनुवर्तमाना य इमे मनसा सह एकादशभटा एते । लल विलास इति धातोर् ललना विलासोपेता वृत्तिविशेषाः । हि गताविति धातोर् अहिरगतः सहव्रजः । पुरःसरो नासिकारन्ध्रचरः श्वासः ॥ २८ ॥

प्रकाशिका

ते तव अनुवर्तिन एते के एकादशो महान् भटा येषु ते ॥ २८ ॥

त्वं ह्रीर्भवान्यस्यथ वाग् रमा पतिं विचिन्वती किं मुनिवद् रहो वने ।

त्वदङ्घ्रिसाम्याप्तसमस्तकामः क्व पद्मकोशः पतितः कराग्रात् ॥ २९ ॥

पदरत्नावली

त्वं ह्रीरित्यादिकमनुकरणम् । लज्जावृत्तिविशिष्टत्वात् ह्रीः । सङ्कल्पवृत्त्या भवानीति । वचनवृत्त्या वाक् । रमणवृत्त्या रमा । पतिं देहस्वामिनम् । वने देहलक्षणे । वासनावने मुनिवन्मनोवत् । त्वदङ्घ्रिसाम्येनाप्ताः समस्ताः कामा येन स तथा । अघिरघिलघिगत्यर्था इति धातोः । यथा अङ्घ््रयोर्गतिसाधनत्वं तथा मनसोऽपि । मनसा सङ्कल्प्य पुरुषस्य विषयोपगमनात् । पद्मकोशः कन्दुकलक्षणं मनः कराग्राद् वृत्तिविशेषात् पतितो गतः क्व ? कां वृत्तिमुपगत इति । बाह्यार्थः स्पष्टः ॥ २९ ॥

प्रकाशिका

मुनिवन्मौनवत्त्वादङ्घ्रिसाम्येनाप्ताः समस्ताः कामा येन स तथा ॥ २९ ॥

नासां वरोर्वन्यतमा भुविस्पृक् पुरीमिमां वीरवरेण साकम् ।

अर्हस्यलङ्कर्तुमदभ्रकर्मणा लोकं परं श्रीरिव यज्ञपुंसा ॥ ३० ॥

पदरत्नावली

हे वरोरु यदि त्वमासां ह्रीमुखानां वृत्तिविशेषाणामन्यतमवृत्तिविशिष्टा नासि, किन्तु स्थिरवृत्तिविशिष्टासि । भुवि सत्कर्मणि स्पृक् आशावती । तर्ह्यदभ्रकर्मणा महापराक्रमवता वीरवरेण मया साकमिमां पुरीं देहलक्षणामलङ्कर्तुमर्हसि । कथमिव ? यज्ञपुंसा श्रीनारायणेन सह । श्रीः परं लोकं वैकुण्ठाख्यमिवेत्यन्वयः । अदभ्रकर्मणेति कर्मानन्त्यं लक्षयति ॥ ३० ॥

प्रकाशिका

हे वरोरु । आसां ह्रीप्रमुखानां मध्ये त्वमन्यतमाऽपि न भवसि । यतो भुविस्पृक् न हि देवता भुवं स्पृशन्ति । वीरवरेण मया । यज्ञपुंसा श्रीनारायणेन सह श्रियमिव परं लोकं वैकुण्ठम्

॥ ३० ॥

यदेष माऽपाङ्गविखण्डितेन्द्रियं सव्रीडहासेक्षणविभ्रमद्भ्रुवः ।

तवोपसृष्टो भगवान् मनोभवः प्रबाधतेऽथानुगृहाण शोभने ॥ ३१ ॥

पदरत्नावली

हे शेभने व्रीडया सहितो हासः व्रीडाहासत्वेन युक्तेनेक्षणेन विभ्रमन्त्यौ भ्रुवौ यस्याः सा तथा, तस्यास्तव सकाशादुपसृष्टः प्राप्त एव मनोभवो मनसो जातो रागलक्षणवृत्तिविशेषो भगवान् ताभिः पूज्यो मा मां प्रबाधते स्वानुकूलकर्मणा यः सन्नद्धं करोति यद् यस्मादथ तस्मादनुगृहाणेत्यन्वयः । कथंभूतं माम् ? अपाङ्गेन शरीररहितेन वृत्तिविशेषेण विखण्डितानीन्द्रियाणि यस्य स तथा ताम् ॥ ३१ ॥

प्रकाशिका

हे शोभने । यद्यस्मात्तवापांगेन विखण्डितमिन्द्रियं मनो यस्य तं मा मामेष मनोभवः कामो बाधतेऽथ तस्मादनुग्रहाण । कथम्भूतो मनोभवः । व्रीडया सहितः सव्रीडः स चासौ हासश्च तेन युक्तेनेक्षणेन विभ्रमंत्यौ भ्रुवौ यस्याः सा तस्यास्तव सकाशादुपसृष्टः प्राप्तः ॥ ३१ ॥

त्वदाननं सुभ्रु सुतारलोचनं व्यालम्बिनीलालकवृन्दसंवृतम् ।

उन्नीय मे दर्शय वल्गुवाचकं यद् व्रीडया नाभिमुखं शुचिस्मिते ॥ ३२ ॥

इत्थं पुरञ्जनं नारी याचमानमधीरवत् ।

अभ्यभाषत तं वीरं हसन्ती वीरमोहिनी ॥ ३३ ॥

पदरत्नावली

हे शुचिस्मिते निर्मलविलासे, त्वदाननं तव चेष्टाविशेषं मे दर्शयेत्यन्वयः । सुभ्रु शोभना भ्रूर्भ्रमणशीलं विषयेषु यस्य तत् तथा । सुतारं शोभनं लोचनमालोचनं यौक्तिकं ज्ञानं यस्य तत् तथा । ततस्तर्हि किमिति न प्रकाशत इत्यत उक्तम्– व्यालम्बीति ॥ व्यालम्बिनामविस्रंसिनां चञ्चलानां नीलालकोपमवर्णानां तामसानां वृत्तिविशेषाणां वृन्देन संवृतं गूढं तस्मान्न प्रकाशत इत्यर्थः । तर्हि कथं दर्शनमिति तत्राह– उन्नीयेति ॥ तामसवृत्तिविशेषान् पृथक्कृत्य । पुनरपि कीदृशम् ? वल्गु सुन्दरं वाचकं यस्य तत् तथा । यदाननं व्रीडया वृत्तिविशेषेण ममानभिमुखं न सम्मुखं तदिति शेषः ॥

नरः पुरुषस्तत्संबन्धिनी नारी वैषयिकी बुद्धिः । हसन्ती उल्लसन्ती विशिष्ट ईरो ज्ञानं यस्य स वीरस्तमपि मोहयितुं शीलमस्या अस्तीति वीरमोहिनीति ॥ ३२,३३ ॥

प्रकाशिका

हे शुचिस्मिते । शुभ्रमन्दहासे यद्व्रीडया नाभिमुखं सम्मुखं न भवति । त्वदाननं मुखमुन्नीय दर्शय । कथम्भूतमाननम् । शोभने भ्रुवौ यस्मिन् शोभमाने तारे कनीनिके ययोस्ते लोचने यस्मिन् । व्यालंबिनो दीर्घा नीला येऽलकास्तेषां वृन्देन संवृतं वल्गूनि वाचकानि यस्मिन् ॥३२,३३॥

न विदाम वयं सम्यक् कर्तारं पुरुषर्षभ ।

आत्मनश्च परस्यापि गोत्रं नाम च यत् कृतम् ॥ ३४ ॥

पदरत्नावली

यदुक्तं कस्यासीति तत्राह– नेति ॥ हे पुरुषश्रेष्ठ कर्तारमुत्पादकं भर्तारं पोषकं वा सम्यग् लक्षणवत्तया न विदाम न जानीमहे । गुणवदाश्रयः कश्चिदस्तीति सामान्यमेव न तु विशिष्टमित्यतः सम्यगिति । किं चात्मनो मम परस्योत्पादकस्यापि यथा नाम कृतं यच्च गोत्रं तदपि न जानीमह इत्यन्वयः । अनामगोत्रमिति श्रुतेः ॥ ३४ ॥

प्रकाशिका

यत्पृष्टं कस्यासीति तस्योत्तरमाह ॥ न विदामेति । आत्मनो मम परस्य पित्रादेश्च कर्तारं वयं सम्यङ्न विदाम न विद्मः । अतो गोत्रं न विद्मः । का त्वमित्यस्योत्तरमाह ॥ नामेति । नाम च यत्कृतं च न विद्मः ॥ ३४ ॥

इहाद्य सन्तमात्मानं विदाम न ततः परम् ।

येनेयं निर्मिता वीर पुरी शरणमात्मनः ॥ ३५ ॥

पदरत्नावली

तर्हि किमपि न वेत्सि चेद् बुद्धित्वहानिरिति तत्राह– इहेति ॥ इह सन्त-मात्मानं मामहमित्यद्येदानीं जानीमहे । उत्तरकाले संदेहः कर्मवशात् । ततः परं ततोऽन्यत् किमपि न विदाम इत्यन्वयः । तस्मात् परमीश्वरं न विदाम येनेश्वरेण मम शरणं निवासयोग्येयं पुरी विरचितेति वा

॥ ३५ ॥

प्रकाशिका

तर्हि चेतनत्वहानिरित्यत उक्तम् ॥ इहाद्येति । इहास्मिन्देशे काले सन्तं पदार्थम् । वर्तमानमात्रमिति यावत् । विदाम विद्मः । आत्मानं मामद्येदानीं जानीमहे । ततः परमसन्निकृष्ट-मवर्तमानं च न विद्म आत्मनो मम शरणमियं पुरी येन निर्मिता तं च न विद्मः ॥ ३५ ॥

एते सखायः सख्यो मे नरा नार्यश्च मानद ।

सुप्तायां मयि जागर्ति नागोऽयं पालयन् पुरीम् ॥ ३६ ॥

पदरत्नावली

के तेऽनुपथा इति तत्राह– एत इति ॥ ३६ ॥

प्रकाशिका

क एतेऽनुपथा इति पृष्टस्योत्तरमाह ॥ एत इति । एते नरा मे सखायो नार्यश्च सख्यः ॥ ३६ ॥

दिष्ट्याऽऽगतोऽसि भद्रं ते ग्राम्यान् भोगानभीप्ससे ।

उद्वहिष्यामि त्वां स्नेहं स्वबन्धुभिररिन्दम ॥ ३७ ॥

पदरत्नावली

स्वबन्धुभिरिन्द्रियैः ॥ ३७ ॥

प्रकाशिका

अभीप्ससे । मया सह भोक्तुमिति शेषः । तान् कामानुद्वहिष्यामि संपादयिष्यामि । स्वबन्धुभिः सखीभिः ॥ ३७ ॥

इमां त्वमधितिष्ठस्व पुरीं नवमुखीं विभो ।

मयोपनीतान् गृह्णानः कामभोगाच्छतं समाः ॥ ३८ ॥

पदरत्नावली

हस्तपादयोरेकत्वेन नवत्वम् । मुखानि द्वाराणि । शतं समा इत्यनेन ‘‘शतायुर्वै पुरुष’’ इति श्रुतेर् मनुष्याणां शतायुष्ट्वनिर्देशान् मनुष्यशरीरमिहाभिप्रेतम् ॥ ३८ ॥

प्रकाशिका

नवमुखीं नवद्वारामुपनीतान्संपादितान्समाः संवत्सराः ॥ ३८ ॥

का नु त्वदन्यं रमयेदरतिज्ञमकोविदम् ।

असांपरायाभिमुखमश्वस्तनविदं पशुम् ॥ ३९ ॥

पदरत्नावली

तत्र हि ज्ञानोत्पत्तिः । कुत इति तत्राह– का न्विति । का बुद्धिस्त्वदन्यं मनुष्यशरीरप्रविष्टं चेतनं विहायान्यं पश्वादिशरीरगतं रमयेत् सुखिनं कुर्यादित्यन्वयः । कुत इत्यत उक्तम्– अरतिज्ञमिति ॥ यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानवः’ इति स्मृतेः परमात्मरतिज्ञानरहितं शब्दादिविषयरतिज्ञानहीनं वा । तदपि कुत इत्यत उक्तम्– अकोविदमिति ॥ अपण्डितत्त्वादित्यर्थः । पाण्डित्याभावः कथमित्यत्राह– असांपरायेति ॥ साम्परायो मोक्षः । तत्राभिमुखो न भवतीत्य-साम्परायाभिमुखस्तम् । युद्धाभिमुखकामो न ज्ञानाभिमुखत्वं कथमित्यत उक्तम्– अश्वस्तनविदमिति ॥ श्वस्तनं भविष्यन्न वेत्तीत्यश्वस्तनवित् तम् । न विदुः श्वस्तन न विदुर्लोकालोकाविति श्रुतिः । श्वस्तनत्वमपीदृशमिति न वेत्तीत्यश्वस्तनवित् तं वा । कोऽसावेवंविध इत्यत उक्तम्– पशुमिति ॥ तत्त्वज्ञानरहितम् । अत्र सद् बुद्ध्यसद्बुद्धी द्वे यथासम्भवं विशेषणैस्तत्तदर्थतया ज्ञातव्ये । असद्बुद्धि-विवक्षायां पाशुपतागमज्ञानशून्यम् । अन्यत्रोक्तार्थम् । असद्बुद्धिपक्षेऽपि स्वमतानुसारेण मोक्षादिकं स्वस्यैवार्थत इदं समस्तमुपपन्नमिति ॥ ३९ ॥

प्रकाशिका

तत्सङ्गममभिनन्दति ॥ का न्विति पञ्चभिः । अरतिज्ञं शब्दादिविषयज्ञानरहितम् । एतत्कुत इत्यत उक्तम् । अकोविदमिति । शास्त्रजनितज्ञानशून्यमित्यर्थः । अत्रापिर् हेतुकथनायोक्तम् ॥ असाम्परायाभिमुखमिति । सांपरायो मोक्षस्तत्राभिमुखो न भवतीति असाम्परायाभिमुखस्तमित्यर्थः । हेत्वन्तरमप्याह ॥ अश्वस्तनविदमिति । श्वस्तनं भविष्यन्न वेत्तीत्यश्वस्तनविदत एव पशुं पशुतुल्यम् ॥३९।

धर्मो ह्यत्रार्थकामौ च प्रजानन्दोऽमृतं यशः ।

लोका विशोका विरजा यान् न केवलिनो विदुः ॥ ४० ॥

पदरत्नावली

इतोऽपि श्वस्तनोऽपि नास्त्येवेत्याह– धर्म इति ॥ अत्र भवति धर्मादयः सन्तीति हि यस्मात् तस्मात् । प्रजानन्दः पुत्रसुखम् अमृतं मोक्षः । अन्योन्यविरोधेन धर्माद्यनुष्ठानं न सुशकमिति भावेनाह– यानिति ॥ केवलिनो निष्किञ्चना उदरम्भरिजना वा ॥ ४० ॥

प्रकाशिका

अत्र गृहाश्रमे धर्मादयः सन्ति । प्रजानन्दः पुत्रसुखममृतं मोक्षो यान् गृहाश्रम-प्राप्यान् केवलिनो ब्रह्मचारिणो यतयो वा ॥ ४० ॥

पितृदेवर्षिमर्त्यानां भूतानामात्मनश्च ह ।

क्षेम्यं वदन्ति शरणं भवेऽस्मिन् यद् गृहाश्रमम् ॥ ४१ ॥

पदरत्नावली

सर्वाश्रमाणामुपजीव्यत्वाद् गृहाश्रम एव ज्यायानित्याह– पितृदेवेति ॥ आत्मनोऽस्य देहस्य क्षेम्यं मोक्षयोग्यं शरणं वदन्तीति यत् तस्मादिति शेषः ॥ ४१ ॥

प्रकाशिका

आत्मनोऽस्य देहस्य क्षेम्यं क्षेमाय योग्यं शरणमाश्रयं वदन्ति । यस्मात्तस्मादिति शेषः ॥ ४१ ॥

का नाम वीर विख्यातं वदान्यं प्रियदर्शनम् ।

न वृणीत पतिं प्राप्तं मादृशी त्वादृशं स्वयम् ॥ ४२ ॥

पदरत्नावली

किं बहुनोक्तेन ? फलितं वक्तीत्याह– का नामेति ॥ वदान्यं पुत्रकलत्रा-द्यभीष्टदानशीलम् । स्वयं प्राप्तत्वात् ॥ ४२ ॥

प्रकाशिका

वदान्यं दानशूरं स्वयं स्वयमेव प्राप्तम् ॥ ४२ ॥

कस्या मनस्ते भुजगेन्द्रभोगयोः स्त्रियो न सज्जेद् भुजयोर्महाभुज ।

योऽनाथवर्गाधिमलं घृणोद्धतस्मितावलोकेन चरस्यपोहितुम् ॥ ४३ ॥

पदरत्नावली

त्वादृशमित्युक्तं किञ्चिद् विशिनष्टि– कस्या मन इति ॥ अनाथवर्गस्या-स्मदादेराधिं मनोदुःखमपोहितुं चरसि । घृणया दययोद्धतमुजृम्भितं यत् स्मितं तत्पूर्वको योऽवलोकस्तेन दर्शनेन । कस्याः स्त्रियः ॥ ४३ ॥

प्रकाशिका

त्वादृशमित्युक्तं विशदयति ॥ कस्या इति । कस्या अपि स्त्रियो मनो न सज्जेत्सक्तं न भवेत् । सर्वासामपि मनः सक्तं भविष्यतीत्याशयः । यो भवान् अनाथवर्गा अनाथसमूहा अस्मदा-दयस्तेषामाधिं मनोमलमत्यन्तमपोहितुं सर्वत्र चरसि । केनापोहितुं घृणया दययोद्धतमुजृंभितं यत्स्मितं तत्पूर्वको योऽवलोकस्तेन ॥ ४३ ॥

नारद उवाच–

इति तौ दम्पती तत्र समुह्य समयं मिथः ।

तां प्रविश्य पुरीं राजन् मुमुदाते शतं समाः ॥ ४४ ॥

पदरत्नावली

परमफलितमाह– इतीति ॥ समयं प्रमाणपूर्वकं समुह्य संवादं कृत्वा । देहप्राप्तेः पूर्वं तदनन्तरं वा बाह्यार्थविवक्षयैतद् वचः । पुरीं देहम् । शतं समा इति शतं वर्षाण्यभ्यार्च्छदिति श्रुतेरर्थमनुकरोति । मुद हर्ष इति धातोर् हर्षशोकयोः सुखदुःखवद् बन्धुत्वादुभयं पर्यायेण बुद्धिपुरुषौ प्राप्तवन्तावित्यर्थः ॥ ४४ ॥

प्रकाशिका

समयं संकेतं समूह्य सम्यक् कृत्वा ॥ ४४ ॥

उपगीयमानो ललितं तत्र तत्र च गायकैः ।

क्रीडन् परिवृतः स्त्रीभिर्ह्रदिनीमाविशच्छुचौ ॥ ४५ ॥

पदरत्नावली

तत्र प्रथमं मोदप्रकारमाह– उपगीयमान इति ॥ जाग्रदाद्यवस्थायां तत्र तत्र प्रतीन्द्रियविषयं गायकलक्षणैः शब्दादिभिर्विषयैरुपगीयमानः सेव्यमानः । स्वप्नावस्थायां स्त्रीभिः केवलं मनोवृत्तिलक्षणाभिः परिवृतः । ‘स्त्रीभिर्वा यानैर्वा’ इति श्रुतेः । शुचौ तन्निमित्ते शोके प्राप्ते शीतला-मगाधतोयधारामिव सुषुप्तिकाले सच्छब्दवाच्यां ब्रह्मस्वरूपस्थितिमाविशत् सुप्तावस्थायामभूदित्यन्वयः । ललितं यथा तथा । अन्यत्र शुचौ ऋतुविशेषे ‘सता सौम्य तदा संपन्नो भवति’ इति श्रुतेः । सत्पुरुषः स्त्रीशब्दवाच्यैर्भक्त्यादिभिः परिवृतः, क्रीडन् विहरन् कालं यापयन्, ह्रदिनीं ह्रदिन्यां ब्रह्मनाड्यां हृदयस्थानेऽष्टदलपद्मे स्थितं श्रीनारायणमाविशद् अध्यायदित्यर्थः ॥ ४५ ॥

प्रकाशिका

शुचौ ग्रीष्मर्तौ ॥ ४५ ॥

सप्तोपरि कृता द्वारः पुरस्तस्यास्तु द्वे अधः ।

पृथग् विषयगत्यर्थं तस्यां यः कश्चनेश्वरः ॥ ४६ ॥

पदरत्नावली

देहाख्यं पुरं प्रसिद्धपुरसाम्येन वर्णयति– सप्तेति ॥ तस्याः पुर उपरि सप्तद्वारः कृताः । द्वे नेत्रे द्वे नासिके द्वौ कर्णौ वदनं चेति । अधो द्वे पायूपस्थे इति । कृत्यमाह– विषय-गत्यर्थमिति ॥ रूपादिविषयज्ञानार्थं निर्मिता इत्यर्थः । तस्यां पुर्यां कश्चनेश्वरो ऽनामरूपो लोक-विलक्षणः श्रीनारायणेऽस्तीत्यन्वयः । जीवो वा जगत्सामर्थ्योपेतत्वादिश्वर इत्युच्यते, देहस्वामित्वाद्वा । अल्पशक्त्यादिमत्त्वात् तुच्छत्वेन यः कश्चनेति ॥ ४६ ॥

प्रकाशिका

पुरो नवद्वारत्वमुक्तं विशदयति ॥ सप्तेति । पुर उपरि सप्तद्वारः कृताः । द्वेऽधः। विषया देशास् तस्यामीश्वरो यः कश्चन नियत इत्यर्थः ॥ ४६ ॥

पञ्चद्वारस्तु पौरस्त्या दक्षिणैका तथोत्तरा ।

पश्चिमे द्वे अमूषां ते नामानि नृप वर्णये ॥ ४७ ॥

पदरत्नावली

तत्रापि विभागमाह– पञ्चेति ॥ तासामुपरिद्वारां मध्ये पौरस्त्याः पुरस्ताद्भवाः पञ्चद्वारो नेत्रादय इत्यर्थः । पश्चाद् द्वे–एका दक्षिणकर्णलक्षणा दक्षिणा तथोत्तरा वामकर्णलक्षणा । पश्चिमे द्वे अधोभागे द्वे पायूपस्थे । अमूषां नवद्वाराम् ॥ ४७ ॥

प्रकाशिका

तन्मध्ये पञ्च द्वारः पौरस्त्याः पुरतो विद्यमानाः पूर्वदिगभिमुखा इत्यर्थः । दक्षिणा दक्षिणदिङ्मुखा उत्तरा उत्तरदिङ्मुखा पश्चिमे द्वेऽधोभागे द्वेऽमूषां नवद्वाराणाम् ॥ ४७ ॥

खद्योताविर्मुखी च प्राग्द्वारावेकत्र निर्मिते ।

विभ्राजितं जनपदं याति ताभ्यां द्युमत्सखः ॥ ४८ ॥

पदरत्नावली

खे आकाशे सति द्योतते रूपं गृह्णातीति खद्योता, खद्योतवद् द्योतत इति वा दक्षिणचक्षुर्लक्षणा । आविः प्रकाशे सति मुखयत्यभिमुखी भवतीति साविर्मुखी प्रकाशमुखी न तमो-मुखी तमसि रूपग्रहणाभावादिति वामचक्षुर्लक्षणा । ताभ्यां विभ्राजितं प्रकाशितं जनस्य द्रष्टुः पदमालम्बनं रूपाख्यं याति विषयीकरोति गृह्णातीत्यर्थः । कथम्भूतः ? द्युमानादित्यश्चक्षुर्लक्षणः सखा यस्य स तथा । चक्षुरिन्द्रियसहित इत्यर्थः । द्युमानादित्यस्तस्यावासहेतुत्वाच्चक्षुषोऽपि तन्नाम । ‘आदित्यश्चक्षुर्भूत्वाऽक्षिणी प्राविशत्’ इति श्रुतेः । ‘आदित्यो ह वै चक्षुस्तेनाऽनुगृहीतं रूपं गृह्णाति’ इति च ॥ ४८ ॥

प्रकाशिका

विभ्राजितं प्रकाशितं जनपदं विषयं द्युमांस्तन्नामा सखा यस्य तत्सहित इत्यर्थः । एवमग्रेऽपि ॥ ४८ ॥

नलिनी नालिनी च प्राग्द्वारावेकत्र निर्मिते ।

अवधूतसखस्ताभ्यां विषयं याति सौरभम् ॥ ४९ ॥

पदरत्नावली

नलो नाम श्वासः । सोऽस्या अस्तीति नलिनी । नालो दस्रभिधेयोऽस्या विद्यत इति नालिनी । नलनालौ श्वासोच्छ्वासौ । तयोर् विचारहेतुत्वान्नलिनी नालिनीति द्वे गोलके नासिकारन्ध्रे । अवागुपरि तिर्यग् धुनोतीत्यवधूतो वायुर् घ्राणेन्द्रियाभिमानी । तेन प्रेर्यमाणं घ्रणेन्द्रियमपि तच्छब्दवाच्यम् । तदेव सखा यस्य स तथा । घ्राणेन्द्रियसहित इत्यर्थः । सौरभं विषयं गन्धलक्षणं गृह्णाति ॥ ४९ ॥

प्रकाशिका

सौरभं सौरभाख्यं विषयं देशम् ॥ ४९ ॥

मुख्या नामपुरस्ताद् द्वास्तयाऽऽपणबहूदनौ ।

विषयौ याति पुरराट् रसज्ञविपणान्वितः ॥ ५० ॥

पदरत्नावली

पुरस्तान् मुख्या नाम द्वा अस्याच्छिद्रलक्षणाऽस्ति । पुरराट् पुरञ्जनस्तया द्वारा आपणबहूदनौ पण व्यवहार इति धातोर् वदनव्यापारः, बहूदनो नानाविधभोज्यजातम्, तौ याति व्यवहरति अभ्यवहरति च । रसज्ञो जिह्वेन्द्रियं विपणो वागिन्द्रियं ताभ्यामन्वितः ॥ ५० ॥

प्रकाशिका

पुरराट् पुरञ्जन आपणबहूदनौ तन्नामानौ देशौ ॥ ५० ॥

पितृभूर्नृप पुर्या द्वा दक्षिणेन पुरञ्जनः ।

राष्ट्रं दक्षिणपाञ्चालं याति श्रुतधरान्वितः ॥ ५१ ॥

पदरत्नावली

नाम्ना पितृभूः पातृत्वात् पितरो देवाः प्रिया भवन्त्यस्य यजमानस्य दक्षिण-कर्णलक्षणा शरीरलक्षणायाः पुर्या द्वारस्थितेन दक्षिणकर्णलक्षणेन द्वारेण उत्क्रान्तः पुरञ्जनो यजमानो दक्षिणपाञ्चालं दक्षिणानां देवानां लोकलक्षणं राष्ट्रं याति प्राप्नोति । पञ्चेन्द्रियाण्यलंयति भूषयति । अलं भूषण इति धातोः । पञ्चेन्द्रियाणामलंबुद्धिहेतुत्वादिति वा । पुरं ब्रह्मलक्षणं जनयति प्रादुर्भावयति प्रकाशयतीति पुरञ्जनस् तत्त्वज्ञानी दक्षिणपाञ्चालं निवृत्तशास्त्रं यात्यवगन्तुमिति वा । दक्षिणस्तत्व-ज्ञापनसमर्थः । इतिहासादिना सह पञ्चसङ्ख्योपेतो वेदः स एवालं तत्त्वज्ञानस्य नान्यापेक्षेति कृत्वा मध्यमपुरञ्जनो दक्षिणपाञ्चालं पञ्चविषयसंज्ञं राष्ट्रं याति । रन्तुमिव अयं पञ्चानां शब्दानां समूहः पाञ्चः स एवालं भोक्तुमिति बुद्धिहेतुत्वादिति कृत्वा । सर्वत्राप्ययमेव सखेत्याह– श्रुतधरेति ॥ श्रुतं लोकं शास्त्रं वा विषयं वा धारयतीति श्रुतधरः श्रोत्रेन्द्रियं, तेन सख्या सहितः ॥ ५१ ॥

प्रकाशिका

दक्षिणेन दक्षिणाभिमुखेन ॥ ५१ ॥

देवभूर्नाम पुर्या द्वा उत्तरेण पुरञ्जनः ।

राष्ट्रमुत्तरपाञ्चालं याति श्रुतधरान्वितः ॥ ५२ ॥

आसुरी नाम पश्चाद् द्वास्तया याति पुरञ्जनः ।

ग्राम्यकं नाम विषयं दुर्मदेन समन्वितः ॥ ५३ ॥

निर्ऋतिर्नाम पश्चाद्द्वास्तया याति पुरञ्जनः ।

वैशसं नाम विषयं लुब्धकेन समन्वितः ॥ ५४ ॥

पदरत्नावली

पुर्या वामकर्णलक्षणा । देवभूर्नाम द्वाःस्थितः प्रजादिरूपेण क्रीडादिगुणोपेत-त्वाद् देवः पितृगणः प्रियो भवत्यस्य श्राद्धादिकर्तुरिति तेनोत्तरेण वामकर्णलक्षणद्वारेणोत्क्रान्तः पुरञ्जन उत्तरपाञ्चालमूर्ध्वलोकप्राप्तिहेतुत्वादुत्तराः, उत्तरन्ति वितरन्ति ददतीत्युत्तराः पितरस्तेषां लोकलक्षणं राष्ट्रं याति । अत्रापि पूर्वोक्तेन सख्योपेतः । पुत्रलक्षणं पुरं जयतीति पुरुषप्रजननकर्मा लोको जीवः । उत्तरम् उत्कृष्टं पाञ्चालं प्रवृत्तशास्त्रमिति वा । अन्यस्तु पूर्वोक्त एव । किमेतत् प्रतीतार्थं परित्यज्य व्यत्यस्य कथने कारणमिति चेदुच्यते– ‘दक्षिणश्रोत्रमार्गेण देवलोकं व्रजत्यसौ । वामश्रोत्रेण पितृणामिति वेदविदो विदुः ॥’ इति प्रमाणम् ॥ असुरजनहितत्वादासुरी नाम पश्चाद्द्वाः शिश्नलक्षणाऽस्ति । तया द्वारा ग्राम्यकं नाम मैथुनकं सुखं विषयं यात्यनुभवति । दुष्टो मदो यस्य स तथा तेनोपस्थेन्द्रियेण सहितः । असूनामिन्द्रियाणां रतिहेतुत्वादासुरीति वा सुखहेतुत्वाद्वा सतामपि ग्राह्यम् ॥ निर्गच्छत्यस्मात् पुरीषलक्षणमलमिति निर्ऋतिर्नामाधोद्वा गुदलक्षणं छिद्रम् । वैशसं पुरीषोत्सर्गलक्षणं विषयं पापं हिंसालक्षणनरकं वा । लुब्धकेनार्वागिन्द्रियेण । कृच्छ्रेण मलमोचनादेषा संज्ञा ॥ ५२-५४ ॥

प्रकाशिका

उत्तरेण उत्तरदिगभिमुखेन ॥ ५२-५४ ॥

अन्धावमीषां पौराणां निर्वाक्योपस्करावुभौ ।

अक्षण्वतामधिपतिस्ताभ्यां याति करोति च ॥ ५५ ॥

पदरत्नावली

अमीषां द्वाराणां मध्ये उभौ निर्वाक्योपस्करौ पादो हस्तश्चान्धौ ज्ञानशून्यौ भवतः । निर्गतं वाक्यं यस्मात् स निर्वाक्यः पादः । कर्तुः पुरुषस्योपकरणभूतत्वादुपस्करो हस्तः । हस आदान इति धातोरादातृत्वात् । अक्षाणीन्द्रियाणि विद्यन्ते येषां तेऽक्षण्वन्तो जीवाः । तेषां पतिः पुरञ्जनस्ताभ्यां पादहस्ताभ्यां याति करोति चेत्यन्वयः ॥ ५५ ॥

प्रकाशिका

अन्धौ छिद्राभावात्पौराणां पुरसम्बन्धिनाममीषां द्वाराणां मध्ये उभौ निर्वाक्योप-स्करनामानौ पादहस्तस्थानीयौ अक्षण्वतामिन्द्रियवतामधिपतिः । पुरञ्जनः ॥ ५५ ॥

स्वयं त्वन्तःपुरगतो विषूचिना समन्वितः ।

मोहं प्रसादं हर्षं वा याति जायात्मजोद्भवम् ॥ ५६ ॥

पदरत्नावली

क्वचिद्धृदयाख्यान्तःपुरं गतो विष्वक् सर्वतोऽञ्चतीति विषूचि मनस्तेन सहितः स्वयं पुरञ्जनो जायात्मजेभ्य उद्भवो जन्म यस्य स तथा तं मोहाद्यन्यतमं यातीत्यन्वयः । जाया भक्तिर् आत्मजो ज्ञानम् । भक्तिज्ञाने तज्ज्ञानादुत्पन्नम् । प्रसीदत्यनेनेति प्रसादः परमानन्दः । मुह्यत्यनेनेति मोहो निरयः । हृष्यत्यनेनेति हर्षः स्वर्गस्तान् ॥ ५६ ॥

प्रकाशिका

विष्वक् सर्वतोंऽचतीति विषूचि मनस्तेन सहितः स्वयं पुरञ्जनः । जायात्मजेभ्य उद्भवो जन्म यस्य स तया तं मोहाद्यन्यतमं यातीत्यन्वयः । प्रसीदत्यनेनेति प्रसादः । परमानन्दो मुह्यत्यनेनेति मोहो निरयो हृष्यत्यनेनेति हर्षः स्वर्गस्तान् अस्मदुपलब्धे लिखितपुस्तके इदं व्याख्यानं नोपलभ्यते ॥ ५६ ॥

एवं कर्मसु संसक्तः कामात्मा वञ्चितोऽबुधः ।

महिषी यद् यदीहेत तत् तदेवान्ववर्तत ॥ ५७ ॥

क्वचित् पिबन्त्यां पिबति मदिरां मदविह्वलः ।

अश्नन्त्यां क्वचिदश्नाति जक्षत्यां सह जक्षति ॥ ५८ ॥

क्वचिद् गायति गायन्त्यां रुदन्त्यां रुदति क्वचित् ।

क्वचिद्धसन्त्यां हसति जल्पन्त्यामनुजल्पति ॥ ५९ ॥

पदरत्नावली

इदानीमसद्बुद्धेः प्रकारं दर्शयति– एवमिति ॥ ग्राम्यकर्मसु । काम्यन्त इति कामा विषयास्तेष्वात्मा मनो यस्य स तथा । वञ्चितो देवेनेति शेषः । अबुधो विवेकशून्यः । महिषी बुद्धिलक्षणा । मतं हिनस्तीति महिषी । अन्यत्र महितं ददातीति महिषी । यद्यत् कर्म कारयितुमीहेत तत्तत् कर्मान्ववर्तत अन्वकरोदेव ॥ तत् किम् ? तदाह– क्वचिदिति ॥ पिबन्त्यां पातुमिच्छन्त्या-मित्याद्यूह्यम् । अनेन सद्बुद्धिरपि ध्वनितेति ज्ञातव्यम् ॥ ५७,५८ ॥

प्रकाशिका

कर्मसु ग्राम्यकर्मसु काम्यन्त इति कामा विषयास्तेष्वात्मा मनो यस्य स तथा । वंचितः । देवेनेति शेषः । अबुधो विवेकज्ञानशून्यः । महितं ददातीति महिषी यद्यत्कर्म कारयितुमीहेत तत्तत्कर्मान्ववर्ततान्वकरोदेव इदमपि व्याख्यानं मातृकायां नोपलभ्यते प्राय इदं विजयध्वजीयमेवेति भाति ॥ ५७-५९ ॥

क्वचिद्धावति धावन्त्यां तिष्ठन्त्यामनुतिष्ठति ।

अनुशेते शयानायामन्वास्ते क्वचिदासतीम् ॥ ६० ॥

क्वचिच्छृणोति शृण्वन्त्यां पश्यन्त्यामनुपश्यति ।

क्वचिज्जिघ्रति जिघ्रत्यां स्पृशन्त्यां स्पृशति क्वचित् ॥ ६१ ॥

क्वचिच्च शोचतीं जायामनुशोचति दीनवत् ।

अनुघृष्टति संघृष्टां मुदितामनुमोदते ॥ ६२ ॥

प्रकाशिका

आसतीमासीनाम् इदञ्च व्याख्यानं नोपलभ्यते ॥ ६०-६२ ॥

विप्रलब्धो महिष्यैवं सर्वप्रकृतिवञ्चितः ।

नेच्छन्ननुकरोत्यज्ञः क्लैब्यात् क्रीडामृगो यथा ॥ ६३ ॥

तात्पर्यम्

‘देवजीवाभिमानी तु ब्रह्मैव तु चतुर्मुखः । मानुषाणां तु जीवानामभिमानी पुरञ्जनः । स तु राजा हरेः पुत्रस्त्वासुराणां कलिः स्वयम् । जीवसंसृतिवत्तस्मात्पुरञ्जनकथापि तु । तस्माज्जीवसृतिज्ञप्त्यै पुरञ्जनकथां मुनिः । नारदोऽश्रावयद्विद्वान्नृपं प्राचीनबर्हिषम् । प्रायस्तु तत्कथा जीवे स्थिता प्रत्येकशोऽपि तु । प्रत्येकं यत्तु युज्येत तदुन्नेयं यथा तथा । उक्तं भागव-तेऽप्येतत्पुराणे यावदिष्यते । प्रत्येकशस्तु जीवानां तदन्यत्तस्य केवलम्’ ॥ इति तन्त्रभागवते ।

‘ये पुरञ्जनभृत्याद्या भार्याद्याः सर्व एव च । तेऽपि मानुषबुध्द्यादेर्विज्ञेया अभिमानिनः । गायत्र्याद्यास्तु देवानां तेऽपि चैतेषु संस्थिताः । अलक्ष्मीद्वापराद्यास्तु आसुरास्तेऽपि मानुषाः’ इति च ।

‘दक्षिणश्रोत्रमार्गेण देवलोकं व्रजत्यसौ । वामश्रोत्रेण पितृणामिति वेदविदो विदुः’ ॥ इति प्रवृत्तितन्त्रे ॥ ६३ ॥

पदरत्नावली

तथाहि महोऽस्यास्तीति महि ब्रह्म तस्मिन्नित्योत्सवसमुद्रे हरौ सीदति विषयी-कृत्य वर्तत इति महिषी सद्बुद्धिस्तया विशेषेण प्रलब्धः प्राप्ताभीष्टकार्यलाभः । सर्वप्रकृतिवञ्चितो वञ्चितसर्वस्त्रीजनस्वभावः । अं विष्णुं जानातीत्यज्ञः । सद्बुद्ध्यधीनत्वात् क्रीडामृगत्वमपि युक्तम्

॥ ६३ ॥

॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुकृतायां

चतुर्थस्कन्धे पञ्चविंशोऽध्यायः ॥

प्रकाशिका

वञ्चिता सर्वप्रकृतिः स्वभावो यस्य सः सर्वप्रकृतिवञ्चितः सर्वैः प्रकृतिभि-र्मन्त्र्यादिभिर्वञ्चित इति वा । नेच्छन्ननिच्छन् क्लैब्यात्पारवश्यात् । अत्र पुरञ्जननामानं राजानं कल्पयित्वाऽविद्यमानैव तत्कथा पारोक्ष्येण जीवसंसारज्ञापनायोच्यत इत्याशङ्कां प्रमाणेनैव परिहरति ॥ देवजीवेति । देवाश्च ते जीवाश्च तेषामभिमानीत्यर्थः । ब्रह्मणः सर्वजीवाभिमानित्वेऽपि विशेषेण देवजीवाभिमानित्वमिति सूचनायाद्यस्तुशब्दः । तत्रापि तारतम्येनाभिमानित्वसूचनाय द्वितीयः । ब्रह्मैव न पुरञ्जनो नापि कलिरित्यर्थः । मानुषाणां त्वित्यत्र तुशब्दोऽवधारणार्थः । स त्वित्यत्र तुशब्दः प्रकृतत्वानुसन्धानार्थः । असुराणां कलिः स्वयं स्वयमेवाभिमानी न पुरञ्जन इत्यर्थः । अत्र कलि-ब्रह्मणोरुक्तिः प्रसङ्गात् । जीवसंसृतिवज्जीवसंसृतिकथावत् । तस्मान्मानुषजीवाभिमानित्वात् । पुरञ्जन-कथाऽपि प्रवर्तत इति शेषः । तुशब्दः प्रायश इत्यर्थे । तदन्यत्तस्य केवलमिति वक्ष्यमाणत्वात् । तस्मात्कथासाम्यात् । जीवसंसृतिज्ञप्त्यै । पारोक्ष्येणेति शेषः । प्रायस्तु प्राय एव । तत्कथा पुरञ्जनकथा । जीवे जीवविषये स्थिता । तत्प्रतिपादिकेति यावत् । प्रत्येकशोऽप्येकैकस्मिन्नपि । तुशब्दद्वयमवधारणे । यदेव प्रत्येकमुभयत्र युज्यते तदेव यथाऽस्ति तथैवोन्नेयं नेतरत् । भागवतेऽपि पुराणे एतत्पुरञ्जन-चरितमुक्तम् । तत्र तुशब्दोऽप्यर्थः । जीवानां प्रत्येकशोऽपि यावत्पुरंजनचरितमिष्यते युज्यते तावदेवो-न्नेयम् । तदन्यद्यज्जीवे न युज्यते तत्तस्य पुरंजनस्य केवलमसाधारणम् । उन्नेयमिति वर्तते । एतच्चोत्तरत्र प्रदर्यशिष्यामः ।

ननु पुरञ्जनस्य मानुषजीवाभिमानित्वात्तत्कथाया जीवसंसृतिज्ञापनार्थत्वेऽपि तद्भृत्यभार्यादिकथायाः कथं तदर्थत्वमित्याशङ्कायां तदप्युपपादयति ॥ ये इति । आद्यपदेन तत्सखीनां द्युमदादीनां ग्रहणम् । द्वितीयेनाद्यपदेन भार्याभृत्यदशकादीनां ग्रहणम् । बुद्ध्यादेरित्यादिपदेनेन्द्रियादिग्रहणम् । प्रसङ्गादाह ॥ गायत्र्याद्या इति । आद्यपदेन वारुण्यादेर्ग्रहणम् । तुशब्दोऽवधारणे । देवादीनामेव बुद्ध्यादेरभि-मानिनः । एतेषु मनुष्यबुद्ध्यादिषु चेत्यर्थे । अलक्ष्मीः कलिभार्या द्वापरं द्वापरयुगाभिमानी । आद्यशब्दः कालनेम्यादिसङ्ग्रहार्थः । असुरा असुरबुद्ध्याद्यभिमानिनो मानुषा मानुषबुद्ध्याद्यभिमानिनः । अत्र ‘‘पितृभूर्नृपपुर्याद्वा दक्षिणेन पुरञ्जनः । राष्ट्रं दक्षिणपाञ्चालं याति श्रुतधरान्वितः । देवभूर्नामपुर्याद्वा उत्तरेण पुरञ्जनः । राष्ट्रमुत्तरपाञ्चालं याति श्रुतधरान्वित’’ इति श्लोकद्वयस्य जीवपक्षे योजना । ‘‘पितृ-भूर्दक्षिणः कर्ण उत्तरो देवभूः स्मृतः । प्रवृत्तं च निवृत्तं च शास्त्रं पाञ्चालसंज्ञितम् । पितृयानं देवयानं श्रोत्रात् श्रुतिधरो व्रजेदि’’ति वक्ष्यति । तेन दक्षिणकर्णस्य पितृयानसाधनत्वं वामकर्णस्य देवयान-साधनत्वं प्रतीयते । न हि तत्सम्भवति । दक्षिणकर्ण एव देवलोकसाधनमन्त्रोपदेशादेः संप्रदायसिद्ध-त्वात् । अतो न तत्र यथाश्रुतक्रमः किन्तु यथायोग एवेत्याशयेन तत्तात्पर्यं प्रमाणेनैवाह ॥ दक्षिणश्रोत्रेति । पितॄणां लोकमिति बुद्ध्या विविक्तमनुवर्तते । तथा च पितृभूरुत्तरः कर्णो देवभूर्दक्षिणः कर्णः स्मृत इत्यन्वयः । पितृयानं पितृलोकमार्गमुत्तः रकर्णेन देवयानं देवलोकमार्गं दक्षिणकर्णेन व्रजेदिति तच्छ्लोकयोजना कर्तव्येत्याशयः । एतद्बलादेव पितृभूर्नृप पुर्याद्वा इति श्लोकद्वये दक्षिण-पाञ्चालमित्युत्तरश्लोके उत्तरपाञ्चालमिति पूर्वश्लोकेऽन्वितमिति ज्ञातव्यम् ॥ ६३ ॥

**॥ इति श्रीमद्वेदेशपूज्यपादशिष्येण यदुपतिना विरचितायां **

श्रीमद्भागवतटिप्पण्यां चतुर्थस्कन्धे पञ्चविंशोऽध्यायः ॥ ४-२५ ॥