२४ चतुर्विंशोऽध्यायः

विजिताश्वोऽथ राजाऽऽसीत् पृथुपुत्रः पृथुश्रवाः

अथ चतुर्विंशोऽध्यायः

मैत्रेय उवाच–

विजिताश्वोऽथ राजाऽऽसीत् पृथुपुत्रः पृथुश्रवाः ।

यवीयेभ्योऽददत् काष्ठा भ्रातृभ्यो भ्रातृवत्सलः ॥ १ ॥

पदरत्नावली

ईश्वराज्ज्ञानमन्विच्छेन्मोक्षमिच्छेज्जनार्दनादित्यतो मोक्षसिद्धये रुद्राज्ज्ञानोपदेश-प्रकारो ब्रह्मपदयोग्यानामृजूनां देवानामुत्तमाधिकारित्वं चेति द्वयमस्मिन्नध्याये निरूप्यते । तत्रादावे-तस्योपोद्घातमाह– विजिताश्व इति ॥ काष्ठा दिशः ॥ १ ॥

प्रकाशिका

इदानीं प्रचेतसां जनिं वक्तुं पृथुवंशपरंपरामाह ॥ विजिताश्व इत्यादिना । यवीयेभ्यः कनिष्ठेभ्यः । काष्टा दिशः ॥ १ ॥

हर्यक्षायादिशत् प्राचीं धूम्रकेशाय दक्षिणाम् ।

प्रतीचीं वृकसंज्ञाय तुर्यां द्रविणसे विभुः ॥ २ ॥

पदरत्नावली

तुर्यां चतुर्थीमुत्तराम् ॥ २ ॥

प्रकाशिका

तुर्यां चतुर्थीमुत्तराम् ॥ २ ॥

अन्तर्धानगतिं शक्राल्लब्ध्वाऽन्तर्धानसंज्ञितः ।

अपत्यत्रयमाधत्त शिखण्डिन्यां सुम्मतः ॥ ३ ॥

पदरत्नावली

अन्तर्धानगतिमदृश्यत्वविद्याम् । नाम्ना शिखण्डिन्यां भार्यायाम् ॥ ३ ॥

प्रकाशिका

अन्तर्धानगतिमदृश्यत्वसंपादकविद्यां शक्राल्लब्ध्वा । पृथोरश्वमेधाश्वविजयावसरे । नाम्ना शिखण्डिन्यां भार्यायाम् ॥ ३ ॥

पावकः पवमानश्च शुचिरित्यग्नयः पुरा ।

वसिष्ठशापादुत्पन्नाः पुनर्योगगतिं गताः ॥ ४ ॥

पदरत्नावली

पुरा पूर्वजन्मनि । अग्नीनां मनुष्ययोजनावुत्पत्तौ निमित्तमाह– वसिष्ठेति ॥ तत्कृत्यमाह– पुनरिति ॥ ४ ॥

प्रकाशिका

अपत्यत्रयमेवाह ॥ पावक इति । पुरा पूर्वजन्मन्यग्नीनां मनुष्ययोनावुत्पत्तौ निमित्तमाह ॥ वसिष्ठेति । योगगतिमग्नित्वम् ॥ ४ ॥

अन्तर्धानो नभस्वत्यां हविर्धानमविन्दत ।

य इन्द्रमश्वहर्तारं विद्वानपि न जघि्नवान् ॥ ५ ॥

पदरत्नावली

अन्तर्धानो विजिताश्व एव । तं विशिनष्टि– य इन्द्रमिति ॥ ५ ॥

प्रकाशिका

अन्तर्धानो विजिताश्वः पृथुपुत्रो नभस्वत्याम् । अन्यस्यां भार्यायाम् । यो ऽन्तर्धानः स चान्तर्धानः ॥ ५ ॥

राज्ञां वृत्तिकरादानं दण्डशुल्कादि दारुणम् ।

मन्यमानो दीर्घसत्रव्याजेन विससर्ज ह ॥ ६ ॥

पदरत्नावली

कर्माधिकारे स्थितस्य तस्य संन्यासप्रकारं वक्ति– राज्ञामिति ॥ ६ ॥

प्रकाशिका

राज्ञां वृत्तिं करदानादिभिर्दारुणां परपीडात्मिकां मन्यमानः । दीर्घसत्रः संन्यासः । तद्व्याजेन तत्स्वीकारेण विससर्ज ॥ ६ ॥

तत्रापि हंसं पुरुषं परमात्मानमात्मदृक् ।

यजंस्तल्लोकतामाप परमेण समाधिना ॥ ७ ॥

हविर्धानाद्धविर्धानी विदुरासूत षट् सुतान् ।

बर्हिष्मन्तं गयं शुक्लं कृष्णं सत्यं जितव्रतम् ॥ ८ ॥

पदरत्नावली

भगवदर्पणक्रियया क्रियमाणस्य कर्मण उत्पन्नज्ञानफलमाह– तत्रापीति ॥ हंसं निर्मलम् ॥ ७ ॥

प्रकाशिका

तत्रापि तस्मिन्नप्याश्रमे हंसं निर्मलम् । परमेण स्वयोग्येन ॥ ७,८ ॥

बर्हिष्मत् तु महाभागो हाविर्धानिः प्रजापतिः ।

क्रियाकाण्डेषु निष्णातो योगेषु च कुरूद्वह ॥ ९ ॥

पदरत्नावली

हरिर्धानपुत्रो बहिष्मत् कर्मकाण्डेषु प्रवर्तमानो निवृत्तिमार्गाविरोधेनोभयत्र निष्णातोऽभूदित्याह– बर्हिष्मत् त्विति ॥ ९ ॥

प्रकाशिका

हाविर्धानी हविर्धानपुत्रः । योगेषु हरिध्यानादिरूपेषु ॥ ९ ॥

यस्येदं देवयजनमनुयज्ञं वितन्वतः ।

प्राचीनाग्रैः कुशैरासीदास्तृतं वसुधातलम् ॥ १० ॥

पदरत्नावली

तस्य क्रियाकाण्डनैष्णात्यं विशदयति– यस्येति ॥ अनेन प्राचीनबर्हिरिति नाम च ध्वनयति । देवयजनं यज्ञक्षेत्रम् ॥ १० ॥

प्रकाशिका

निष्णातत्वम् आह ॥ यस्येति । देवयजनं यज्ञवाटम् । अनुयज्ञं प्रति यज्ञं वितन्वतः सतः प्राचीनाग्रैः कुशैरास्तृतमासीत् । अत एव प्राचीनबर्हिरिति नामास्येति भावः ॥ १० ॥

सामुद्रीं देवदेवोक्तामुपयेमे शतद्रुतिम् ।

यां वीक्ष्य चारुसर्वाङ्गीं किशोरीं सुष्ट्वलंकृताम् ॥ ११ ॥

परिक्रमन्तीमुद्वाहे चकमेऽग्निः शुकीमिव ।

विबुधासुरगन्धर्वमुनिसिद्धमहोरगाः ।

विजिताः स्युर्यया१ दिक्षु क्वणयन्त्यैव नूपुरैः ॥ १२ ॥

तात्पर्यम्

‘राजपुत्रीं शुकीमग्निरावर्तन्तीं प्रदक्षिणम् । आदायान्तरधाद्दानसमये मन्मथातुरः’ ॥ इति ब्राह्मे ॥ १२ ॥

पदरत्नावली

अपत्नीकस्यास्य यज्ञकरणं कथमिति शङ्कां निवारयितुमाह– सामुद्रीमिति ॥ समुद्रपुत्रीति वचनादयं विशेषो ज्ञातव्यः । देवदेवेन ब्रह्मणोक्ताम् । तां विशिनष्टि– यामिति ॥ शुकीमिव, यथा नाम्ना शुकीं राजपुत्रीमग्निः प्रदक्षिणीकुर्वाणां कामित्वाऽऽदायान्तरधात् तथा यामेना-मप्यादातुं शक्त्यभावेऽप्यग्निश्चकम इत्यन्वयः । ‘राजपुत्रीं शुकीमग्निरावर्तन्तीं प्रदक्षिणाम् । आदायान्तरधाद् दानसमये मन्मथातुरः ॥’ इति वचनादयं विशेषो ज्ञातव्यः ॥ अग्निश्चकम इति यन्नैतच्चित्रमिति भावेनाह– विबुधेति ॥ अग्नेरपि विबुधेष्वेकत्वात् । सूर्या नवोढा सूर्य विहर्तुं नासहेति श्रुतेः ॥ ११,१२ ॥

प्रकाशिका

सामुद्रीं समुद्रपुत्रीम् । देवदेवेन ब्रह्मणोक्तां नामतः शतद्रुतिम् । किशोरीं बालाम् ॥ अत्र शुकीमित्यस्य विवक्षितमर्थं प्रमाणेनैव दर्शयति ॥ राजपुत्रीमिति । शुकीमिव यन्नाम्ना शुकीं राजपुत्रीम् । अग्निः प्रदक्षिणीकुर्वाणां स्वप्रदक्षिणीमावर्तन्तीम् । अन्यस्मै दानसमये । तथा च शुकीमित्यस्य न पक्षिविशेषार्थकत्वं किन्तु काचनराजपुत्री शुकीति नाम्नी तामिवेति मूलार्थ इति भावः । सूर्ययेति पाठे नवोढयेत्यर्थः । विजिता अभिभूताः ॥ ११,१२ ॥

प्राचीनबर्हिषः पुत्राः शतद्रुत्यां दशाभवन् ।

तुल्यनामव्रताः सर्वे वेदस्नाताः प्रचेतसः ॥ १३ ॥

पदरत्नावली

तुल्यं नाम व्रतं च येषां ते तथा । किं तत् तुल्यं नामेत्यत्राह– प्रचेतस इति ॥ १३

प्रकाशिका

वेदस्नाता वेदपारगाः । धर्मस्नाता इति पाठे धर्मनिष्ठा इत्यर्थः । तुल्यं नामाह ॥ प्रचेतस इति ॥ १३ ॥

पित्राऽऽदिष्टाः प्रजासर्गे तपसेऽर्णवमाविशन् ।

दशवर्षसहस्राणि तपसाऽऽर्चंस्तपस्विनः ॥ १४ ॥

यदुक्तं पथि दृष्टेन गिरिशेन प्रसीदता ।

तद् ध्यायन्तो जपन्तश्च पूजयन्तश्च संयताः ॥ १५ ॥

विदुर उवाच–

प्रचेतसां गिरित्रेण यथाऽऽसीत् पथि सङ्गमः ।

यद्वाऽप्याह हरः प्रीतस्तन्नो ब्रह्मन् वदार्थवत् ॥ १६ ॥

पदरत्नावली

तत्कर्माह– पित्रादिष्टा इति ॥ एषां को गुरुः किं जप्यं किं ध्येयम् ? अत्राह– यदुक्तमिति ॥ संक्षेपेणोक्तं विस्तरतः श्रोतुं विदुरः पृच्छति– प्रचेतसामिति ॥ यद्वा किं वा । अर्थवत् प्रयोजनवत् ॥ १४-१६ ॥

प्रकाशिका

तुल्यव्रतमाह ॥ पित्रेति ॥ १४,१५,१६ ॥

सङ्गमः खलु विप्रर्षे शिवेन हि शरीरिणाम् ।

दुर्लभो मुनयो दध्युरसङ्गा यमभीप्सितम् ॥ १७ ॥

पदरत्नावली

पथिकानां पुरुषाणां तत्र सङ्गमः सुलभः स्यादतः किं चोद्यम् ? अत्राह– सङ्गम इति ॥ असङ्गा मुनयः सतामभीप्सितं यं दध्युस्तेन शिवेन सह सङ्गमः ॥ १७ ॥

प्रकाशिका

असङ्गा मुनयः सतामभीप्सितं यं दध्युस्तेन शिवेन सह संगमः ॥ १७ ॥

आत्मारामोऽपि यस्त्वस्य लोककल्पस्य राधसे ।

शक्त्या युक्तो विचरति घोरया१ भगवान् भवः ॥ १८ ॥

पदरत्नावली

जगतो निरोगत्वाय विचरतोऽपि शिवस्यात्मारामत्वेन निःस्पृहस्य सङ्गमेऽपि सम्भाषणं न सम्भाव्यत इत्याशयेनाह– आत्मारामोऽपीति ॥ यस्त्वस्य लोककल्पस्य जनस्य रोगान्मुक्तत्वस्य राधसे सिद्धये । तीव्रया शक्त्येत्यनेन सम्भाषणानुपपत्तिं सूचयति ॥ १८ ॥

प्रकाशिका

किञ्च यद्यपि यस्यात्मारामस्य । स्वस्थानान्निर्गमनमेवासम्भावितम् । लोकानुग्रहाय तत्सम्भवेऽपि तत्संगमभाषणादिकमसम्भावितम् । तस्य घोरशक्तियुक्तस्य तथैव लोकपर्यटनादित्यत आह ॥ आत्मारामोऽपीति ॥ लोककल्पस्य लोकरचनाया राधसे सिद्धये पालनाय । अथवा । लोकाय वैकुण्ठादिलोकप्राप्तये कल्पस्य समर्थस्य योग्यस्य राधसे संसिद्ध्यै घोरया वैरिनिवारणसमर्थया शक्त्या सामर्थ्येन युतो विचरति । अतः कथमेतेषां तत्सङ्गमभाषणादिकमसम्भावितमित्याशयः ॥ १८ ॥

मैत्रेय उवाच–

प्रचेतसः पितुर्वाक्यं शिरसाऽऽधाय साधवः ।

दिशं प्रतीचीं प्रययुस्तपस्यादृतचेतसः ॥ १९ ॥

पदरत्नावली

सम्भाषणस्य योग्यावस्थां वक्ष्यन्मैत्रेयः प्रचेतसां कथामादित आवर्तयति– प्रचेतस इति ॥ १९ ॥

प्रकाशिका

एवंविधस्यापि सम्भाषणादिकं वक्ष्यन् आदितः प्रचेतसां कथामाह ॥ प्रचेतस इति

॥ १९ ॥

समुद्रमुप विस्तीर्णमपश्यन् सुमहत् सरः ।

महन्मन इव स्वच्छं प्रसन्नसलिलाशयम् ॥ २० ॥

पदरत्नावली

समुद्रमुप समुद्रस्य समीपे विस्तीर्णं दक्षिणोत्तरायतं महतः कण्वस्य मुनेर्मन इव स्वच्छम् । यद्वा महतां श्रीनारायणस्य चरणारविन्दपरायणानां मनो यथा निर्मलं तथा ॥ २० ॥

प्रकाशिका

समुद्रमुप समुद्रस्य समीपे । विस्तीर्णं दक्षिणोत्तरायतम् । महतां हरिपरायणानां मन इव स्वच्छं निर्मलम् । प्रसन्नाः सलिलाशया मत्स्यादयो यस्मिन् ॥ २० ॥

नीलरक्तोत्पलाम्भोजकह्लारेन्दीवराकरम् ।

हंससारसचक्राह्वकारण्डवनिकूजितम् ॥ २१ ॥

पदरत्नावली

कतिपयैः श्लोकैः सरसः सेवनीयत्वं वक्ति– नीलेत्यादिना ॥ नीलोत्पलानां रक्तोत्पलानामब्जानामम्भोजानाम् इन्दीवराणां पद्मविशेषाणां कल्हाराणां सौगन्धिकानाम् आकर-मुत्पत्तिस्थानम् । ‘मद्गुः कारण्डवः प्लवः’ इत्यभिधानम् ॥ २१ ॥

प्रकाशिका

नीलोत्पलादीनानामाकरमुत्पत्तिस्थानम् । इन्दीवरपदं पद्मविशेषपरम् । कल्हारपदं सौगन्धिकपुष्पपरम् । कारण्डवो मद्गुः । ‘‘मद्गुः कारण्डवः प्लव’’ इत्यभिधानम् ॥ २१ ॥

मत्तभ्रमरसौस्वर्यहृष्टरोमलताङ्घ्रिपम् ।

पद्मकोशरजो दिक्षु विक्षिपत्पवनोत्सवम् ॥ २२ ॥

पदरत्नावली

मत्तभ्रमराणां सौस्वर्येण शोभनस्वरपरम्परया हृष्टरोमलतायुक्ता अङ्घ्रिपा वृक्षा यत्र तत् तथा तद्रोमलोमत्वमित्यर्थः । दिक्षु पद्मकोशरजो विक्षिपतः प्रसारयतः पवनस्योत्सवः शैत्यमान्द्यसौरभ्यलक्षणो यस्मिंस्तथा तत् । ‘कोशोऽस्त्री मुकुले दिव्ये शास्त्रे’ इति यादवः ॥ २२ ॥

प्रकाशिका

मत्तभ्रमराणां सौस्वर्येण हृष्टरोमाणो हृष्टत्वचो लताङ्घ्रिपा यस्मिन् । दिक्षु पद्म-कोशरजो विक्षिपतः । प्रसारयतः । पवनस्योत्सवः शैत्यमांद्यसौरभ्यलक्षणो यस्मिंस्तत्तथा तत् ॥ २२ ॥

तत्र गान्धर्वमाकर्ण्य दिव्यमार्गमनोहरम्१ ।

विसिस्मिरे राजपुत्रा२ मृदङ्गपणवाद्यवत् ॥ २३ ॥

तर्ह्येव सरसस्तस्मान्निष्क्रामन्तं सहानुगम् ।

उपगीयमानममरप्रवरं विबुधानुगैः ॥ २४ ॥

पदरत्नावली

दिव्यो मार्गो येषां ते दिव्यमार्गा देवास्तेषां मनोहरम् । दिव्यमार्गमिति पाठे दिव्याः क्रीडादिके हेतवो मार्गाः सप्तस्वरभेदा यस्मिंस्तत् तथा । तादृशं गान्धर्वं गानं मृदङ्गादीना-मनुकूलम् ॥ २३ ॥

प्रकाशिका

दिव्यो मार्गो येषां ते दिव्यमार्गा देवास्तेषां मनोहरम् । दिव्यमार्गमिति पाठे दिव्या लोकविलक्षणा मार्गाः सप्तस्वरभेदा यस्मिंस्तत्तथा । तादृशं गन्धर्वगानम् । पुनः कथं भूतम् । मृदंगपणवादिवाद्यमनुसृत्य वर्तमानमाकर्ण्य विसिस्मिरे विस्मयं प्राप्ताः ॥ २३,२४ ॥

तप्तहेमनिकर्षाभं शितिकण्ठं त्रिलोचनम् ।

प्रसादसुमुखं वीक्ष्य प्रणेमुर्जातकौतुकाः ॥ २५ ॥

स तान् प्रपन्नार्तिहरो भगवान् धर्मवत्सलः ।

धर्मज्ञान् शीलसम्पन्नान् प्रीतान् प्रीत उवाच ह ॥ २६ ॥

पदरत्नावली

तप्तहेमनिकर्षस्तप्तसुवर्णकर्षणपाषाणस् तद्वन्निर्मलम् । नैर्मल्ये दृष्टान्तोऽयं न तु धावल्ये । तप्तहेमनिकर्षाभ इतोऽन्यः कश्चिदित्यतस्त्रिलोचनमिति ॥ प्रणतिफलमाह– स तानिति

॥ २५,२६ ॥

प्रकाशिका

तप्तहेमनिकर्षस्तप्तसुवर्णकषणपाषाणस्तद्वन्निर्मलं शितिर्नीलः कण्ठो यस्य

॥ २५,२६ ॥

रुद्र उवाच –

यूयं बर्हिषदः पुत्रा विदितं वश्चिकीर्षितम् ।

अनुग्रहाय भद्रं व एवं मे दर्शनं कृतम् ॥ २७ ॥

पदरत्नावली

वो युष्माकमनुग्रहायैवंविधं भद्रं कल्याणं दर्शनं कृतमित्यन्वयः । अनेन तीव्रया भक्त्या विचरतीत्यस्य परिहार उक्तो भवति सम्भाषणयोग्यरूपदर्शनादिति ॥ २७ ॥

प्रकाशिका

वो युष्माकमनुग्रहाय मे भद्रं दर्शनं कृतमित्यनेन दुष्टान्प्रत्येव घोरशक्तियुक्तश्चरति न धर्मशीलान्प्रतीत्युक्तपरिहारो भवति ॥ २७ ॥

यः परस्तमसः साक्षात् त्रिगुणाज्जीवसंज्ञितात् ।

भगवन्तं वासुदेवं प्रपन्नः स प्रियो हि मे ॥ २८ ॥

पदरत्नावली

विष्णुभक्तानस्मान् कथं भवाननुगृह्णातीति चेत् तत्राह– यः पर इति ॥ यो जीवसंज्ञितात् त्रिगुणात् तमसो लक्ष्मीतत्त्वात् साक्षात् परस्तं भगवन्तं वासुदेवं शरणं प्रपन्नः स मे प्रियो हि यस्मात् तस्माद् भवन्तो मदनुग्रहयोग्या इत्यर्थः । ‘स जीवमायां प्रकृतिं सिसृक्षतीम्’ । ‘तम आसीत् तमसा गू•मग्रेऽप्रकेतम्’ इति वचनद्वयेन लक्ष्मीतत्त्वस्य जीवशब्दवाच्यत्वं च सिद्धम् ॥ २८ ॥

प्रकाशिका

विष्णुभक्तेष्वस्मासु कथं त्वदनुग्रह इत्यत आह ॥ य इति । तमसो लक्ष्मीतत्त्वात्त्रिगुणात्त्रिगुणाभिमानिनो जीवसंज्ञिताद् एतैस्तु नामभिर्वाच्या श्रीरित्युदाहृतप्रमाणेन जीवशब्दवाच्यात् । हि यस्मात्तस्माद्वोऽनुग्रहायेत्यन्वय इत्यर्थः ॥ २८ ॥

स्वधर्मनिष्ठः शतजन्मभिः पुमान् विरिञ्चतामेति ततः परं हि माम् ।

अव्याकृतं भागवतोऽथ वैष्णवं पदं यथाऽहं१ विविधैः कलात्यये ॥ २९ ॥

तात्पर्यम्

मां श्रियम् । ‘ऋजवो नाम ये देवा योग्या ब्रह्मपदस्य तु । त एव शतजन्मानि विशेषोपासका हरेः । प्राप्य ब्रह्मपदं पश्चाच्छ्रियं प्राप्यानुमोदिताः । तया ततो हरिं यान्ति वसन्ति हरिसन्निधौ । अनादिकालभक्ताश्च ज्ञानिनस्ते न संशयः । विशिष्टा ज्ञानभक्त्यादौ सर्वजीवनिकायतः । सर्वदापि विशेषेण शतजन्मप्रयत्नतः । स्वपदप्राप्तिरुद्दिष्टा ततो मुक्ति-रवाप्यते । तथैव चत्वारिंशद्भिः पदं शैवं च जन्मभिः । विंशद्भिरैन्द्रं दशभिरन्येषा-मप्युदीरितम्’ ॥ इति षाड्गुण्ये ॥ २९ ॥

पदरत्नावली

इतोऽप्यनुगृह्णामीति वक्तुमृजूनामपि बहुजन्मसाध्यो भगवत्प्रसादः किमुता-न्येषामिति ध्वनयन् विरिञ्चपदप्राप्तिसाधनसामग्रीमाह– स्वधर्मेति ॥ वैराग्यभक्तिज्ञानादयः स्वधर्मास्तेषु निष्ठा नितरां स्थितिर्यस्य स तथा स ऋजुष्वेकः पुमान् शतजन्मभिरेकोनशतजन्मभ्यः पूर्वकालमारभ्य संचीर्णहर्युपासाजनितभगवत्प्रसादेन विरिञ्चतामेति ब्रह्मपदं प्राप्नोतीत्यन्वयः । ततः परं ब्रह्मपदानु-भवानन्तरं मां श्रियमेति । हिशब्देन श्रीर्द्वारमात्रं ब्रह्मण इति सूचयति । ‘अव्याकृतं विशति यर्हि गुणत्रयात्मा कालं परं स्वमनुभूय’ इत्युक्तेरव्याकृतं निर्विकारं लक्ष्मीतत्त्वमित्यर्थः । ‘ऋजवो नाम ये देवा योग्या ब्रह्मपदस्य तु । त एव शतजन्मानि विशेषोपासका हरेः ॥ प्राप्य ब्रह्मपदं पश्चाच्छ्रियं प्राप्यानुमोदिताः । तया ततो हरिं यान्ति वसन्ति हरिसन्निधौ ॥ अनादिकालभक्ताश्च ज्ञानिनस्ते न संशयः । विशिष्टा ज्ञानभक्त्यादौ सर्वजीवनिकायतः ॥ सर्वदाऽपि विशेषेण शतजन्मप्रयत्नतः । स्वपदप्राप्तिरुद्दिष्टा ततो मुक्तिरवाप्यते ॥’ इति निर्णायकवचनादुक्त एवार्थो नापरः । उक्तलयं विशिनष्टि– भागवत इति ॥ अथ श्रियं प्रविश्य भागवतो भगवद्भिर्भाग्यवद्भिर्युक्तो ब्रह्मा यथार्हं विविधैः कार्यकारणसङ्घातैः सह कलात्यये षोडषकलात्मकशरीरलयोपलक्षितजगत्प्रलये वैष्णवपदमपरिच्छिन्नं भगवत्स्वरूपमेतीत्यन्वयः । अस्मदादयोऽप्यनेनैव व्याख्याताः । तथा हि यथा ऋजुष्वेकः पुमान् बहुजन्मसञ्चीर्णपुण्यसञ्चयेन ब्रह्मपदं प्राप्यानुभूय श्रीद्वारा सायुज्यलक्षणां मुक्तिमाप्नुत इति, तथाऽहं चत्वारिंशज्जन्मभिरार्जितैः सुकृतैः शैवं पदं समवाप्यानुभूय, तथेन्द्रोऽपि विंशद्भिर्जन्मभिरापादितैः पुण्यैरैन्द्रं समेत्यानुभूय, तथेन्द्रादन्ये दशभिर्जन्मभिरुत्पादितैः शुभैः स्वस्वयोग्यं पदं प्राप्य तत्तत्पद-योग्यभोग्यसुकृतं भुक्त्वा ब्रह्मणा सह विमुक्तिमाप्नुम इति । तदुक्तम्– ‘तथैव चत्वारिंशद्भिः पदं शैवं च जन्मभिः । विंशद्भिरैन्द्रं दशभिरन्येषामप्युदीरितम् ॥’ इति । यथाहमिति पाठे यथाहं श्रीहरिप्रसादेन शैवं पदमाप्तोऽस्मि तथा ऋजुष्वेकः पुमान् शतजन्मभिर् विरिञ्चतामेतीति योज्यम् । विदे हि रुद्रो रुद्रियं महित्वमिति श्रुतिश्च ॥ २९ ॥

प्रकाशिका

ननु तव भगवद्भक्तत्वे इदं स्यात्तदेव कथमित्याशङ्कायां दृष्टान्तेन स्वस्य भगवद्भक्तत्वमनादित एव सिद्धमस्तीत्याह ॥ स्वधर्मनिष्ठ इति । अत्र मामित्यस्यास्मच्छब्दरूपत्वे प्रमाणविरोधमालोच्याभिप्रेतार्थमाह ॥ मां श्रियमिति । तथा च माशब्दो श्रीवाचकः । इन्दिरा लोकमाता मेत्यभिधानात् । एवं मामित्येकस्य पदस्यार्थमुक्त्वा समग्रश्लोकतात्पर्यं प्रमाणेनैवाह ॥ ऋजवो नामेति । अनेन स्वधर्मनिष्ठ इत्यादिकमृजुजीवपरम् । एकवचनं समुदायापेक्षमिति दर्शयति । तुशब्देन ब्रह्मपदस्येतरपदापेक्षयाऽतिशयं सूचयति । शतजन्मानि शतसंख्याकब्रह्मकल्पान् । कालाध्वनोरत्यंतसंयोगे द्वितीया । अनेन शतजन्मभिरित्येतदुक्तार्थम् । हरेर्विशेषोपासका यस्याः सकाशाज्जिज्ञासुत्वा-पेक्षयाऽ-परोक्षज्ञानानन्तरं विशेषेणोपासका इत्यर्थः । अनेन स्वधर्मनिष्ठ इत्येतदुक्ततात्पर्यम् । ब्रह्मपदं प्राप्येत्यनेन विरिञ्चतामेतीत्येतदुक्तार्थम् । ततः परं मामित्यस्यार्थः ॥ पश्चाच्छ्रियं प्राप्येति । श्रीप्राप्तिश्चानुमोदन-मात्रमित्याशयेनोक्तं तयाऽनुमोदिता इति । अव्याकृतमित्यस्यार्थस् ततो हरिं यान्तीति । अथ कालात्यये वैष्णवं पदमेतीत्यस्य तात्पर्यं वसन्ति हरिसन्निधाविति । ऋजुजीवस्वरूपं दर्शयन्नुक्तमेव विशदयति ॥ अनादिकालेति । ज्ञानिनः सर्ववेदार्थज्ञानिनः सर्वदा विशिष्टा अपीत्यन्वयः । अपरोक्ष-ज्ञानं यस्मिन् जन्मनि जातं तदारभ्य शतजन्मप्रयत्नत इत्यर्थः । अत्र मुक्तिप्राप्त्यभिप्रायेण शतजन्म-प्रयत्नत इत्युक्तम् । स्वपदप्राप्तिविवक्षायाञ्च एकोनशतजन्मप्रयत्नत इति व्याख्येयम् । मूले यथेत्यस्य स्वधर्मनिष्ठ इत्यादिना सम्बन्धः । अहमित्यत्र तथैवेत्यध्याहृत्य योजनीयमित्याशयेन तत्तात्पर्यमाह ॥ तथैवेति । जन्मभिर्ब्रह्मकल्पैः । अत्र पञ्चाशद्ब्रह्मणस्तथा रुद्रस्येत्यनुव्याख्यानविरोधस्तु पञ्चशतां ब्रह्मणां कालात्पूर्वमेवेति सुधायां व्याख्यातत्वान्न शङ्कनीयः । पदं प्राप्यत इति सर्वत्रानुवर्तते । अन्येषां सूर्यादीनाम् ॥ ततश्चायं श्लोकार्थः ॥ यथा पुमानृजुजीवसमुदायो भागवतोऽनादितो ज्ञानभक्त्यादि-संपन्नोऽपि विशेषेणापरोक्षज्ञानानन्तरं शतजन्मभिः शतसङ्ख्याकब्रह्मकल्पैः स्वधर्मनिष्ठो विशेषेण हर्युपासनादिरूपस्वयोग्यधर्मनिष्ठावान् । तज्जनितभगवत्प्रसादेन विरिञ्चतामेति ब्रह्मपदं प्राप्नोति । ततः परं ब्रह्मपदानुभवानन्तरं मां श्रियमेति । अनुज्ञां प्राप्तुमिति शेषः । हीत्यनेनात्र प्रमाणप्रसिद्धिं दर्शयति ॥ अथ तदनुज्ञानन्तरमव्याकृतं वासुदेवमुपैति । अत्र विरिञ्चताप्राप्तिरेकोनशतजन्मभिर्वासुदेव प्राप्तिरेव शतजन्मभिरिति ज्ञातव्यम् । अथ प्रलयकल्पात्यये लिङ्गशरीरभङ्गे सति वैष्णवं पदं श्वेतद्वीपादिरूपमेति । तत्रैव वसतीत्यर्थः । तथाऽहं रुद्रपदयोग्यो जीवोऽनादितो भागवतोऽप्यपरोक्षज्ञानानन्तरं विविधैर्हर्यु-पासनादिधर्मैः स्वपदं रुद्रपदं प्राप्य हरिं प्राप्तो भविष्यति । यथार्हमिति पाठे यथायोग्यं वैष्णवपदमेतीति व्याख्येयम् । तदाऽपि यथातथाशब्दावध्याहृत्यैवोक्तरीत्या व्याख्येयम् । तथा च ऋजुजीववद्रुद्रपदयोग्या-नामप्यनादितो हरिभक्त्यादिमत्त्वेन प्रमाणसिद्धत्वाद्रुद्रपदप्राप्तिमतो मम भगवद्भक्तिरस्त्येवेत्याशयः

॥ २९ ॥

अथ भागवता यूयं प्रियाः स्थ भगवान् यथा ।

न मे भागवतानां च प्रेयानन्योऽस्ति कर्हिचित् ॥ ३० ॥

तात्पर्यम्

अथ एवमनादिभक्तोऽहं यतो ऽतः प्रिया यूयम् ॥ ३० ॥

पदरत्नावली

ततः प्रकृते किं फलितम् ? अत्राह– अथेति ॥ अथैवमुक्तप्रकारेणानादि-कालमारभ्य भगवद्भक्तोऽहं यस्मात् तस्माद् भागवता भगवद्भक्तत्वाद् यूयं मे प्रियाः स्थ । यथा भगवानित्यधिकदृष्टान्तः । न केवलं यूयमेव मत्प्रियाः, अन्येऽपि भगवद्भक्ता(मत्प्रिया) इत्याह– न म इति ॥ भागवतानां सकाशात् । चशब्दात् प्रेम्णो निरुपचरितत्वमाह । अनेनासुरेभ्यो वरदानेन तत्प्रीतिरौपचारिकीति दर्शितम् । यद्वा युष्माकमपि भागवत एव प्रियो नापरोऽन्यथा भागवतत्वहानि-रित्याशयेनाह– न म इति ॥ मम भागवतानां युष्माकं च भागवतादन्यः प्रेयान् नास्तीत्यन्वयः । अनेन युष्माकं चाहमपि प्रिय इति ध्वनितम् ॥ ३० ॥

प्रकाशिका

अथ भागवता यूयमित्यत्राथशब्दस्य योग्यमर्थं दर्शयति ॥ अथेति । तथाचाथ-शब्दोऽत इत्यर्थक इत्युक्तं भवति । एवमनादिभक्त इति पूर्वश्लोकोक्तानुवादः । यत इत्यध्याहार इति ज्ञातव्यम् ॥ ततश्चायं श्लोकार्थः ॥ यत एवं च ऋजुजीववदहमनादिभक्तोऽथातो भागवता भगवद्भक्त-त्वाद्यूयं मे प्रियाः स्थ । अत्राधिकदृष्टान्तमाह ॥ भगवान्यथेति । भगवतः स्वप्रियत्वं दृष्टान्ततयोक्तं विशदयति ॥ नम इति । मेऽनादिभक्तस्यान्येषां भागवतानां च भगवन्तं विनाऽन्यः पदार्थः प्रेयान् अतिशयेन प्रियः कर्हिचित्कदाऽपि नास्ति । अतस्तद्दृष्टान्तेन यूयमपि मत्प्रियाः स्थेत्यर्थः ॥ ३० ॥

इदं विविक्तं जप्तव्यं पवित्रं मङ्गलं परम् ।

निःश्रेयसकरं चापि श्रूयतां यद् वदामि वः ॥ ३१ ॥

मैत्रेय उवाच–

इत्यनुक्रोशहृदयो भगवानाह ताञ्छिवः ।

बद्धाञ्जलीन् राजपुत्रान् नारायणपरो वचः ॥ ३२ ॥

पदरत्नावली

सुप्रसन्नेन भवता यत्किञ्चिदुपदिश्यते चेद् भवत्प्रियत्वमानुभाविकं स्यादित्यस्य वाक्यस्यावसरमददान आह– इदमिति ॥ अनेन बहुपुरश्चरणमन्तरेण क्षिप्रं सत्यं फलतीत्युक्तं भवति ॥ न केवलं प्रतिज्ञामात्रं किन्तूपदिष्टं चेत्याह– इतीति ॥ अनुक्रोशेत्यादिविशेषणेनानुग्रहातिशयं द्योतयति । किञ्चोपदेशकाले शिष्याणामित्थम्भावं सूचयति– बद्धाञ्चलीनिति ॥ ३१,३२ ॥

प्रकाशिका

विविक्तमसंकीर्णं यथा भवति तथा ॥ ३१,३२ ॥

रुद्र उवाच–

जितं व आत्मविद्धुर्याः स्वस्तये स्वस्तिरस्तु वः ।

भवतां राधसे राध्यं सर्वस्मा आत्मने नमः ॥ ३३ ॥

तात्पर्यम्

‘सर्वान्तर्यामिकत्वात्तु सर्वनामा जनार्दनः । न तु सर्वस्वरूपत्वात्सर्वेशोऽसौ हरिर्यतः’ ॥ इति ब्रह्मतर्के ॥ ३३ ॥

पदरत्नावली

स्वोपदेशः फलितो युष्माकमिति भावेनाह– जितमिति ॥ हे आत्मविद्धुर्याः परमात्मज्ञानिषु श्रेष्ठा वो जितं, सर्वमिति शेषः । कुतः? स्वस्तये भगवदुपासनाख्यसत्कर्मणे मयोपदिष्टमिति यत् तस्मादिति शेषः । ‘प्रशस्ते कर्मणि तथा सच्छब्दः पार्थ युज्यते’ इति स्मृतिः । किं च भगवति भगवतां भक्तिरनुदिनमेधतामिति भावेनाह– स्वस्तिरिति ॥ युष्माकं हरौ स्वस्तिः समीचीनसद्भावः सती भक्तिरस्तु । ततश्च तया भक्त्या भवतां राधसे सिद्धये । भगवत्तत्वं राध्यं पूज्यम् । कथम् ? सर्वस्मै सर्वान्तर्यामिणे आत्मने स्वामिने नम इत्येतावदेवास्माकं शक्यं नातोऽन्यदिति सङ्कल्प्येत्यर्थः । ‘सर्वान्तर्यामिकत्वात् तु सर्वनामा जनार्दनः । न तु सर्वस्वरूपत्वात् सर्वेऽशोसौ हरिर्यतः ॥’ इति वचनात् सर्वनामा । न जगदात्मत्वमनेनोच्यत इत्यर्थः ॥ ३३ ॥

प्रकाशिका

आदरेण स्वोक्तश्रवणाय श्रोतॄनभिनन्दन् तेषु स्वानुग्रहं व्यंजन् कर्तव्यमाह ॥ जितमिति । हे आत्मविद्धुर्याः परमात्मज्ञानिषु श्रेष्ठाः । वो युष्माभिः सर्वं जितम् । स्वस्तये समीचीनस्थिताये । स्वरूपानन्दलाभायेति यावत् । स्वस्तिः समीचीना स्थितिर्हरिभक्त्यादिमत्ताऽस्तु । भवतां भवद्भी राधसे सर्वमनोभीष्टसिद्ध्यै राध्यं मयोच्यमानस्तोत्रपाठादिना पूजा कार्येत्यर्थः । अथ स्तोत्रमुपदिशति ॥ सर्वस्मा इत्यादिना । अत्र सर्वस्मै सर्वरूपायेति व्याख्याननिरासाय तदर्थं प्रमाणेनैवाह ॥ सर्वान्तर्यामिकत्वादिति । तुशब्दोऽवधारणे । सर्वनामा सर्वेतिशब्देन प्रतिपाद्यः । अवधारणव्यावर्त्यं दर्शयति ॥ न त्विति । नैवेत्यर्थः । यतो हरिः सर्वेशो वेदादावुदीर्यत इत्यर्थः । तथा च सर्वस्मै सर्वजगदन्तर्यामिणे आत्मने स्वामिने नम इति मूलार्थ इत्यभिप्रायः ॥ ३३ ॥

नमः पङ्कजनाभाय भूतसूक्ष्मेन्द्रियात्मने ।

वासुदेवाय शान्ताय कूटस्थाय स्वरोचिषे ॥ ३४ ॥

पदरत्नावली

इदानीं ध्येयस्वरूपमुपदिशति– नमः पङ्कजनाभायेत्यादिना ॥ भूतानि पञ्चभूतानि पञ्चभूतसूक्ष्माणि शब्दादीनि इन्द्रियादीनि श्रोत्रादीनि पतित्वात् सततं व्याप्य तिष्ठतीति । अत सातत्यगमन इति धातुः । तस्मै ॥ ३४ ॥

प्रकाशिका

भूतानि वियदादीनि शब्दादीनीन्द्रियाणि श्रोत्रादीनि तेष्वात्मने व्याप्ताय शान्ताय सुखपूर्णायाक्रूरायेति वा ॥ ३४ ॥

संकर्षणाय सूक्ष्माय दुरन्तायान्तकाय च ।

नमो विश्वप्रबोधाय प्रद्युम्नायान्तरात्मने ॥ ३५ ॥

पदरत्नावली

दुरन्ताय अन्तत्रयवर्जिताय । विश्वप्रबोधाय पूर्णज्ञानाय, विश्वस्य प्रबोधो यस्मादिति वा स तथा, तस्मै ॥ ३५ ॥

प्रकाशिका

दुरन्तायान्तत्रयवर्जिताय । विश्वस्य प्रबोधो यस्मात्तस्मै ॥ ३५ ॥

नमो नमोऽनिरुद्धाय हृषीकेशेन्द्रियात्मने ।

नमः परमहंसाय पूर्णाय निभृतात्मने ॥ ३६ ॥

पदरत्नावली

हृषीकमिन्द्रियं प्रोक्तमित्यतो हृषीकेशो जीवस्तस्य इन्द्रियस्वामिने । किं च इन्द्रियमिन्द्रस्य विद्यमानं यच्च किं च तस्याऽऽत्मा स्वामी, हृषीकेशश्चायमिन्द्रियात्मा चेति विग्रहः, तस्मै । निभृतात्मने स्तिमितरूपस्य ॥ ३६ ॥

प्रकाशिका

हृषीकाणामीशः प्रेरकश्चासाविन्द्रियात्मा चेन्द्रियस्वामी तस्मै । इन्द्रिय-स्वामित्वोपपादनायैव हृषीकेश इति हेतुगर्भविशेषणम् । हंसाय शुद्धाय । निभृतात्मने वृद्धिह्रासशून्याय

॥ ३६ ॥

स्वर्गापवर्गद्वाराय नित्यं शुचिषदे नमः ।

नमो हिरण्यवीर्याय चातुर्होत्राय तन्तवे ॥ ३७ ॥

पदरत्नावली

शुचावग्नौ सीदति तिष्ठतीति शुचिषत् तस्मै । योऽग्नौ तिष्ठन्निति श्रुतेः । हिनोति दुःखं रतिं यापयतीति हिरण्यं, तादृशं वीर्यं यस्य स तथा तस्मै । स्वर्णवर्णरेतस इति वा । चतुर्षु होतृषु स्थित्वा तैः क्रियमाणं यत्कर्म तत्कर्तृत्वाच्चातुर्होत्रस्तस्मै । तन्तवे व्याप्ताय सन्ततिप्रवर्तकाय वा ॥ ३७ ॥

प्रकाशिका

शुचौ वायौ सीदति तिष्ठतीति शुचिषत्तस्मै । हिरण्यवीर्याय हिरण्यात्मक-ब्रह्माण्ड-जनकवीर्याय । चातुर्होत्राय चतसृषु होतृषु नियामकतया स्थिताय । तन्नाम्ने ॥ ३७ ॥

नम ऊर्ज इषे त्रय्याः पतये यज्ञरेतसे ।

तृप्तिदाय च जीवानां नमः सर्वरसात्मने ॥ ३८ ॥

पदरत्नावली

ऊर्जे पित्रन्नदात्रे । इषे देवान्नदात्रे, इच्छारूपाय वा । यज्ञे रेतो रतिर्यस्य स तथा तस्मै । सर्वरसात्मने सर्वरसानां दात्रे ॥ ३८ ॥

प्रकाशिका

इषे देवान्नस्थाय तन्नाम्ने । यज्ञरेतसे । अत्र रेतःशब्दः कारणपरः । तथा च यज्ञकारणसोमान्तर्गताय तन्नाम्ने चेत्यर्थः । स हि देवानां पितॄणां चान्नं तृप्तिं ददातीति तृप्तिदो मनुष्याद्यन्नं तत्स्थाय तन्नाम्ने च । मधुरादिसर्वरसस्थाय । तन्नाम्ने चेत्यर्थः ॥ ३८ ॥

सर्वसत्त्वात्मदेहाय विशेषाय स्थवीयसे ।

नमस्त्रैलोक्यपालाय सहओजोबलाय च ॥ ३९ ॥

पदरत्नावली

सर्वसत्त्वानां सर्वप्राणिनामात्मदा ईहा चेष्टा यस्य स तथा तस्मै । आत्मानं ददातीत्यात्मदा । य आत्मदेति श्रुतेः । सर्वप्राणिष्वात्मदेहस् तत्तदङ्गुष्ठमात्रस्वरूपं यस्य स तथा तस्मै, इति वा । विशेषाय विशिष्टाय । पृथिव्यां स्थित्वा तस्याः सर्वस्माद् विशेषं करोतीति वा । गुणगुणिनोरभेदाभिप्रायेण सह इत्याद्युक्तम् । सहस्तितिक्षाशक्तिः । ओजोऽवष्टम्भशक्तिः । बलं बाह्वाद्यवयवशक्तिः ॥ ३९ ॥

प्रकाशिका

सर्वसत्त्वेषु सर्वप्राणिषु निविष्ट आत्मनः स्वस्य देहो यस्य । अनेन सर्वस्मै इत्युक्तमेव विवृतमिति ज्ञातव्यम् । यद्वा । सत्त्वं ज्ञानानन्दादिसाधुभावः । सर्वशब्दः पूर्णपरः । तथा च पूर्णज्ञानानन्दाद्यात्मकदेहायेत्यर्थः । विशिष्यत इति विशेषस्तस्मै विशिष्टायेत्यर्थः । सह ओजोबलेषु स्थिताय तन्नामकाय च ॥ ३९ ॥

अर्थलिङ्गाय नभसे नमोऽन्तर्बहिरात्मने ।

नमः पुण्याय लोकाय अमुष्मै भूरिवर्चसे ॥ ४० ॥

पदरत्नावली

अर्थः शास्त्रं वेदाख्यं लिङ्गं ज्ञापकं प्रमाणं यस्य स तथा तस्मै । अर्थस्य पुरुषार्थस्य लिङ्गं हेतुस्तस्मा इति वा । नभसे आकाशवदसङ्गाय । न भस्यते प्रकाश्यते न ज्ञायत इति वा । भस भक्षणदीप्त्योरिति धातुः । पुण्याय पुनानाय । लोकाय प्रकाशाय । अमुष्मै अधिदैववासिने । पुण्याय लोकाय स्वर्गादिलोकप्रदात्रे वा ॥ ४० ॥

प्रकाशिका

अर्थलिङ्गाय शास्त्रादिना सर्वपुरुषार्थज्ञापकाय । अर्थो महदादिकार्यं लिङ्गं ज्ञापकं यस्येति वा । कर्तारं विना महदादिकार्यासम्भवात् । नभसे नभोऽन्तर्गतायाकाशवदसङ्गाय तन्नम्न । अन्तर्बहिरात्मने ब्रह्माण्डस्यान्तर्बहिःस्थितस्वरूपाय । पुण्याय लोकाय पुण्यलोकस्थाय तन्नाम्ने च । अमुष्मै स्वर्गस्थाय तन्नाम्ने ॥ ४० ॥

प्रवृत्ताय निवृत्ताय पितृदेवाय कर्मणे ।

नमो धर्मविपाकाय मृत्यवे दुःखदायिने१ ॥ ४१ ॥

पदरत्नावली

प्रवृत्तिनिवृत्तिमार्गप्रवर्तकत्वात् तस्मै । पितृदेवेषु च स्थित्वा तत्तद्योग्यकारण-वत्त्वात् तत्तच्छब्दवाच्याय । कर्मणे विशेषाय क्रियारूपाय वा । धर्मविपाकाय पुण्यफलप्रदाय । मृतेरुद्गतो मृत्युस्तस्मै । मृत्यौ स्थित्वा तत्करणाद् वा मृत्युस्तस्मै । दुःखदाय, असुरेभ्य इति शेषः । दुःखदायिने इति पाठे ‘दुरशोभनदुःखयो’ इति यादवः । खं सुखमिति श्रुतिः । दुःखं दायति शोषयतीति दुःखदायी । तस्मा इति वा । दै शोषण इति धातुः ॥ ४१ ॥

प्रकाशिका

एवं प्रवृत्तायनिवृत्ताय कर्मण इत्येदपि व्याख्येयम् । पितृदेवाय पितृदेवस्थाय तन्नाम्ने च । धर्माणां विपाकः फलं यस्मात्तस्मै । धर्मफलप्रदायेत्यर्थः । मृत्यवे मृत्युकारणाय तत्स्थाय तन्नाम्ने दुःखदायिने ॥ ४१ ॥

नमस्त आशिषामीश मनवे कारणात्मने ।

नमो धर्माय बृहते कृष्णायाकुण्ठमेधसे ॥ ४२ ॥

पदरत्नावली

हे ईश आशीषां कारणात्मने । मनवे मननशीलाय, मन्त्रवाच्याय वा ॥ ४२ ॥

प्रकाशिका

मनवे ज्ञानरूपाय ॥ ४२ ॥

पुरुषाय पुराणाय साङ्ख्ययोगेश्वराय च ।

शक्तित्रयसमेताय मीढुषेऽहङ्कृतात्मने ॥ ४३ ॥

पदरत्नावली

साङ्ख्यं यथार्थज्ञानम्, योग उपायोऽष्टाङ्गविशिष्टो वा, तयोरीश्वराय । शक्तित्रयसमेताय ज्ञानक्रियेच्छाशक्तियुक्ताय । मीढुषे वीर्यवते अभीष्टदात्रे वा । अहंकृते रुद्रे आत्मा मनो यस्य स तथा तस्मै ॥ ४३ ॥

प्रकाशिका

साङ्ख्यं यथार्थज्ञानं योगोऽष्टाङ्गस्तयोरीश्वराय । ज्ञानेच्छाक्रियारूप-शक्तित्रय-समेताय श्रीभूदुर्गारूपभार्यात्रययुक्तायेति वा । मीढुषे भक्ताभिलषितसेचकाय । अहङ्कृते रुद्रे आत्मा मनो यस्य तस्मै ॥ ४३ ॥

चेतआकूतिरूपाय नमो वाचोविभूतये ।

दर्शनं नो दिदृक्षूणां देहि भागवतार्चितम् ॥ ४४ ॥

पदरत्नावली

चेतस आकूतिरभिप्रायस्तं रूपयति समर्थयति इति चेतआकूतिरूपस्तस्मै । वाचो विविधा भूतिः सृष्टिर्येन तस्मै । किमभिप्रेत्य स्तुतमिति तत्राह– दर्शनमिति ॥ कीदृशं दर्शनम् ? साकारविषयं निराकारविषयं वा ? द्वितीये गगनवद् व्याप्तमुत घटाकाशवत् परिमितम् ? पक्षद्वयमप्य-नभीष्टमनधिकारात् । तस्मात् प्रथम एव पक्षः । तत्रापि रूपाणामानन्त्यादीदृशं रूपं प्रकाशयेत्याहुः– भागवतार्चितमिति ॥ यदेतदीदृशं तत् स्वीयं पदं रूपं प्रदर्शयेत्यन्वयः ॥ ४४ ॥

प्रकाशिका

चेतो ज्ञानमाकूतिरभिप्रायस्तयो रूपं स्वरूपं यस्मादुभयप्रदायेत्यर्थः । वाचः शब्दराशेर्विभूतिर्विविधाभूतिः सृष्टिर्यस्मात् । अलुक्समासोऽयम् । भागवतार्चितं रूपं दिदृक्षूणां नो दर्शनं देहीत्यन्वयः ॥ ४४ ॥

रूपं प्रियतमं स्वानां सर्वेन्द्रियगुणाञ्जनम् ।

स्निग्धप्रावृड्घनश्यामं सर्वसौन्दर्यसंग्रहम् ॥ ४५ ॥

पदरत्नावली

सर्वसौन्दर्याणां संग्रहं पात्रम् ॥ ४५ ॥

प्रकाशिका

कीदृशं तद्रूपमित्यपेक्षायां रूपं वर्णयन् पुनरेव तदाह ॥ प्रियतममित्यादिना प्रदर्शयेत्यन्तेन । सर्वेन्द्रियाणां गुणा विषयास्तेषामञ्जनं व्यञ्जकम् । स्निग्धः प्रावृषि यो घनस्तद्वच्छामम् । सर्वेषां सौन्दर्याणां सङ्ग्रहो यस्मिन् ॥ ४५ ॥

चार्वायतचतुर्बाहुं सुजातरुचिराननम् ।

पद्मकोशपलाशाक्षं सुन्दरभ्रु सुनासिकम् ॥ ४६ ॥

पदरत्नावली

सुजातं कोमलं विदुरित्यभिधानम् ॥ ४६ ॥

प्रकाशिका

चारव आयताश्चत्वारो बाहवो यस्मिन् । सुजातं कोमलं विदुरित्यभिधानात् सुजातं कोमलं रुचिरमाननं यस्मिन् । पद्मकोशान्तर्गतानि पलाशानि पत्राणि तद्वदक्षिणी यस्मिन् ॥ ४६ ॥

सुद्विजं सुकपोलास्यं समकर्णविभूषितम् ।

प्रीतिप्रहसितापाङ्गमलकैरुपशोभितम् ॥ ४७ ॥

लसत्पङ्कजकिञ्जल्कदुकूलं मृष्टकुण्डलम् ।

स्फुरत्किरीटवलयहारनूपुरमेखलम् ॥ ४८ ॥

पदरत्नावली

शोभना द्विजा दन्ता यस्य तत् सुद्विजम् ॥ कर्णाभरणानां बहुत्वद्योतनाय मृष्टकुण्डलमिति पुनर्वचनम् ॥ ४७,४८ ॥

प्रकाशिका

शोभना द्विजा दन्ता यस्मिन् । सुकपोलमाननं यस्मिन् । समौ कर्णौ विभूषणं यस्य कुण्डलयोरग्रे वक्ष्यमाणत्वात् । प्रीत्या प्रहसितयुक्तोऽपाङ्गो यस्मिन् ॥ ४७,४८ ॥

शङ्खचक्रगदापद्ममालामण्युत्तमर्द्धिमत् ।

सिंहस्कन्धमुरो बिभ्रत् सौभगग्रीवकौस्तुभम् ॥ ४९ ॥

पदरत्नावली

शङ्खादयो यस्मिंश्चिह्नितास् तच्छङ्खचक्रगदापद्ममालामणि । उत्तमा ऋद्धयोऽस्य सन्तीत्युत्तमर्द्धिमत् । सौभगेत्युभयत्र सम्बध्यते । सौभाग्ययुक्तौ ग्रीवाकौस्तुभौ यस्मिंस्तद् उरो बिभ्रद्, विस्तीर्णमिति शेषः ॥ ४९ ॥

प्रकाशिका

मणिः कौस्तुभः शङ्खादिभिर्मण्यन्तैरुत्तमा ऋद्धिरुत्कर्षो यस्य तत् । सौभगयुक्ता ग्रीवा येन स सौभगग्रीवः । तादृशः कौस्तुभो यस्मिन्नुरसि स तथा तदुरो बिभ्रत् ॥ ४९ ॥

श्रियाऽनपायिन्याऽऽक्षिप्तनिकषाश्मोरसोल्लसत् ।

पूररेचकसंविग्नवलिमत्पल्लवोदरम् ॥ ५० ॥

पदरत्नावली

संक्षिप्तमुरो विशिनष्टि– अनपायिन्येति ॥ नित्यया श्रिया आक्षिप्तं सन्निहितं च निकषाश्मा स्वर्णघर्षणपाषाणस्तद्वद् वर्तमानमुर आक्षिप्तनिकषाश्मोरः, तेनोल्लसत् । श्वासानां पूरकरेचकाभ्यां संविग्नाः सञ्चलिता वलयो रेखा अस्य सन्तीति पूरकरेचकसंविग्नवलिमत् तच्च पल्लवेनाङ्कुरदलेन सदृशं तत् तथा ॥ ५० ॥

प्रकाशिका

पुनरप्युरो वर्णयति ॥ श्रियेति । अनपायिन्या नित्यमुक्तया । श्रियाऽऽक्षिप्त-स्तिरस्कृतो निकषाश्मा स्वर्णघर्षणपाषाणो येन तादृशेनोरसा लसच्छोभमानम् । पूरकरेचकौ श्वासोच्छ्वासौ ताभ्यां संविग्नाः सञ्चलिता वलयो रेखा अस्य सन्तीति तत्तथा । पल्लवतुल्यमुदरं यस्मिंस्तत्तथा ॥ ५० ॥

प्रतिसङ्क्रामयद् विश्वं नाभ्याऽऽवर्तगभीरया ।

श्यामश्रोण्यधिरोचिष्णुदुकूलस्वर्णमेखलम् ॥ ५१ ॥

पदरत्नावली

दक्षिणावर्तेन गभीरया निम्नया नाभ्या विश्वं प्रतिसङ्क्रामयद् ग्रसदिव स्थितम्

॥ ५१ ॥

प्रकाशिका

दक्षिणावर्तेन गभीरया निम्नया नाभ्या बहिर्निर्गतं विश्वं प्रतिसङ्क्रामयद् पुनः प्रवेशयदिव स्थितम् । श्यामश्रोण्या श्यामवर्णनितम्बप्रदेशेनाधिकं रोचिष्णु यद्दुकूलं पीताम्बरं तत्र स्वर्णमयी मेखलानि यस्मिन् तत्तथा ॥ ५१ ॥

समचार्वङ्घ्रिजङ्घोरुनिम्नजानुसुदर्शनम् ।

पदा शरत्पद्मपलाशरोचिषा नखद्युभिर्नोतुरघं विधुन्वता ।

प्रदर्शय स्वीयमपास्तसाध्वसं पदं पुरोमार्गगुरुस्तमोजुषाम् ॥ ५२ ॥

पदरत्नावली

समानानि चारूणि अङ्घ्र्यादीनि यस्मिंस्तत् तथोक्तम् । सुदर्शनं सुचक्षुः । नखद्युभिर्नखानां तेजोभिर् नोतुः स्तोतुरघं पापं विधुन्वता नाशयता पदोपलक्षितः । पुरोमार्गगुरु-रुत्क्रान्तस्य अर्चिरादिमार्गोपदेष्टा त्वम् । कीदृशानां नः ? तमोजुषाम् अज्ञानिनाम् । पुर इत्यस्मात् पदान्वयो वा । प्रदर्शयेत्यन्वयः । कीदृशस्त्वं तमोजुषामज्ञानिनां पुरोमार्गगुरुर् वैकुण्ठपुरस्य मार्गोपदेष्टा

॥ ५२ ॥

प्रकाशिका

अङ्घ्री चोरूच निम्ने उन्नते जानुनी च सुदर्शने चक्षुषी च समानि चारुण्यङ्घ्र्यादीति यस्मिन् । नखद्युभिर्नखानां तेजोभिर्नोतुर्नखस्तोतुरघं पापं विधुन्वता नाशयता शरदि यत्पद्मं तत्पलाश-वद्रोचिर्यस्य तेन पदा युतम् । अपास्तसाध्वसं निरस्तभयं स्वीयं पदं रूपम् । अस्माकं पुरः प्रदर्शयेति

॥ ५२ ॥

एतद् रूपमनुध्येयमात्मशुद्धिमभीप्सताम् ।

यद्भक्तियोगोऽभयदः स्वधर्ममनुतिष्ठताम् ॥ ५३ ॥

पदरत्नावली

विनियोगमाह– एतदिति ॥ आत्मनः स्वस्य शुद्धिः संसारमुक्तिलक्षणा तामिच्छताम् । इतोऽन्यथाऽस्मच्छुद्धिर्न स्यादित्यतो– ध्येयमिति ॥ वर्णाश्रमादिविहितस्वधर्म एव मुक्तिसाधनमिति भ्रान्तिं वारयति– यद्भक्तियोग इति ॥ वर्णाश्रमादिविहितस्वधर्मं कुर्वतां पुंसां भगवद्भक्तियोगो नित्याभयप्रद इति यावत् ॥ ५३ ॥

प्रकाशिका

अनुध्येयं योग्यतानुसारेण ध्येयम् । आत्मनः स्वस्य शुद्धिं मुक्तिम् । यद्यस्मा-द्भक्तियोगो भक्तियुक्तध्यानयोगोऽभयदो मोक्षदः ॥ ५३ ॥

भवान् भक्तिमतां लभ्यो दुर्लभः सर्वदेहिनाम् ।

स्वाराज्यस्याप्यभिमता एकान्तेनात्मविद्गतिः ॥ ५४ ॥

तात्पर्यम्

स्वाराज्यस्य इन्द्रादेः ॥ ५४ ॥

पदरत्नावली

तस्मादभक्तिमतां दुर्लभो भवान् सर्वदेहिनां भक्तिमतां लभ्य इति न केवलं मुक्त्यर्थमस्मदादेर्ध्येयं किंत्विन्द्रादेरपीत्यभिप्रेत्याह– स्वाराज्यस्येति ॥ स्वः स्वर्गे राज्यं यस्येन्द्रादेर् आत्मविद् आत्मज्ञः परमात्मा ‘तदात्मानमेवावेदहं ब्रह्मास्मीति’ श्रुतेः । तस्य गतिर्मुक्तिलक्षणा एकान्तेन नियमेनाभिमता अविप्रतिपन्ना । मुक्त्यर्थमेव भक्तिर्न स्वर्गाद्यर्थमित्यतो वाऽऽह– स्वाराज्य-स्येति ॥ इन्द्रादेरित्यध्याहार्यम् । इन्द्रादेः स्वाराज्यस्यावाप्तावपि । आत्मवित् परमात्मा गम्यतेऽनयेति आत्मविद्गतिर्भक्तिर्या त्वेकान्तेनाभिमतेत्यन्वयः । यद्वा आत्मविदां परमात्मज्ञानिनां गतिरूपा या भक्तिर्यात्वेकान्तेनाभिमतेत्यन्वयः । यद्वा आत्मविदां परमात्मज्ञानिनां गतिरूपा या भक्तिर्यादृशी तादृशीति । ‘भक्त्या त्वनन्यया शक्यः’ इति स्मृतेः ॥ ५४ ॥

प्रकाशिका

भक्तेरावश्यकतामुपपादयति ॥ भवानिति । दुर्लभः । भक्तिहीनानामिति शेषः । भवान्सर्वदेहिनां भक्तिमतां लभ्यः । न केवलं मोक्षार्थमावश्यकी भक्तिरपि त्विन्द्रादेः स्वार्गाद्यधिपत्त्यार्थ-मपीत्याह ॥ स्वाराज्यस्यापीति । अत्रापेक्षितं पूरयति ॥ स्वाराज्यस्येति ॥ ततश्चायमर्थः ॥ इन्द्रादेः स्वाराज्यस्य स्वर्गाधिपत्यस्यापि प्राप्तौ । एकान्तेन नियमेनात्मविद्गतिरात्मविदां परमात्मज्ञानिनां गतिर्हेतुः । भक्तिरिति यावत् । अभिमता साधनतया ज्ञानिनां संमतेति ॥ ५४ ॥

त्वां दुराराध्यमाराध्य सतामपि दुरापया ।

एकान्तभक्त्या को वाञ्छेत् पादमूलं विना बहिः ॥ ५५ ॥

पदरत्नावली

भगवदिच्छाविनाभूतत्वाद् इन्द्रादिना स्वर्गादिकं तद्भक्त्या कामितम् । न स्वतः । अतो बुद्धिमता न स्वतन्त्रेणान्यज् ज्ञायत इति भावेनाह– दुराराध्यमिति ॥ सतामपि दुरापया । बहिरैहिकम् ॥ ५५ ॥

प्रकाशिका

एतादृश्या भक्त्या युक्तो नान्यकामनां करोतीत्याह ॥ त्वामिति । बहिस्तुच्छं स्वर्गादिकम् ॥ ५५ ॥

यत्र निर्विष्टमरणं कृतान्तो नाभिमन्यते ।

विश्वं विष्टम्भयन् वीर्यशौर्यविस्फुरितभ्रुवा ॥ ५६ ॥

पदरत्नावली

पादमूलं विशिनष्टि– यत्रेति ॥ अरणं शरणम् । वीर्यशौर्याभ्यां विस्फूर्जितया स्फुरितया भ्रुवा विश्वं विष्टम्भयन् वशे कुर्वन् ॥ ५६ ॥

प्रकाशिका

तत्र हेतुमाह ॥ यत्रेति । यत्र पादमूलेऽरणं शरणं निर्विष्टं प्रविष्टं कृतान्तो यमो नाभिमन्यते ममायमिति नाभिमानं करोति । किं कुर्वन् । वीर्यं प्रभावः शौर्यमुत्साहस्ताभ्यां विस्फूर्जितया भ्रुवा विश्वं विष्टंभयन्विशेषेण स्तम्भयन् । वशीकुर्वन्निति यावत् ॥ ५६ ॥

क्षणार्धेनाऽपि तुलये न स्वर्गं नापुनर्भवम् ।

भगवत्सङ्गिसङ्गस्य मर्त्यानां किमुताशिषः ॥ ५७ ॥

तात्पर्यम्

‘सङ्गो भागवतैर्भूयानपुनर्भवमात्रतः । यतो विशिष्टमानन्दं मुक्तौ जनयति स्फुटमि’ति च ॥ ५७ ॥

पदरत्नावली

भक्त्या यत् फलं स्वर्गादिकं न तुलय इत्यन्वयः । भागवतसङ्गलब्धया भक्त्या मुक्तावानन्दोद्रेकलाभाभिप्रायेणेति तात्पर्यम् । तदुक्तम्– ‘सङ्गो भागवतैर्भूयानपुनर्भवमात्रतः । यतो विशिष्टमानन्दं मुक्तौ जनयति स्फुटम् ॥’ इति ॥ ५७ ॥

प्रकाशिका

त्वत्पादमूलं प्रविष्टस्य कृतान्तभयाभाव इति किं वाच्यम् । यतस्त्वद्भक्तसङ्ग एव तादृशफलप्रद इत्याशयेनाह ॥ क्षणार्धेनेति । भगवतस्तव सङ्गिनां सङ्गस्य क्षणार्धेन जायमानं सुखं स्वर्गं न तुलये स्वर्गसमं न गणयामि । अपुनर्भवं मोक्षं च न तुलये । मर्त्यानामाशिषो राज्यादीन्न तुलय इति किमुत । आशिषामतितुच्छत्वज्ञापनाय मर्त्यानां मरणशीलानामित्युक्तम् । अत्र भगवत्सङ्गिसगस्य साधनभूतस्य कथमपुनर्भवपदोक्तमोक्षलक्षणसाध्यापेक्षयोत्तमत्त्वमुक्तमित्याशङ्कां प्रमाणेनैव परिहरति ॥ सङ्ग इति । अपुनर्भवमात्रतः संसाराभावमात्रत इत्यर्थः । जनयति प्रकटयति । तथा च मूलेऽपुनर्भव-शब्दः संसारनिवृत्तिमात्रपरो न विशिष्टानन्दाविर्भावपरोऽपीति । अतो न कोऽपि शंकेत्याशयः ॥५७॥

अथानघाङ्घ्र्योस्तव कीर्तितीर्थयोरन्तर्बहिः स्नानविधूतपाप्मनाम् ।

भूतेष्वनुक्रोशसुसत्त्वशीलिनां स्यात् सङ्गमोऽनुग्रह एष नस्तव ॥ ५८ ॥

तात्पर्यम्

अङ्घ्र्योर्जातयोः कीर्तितीर्थयोः ॥ ५८ ॥

पदरत्नावली

ननु सत्सङ्ग एवं फलोऽस्तु । ततो युष्माकं किमपेक्षितम् । अत्राह– अथेति ॥ यस्मात् त्वद्भक्तानां सङ्ग एवंविधफलोऽथास्मात् तवाङ्घ््रयोर्जातयोः कीर्तितीर्थयोर् भागवतादि-शास्त्रश्रवणलक्षणा कीर्तिः । तीर्थं विष्णुपद्यादि तयोरन्तर्बहिःस्नानाभ्यां विधूतपाप्मनामत एव भूतेषु अनुक्रोशसु सत्त्वशीलिनांसात्विक स्वभावानां सतां सङ्गमो नोऽस्माकं स्यात् । अतोऽनेन वयं कृतार्था इत्यत उक्तम्– अनुग्रह इति ॥ ५८ ॥

प्रकाशिका

भगवत्संगिनां स्वरूपं दर्शयंस्तत्सङ्गमो भूयादित्याशास्ते ॥ अथेति । अत्राङ्घ्र्योः कीर्तितीर्थयोरिति सामानाधिकरण्यं बाधितमिव प्रतीयते । अतोऽत्र विवक्षिततात्पर्यं दर्शयति ॥ अङ्घ्र्योर्जातयोरिति । तथा चाङ्घ्रिपदम् अङ्घ्रिजातपरम् । अतो न सामानाधिकरण्यानुपपत्तिरिति भावः । यथाहुः । ‘‘यस्माद्यज्जायते चाङ्गाल्लोकवेदादिकं हरेः । तन्नामवाच्यमङ्गं तद्यथा ब्रह्मादिकं मुखमि’’ति जातयोरित्यध्याहारो वा । अङ्घ्र्योः कीर्तिशब्दोदितशास्त्रश्रवणजनकत्वं विषयतयेति ज्ञातव्यम् ॥ तथा चायमर्थः ॥ यत एवं विशिष्टानन्दजनको भगवत्सङ्गिसङ्गोऽथ तस्मात् । हे अनघ पापहर । तवाङ्घ्र्योरङ्घ्रिजातयोः कीर्तितीर्थयोः । भागवतादिसच्छास्त्रश्रवणलक्षणा कीर्तिस्तीर्थं विष्णुपद्यादि । तयोः क्रमेणान्तर्बहिः स्नानाभ्यामवगाहाभ्यां विधूतपाप्पनामत एव भूतेष्वसज्जनव्यतिरिक्तेष्वनुक्रोशः कृपा सुसत्त्वं शोभनान्तःकरणं ताभ्यां शीलं स्वभावो येषामस्तीति ते तथा तेषाम् । सुतत्त्वशीलानामिति पाठे सुष्टु परापरतत्त्वविचारस्वभावानामित्यर्थः । एष एव नोऽस्माकं तवानुग्रहोऽनुग्रहज्ञापकः ॥ ५८ ॥

न यस्य चित्तं बहिरर्थविभ्रमं मनोगुहायां च निविष्टमाविशेत् ।

यद्भक्तियोगानुगृहीतमञ्जसा मुनिर्विचष्टे ननु तत्र ते पदम् ॥ ५९ ॥

पदरत्नावली

सत्सङ्गयाञ्चायाः कोऽभिप्राय इत्यत आह– न यस्येति ॥ यद्यदा सत्सङ्ग-मस्तत्र तदा सत्सङ्गमे भक्तियोगेनानुगृहीतं यस्य पुंसश्चित्तं स्मृतिकारणमन्तःकरणं बहिरर्थेषु शब्दादिषु विभ्रमं विविधभ्रमणं नाविशेन् न गच्छति । यस्य मनश्च गुहायां हृदये निविष्टमात्मानमाविशति । स मुनिस्ते तव पदं स्वरूपमञ्जसा विचष्टे पश्यति नन्वित्यन्वयः । सत्सङ्गत्या समुत्पन्नभगवद्भक्त्या वैराग्यदृढया प्रबलीकृतया भगवदुपासनयाऽपरोक्षज्ञानं भवतीत्यभिप्रायः । भक्त्या त्वनन्ययेत्यादेः ॥५९॥

प्रकाशिका

एवं ज्ञानिनां विशिष्टानन्दजनकत्वाद्भगवत्सङ्गिसङ्गोऽवश्यं भूयादित्युक्तम् । इदानीं जिज्ञासुभिरपि सम्प्रार्थ्येत्याशयेनाह ॥ न यस्येति । यद्यस्माद्भगवत्सङ्गिसङ्गाद्भक्तियोगानुगृहीतं यस्याधिकारिणश्चित्तं स्मृतिकारणं बहिरर्थेषु शब्दादिविषयेषु विभ्रमं विविधभ्रमणयुक्तं न भवति । विरक्तं भवतीति यावत् । गुहायां निविष्टं हृदये स्थितं मनो मन्तृत्वान्मनोनामकं परं ब्रह्म च यस्य मन आविशदाविशति तद्ध्यानपरं भवति । स मुनिस्तत्र हृदये ते पदं स्वरूपमंजसा विचष्टे पश्यति । ननु निश्चितं स भगवत्सङ्गिसङ्गः स्यादिति पूर्वेणान्वयः ॥ ५९ ॥

यत्रेदं व्यज्यते विश्वं विश्वस्मिन्नवभाति यत् ।

न त्वं ब्रह्म परं ज्योतिराकाशमिव विस्तृतम् ॥ ६० ॥

तात्पर्यम्

विश्वस्मिन् स्थितमपि न भात्यज्ञानाम् ॥ ६० ॥

पदरत्नावली

सत्सङ्गतिः सर्वथा संपाद्येति प्रतिपाद्याधुना भक्तिविषयतत्त्वं निर्दिशति– यत्रेति ॥ केचिज्जगद् ब्रह्माज्ञानकल्पितमिति सङ्गिरन्ते । अन्ये शून्यमेव संवृत्त्या सदिवाभातीति । अपरे तत्परिणतमिति । इतरे प्रागसतः सत्तासमवायि येन जातमित्यदृष्टत्वान् नेश्वरोऽप्येक इति । तान् सर्वानपि निरस्यतीत्यतो वाऽऽह– यत्रेति ॥ यत्र यदाधारतया व्यज्यते इत्यनेनैते पक्षाः प्रतिक्षिप्ताः । पूर्वं सत एव व्यक्तिसम्भवात् । तदनुगतपञ्चविधभेदानां व्यक्तत्वेन सत्यत्वसिद्धेः । विश्वस्मिन् स्थित-मप्यज्ञानां न भातीत्युक्त्या सुतरामीश्वरसद्भावो दर्शितः । ब्रह्मतत्त्वमित्यनेन सुतराम् । परंज्योति-रित्यनेनाज्ञानलेशसंपर्काभावः स्पष्टः । आकाशमिवेति निराकारपक्षोऽपि निरासीति ज्ञायते । अपरिच्छिन्नत्व एवाकाशदृष्टान्तो न शून्यत्वे इति ग्रन्थप्रपञ्चतया उपरम्यत इति ॥ ६० ॥

प्रकाशिका

पदमित्युक्तं भगवत्स्वरूपं दर्शयति ॥ यत्रेदमिति । अत्र विश्वस्मिन्नसत्वादेव नावभातीत्याशङ्का ज्ञानिनामवभात्येवातः कथं नावभातीत्युक्तमित्याशङ्कां च निराकर्तुमपेक्षितमध्याह्रत्य योजयति । विश्वस्मिन्निति ॥ तथा चायमर्थः ॥ यत्र यदाधारतयेदं विश्वं व्यज्यते ज्ञानिनां व्यक्तं भवति । यद्विश्वस्मिन्स्थितमप्यज्ञानिनां न भाति तत्तत्त्वं सर्वदैकप्रकारपरमित्यस्य पूर्वोत्तरेण च सम्बन्धः । ज्योतिः स्वप्रकाशं विस्तृतं व्याप्तं तत्पदं विचष्ट इत्यन्वयः ॥ ६० ॥

यो माययेदं पुरुरूपयाऽसृजद् बिभर्ति भूयः क्षपयेदविक्रियः ।

यद्भेदबुद्धिः सदिवाऽऽत्मसंस्थया तमात्मतन्त्रं भगवन् प्रतीमहि ॥ ६१ ॥

तात्पर्यम्

यस्य जीवादिभ्यो भेदबुद्धिः । सदिवा सम्यग्ज्ञानं सम्यग्ज्ञानिविषया सत्यै-वेत्यर्थः । ‘रात्रिरज्ञानमुद्दिष्टं सम्यग्ज्ञानं दिवा स्मृतम्’ । इति शब्दनिर्णये ॥ ‘जीवेभ्यो जडतश्चैव भेदज्ञानं हरेः सदा । वास्तवं ज्ञानमुद्दिष्टं तेन मुक्तिरवाप्यते’ इति षाड्गुण्ये ॥ ६१ ॥

पदरत्नावली

यत्रेत्यधिकरणनिर्देशात् शुक्तिकायां रजतव्यक्तिवद् यस्मिन् कल्पित्वान् मिथ्याभूतं जगदिति भ्रान्तिं निराचष्टे– यो माययेति ॥ यो हरिः पुरुरूपया शुक्ललोहितकृष्णभेदेन बहुरूपया मायया प्रकृत्येदं जगदसृजद् बिभर्ति पुनः संहरति । अत्र प्रकृतेरेव महदाद्यात्मना विकारो न तु परमात्मन इत्याशयेनोक्तम्– अविक्रिय इति ॥ अनेन शुक्त्यज्ञानविकारो रजतमित्यपास्तम् । एवमपि परमात्मा जीवादिभ्यो भिन्नतया सम्यक् किमिति न प्रतीयत इत्याशङ्क्य सा प्रतीतिः सम्यक् ज्ञानिविषयेत्याह– यद्भेदेति ॥ यस्य हरेर्जीवादिभ्यो भेदबुद्धिः सदिवा निर्दोषज्ञानविषयेत्यर्थः । दिनवाचिना दिवाशब्देन कथं ज्ञानार्थतोच्यते प्रसिद्ध्यभावादिति न वाच्यम् । ‘रात्रिरज्ञानमुद्दिष्टं सम्यक् ज्ञानं दिवा स्मृतम्’ इति वचनात् । शुक्तिरजतज्ञानवन्नेदं पुरुषार्थोपयोगीति चेन्न । ‘जीवेभ्यो जडतश्चैव भेदज्ञानं हरेः सदा । वास्तवं ज्ञानमुद्दिष्टं तेन मुक्तिरवाप्यते ॥’ इति वचनात् । तत्र युष्मत्प्रतीतिः कीदृशीति तत्राह– आत्मसंस्थयेति ॥ यया स्वाधीनया प्रकृत्या निर्विकारः सृष्ट्यादि करोति तयाऽत्म-संस्थया परमात्मव्यवस्थया स्थितं त्वां प्रतीमहि विजानीमहे । स्वाधीनामपि प्रकृतिं विहाय सृष्ट्यादि कर्तुं समर्थ इति द्योतनाय– आत्मतन्त्रमिति ॥ अत एव भगवन्निति संबोधयांबभूवुरिति ॥ ६१ ॥

प्रकाशिका

पुनरपि भगवत्स्वरूपं दर्शयन् एतादृशभगवत्स्वरूपापरोक्षज्ञानिनः के इत्यपेक्षाया-मस्मदादय एवेत्याह ॥ यो माययेति । अत्र यो माययेदं विश्वं सदिव परमार्थमिवासृजत् । कथम्भूतया मायया । यया भेदबुद्धिरज्ञानमिति व्याख्याननिरासाय यद्भेदबुद्धिः सदिवेत्यस्य विवक्षितमर्थं दर्शयति ॥ यस्येति । यदित्यस्यार्थः ॥ यस्येति । जीवादिभ्य इति योग्यतया लब्धार्थप्रदर्शनम् । आदिपदेन जडग्रहणम् । दिवेत्यन्वयं सम्यग्ज्ञानपरम् । दिवा सहिताः सदिवास्तेषां सदिवेति व्याख्यानमभिप्रेत्याह ॥ सम्यग्ज्ञानमिति । सम्यग्ज्ञानिनामित्यपि क्वचित्पाठः । सदिवेत्यस्यावृत्तिमभिप्रेत्यार्थान्तरमाह ॥ सम्यग्ज्ञानविषयेति । निर्दोषोऽयमिति विज्ञानविषयेत्यर्थः । ततो लब्धार्थं दर्शयति ॥ सत्यैवेति । अबाध्यैवेत्यर्थः । दिवाशब्दस्य सम्यग्ज्ञानवाचित्वं कुत इत्यतस्तत्र प्रमाणं पठति ॥ रात्रिरिति । उक्तार्थसमर्थनाय समाख्यां दर्शयति ॥ जीवेभ्य इति । वास्तवमेव अबाध्यमेव कुत इत्यत उक्तम् ॥ तेनेति । न हि मिथ्याज्ञानेन मुक्तिः सम्भवतीति भावः ॥

तथा चायमर्थः ॥ यो भगवानात्मसंस्थया स्वाश्रितया पुरुरूपया शुक्ललोहितकृष्णभेदेन बहुरूपया मायया प्रकृत्येदं विश्वमसृजद्बिभर्ति भूयः क्षपयेत्पुनः संहरति । अत्र प्रकृतेरेव महदाद्यात्मना विकारो न तु परमात्मन इत्याशयेनोक्तम् ॥ अविक्रिय इति । अनेन निमित्तकारणत्वमेवास्येति सूचयति । नन्वेवं जीवजडात्मकात्प्रपञ्चाद्भगवतो भेदः सत्यः स्यादित्यतोऽत्रेष्टापत्तिं सयुक्तिकमाह ॥ यद्भेदबुद्धिरिति । यस्य हरेर्जीवेभ्यो जडाच्च भेदबुद्धिः । सदिवा । दिवेत्यव्ययं सम्यग्ज्ञानपरम् । दिवा सहिताः सदिवाः सम्यग्ज्ञानिनस्तेषां भवतीति शेषः । कुतस्तज्ज्ञानस्य सम्यक्त्वमित्यतोऽपि सदिवेत्युक्तम् । निर्दोषोऽय-मिति सम्यग्ज्ञानं दिवेत्युच्यते । तेन सहिता तद्विषयेत्यर्थः । निर्दोषत्वेन साक्षिसिद्धेति यावत् । अतोऽबाध्यैव । ततश्च भेदः सत्य एवेत्याशयः । तमात्मतन्त्रं स्वतन्त्रम् । भो भगवन् । प्रतीमहि विजानीमहे । भगवन्निति सम्बोधनेन ज्ञानस्यापरोक्षत्वं सूचयति ॥ ६१ ॥

क्रियाकलापैरिदमेव योगिनः श्रद्धान्विताः साधु यजन्ति सिद्धये ।

भूतेन्द्रियान्तःकरणोपलक्षणं वेदे च तन्त्रे च त एव कोविदाः ॥ ६२ ॥

तात्पर्यम्

भूतेन्द्रियान्तःकरणैरुपलक्ष्यते ॥ ६२ ॥

पदरत्नावली

अस्तु सृष्ट्यादिकर्तृ ब्रह्म । स्वर्गकामो यजेतेत्यादिवाक्यप्रमाणेनेज्यमिन्द्रादिकं स्यात् । तादृक् प्रमाणसम्भवादिति तत्राह– क्रियाकलापैरिति ॥ इदं प्रेत्यापि न मुञ्चामीति श्रद्धयाऽ-न्विता ये कर्मयोगिनः क्रियासमूहैर् ज्ञानसिद्धये इदं जगत्कर्तृ ब्रह्मैव साधु यजन्ते नेन्द्रादिकं त एव स्वर्गकामो यजेतेत्यादि वेदे, शुद्धस्फटिकसंकाशं वासुदेवं निरञ्जनमित्यादि तन्त्रे च, कोविदा-स्तद्हृदयज्ञा इत्यर्थः । न केवलं श्रुतिस्मृतिभ्यां ज्ञात्वा यजन्ति किन्त्वनुमानेनापीति भावेनाह– भूतेति ॥ भूतेन्द्रियान्तःकरणैरुपलक्ष्यते ज्ञायत इति भूतेन्द्रियान्तःकरणोपलक्षणम् । भूतादीनामचेतनत्वेन स्वतः प्रवृत्त्यसम्भवात् प्रेरकोऽन्यश्चेतनोऽस्ति । स च ईश्वर एव । अन्यस्यान्वयव्यतिरेकाभ्यां शक्त्य-दृष्टेरिति । यद्वा वेदे तन्त्रे च श्रद्धान्विता ये योगिन इदं यजन्ति । त एव कोविदाः कर्मकाण्डसारस्य ज्ञानपटव इति । अनेनेन्द्रादिकं यजन्तो वेदादितात्पर्यार्थं न जानन्तीति ज्ञापितम् ॥ ६२ ॥

प्रकाशिका

नन्वेवं भगवत्सङ्गिसङ्गस्य भगवज्ज्ञानाय प्रार्थ्यत्वे क्रियाकलापविधायकवेदादीनां वैय्यर्थ्यं प्राप्तमित्यतस्तत्रापि हरेरेवेज्यत्वं योगिनामभिप्रेतमित्याशयेनाह ॥ क्रियाकलापैरिति । अत्र भूतेन्द्रियान्तःकरणोपलक्षणमित्येतद्भूतेन्द्रियान्तःकरणानामुपलक्षणमिति प्रतीतिवारणाय व्याख्याति ॥ भूतेति । उपलक्ष्यते ज्ञायते । एभिरित्युपलक्षणम् । तथाचोपलक्षणशब्दः कर्मार्थकल्युडन्त इति भावः ॥ ततश्चायं श्लोकार्थः । इदं प्रेत्यापि न मुंचामीति श्रद्धान्विता ये कर्मयोगिनः कर्ममार्गनिरताः क्रिया-कलापैः क्रियासमूहैः । इदमेवोक्तलक्षणं ब्रह्मैव सिद्धयेऽपरोक्षज्ञानाय विविक्ततया विशिष्टज्ञानजननाय वा । साधु सम्यक् सङ्गं यथा स्यात्तथा यजन्ति । त एव वेदे तन्त्रे च पञ्चरात्रादौ च कोविदास्त-त्तात्पर्यार्थज्ञानिन इत्यर्थः । अन्यथा नेत्यर्थः । सर्वोत्तमस्येज्यस्य सद्भावे वेदार्थनिर्णायिकां युक्तिं दर्शयितुं ब्रह्म विशिनष्टि ॥ भूतेति । भूतेन्द्रियान्तःकरणैरुपलक्षणमुपलक्ष्यं ज्ञेयमिति । अनेनास्ति तावदयं देहो भूतेन्द्रियान्तःकरणैः प्रवृत्तिमान् । न चास्य विविधा प्रवृत्तिः स्वत एवाचेतनत्वात् । नाप्यन्यैश्चेतनैस्तेषामस्वातन्त्र्यात् । अतो देहादिनियामकः स्वतन्त्र एकश्चेतनोऽस्तीति निश्चीयत इति युक्तिरुक्तेति ज्ञातव्यम् । एवं वेदैस्तन्त्रै तमेव यजन्तीत्याशयः ॥ ६२ ॥

त्वमेक आद्यः पुरुषः सुप्तशक्तिस्तया रजः सत्त्वतमो विभिद्यते ।

महानहं खं मरुदग्निवार्धराः सुरर्षयो भूतगणा इदं यतः ॥ ६३ ॥

तात्पर्यम्

सुप्तशक्तिः स्वात्मन्येवाप्तशक्तिः । ‘प्रकृतेः स्वाप उद्दिष्टो हर्यन्यस्य त्वदर्शनम् । विशेषेण हरौ चापि रतिर्ज्ञानात्मिका यतः’ ॥ इति सत्यसंहितायाम् ॥ ६३ ॥

पदरत्नावली

ननु जीवादिदं जगत् केचित् संगिरन्ते । इदं निपुणप्रणीतं विशिष्टकार्यत्वाच् चित्रादिकार्यवदित्यनुमानं ‘‘जीवाद् भवन्ति भूतानी’’ति कानिचिद् वाक्यानि चोदाहरन्ति । अत इदं लक्षणमतिव्याप्तमिति शङ्कानिरासायाह– त्वमेक इति ॥ आद्यः प्रपञ्चोत्पत्तेः पूर्वभवः पुरुषस्त्वमेक एवाभूरित्यन्वयः । ब्रह्मैवेदमग्रे आसीदित्यादेः । पुरुष इत्यनेन ‘‘कर्तारमीशं पुरुषं ब्रह्मयोनिमि’’ति वाक्यं सूचितम् । अनेन जीवश्च व्यावृत्तः । अस्य ब्रह्मयोनित्वोक्तेः । लक्ष्मीतत्त्वस्य द्वितीयस्य विद्यमानत्वात् कथमेक इति विशेष्टुं शक्यत इति तत्राह– सुप्तेति ॥ अत्र सुप्तेत्यनेन प्राप्तिरुपलक्ष्यते । ‘यदाऽयं पुरुषः स्वपिति नाम सता सोम्य तदा सम्पन्नो भवति’ इति श्रुतेः । स्वात्मन्येवाप्तशक्तिः । मुख्यार्थाङ्गीकारेऽज्ञत्वापत्तेः । अन्यैरदृष्टत्वमङ्गीकर्तव्यम् । ‘‘प्रकृतेः स्वाप उद्दिष्टो हर्यन्यत्र त्वदर्शन-मि’’ति वचनात् । एवं प्रलयावस्थां संक्षिप्य सृष्ट्यवस्थामाह– तयेति ॥ या प्रलये हरावेव रता सृष्टिकाले प्राप्ते हरेः कटाक्षेण सिसृक्षुत्वविशेषमाप्तया तया शक्तिशब्दशब्दितया प्रकृत्या साम्यावस्था-माप्तया विभिद्यते विषमावस्थामापद्यते । सृष्टिक्रममपेक्ष्य रजःसत्त्वतम इति व्यत्यस्योक्तम् । स्थित्यादेः सृष्ट्यनन्तरत्वात् । रजः सृष्टौ, सत्त्वं स्थितौ, तमः संहृतौ चेति भिद्यते । रजः सत्त्वतमोभ्यां विभिद्यते, सत्त्वं रजस्तमोभ्यां, तमश्च सत्त्वरजोभ्यामित्ययं भेदः प्रमाणान्तरत्वात् (प्रमाणान्तरात्) तत्कार्यस्वभाव-दर्शनादवगन्तव्यः । उक्तभेदं विशिनष्टि– महानहमिति ॥ ततो गुणवैषम्यात् सत्त्वप्रधानं महत्तत्वं तदभिमानी ब्रह्मा चाभूदिति बोद्धव्यम् । तत्राहङ्कारं त्रिधा भिन्नम् । तामसाहङ्कारात् खादि । वैकारिकाहङ्कारा-दिन्द्रियाभिमानिनो देवाः । तैजसाहङ्काराज् ज्ञानहेतुत्वादृषिशब्दवाच्यनीन्द्रियाणि । खादिभ्यः सुरनरतिर्यगादिभूतगणा अभूवन् । किं बहुनोक्तेन ? इदं चराचरं जगद् यतो यस्मादुत्पन्नं तदेवं विभिन्नमिति ज्ञातव्यम् । ‘आत्मन आकाशः सम्भूतः’ इत्यादि श्रुत्यनुगृहीतं (अनुमानं) मानमस्मिन्नर्थे ॥ ६३ ॥

प्रकाशिका

यो माययेदमिति श्लोके यत्सृष्टिस्थितिसंहारकर्तृत्वमुक्तं तत्त्रयं त्वमेक इत्यादि श्लोकत्रयेण विशदयति ॥ त्वमेक इति । त्वमेकः पुरुष आद्य आदौ स्थितः । ननु रमाया अपि सत्वात्कथमेक इत्युक्तमित्यत उक्तम् ॥ सुप्तशक्तिरिति । अत्र शक्यत्वाच्छक्तिशब्दवाच्याया रमायाः प्रसिद्धा सुप्तिर्न सम्भवतीत्यालोच्य सुप्तशब्दस्य विवक्षितमर्थं दर्शयति ॥ सुप्तशक्तिरिति । स्वात्मनीत्यस्य योग्यतया लाभः । जगद्व्यापारं विहायेति तदर्थः । सुप्तेत्यस्यार्थ आप्तेति । तथा च सुप्ता आत्मन्येवाप्ता रता शक्तिः शक्यत्वाच्छक्तिशब्दवाच्या रमा यस्येत्यर्थ इति भावः । रमाया उक्तरूपैव सुप्तिर्न प्रसिद्धेत्यत्र प्रमाणमाह ॥ प्रकृतेरिति । रमाया इत्यर्थः । हर्यन्यस्य त्वदर्शनं दर्शनसाध्यव्यापाराभावः । चोऽवधारणे । विशेषेण सृष्ट्याद्यवस्थापेक्षया विशेषेण हरावेव रतिरपि स्वाप उद्दिष्ट इत्यन्वयः । प्रसिद्ध एव स्वापस्तस्याः किं न स्यादित्यत उक्तम् ॥ ज्ञानात्मिका यत इति । सेति शेषः । सा प्रकृतिर्ज्ञानात्मिका ज्ञानस्वरूपदेहा । प्रसिद्धस्वापश्चाज्ञानकार्यः । अतस्तस्याः कथं सम्भवतीत्याशयः । एवं प्रलयावस्थां सङ्क्षिप्योक्त्वा सृष्ट्यवस्थां दर्शयति ॥ तयेति । सुप्तशक्तिरित्यत्र शक्तिशब्देन जडप्रकृतिरप्यभिमता । तस्याश्च स्वापो जगद्व्यापाराभावरूप इति ज्ञातव्यम् । तया चेतनप्रकृत्या तदभिमन्यमानया जडप्रकृत्या च रजः सत्वतमोद्भवः । इदं गुणत्रयात्मकलक्षणकार्यं तदभिमानिरमा-रूपत्रयं च विभिद्यते व्यज्यते जायते च । सृष्ट्यनुगुणत्वाद्रज आदौ गृहीतम् । कथम्भूतं रजआदिकम् । यतो गुणत्रयान्महदादिरूपमिदं भवति तन्मरुच्चाग्निश्च वा उदकं च धरा चेति विग्रहः । भूतगणा मनुष्यादय इतीदं विश्वं यतो भवति । अत्र महानित्यादिशब्दैस्तदभिमानिनोऽपि ग्राह्याः । तथा चानेन चेतनाचेतनसृष्टिरुक्तेति ज्ञातव्यम् ॥ ६३ ॥

सृष्टं स्वशक्त्येदमनुप्रविष्टश्चतुर्विधं१ पुरमात्मांशकेन ।

अथो विदुस्त्वां पुरुषं सन्तमत्र भुङ्क्ते हृषीकैर्मधु सारघं यतः ॥ ६४ ॥

तात्पर्यम्

‘अवधारणे घशब्दःस्यात्सारमात्रं तु सारघम्’ ॥ इति शब्दनिर्णये ॥ ६४ ॥

पदरत्नावली

अचेतनस्य स्वतः प्रवृत्त्यनुपपत्तेश्चेतनप्रकृतावस्वातन्त्र्यप्रतीतेर् विचित्रप्रपञ्च-रचनान्यथानुपपत्त्या विशिष्टचेतनसिद्धिः । स चेश्वर एव । अर्थापत्तेरन्यथासिद्धिपरिहारायाह– सृष्टमिति ॥ अनुप्रविश्येत्यनेनार्थापत्तेर् अन्यथासिद्धिः परिहृतेति । प्रपञ्चस्तु ग्रन्थाधिक्यात् प्राज्ञानां सुबोधत्वाच्चोपरम्यते । आत्मांशकेन स्वरूपांशकेन । तत्सृष्ट्वेत्यादि श्रुतेर् जरायुजादिभेदेन चतुर्विधं पुरं प्रविश्य हृषीकैर्जीवेन्द्रियैः सारघं सारमात्रं मधु सुखं भुङ्क्ते यस्मादथो तस्माद् अत्र पुरे सन्तं त्वां पुरुषं विदुरित्यन्वयः । तदस्यास्तीत्यस्मिन्नर्थे उषच्प्रत्ययः । सन्तमित्यनेन निर्दोषत्वं सूचयति । ‘अवधारणे घशब्दः स्याद्’ इति वचनात्, पुनर्मधुनाम सुखं विन्द्यात्, केवलं सारमेव भुङ्क्ते न त्वसारमित्याशयेन सारवत् सारमात्रं तु सारघमित्यतोऽपि कथित एवार्थः ॥ ६४ ॥

प्रकाशिका

इदानीं स्थितिकर्तृत्वं विशदयति ॥ सृष्टमिति । स्वशक्त्या द्विरूपया इदं जरायुजाण्डजस्वेदजोद्भिज्जरूपेण चतुर्विधं पुरं शरीरमात्मांशकेन स्वरूपभूतांशेनानुप्रविष्टः । स्थित्यै इति शेषः । अत्र शरीरेषु हृषीकैर्जीवेन्द्रियाधिष्ठितैः स्वैरिन्द्रियैर्मधु सारघं विषयजाते विद्यमानं सारमात्रं मधु सुखं भुंक्ते । यतोऽथो तस्मात्त्वां पुरुषं विदुः । सारभोक्तृत्वात्सन्तं निर्दोषं च विदुरिति योजना । अत्र सारघपदस्य प्रकृतोपयुक्तमर्थं प्रमाणेनैव दर्शयति ॥ अवधारण इति । तथा च पूर्षु प्रविष्टत्वात्पुरुषं पुरुषशब्दवाच्यं सारमात्रभोक्तृत्वात्सन्तं विदुरिति विवेकः । यद्वा । हरेः शरीरानुप्रवेशे पुरुषशब्द-वाच्यान्यथानुपपत्तिरेव मानमिति दर्शयितुं पुरुषं विदुरित्युक्तम् । शरीरगतत्वेऽपि न तद्गतदुःखादिभोग इति सप्रमाणं दर्शयितुं यतो मधु सारघं भुङ्क्ते अथो सन्तं विदुरित्युक्तमिति द्रष्टव्यम् ॥ ६४ ॥

स एष लोकानतिचण्डवेगो विकर्षसि त्वं खलु कालयानः ।

भूतानि भूतैरनुमेयतत्त्वो घनावलीर्वायुरिवाविषह्यः ॥ ६५ ॥

पदरत्नावली

संहर्तृत्वलक्षणस्य कालाधीनतया प्रतीयमानत्वात् तत्रातिव्याप्तमिति तत्राह– स एष इति ॥ योऽग्रतः सृष्ट्वा स एव लोकान् कालयानः । कल द्रावण इति धातुः । कालरूपी भूत्वा त्वं भूतैः करणैर्यमादिभिर् भूतानि विकर्षसि संहरिष्यसीत्यन्वयः । अविषह्योऽपरिहार्यः । अत्र हेतुं ध्वनयति– अतिचण्डेति ॥ अत्रानुमानं मानमित्याह– अनुमेयेति ॥ उदाहरणमाह– घनावलीरिति ॥ चलन्तीर्घनावलीर्दृष्ट्वा चलनं वायुकर्तृकमिति यथा कल्प्यते तथाऽत्रापीति ॥ ६५ ॥

प्रकाशिका

इदानीं संहृतत्वं विशदयति ॥ स एष इति । यः स्वशक्त्येदं सृष्ट्वाऽनुप्रविष्टः स एषोऽतिचण्डवेगोऽपरिहार्यवेगोऽत एवाविषह्योऽपरिहार्यः । अनुमेयं तत्त्वं स्वरूपं यस्य सः । भूतै रुद्रयमादिभिर्भूतानि प्राणिनो घनावलीर्मेघपंक्तीर्वायुरिव कालयानो विनाशयन् लोकान् भूरादीन्विकर्षसि संहरसि खलु ॥ ६५ ॥

प्रमत्तमुच्चैरितिकृत्यचिन्तया प्रवृद्धलोभं विषयेषु लालसम् ।

त्वमप्रमत्तः सहसाऽभिपद्यसे क्षुल्लेलिहानोऽहिरिवाखुमन्तकः ॥ ६६ ॥

पदरत्नावली

अवान्तरसंहारस् त्वदन्येन किं न स्यात् तत्राह– प्रमत्तमिति ॥ क्षुधा लेलिहानः पुनः पुनर्जिह्वया सृक्किणीं लिहन् ॥ ६६ ॥

प्रकाशिका

न केवलं महाप्रलयकाले त्वं संहर्ता किं त्विदानीमपीत्याह ॥ प्रमत्तमिति । इतिकृत्यस्यैवमिदं कर्तव्यमित्यस्य चिन्तयोच्चैः प्रमत्तं हरिविस्मरणशीलमत एव विषयेषु लालसमतिकामुकं प्राप्तेषु विषयेषु प्रवृद्धलोभमभिपद्यसेऽऽक्रमसे यतोऽन्तकृदन्तकस्त्वम् । अत्र दृष्टान्तमाह ॥ अहिरिति । क्षुधा लेलिहानो जिव्हयोष्ठं स्पृशन् अहिः सर्प आखुं मूषकमिव ॥ ६६ ॥

कस्त्वत्पदाब्जं विजहाति पण्डितो यत् ते पुमानप्ययमब्जकेतनः ।

विशङ्कयाऽस्मद्गुरुरर्चति स्म यद् विनोपपत्तिं मनवश्चतुर्दश ॥ ६७ ॥

तात्पर्यम्

अस्मादेतद्भवतीत्युपपत्त्यपेक्षां विनापि स्वभावत एव ॥ ६७ ॥

पदरत्नावली

एवं भगवतः स्वरूपं निरूप्य तदुपासनात्यागी असुर एव, न विद्वानिति भावेनाह– क इति ॥ पण्डित एव ज्ञातेश्वरतत्त्वः पुमान् कस् त्वत्पदाब्जं त्यजति ? ‘यद्यदाचरति श्रेष्ठ’ इत्येतावदेतद् ध्वनयति । त्यजति चेत् सुरेतरः । इतोऽपि मोक्तुं निमित्तं नास्तीत्याह– यत् त इति ॥ अयमब्जकेतनः पुमानपि विगतशङ्कया ते तव यत् पदाब्जमर्चति स्म स्मरते इत्यन्वयः । स्मृतौ वृत्तौ निषेधे स्मेति यादवः । कोऽयमब्जकेतन इत्यतः– अस्मद्गुरुरिति ॥ जनकत्वाज्ज्ञानोपदेष्टृत्वाच्च गुरुरिति । अनेन ततः परं हि मामित्यत्र श्रीरेवोच्यते न रुद्र इति निरणायीत्यतो मायावादिनां व्याख्यानं पूर्वापरविरुद्धत्वादुपेक्षणीयमित्यस्माभिस् तन्मतनिरासाय प्रयासो न क्रियत इति । इतोऽपि तत्पादसेवा न हातव्येत्याह– यद् विनेति ॥ चतुर्दशमनवोऽस्मादेतत्फलं भवतीत्युपपत्त्यपेक्षां विनाऽपि स्वभावत एव यच्चरणारविन्दमर्चन्ति ॥ ६७ ॥

प्रकाशिका

एवं भगवत्स्वरूपं निरूप्य तदर्चनादिकं न सर्वथा त्याज्यमित्यत्र पुराकल्परूप-मर्थवादमाह ॥ क इति । अत्रोपपत्तिं विनेत्यस्य प्रकृतसङ्गतमर्थं च दर्शयति ॥ अस्मादिति । अस्मान्मया क्रियमाणाद्भगवदर्चनादिकादेतद्भगवत्प्रीतिं विनाऽन्यद्यदभीष्टं भवति तद्भवदित्येवं-रूपोपपत्तिमपेक्षां विनाऽपीत्यर्थः । तथा च नोपपत्तिशब्दो युक्त्यादिपरः किं त्वन्याभीष्टप्राप्तिपरः । तेन तदपेक्षा लक्ष्यत इत्युक्तं भवति । स्मेत्यस्यार्थोऽपीति । उपपत्त्यपेक्षां विनाऽपि किमर्थमर्चनमित्यत-स्तल्लब्धमर्थमाह ॥ स्वभावत एवेति । हरिप्रीतिकामनास्वभावत एवेत्यर्थः ॥ ततश्चायं श्लोकार्थः ॥ कः पण्डित एवं विदिततत्त्वः पुमान् ते परमोपकारिणः पदाब्जं विजहात्यर्चनादिकं न करोति । यद्यस्मादब्जकेतनः कमलासनो ब्रह्मा विशङ्कया दृढविश्वासेन विगतशङ्कया वाऽर्चति । अपिशब्दसूचितं तस्योत्तमत्वमुपपादयितुमस्मद्गुरुरित्युक्तम् । जनकत्वात्ज्ञानोपदेष्टृत्वाद्गुरुरिति । यद्यस्माच्चतुर्दशमनव उपपत्तिं विना भगवत्प्रीतिं विनाऽन्यशत्प्रीत्यपेक्षां विना स्वभावत एव यच्चरणारविंदमर्चन्ति । तस्मात् कः पण्डितो विजहातीत्यन्वयः ॥ ६७ ॥

यत्स्पृष्टोऽहरहर्मुक्तक्लेशः शेतेऽमृताम्बुधौ ।

तावद् वेदाथ तत् तेऽङ्घ्रिं जनो नु स्मरते च तत् ॥ ६८ ॥

तात्पर्यम्

अहरहः क्लेशमोक्षः सुप्तौ । तावद्वेदेत्याक्षेपो दौर्लभ्यज्ञापनार्थम् ॥ ६८ ॥

पदरत्नावली

अनुुदिनं सुप्तिदशायां श्रीनारायणस्पर्शेन परमानन्दोऽनुभूयते किमुत कैवल्य इति वेदयंस्तस्य दौर्लभ्यमाह– यत्स्पृष्ट इति ॥ येनाङ्घ्रिणा स्पृष्टोऽहरहर्मुक्तक्लेशो जनोऽमृताम्बुधौ परमानन्दसमुद्रे शेते यावत् तावत् तदानीं वेद सुखं वेत्ति अथोत्थानानन्तरं तेऽङ्घ्रिं वेद नु किमित्या-क्षेपः । तत्सुखं स्मरते च । यद्यपि सुखमहमस्वाप्समिति परामृश्यति तथापि तवाङि्घ्रं न वेत्ति न स्मरतीति भावः । अनेन तादृशः पुरुषो दुर्लभ इति सूचितम् ॥ ६८ ॥

प्रकाशिका

नन्वेवं परमोपकारिणो हृदये स्थितस्य भगवत्पादाब्जस्य ज्ञानं कुतो न सर्वेषां सुलभमित्याशङ्कायामेतादृशस्यापि ज्ञानं दुर्लभमित्येतदुपपादयति ॥ यत्स्पृष्ट इति । अत्र यत्स्पृष्टोऽहर-हर्मुक्तक्लेश इति क्लेशत्यागस्य जाग्रदाद्यवस्थायामसम्भवपरिहाराय तात्पर्यमाह ॥ अहरहः क्लेशमोक्ष इति । यत्स्पृष्ट इत्येतल्लब्धार्थप्रदर्शनं सुप्ताविति । तावत्तेऽङ्घ्रिं वेदेति बाधितमतस्तात्पर्यमाह ॥ ताव-द्वेदेत्याक्षेप इति । काक्वा आक्षेपपरतयेदं योज्यमित्याशयः । तथा च योजनाफलमाह ॥ दौर्लभ्येति । भगवदङ्घ्रिज्ञानस्येति शेषः ॥ ततश्चायं श्लोकार्थः ॥ जन्यत इति जनः संसारी । अहरहः प्रतिदिनं येन त्वदङ्घ्रिणा स्पृष्टः प्राज्ञेन सम्परिष्वक्तः । सुप्त इति यावत् । मुक्तक्लेशः सन् अमृताम्बुधौ स्वरूपानन्द-समुद्रे शेते । स्वरूपानन्दमनुभवति । यावद्यदा तावत्तदा ते एवंविधोपकारिणस्तवाङ्घ्रिं प्राज्ञनामकं वेद किं नैव वेत्ति । ननु तदा ज्ञानप्रसक्तेरेवाभावान्न वेत्तीत्यत उक्तम् ॥ अथेति । अथ प्रबोधानन्तरं तत्स्वरूपसुखं यद्यस्मादनुस्मरते । एतावन्तं कालं सुखमहमस्वाप्समित्यनुभवानुसारेण स्मरते । चशब्दोऽनुक्तसमुच्चयार्थः । तस्मात्तदाऽपि साक्षिणः स्वरूपसुखानुभवप्रसक्तिरस्ति तथाऽपि तेऽङ्घ्रिं न वेत्ति । अतस्तज्ज्ञानं दुर्लभमित्याशयः ॥ ६८ ॥

अथ त्वमसि नो ब्रह्मन् परमात्मन् विपश्चिताम् ।

विश्वं रुद्रभयध्वस्तमकुतश्चिद्भया गतिः ॥ ६९ ॥

पदरत्नावली

विचित्रे जगति कश्चिद्धीरोऽस्मदभयदः किं न स्यादिति शङ्कां विहायैवं प्रार्थनीय इति वक्ति– अथेति ॥ विश्वं रुद्रभयध्वस्तमिति यस्माद् अथ तस्मादेवं विपश्चितां नस्त्वमकुत-श्चिद्भया गतिरसीत्यन्वयः । ब्रह्मन् परमात्मन्निति पदद्वयेन बहिरन्तश्च त्वां विनाऽन्योऽभयदो नास्तीति सूच्यते ॥ ६९ ॥

प्रकाशिका

एवं संसारिणां भगवज्ज्ञानं दुर्लभमुक्त्वेदानीं सर्वमिदं नश्वरमिति ज्ञानिनां तद्ब्रह्म सुलभमित्याह ॥ अथेति । अथ तस्मात्संसारिणां तज्ज्ञानस्य दुर्लभत्वाद्विश्वं देहगेहादिकं रुद्रभयेन ध्वस्तं नश्वरमिति विपश्चितां ज्ञानिनां यस्त्वमकुतश्चिद्भयागतिरसि कुतोऽपि भयशून्यो गम्योऽसीत्यर्थः । ब्रह्मन् परमात्मन्निति सम्बोधनद्वयं बहिरन्तरूपद्वयाभिप्रायेण ॥ ६९ ॥

इदं जपत भद्रं वो विस्रभ्य नृपनन्दनाः ।

स्वधर्ममनुतिष्ठन्तो भगवत्यर्पिताशयाः ॥ ७० ॥

पदरत्नावली

ध्येयस्वरूपं निरूप्याधुना पूर्वोक्तं जाप्यं विधायोपसंहरति– इदं जपतेति ॥ सर्वस्मा आत्मने नम इत्यारभ्य वाचो विभूतय इत्यन्तं यदुक्तं तदिदं जपतेत्यन्वयः ॥ ७० ॥

प्रकाशिका

एवं स्तोत्रमुपदिश्येत्थम्भावमुपदिशति ॥ इदं जपतेति श्लोकत्रयेण ॥ ७० ॥

तमेवात्मानमात्मस्थं सर्वभूतेष्ववस्थितम् ।

पूजयध्वं गृणन्तश्च ध्यायन्तश्चासकृद्धरिम् ॥ ७१ ॥

पदरत्नावली

आत्मस्थमित्युपदिश्य सर्वभूतेष्ववस्थितमिति वचनं परिच्छिन्नत्वपरिहारायोक्त-मिति ज्ञायते ॥ ७१ ॥

प्रकाशिका

तमेव स्तोत्रप्रतिपाद्यमेवात्मानं परमात्मानम् ॥ ७१ ॥

योगादेशमुपासाद्य धारयन्तो मुनिव्रताः ।

समाहितधियः सर्वे एतदभ्यसनादृताः१ ॥ ७२ ॥

प्रकाशिका

योगादेशं योगोपदेशं तन्नामकमिदं स्तोत्रमुपासाद्य प्राप्य मुनिव्रता मुनीनां व्रतानि कंदमूलफलाहारादीनि तद्युक्ताः ॥ ७२ ॥

इदमाह पुराऽस्माकं भगवान् विश्वसृक्पतिः ।

भृग्वादीनामात्मजानां सिसृक्षुः संसिसृक्षताम् ॥ ७३ ॥

पदरत्नावली

श्रद्धां जनयति– इदमाहेति ॥ विश्वसृक् पतिर्ब्रह्मा ॥ ७३ ॥

प्रकाशिका

श्रद्धोत्पादनायाह ॥ इदमाहेति । विश्वसृजां पतिर्ब्रह्मा ॥ ७३ ॥

ते वयं चोदिताः सर्वे प्रजासर्गे प्रजेश्वराः ।

अनेन ध्वस्ततमसः सिसृक्ष्म विविधाः प्रजाः ॥ ७४ ॥

अथेदं नित्यदा युक्तो जपन्नवहितः पुमान् ।

अचिराच्छ्रेय आप्नोति वासुदेवपरायणः ॥ ७५ ॥

पदरत्नावली

नेदं श्रवणमात्रं किन्त्वनुभवसिद्धमित्याह– ते वयमिति ॥ न केवलमिदं युष्माकमेवान्येषामपि श्रेयस्करमित्याह– अथेति ॥ ७४,७५ ॥

प्रकाशिका

अनेन स्तोत्रेण ॥ ७४,७५ ॥

श्रेयसामिह सर्वेषां ज्ञानं निःश्रेयसं स्मृतम् ।

सुखं तरति दुष्पारं ज्ञाननौर्व्यसनार्णवम् ॥ ७६ ॥

य इदं श्रद्धया युक्तो मद्गीतं भगवत्स्तवम् ।

अधीयानो दुराराध्यं हरिमाराधयत्यसौ ॥ ७७ ॥

पदरत्नावली

तत् किं श्रेय इति तदाह– श्रेयसामिति ॥ श्रेयसामस्यैव प्रधानश्रेयस्त्व-मित्याह– सुखं तरतीति ॥ न केवलमनेनापवर्गिकं फलं किन्त्वपेक्षितं चेदैहिकमपि स्यादित्याह–

य इदमिति ॥ ७६,७७ ॥

प्रकाशिका

श्रेय आप्नोतीत्युक्तम् । तच्छ्रेयः किमित्यपेक्षायामाह ॥ श्रेयसामिति । ज्ञानस्य निःश्रेयस्त्वमुपपादयति ॥ सुखमिति । सुखं यथा भवति तथा ॥ ७६,७७ ॥

विन्दते पुरुषोऽमुष्माद् यद् यदिच्छति सत्वरम् ।

मद्गीतगीतात् सुप्रीताच्छे्रयसामेकवल्लभात् ॥ ७८ ॥

य इदं कल्य१ उत्थाय प्राञ्जलिः श्रद्धयाऽन्वितः ।

शृणुयाच्छ्रावयेन्मर्त्यो मुच्यते कर्मबन्धनैः ॥ ७९ ॥

पदरत्नावली

मद्गीतमित्यनेन गान्धर्वं न स्तवमिति । अस्मत्सेविनो मूढा इति द्योतनाय श्रेयसामित्युक्तम् ॥ फलविशेषार्थं कालविशेषमाह– कल्प इति ॥ कल्पे उषसि ॥ ७८,७९ ॥

प्रकाशिका

अमुष्माद्धरेर्मद्गीतं मयोक्तं गीतं स्तोत्रं तेन सुप्रीतात् ॥ ७८,७९ ॥

गीतं मयेदं नरदेवनन्दनाः परस्य पुंसः परमात्मनः स्तवम् ।

जपन्त एकाग्रधियस्तपो महच्चरध्वमन्ते तत आप्स्यथेप्सितम् ॥ ८० ॥

पदरत्नावली

श्रद्धातिशयजननार्थं पुनरुक्तं करोति– गीतं मयेति ॥ एकाग्रधियः ध्येयानन्यविषया धीर्येषां ते तथोक्ताः । अग्रे जगदादावेक एव यः स एकाग्रः, तद्धरावेव धीर्येषां ते तथेति वा । अन्ते देहान्ते । युष्मद्धितायेदमुक्तमिति प्रकाशनाय चरध्वमित्यात्मनेपदप्रयोगः ॥ ८० ॥

॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुकृतायां

चतुर्थस्कन्धे चतुर्विंशोऽध्यायः ॥

प्रकाशिका

ईप्सितं प्रजासर्जनादिकम् ॥ ८० ॥

**॥ इति श्रीमद्वेदेशपूज्यपादशिष्येण यदुपतिना विरचितायां **

श्रीमद्भागवतटिप्पण्यां चतुर्थस्कन्धे चतुर्विंशोऽध्यायः ॥ ४-२४ ॥