दृष्ट्वाऽऽत्मानं प्रवयसमेकदा वैन्य आत्मवान्
अथ त्रयोविंशोऽध्यायः
मैत्रेय उवाच–
दृष्ट्वाऽऽत्मानं प्रवयसमेकदा वैन्य आत्मवान् ।
आत्मना वर्धिताशेषसानुसर्गः प्रजापतिः ॥ १ ॥
पदरत्नावली
योगेन देहत्यागप्रकारः पृथिव्यादितत्त्वानां तदभिमानिदेवतानां च स्वस्व-कारणप्रवेशलक्षणो लयश्च देहत्यागकाले चिन्तनीय इति निरूप्यतेऽस्मिन्नध्याये । तत्रादौ पृथोस्तपसि प्रारम्भप्रकारं वक्ति– दृष्ट्वेत्यादिना ॥ प्रवयसं गतवयसं स्थविरम् । आत्मवान् जितमनाः । सहितोऽनु-सर्गः पुत्रपौत्रादिलक्षणो येन जनेन स सानुसर्गः । वर्धिताशेषः सानुसर्गः स्वराज्यकालीनजनो येन स तथा ॥ १ ॥
प्रकाशिका
प्रवयसं गतवयसं वृद्धं दृष्ट्वा तपोवनमगादिति वक्ष्यमाणेनान्वयः । आत्मवान् जितमनाः । अन्नादिसर्गः पुरग्रामादिसर्गश्चानुसर्गस्तेन सहितः पुत्रपौत्रादिसर्गः सानुसर्गो वर्धितो ऽशेषः सानुसर्गो येन स तथा ॥ १ ॥
जगतस्तस्थुषश्चापि वृत्तिदो धर्मभृत् सताम् ।
निष्पादितेश्वरादेशो यदर्थमिह जग्मिवान् ॥ २ ॥
पदरत्नावली
आरामकरणेन स्थावरस्य वृत्तिदानम् ॥ २ ॥
प्रकाशिका
आरामकरणादिना स्थावराणां वृत्तिदानम् । निष्पादित इश्वरादेशः प्रजापालनादि रूपो येन । जग्मिवान् जातः ॥ २ ॥
आत्मजेष्वात्मजां न्यस्य विरहाद् रुदतीमिव ।
प्रजासु विमनास्वेकः सदारोऽगात् तपोवनम् ॥ ३ ॥
पदरत्नावली
आत्मजां पृथिवीम् । राज्ञ एष्यद्वियोगाद् रुदतीमिव स्थिताम् ॥ ३ ॥
प्रकाशिका
आत्मजां पृथिवीं विरहाद्वियोगाद्रुदतीमिव स्थिताम् । विमनासु चिन्तातुरासु ॥३॥
तत्रापाद्यात्मनियमो वैखानससुसम्मते ।
आरब्ध उग्रतपसि यथा स्वविषये पुरा ॥ ४ ॥
पदरत्नावली
आत्मनियमः कन्दमूलाद्याहारः शरीरयात्रार्थमापाद्यो येन स आपाद्यात्म-नियमः । पुरा स्वविषये स्वराष्ट्रे उग्राणां दुष्टानां तपसि सन्तापे दण्डे यथा प्रारब्धस्तथोग्रतपसि कायक्लेशादिलक्षणे प्रारब्ध इत्यर्थः ॥ ४ ॥
प्रकाशिका
आपाद्यः संपाद्य आत्मनियमः कंदमूलाद्याहाररूपो येन । वैखानसा वनस्थास्तेषां सुसंमते । उग्रतपसि कायक्लेशादिलक्षणे आरब्धः प्रवृत्तः । कर्तरि क्तः । पुरा राजत्वावस्थायां स्वविषये स्वराष्ट्रे उग्राणां दुष्टानां तपसि सन्तापे यथा प्रारब्धस्तथेत्यर्थः ॥ ४ ॥
कन्दमूलफलाहारः शुष्कपर्णाशनः१ क्वचित् ।
अब्भक्षः कतिचित्पक्षान् वायुभक्षस्ततः परम् ॥ ५ ॥
पदरत्नावली
आत्मनियमानाह– कन्देति ॥ ५ ॥
प्रकाशिका
आत्मनियमानेवाह ॥ कन्दमूलेति । क्वचित्कदाचित् ॥ ५ ॥
ग्रीष्मे पञ्चतपा वीरो वर्षास्वासारषाण्मुनिः ।
आकण्ठमग्नः शिशिर उदके स्थण्डिलेशयः ॥ ६ ॥
तितिक्षुर्यतवाक् दान्त ऊर्ध्वरेता जितानिलः ।
आरिराधयिषुः कृष्णमाचरत् तप उत्तमम् ॥ ७ ॥
पदरत्नावली
चण्डतप आह– ग्रीष्म इति ॥ पञ्च तपांसि अग्नयो यस्य स पञ्चतपाः । अत्रैकोऽग्निरर्कः । आसारषाट् निराश्रयतयोग्रवृष्टिसेवी । शिशिरे हिमर्तौ स्थण्डिलेशयः, निशीति शेषः ॥ आरिराधयिषुराराधयितुकामस्तदर्थमुग्रं तप आचरदित्यन्वयः ॥ ६,७ ॥
प्रकाशिका
उग्रतपो दर्शयति ॥ ग्रीष्म इति । चतुर्दिक्षु चत्वारोऽग्नय उपरि सूर्य इति पञ्चभिस्तपः सन्तापो यस्य स पञ्चतपाः । आसारं वृष्टिं सहत इति आसारषाट् । शिशिरे हिमर्तौ । स्थण्डिले गोमयलेपादियुतशुद्धभूम्यां शेत इति शयः । रात्राविति शेषः ॥ ६,७ ॥
तेन क्रमानुसिद्धेन ध्वस्तकर्मामलाशयः ।
प्राणायामैः सन्निरुद्धषड्वर्गच्छिन्नबन्धनः ॥ ८ ॥
प्रकाशिका
तेन तपसा क्रमानुसिद्धेन क्रमात्प्राप्तेन ध्वस्तानि कर्माणि पापरूपाणि यस्य स तथा । अत एव अमलाशयः । सन्निरुद्धः सम्यग्विनाशितः कामादिषड्वर्गो यस्य । छिन्नं बन्धनम् अहंकारममकारादिरूपो यस्य ॥ ८ ॥
सनत्कुमारो भगवान् यदाहाध्यात्मिकं परम् ।
योगं तेनैव पुरुषमभजत् पुरुषर्षभः ॥ ९ ॥
पदरत्नावली
योगमुपासनोपायम् ॥ ९ ॥
प्रकाशिका
आध्यात्मिकं भगवद्विषयकं योगमुपासनारूपम् ॥ ९ ॥
भगवद्धर्मिणः साधो श्रद्धया यततः सदा ।
भक्तिर्भगवति ब्रह्मण्यनन्यविषयाऽभवत् ॥ १० ॥
पदरत्नावली
भक्तिः प्रेमपूर्वभजनम् । अनन्यविषया भगवदेकविषया ॥ १० ॥
प्रकाशिका
अनन्यविषया भगवदेकविषया ॥ १० ॥
तस्यानया भगवतः परिशुद्धकर्मसत्वात्मनस्तदनुसंस्मरणानुपूर्व्या ।
ज्ञानं विरक्तिमदभून्निशितेन येन चिच्छेद संशयपदं निजजीवकोशम् ॥ ११ ॥
तात्पर्यम्
‘आविर्भावतिरोभावौ ज्ञानस्य ज्ञानिनोऽपि तु । अपेक्ष्याज्ञस्तथा ज्ञान-मुत्पन्न-मिति चोच्यते ॥’ इति तन्त्रसारे ॥ ११ ॥
पदरत्नावली
भक्तेः फलमाह– तस्येति ॥ येन ज्ञानेन संशयपदं संशयविपर्ययज्ञानस्थानं निजत्वेनाभिमतं जीवकोशं बाह्यान्तःकरणं लिङ्गशरीरं वा चिन्छेद छिनत्ति स्म तादृशं भगवतो ज्ञानं तस्य पृथोरभूदित्यन्वयः । तस्य हरेरनुस्मरणं निरन्तरध्यानम् । तत्पूर्वयाऽनया भक्त्या परिशुद्धकर्मा सत्वगुणयुक्त आत्मा मनो यस्य स तथा तस्य । अभूदित्यनेन, भू सत्तायामिति धातोः, सत एव ज्ञानस्याविर्भाव उच्यते, न तु प्रागसतः । तस्य ज्ञानित्वात् । ज्ञानिनो ज्ञानस्याविर्भावः । न हि पुरोवर्ती घटः पटो वा आविरभवदिति व्यवहारो दृष्टचर इति चेन्न । बलवत्प्रतिबन्धकेन तिरोधानसम्भवात् तदुक्तम्– ‘आविर्भावतिरोभावौ ज्ञानस्य ज्ञानिनोऽपि तु । अपेक्ष्याज्ञास्तथा ज्ञानमुत्पन्नमिति चोच्यते ॥’ इति । ज्ञानिनोऽपि ज्ञानस्याविर्भावतिरोभावावपेक्ष्यासावज्ञस्तथा तस्य ज्ञानं समुत्पन्नमिति व्यवहारो युज्यत इत्यर्थः ॥ ११ ॥
प्रकाशिका
भक्तेः फलमाह ॥ तस्येति । अत्र पृथोः कर्मदेवस्यापरोक्षज्ञानित्वादिदानीं ज्ञान-मभूदिति कथमुच्यत इत्याशङ्कां प्रमाणेनैव परिहरति ॥ आविर्भावेति । तुशब्दोऽवधारणे । ज्ञानिनोऽ-परोक्षज्ञानवतोऽपि ज्ञानस्यापरोक्षज्ञानस्याविर्भावमपेक्ष्यैव ज्ञानमुत्पन्नमिति पुराणादावुच्यते । न तु तदैवोत्पत्तिमपेक्ष्य । तथा ज्ञानस्य तिरोभावमपेक्ष्यैवायमज्ञ इत्युच्यते । न तु ज्ञानानुत्पत्तिमपेक्ष्येत्यर्थः ॥ ततश्चायमर्थः ॥ परिशुद्धकर्मा सत्त्वगुणयुक्त आत्मा मनो यस्य तस्य पृथोः । अनया भागवतोक्त्या । कीदृश्या । तस्य भगवतोऽनुस्मरणं योग्यतानुसारिनिरन्तरध्यानं तस्यानुपुर्वी क्रमो यस्याः सा तथा तया । योग्यतानुसारिनिरन्तरध्यानाभिवृद्धिक्रमेण वर्धमानयेति यावत् । विरक्तिमद्विरक्त्यादिवृद्धिमत् । ज्ञानमपरोक्षमभूदाविर्भूतम् । कथम्भूतं ज्ञानम् । तया भक्त्या निशितेन येन ज्ञानेन संशयपदमसम्भावना-विपरीतभावनाऽवस्थानं निजत्वेनाभिमतं जीवकोशं जडान्तःकरणं लिङ्गशरीरं वा चिच्छेदाच्छिनत्
॥ ११ ॥
छिन्नान्यधीरधिगतात्मगतिर्निरीहस्तत् तत्यजेऽच्छिनदिदं वयुनेन येन ।
तावन्न१ योगगतिभिर्यतिरप्रयत्नो यावद् गदाग्रजकथासु रतिं न कुर्यात् ॥ १२ ॥
तात्पर्यम्
‘अपरोक्षतया वृत्तिज्ञानभेदनिरीक्षणम् । स्वरूपज्ञानसंस्थित्या ज्ञानत्याग उदीर्यते । स्वरूपज्ञानतः सम्यग्रतिर्विष्णुकथासु च ॥’ इति ब्रह्मतर्के ॥ १२ ॥
पदरत्नावली
उत्पन्नज्ञानस्य स्थितिमाह– छिन्नेति ॥ येन वयुनेनेदमच्छिनत् तज्ज्ञानं तत्यज इत्यन्वयः । अन्यथाज्ञानसम्भव इदमुक्तं कथं युक्तं स्यादित्यत उक्तम्– छिन्नान्यधीरिति ॥ निरस्ता-न्यथाज्ञानः । स्वरूपज्ञानाभावे कथमिदमित्यत उक्तम्– अधिगतात्मगतिरिति ॥ आत्मशब्देन स्वस्वरूपं परमात्मा चोच्यते । अधिगते अपरोक्षीकृते परमात्मा स्वस्वरूपं च येन स तथा । अत एव तत्साधर्म्यमाह– निरीह इति ॥ ज्ञानोत्तरकालीनप्रवृत्तिमान्न तु पूर्ववद् विधिबद्ध इत्यर्थः । अत्र ज्ञानत्यागो नाम निर्लेपेन स्वरूपज्ञानेन करतलामलकवत् प्रत्यक्षत्वेन वृत्तिज्ञानस्य बाह्यान्तःकरण-जन्यस्य भेदनिरीक्षणं, मद्भिन्नमिदं नश्वरमिति दर्शनं, नत्वन्यः । तदुक्तम्– ‘अपरोक्षतया वृत्तिज्ञानभेद-निरीक्षणम् । स्वरूपज्ञानसंस्थित्या ज्ञानत्याग उदीर्यते ॥’ इति । अयं विशेषोऽपि तत्यज इति व्यत्यासेन सूचित इति । कथमस्य स्वरूपज्ञानमस्तीति ज्ञायत इति तल्लक्षयति– तावदिति ॥ यावद् गदाग्रजस्य श्रीनारायणस्य कथासु रतिं न कुर्यात् तावद् यतिर्निर्जितेन्द्रियग्रामोऽपि पुरुषो योगगतिभिः प्राणायामादिलक्षणैर्योगसाधनैरप्रयत्नः (अप्रपन्नः ।?) अनाविर्भूतस्वरूपज्ञानो भवति । अनेन भगवत्कथारतिः स्वरूपज्ञानेनेति लक्ष्यते । तदप्युक्तम्– ‘स्वरूपज्ञानतः सम्यग्रतिर्विष्णुकथासु च’ इति । यद्वा योगादुत्पन्नैर्गतिशब्दवाच्यैर्ज्ञानैः स्वरूपविषयैः । भगवत्तत्वं ब्रह्मादितारतम्यं पञ्चविधभेदं जीवस्वरूपमित्यादिविषयबाहुल्यात् स्वरूपज्ञानस्य बाहुल्यम् । प्रयत्नो (प्रपन्नोः) न भवति ॥ १२ ॥
प्रकाशिका
एवमाविर्भूतज्ञानस्य पृथोः स्थितिमाह ॥ छिन्नेति । अत्र येन वयुनेनेदमच्छिन-त्तत्तत्त्याजेति ज्ञानत्याग उच्यते । न चासौ सम्भवति । पृथोर्यावज्जीवं परमात्मज्ञानित्वादधि-गतात्मगतिरिति ज्ञानस्य तत्साध्याया विष्णुकथारतेश्च मूलेऽभिधानाच्चेत्यतोऽस्याभिप्रायं प्रमाणेनाह ॥ अपरोक्षतयेति । वृत्तिज्ञानेऽपरोक्षतया भेदनिरीक्षणं बाह्यमनोवृत्तिरूपमिदं नश्वरमतः स्वरूपज्ञाना-द्भिन्नमित्यापरोक्षेण ज्ञानत्याग उदीर्यत इति सम्बन्धः । अस्पष्टतया वृत्तिज्ञाने स्वरूपज्ञानभेद-निरीक्षणस्येदानीमपि सत्वादपरोक्षतयेत्युक्तम् । स्पष्टतयेत्यर्थः। यद्वा । अपरोक्षतया विशिष्टे ये वृत्तिज्ञानस्वरूपज्ञाने तयोर्भेदनिरीक्षणमित्यर्थः । अत्र हेतुकथनाय मूलेऽधिगतात्मगतिरित्युक्तम् । तत्तात्पर्यमाह ॥ स्वरूपज्ञानसंस्थित्येति । प्राचुर्येण स्वरूपज्ञानस्यैव तदा परापरतत्त्वविषयक-तयाऽवस्थानेनेत्यर्थः । तृतीयाप्रयोगेन हेतुगर्भं तद्विशेषणमिति सूचयति । एवं चाधिगताऽऽविर्भूता आत्मगतिः परमात्मज्ञानं स्वरूपज्ञानं च यस्येति मूलार्थ इति भावः ।
अथवा । तस्यां दशायां वृत्तिज्ञानपरित्याग एव त्यागशब्दार्थ इत्यभिप्रेत्य द्वितीयार्धतात्पर्यमाह ॥ स्वरूपज्ञानत इति । कथास्विति बहुवचनमाद्यर्थे । प्राचुर्येण विष्णुकथादिरूपव्यापारेषु रतिः स्वरूपज्ञाने सत्येव सम्यग्भवति । अतः सा च त्यागे वृत्तिज्ञानपरित्यागे निमित्ततयोच्यत इत्यन्वयः । अनेन द्वितीयार्धे कथास्वित्यनन्तरं स्वरूपज्ञानं तत्सम्यगिति पदद्वयमध्याहार्यमिति सूचयति । तथा च सर्वथा ज्ञानत्यागस्य मूलेऽविवक्षितत्त्वान्नोक्त शङ्कावकाशः ॥
ततश्चायं श्लोकार्थः ॥ छिन्ना निःशेषतया विनाशिताऽन्यधीः संशयादिरूपं ज्ञानं यस्य स तथा । अत एव निरीहो व्यर्थचेष्टारहितोऽधिगताऽऽविर्भूताऽऽत्मगतिः परमात्मज्ञानं स्वरूपज्ञानं च येन स तथा । एतादृशो यतोऽतो येन वयुनेनापरोक्षवृत्तिज्ञानेनेदं बाह्यान्तःकरणमच्छिनत्तद्वृत्तिज्ञानं तत्यजे । स्वरूपज्ञानाद्भिन्नमिदं नश्वरं हेयमिति स्पष्टतया निरीक्षितवानित्यर्थः । यद्वा । तत्यजे प्रायेण त्यक्तवान् । कुतः । तस्यां दशायां स्वरूपज्ञानत एवास्य श्रवणादिरतिमत्वादित्याह ॥ तावन्न योगेति । यतिरिन्द्रियसंयमनादिप्रयत्नवान् अधिकारीति यावत् । यावद् गदाग्रजकथासु विष्णुकथाश्रवणादि-रूपव्यापारेषु स्वरूपज्ञानत एव सम्यग्रतिमपरोक्षज्ञानोत्तरकालीनां न कुर्यात्तावत्पर्यन्तमेव योगगति-भिर्यमादिमार्गैरप्रयत्नो बाह्यमनोव्यापारशून्यो न स्यात् । अपरोक्षज्ञानानन्तरं स्वरूपज्ञानत एव सम्यक् कथादिरत्युपादेयत्वप्रयत्नो भवति । अतस्तस्यां दशायां तत्यज इत्युक्तमित्याशयः । तावत्तु योगगति-भिरिति पाठे न कुर्यादित्यत्र विद्यमानस्य नञोऽप्रयत्न इत्यनेनान्वयः । तथा च यावद्यदा गदाग्रजकथासु स्वरूपज्ञानतः सम्यग्रतिं कुर्यात् तावत्तदैवाप्रयत्नेन स्यादतो युक्तमिति योज्यम् ॥ १२ ॥
एवं स वीरप्रवरः संयोज्यात्मानमात्मनि ।
ब्रह्मभूतो दृढं काले तत्याज स्वकलेवरम् ॥ १३ ॥
तात्पर्यम्
ब्रह्मणि भूतः ॥ १३ ॥
पदरत्नावली
उपसंहरति– एवमिति ॥ ब्रह्मभूतः ब्रह्मणि भूतः । ब्रह्माधारतया स्थित इत्यर्थः । काले प्रारब्धकर्मक्षयसमये । तत्याजेत्यनेन स्वकलेवरमेवात्याक्षीन्न तु स्वरूपज्ञान-मित्यव-गन्तव्यम् ॥ १३ ॥
प्रकाशिका
आत्मानं मन आत्मनि परमात्मनि दृढं संयोज्य काले तद्देहारम्भकप्रारब्ध-कर्मावसानसमये । अत्र ब्रह्मभूतस्येत्यस्य ब्रह्माभिन्न इति प्रतीतिवारणायार्थमाह ॥ ब्रह्मणि भूतःस्थित इति । तथा च ब्रह्माश्रितत्वानुसन्धानवानित्यर्थः ॥ १३ ॥
सम्पीड्य पायुं पार्ष्णिभ्यां वायुमुत्सर्पयञ्छनैः ।
नाभ्यां कोष्ठेष्ववस्थाप्य हृदुरःकण्ठशीर्षणि ॥ १४ ॥
पदरत्नावली
स्वच्छन्दमृत्यूनां योगिनां देहत्यागप्रकारं दर्शयितुमस्योत्क्रान्तिप्रकारमाह– सम्पीड्येति ॥ वज्रासनस्थितो वायुमुत्सर्पयन्नूर्ध्वं नयन् मूलाधारान्नाभ्यां हृद्युरसि कण्ठे शीर्षणि भ्रूमध्ये चेत्येतेषु कोष्ठेषु स्थानविशेषेषु शनैरवस्थाप्य ॥ १४ ॥
प्रकाशिका
पायुं गुदम् । सम्पीड््येति वज्रासनं सूचयति । एवं च वज्रासनस्थितो मूलाधारा-द्वायुमुदानमुत्सर्पयन् ऊर्ध्वं नयन्नाभ्यामवस्थाप्य । हृदुरःकण्ठशीर्षणीत्येवं रूपेषु कोष्ठेषु स्थानेष्व-वस्थाप्य । अत्र शीर्षशब्देन भ्रूमण्डलं ग्राह्यम् ॥ १४ ॥
उत्सर्पयन्नसुं१ मूर्ध्नि क्रमेणावेश्य निस्स्पृहः ।
वायुं वायौ क्षितौ कायं तेजस्तेजस्ययूयुजत् ॥ १५ ॥
पदरत्नावली
अनेन क्रमेणासून्, पञ्चवृत्त्या बहुवचनम्, मूघर्ि्न शिरोमध्यप्रदेशे आवेश्य निस्स्पृहः स्थिरचित्तस्तिष्ठेदित्यन्वयः । देहे स्थितानां पञ्चभूतानां स्वस्वकारणेषु लयोऽनेनोच्यते । देहवायुभागं तत्कारणेऽधिदैववायावयूयुजत् । अध्यात्मवायोरधिदैववायुः कारणम्, तत्रैव लय इत्यचिन्तयदित्यन्वयः । तदुक्तम्– ‘अस्येदं कारणमिति ज्ञानमेव विलापनम् । समाधिकाले विज्ञेयं देहादेर्दर्शनात् पुनः ॥’ इति । एवमेवोत्तरत्रापि ज्ञातव्यम् ॥ १५ ॥
प्रकाशिका
असुं भ्रूमध्यस्थितं वायुम् । असूनिति पाठे बहुवचनं जात्यभिप्रायम् । मूधर्ि्न ब्रह्मरंधे्र आवेश्य कलेवरं तत्याजेत्यन्वयः । निस्पृहः स्थिरचित्तः । देहस्थितानां पञ्चभूतानां बाह्यभूतेषु लयो येन तदा चिन्तित इत्याह ॥ वायुमिति । देहस्थं वायुं वायौ, क्षितौ बहिः स्थितायां पृथिव्यां कायं कायस्थं पृथिवीभागं तेजो देहस्थं बाह्यतेजस्ययूयुजदेकीकृतवान् । विलापितवानिति यावत् ॥ १५ ॥
खान्याकाशे द्रवं तोये यथास्थानं विभागशः ।
क्षितिमम्भसि तत् तेजस्यदो वायौ नभस्यमुम् ॥ १६ ॥
तात्पर्यम्
‘अस्येदं कारणमिति ज्ञानमेव विलापनम् । समाधिकाले विज्ञेयं देहादे-र्दर्शनात्पुनः’ ॥ इति च ॥ १६ ॥
पदरत्नावली
छिद्रबहुत्वापेक्षया खानीति बहुवचनम् । ग्रन्थान्तरोक्तेर्यत् तदपेक्षया विभागश इति । इदानीं पञ्चानां भूतानां कारणेषु लयध्यानमाह– क्षितिमिति ॥ १६ ॥
प्रकाशिका
खानि देहस्थानि छिद्राणि बाह्यभूताकाशे द्रवं देहस्थं द्रवांशं बाह्यतोयेऽयूयुजत् । कुत एवं विलापनमित्यत उक्तम् ॥ यथास्थानमिति । स्थानशब्दः कारणपरः । कारणमनति-क्रम्येत्यर्थः । तथा च बाह्यभूतानाम् आध्यात्मिककारणत्वात् कार्याणां कारणेषु विलापनं युक्तमेवेत्या-शयः । ननु देहरूपैककार्यात्मना परिणतानां पञ्चभूतानां कथं विलापनमित्यत उक्तम् ॥ विभागश इति । बुद्ध्या विभागेनेत्यर्थः । नन्वत्र देहत्यागतः पूर्वकालीनं समाधिरूपं चिन्तनमुच्यते । न च तदा देहगतभूतानां विलापनमस्ति देहस्य तदाऽपि दर्शनादित्याशङ्कां प्रमाणेनैव परिहरति ॥ अस्येदमिति । इतिशब्दानन्तरमत इदं तत्र प्रलयमेष्यतीति शेषः । ज्ञानमेव ध्यानमेवेत्यर्थः । न तु तदा विलय इत्येवार्थः । कुत इत्यत आह ॥ देहादेरिति । आदिशब्देन भूतानां ग्रहणम् । पुनः समाध्यनन्तरम् । मूलेऽयूयुजदित्यनेनोक्तं न विलापनं किन्तु ज्ञानमेवातो न कोऽपि दोष इत्याशयः । इदानीं बाह्यानां पञ्चभूतादितत्त्वानां स्वस्वकारणेषु लयध्यानमपि तदा तेन कृतमित्याह ॥ क्षितिमम्भसीत्यादिना । अमुं वायुम् ॥ १६ ॥
इन्द्रियाणि समस्तानि तन्मात्राणि यथोद्भवम् ।
भूतादिस्तान् समुत्क्षिप्य महत्यात्मनि सन्दधे ॥ १७ ॥
पदरत्नावली
इन्द्रियलयप्रकारध्यानमाह– इन्द्रियाणीति ॥ समस्तानीन्द्रियाणि यथोद्भवं यथोत्पत्ति स्वस्वकारणेषु लीयन्त इति, तन्मात्राणि शब्दादीनि च यथोद्भवं लीयन्त इति व्यचिन्तय-दित्यन्वयः । अत्रायं विभागः । इन्द्रियाणि तैजसाहङ्कारे, तदभिमानिदेवा वैकारिकाहङ्काराभिमानिषु, तेषां देहा वैकारिकाहङ्कारे, पृथिव्यादयो गन्धादिभिस्सह भूतादौ तामसाहङ्कारे लीयन्त इति । भूतादिरित्युपलक्षणम् । एवं त्रिविधाहङ्कारस्थानिन्द्रियादीन् समुत्क्षिप्य सम्भृत्य महत्यात्मनि महत्तत्वे, तदभिमानिनि चतुर्मुखे चाहङ्काराभिमानो रुद्रो लीयत इति मनः सन्दध इत्यन्वयः ॥ १७ ॥
प्रकाशिका
समस्तानीन्द्रियाणि शब्दादीनि तन्मात्राणि यथोद्भवं यथोत्पत्ति स्वस्वकारणेष्वयू-युजल्लयमेष्यति ध्यातवान् । अयं भावः । इन्द्रियाणि तैजसाहङ्कारे तदभिमानिदेवतादेहान्मनश्च वैकारिकाहङ्कारे । तन्मात्राणि भूतैः सह तामसाहङ्कारेऽयूयुजत् । क्षित्यादिशब्दैस्तदभिमानिनो देवा अपि विवक्षिताः । तेषामपि स्वजनकदेहप्रवेशेन देहलयात् । भूतादिस्तामसाहङ्कारः । उपलक्षणमेतत् । त्रिविधोऽप्यहंकारस्तदभिमानिगरुडरुद्रशेषाश्च तानिन्द्रियादीन् भूतादौ समुत्क्षिप्य स्वस्मिन्विनाश्य तं भूतादिं महत्यात्मनि महत्तत्त्वाभिमानिनि विरिञ्चे सन्दधे । सरस्वतीद्वारा स्थापितवान् । पृथुर्ध्यातवानिति योज्यम् ॥ १७ ॥
तं सर्वगुणविन्यासं जीवे मायामये न्यधात् ।
तं चानुशयमात्मस्थमसावनुशयी पुमान् ।
ज्ञानवैराग्यवीर्येण स्वरूपस्थो व्यधात् प्रभुः ॥ १८ ॥
तात्पर्यम्
‘मायेति प्रकृतिश्चेति माया जीवश्च कथ्यते । शेतेऽनु केशवं यस्मात्तस्मादनु-शयोऽपि च । एतैस्तु नामभिर्वाच्या श्रीर्विष्णोरनपायिनी । तयैवानुशयी जीवस्तया बद्धो यतः सदा । पुरुषः शयनात्पूर्षु तथाऽहानादहं स्मृतः । अप्राकृततनुत्वात्तु स्वरूपं हरिरुच्यते । नित्य-चिद्दर्शनान्नित्यं ब्रह्म पूर्णत्वतः सदा’ ॥ इति भागवततन्त्रे ॥ १८ ॥
पदरत्नावली
सर्वेषां गुणानां भक्तिज्ञानादीनां विशेषेण न्यासो निधानं यस्मिन् स तथा तम् । सत्त्वादिगुणैर्विविधा प्रपञ्चरचना येन स तथा तं वा । तं महान्तं चतुर्मुखं तत्त्वलक्षणं जडं च मायामये मायाशब्दवाच्ये जीवे प्राणधारणशक्तिमपि लक्ष्मीतत्त्वे न्यस्यति प्रविशतीति (अचिन्तयत्) ध्यायेत् । अन्यत्तु जडप्रकृतौ लीयत इति । जीवशब्दवाच्यत्वं च चेतनशरीराकारतया परिणामादुपचारः । प्रलये केशवमनुशेत इत्यनुशयशब्दवाच्यत्वम् । पुंशक्तियुक्तत्वात् पुल्लिङ्गशब्दवाच्यां प्रकृतिं च जगदा-दानादात्मशब्दाभिधेयस्य हरेराधारतया तिष्ठतीत्यात्मस्थमचिन्तयत् । अनुशयी चित्प्रकृत्यधीनत्वात् तद्द्वारा गतत्वाद्वा अनुशयिशब्दवाच्योऽसौ, पुमानित्युपलक्षणम्, चेतनराशिर् अप्राकृतशरीरत्वात् स्वरूपशब्दवाच्ये ब्रह्मणि चतुर्मुखेन सह तिष्ठतीति ध्यानं व्यधात् । प्रभुरित्यनेन मनोऽनुसन्धानमस्तीति ध्वनयति । केनैतत्सामर्थ्यमभूदित्यत्र उक्तम्– ज्ञानेति ॥ यद्वा एवंविधोपासनाजनितसामर्थ्येनानुशयी पृथुः स्वस्वरूपे ब्रह्मणि सायुज्यलक्षणं मोक्षमाप्तुं व्यधादित्यन्वय इति । ‘मायेति प्रकृतिश्चेति माया जीवश्च कथ्यते । शेतेऽनुकेशवं यस्मात् तस्मात् तदनुशयोऽपि च । एतैस्तु नामभिर्वाच्या श्रीर्विष्णो-रनपायिनी । तथैवानुशयी जीवस्तया बद्धो यतः सदा । पुरुषः शयनात् पूर्षु तथाऽहानादहं स्मृतः । अप्राकृततनुत्वात् तु स्वरूपं हरिरुच्यते । नित्यचिद्दर्शनान्नित्यं ब्रह्म पूर्णत्वतः सदा ॥’ इति । समाख्यासिद्धत्वादुक्त एवार्थो नाद्वैतवादिकल्पित इति सिद्धम् ॥ १८ ॥
प्रकाशिका
तं महत्तत्त्वाभिमानिनं विरिंचं मायामये जीवे व्यधात् । अत्र मायाजीवानु-शयानुशयीस्वरूपशब्दान्योग्यतालाभाय प्रमाणेनैव व्याख्याति ॥ मायेतीति । मायादि-नामभिर्माया वाच्येत्यत्र निमित्तमाह ॥ मायेति । जीवश्चेत्यनन्तरम् अपीति शब्दो योज्यः । तथा च माया जडप्रकृतिर्मायेत्यादिशब्दैः कथ्यत इत्यर्थः । न केवलं मायादिनामभिर्माया वाच्या किन्तु श्रीरपि वाच्ये-त्याह ॥ एतैरिति । तुशब्दोऽप्यर्थः । श्रीरपीति सम्बन्धः । अनेन मूले मायाजीवशब्दावुक्तार्थाविति ज्ञेयम् । तत्रोपलक्षणतया मायाशब्दनिर्वचनं दर्शयति ॥ विष्णोरनपायिनीति ॥ विष्णोरिति योग्यतया लाभः । माशब्दो निषेधार्थः । तथाच विष्णोर्माऽविद्यमानमयमपगमनं यस्या इति निर्वचनं दर्शितमिति ज्ञातव्यम् । तथा श्रियमनुशेत इति व्युत्पत्त्यैवेत्यर्थः । सदेतीनिप्रत्ययार्थः । सदाऽनादिकालमारभ्य तया श्रिया बद्ध इत्यनेनात्रानुशयनं बन्धनमेव विवक्षितमिति दर्शयति । नन्वेवं लयचिन्तके क्वचित्पुरुष-शब्दोऽन्यत्राहंशब्दश्च प्रयुक्तोऽतः कथमत्रानुशयीति शब्देन जीवो व्याख्यात इत्यतस्तत्रापि पुरुषाहं-शब्दाभ्यां जीव एव व्याख्येयोऽतो न विरोध इत्याशयेनाह ॥ पुरुष इति । अहानादहेयत्वादहम् । तथा च नञ्पूर्वस्योहाक् त्याग इत्यस्येदं रूपमिति सूचयति । स्वरूपस्थ इत्यत्र स्वरूपशब्दविवक्षितमर्थं दर्शयति ॥ अप्राकृतेति । तुशब्दोऽवधारणे । अनेन स्वं स्वात्मभूतं रूपं शरीरं यस्येति विग्रहं सूचयति । प्रसङ्गादस्मिन्नेव ग्रन्थे क्वचित्प्रयुक्तयोर्नित्यब्रह्मशब्दयोरर्थं प्रमाणेनैव दर्शयति ॥ नित्यचिदिति । ‘नि द् यं’ इति वर्णत्रयलब्धार्थप्रदर्शनमिदम् । तत्र नीत्यस्यार्थो नित्येति । द् विस्तृतया स्पष्टतया याति जानाति इति निर्वचनलब्धार्थप्रदर्शनाय दर्शनादित्युक्तम् । नित्यदर्शनं तु चिद्रूपमेवेति दर्शयितुं चिदित्युक्तम् । पूर्णत्वत इत्यनेन बृहतेर्मन्प्रत्यययोऽमागमश्चेति दर्शयति ॥ ततश्चायं श्लोकार्थः ॥ सर्वगुणविन्यास-मुक्तरीत्याऽहङ्कारादिसर्वकार्यनिधानं स्थानं तं विरिञ्चं मायामये मायामयात्मके विष्णोरनपायित्वेन मायाशब्दवाच्ये जीवे जीवशब्दवाच्ये श्रीतत्त्वे न्यधात्तदधीनतयाऽचिन्तयत् । तं च जीवशब्दवाच्य-मप्यनुशयं केशवमनुशेत इति व्युत्पत्त्याऽनुशयशब्दवाच्यं श्रीतत्त्वमात्मस्थमादानान्मातृत्वादात्म-शब्दवाच्यहर्यधीनं व्यधाच्चिन्तितवान् । कोऽसौ पुमान्पृथुः कथं भूतः । अनुशयी श्रियमनुशेत इति व्युत्पत्त्या तया सदा बद्धः । अनेन बन्धकत्वात्तस्या उक्तरीत्या ध्यानमावश्यकमिति सूचयति । स्वरूपस्थो ऽप्राकृतविग्रहभगवन्निष्ठः । अनेन तस्याप्यन्याधीनत्वं न चिन्तितवानिति सूचयति । नन्वेवंविधचिन्तनसामर्थ्यं तस्य कुत इत्यत उक्तम् ॥ प्रभुरिति । ज्ञानविज्ञानवैराग्यवीर्येण प्रभुः समर्थ इति ॥ १८ ॥
अर्चिर्नाम महाराज्ञी तत्पत्न्नयनुगता वनम् ।
सुकुमार्यतदर्हा च यत् पद्भ्यां स्पर्शनं भुवः ॥ १९ ॥
पदरत्नावली
पत्या चैवं गते तत्र वनेऽर्चिषा भार्यया किमकारीति तत्राह– अर्चिर्नामेति ॥ पद्भ्यां स्पर्शनं यद् तदनर्हा ॥ १९ ॥
प्रकाशिका
वनप्रवेशमारभ्य राज्ञ्याः स्थितिमाह ॥ अर्चिर्नामेत्यादिना । अतदर्हा तदपि नार्हति । तत्किं यत्पद्भ्यां भुवः स्पर्शनम् ॥ १९ ॥
अतीव भर्तुर्व्रतधर्मनिष्ठया शुश्रूषया चार्षदेहयात्रया ।
नाविन्दतार्तिं व्रतकर्शिताऽपि सा प्रेयस्करस्पर्शनमाननिर्वृता ॥ २० ॥
पदरत्नावली
भर्तुर्व्रतं ग्राम्यवर्जनादि तदेव स्वस्या अपि धर्मः । तत्र निष्ठया आर्षदेहयात्रया कन्दमूलफलाद्यशनलक्षणया । एवंविधानुष्ठानेन परिकर्षिताऽपि प्रेयसः पत्युः करस्पर्शलक्षणमानेन निर्वृता आनन्दाप्लुता आर्तिं व्रतानुष्ठाननिमित्तक्लेशं नाविन्दतेत्यन्वयः ॥ २० ॥
प्रकाशिका
भर्तुर्व्रतं स्थंडिलशयनादिरूपं तदेव स्वस्यापि धर्मस्तत्र निष्ठया । ऋषीणामियमार्षा देहयात्रा कन्दमूलफलाशनादिलक्षणा तया । एवंविधानुष्ठानेन व्रतकर्शिताऽपि आर्तिं दुःखं नाविंदत । तत्र हेतुः प्रेयसः पत्युः करस्पर्शनलक्षणेन मानेन लालनेन निर्वृता आनन्दाप्लुता यतः ॥ २० ॥
देहं विपन्नाखिलचेतनादिकं पत्युः पृथिव्या दयितस्य चात्मनः ।
आलक्ष्य किञ्चिच्च विलप्य सा सती चितामथारोपयदद्रिसानुनि ॥ २१ ॥
पदरत्नावली
एवं तस्याः पृथोः पत्नीत्वयोग्यतामनुवर्ण्योत्तरक्रियां वक्ति– देहमित्यादिना ॥ पृथिव्या आत्मनः स्वस्याश्च दयितस्य पत्युर्देहं विपन्नाखिलचेतनादिकं चैतन्यप्राणादिवृत्तिलक्षण-रहितमालक्ष्य । चितां शवदहनकाष्ठम् ॥ २१ ॥
प्रकाशिका
पृथिव्या आत्मनः स्वस्याश्च दयितस्य प्रियस्य पत्युर्देहं विपन्नं विनष्टमखिलं चेतनादिकं चेतनेन्द्रियप्राणादिकं यस्मिंस्तमालक्ष्य सम्यग्ज्ञात्वा चितां शवदहनसाधनकाष्ठमारोपयत्
॥ २१ ॥
विधाय कृत्यं ह्रदिनीजलाप्लुता दत्वोदकं भर्तुरुदारकर्मणः ।
नत्वा दिविस्थांस्त्रिदशांस्त्रिः परीत्य विवेश वह्निं ध्यायती भर्तृपादम् ॥ २२ ॥
पदरत्नावली
ह्रदिनी नदी । त्रिः परीत्य प्रदक्षिणीकृत्य ॥ २२ ॥
प्रकाशिका
कृत्यं कालोचितम् । हृदिन्या नद्या जले आप्लुता स्नाता परीत्य प्रदक्षिणीकृत्य
॥ २२ ॥
विलोक्यानुगतां साध्वीं पृथुं वीरवरं पतिम् ।
तुष्टुवुर्वरदा देवैर्देवपत्न््नयः सहस्रशः ॥ २३ ॥
पदरत्नावली
सत्या वनेऽपि राजस्त्रीभोगलक्ष्मीसामग्री समभूदित्याह– विलोक्येति ॥ २३ ॥
प्रकाशिका
देवैः सहिता देवपत्न््नयः ॥ २३ ॥
कुर्वन्त्यः कुसुमासारं तस्मिन् मन्दरसानुनि ।
नदत्स्वमरतूर्येषु गृणन्ति स्म परस्परम् ॥ २४ ॥
पदरत्नावली
कुसुमासारं पुष्पवृष्टिम् ॥ २४ ॥
प्रकाशिका
कुसुमासारं पुष्पवृष्टिम् । गृणन्ति स्म अभाषन्त ॥ २४ ॥
देव्य ऊचुः –
अहो इयं वधूर्धन्या या चैवं भूभुजां पतिम् ।
सर्वात्मना पतिं भेजे यज्ञेशं श्रीवधूरिव ॥ २५ ॥
तात्पर्यम्
‘अनपेक्षो गुणैः पूर्णो धन्य इत्युच्यते बुधैः’ । इति शब्दनिर्णये ॥ २५ ॥
पदरत्नावली
धन्या सर्वगुणैः पूर्णा । ‘अनपेक्षो गुणैः पूर्णो धन्य इत्युच्यते बुधैः’ इत्यभिधानम् ॥ २५ ॥
प्रकाशिका
अहो इयं वधूर्धन्या इत्यत्राप्रतीत्या धन्यशब्दार्थं प्रमाणेनैवाह ॥ अनपेक्ष इति । फलानपेक्षः । गुणैर्ज्ञानभक्त्यादिभिर्योग्यतानुसारेण पूर्णः । तथा च धन्या फलानपेक्षा स्वयोग्यगुणपूर्णा चेति मूलं व्याख्येयमिति भावः ॥ २५ ॥
सैषा नूनं व्रजत्यूर्ध्वमनुवैन्यं पतिं सती ।
पश्यतोऽस्मानतीत्यार्चिर्दुर्विभाव्येन कर्मणा ॥ २६ ॥
प्रकाशिका
दुर्विभावेनान्यैः कर्तुमशक्येन ॥ २६ ॥
तेषां दुरापं किन्त्वन्यन्मर्त्यानां भगवत्पदम् ।
विद्युल्लोलायुषो ये वै नैष्कर्म्यं साधयन्त्युत ॥ २७ ॥
पदरत्नावली
ये मर्त्या नैष्कर्म्यं मोक्षलक्षणं भगवत्पदं साधयन्त्युत । विद्युल्लोलानि चलान्यायूंषि येषां ते तथा । तेषामन्यद् दुरापं किम् ? न किमपीत्यर्थः ॥ २७ ॥
प्रकाशिका
विद्युद्वल्लोलानि चञ्चलान्यायूंषि येषां ते तथा । एवंभूता ये मर्त्या विधिबन्धन-रहित्वान्नैष्कर्म्यशब्दवाच्यं भगवत्पदं मोक्षमपि साधयन्ति तेषां मर्त्यानामन्यन्मोक्षादन्यत्पुरुषार्थभूतं दुरापं प्राप्तुमशक्यं किं न किमपि । मोक्षसाधनज्ञानेनैव सर्वेऽपि पुरुषार्थास्तेषां भवन्तीत्याशयः ॥ २७ ॥
स वञ्चितो बतात्मध्रुक् कृच्छ्रेण महता भुवि ।
लब्ध्वाऽऽपवर्ग्यं मानुष्यं विषयेषु विषज्जते ॥ २८ ॥
पदरत्नावली
आपवर्ग्यं मुक्तिसाधनकारणम् ॥ २८ ॥
प्रकाशिका
मोक्षमार्गविमुखं निन्दन्ति ॥ स वञ्चित इति । देवैरिति शेषः । आत्मध्रुक् स्वात्महा । आपवर्ग्यं मोक्षसाधनज्ञानकारणं ज्ञानसाधनं विषयेषु विषज्जते यः ॥ २८ ॥
मैत्रेय उवाच–
स्तुवन्तीष्वमरस्त्रीषु पतिलोकं गता वधूः ।
यं वा आत्मविदां धुर्यो वैन्यः प्रापाच्युताशयः ॥ २९ ॥
पदरत्नावली
पतिलोकं नाथवन्तं लोकमिति शङ्कानिवृत्यर्थं वैन्यो यं लोकं प्राप तं पतिलोकं गताभूदिति स्पष्टितम् ॥ २९ ॥
प्रकाशिका
पतिलोकमेव स्पष्टयति ॥ यं वा इति ॥ २९ ॥
इत्थंभूतानुभावोऽसौ पृथुः स भगवत्तमः ।
कीर्तितं तस्य चरितमुद्दामचरितस्य ते ॥ ३० ॥
पदरत्नावली
उपसंहरति– इत्थमिति ॥ योऽसौ पृथुरित्थम्भूतोऽनुभावः प्रभावः यस्य स तथा । ‘अनुभावः प्रभावे स्यान्निश्चये भावसूचके’ इति यादवः । ‘भगो योन्यां भगो यत्ने यशो-वीर्यार्कभूतिषु । कीर्तीच्छाज्ञानवैराग्यधर्मैश्वर्यतपस्सु च ॥’ इति वचनात् सत्प्रयत्नादिगुणवतामतिशयेन प्रधानत्वाद् भगवत्तमः ॥ ३० ॥
प्रकाशिका
उपसंहरति ॥ इत्थमिति । अनुभावः प्रभावः । अतिशयेन भगवानैश्वर्यादिगुणवान् भगवत्तमः । उद्दामचरितस्योत्कृष्टकर्मणः ॥ ३० ॥
य इदं सुमहत्पुण्यं श्रद्धयाऽवहितः पठेत् ।
श्रावयेत् श्रुणुयाद् वाऽपि स पृथोः पदवीमियात् ॥ ३१ ॥
ब्राह्मणो ब्रह्मवर्चस्वी राजन्यो जगतीपतिः ।
वैश्यः पठन् विश्पतिः स्याच्छूद्र उत्तमतामियात् ॥ ३२ ॥
त्रिःकृत्व इदमाकर्ण्य नरो नार्यथवाऽऽदृतः ।
अप्रजः सुप्रजतमो निर्धनो धनवत्तमः ॥ ३३ ॥१
इदं स्वस्त्ययनं पुंसाममङ्गल्यनिवारणम् ।
धन्यं यशस्यमायुष्यं स्वर्ग्यं कलिमलापहम् ॥ ३४ ॥
धर्मार्थकाममोक्षाणां सम्यक् सिद्धिमभीप्सुभिः ।
श्रद्धयैतदनुश्राव्यं चतुर्णां कारणं परम् ॥ ३५ ॥
पदरत्नावली
फलमाह– य इति ॥ पदवीं भक्तिज्ञानादिलक्षणाम् ॥ वर्णभेदेन फलं विविनक्ति– ब्राह्मण इति ॥ श्रवणाद्यवृत्त्या साधारणफलमाह– त्रिःकृत्व इति ॥ प्रतिपन्थिनिवारकं चेदभीष्टसिद्धिः स्यादनेन, तत् कथं स्यादित्यतस्तद् विशिनष्टि– इदमिति ॥ व्याख्यातुर्विशेषफलमाह– धर्मार्थेति ॥ चरितस्य तादृक्सामर्थ्याभावे किमनेनेत्यत उक्तम्– चतुर्णामिति ॥ एतत्समस्यान्यस्य भावे किमनेनेत्यत उक्तम्– परमिति ॥ परमुत्कृष्टम् ॥ ३१-३५ ॥
प्रकाशिका
विशां वैश्यानां पतिर्नाथः ॥ चतुर्णां पुरुषार्थानां परमुत्कृष्टम् ॥ ३२-३५ ॥
सङ्ग्रामाभिमुखो राजा श्रुत्वैतदनुयाति यान् ।
बलिं तस्मै हरन्त्यग्रे राजानः पृथवे यथा ॥ ३६ ॥
मुक्तान्यसङ्गो भगवत्यचलां भक्तिमुद्वहन् ।
वैन्यस्य चरितं पुण्यं शृणुयाच्छ्रावयेत् पठेत् ॥ ३७ ॥
पदरत्नावली
असकृदावृत्त्या क्षिप्रं दिग्विजयफलमपि स्यादित्याह– सङ्ग्रामाभिमुख इति ॥ भगवद्भक्त्यविनाभावेन श्रवणादि कुर्वत उक्तं फलं स्यान्नान्यथा इत्याह– मुक्तेति ॥ ३६-३७ ॥
प्रकाशिका
उक्तफलं विरक्तस्य भगवद्भक्तस्यैवेत्याह ॥ मुक्तान्येति ॥ ३७ ॥
वैचित्रवीर्याभिहितं महन्माहात्म्यसूचकम् ।
अस्मिन् कृतमतिर्मर्त्यः पार्थवीं गतिमाप्नुयात् ॥ ३८ ॥
पदरत्नावली
पुनस्तात्पर्यादस्मिन् भक्तिं ग्रथयति– वैचित्रवीर्येति ॥ हे विदुर पार्थवीं पृथोर्विद्यमानाम् ॥ ३८ ॥
प्रकाशिका
भो वैचित्र्यवीर्य विदुर । महतो भगवतो माहात्म्यसूचकम् । पार्थवीं पृथोर्विद्यमानाम्
॥ ३८ ॥
अनुदिनमिदमादरेण शृण्वन् पृथुचरितं प्रथयन् विमुक्तसङ्गः ।
भगवति भवसिन्धुपारभूते स च निपुणां लभते रतिं मनुष्यः ॥ ३९ ॥
पदरत्नावली
तस्य चरितस्य शब्दादिविषयपरत्वे कथं भागवतानामुपकार्यत इति तत्राह– अनुदिनमिति ॥ प्रथयन् व्याख्यां कुर्वन् भवसिन्धोः संसारसमुद्रस्य पारभूते तीरान्तरीभूते । निपुणां श्रीहरिप्रसादजननसमर्थाम् ॥ ३९ ॥
॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुकृतायां
चतुर्थस्कन्धे त्रयविंशोऽध्यायः ॥
प्रकाशिका
प्रथयन्सत्सभासु कीर्तयन् । भवसिन्धोः संसारसमुद्रस्य । निपुणां हरिप्रसाद-जननसमर्थाम् ॥ ३९ ॥
**॥ इति श्रीमद्वेदेशपूज्यपादशिष्येण यदुपतिना विरचितायां **
श्रीमद्भागवतटिप्पण्यां चतुर्थस्कन्धे त्रयोविंशोऽध्यायः ॥ ४-२३ ॥