२२ द्वाविंशोऽध्यायः

जनेषु प्रगृणत्स्वेवं पृथुं पृथुलविक्रमम्

अथ द्वाविंशोऽध्यायः

मैत्रेय उवाच–

जनेषु प्रगृणत्स्वेवं पृथुं पृथुलविक्रमम् ।

तत्रोपजग्मुर्मुनयश्चत्वारः सूर्यवर्चसः ॥ १ ॥

तांस्तु सिद्धेश्वरान् राजा व्योम्नोऽवतरतोऽर्चिषा ।

लोकानपापान् कुर्वन्त्या सानुगोऽचष्ट लक्षितान् ॥ २ ॥

पदरत्नावली

पृथुसनत्कुमारसंवादापदेशेन सर्वस्माद् भिन्नमनुग्रहमन्तरेण दुर्ज्ञेयं भगवत्तत्त्वं निरूप्यतेऽस्मिन् अध्याये । तत्रादौ सनत्कुमारादिमुनीनामागतिं वक्ति– जनेष्विति ॥ अर्चिषा लक्षितान् लक्षणतो ज्ञातानचष्ट अद्राक्षीत् ॥ १,२ ॥

प्रकाशिका

अर्चिषा लक्षितान्सनकादय इति ज्ञापितान् । अचष्ट अपश्यत् ॥२॥

तद्दर्शनोद्गतप्राणान् प्रत्यादित्सुरिवोत्थितः ।

ससदस्यानुगो वैन्य इन्द्रियेशो गुणानिव ॥ ३ ॥

पदरत्नावली

तेषां दर्शनेनोद्गतान् प्राणान् प्रत्यादातुमिच्छुरिव । अयं भावः । ‘ऊर्ध्वं प्राणा ह्युत्क्रामन्ति यूनः स्थविर आगते । प्रत्युत्थानाभिवादाभ्यां पुनस्तान् प्रतिपद्यते ॥’ इति श्रुतेः प्राणास्तावत् तेजसाक्षिप्तास्तान् प्रत्यागच्छन्ति । अतः स्वयमनभिगच्छतः प्राणहानिः स्यादिति भयादिव ससम्भ्रमः प्रत्युद्गमनं चकारेति । इन्द्रियेशो जीवो गुणानिन्द्रियाणीव ॥ ३ ॥

प्रकाशिका

उद्गतानुद्गमनोन्मुखान्प्राणान्प्रत्यादित्सुरिवोत्थितः प्रत्युत्थानं कृतवान् । ‘‘ऊर्ध्वं प्राणा ह्युत्क्रामन्ति यूनः स्थविर आगते । प्रत्युत्थानाभिवादाभ्यां पुनस्तान् प्रतिपद्यत इति वचनात् । स्वोत्तमेष्वागतेषु प्रत्युत्थानाद्यभावे क्षिप्रं प्राणानामुत्क्रान्तिरेव भवति । अतस्तान् स्थिरीकर्तु-मिच्छुरेवोत्थित इति भावः । इन्द्रियेशो जीवो गुणान्विषयानिव । यथा जीव इन्द्रियविषयेषु शब्दादिषु स्वात्मानं विहाय गमनोन्मुखेषु तान्प्रत्यादित्सुरुत्तिष्ठति तथैवेति ॥ ३ ॥

गौरवाद्यन्त्रितः सभ्यः प्रश्रयानतकन्धरः ।

विधिवत् पूजयाञ्चक्रे गृहीतार्घ्यार्हणासनान् ॥ ४ ॥

प्रकाशिका

यन्त्रितो वशीकृतः । गृहीतमर्घ्यार्हणमर्घ्यादिरूपमासनं च यैस्तान् ॥ ४ ॥

तत्पादशौचसलिलैर्मार्जितालकबन्धनः ।

तत्र शीलवतां वृत्तिमाचरन् मानयन्निव ॥ ५ ॥

प्रकाशिका

मार्जितमार्द्रीकृतमलकबन्धनं केशबन्धनं यस्य स तथा । तत्र तेषु विषयेषु मानयन्निव यथा पुरुषः स्वोत्तमान्प्रति बहुमानं करोति । स्वयमाचरत् ॥ ५ ॥

हाटकासन आसीनान् स्वधिष्ण्येष्विव पावकान् ।

श्रद्धासंयमसम्पन्नः प्रीतः प्राह भवाग्रजान् ॥ ६ ॥

पदरत्नावली

हाटकासने सुवर्णपीठे, स्वधिष्ण्येषु स्वस्थानेषु स्थितान् । संयमः प्रश्रयः । भवाग्रजान् शिवज्येष्ठान् । तृतीयस्कन्धे हरात्पूर्वजातत्वोक्तेः । संसाराग्रजातत्वं तद्विरुद्धत्वादुपेक्षणीयम्

॥ ६ ॥

प्रकाशिका

हाटकासनेषु सुवर्णपीठेषु, धिष्ण्येषु स्वस्थानेषु स्थितान् संयमः प्रश्रयः । भवाग्रजान् शिवतोऽपि पूर्वमुत्पन्नान् । तृतीयस्कन्धे हरात्पूर्वजातत्वोक्तेः ॥ ६ ॥

पृथुरुवाच–

अहो आचरितं कृष्णे मङ्गलं मङ्गलायनाः ।

यस्य वो दर्शनं ह्यासीद् दुर्दर्शानां कुयोगिनः ॥ ७ ॥

किं तस्य दुर्लभतरमिहलोके परत्र च ।

यस्य विप्राः प्रसीदन्ति शिवो विष्णुश्च सानुगः ॥ ८ ॥

पदरत्नावली

संसारिणां सतां सन्दर्शनस्य दुर्लभत्वात् । अतः पूर्वाचरितं मङ्गलं ममास्तीति ध्वनयन् विस्मयीकरोति– अहो इति । कृष्णे कृष्णविषये ॥ नैतच्चित्रमित्याह– किं तस्येति ॥ अनुगतेन प्रायेण सह वर्तत इति सानुगः । ‘कस्मिन् न्वहम्’ इति श्रुतिः ॥ ७,८ ॥

प्रकाशिका

प्रीतः प्राहेत्युक्तमेव प्रीतिपूर्वकं वचनं दर्शयति ॥ अहो इति दशभिः ॥ ७,८ ॥

नैव लक्षयते लोको लोकान् पर्यटतोऽपि यान् ।

यथा सर्वदृशं सर्व आत्मानं येऽस्य हेतवः ॥ ९ ॥

तात्पर्यम्

‘सर्वज्ञाश्च विरिञ्चाद्या न जानीयुर्हरिं परम् । हेतवो जगतोऽप्यस्य यथाऽसौ वेद केशवः’ ॥ इति तन्त्रसारे ॥ ९ ॥

पदरत्नावली

दुर्दर्शत्वमधिकदृष्टान्तेनोपपादयति– नैवेति ॥ लक्षयते लक्षणवत्तयाऽपि भवद्विषयं ज्ञानं नाप्नोति । असम्भवपरिहाराय पर्यटत इति । सर्वो जनः सर्वदृशं साक्षित्वेन पश्यन्त-मात्मानं तथा न जानाति । ब्रह्मादीनां तद्विषयज्ञानसम्भवात् कथं सर्व इति सर्वं कवलीक्रीयते इत्यत उक्तम्– य इति ॥ ये च ब्रह्मादयोऽस्य जगतो हेतवः कारणभूतास्तेऽपि न विदन्तीति । अत्रेदं तात्पर्यम् । यथाऽऽत्मानं स्वं हरिर्वेत्ति यथा न जानन्तीति । तदुक्तम्– ‘सर्वज्ञाश्च विरिञ्चाद्या न जानीयुर्हरिं परम् । हेतवो जगतोऽप्यस्य यथाऽसौ वेद केशवः ॥’ इति । अनेन वेदाहमेत-मित्यादेर्गतिरप्युक्ता भवति । दुष्टजनव्यामोहनाय वा तद्विषयज्ञानस्य दुःसाध्यत्वज्ञापनाय वाऽधिक-दृष्टान्तप्रयोजनम् । किं च जगत्कारणतामाददानोऽयं हेतुशब्दो विरिञ्चादीनां सार्वज्ञ्यमप्याक्षिपन् न सर्वात्मना ज्ञानाभावो युक्त इति श्रीनारायणवत् तद्विषयज्ञानाभाव एव उच्यत इति व्यनक्तीति ॥ ९ ॥

प्रकाशिका

दुर्दर्शत्वमेवाह ॥ नैवेति । लक्षयते पश्यति । अत्र दृष्टान्तमाह ॥ यथेति । अत्र ब्रह्मादीनां सर्वथा हरिज्ञानाभाव उच्यत इति प्रतीतिवारणाय तात्पर्यं प्रमाणेनैवाह ॥ सर्वज्ञाश्चेति । अनेन सर्वदृशमित्येतदुक्तार्थम् । चशब्दोऽप्यर्थः । अनेन मूलेऽस्याध्याहार्यं सूचयति । सर्व इत्यस्य विरिञ्चाद्या इति । न जानन्तीत्यध्याहारमभिप्रेत्याह ॥ न जानीयुरिति । आत्मानमित्यस्यार्थः हरिमिति । परं पूर्णम् । साकल्येनेति यावत् । अनेनेदमपि मूलेऽध्याहार्यमिति दर्शयति । अस्येत्यनुवादेन जगत इति व्याख्यानम् । अपीत्यनेनात्रापि मूलेऽपिशब्दोऽध्याहार्य इति सूचयति । ननु ब्रह्माद्यविदितं गुणजातं हरौ नास्त्येव प्रमाणाभावादित्याशङ्कापरिहारायात्र व्यतिरेकदृष्टान्तमाह ॥ यथेति । केशवः । ब्रह्मरुद्रप्रवर्तक इति हेतुगर्भविशेषणम् । यथा केशवो हरिं परिपूर्णं वेद तथा न जानीयुरिति । अनेन भगवत्प्रत्यक्षमेव तत्र प्रमाणमित्युक्तं भवति । तथा च यथा सर्वदृशः सर्वज्ञा अप्यस्य जगतो हेतवोऽपि सर्वे ब्रह्मरुद्राद्या आत्मानमन्तर्यामित्वेन समीपस्थं हरिं पूर्णं साकल्येन न जानन्ति तथैवेति मूलं व्याख्येयमिति भावः ॥ ९ ॥

अधना अपि ते धन्याः साधवो गृहमेधिनः ।

यद्गृहा अर्हवर्याम्बुतृणभूमिसुवाग्धराः ॥ १० ॥

पदरत्नावली

भवतां पुरुषेष्वनुग्राहकत्वे भगवद्भक्तिसामग्रीमत्वमेव प्रयोजकं, न तु धनिकत्वादिकमित्याशयेनाह– अधना अपीति ॥ अर्हवर्याः पूज्यश्रेष्टाः । तेभ्यो दत्ता अम्बु च तृणं च भूमिश्च सुवाचश्चार्हवर्यांबुतृणभूमिसुवाचस्ता धारयन्ति बिभ्रतीति तथोक्ताः ॥ १० ॥

प्रकाशिका

अर्हाणां पूज्यानां वर्या वरणीयाः स्वीकारयोग्या अम्बु च तृणं तृणासनं च भूमिश्च सुवाचश्च ता धरन्तीति तथोक्ताः ॥ १० ॥

व्यालालयद्रुमा ह्येते संसिद्धाखिलसंपदः ।

यद्गृहास्तीर्थपादीयपादतीर्थविवर्जिताः ॥ ११ ॥

पदरत्नावली

तीर्थपादो विष्णुस्तस्य भक्तास्तीर्थपादीयास्तेषां पादतीर्थैर्वर्जिताः । हिशब्दो यथाशब्दार्थे । यथा व्यालालया दुष्टसर्पाश्रया वृक्षा वर्ज्यास्तथा तादृग्गृहाः संपद्युक्तत्वेऽपि वर्ज्या इत्यर्थः

॥ ११ ॥

प्रकाशिका

व्यालालया दुष्टसर्पाश्रयाः । हि शब्द उपमार्थः । यथासपाश्रया द्रुमा न सेव्या तथा ये ग्रहाः संसिद्धाखिलसम्पदोऽपि तीर्थपादीया वैष्णवास्तेषां पादतीर्थेन वर्जिताः सर्वथा सम्बन्ध-रहिताश्चेन्न सेव्या इति ॥ ११ ॥

स्वागतं वो द्विजश्रेष्ठा यद् व्रतानि मुमुक्षवः ।

चरन्ति श्रद्धया धीरा बाला एव बृहन्ति वै ॥ १२ ॥

पदरत्नावली

किं बहुजल्पेनेति भावेन तदागमनं लालयति– स्वागतमिति । वो युष्माकं स्वागमनं सुष्टु, अस्माकं सुखहेतुत्वादिति शेषः । कथमस्मदागमनं सुखहेतुः ? अत्राह– यद् व्रतानीति ॥ मुमुक्षवो धीराः श्रद्धया यद्व्रतानि चरन्ति ते यूयं वयोदर्शनेन बाला अपि बृहन्ति ज्ञानेन वर्धन्ते । ज्ञानवृद्धत्वादागमनं भद्रमित्यर्थः ॥ १२ ॥

प्रकाशिका

यद्येषां वो बृहन्ति व्रतानि धीराश्च ते बालाः पण्डिताश्चात एव श्रद्धया मुमुक्षवः सन्तश्चरन्ति । वा इत्यनेनात्र प्रमाणप्रसिद्धिं दर्शयति । तेषां वो युष्माकं स्वागतं सुष्ट्वागमनं जातम्

॥ १२ ॥

कच्चिन्नः कुशलं नाथा इन्द्रियार्थार्थवेदिनाम् ।

व्यसनावाप एतस्मिन् पतितानां स्वकर्मभिः ॥ १३ ॥

पदरत्नावली

राजा स्वस्वागतवचनानन्तरं पृथुं प्रति तुभ्यं च स्वस्ति किमिति मुनिवचनात् पूर्वं स्वकुशलमाक्षिपति– कच्चिदिति ॥ व्यसनबीजान्युप्यन्तेऽस्मिन्निति व्यसनावापस् तस्मिन्नेतस्मिन् संसारे स्वकृतकर्मभिः पतितानां नः कुशलं क्वच्चित् किम् ? न किमपीत्यन्वयः । आत्मनो वाऽनेन कुशलं पृच्छति– अस्माकं कुशलं भविष्यति कच्चिदिति ॥ १३ ॥

प्रकाशिका

अकुशलसम्भावनाविषयेष्वस्मास्वकुशलं दृष्ट्वा तत्परिजिहीर्षयाऽऽगताः किमित्या-शयेन स्वकुशलं राजा पृच्छति ॥ कच्चिन्न इति । इन्द्रियार्थमिन्द्रियैर्भोगार्थमेवार्थं धनादिरूपं वस्तु विदन्तीतीन्द्रियार्थार्थवेदिनस्तेषां नो व्यसनान्युप्यन्तेऽस्मिन्निति व्यसनावापस्तस्मिन्संसारे । अनेना-कुशलसम्भावना दर्शिता ॥ १३ ॥

भवत्सु कुशलप्रश्न आत्मारामेषु नेष्यते ।

कुशलाकुशला यत्र न सन्ति मतिवृत्तयः ॥ १४ ॥

पदरत्नावली

नन्वभ्यागतास्मत्कुशलप्रशंसामन्तरेणात्मकुशलप्रश्नः कथं सञ्जाघटीतीति तत्राह– भवत्स्विति ॥ इदं कुशलमकुशलमिति मतिवृत्तयो यत्र येषु भवत्सु न सन्ति । अतो भवत्सुखप्रश्नो नेष्यते । कुतः ? आत्मना सह आरामो रमणं क्रीडा येषां ते तथा तेषु । अतो भवत्सु कुशलप्रश्नांशाभावादौत्सुक्यादात्मकुशलप्रश्न इति भावः ॥ १४ ॥

प्रकाशिका

नन्वभ्यागतानामस्माकं कुशलमपृष्ट्वा कथमात्मकुशलप्रश्नः कृत इत्याशङ्कायां युष्मास्वकुशलसम्भावनैव नास्तीत्याह ॥ भवत्स्विति । इदं कुशलमिदमकुशलमिति मतिप्रवृत्तयो यत्र येषु न सन्ति तेष्वात्मारामेषु हरावेव सम्यग्रमणवत्सु भवत्सु कुशलप्रश्नो नेष्यते । प्रिया-प्रिययोस्तुल्यचित्तवृत्तित्वेनाकुशलसम्भावनाया एवाभावादिति भावः ॥ १४ ॥

तदहं कृतविश्रम्भः सुहृदोऽत्र१ वस्तपस्विनाम् ।

संपृच्छे भव एतस्मिन् क्षेमः केनाञ्जसा भवेत् ॥ १५ ॥

पदरत्नावली

अस्तु तर्हि तव कुशलं भविष्यतीत्यभिमतं चेद् यतो वयमकुशलाब्धि-मग्नास्तस्मादेतादृशानां केन प्रकारेण कुशलं स्यादिति तं प्रकारं पृच्छामीत्याह– तदहमिति ॥ तपस्विनां सुहृदोऽत्र पूज्यान् भवे संसारे क्षेमः संसारोच्छेदलक्षणं मङ्गलमञ्जसा क्षिप्रं स्यात् । द्राग् झटित्यञ्जसाह्नायेत्यमरः ॥ १५ ॥

प्रकाशिका

तत्तस्मादात्मारामत्वात्कृतविश्रंभः कृतविश्वासः सन् तपस्विनां योगिनां सुहृदो वो युष्मान् । भवे संसारे वर्तमानानाम् । जनानामिति शेषः । अंजसा क्षेम आत्यन्तिकदुःखनिवृत्तिरूपो मोक्षः केन साधनेन भवेदिति संपृच्छे आदरेण पृच्छामि ॥ १५ ॥

व्यक्तं ह्यात्मवतामात्मा भगवानात्मभावनः ।

स्वानामनुग्रहायेमां सिद्धरूपी चरत्यजः ॥ १६ ॥

तात्पर्यम्

‘हरेस्तु प्रतिमाः प्राज्ञास्तत्रस्थः केशवः स्वयम् । ददाति ज्ञानमीशेशः परमात्मा स्वयं विभुः’ ॥ इति च ॥ १६ ॥

पदरत्नावली

ननु मोक्षविषयप्रश्नपरिहारो दुरवबोधोऽतोऽन्यं सुशकं पृच्छ नचिकेतो मरणं मानुप्राक्षीरिति श्रुतेरित्याशङ्क्य भवन्तो भगवद्विशेषसन्निधानपात्रत्वात् पृष्टार्थव्याख्यानसमर्था इत्यभि-प्रेत्याह– व्यक्तमिति ॥ व्यक्तं स्पष्टे बुधे तु नेत्यभिधानादत्र स्पष्टं व्यक्तमित्यर्थः । आत्मवतां ब्रह्मादि-योगिनामात्मा अभीष्टवर्षी हि । आत्मभावनो मनःप्रेरकश्चेतनानां सत्ताप्रदो जन्मादिरहितो भगवान् स्वभक्तानामनुग्रहायेमां भूमिं, सिद्धरूपी, भवादृशाः सिद्धास्त एव रूपं प्रतिमा अस्यास्तीति, चरतीत्यन्वयः । ‘हरेस्तु प्रतिमाः प्राज्ञास्तत्रस्थः केशवः स्वयम् । ददाति ज्ञानमीशेशः परमात्मा स्वयं प्रभुः ॥’ इत्यतो ज्ञानिनां प्रतिमात्वं सिद्धम् । अतोऽप्यत्रात्मवतां व्यक्तं स्पष्टमिति पुनरावृत्त्या योज्यम्

॥ १६ ॥

प्रकाशिका

ननु विष्णुर्हि दाता मोक्षस्येति वचनान्मोक्षसाधननिरूपणं विष्णुनैव कार्यं नास्माभिरित्याशङ्कायां सत्यं विष्णुर्भवत्सु संनिहितोऽस्ति स एवोपदिशतीत्याशयेनाह ॥ व्यक्तमिति । अत्राजः सिद्धरूपी चरतीत्युक्त्या सिद्धानां सनकादीनां हर्यभेदः प्रतीयतेऽतोऽत्र विवक्षिततात्पर्यं प्रमाणेनैव दर्शयति ॥ हरेरिति । तु विशेषेण प्रतिमाः संनिधानपात्रभूताः । कुत इत्यत उक्तम् ॥ तत्रस्थ इति । स्वयं साक्षात्तत्रस्थस्तेषु संनिहितो यतोऽतः प्रतिमाः । तत्रस्थ इत्येतदेव कुत इत्यत उक्तम् ॥ ईशेश इति । ईशानामीशो ज्ञानं मोक्षजनकं स्वयं स्वयमेव ददात्युपदिशति नान्योऽत उपदेष्टृषु प्राज्ञेषु संनिहित इति ज्ञायत इत्यर्थः । अन्य उपदेष्टा किं न स्यादित्यत आह ॥ परमात्मेति । परमात्मा स्वयमेव विभुस्तत्र समर्थो नान्य इति ॥ ततश्चायं श्लोकार्थः ॥ व्यक्तं निश्चितमात्मवतां देहधारिणामात्माऽन्तर्याम्यात्मानं स्वात्मानं भावयति प्रकाशयतीत्यात्मभावनः स्वस्वरूपोपदेष्टा सन् इमां पृथिवीं सिद्धाः प्राज्ञास्त एव रूपं प्रतिमा अस्यास्तीति स तथा । सिद्धेषु संनिहित इति यावत् । चरति पर्यटति ॥ १६ ॥

मैत्रेय उवाच –

पृथोस्तत्सूक्तमाकर्ण्य सारं सुष्ठु मितं मधु ।

स्मयमान इव प्रीत्या कुमारः प्रत्युवाच ह ॥ १७ ॥

पदरत्नावली

पृथोः कण्ठशोषणपर्यन्तं तदुक्तं श्रुत्वा निरपेक्षत्वादन्यतो गतं तैरिति शङ्का माभूत् सूक्तत्वात् सारत्वात् कर्णसुखत्वात् प्रत्युत्तरयितुं शक्तत्वाच्चेति तत्र सनत्कुमारस्तं प्रत्याहेत्याह– मैत्रेय इति ॥ मधु नाम सुखं विद्यादित्यादेः ॥ १७ ॥

प्रकाशिका

सूक्तं शोभनं वचनं यस्य । सारं श्रेष्ठार्थं सुष्ट्वपशब्दादिविधुरं मितमल्पाक्षरम् । मधुरं श्रोत्रप्रियम् । मधु नाम सुखं विद्यादित्यादेः । प्रीत्या स्मयमान इव प्रतीयमानः ॥ १७ ॥

सनत्कुमार उवाच–

साधु पुष्टं महाराज सर्वभूतहितात्मना ।

भवता विदुषा चापि साधूनां गतिरीदृशी ॥ १८ ॥

पदरत्नावली

किमाह ?– साध्विति ॥ यथा हि साधूनां गतिः स्थितिरीदृशी स्वयं विद्वानपि लोकोपकाराय प्रवर्तत इति ॥ १८ ॥

प्रकाशिका

विदुषाऽपि मोक्षसाधनं जानताऽपि । चशब्दो हेतौ । यस्मात्साधूनां गतिः स्थितिरीदृशी परोपकारनिरता । तस्मात्सर्वभूतहितात्मना सर्वसज्जनहितान्तःकरणेन भवता यत्पृष्टं तत्साधु ॥ १८ ॥

सङ्गमः खलु साधूनामुभयेषां सुसंमतः ।

१यत्सम्भाषणसंप्रश्नः सर्वेषां वितनोति शम् ॥ १९ ॥

पदरत्नावली

न केवलं तवैवास्मद्दर्शनेन शमस्माकमपीति भावेनाह– संगम इति ॥ शं भगवान्निष्ठालक्षणं सुखम् ॥ १९ ॥

प्रकाशिका

स्वयमपि पृथोः सङ्गमभिनन्दन्ति ॥ सङ्गम इति । साधूनां युष्माकं सङ्गमः । उभयेषां वक्तॄणामस्माकं श्रोतॄणां च संमतः सुखजनकः । कथमित्यतस्तदुपपादयति ॥ यत्सम्भाषणेति । येषां युष्माकं सम्भाषणसहितसंप्रश्नः सर्वेषां नः शं सुखं भगवन्निष्ठालक्षणं वा वितनोति विस्तारयति

॥ १९ ॥

अस्त्येव राजन् भवतो मधुद्विषः पादारविन्देऽस्य गुणानुवादने ।

रतिः सदा या विधुनोति नैष्ठिकी कामं कषायं मलमन्तरात्मनः ॥ २० ॥

तात्पर्यम्

कषणेन गच्छतीति कषायः पापम् । तदुभयमेव मलम् ॥ २० ॥

पदरत्नावली

अत्र शिक्षणीयांशोऽस्माकं नास्तीति भावेनाह– अस्त्येवेति ॥ भवतोऽस्य मधुद्विषः पादारविन्दे गुणानुवादलक्षणा रतिरस्त्येव । या रतिः कषायं मनः कलुषीकुर्वाणं कामं विषयतृष्णालक्षणं, कषेण कर्षणेन गच्छतीति कषायं, पापम्, एवमुभयविधमन्तरात्मनो मलं किट्टं विधुनोतीत्यन्वयः । अनेन हरौ रतिरितरत्र हरिद्विष्ष्वरतिर्विरक्तिरिति द्वयं पुरुषार्थस्य मुख्य-साधनमुक्तमिति ज्ञेयम् । तदुक्तं ‘रतिः परात्मनि हरावन्यत्रारतिरेव च । पुमर्थसाधनं ज्ञेयं नातोऽ-न्यन्मुख्यमिष्यते ॥’ इति ॥ २० ॥

प्रकाशिका

एवं तदीयं प्रश्नं सङ्गमं चाभिनन्द्येदानीं यन्मोक्षसाधनतया प्रसिद्धं हरिकथाश्रवणे रत्यादिकं तत्सर्वं त्वयि प्रसिद्धमेवास्तीति प्रत्युत्तरं वदन् अनुवादमुखेनैवादित आरभ्य मोक्ष-साधनपरंपरामुपदिशति ॥ अस्त्येवेत्यादिना । गुणानामनुवादने प्रश्नद्वारेणानुवादप्रवर्तने । श्रवणे इति यावत् । श्रवणरतिसाध्यफलमाह ॥ येति । नैष्ठिकी निष्ठया क्रियमाणा । कषायपदमप्रतीत्या व्याख्याति ॥ कषणेनेति । कषः कषणं हरिस्मरणादिरूपं प्रायश्चित्तं तेन याति गच्छतीति निरुक्तिरुक्तेति ज्ञातव्यम् । तत्किमित्यपेक्षायामाह ॥ पापमिति । तर्हि कथं तस्य कामविशेषणत्वमित्यपेक्षायां न तद्विशेषण-मित्याशयेनाह ॥ तदुभयमेवेति । मलम् । अन्तरात्मन इति शेषः । उभयोः प्राधान्याभिप्रायेणैवकारः । क्रोधादिकं त्वत्प्रधानमित्याशयः । यद्यपि पापं न कामादिवन्मनोवृत्तिरूपमलं तथाऽपि कामादिद्वारा मनोजन्यत्वात्तन्मनोमलत्वेनात्रोक्तमिति मन्तव्यम् । तथा च कामं कषायं पापमित्युभयविधमन्तरात्मनो मनसः प्रधानं मलं विधुनोति सा भवतोऽस्त्येवेति मूलयोजना द्रष्टव्या ॥ २० ॥

शास्त्रेष्वियानेव सुनिश्चितो नृणां क्षेमस्य सम्यग्विमृशेषु हेतुः ।

असङ्ग आत्मव्यतिरिक्तवस्तुनि दृढा रतिर्ब्रह्मणि निर्गुणे च या ॥ २१ ॥

तात्पर्यम्

‘रतिः परात्मनि हरावन्यत्रारतिरेव च । पुमर्थसाधनं ज्ञेयं नातोऽन्यन्मुख्य-मिष्यते’ इति ॥ २१ ॥

पदरत्नावली

एतदेव विशिनष्टि– शास्त्रेष्विति ॥ सम्यग्विमृशेषु समीचीनविचारवत्सु । कोऽसावित्यत आह– असङ्ग इति ॥ आत्मनो व्यतिरिक्ते परमात्मनो भिन्ने ब्रह्मादितृणान्तवस्तुनि असङ्गो हेयलक्षणा बुद्धिर्ब्रह्मणि परिपूर्णे निर्गुणे सत्त्वादिगुणरहिते निर्णीतानन्दादिगुणे वा । निर्निर्णयनिषेधयोरित्यभिधानात् । हरौ या रतिर् एतद् द्वयं मुख्यसाधनमित्यर्थः ॥ २१ ॥

प्रकाशिका

एवं श्रवणरत्या साध्यं मनोनैर्मल्यं फलमुक्त्वा तत्साध्यं विषयवैराग्यं तेन हरौ दृढभक्तिरित्याशयेनाह ॥ शास्त्रेष्विति । शास्त्रेषु वेदादिषु सम्यग्विमृशेषु समीचीनविचारवत्सु । सम्यग्विचारितेषु सत्स्विति यावत् । इयानेव क्षेमस्य मोक्षस्य सुनिश्चितो हेतुः । कोऽसावित्यत आह ॥ असङ्ग इति । आत्मव्यतिरिक्ते परमात्मनो भिन्ने ब्रह्मादितृणान्तवस्तुन्यसङ्गो स्नेहाभावः । वैराग्यमिति यावत् । तेन ब्रह्मणि परिपूर्णे निर्गुणे सत्वादिगुणहीने या दृढा रतिः सा चेयानेवेति सम्बन्धः । ननु श्रद्धापूर्वकं भगवद्धर्मानुष्ठानादिकमपि मोक्षसाधनतया शास्त्रेषूच्यतेऽतः कथमियानेवेत्यवधारणमित्याशङ्कां प्रमाणेनैव परिहरति । रतिरिति । अन्यत्र जगत्यरतिश्चेत्येतद्वयमेव मुख्यं प्रधानं पुरुषार्थसाधनं मोक्षसाधनमतोऽस्मान्मोक्षसाधनद्वयादन्यद्भगवद्धर्माचरणादिकं न मुख्यमित्यर्थः । तथा च मूले एतद्वयमेव मुख्यहेतुरन्यस्त्वमुख्य इत्यवधारणाभिप्रायः । तेषां मोक्षहेतुत्ववचनं त्वमुख्यसाधन-त्वाभिप्रायकमतो न विरोध इत्याशयः ॥ २१ ॥

तच्छ्रद्धया भगवद्धर्मचर्यया जिज्ञासयाऽऽध्यात्मिकयोगनिष्ठया ।

योगेश्वरोपासनया च नित्यं पुण्यश्रवःकथया पुण्यया च ॥ २२ ॥

पदरत्नावली

एतादृशं साधनं कथं स्यादिति तत्साधनान्याह– तच्छ्रद्धयेति ॥ तस्मिन् हरौ श्रद्धया, भगवद्धर्माणां वर्णाश्रमविहितानां चर्यया चरणेन, जिज्ञासया ब्रह्मविचारेण, आध्यात्मिक-योगोऽष्टाङ्गयोगस्तन्निष्टया, पुण्यश्रवा हरिस्तत्कथया ॥ २२ ॥

प्रकाशिका

कथं तेषाममुख्यसाधनत्वमित्यतस्तेषामुक्तमुख्यसाधनरूपवैराग्यभक्त्योराञ्जस्य-हेतुत्वादित्याशयेनाह ॥ तच्छ्रद्धयेति । तस्मिन्हरौ श्रद्धया भगवद्धर्माणां वर्णाश्रमादिविहितानां चर्ययाऽऽचरणेन । जिज्ञासया ब्रह्मविचारेणाध्यात्मिक अध्यात्मादिविषयको योगोऽष्टाङ्गयोगस्तन्निष्ठया । पुण्यश्रवा हरिस्तस्य कथया ॥ २२ ॥

अर्थेन्द्रियारामगुणेष्वतृष्णया तत्सम्मतानामपरिग्रहेण च ।

विविक्तरुच्या परितोष आत्मन् विना हरेर्गुणपीयूषपानात् ॥ २३ ॥

पदरत्नावली

अर्थस्य देहस्य इन्द्रियाणां वाऽऽरामेषु क्रीडावनेषु गुणेषु विषयेष्वतृष्णया हेयबुद्ध्या, तेषां विषयाणां सम्मतानां स्रक्चन्दनवनितादीनामपरिग्रहेणास्वीकारेण, आत्मन् देह-भोगविषये परितोषोऽलंबुद्धिः ॥ २३ ॥

प्रकाशिका

अर्थस्य देहस्येन्द्रियाणां चारामेषु क्रीडावनरूपेषु गुणेषु विषयेष्वतृष्णयाऽ-सारत्वबुद्ध्या । ते विषयाः संमता येषां पुरुषाणां तेषामपरिग्रहेणास्वीकारेण विविक्तदेशे रुच्या आत्मन् आत्मनि परमात्मनि देहभोगविषये परितोषोऽलम्बुद्धिः । अथवा आत्मनि परमात्मनि परितोषे सारताबुद्धिजनितसन्तोषे सति ब्रह्मणि रतिरञ्जसा स्यादिति वक्ष्यमाणेन साधनवचनानामन्वयः । ननु कथं विविक्तरुचिः परितोषसाधनतयोच्यते । तथात्वे हरिकथाश्रवणासम्भवादित्यत उक्तम् ॥ विनेति । हरेर्गुणा एव पीयूषं तस्य पानात्कथाश्रवणाद्विना विविक्तरुच्येत्यन्वयः । हरिकथामृतपानाभाव एव विविक्तरुचिस्तत्सद्भावे तु न विविक्तरुचिः कार्येत्यन्वयः ॥ २३ ॥

अहिंसया पारमहंस्यचर्यया स्मृत्या मुकुन्दाचरिताग्य्रसीधुना ।

यमैरकामैर्नियमैरभिध्यया निरीहया द्वन्द्वतितिक्षया च ॥ २४ ॥

पदरत्नावली

स्मृत्या जन्मजरादिचिन्तया । सीधु सुधा । पूर्वत्र कथं वाक्यप्रबन्ध इति धातोर् भगवद्गुणसन्दृब्धशास्त्रेण, उत्तरत्र तत्कृतकंसवधादिपराक्रमलक्षणकर्मामृतपानेन । ‘अहिंसा सत्यमस्तेयं ब्रह्मचर्यं दयाऽर्जवम् । क्षमा धृतिर्मिताहारः शौचं चैते यमा दश ॥ कर्मणा मनसा वाचा सर्वभूतेषु सर्वदा । ओशजननं प्रोक्तमहिंसा त्विह योगिभिः ॥ तपः संतोष आस्तिक्यं दानमीश्वरपूजनम् । सिद्धान्तश्रवणं चैव ह्रीर्मतिश्च जपो व्रतम् ॥ एते तु नियमाः प्रोक्ताः ॥’ इति याज्ञवल्क्य-योगशास्त्रेऽभिधानात् । अभिध्यया अखण्डस्मरणेन । निरीहया अनिषिद्धचेष्टया ॥ २४ ॥

प्रकाशिका

व्यर्थहिंसापरित्यागेन पारमहंस्यचर्यया शमादिप्रधानया वृत्त्या स्मृत्या । कथम्भूतया । मुकुन्दचरितमेवाग्य्रसीध्वमृतं विषयभूतं यस्याः सा तथा तया । यमैर् अहिंसायाः पृथग्ग्रहणा-त्सत्यास्तेयब्रह्मचर्यादिपरिग्रहैः । नियमैः शौचतपस्तुष्टिस्वाध्यायहरिपूजनैः । विष्णुवैष्णवानामनिन्दया । निरीहयाऽनिषिद्धचेष्टया द्वन्द्वतितिक्षया शीतोष्णादिद्वन्द्वसहनेन ॥ २४ ॥

हरेर्मुहुस्तत्परकर्णपूरया गुणाभिधानेन विजृम्भमाणया ।

भक्त्या ह्यसङ्गः सदसत्परात्मनि स्यान्निर्गुणे ब्रह्मणि चाञ्जसा रतिः ॥ २५ ॥

पदरत्नावली

तत्परा हरिपरास्तेषां कर्णं पूरयतीति कर्णपूरणं कर्णाभरणं वा यद्धरेर्मुहु-र्गुणाभिधानं तेन । लिङ्गव्यत्ययश्छांदसः । यद्वा हरेर्गुणाभिधानेन विजृम्भमाणया भक्त्या । कीदृश्या ? तत्परकर्णपूरया । एतैरुक्तैः साधनैः सदसत्कार्यकारणात्मकप्रपञ्चविषयेऽसङ्गः स्यात् । प्रथमा सप्तम्यर्थे । परात्मनि मुक्तप्रपञ्चस्वामिनि निर्गुणे ब्रह्मणि च रतिः स्यादित्यन्वयः । यद्वा सदसतोर् जगतः परश्चात्मा चेति सदसत्परात्मा तस्मिन् ॥ २५ ॥

प्रकाशिका

हरेर्भक्त्येत्यन्वयः । कथंभूतया । मुहुर्विजृम्भमाणया वर्धमानया । केन तत्पर-कर्णपूरगुणाभिधानेन । तत्परा हरिभक्तास्तेषां कर्णपूराः कर्णालङ्कारभूता ये गुणास्तेषामभिधानेन कथनेन । पूर्वं श्रवणमुक्तम् । अत्र तु कथनमुच्यत इति न पौनरुक्त्यम् । एतैः साधनैरंजसेति वक्ष्यमाण-मत्रापि सम्बध्यते । अंजसाऽसङ्गो विषयवैराग्यं स्यात् । ततः सदसतोः कार्यकारणयोः परश्चात्मा स्वामी च तस्मिन्सत्त्वादिगुणहीने परिपूर्णेंऽजसा रतिश्च स्यात् ॥ २५ ॥

यदा रतिर्ब्रह्मणि नैष्ठिकी पुमानाचार्यवान् ज्ञानविरागरंहसा ।

दहत्यबीजं हृदयं जीवकोशं पञ्चात्मकं योनिमिवोत्थितोऽग्निः ॥ २६ ॥

दग्धाशयो मुक्तसमस्ततद्गुणो नैवात्मनो बहिरन्तर्विचष्टे ।

परात्मनोर्यद् व्यवधानं पुरस्तात् स्वप्ने यथाऽपुरुषस्तद्विनाशे ॥ २७ ॥

तात्पर्यम्

अबीजं हृदयं बीजहृदयं विना । ‘जीवोपाधिर्द्विधा प्रोक्तः स्वरूपं बाह्यमेव च । बाह्योपाधिर्लयं याति मुक्तावन्यस्य तु स्थितिः । सर्वोपाधिविनाशे हि प्रतिबिम्बः कथं भवेत् । कथं चात्मविनाशाय प्रयत्नः सेत्स्यति क्वचित् । अपुमर्थता च मुक्तेः स्यादभावात्पुंस एव तु । ज्ञानज्ञेयाद्यभावाच्च सर्वथा नोपपद्यते । तस्मादेतन्मतं येषां तमोनिष्ठा हि ते मताः’ इति स्कान्दे ॥

दग्धाशयः । बीजाशयनाशे तद्गुणानां ज्ञानादीनामभावान्न किञ्चिद्विचक्षीत । परमात्मनोर्यदा व्यवधानं संसारावस्थायां तदा स्वप्न इवेत्येतावद्बीजहृदयनाशे त्वपुरुष एव । आत्मनाश एवेत्यर्थः । अतः संसारावस्थैवोत्तमा स्यात् ।

‘भिदा यदि न दृश्येत जीवात्मपरमात्मनोः । मुक्तौ तदा विमोक्षाय को यत्नं कर्तुमर्हति’ इति ब्रह्माण्डे ॥ ‘मग्नस्य हि परेऽज्ञाने किं न दुःखतरं भवेत् । प्रवृत्तिधर्ममेवाहं मन्ये भरतसत्तम’ ॥ इति मोक्षधर्मेषु ॥ २६ ॥

पदरत्नावली

अस्तु ब्रह्मण्यसङ्गनिशिता रतिः । ततः किम् ? तत्राह– यदेति ॥ यदा ब्रह्मणि नैष्ठिकी सर्वोत्कृष्टा रतिरपरोक्षज्ञानलक्षणा भवति तदाचार्यवांस्तदुपदिष्टार्थसाफलत्यात् तद्भक्ति-मान् पुमान् ज्ञानवैराग्ययोः रंहसोद्रेकेण अबीजं हृदयं स्वरूपोपाधिं विना बाह्योपाधिं दहतीत्यन्वयः । किमनेन जीवस्येत्यत उक्तं– जीवकोशमिति ॥ जीवस्य गृहस्थानीयम् । तर्हि तद्दाहे जीवोऽपि दग्धः स्यादित्यत उक्तं– पञ्चात्मकमिति ॥ पञ्चभूतस्वरूपमत एव बाह्यमित्युच्यते । ‘जीवोपाधिर्द्विधा प्रोक्तः स्वरूपं बाह्यमेव च । बाह्योपाधिर्लयं याति मुक्तावन्यस्य तु स्थितिः । सर्वोपाधिविनाशे हि प्रतिबिम्बं कथं भवेत् । कथं चात्मविनाशाय प्रयत्नः सेत्स्यते क्वचित् । अपुमर्थता च मुक्तेः स्यादभावात् पुंस एव तु । ज्ञानज्ञेयाद्यभावाच्च सर्वथा नोपपद्यते । तस्मादेतन्मतं येषां तमोनिष्ठा हि ते मताः ॥’ इति वचनात्, न स्वरूपबीजहृदयदाहोऽत्रार्थः । किं त्वस्वरूपोपाधेरित्यभिप्रायः । तत्र दृष्टान्तमाह– योनिमिति ॥ अरणेरुत्थितोऽग्निरिवेति ॥

बीजाशयनाशे तद्गुणानां ज्ञानादीनामपि नाशादात्मनो बहिरन्तरिति भेदं न विचष्टे न विपश्यति, अन्यदर्शनाभावेऽपि स्वात्मानं पश्यतीत्यतः– एवेति ॥ अन्धवद् दृष्ट्यभावान् न किंचिदपि पश्यतीत्यर्थः । कथं तर्हि संसारावस्थायाम् ? अत्राह– परात्मनोरिति ॥ परस्येश्वरस्यात्मनो जीवस्य च यद् यदा पुरस्तात् संसारावस्थायां व्यवधानं जवनिकस्थानीयावस्था तदा यथा स्वप्ने संदिग्धज्ञान-मेतावदज्ञानं भवतीति । तत्र तद्विनाशे बीजहृदयनाशे त्वपुरुष एव आत्मनाश एव । अतः स्वरूपज्ञाननाशात् संसारावस्थैवोत्तमा स्यात् । किञ्चिज्ज्ञानस्यापि सम्भवादिर्त्थः । उक्तादन्यथा स्वीकारे ‘भिदा यदि न दृश्येत जीवात्मपरमात्मनोः । मुक्तौ तदा विमोक्षाय को यत्नं कर्तुमर्हति ॥ मग्नस्य हि परेऽज्ञाने किं न दुःखतरं भवेत् । प्रवृत्तिधर्ममेवाहं मन्ये भरतसत्तम ॥’ इति प्रमाणविरोध आपद्येत इति ॥ २६,२७ ॥

प्रकाशिका

वैराग्यभक्त्योरांजस्येनापि किमित्यत आह ॥ यदेति । निष्ठां प्राप्ता नैष्ठिकी । दृढेति यावत् । आचार्यवान् आचार्यस्य समग्रानुग्रहवान् । ज्ञानविरागयोरपरोक्षज्ञानपटुतरवैराग्ययो रंहसा वेगेन जीवकोशं जीवस्य कोशस्थानीयमावरकं पञ्चात्मकं पञ्चभूताद्यात्मकं लिङ्गशरीररूपं बाह्यमुपाधिं दहति । नन्वेवं तदन्तर्गतस्य जीवस्यापि नाशः प्राप्त इत्यत उक्तम् ॥ अबीजं हृदयमिति । अत्र बीजशब्दो व्यंजकत्वाज्जीवस्वरूपपरः । हृदयशब्दश्चोपाधिपरः । तथा च जीवस्वरूपोपाधिभिन्न इत्यर्थः प्राप्तः । नैतावतोक्तशङ्कापरिहारः । देवदत्तभिन्नस्य गृहस्य दाहे उक्तेऽपि तदन्तर्गतस्य देवदत्तस्य दाहप्रतीतेः सम्भवादतोऽत्र विवक्षितमर्थं दर्शयति ॥ अबीजेति । तथा चात्र नञो नान्यत्वमर्थः किन्तु विनाशब्दवाच्यं वर्जनमेवेत्याशयः । ततश्चाबीजं हृदयं जीवस्वरूपमुपाधिमवर्जयित्वेति मूलार्थ इति ज्ञातव्यम् ।

ननु कुत एवं जीवस्योपाधिद्वयं तत्र बाह्यस्यैव नाशो न स्वरूपभूतस्येत्यतोऽत्र प्रमाणं पठति ॥ जीवोपाधिरिति । जीवस्य प्रतिबिम्बत्वसम्पादक उपाधिर्जीवोपाधिः । स्वरूपं जीवस्य स्वरूपभूतं हठापरपर्याययोग्यतालक्षणम् । बाह्यं लिङ्गशरीरादिरूपं द्विधैव प्रोक्त इत्यन्वयः । अबीजं हृदयम् । जीवकोशं दहतीत्यस्य तात्पर्यं बाह्योपाधिरिति । अन्यस्य स्वरूपोपाधेः । चोऽवधारणे । स्थितिरेव कुत इत्यतो विपक्षे बाधकमाह ॥ सर्वेति । बाह्योपाधिवत्स्वरूपोपाधेरपि नाशे इत्यर्थः। कथं भवेन्न कथमपि । प्रतिबिम्बोऽपि नश्येदित्याशयः । हिशब्दः स्वरूपोपाधिनाशस्य प्रतिबिंबनाशाविनाभावसूचकः । अनेनोत्तरश्लोके पुरुषस्तद्विनाश इत्येतदुक्ततात्पर्यम् । तस्योपाधेः सर्वस्य विनाशेऽपुरुषः प्रतिबिंबनाशः स्यादिति । तस्यैव प्रकारान्तरेण तात्पर्यमाह ॥ कथं चेति । प्रतिबिम्बस्यैवात्मनो नाशादिति भावः । तथात्वे स्वमोक्षार्थमधिकारिणो यत्नो न स्यादित्यर्थः । अनेन तद्विनाशेऽपुरुषो यत्नवान्न स्यादिति मूलयोजनां सूचयति ॥ न विद्यते पुरुषोऽर्थी यस्य सोऽपुरुषो मोक्षः स्यादित्यपि मूलयोजनामभिप्रेत्य तत्तात्पर्यमाह ॥ अपुमर्थतेति । तद्विनाश इत्यस्य तात्पर्यम् अभावादिति । तुशब्दः पुंसोऽर्थित्वरूप-विशेषार्थः । उत्तरश्लोके पूर्वार्धतात्पर्यमाह ॥ ज्ञानज्ञेयेति ॥ विचष्ट इत्येतल्लब्धार्थप्रदर्शनं ज्ञानेति ज्ञेयेत्यनेन बहिरन्तर इत्येतदुक्तार्थम् । ज्ञातुरभावे ज्ञानाभावेन ज्ञेयस्याप्यभावः । आदिपदेनेच्छासुखादे-र्ग्रहणम् । तेन मुक्तसमस्ततद्गुण इत्येतदुक्ततात्पर्यम् ॥ नोपपद्यते । मुक्तेः पुमर्थतेति वर्तते । उक्ततर्काणां विपर्ययपर्यवसानमभिप्रेत्याह ॥ तस्मादिति । उक्तापाद्यानामनिष्टत्वेऽङ्गीकारानर्हत्वादित्यर्थः । येषामेतत्सर्वोपाधिविनाश इति मतं ते तमोनिष्ठास्तामसाः। ते तमोयोग्या इति वा । तथा च नाङ्गीकार्यमित्याशयः । अनेनेदं वाक्यं मूले पूरणीयमिति सूचयति । एवं दग्धाशय इति पूर्वार्धमुत्तरार्धेऽ-पुरुषस्तद्विनाशे इति वाक्यं चानिष्टापादनपरतया प्रमाणेनैव व्याख्यायेदानीं समग्रश्लोकं स्ववचनेनाप्य-निष्टापादनपरतया व्याख्याति ॥ दग्धाशय इति । आशयपदमुपाधिपरम् । बीजाशयनाशेऽङ्गीक्रियमाण इत्यर्थः । अनेन दग्धाशयो यदीति मूलव्याख्यां सूचयति । मुक्तसमस्ततद्गुणः स्यादित्यापादनमभिप्रेत्य तत्तात्पर्यमाह ॥ तद्गुणानामिति । जीवगुणानां ज्ञानसुखेच्छादीनामभावः स्यादिति शेषः । ततोऽपि किमित्यतोऽनिष्टप्रसङ्गान्तरं वक्तंु नैवात्मन इत्युक्तम् । तत्तात्पर्यमाह ॥ अभावादिति । ज्ञानादीनामिति वर्तते । आत्मनोऽन्तर्बहिरित्यस्यार्थः किञ्चिदिति । विचष्ट इत्यस्यार्थः विचक्षीतेति । ततोऽपि किमित्यतोऽनिष्टप्रसङ्गान्तरं वक्तुं द्वितीयार्धं प्रवृत्तमित्याशयेन द्वितीयार्धं व्याख्याति ॥ परमात्मनोरिति परेत्यस्यार्थः परमेति । परमो हरिरात्मा जीवश्च तयोरित्यर्थः । यत इत्यस्यार्थः यदेति । व्यवधानमित्येतल्लब्धार्थप्रदर्शनं संसारावस्थायामिति । तदेत्यध्याहृत्य स्वप्ने यथेत्यस्यार्थमाह । तदेति । यथेत्यनन्तरमध्याहार्यमाह ॥ एतावदिति । स्वप्ने यथाऽऽल्पास्थिरविषयभोग एतावान्मात्रमित्यर्थः । ततः किमित्यत उक्तम् ॥ अपुरुषस्तद्विनाश इति । अस्यार्थमाह ॥ बीजहृदयेति । बीजहृदयमित्यत्र प्रकृतबीजहृदयपरामर्शकस्तच्छब्द इत्याशयः । किमनेनानिष्टमुक्तमित्यतस्तात्पर्यमाह ॥ अत इति । मुक्त्यवस्थात इत्यर्थः । स्यादित्यनन्तरमित्याशय इति शेषः । अस्योक्तरीत्याऽनिष्ठापादनपरत्वेन व्याख्येयत्वे प्रमाणान्तरसंवादमप्याह ॥ भिदेति । न दृश्येत न स्यात् । यदि जीवनाशः स्यादिति यावत् । अनेन दग्धाशय इत्येतदुक्तार्थम् । कः कर्तुमर्हति न कोऽपि कुर्यादित्याशयः । अनेनापुरुष इत्येतदुक्ततात्पर्यम् । न किञ्चिद्विचक्षीतेत्यस्यानिष्ठत्वं प्रमाणेनैव दर्शयन् अतः संसारावस्थैवोत्तमा स्यादित्यत्रापि समाख्याप्रमाणं पठति ॥ मग्नस्य हीति । अज्ञाने ज्ञानाभावे मग्नस्य तद्युक्तस्य दुःखतरं न भवेत्किं भवेदेव । सुप्तावपि स्वरूपादिज्ञानसद्भावान्न व्यभिचार इति ज्ञातव्यम् । अतः प्रवृत्तधर्मं तत्फलरूपं संसारमेवाहं मन्ये । उत्तममिति शेषः ॥ ततश्च दहत्यबीजमिति सार्धश्लोकस्यायमर्थः ॥ अ बीजं हृदयमिति पदत्रयम् । तथा च बीजं जीवस्वरूपभूतं हृदयमुपाधिम् अविनेत्यर्थः । पञ्चात्मकं जीवस्य कोशमावरकं बाह्योपाधिभूतं लिङ्गशरीरादिकं दहतीत्यर्थः । अत्र दृष्टान्तमाह ॥ योनिमिति । मथनेनोत्थिताग्निर्यथा योनिं स्वाधिष्ठानमरणिं दहति तथैवेति ।

बाह्योपाधिरिव स्वरूपोपाधेरपि दाहाङ्गीकारेऽनिष्टप्रसङ्गमाह ॥ दग्धाशय इति । आशय-पदमुपाधिलक्षकम् । तथा च यद्यपरोक्षज्ञानवेगेन दग्धाशयः स्वरूपोपाधेरपि नाशोऽङ्गीक्रियते तर्हि मुक्तसमस्ततद्गुणः स्याद्विनष्टसर्वगुणो जीवः स्यात् । जीवस्वरूपनाशे तद्धर्मज्ञानादिनाशोऽपि स्यादित्याशयः । ततः किमित्यत उक्तम् ॥ नैवेति । आत्मनः स्वस्यान्तर्विद्यमानं सुखादिकं बहिर्विद्यमानं रूपादिकं च नैव विचष्टे न विचक्षीत । विषयभोगः सुखाद्यनुभवश्च न स्यादिति यावत् । ततोऽपि किमित्यत उक्तम् ॥ परमात्मनोरिति । पराः परमात्माऽऽत्मा जीवस्त्वनयोरित्यर्थः । यद्यदा पुरस्तान्मुक्तेः पूर्वं व्यवधानमपरोक्षज्ञानाभावः । संसारावस्थायामिति यावत् । तदा स्वप्ने यथेत्येतावत्स्वप्ने यथाऽऽल्पास्थिरविषयभोगादिकं तथैवाल्पास्थिरविषयभोगादिकमित्येतावदस्ति । तस्य जीवस्वरूप-भूतस्योपाधेर्विनाशे त्वपुरुषः प्रतिबिम्बभूतपुरुषविनाश एव प्राप्तः । ततश्च ज्ञानाद्यभावे विषयभोगानुपपत्तौ मुक्तेरपुरुषार्थत्वमेव स्यात् । ततश्च मुक्त्यवस्थातः संसारावस्थैवोत्तमा स्यात् । न चैतत्सर्वमङ्गीकारार्हम् । अतो न मुक्तौ सर्वोपाधिनाशोऽङ्गीकर्तुं शक्य इति वाक्यशेषः ॥ २६,२७ ॥

आत्मानमिन्द्रियार्थं च परं यदुभयोरपि ।

सत्याशय उपाधौ वै पुमान् पश्यति नान्यदा ॥ २८ ॥

पदरत्नावली

अतः फलितमाह– आत्मानमिति ॥ आत्मानं जीवम् इन्द्रियार्थं शब्दादि-विषयं च, यदप्युभयोरात्मेन्द्रियार्थयोः परमुत्तममीश्वरतत्त्वं तदपि बीजाशयलक्षण उपाधौ सत्येव पुमान् पश्यति । अन्यदा तदभावे न पश्यतीत्यन्वयः ॥ २८ ॥

प्रकाशिका

उपाधिनाशे प्रतिबिंबभूतस्य जीवस्यापि नाशप्रसङ्गः । ततश्च ज्ञानाद्यभावप्रसङ्गेन विषयभोगादिकं न स्यादित्युक्तप्रसङ्गे व्यतिरेकव्याप्तिं दर्शयति ॥ आत्मानमिति । आत्मानं जीवम् इन्द्रियार्थं शब्दादिरूपमिन्द्रियविषयमुभयोरात्मेन्द्रियार्थयोः सकाशाद्यत्परमुत्तमं ब्रह्म तदपि पुमानधि-कार्याशयेऽन्तःकरणादिरूपे उपाधौ सति वै सत्येव पश्यति । अन्यदा तस्य सर्वस्याप्युपाधिनाशे न पश्यति । अनेन यदा विषयदर्शनादिरूपो भोगस्तदोपाधिसत्वमिति तर्केण व्यतिरेकेण व्यतिरेक-व्याप्तिरुक्तेति ज्ञातव्यम् ॥ २८ ॥

निमित्ते सति सर्वत्र जलादावपि पूरुषः ।

आत्मनश्च परस्यापि भिदां पश्यति नान्यदा ॥ २९ ॥

पदरत्नावली

तत्र दृष्टान्तमाह– निमित्त इति ॥ जीवात्मपरमात्मनोर्भेदस्य अन्वयव्यतिरेक-सिद्धत्वेन प्रामाणिकत्वात् तदपलापे महासुरत्वमेव स्यादिति भावः ॥ २९ ॥

प्रकाशिका

अत्र दृष्टान्तमाह ॥ निमित्त इति । अत्रादौ यथाशब्दोऽध्याहार्यः । अपि-शब्दोऽवधारणे । सर्वत्र लोके जलादौ जलादिरूपे निमित्ते उपाधौ सत्येव पुरुषः । आत्मनः स्वस्य बिंबस्य परस्य प्रतिबिंबस्य च भिदां वैलक्षण्यं मालिन्यादिरूपं पश्यति । अन्यदासर्वस्याप्युपाधेर्नाशे न पश्यति यथेत्यर्थः ॥ २९ ॥

इन्द्रियैर्विषयाकृष्टैराक्षिप्तं ध्यायतो मनः ।

चेतनां हरते बुद्धेः स्तुम्बस्तोयमिव ह्रदात् ॥ ३० ॥

तात्पर्यम्

एवंविधाज्ञानकारणमाह । इन्द्रियैर्विषयाकृष्टैरित्यादि । ‘बहुस्मरणशक्तिस्तु चेतनेत्युच्यते बुधैः’ । इति शब्दनिर्णये ।

‘स्वपक्षपातस्त्वभ्यासाद्भोगार्थं व्यापृतस्य तु । भवेत्ततोऽनेकशास्त्रयथार्थस्मरणेशिता । नश्यत्यतः स्मृतेर्नाशाद्भगवत्पक्षपातिता । विनश्येत्तेन चैवास्य भवेज्ज्ञानविपर्ययः । न च ज्ञान-विपर्यासादन्यन्नाशकरं क्वचित् । सर्वस्यैतस्य मूलं हि दुष्टसंसर्ग एव तु । दुष्टसङ्गो विरक्तस्या-प्यन्यथाज्ञानकारणम् । दुष्टसङ्गाद्धि विष्णोश्च स्वात्मत्वं मन्यतेऽबुधः । अभावं स्वात्मनोऽन्यस्य मुक्तिं चापि निरात्मताम्’ ॥ इत्यादि स्कान्दे ॥ ३० ॥

पदरत्नावली

जीवपरयोः सत्यभेदाप्रतीतौ किं कारणमित्याशङ्क्याज्ञानमेव तत्र कारणं तदपि विषयासक्त्या स्यादित्याह– इन्द्रियैरिति ॥ पुंसो मनो बुद्धेश्चेतनां बहुस्मरणशक्तिं हरत इत्यन्वयः । ‘बहुस्मरणशक्तिस्तु चेतनेत्युच्यते बुधैः’ इति वचनात् । मनसो हरणे कारणानीन्द्रियाणीत्याह– इन्द्रियैरिति ॥ हरिकथाश्रवणादियोग्यैः श्रोत्रादीन्द्रियैः । आक्षेपे चायं हेतुरित्याह– विषयाकृष्टैरिति ॥ दृष्टान्तेन बुद्ध्यारूढं करोति– स्तुम्ब इति ॥ स्तुम्बो जलनिर्गमद्वारम् ॥ ३० ॥

प्रकाशिका

इन्द्रियैर्विषयाकृष्टैरित्युत्तरग्रन्थस्य प्रकृतेन संगत्यप्रतीतेस्तामाह ॥ एवंविधेति । ‘‘अस्त्येव राजन् भवतो मधुद्विषः’’ इत्यादिनोक्तमोक्षसाधनज्ञानाभावे इत्यर्थः । ननु हरिकथां श्रुत्वा तज्जनितवैराग्यादिसाधनं विज्ञाय तत्संपाद्य सर्वेऽपि कुतो न मुच्यन्त इत्याशङ्कायामाह ॥ एवमिति । कथंचिदुत्पन्नस्यापि शास्त्रोक्तसाधनस्य नाशे कारणमाहेत्यर्थः । चेतनामित्यत्र चेतनशब्देनान्तः-करणविशेषग्रहणे बुद्धेरित्यसङ्गतं भवत्यतोऽत्र विवक्षितं चेतनशब्दार्थं प्रमाणेनैवाह ॥ बहुस्मरणेति । तुशब्दोऽप्यर्थः । तथा च चेतनां बहुस्मरणशक्तिमिति मूलार्थ इति भावः । अप्रतिपत्तिविप्रतिपत्ति-निरासायेन्द्रियैरित्यादिश्लोकतात्पर्यं प्रमाणेनैवाह ॥ स्वपक्षपात इति । विषयभोगार्थं तु विशेषेण व्यापृतस्यासक्तस्य पुरुषस्य । अनेन ध्यायत इत्येतदुक्तार्थम् । अभ्यासाद्भोगार्थं व्यापाराभ्यासात् । तुशब्दोऽवधारणे । स्वपक्षपातः स्वस्मिन्स्वीये देहादौ विषये पक्षपात आसक्तिर्भवतीत्यर्थः । अनेन मन आक्षिप्तम् इत्येतदुक्तार्थम् । स्मरणेशिता मनसोऽनेकशास्त्रार्थस्मरणविषये ईशिता सामर्थ्यं नश्यतीत्यर्थः । अनेन चेतनां हरत इत्येतदुक्तार्थम् । अतः स्मरणशक्तिनाशात्स्मृतेर्नाशो भवतीत्यपि ग्राह्यम् । तेन भ्रश्यत्यनुस्मृतिरित्येतदुक्ततात्पर्यम् । स्मृतेर्नाशाद्भगवत्पक्षपातिता भगवति भक्तिर्विशेषेण नश्येत् । अनेन स्मृतिक्षये चित्तं भ्रश्यतीत्येतदुक्ततात्पर्यम् । चित्तशब्देन तद्वृत्तेर्भक्तेर्विवक्षितत्वात् । तेन भगवत्पक्ष-पातित्वनाशेनास्य पुरुषस्य ज्ञानविपर्ययः सम्यग्ज्ञाननाशो विपर्ययरूपं ज्ञानं च भवेदित्यर्थः । अनेन ज्ञानभ्रंश इत्येतदुक्तार्थम् । तेन चात्मविनाशो नारकादिप्राप्तिरूपो भवतीत्यपि ग्राह्यम् । तेन ‘‘तद्रोधं कवयः प्राहुः’’ इत्येतस्यार्धस्य व्याख्यानं कृतमिति ज्ञातव्यम् । ‘‘नान्तः परतरः’’ इति श्लोकस्य तात्पर्यमाह ॥ न चेति । ज्ञानविपर्यासात्सम्यग्ज्ञाननाशाद्विपरीतज्ञानाच्चेत्यर्थः । नाशकरं स्वार्थनाशकर-मनर्थकरं चेत्यर्थः । अन्यत् । परतरमिति शेषः । अनेनातो ज्ञानभ्रंशात्पुंसोऽन्यः परतरः स्वार्थस्य व्यतिक्रमो व्यत्यासोऽनर्थो नाशश्च यस्मात्स तथा पुरुषार्थविनाशकोऽनर्थकरश्च नास्तीति मूलयोजनोक्तेति ज्ञातव्यम् । ‘‘न कुर्यात्कर्हिचित्सङ्गम्’’ इति श्लोकस्य सङ्गतिं दर्शयन्व्याख्याति ॥ सर्वस्येति । विषयध्यानमारभ्य विज्ञाननाशपर्यन्तस्येत्यर्थः । मूलं कारणम् । हिशब्दः प्रमाणप्रसिद्धिद्योतकः । दुष्टसंसर्ग इत्यनेन मूले सङ्गशब्दो दुष्टसङ्गपर इति सूचयति । दुष्टसङ्गस्य विषयध्यानादिद्वारा मिथ्याज्ञानादिकारणत्वं कैमुत्येनोपपादयति ॥ दुष्टसङ्ग इति । किमु विषयासक्तस्येत्यपिशब्दार्थः। अन्यथाज्ञानकारणमित्युपलक्षणम् । सम्यग्ज्ञाननाशकं चेत्यपि द्रष्टव्यम् । एतदेवोपपादयति ॥ दुष्टसङ्गाद्धीति । चशब्दः सर्वोत्तमस्यापीत्यर्थः । स्वात्मत्वं स्वाभेदम् । अबुधः सम्यग्ज्ञानशून्यः। स्वात्मनोऽन्यस्य चैतन्यातिरिक्तस्य प्रपञ्चस्याभावं मिथ्यात्वम् । निरात्मतामहमिति परमप्रेमास्पदतया प्रतीयमानस्याहमर्थस्य नाशम् । ततश्चेन्द्रियैरित्यादिमूलार्थः । ध्यायतो विषयानिति शेषः । शुभगुणा-रोपणेन स्मरतः पुरुषस्य स्मृतैर्विषयैरिन्द्रियाण्याकृष्यन्त इति विषयाकृष्टैरिन्द्रियैश्च मन आक्षिप्तम् । इन्द्रियैर्विषयभोगार्थं स्वस्मिन्विषयेषु चासक्तिमद्भवतीत्यर्थः । एवमाक्षिप्तं मनो बुद्धेर्मनोवृत्तिरूपायाश्चेतनां शास्त्रजनितयथार्थबहुस्मरणशक्तिं हरते क्रमेण नाशयति । अत्र दृष्टान्तमाह ॥ स्तुम्ब इति । स्तुम्बो जलनिर्गमद्वारम् ॥ ३० ॥

भ्रश्यत्यनुस्मृतिश्चित्तं ज्ञानभ्रंशः स्मृतिक्षये ।

तद्रोधं कवयः प्राहुरात्मापह्नवमात्मनः ॥ ३१ ॥

पदरत्नावली

बुद्धेर्बहुस्मरणशक्तिभ्रंशे सर्वानर्था आपद्यन्त इत्याह– भ्रश्यतीति ॥ भ्रष्टं चित्तमनु बहुस्मरणशक्तिभ्रंशानन्तरं स्मृतिरनेकशास्त्रयथार्थस्मरणसामर्थ्यं भ्रश्यति । स्मृतिक्षयेऽनेक-शास्त्रयथार्थस्मरणशक्तिनाशे सर्वाेत्तमः स्वतन्त्रः पञ्चविधभेदस्वामी(हरिः)मदादिसर्वं तदधीनमेनं भावं मरणेऽपि न मुञ्चामीति भगवत्पक्षपातलक्षणं ज्ञानं भ्रश्यति । तदस्तु, ततः किम् ? तत्राह– तद्रोधमिति ॥ कवय आत्मनो ज्ञानस्वरूपस्य तस्य तादृशस्य ज्ञानस्य रोधं नाशमात्मनः स्वरूप-स्यापह्नवं नाशं प्राहुरित्यन्वयः ॥ ३१ ॥

प्रकाशिका

अनुस्मरणशक्तिनाशानन्तरं स्मृतिरुक्तरूपा भ्रश्यति नश्यति । स्मृतिक्षये सति चित्तं चित्तवृत्तिरूपा भगवद्भक्तिर्भ्रश्मति । अनु तदनन्तरं ज्ञानभ्रंशः सम्यग्ज्ञाननाशो विपरीतज्ञानं च भवतीत्यर्थः । तेनापि किमित्यत आह ॥ तद्रोधमिति । तद्रोधं सम्यग्ज्ञाननाशं विपरीतज्ञानं चात्मनोऽधिकारिणः । आत्मापह्नवमित्यत्रात्मशब्दः परमप्रेमास्पदत्वगुणयोगेन पुरुषार्थपरः । तथा चात्मनः पुरुषार्थस्यापह्नवो नाशो वैपरीत्यं च यस्मात्तं प्राहुरित्यर्थः ॥ ३१ ॥

नातः परतरो लोके पुंसः स्वार्थव्यतिक्रमः ।

यद्यस्त्यन्यस्य प्रेयस्त्वमात्मनः स्वव्यतिक्रमात् ॥ ३२ ॥

पदरत्नावली

अतश्च किमनिष्टमापन्नम् ? अत्राह– नात इति ॥ पुंसः स्वार्थव्यतिक्रमः स्वप्रयोजनस्य व्यतिक्रमो नाशोऽतः स्वरूपभूतज्ञाननाशात् परतरोऽन्यतरो नाशो लोके नास्तीत्यन्वयः । आत्मनो निरवयवत्वात् तन्नाशोऽनवशेषो घटादीनां सावयवत्वेन तन्नाशः सावशेषो दृष्ट इति विशेषद्योतनाय लोक इत्युक्तम् । ननु देहपुत्रादेरपि प्रेयस्त्वात् तन्नाशस्यापि महानाशत्वेन दुःखहेतुत्वात् किं ज्ञाननाशो विशिष्योच्यत इति तत्राह– यद्यस्तीति ॥ आत्मनोऽन्यस्य देहपुत्रादेर् यद्यपि प्रेयस्त्वमस्ति तथापि पुत्रादेरात्मशेषत्वेन प्रियत्वात् तन्नाशस्य स्वव्यतिक्रमात् स्वरूपज्ञाननाशादाधिक्यं नास्तीति पूर्वं नञध्याहारेणान्वेतव्यम् । अत एव ‘‘नातः परतर’’ इत्युक्तम् । केचिन्नह्यस्तीति पठन्ति । तत्पक्षेऽध्याहारं विनाऽन्वयः कर्तव्यः ॥ ३२ ॥

प्रकाशिका

पुरुषार्थनाशकमनर्थसाधनं च नातोऽन्यदधिकमस्ति । अत उक्तरूपज्ञान-रोधोऽत्यन्तहेय इत्याशयेनाहुः ॥ नात इति । अतो ज्ञानरोधात् परतरोऽतिशयेनाधिकः स्वार्थव्यतिक्रमः स्वप्रयोजनस्य व्यतिक्रमो नाशो वैपरीत्यं च यस्मात्स तथा । पुरुषार्थनाशकोऽनर्थहेतुश्च लोके नास्तीत्यर्थः । ननु पुत्रादिनाशोऽप्यनर्थहेतुरर्थनाशकश्चास्तीत्यतः कथं ‘‘नातः परतर’’ इत्युक्तमित्या-शङ्कायामाह ॥ यद्यस्तीति । यद्यप्यन्यस्य पुत्रादेरात्मनः स्वस्य प्रेयस्त्वमतिशयेन प्रियत्वमस्ति तथाऽपि तन्नाशः स्वव्यतिक्रमादुक्तरूपात्स्वापह्नवात्ज्ञानरोधात्परतरो न भवति । अत एव तरप्प्रयोगः ॥ ३२ ॥

अथेन्द्रियार्थाभिध्यानं सर्वार्थापह्नवो नृणाम् ।

भ्रंशितो१ ज्ञानविज्ञानाद् येनाविशति मुग्धताम् ॥ ३३ ॥

पदरत्नावली

अथ तस्मान्नृणामिन्द्रियार्थानां विषयाणामभिध्यानं निरन्तरं संचिन्तनं सर्वार्थानां सर्वपुरुषार्थानामपह्नवो विनाशहेतुः । येनेन्द्रियेणेन्द्रियार्थाभिध्यानेन ज्ञानविज्ञानात् सामान्य-विशेषलक्षणज्ञानात् स्रंसितो भ्रंशितो मुग्धतां विवेकराहित्यमाविशति प्राप्नोतीत्यर्थः ॥ ३३ ॥

प्रकाशिका

उपसंहरति ॥ अर्थेति । अथ तस्मान्नृणामिन्द्रियार्थानां विषयाणाम् । सर्वे धर्मार्थ-कामरूपा अर्थाः पुरुषार्था हेतवो यस्य मोक्षस्य स सर्वार्थस्तस्यापह्नवो यस्मात् सस् तथा मोक्ष-विरोधीत्यर्थः । ननु पूर्वं ज्ञानरोधकत्वमुक्तम् । अथ कथमिदानीं मोक्षरोधकत्वमुच्यत इत्यत आह ॥ भ्रंशित इति । येन विषयध्यानेन ज्ञानविज्ञानात्सामान्यविशेषलक्षणज्ञानात् । भ्रंशितो मुग्धतामज्ञतां तत्कार्यं संसारं मोक्षमार्गाद्विमुखो भवतीति यावत् । तथा च ज्ञानरोधद्वारैव मोक्षरोधकत्वं विषयाभिध्यानस्येति भावः ॥ ३३ ॥

न कुर्यात् कर्हिचित् सङ्गं तमस्तीव्रं तितीर्षुणा ।

धर्मार्थकाममोक्षाणां यदत्यन्तविघातकम् ॥ ३४ ॥

पदरत्नावली

विषयाभिध्यानस्यापि दुष्टसंसर्गो मूलकारणम् । स विपश्चिता न कार्य इत्याह– न कुर्यादिति ॥ धर्मादीनामत्यन्तविघातकमिति यदतो विपश्चित् तीव्रतमस्तितीर्षुणा मनसा कदापि दुष्टसङ्गं न कुर्यादित्यन्वयः । ‘न कार्यः कर्हिचित् सङ्गः’ इति वा पाठः । तदा विपश्चितेति योज्यम्

॥ ३४ ॥

प्रकाशिका

नन्वधीतशास्त्रस्य विषयाभिध्यानादिकमेव कुतो भवतीत्यपेक्षायां दुष्टसङ्ग एव तत्र हेतुरित्याह ॥ न कुर्यादिति । सङ्गं संसर्गं दुष्टानामिति शेषः । यतो दुष्टसङ्ग एव तत्र हेतुरतो धर्मार्थ-काममोक्षाणां यदत्यन्तविधातकं तीव्रम् अल्पप्रयत्नेनानिवर्त्यं तमो मिथ्याज्ञानं तितीर्षुणा तितीर्षुर्दुष्टानां सङ्गं न कुर्यादित्याशयः । तमस्तितीर्षुणेति पाठे न कार्यः कर्हिचित्सङ्ग इति पाठान्तरम् ॥ ३४ ॥

तत्रापि मोक्ष एवार्थ आत्यन्तिकतयेष्यते ।

त्रैवर्ग्यार्थो यतो नित्यं कृतान्तभयसंयुतः ॥ ३५ ॥

पदरत्नावली

धर्मादिभिः सहपाठान् मोक्षस्यापि तत्तुल्यता स्यादिति शङ्कां परिहरति– तत्रापीति ॥ ‘स्वपक्षपातस्त्वभ्यासाद् भोगार्थं व्यापृतस्य तु । भवेत् ततोऽनेकशास्त्रयथार्थस्मरणेशिता । नश्यत्यतः स्मृतेर्नाशाद् भगवत्पक्षपातिता । विनश्येत् तेन चैवास्य भवेज्ज्ञानविपर्ययः । न च ज्ञानविपर्यासादन्यन्नाशकरं क्वचित् । सर्वस्यैतस्य मूलं हि दुष्टसंसर्ग एव तु । दुष्टसङ्गो विरक्तस्याप्य-न्यथाज्ञानकारणम् । दुष्टसङ्गाद्धि विष्णोश्च स्वात्मत्वं मन्यते बुधः । अभावं स्वात्मनोऽन्यस्य मुक्तिं चापि निरात्मताम् ॥’ इति समाख्यास्मृतिसिद्धत्वादयमेवार्थो न शुकतीर्थाद्युक्तार्थो ग्राह्यः । तमोहेतुत्वात् । मोक्षस्याप्यान्त्यन्तिकत्वं कस्माद् विशिष्योच्यते धर्मादेरपि पुरुषार्थत्वादित्यत्राह– त्रैवर्ग्य इति ॥ त्रिवर्गसंबन्धिपुरुषार्थः । कृतान्तस्य कालात्मनो हरेर्भ्रूविभ्रमजनितनाशलक्षणभयसंयुतो यत-स्तस्मादिति शेषः । भविष्यन्नाशमवलोक्य– नित्यमिति ॥ ३५ ॥

प्रकाशिका

धर्मादिभिः सहपाठान्मोक्षस्यापि तत्तुल्यताभ्रान्तिं परिहरति ॥ तत्रापीति । आत्यन्तिकतया पुनरावृत्तिभयशून्यतया । त्रैवर्ग्यार्थो धर्मार्थकामत्रिवर्गसाध्यैहिकामुष्मिकश्चार्थः पुरुषार्थः कृतान्तः कालानामा हरिः ॥ ३५ ॥

परावरे च ये भावा गुणव्यतिकरादनु ।

न तेषां विद्यते क्षेम१ ईशविध्वंसिताशिषाम् ॥ ३६ ॥

पदरत्नावली

त्रैवर्ग्यार्थो ब्रह्मलोकादिसंबन्धी नानित्य इति तत्राह– परावरे चेति ॥ गुण-व्यतिकरान् मूलप्रकृतेरनु अनन्तरं ये भावाः पदार्थाः परावरे एष्यदतीतकाले ये वर्तमाना, उत्कृष्टनिकृष्ट-लक्षणा वा । ईशस्य कालनाम्नो हरेर्भ्रूविभ्रमणविध्वंसिताशिषां विनाशितशुभानां तेषां क्षेमी नित्यानन्दी नास्तीत्यन्वयः । अनेन ब्रह्मलोकादिप्राप्तिलक्षणः पुरुषार्थोऽपि न नित्य इत्युक्तं भवति ॥ ३६ ॥

प्रकाशिका

कृतान्तभयसम् इत्युक्तमेव स्पष्टयति ॥ परावरे चेति । परे उत्कृष्टाः स्वर्गाद्या अवरेऽपकृष्टा राज्यादयो भावाः पदार्था गुणव्यतिकरात्सत्त्वादिगुणवैषम्यादनु पश्चाद्भवन्ति । त्रिगुणात्मकप्रकृतिजन्या इति यावत् । तेषां क्षेमः पुनरावृत्तिभयशून्यत्वं न विद्यते । कुत इत्यत उक्तम् ॥ ईशेति । ईशः कालनामा तेन विध्वंसिता आशिषो भोग्या येषाम् । तथा च गुणवैषम्यजन्यत्वादीश-विध्वंसिताशीष्ट्वं तस्मान्न क्षेम इति भावः । क्षेमस्य त्वप्रकृतत्वान्नेशविध्वंसिताशीष्ट्वमिति ज्ञेयम् ॥३६॥

मनोमात्रमिदं विश्वं यथा स्वप्ने मनःक्रिया ।

क्रिया च वासनामात्रं साऽनीहायां प्रलीयते ॥ ३७ ॥

आत्मा त्वनीहया साक्षात् स्वयंज्योतिः प्रसिद्ध्यति ।

एवं व्युदस्यात्ममायां भिदामुपरमेन्मुनिः ॥ ३८ ॥

तात्पर्यम्

‘मनोमात्रं हरेर्यस्मान्मनसा मीयते जगत् । व्याप्ते मनसि विष्णोश्च स्थितत्वा-द्वासनामयम् । वस आच्छादनेत्यस्माद्धातोर्वा वासनामयम् । अतो विष्णोरनीहायां लीयते सकलं जगत् । ‘अनीहावस्थ एवासौ मुमुक्षुभिरवाप्यते । एवं विद्वान्बन्धशक्तिं व्युदस्य हरिमाप्नुते । प्रकृतिर्भिदा च माया च भ्रमश्चेत्यभिधीयते । बन्धशक्तिर्यया लोको बम्भ्रमीत्यनिशं भुवि’ ॥ इति तन्त्रसारे ॥ ३७,३८ ॥

पदरत्नावली

जगतो हरिणा बुद्धिपूर्वं सृष्टत्वात् तत्प्रसादेन तस्य बन्धनिवृत्तिरन्यथोक्तानर्थ एवेत्याह– मनोमात्रमिति ॥ इदं प्रत्यक्षप्रमाणसिद्धं विश्वं ब्रह्मादिस्तम्बपर्यन्तं हरेर्मनसा मितं निर्मितं त्रातं रक्षितम् । मीयते संह्रीयते, मी हिंसायामिति धातोः । अमात्रे अपरिच्छिन्ने मनसि स्थितत्वाद् वा मनोमात्रम् । तदुक्तम्– ‘मनोमात्रं हरेर्यस्मान्मनसा मीयते जगत्’ इति । अत्र दृष्टान्तमाह– यथेति ॥ केयं क्रिया नामेति तत्राह– क्रिया चेति ॥ स्वप्ने हरेरिच्छया जाग्रद्दृष्टकरितुरुगादिवासनया निर्मिता मात्रन्ति प्रवर्तन्त इति वासनामात्रम् । ‘व्याप्ते मनसि विष्णोश्च स्थितत्वाद् वासनामयम्’ इति । वस आच्छादन इति धातोः । ईश्वरेच्छयाऽऽच्छाद्यमानत्वाद् वासनामयम् । ‘वस आच्छादनेत्यस्माद् धातोर्वा वासनामयम्’ इति च । यत एवं हरेरिच्छाधीनं जगदतो हरेरनीहायां सृष्टिव्यापारराहित्यावस्थायां स्वत्त्वादिगुणसाम्यलक्षणायां लीयते स्वस्वकारणानुप्रवेशपूर्वकमव्यक्ततामाप्नोति न तु शून्यताम् । तदेतदाह– अनीहायामिति ॥ यतो हरेरिच्छाधीनजगतः स्थितिर् अतो विष्णोरनीहायां लीयते सकलमिति च ॥

ननु मुक्तैः कीदृशो विष्णुः प्राप्यत इति तत्राह– आत्मेति ॥ स्वयंज्योतिर्नित्याविलुप्तप्रकाशः साक्षात्तुर्य आत्मा जाग्रदाद्यवस्थानुभविनो जीवात्मनो भिन्नो विष्णुरनीहया अवस्थितस्तु जाग्रद्व्यापार-शून्य एव व्याप्तरूपी प्रसिद्ध्यति प्राप्यते । मुमुक्षुभिरिति शेषः । ‘अनीहावस्थ एवासौ मुमुक्षुभिरवाप्यते’ इति च । फलमाह– एवमिति ॥ जीवपरयोरेवमुक्तविधया स्वस्वामिभावं जानन्मुनिर् भिदाऽपरपर्याया-मात्ममायां बन्धशक्तिं व्युदस्योपरमेद्धरिमुपगम्य सुखलक्षणां रतिं प्राप्त्य निर्मूलितसंसारो भवेदित्यर्थः । एवं विद्वान् बन्धशक्तिं व्युदस्य हरिमाप्नुते । ‘प्रकृतिर्भिदा च माया च भ्रमश्चेत्यभिधीयते । बन्धशक्तिर्यया लोको बंभ्रमीत्यनिशं भुवि ॥’ इति च ॥ ३७,३८ ॥

प्रकाशिका

एवं ज्ञानाभावे मोक्षाभावमुक्त्वा ज्ञानेनैव मोक्ष इति वक्तुं कीदृशं ज्ञानं मोक्षार्थ-मावश्यकमित्यतोऽवश्यं ज्ञेयं तावदाह ॥ मनोमात्रमिति । अप्रतिपत्तिविप्रतिपत्तिनिरासाय श्लोकद्वय-तात्पर्यं प्रमाणेनैव दर्शयति ॥ मनोमात्रमिति । हरेर्मनसेच्छया मीयते निर्मीयते यस्मात्तस्मा-ज्जगन्मनोमात्रमित्युच्यते न तु मिथ्यात्वात् । अनेन मा निर्माण इति धातोः कर्मणि घञ्प्रत्यय इत्युक्तं भवति । हरेरिति योग्यतया लाभः । अनेन मनोमात्रमिदं विश्वमित्येतद विवृतम् । क्रिया च वासनामात्रमित्यस्यार्थमाह ॥ व्याप्त इति । वासनामयंचेत्युच्यत इत्यर्थः । सर्वत्र वसतीति वासना सा च प्रकृतं मन एवेत्याशयेन व्याप्ते मनसीत्युक्तम् ॥ विष्णोरिति योग्यतया लाभः । स्थितत्वादिति प्रत्ययार्थ-तात्पर्यप्रदर्शनम् । अत्रापि जगदिति वर्तते । तेन क्रिया चेत्यत्र क्रियत इति व्युत्पत्त्या क्रियाशब्दो जगत्पर इति सूचयति । वासनामात्रमित्यस्य प्रकारान्तरेणापि तात्पर्यमाह ॥ वस आच्छादनेति । धातोर्धातुव्याख्यानात् । तथा च वासयत्याच्छादयतीति वासना हरेरिच्छा तद्विषयत्वात्तदावृतत्वाद्वा वासनामय इत्युच्यत इत्यर्थः । साऽनीहायां प्रलीयत इत्येतद्व्याख्याति ॥ अत इति । यत एवं सृष्टिस्थित्योर्हरीच्छाधीनं जगदत इत्यर्थः । अनीहायां सृष्टिस्थितीच्छाविरुद्धेच्छायाम् । संजिहीर्षायामिति यावत् । सेत्यस्यार्थः ॥ सकलं जगदिति ॥

आत्मा त्वनीहयेत्यस्य तात्पर्यमाह ॥ अनीहावस्थ एवेति । अनेन संजिहीर्षाया मोचकत्व-मप्यस्तीति सूचयति । एवेति तुशब्दार्थकथनम् । मुमुक्षुभिरित्यनेन मूले इदमध्याहार्यमिति सूचयति । प्रसिद्ध्यतीत्यस्य तात्पर्यम् अवाप्यत इति । एवं व्युदस्येत्यर्धस्य तात्पर्यमाह ॥ एवमिति । एवं विद्वानित्यनेनैवं जानन्नित्यन्वयं सूचयति । बन्धशक्तिमिति मायाशब्दार्थकथनम् । उपरमेदित्यस्य तात्पर्यं हरिमाप्नुत इति । अनेनोप हरिसमीपे रमेदिति व्याख्यानं सूचयति । मायाशब्दस्य बन्धशक्तिवाचकत्वं कथमित्याशङ्कां प्रमाणशेषेणैव परिहरति ॥ प्रकृतिरिति । बन्धशक्तिः प्रकृत्यादिशब्दैरभिधीयत इत्यर्थः । बन्धशक्तिस्वरूपमाह ॥ ययेति । बद्ध इति शेषः ।

ततश्चायं श्लोकद्वयार्थः ॥ इदं प्रत्यक्षप्रमाणादिसिद्धं विश्वं जगन्मनोमात्रं हरेरिच्छानिर्मितम् । अत्र दृष्टान्तमाह ॥ यथेति ॥ स्वप्ने स्वप्नावस्थायां यथा मनः क्रिया हरीच्छानिर्मितानि कार्याणि तथेत्यर्थः । न केवलं विश्वं हरीच्छया सृष्टं किन्तु तयैव स्थितं बद्धं चेत्याह ॥ क्रिया चेति । क्रिया कार्यं विश्वं वासनामात्रं च सर्वत्र वसतीति वासना व्याप्ता हरेरिच्छा तया मात्रं स्थितमित्यर्थः । धातूनामनेकार्थ-त्वात् । वासयत्याच्छादयतीति वासना हरेरिच्छा तदावृतत्वाद्वासनामात्रं हरीच्छया बद्धं चेत्यर्थः । क्रियाशब्दवाच्यविश्वापेक्षया क्लीबत्वम् । यत एवं सृष्टिस्थितिबन्धानां हरीच्छाधीनत्वमतः साऽनीहाया-मुक्तेच्छाविरुद्धेच्छायां संजिहीर्षायां सत्यां प्रलीयते नश्यति । मोक्षोऽपि संजिहीर्षया भवतीत्याह ॥ आत्मा त्विति । अनीहया संजिहीर्षया । तु एव । साक्षादनुपचारेण । स्वयंज्योतिरनन्याधीनप्रकाश आत्मा व्याप्तो विष्णुः प्रसिद्ध्यति मुक्तैः प्राप्तो भवति । एवं विश्वस्य सृष्टिस्थितिसंहृतिबन्धमोक्षा हरीच्छयैव भवन्तीति ज्ञेयमुक्त्वेदानीमेतादृशज्ञानेनैव मोक्षो भवतीत्याह ॥ एवमिति । उक्तरीत्या तुशब्दोऽवधारणे । जानन्नेवात्मनो हरेर्मायां बन्धकशक्तिं व्युदस्यापास्योप हरेः सपीपे विरमेदा-विर्भूतस्वरूपानन्दवान् भवेदित्यर्थः ॥ ३७,३८ ॥

न यत्र निद्रा मूर्च्छा वा नार्थदृक् च मनोरथः ।

नानुवृत्तिर्न प्रलयस्तद् ब्रह्म विजितात्मनः ॥ ३९ ॥

तात्पर्यम्

‘अनुवृत्तिरिति प्राज्ञैर्जीवन्मुक्तिरुदीर्यते ॥’ इति शब्दनिर्णये ॥ ३९ ॥

पदरत्नावली

अनीहावस्थ एव मुमुक्षुभिः प्राप्य इत्युक्तम् । तत् स्पष्टमाचष्टे– न यत्रेति ॥ निद्रा सुषुप्तिर्मूर्च्छा मोहः, अर्थदृग् जाग्रत्, अनुवृत्तिर्जीवन्मुक्तिः । ‘अनुवृत्तिरिति प्राज्ञैर्जीवन्मुक्ति-रुदीर्यते’ इति च । एता निद्राद्यवस्था यत्र न सन्ति स्वशक्तिव्यञ्जिता न भवन्ति । तद्विजितात्मनो मनोर् जयवतो मुमुक्षोः प्राप्यं ब्रह्मेत्यन्वयः ॥ ३९ ॥

प्रकाशिका

मुक्तप्राप्यस्य हरेर्मुक्त्यनन्तरं न विश्वादिवज्जाग्रदाद्यवस्थाप्रदत्वमिति दर्शयन् तत्स्वरूपमाह ॥ न यत्रेति । अत्रानुवृत्तिशब्दार्थाप्रतीत्या तं प्रमाणेनैव दर्शयति ॥ अनुवृत्तिरिति ॥ ततश्चायमर्थः ॥ यत्र यस्मिन्मुक्तप्राप्ये मूर्छा मोहावस्था, निद्रा सुषुप्तिरर्थदृक् जाग्रन्मनोरथो मानस-वासनाजन्यः स्वप्नोऽनुवृत्तिर्जीवन्मुक्त्यवस्था इत्येते न सन्ति । तद्बृंहयति स्वरूपानन्देन पूर्णं करोतीति ब्रह्म तुरीयाख्यं विजितात्मनो मनोजयवतोऽधिकारिणः प्रसिद्ध्यतीत्यन्वयः ॥ ३९ ॥

तत्त्वं नरेन्द्र जगतामथ तस्थुषां च

देहेन्द्रियासुधिषणात्मभिरावृतानाम् ।

**यः क्षेत्रवित् त्वमनयोर्हृदि विष्वगाधिः **

प्रत्यक् चकास्ति भगवांस्तमवैहि सोऽस्ति ॥ ४० ॥

तात्पर्यम्

‘सर्वसत्ताप्रदत्वात्तु सर्वतत्त्वं हरिः स्मृतः । सर्वत्र विततत्वाद्वा सोऽहं त्वमिति चोच्यते । सर्वान्तर्यामकत्वात्तु न जीवात्मत्वतो हरिः’ ॥ इति तत्त्वनिर्णये ॥ त्वमनयोः स्थावरजङ्गमयोर्मध्ये एको जीवः विष्वगाधिर् नानादुःखः सन् हृदि तमवैहि अहं च स जीवोऽस्मि । ज्ञानान्महान्भवामि । यः क्षेत्रवित् सर्वस्य प्रत्यक्चकास्ति स भगवानिति । ‘व्यवधानेनान्वयोऽपि योग्यतापेक्षया भवेदि’ति शब्दनिर्णये ॥ ‘अभिमानस्त्वहङ्कार आत्मा चेत्यभिधीयत’ इति च ॥ ४० ॥

पदरत्नावली

ननु जीवात्मा तदुपजीव्यः परमात्मा च कथं ज्ञातव्य इत्याशङ्क्य तत्तत्वं विविच्योपदिशन्नाह– तत्त्वमिति ॥ हे नरेन्द्र यस्त्वमनयोः स्थावरजङ्गमयोर्मध्ये विष्वगाधिर्नानादुःखः सन्नेको जीवोऽसि । स दुःखीति श्रुतिः । तत् त्वं हृदि स्थितमवैहि । हृदि ह्येष आत्मेति श्रुतिः । अनेन जीवात्मनो देहे कुत्रावस्थानमिति शङ्का परिहृतेति ज्ञायते । त्वं क इति तत्राह– सोऽस्मीति ॥ योऽहं तव सदृशो जीवोऽस्मि तं मां ज्ञानान्महान् भवामीत्यवैहि । अनेन तारतम्यज्ञानमवश्यकमित्युक्तं भवति । अथ जीवस्वरूपज्ञानानन्तरमीश्वरज्ञानं प्रददामीत्याह– अथेति ॥ यः क्षेत्रवित् क्षेत्रज्ञः सर्वान्तर्यामी सर्वस्य प्रत्यक् चकास्ति आभिमुख्येन प्रकाशते । दुर्भगशरीरस्थोऽपि तन्मलाद्यलिप्ततया जीवव्यतिरिक्तो जीवस्यात्यन्तोपकारित्वेन साक्षित्वेनावभासते स भगवांस्तुभ्यं सुखादिप्रदः श्रीनारायण इत्यवैहि । तं विशिनष्टि– जगतामिति ॥ देहश्चेन्द्रियाणि चासवः प्राणाश्च धिषणा बुद्धिश्चात्माऽहङ्कार-श्चेत्येतैरावृतानां जगतां जङ्गमानां तस्थुषां स्थावराणां च तत्त्वं सर्वसत्ताप्रदत्वात् । तदुक्तम्– ‘सर्वान्तर्यामकत्वात् तु न जीवात्मतया हरिः’ इति च । ‘अभिमानस्त्वहङ्कार आत्मा चेत्यभिधीयते’ इति वचनात् तत्रात्माऽहङ्कारः । ‘व्यवधानेनान्वयोऽपि योग्यतापेक्षया भवेत्’ इति वचनात् सात्त्विकानां जीवपरभेदज्ञाने विशिष्टमुक्तिसाधने योग्यतामपेक्ष्य व्यवधानेनान्वयो युक्तः । अनेनेतरेषामभेदपरज्ञाने तमःसाधने योग्यतेति यथास्थितान्वय इति दर्शितम् । किञ्च तत्त्वज्ञानस्य गोपनीयत्वेन परोक्षत्वस्य देवप्रीतिहेतुत्वात् । ‘परोक्षप्रिया इव हि देवाः प्रत्यक्षद्विषः’ इति श्रुतेः । अतो यथापाठमेवार्थं वदन्तोऽसुरप्रकृतित्वान्न मोक्षशास्त्राधिकारिण इति बुद्ध्वा सद्भिस्तत्सङ्गः परिहर्तव्यश्चण्डालसङ्गवदिति तात्पर्यम् ॥ ४० ॥

प्रकाशिका

जीवपरयोर्वैलक्षण्यमपि मोक्षार्थमवश्यं ज्ञेयमित्याशयेन तयोः स्वरूपं दर्शयति । तत्वमिति ॥ अत्र जगतामथ तस्थुषां च यत्तत्वं स्वरूपमित्यभेदप्रतीतिवारणाय तत्वशब्दार्थं प्रमाणेनैव दर्शयति ॥ सर्वसत्तेति ॥ तुशब्दोऽवधारणे । न तु स्वरूपत्वादित्यर्थः । सर्वतत्त्वमिति स्मृतः । यदधीना यस्य सत्तेत्यादाविति शेषः । विततत्वाद्व्याप्तत्वात् । ततत्वात्तत्तदेव तत्त्वम् । स्वार्थे त्वप्रत्यय इति भावः । अनेन जगतामित्यादि षष्ठी सप्तम्यर्थे । एवं च जंगमादिषु तत्त्वं ततमिति व्याख्यानं सूचयति । नन्वेवमस्य श्लोकस्य जीवेश्वरवैलक्षण्यपरतया व्याख्याने सोऽहं तत्त्वमसीत्यादिश्रुतिविरोध इत्यत-स्तद्वाक्यव्याख्यानप्रकारं दर्शयति ॥ सोऽहमिति । स आदित्यान्तर्गतोऽहं मदन्तर्यामी तत्पूर्वोक्तं ब्रह्म त्वं त्वदंतर्यामीति तद्वाक्यं व्याख्येयमतो न विरोध इति भावः । तुशब्दोऽवधारणे । तद्व्यावर्त्यमाह ॥ न जीवेति । द्वितीयार्धे एकवाक्यताभ्रमवारणाय वाक्यभेदेन योजनामाह ॥ त्वमनयोरिति । अनयोरित्यस्य प्रकृतस्थावरजङ्गमजाति परामर्शकत्वमित्याशयेनोक्तं– स्थावरजङ्गमयोरिति ॥ मध्य इत्यनेन निर्धारणे सप्तमीति सूचयति । एको जीव इत्यपेक्षितस्याध्याहारः । विष्वगाधिरित्यस्य प्रयोजनं दर्शयति ॥ विष्वगाधिरिति । सन्नित्यनेन जीवत्वोपपादकत्वे हेतुसूचकमिदमिति तत्प्रयोजनमुक्तमित्यवधेयम् । हृदीत्यस्य व्यवहितेन तमवैहीत्यनेनान्वय इत्याह ॥ हृदीति । तं जीवम् । हृदि ह्येष आत्मेति श्रुतेरिति भावः । तथा च तत्वमित्युक्तव्याप्तिप्रतियोगितया परिच्छिन्नत्वमनेनोक्तं भवतीत्यस्याशयः । सोऽस्मीत्या-पेक्षितं चशब्दमध्याहृत्यार्थमाह ॥ अहं चेति । अस्मीत्युत्तमपुरुषप्रयोगलब्धार्थप्रदर्शनायाहमित्युक्तम् । स इत्यस्यार्थो जीव इति । तथा च तमित्यव्यवहितप्रकृतजीवपरामर्शकस् तच्छब्दो न भगवत्परामर्शक इत्यर्थः ।

नन्वेवं त्वमहं चेत्यावां जीवावित्येव वक्तव्ये सोऽहमस्मीति स्वस्य जीवत्वं पृथक्कस्मादुक्तमित्यतः पृथगुक्तेरभिप्रायमाह ॥ ज्ञानादिति । यद्युक्तरीत्येकेनैव वाक्येनोभयोर्जीवत्वमुच्यते तर्ह्युभयोः साम्यं प्रतीयेत न च तदस्ति । अतः स्वस्य ज्ञानादिना महत्वसूचनाय पार्थक्येन जिवत्वमुक्तमित्याशयेनोक्त-मिति मन्तव्यम् । ननु तृतीयपादस्थस्य यः क्षेत्रविदित्यस्य केनान्वय इत्यपेक्षायां तस्य चतुर्थपादस्थ-पदेनान्वय इत्याह ॥ यः क्षेत्रविदिति । जीववत्परिच्छिन्नत्वप्रतीतिवारणाय सर्वस्येत्यध्याहृतम् । स इत्यस्यावृत्तिमभिप्रेत्य स भगवानित्युक्तम् । ननु संनिधिमपहाय व्यवधानेनान्वयाङ्गीकारो न युक्त इत्याशङ्कां प्रमाणेनैव परिहरति ॥ व्यवधानेनेति । योग्यतापेक्षयाऽर्थाबाधापेक्षया संनिध्यपेक्षया योग्यताया एव बलवत्त्वादित्याशयः । ननु देहेन्द्रियासु धिषणात्मभिरित्यत्रात्मशब्देन न देहमनसोर्ग्रहणं सम्भवति । देहधिषणेति तयोरुक्तत्वात् । नापि जीवस्य । स्थावरावरकत्वासम्भवात् । अतोऽत्राभिमाना-परापर्यायोऽहङ्कार एवात्मशब्दवाच्य इत्याशयेनात्मशब्दस्य तादृशाहङ्कारशब्दवाच्यत्वे प्रमाणं पठति ॥ अभिमान इति । तुशब्दश्चशब्दार्थः । अहङ्कारोऽभिमानश्चात्मा चेत्यभिधीयत इत्यर्थः ॥

ततश्चायं श्लोकार्थः ॥ हे नरेन्द्र । अथशब्दः समुच्चयार्थः । देहश्चेन्द्रियाणि चासवः प्राणाश्च धिषणा बुद्धिश्चात्माऽहंकारश्चेत्येतैरावृतानां जगतां जङ्गमानां तस्थुषां स्थावराणां च यत्तत्त्वं सत्तादिप्रदं तेषु ततमिति वा । यश्चाव्यक्तादितत्त्वजातं क्षेत्रं तद्वेत्तीति क्षेत्रवित् । आवृत्तानामित्यनेनोक्ताज्ञ-प्रतियोगितयेदमुक्तमिति ज्ञातव्यम् । सर्वस्य प्रत्यगन्तश्चकाऽस्ति । विष्वगाधिरित्येतत्प्रतियोगितयेद- मुक्तम् । स भगवान् त्वं त्वनयोश्चराचरयोः प्राणिनोर्मध्ये एको जीवो विष्वगाधिर्नानादुःखयुक्तः । ननु भगवद्वज्जीवोऽपि व्याप्तश्चेन्न तयोर्वैलक्षण्यमत आह ॥ हृदीति । हृदि हृद्येव स्थितं तं जीवमवैहि । जीवो न व्याप्त इत्याशयः । अहमपि स जीवोऽस्मि । किन्तु ज्ञानान्महानित्येव । न भगवत्स्वरूपो भगवत्सु ज्ञानीत्याशयः । जीवो न व्याप्त इत्याशयः। तथा च जीवपरावत्यन्तविलक्षणावित्यवश्यं ज्ञेयमिति वाक्यशेषः ॥ ४० ॥

यस्मिन्निदं सदसदात्मतया विभाति मायाविवेकविधुतिः स्रजिवाऽहिबुद्धिः ।

तं नित्यमुक्तपरिशुद्धविबुद्धतत्त्वं प्रत्यूढकर्मकलिलप्रकृतिं प्रपद्ये ॥ ४१ ॥

तात्पर्यम्

‘यत्स्वरूपतया भातमज्ञानां गगनादिकम् । विवेकज्ञानिनां रज्जौ सर्पमाव-द्विधूयते । तन्नित्यमुक्तभावेन निरस्तप्रकृतिं भजेत्’ ॥ इति ज्ञानविवेके ॥ ‘न भ्रान्तिर्जगतो दृष्टिर्न भ्रान्तिर्हरिदर्शनम् । अन्योन्यात्मतया दृष्टिर्भ्रान्तिरित्यवधार्यताम्’ ॥ इति च । ‘मायेति ज्ञाननाम स्यान्मायेति प्रकृतिस्तथा । ज्ञानं स्वरूपं विष्णोस्तु प्रकृतिर्न हरेस्तनुः । एवं विवेकिनो विश्वं ब्रह्मरूपेण नेष्यते ॥’ इति वाराहे । ज्ञानप्रकृत्याख्यमायाद्वयस्य विवेकज्ञाना-त्सदसतोर्विष्ण्वात्मतया प्रतीतिः स्रज्यहिबुद्धिरिव विधूयत इत्यर्थः । ‘पञ्चभूतात्मकं देहं विष्णोः पश्यन्त्ययोगिनः । तथा न योगिराद्धान्तो ज्ञानं देहो यतो हरेः’ ॥ इति षाड्गुण्ये ॥ ४१ ॥

पदरत्नावली

ननु मायाकल्पितपञ्चभूतात्मदेहे ब्रह्मैव सुखदुःखे अनुभवति, ब्रह्मैव संसरति ब्रह्मैव मुच्यत इत्याचार्योक्तेः, ‘‘विमुक्तश्च विमुच्यते’’ इति श्रुतेश्च अतो न स्वामिभृत्यभावेनात्र द्वयाङ्गीकारो युक्त इति तत्राह– यस्मिन्निति ॥ यद् इदं सत् पृथिव्यादिकम्, असद् गगनादिकं जगद् यस्मिन् भगवति आत्मतया निजस्वरूपतया विभातीति योऽयमयोगिराद्धान्तः स मायाविवेकविधुतिर् माययोर्ज्ञानप्रकृत्यभिधेययोर् विवेकात्, विजिर् पृथग्भाव इति धातोः, ज्ञानदेहो हरिः पञ्चभूतदेहो जीव इति पृथङ्निश्चितज्ञानादिविधुतिर्विध्वंसो यस्यायोगिराद्धान्तस्य स तथोक्तः । एतदेव दृष्टान्तेन स्पष्टयति– स्रजीति ॥ स्रजि मालाकृतौ रज्जावहिबुद्धिर्वा । अयं भावः । यथा रज्जुतत्वाज्ञानाद् रज्जौ सर्पज्ञानमुत्पन्नं गुरूपदेशात् सर्पणदर्वीशिरोलक्षणफणाद्यभावज्ञानाद् वा स्पर्शकार्कश्यज्ञानाद् वा विधूयते तथा प्रमाणबाहुल्यदर्शनाद् तत्त्वज्ञानोपदेष्ट्राचार्यवाक्याद् वा ब्रह्मणो जगदात्मत्वं विधूयते । नित्यमुक्तत्वादिलक्षणानामनन्यसाधारणानां सत्त्वान्न ब्रह्मणः संसारो युक्त इति स्पष्टयन् यच्छब्देनोक्तं तच्छब्देन परामृश्य प्रपद्य इति क्रियापदेनान्वेति– तमिति ॥ जीवव्यावृत्त्यर्थं नित्यशब्दः प्रत्येक-मभिसम्बद्यते । नित्यमुक्तं नित्यपरिशुद्धं च नित्यविबुद्धं च यत् तत्त्वमनारोपितं रूपं तद् यस्य, स च अत एव प्रत्यूढे निरस्ते कर्म पुण्यपापलक्षणमदृष्टं सत्त्वादिगुणकलिला प्रकृतिश्च येन स तथा तम् । ‘यत्स्वरूपतया भातमज्ञानां गगनादिकम् । विवेकज्ञानिना रज्जौ सर्पमावद् विधूयते । तं नित्यमुक्तभावेन निरस्तप्रकृतिं भजेत् । न भ्रान्तिर्जगतो दृष्टिर्न भ्रान्तिर्हरिदर्शनम् ॥ अन्योन्यात्मतया दृष्टिर्भ्रान्ति-रित्यवधार्यताम् ॥ मायेति ज्ञाननाम स्यान्मायेति प्रकृतिस्तथा । ज्ञानं स्वरूपं विष्णोस्तु प्रकृतिर्न हरेस्तनुः ॥ एवं विवेकिनो विश्वं ब्रह्मरूपेण नेष्यते। पञ्चभूतात्मकं देहं विष्णोः पश्यन्त्ययोगिनः ॥ तथा न योगिराद्धान्तो ज्ञानं देहो यतो हरेः ॥’ इति प्रमाणबाहुल्यान्मायादिशब्दानामुक्त एवार्थो न दुर्वादिकल्पित इति निरवद्यम् । सर्पमावत् सर्पज्ञानवत् ॥ ४१ ॥

प्रकाशिका

ननु पुरुष एवेदं सर्वमित्यादिश्रुतिभिर्विश्वाभिन्नतया प्रतीयमानस्य हरेः कथं जीवाद्वैलक्षण्यमित्यतः सा प्रतीतिर्भ्रान्तिर्विपरीतप्रमाणबाध्यत्वादिति वदन् जीवविलक्षणतया प्रसिद्धं तमेव प्रपद्येतेत्याह ॥ यस्मिन्निति । यस्मिन्निदं विश्वं सदसदात्मतया कार्यकारणभावेन मायैव मिथ्यैव भाति तं प्रपद्ये । मायात्वे हेतुर्विवेकेन विधुतिर्निवृत्तिर्यस्य तदिति व्याख्याननिरासाय श्लोकतात्पर्यं प्रमाणेनैव दर्शयति ॥ यत्स्वरूपतयेति । यस्य हरेः स्वरूपतयाऽभिन्नतया । गगनादिकमित्यनेनासदित्युक्तार्थम् । आत्मतयेत्यस्यार्थः ॥ स्वरूपतयेति । विभाति अत्राज्ञानामिति शेषमभिप्रेत्योक्तम् ॥ अज्ञानां भातमिति । मायाविवेकविधुतिरित्यस्य तात्पर्यं विवेकज्ञानिनां विधूयत इति । हरेर्विश्वस्य च भेदज्ञानिनाम् । ज्ञानेनेति शेषः । स्रजिवेत्यत्र वाशब्द उपमायामित्यभिप्रेत्य रज्जौ सर्पमावदित्युक्तम् । रज्जावित्यनेन स्रजीत्येतदुपलक्षणमिति सूचयति । सर्पमावत्सर्पबुद्धिरिव । प्रत्यूढकर्मकलिलप्रकृतिमित्यत्र नित्यमुक्तेत्यादिकं हेतुतया योजनीयमित्याशयेन नित्यमुक्तभावेनेत्युक्तम् । नित्यमुक्तत्वेनेत्यर्थः । परिशुद्धतत्त्वादेरुपलक्षणमेतत् । प्रत्यूढेत्यस्यार्थः निरस्तेति । प्रकृतिपदं कर्माद्युपलक्षकम् । भजेदित्यनेन व्यत्ययेन प्रपद्य इत्यस्य प्रपद्येतेत्यर्थ इति सूचयति ।

नन्वेवं सर्वं ब्रह्मेति ज्ञानस्य भ्रान्तित्वे सर्वस्य ब्रह्मणश्च भ्रान्तिकल्पितत्वमित्यपेक्षायामाह ॥ न भ्रान्तिरिति । तर्हि कस्मिन्नंशे भ्रान्तिकल्पितत्वमित्यपेक्षायामाह ॥ अन्योन्येति । अन्योन्याभेद-विषयकत्वांश एवेत्यर्थः । अवर्धायताम् । तस्यैव बाधितत्वादित्याशयः । ततश्च ज्ञानस्यैकत्वेऽपि अंशभेदेनाभ्रान्तित्वस्यापि सत्वान्न ब्रह्मजगतोर्मिथ्यात्वप्रसङ्ग इत्याशयः । यद्यपि भ्रमस्थले ज्ञानस्या-रोप्यांशस्यापि भ्रान्तित्वमेवेति सिद्धान्तः । तथाऽपि न सर्वत्र किन्तु यत्र पुरोदेशे सत्वमारोप्यं स्यान्न तत्र तदंशे भ्रमत्वम् । किन्तु तादात्म्यांश एव । यथा दूरस्थपनसचूतयोरयं चूत इति ज्ञाने तथाऽत्रापीति ज्ञातव्यम् । ननु तथाऽपि मायाशब्देन मिथ्यात्वमुच्यत इत्यतो मायेति न भिन्नं पदं किन्तु माया-विवेकविधुतिरित्येकमेव पदमित्यभिप्रेत्य मायादिपदानां प्रकृतोपयुक्तमर्थं प्रमाणेनैवाह ॥ मायेति । प्रकृतिरुच्यत इति शेषः । तथाशब्दः समुच्चये । एवं मायाशब्दार्थमुक्त्वेदानीं विवेकशब्दार्थं दर्शयति ॥ ज्ञानमिति । तुशब्दोऽवधारणे । ज्ञानमेव विष्णोः स्वरूपं प्रकृतिस्तत्कार्यं विश्वं न हरेस्तनुः स्वरूपमिति ज्ञानम् । विवेक इति शेषः । विवेकविधुतिरिति पदद्वयतात्पर्यं दर्शयति ॥ एवमिति । विवेकिन उक्तरूपबाधकज्ञानवतो विश्वं ब्रह्मरूपेण ब्रह्मात्मतया नेष्यते न प्रतीयते । अनेनोक्तज्ञानभ्रान्तिर्निवर्तत इत्यर्थः । दृष्टान्ते बुद्धेरेव निवर्त्यतयोक्तत्वात् । दार्ष्टान्तिकेऽपि बुद्धिरेव निवर्त्यतया वाच्येत्याशयेन श्लोकतात्पर्यं स्ववचनेनापि स्पष्टयति ॥ ज्ञानेति । अत्रापि प्रकृतिपदं तत्कार्यविश्वपरम् । मायाद्वयस्य मयाशब्दार्थद्वयस्य विवेकज्ञानाद्विवेकशब्दार्थतया विवक्षिताद् भेदज्ञानात् । प्रत्यूढकर्मकलिल-प्रकृतिमित्यनेन हरेर्जडदेहाभाव उक्तः । तत्र प्रमाणसंवादमाह ॥ पञ्चभूतात्मकमिति । जडमित्यर्थः । अयोगिनो योगमार्गविरुद्धमार्गाः । अयोगिज्ञानविषयत्वाद्भ्रमत्वमित्याशयः ॥ ततश्चायं श्लोकार्थः ॥ यस्मिन्हरौ सदसन्मूर्तामूर्तात्मकं विश्वमात्मतया अभेदेन विभाति । पुरुष एवेदं सर्वमित्यादिना प्रतीयते सा प्रतीतिः । स्रजि मालायां रज्जावहिबुद्धिरिव मायाविवेकविधुतिः । मायाशब्दार्थभूतयोर्ज्ञानजगतोर्विवेको हरिस्वरूपं ज्ञानात्मकं जगत्स्वरूपं न तथा ज्ञानात्मकमिति भेदज्ञानं तेन विधुतिर्निराकृतिर्यस्याः सा तथा । जाताऽपि विप्रतिपत्तिर्योगिनामुक्तरूपभेदज्ञानेन निवर्तत इत्याशयः । अधिष्ठानयाथात्म्यज्ञानेन निवर्त्यत्वमात्रे हि बुद्धिदृष्टान्त इति ज्ञातव्यम् । तमुक्तभ्रमबाधायारोपाधिष्ठानभूतम् । जीवव्यावृत्त्यर्थं नित्यशब्दः प्रत्येकम् अभिसम्बध्यते । नित्यमुक्तं नित्यपरिशुद्धं च नित्यविबुद्धं सर्वज्ञं च यत्तत्त्वमनारोपितं रूपं तद्यस्य च । अत एव प्रत्यूढे दूरीकृते कर्म च कलिला सत्त्वादिगुणमिश्रा प्रकृतिश्च येन स तथा तं चिन्मात्रदेहम् । एवं सर्वजीववैलक्षण्येन सिद्धमिति यावत् । प्रपद्ये प्रपद्येत ॥ ४१ ॥

यत्पादपङ्कजपरागविलासभक्त्या कर्माशयग्रथितमुद्ग्रथयन्ति सन्तः ।

तत्त्वं न तद् द्विमतयोऽपि विरुद्धमार्गस्रोतोगुणास्तमरणं भज१ वासुदेवम् ॥४२॥

तात्पर्यम्

द्विमतयः जगति भगवति च प्रतीतियुक्ता अपि भक्तिविशेषात्तत्त्वं नोद्ग्रथ-यन्ति । संसारगुणास्तेषां विरुद्धा एव प्रतीयन्ते यतः ॥ ४२ ॥

पदरत्नावली

एवंविधसंसारोच्छेदे कारणं हरेः सर्वोत्तमत्वज्ञानं भक्त्यविनाभूतमतो भक्तिरेव प्रधानमित्याह– यत्पादेति ॥ यस्य पादपङ्कजयोः पत्रायमाणास्वाङ्गुलीषु । तत् तत्त्वं नोद्ग्रन्थयन्ति । कुत इति हेतुगर्भविशेषणमाह– विरुद्धेति ॥ विरुद्धमार्गाः स्नोतोगुणाः संसारगुणा येषां ते तथोक्ताः । संसारगुणानां विरुद्धत्वेन हेयत्वेन प्रतीयमानत्वादित्यर्थः । संसारगुणानां विरुद्धत्वेन प्रतीतौ किं कारणमिति चेन्न । नैजः सर्वगुणोत्कर्षस्वभावो दुस्त्यजः । तदुक्तम्– ‘नैजः सर्वगुणोत्कर्षः सर्वेभ्यो महदुच्यते’१ इति च । अनेन तत्त्वज्ञानिषु तत्तद्गुणोत्कर्षो महत्त्वकारणमित्युक्तं भवति । द्विमतौ च ज्ञानदौर्बल्यं कारणम् । ‘अनाद्यन्तं परं ब्रह्म न देवा ऋषयो विदुः । एकस्तद् वेद भगवान् प्रभुर्नारायणो विराट् ॥’ इति । अनेन नारायणादृते सर्वेषामिति द्वामत्यं सम्भाव्यत इति सूचितम् । अतस्त्वं तं वासुदेवमरणं शरणं व्रजेत्यन्वयः ॥ ४२ ॥

प्रकाशिका

न केवलमुपदिष्टज्ञानमेव मोक्षसाधनं किन्तु भक्तिरपीत्याशयेन तत्र पुराकल्परूपार्थवादं दर्शयन् भक्तिं विधत्ते ॥ यदिति । यस्य पादपङ्कजयोः पलाशानि पत्रायमाणा अङ्गुल्यस्तेषां विलासः कान्तिस्तस्य भक्त्याऽऽशयेऽन्तःकरणे ग्रथितं संश्लिष्टं कर्मोद्ग्रथयन्ति । उद्ग्रथनं कुवन्ति । तस्मात्तमरणं रक्षितारं वासुदेवं भजेत्यन्वयः । नन्वादित आशयेग्रथितं कर्म यथा भगव-द्भक्त्योद्ग्रथयन्ति तथाऽऽशये ग्रथितं भगवन्तमपि विषयासक्त्यादिना किं कदाचिद् ग्रथयन्ति नेत्याह ॥ तत्त्वं न तद्विमतयोऽपीति । अप्रतीत्या द्विमतय इत्यस्यार्थं वदन् तद्वाक्याभिप्रायमाह ॥ द्विमतय इति । द्वयोर्मतिर्येषामिति बहुव्रीहिलब्धार्थप्रदर्शनाय प्रतीतियुक्ता इत्युक्तम् । कादाचित्कविषयासक्ति-मन्तोऽपीत्यर्थः । तत्त्वमाशयग्रथितं भगवत्स्वरूपम् । भक्तिविशेषात्प्रतिदिनवर्धमानभक्तिविशेषात् । कुतो भक्तेः प्रतिदिनं वर्धमानत्वमित्यपेक्षायां तत्र हेतुकथनाय विरुद्धमार्गस्रोतो गुणा इत्युत्तरवाक्यं प्रवृत्त-मित्याशयेन तदर्थमाह ॥ संसारगुणा इति । संसारेऽनुभूयमानविषया इत्यर्थः । मार्गशब्दार्थः संसारेति ॥ सोऽध्वनः पारमाप्नोतीति प्रयोगात् । स्रोतःशब्दः प्रवाहपरः । अत एव मार्गस्रोतः शब्दार्थप्रदर्शनाय क्वचित्संसारप्रवाहगुणा इति पाठः । विरुद्धा एव प्रतीयन्त इत्यनेन विरुद्धा मोक्षमार्गविरुद्धत्वेन हेयतया प्रतीयमाना मार्गस्रोतोगुणाः संसारप्रवाहेऽनुभूयमाना विषया येषामिति योजनां सूचयति । एवेत्यनेन तथा प्रतीतिनियमं यत इत्यनेन हेतुगर्भविशेषणत्वम् ॥ ४२ ॥

कृच्छ्रो महानिह भवार्णवमप्लवेशाः षड्वर्गनक्रमसुखेन तितीर्षयन्ति१ ।

तत् त्वं हरेर्भगवतो भजनीयमङ्घ्रिं कृत्वोडुपं व्यसनमुत्तर दुस्तरार्णम् ॥ ४३ ॥

पदरत्नावली

संसारोत्तरहेतुत्वाद् भक्तेरेव सर्वगुणोत्कृष्टत्वमित्यभिप्रेत्याह– कृछ्र इति ॥ अप्लवेशा भक्तिलक्षणतरीरहिताः, षड्वर्ग एव नक्रो यस्मिन् स तथा, तं भवार्णवं ये तितीर्षन्ति तर्तुमिच्छन्ति तेषामिह महान् कृच्छ्र इति यस्मात् तस्मात् त्वं हरेर्भजनीयमङ्घ्रिमुडुपं नावं कृत्वा, व्यसनं विविधापद्युक्तं दुस्तरार्णं ज्ञाननावं विना तर्तुमशक्यं, संसारसमुद्रमुत्तरेत्यन्वयः ॥ ४३ ॥

प्रकाशिका

एवं भक्तिप्रधानकं मोक्षमार्गमुपदिश्येतरत्रारुच्युत्पादनाय योगप्रधानक-मोक्षमार्ग-निन्दनपूर्वकं पुनस्तदेव विधत्ते ॥ कृच्छ्र इति । ईशशब्दस्तद्भक्तिपरः । न विद्यते प्लवस्तरणोपाय ईशो येषाम् । प्राधान्येन भक्तिमार्गरहितानामिति यावत् । तेषामिह संसारार्णवतरणे महान् कृच्छ्रः क्लेशो भवति । कुतः । यतस्तेऽसुखेन सुखरहितेन कष्टसाध्येन योगप्रधानकेन मार्गेण तितीर्षन्ति । षड्वर्ग एव नक्रा यस्मिं तम् । भवार्णवमित्यन्वयः । तस्मात्त्वमङ्घ्रिं तद्भक्तिमुडुपं प्लवं कृत्वा । प्रधानमिति शेषः । दुस्तरार्णं दुस्तरोदकरूपं व्यसनं संसारदुःखमुत्तर । अर्णमित्यत्र सकारलोपश्छान्दसः ॥ ४३ ॥

मैत्रेय उवाच–

स एवं ब्रह्मपुत्रेण कुमारेणात्ममेधसा ।

दर्शितात्मगतिः सम्यक् प्रशस्योवाच तं नृपः ॥ ४४ ॥

पदरत्नावली

इतः परमुपदेष्टव्यांशो नास्त्यतः परं राज्ञा किमुक्तम् ? अत्राह– स एवमिति ॥ आत्मनो हरेर्मेधा ज्ञानं यस्य स तथा तेन, मनोयोगवता वा ॥ ४४ ॥

प्रकाशिका

आत्मनो हरेर्मेधा ज्ञानं यस्य स तथा तेन । मनोयोगवता वा । दर्शिताऽऽत्मनो हरेर्गतिः स्थितिर्यस्मै ॥ ४४ ॥

पृथुरुवाच –

कृतो मेऽनुग्रहः पूर्वं हरिणाऽऽर्तानुकम्पिना ।

तमापादयितुं ब्रह्मन् भगवन् यूयमागताः ॥ ४५ ॥

पदरत्नावली

किमवोचत् ? तत्राह– कृत इति ॥ ४५ ॥

प्रकाशिका

ब्रह्मन्निति सम्बोधनम् । एकस्य प्राधान्यात् ॥ ४५ ॥

निष्पादितं च कार्त्स्न्येन भगवद्भिर्घृणालुभिः ।

साधुदत्तं हि सर्वं मे आत्मना सह किं ददे ॥ ४६ ॥

पदरत्नावली

तदपूरणे भगवदागमनेनापि किं प्रयोजनमिति शङ्कांशो नास्तीत्यशयेनाह– निष्पादितमिति ॥ घृणालुभिर्दयाशीलैः । एवमुपकर्तृभ्यो युष्मभ्यं काऽपि गुरुदक्षिणा मया दातव्या । तद् गुरुदक्षिणालक्षणं किं धनमात्मना देहेन सह ददे ददामि ? न मम किञ्चित् स्वाधीनमस्तीत्यर्थः । राज्यादिकमस्ति चेत् ? सर्वं तत्साधुभ्यो दत्तम् । तदधीनमहं कथं दास्यामि ? परकीयदानाच्चौर्यमापद्यत इति भावेनोक्तम्– साधुदत्तमिति ॥ ४६ ॥

प्रकाशिका

घृणालुभिः कृपालुभिः । इतः परं मया गुरुदक्षिणा देया तत्र मम देयं न किञ्चि-दस्तीत्याह ॥ साधुदत्तमिति । हि यस्मादात्मना देहेन सह सर्वं विद्यमानं साधुभिर्दत्तम् । तत्प्रसादेन लब्धं तत्स्वामिकं तस्मात्किं ददे ॥ ४६ ॥

प्राणा दाराः सुता ब्रह्मन् गृहाश्च सपरिग्रहाः ।

रायो मही बलं कोश इति सर्वं निवेदितम् ॥ ४७ ॥

पदरत्नावली

ननु तथापि साधुभिरात्मसात्कृतं राज्यादिकं तद् दातव्यमिति चेत् सत्यम् । तद् दातुं योग्यं चेद् दास्यामीत्याह– प्राणा इति ॥ रायो वित्तानि ॥ ४७ ॥

प्रकाशिका

न हि स्वामिना दत्तं धनादिकं दानरूपेण तस्मै दीयतेऽतो दानासम्भवेऽपि समुद्रायार्घ्यनिवेदनवत्तदीयस्य तस्मै समर्पणरूपं निवेदनमेव मया कार्यमित्याह ॥ प्राणा इति । रायो वित्तानि । इतिशब्दः प्रभृत्यर्थः ॥ ४७ ॥

सेनापत्यं च राज्यं च दण्डनेतृत्वमेव च ।

सर्वलोकाधिपत्यं च वेदशास्त्रविदर्हति ॥ ४८ ॥

स्वंय(स्व)मेव ब्राह्मणो भुंक्ते स्वं वस्ते स्वं ददाति च ।

तस्यैवानुग्रहेणान्नं भुंजते क्षत्रियादयः ॥ ४९ ॥

पदरत्नावली

युष्मभ्यं सर्वं निवेदितमिति मोहादुक्तम् । तत्क्षन्तव्यम् । सर्वस्य युष्मदीयत्वान्न मया दातव्यमित्याह– सेनापत्यमित्यादिना ॥ ४८ ॥

प्रकाशिका

आत्मनः स्वामित्वाभावं प्रपञ्चयति ॥ सेनापत्यमिति द्वाभ्याम् । वस्ते परिधत्ते । अन्नमात्रं भुंजते । न तु दाने स्वतन्त्रा इत्याशयः ॥ ४८,४९ ॥

यैरीदृशी भगवतो गतिरात्मवाद एकान्ततो निगमिभिः प्रतिपादिता नः ।

तुष्यन्त्वदभ्रकरुणाः स्वकृतेन नित्यं को नाम तत् प्रतिकरोति विनोदपात्रम्

॥ ५० ॥

पदरत्नावली

किं बहुनानुलापेन ? इदमेव भवदर्हणमित्याह– यैरीदृशीति ॥ निगमिभि-र्वैदिकैरात्मवादे वेदान्ते एकान्ततो मुख्येन निर्णीतत्वाद् यैर्भवद्भिरीदृशी हरेर्गतिरस्माकं प्रतिपादिता ते यूयं स्वकृतेन तुष्यध्वमित्यन्वयः । किं नीरसमधुरवचनेनेत्युक्तम्– तुष्यन्त्विति ॥ ५० ॥

प्रकाशिका

किं बहुना न मया भवतां प्रत्युपकर्तुं शक्यमित्याह ॥ यैरिति । गतिः स्थितिः । आत्मवादे ब्रह्मप्रवचने कार्ये । एकान्ततो नियमेन निगमिभिर्वेदार्थनिश्चयवद्भिः । अदभ्रकरुणा अनल्पकरुणाः स्वकृतेन दीनोद्धरणलक्षणेन कर्मणा नित्यं तुष्यंत्वभिवृद्धमोदवन्तो भवन्तु । को नाम तत्कृतमुपकारं प्रति स्वयमुपकरोति । उपकर्तुं शक्तो न कोऽपीति । यदि कश्चिदुपकर्तुमुद्यतः स्यात्तर्हि विनोदपात्रमुपहासविषययो भवेदित्यर्थः । उदपात्रमंजलिं विनेत्यप्याहुः ॥ ५० ॥

मैत्रेय उवाच –

त आत्मयोगपतय आदिराजेन पूजिताः ।

शीलं तदीयं शंसन्तः खेऽभूवन् मिषतां नृणाम् ॥ ५१ ॥

पदरत्नावली

तत्प्रियवचनान्ते तैः किमकारीत्यत्राह– त आत्मेति ॥ आत्मयोगस्याध्यात्म-योगस्योपदेष्टृत्वेन पतयः । मिषतां पश्यताम् । खे आकाशे ॥ ५१ ॥

प्रकाशिका

आत्मयोगस्याध्यात्मयोगस्योपदेष्टृत्वेन पतयः । मिषतां पश्यतां सताम् । खे आकाशमार्गे ॥ ५१ ॥

वैन्यस्तु धुर्यो महतां संस्थित्याऽध्यात्मशिक्षया ।

आप्तकाममिवात्मानं मेन आत्मन्यवस्थितः ॥ ५२ ॥

तात्पर्यम्

‘नैजः सर्वगुणोत्कर्षः सर्वेभ्यो महदुच्यते ।’ इति शब्दनिर्णये ॥ ५२ ॥

पदरत्नावली

पृथुना तेभ्यः समग्रानुग्रहः प्राप्त इत्यस्य लक्षणमाह– वैन्य इति ॥ महतां धुर्यः धूर्वोढा । संस्थित्या संपूर्णया अध्यात्मशिक्षया परमात्मतत्त्वज्ञानादानलक्षणया । इवशब्द एवार्थे ॥५२॥

प्रकाशिका

संस्थित्या स्वयोग्यतया संपूर्णयाऽध्यात्मशिक्षया परमात्मतत्त्वज्ञानलक्षणया । अत्र महतां धुर्य इति वैन्यस्य गुणोत्कर्ष उच्यते । न चासावनेन लभ्यते । महच्छब्दस्य स्वावरपूज्यत्व-मात्रार्थकत्वेन धुर्यत्वस्य दैत्यधुर्यबल्यादिसाधारण्यादतोऽत्र विवक्षितं महच्छब्दार्थं प्रमाणेनैव दर्शयति ॥ नैज इति । सर्वेभ्यः स्वावरेभ्यो नैजः स्वाभाविकः सर्वेषां ज्ञानभक्त्यादीनामुत्कर्षो महच्छब्देनोच्यत इत्यर्थः । तथाच महतां स्वाभाविकज्ञानभक्त्याद्युत्कर्षवतां धुर्यो भारवाहक इति मूलार्थ इति भावः । आप्तकाममिव मुक्तमिवात्मन्यवस्थितः सदा हर्यनुसन्धानवान् ॥ ५२ ॥

कर्माणि च यथाकालं यथादेशं यथाबलम् ।

यथोचितं यथावित्तमकरोद् ब्रह्मसात्कृतम् ॥ ५३ ॥

पदरत्नावली

तस्य कर्मकरणप्रकारमाह– कर्माणीति ॥ ५३ ॥

प्रकाशिका

ब्रह्मसात्कृतं ब्रह्मण्यर्पितं यथा भवति तथा ॥ ५३ ॥

फलं ब्रह्मणि विन्यस्य निर्विषङ्गः समाहितः ।

कर्माध्यक्षं च मन्वान आत्मानं प्रकृतेः परम् ॥ ५४ ॥

पदरत्नावली

निर्विषङ्गः कर्मफलेष्वनासक्तः । प्रकृतेः परम् आत्मनं श्रीहरिं कर्मणामध्यक्षं साक्षिणं मन्वानः ॥ ५४ ॥

प्रकाशिका

ब्रह्मसात्कृतमित्युक्तमेव दर्शयति ॥ फलमिति । निर्विषङ्गो विषयासक्तिशून्यः । कर्माध्यक्षं कर्मकारयितारं पूज्यं च । प्रकृतेः परमप्राकृतमात्मानं हरिं च मन्वानः ॥ ५४ ॥

गृहेषु वर्तमानोऽपि स साम्राज्यश्रियाऽन्वितः ।

नासज्जतेन्द्रियार्थेषु निरहंमतिरर्कवत् ॥ ५५ ॥

प्रकाशिका

निर्विषङ्ग इत्युक्तमेव विशदयति ॥ गृहेष्विति ॥ ५५ ॥

एवमध्यात्मयोगेन कर्माण्यनुसमाचरन् ।

पुत्रानुत्पादयामास पञ्चार्चिष्यात्मसम्मतान् ॥ ५६ ॥

विजिताश्वं धूमकेशं हर्यक्षं द्रविणं वृकम् ।

सर्वेषां लोकपालानां दधारैकः पृथग् गुणान् ॥ ५७ ॥

पदरत्नावली

विषयासक्त्या वर्तमानस्य पुत्रानुत्पादनेन स्वपुरराज्यरक्षणपुण्यप्राप्तिः कथम् ? अत्राह– एवमिति ॥ अर्चिषि भार्यायाम् ॥ एवं संन्यस्तसर्वकर्माऽपि राजा भगवदनुग्रहाविरोधेन तत्तत्कर्मणेन्द्रादितत्तद्गुणान् दधारेत्याह– सर्वेषामिति ॥ ५६,५७ ॥

प्रकाशिका

अर्चिषि भार्यायाम् ॥ ५६,५७ ॥

गोपीथाय जगत्सृष्टेः काले स्वे स्वेऽच्युतात्मकः ।

मनोवाङ्मूर्तिभिः सौम्यैर्गुणैः संरञ्जयन् प्रजाः ॥ ५८ ॥

पदरत्नावली

जगत्सृष्टेर्गोपीथाय रक्षणाय । अच्युते आत्मा मनो यस्य सोऽच्युतात्मकः । राजशब्दं निर्वक्ति– मनो वाङिति ॥ ५८ ॥

प्रकाशिका

जगत्सृष्टेः सृष्टस्य जगतो गोपीथाय रक्षणाय । अच्युते आत्मा मनो यस्य स तथा । रञ्जनाद्राजेति राजशब्दं निर्वक्ति ॥ मनोवाङ्मूर्तिभिरिति ॥ ५८ ॥

राजेत्यधान्नामधेयं सोमराज इवापरः ।

सूर्यवद् विसृजन् गृह्णन् प्रतपंश्च भुवो वसु ॥ ५९ ॥

पदरत्नावली

रञ्जनाद्राजेति । इन्द्रादिगुणधारणप्रकारं विविच्य वक्ति– सोमराज इत्यादिना ॥ वसु जलं ‘‘वसु रत्नं जलं रश्मिर्वसुदेवो विभावसुरि’’त्यभिधानम् ॥ ५९ ॥

प्रकाशिका

सोमश्चासौ राजा च स इव । भुवो वसु धनं गृह्णन् विसृजंश्चासौ सूर्यवत् । सूर्यपक्षे वसु जलम् । राजपक्षे प्रतापनमाज्ञाकरणम् ॥ ५९ ॥

दुर्धर्षस्तेजसेवाग्निर्महेन्द्र इव दुर्जयः ।

तितिक्षया धरित्रीव द्यौरिवाभीष्टदो नृणाम् ॥ ६० ॥

प्रकाशिका

अग्निरिव दुर्धर्षः । द्यौरिव स्वर्ग इव ॥ ६० ॥

वर्षति स्म यथाकामैः पर्जन्य इव तर्पयन् ।

समुद्र इव दुर्बोधः सत्येनाचलराडिव ॥ ६१ ॥

धर्मराडिव शिक्षायामाश्चर्ये हिमवानिव ।

कुबेर इव कोशाढ्यो गुप्तार्थो वरुणो यथा ॥ ६२ ॥

पदरत्नावली

अचलराट् मेरुः ॥ कोशाढ्यः धनौघपतिः ॥ ६१,६२ ॥

प्रकाशिका

समुद्रो यथा गाम्भीर्येणैव दुर्बोधः । तथाऽसावभिप्रायतो दुर्बोधः । अचलराण्मेरुः

॥ ६१,६२ ॥

मातरिश्वेव सर्वात्मा बलेन महतौजसा ।

अविषह्यतया देवो भगवान् भूतराडिव ॥ ६३ ॥

पदरत्नावली

सर्वात्मा सर्वान्तस्थः । भूतराट् सदाशिवः ॥ ६३ ॥

प्रकाशिका

सर्वात्मा सर्वसंचारशक्तिः । भूतराट् शिवः ॥ ६३ ॥

कन्दर्प इव सौन्दर्ये मनस्वी मृगराडिव ।

वात्सल्ये मनुवन्नॄणां प्रभुत्वे भगवानजः ॥ ६४ ॥

पदरत्नावली

मृगराट् सिंहः । अजो ब्रह्मा ॥ ६४ ॥

प्रकाशिका

मृगराट् सिंहः ॥ ६४ ॥

बृहस्पतिर्ब्रह्मवादे आत्मतत्त्वे स्वयं हरिः ।

भक्त्या गोगुरुविप्रेषु विष्वक्सेनानुवर्तिषु ॥ ६५ ॥

तात्पर्यम्

‘अनाद्यन्तं परं ब्रह्म न देवा ऋषयो विदुः । एकस्तद्वेद भगवान्प्रभुर्नारायणः स्वराट्’ ॥ इति मोक्षधर्मेषु ॥ ६५ ॥

पदरत्नावली

आत्मतत्त्वे परमात्मतत्त्वज्ञाने । अधिकदृष्टान्तोऽयम् । अथापि तमेवाह– भक्त्येत्यादिना ॥ गवादिषु भक्त्या । ह्रिया लज्जादिगुणेन ॥ ६५ ॥

प्रकाशिका

ब्रह्मवादे सवेदवचने । आत्मतत्त्वे परमात्मतत्त्वज्ञाने स्वयं साक्षाद्धरिरिव । अत्र परमात्मज्ञाने पृथोर्हरिसाम्यशङ्कां प्रमाणेनैव परिहरति ॥ अनाद्यन्तमिति । देवशब्देन कर्मजदेवानामपि विवक्षितत्वात्प्रकृतसङ्गतिरित्यवधेयम् । स्वराट् स्वतन्त्रः । तथा च मूलेऽधिकदृष्टान्तः किञ्चित्साम्य-मपेक्ष्येति ज्ञेयम् ॥ ६५ ॥

ह्रिया प्रश्रयशीलाभ्यामात्मतुल्यपरोद्यमैः१ ।

कीर्त्योर्ध्वगीतयः पुम्भिस्त्रैलोक्ये तत्र तत्र ह ॥ ६६ ॥

प्रविष्टः कर्णरन्ध्रेषु स्त्रीणां रामः सतामिव ॥ ६७ ॥

तात्पर्यम्

‘गुरुविप्रेषु भक्त्या च परेषां हितकृत्तया । प्रश्रयेण च कीर्त्या च पृथू राम-मनुव्रतः ॥’ इति ब्रह्माण्डे । ‘न गुरुर्न च धर्मोऽस्ति रामदेवस्य कुत्रचित् । तथापि धर्मरक्षार्थं गुरुभक्तिमदर्शयत्’ ॥ इति वाराहे ॥ ६७ ॥

पदरत्नावली

पुम्भिरूर्ध्वगीतयोच्चैः कीर्तितया कीर्त्या स्त्रीणां कर्णरन्ध्रेषु प्रविष्टः सतां कर्णरन्ध्रेषु प्रविष्टः परोद्यमे चात्मतुल्यः स्वकार्यसमो राम इवेत्यन्वयः ॥ ‘गुरुविप्रेषु भक्त्या च परेषां हितकृत्तया । प्रश्रयेण च कीर्त्या च पृथू राममनुव्रतः ॥’ इति वचनात्, नेदं स्तुतिमात्रं किन्तु सत्यमित्यर्थः । ‘न गुरुर्न च धर्मोऽस्ति रामदेवस्य कुत्रचित् । तथापि धर्मरक्षार्थं गुरुभक्तिमदर्शयत् ॥’ इत्यतो रामस्य लोकसंग्रहार्थं न त्वनवाप्तफलप्राप्त्यर्थं गुरुभक्त्यादिकमिति सन्तोष्टव्यम् ॥ ६६,६७ ॥

॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुकृतायां

चतुर्थस्कन्धे द्वाविंशोऽध्यायः ॥

प्रकाशिका

आत्मतुल्यपरोद्यमैः स्वहितकरणतुल्यपरहितकरणैरित्यर्थः । उद्यमे इति पाठे तद्विषये इत्यर्थः ॥ पुम्भिः सद्भिरूर्ध्वमुच्चैर्यथा स्यात्तथा गीतया कीर्त्या स्त्रीणां कर्णरन्ध्रेषु प्रविष्टः । क इव । रामो दाशरथिरिव । यथा भक्त्यादिगुणैः सतां कर्णरन्ध्रेषु प्रविष्टस्तथेत्यर्थः । अयमधिकदृष्टान्तः । साम्यं प्रोक्तैर्भक्त्यादिभिः कतिपयैरेव गुणैः साम्यमित्यभिप्रेत्यात्र प्रमाणं पठति ॥ गुरुविप्रेष्विति । आत्मतुल्यः परोद्यमैरित्यस्य तात्पर्यं परेषां हितकृत्तयेति । हितकारित्वेनेत्यर्थः । राममनुव्रतो रामसदृशः । ननु रामस्य भगवदवतारस्य न गुर्वादिप्रसिद्धिरतः कथमेतदित्याशङ्कां प्रमाणेनैव परिहरति ॥ न गुरुरिति । न च देवोऽस्तीत्यनेन मूले विष्वक्सेनानुवर्तिष्वित्येतद्देवेष्विति व्याख्येयमिति सूचयति । गुरुभक्तिमित्यत्र गुरुशब्दो देवानामप्युपलक्षकः । तथा च तस्य गुर्वाद्यभावेऽपि धर्मशिक्षार्थं तेन प्रदर्शिता या गुर्वादिभक्तिस्तद्दृष्टान्ततयैव रामस्य दृष्टान्तत्वमित्याशयः ॥ ६६,६७ ॥

**॥ इति श्रीमद्वेदेशपूज्यपादशिष्येण यदुपतिना विरचितायां **

श्रीमद्भागवतटिप्पण्यां चतुर्थस्कन्धे द्वाविंशोऽध्यायः ॥ ४-२२ ॥