२१ एकविंशोऽध्यायः

मौक्तिकैः कुसुमस्रग्भिर्दुकूलैः स्वर्णतोरणैः

अथैकविंशोऽध्यायः

मैत्रेय उवाच–

मौक्तिकैः कुसुमस्रग्भिर्दुकूलैः स्वर्णतोरणैः ।

महासुरभिभिर्धूपैर्मण्डितं तत्र तत्र वै ॥ १ ॥

पदरत्नावली

देवादीन् विना हरेर्ब्राह्मणाः सन्निधानपात्रमित्येतत् प्रतिपाद्यतेऽस्मिन्नध्याये । तत्रानन्तरातीताध्याये पृथुः पुरं ययावित्युक्तम् । तत्पुरं वर्णयति– मौक्तिकैरित्यादिना ॥ १ ॥

प्रकाशिका

तत्पुरं वर्णयति ॥ मौक्तिकैरिति त्रिभिः ॥ १ ॥

चन्दनागुरुतोयार्द्ररथ्याचत्वरमार्गवत् ।

पुष्पाक्षतफलैस्तोयैर्लाजैरर्चिभिरर्चितम् ॥ २ ॥

पदरत्नावली

पिष्टचन्दनागुरुमिश्रतोयैरार्द्रा रथ्याचत्वरमार्गा यस्मिंस्तत् तथोक्तम् । गोमयतोयैः । अर्चिभिर्दीपज्वालाभिः ॥ २ ॥

प्रकाशिका

चन्दनागुरुयुक्ततोयैरार्द्रा रथ्या चत्वरमार्गा अस्मिन्सन्तीति तत्तथोक्तम् । तोयैः शुद्धोदकैः । अर्चिभिर्दीपज्वालाभिरर्चितमलङ्कृतम् ॥ २ ॥

संवृतैः कदलीस्तम्भैः पूगपोतैः परिष्कृतम् ।

तरुपल्लवमालाभिः सर्वतः समलंकृतम् ॥ ३ ॥

पदरत्नावली

पूगपोतैः क्रमुकपुष्पैः । परिष्कृतमलंकृतम् ॥ ३ ॥

प्रकाशिका

पूगपोतैः क्रमुकाङ्कुरैः परिष्कृतमलङ्कृतम् ॥ ३ ॥

प्रजास्तं दीपबलिभिः सम्भृताशेषमङ्गलैः ।

अभीयुर्मृष्टकन्याश्च मृष्टकुण्डलमण्डिताः ॥ ४ ॥

पदरत्नावली

सम्भृतानि संपादितानि अशेषाणि मङ्गलानि दध्यादीनि तैश्च युक्ताः । मृज संशुद्धाविति धातुः ॥ ४ ॥

प्रकाशिका

सम्भृतानि संपादितान्यशेषाणि मङ्गलानि दध्यादीनि तैश्च सहाभीयुः । मृष्टाः शुद्धाः ॥ ४ ॥

शङ्खदुन्दुभिघोषेण ब्रह्मघोषेण चर्त्विजाम् ।

विवेश भवनं भूयः स्तूयमानो गतस्मयः ॥ ५ ॥

पदरत्नावली

भूयः पुरप्रवेशानन्तरम् । गतस्मयो गर्वरहितः ॥ ५ ॥

प्रकाशिका

भूयः पुरप्रवेशानन्तरं गतस्मयो गर्वरहितः ॥ ५ ॥

पूजितः पूजयामास तत्र तत्र महायशाः ।

पौरान् जानपदांस्तांस्तान् प्रीतः प्रियवरप्रदः ॥ ६ ॥

पदरत्नावली

प्रियानभीष्टान् वरान् प्रददातीति प्रियवरप्रदः ॥ ६ ॥

प्रकाशिका

प्रियानभीष्टान्वरान्ददातीति प्रियवरप्रदः ॥ ६ ॥

स एवमादीन्यनवद्यचेष्टितः कर्माणि भूयांसि महन्महत्तमः ।

कुर्वन् शशासावनिमण्डलं यशः स्फीतं निधायारुरुहे परं पदम् ॥ ७ ॥

पदरत्नावली

प्रश्नमङ्कुरयन्नुपसंहरति– स एवमिति ॥ भूयांसि महान्ति । स्फीतं पुष्टम् । लोके निधाय ॥ ७ ॥

प्रकाशिका

स्फीतं पुष्टम् । निधाय । लोक इति शेषः ॥ ७ ॥

सूत उवाच–

श्रुत्वाऽऽदिराजस्य यशो विजृम्भितं गुणैरशेषैर्गुणवत्सभाजितम् ।

क्षत्ता महाभागवतः सदस्पते कौशारविं प्राह गुरुं समर्चयन् ॥ ८ ॥

पदरत्नावली

गुणवद्भिः पुरुषैः सभाजितम् ॥ ८ ॥

प्रकाशिका

अशेषैर्गुणैर्विजृंभितमूर्जितं गुणवद्भिः पुरुषैः सभाजितं सत्कृतं गृणन्तम् । हे सदसस्पते राजन् ॥ ८ ॥

विदुर उवाच–

सोऽभिषिक्तः पुथुर्विप्रैर्लब्धाशेषसुरार्हणः ।

बिभ्रच्च वैष्णवं तेजो बाह्वोर्याभ्यां दुदोह गाम् ॥ ९ ॥

पदरत्नावली

किमाहेति तत्राह– सोऽभिषिक्त इति ॥ स पृथुर्यत् कर्माकरोत् तन्मे वद इत्यन्वयः । लब्धान्यशेषैः सुरैः कृतान्यर्हणानि येन स तथोक्तः ॥ ९ ॥

प्रकाशिका

लब्धान्यशेषसुरैः कृतान्यर्हणानि येन स तथा । याभ्यां दुदोह तयोर्बाह्वोर्वैष्णवं तेजो विभ्रद्यः सोऽभिषिक्तः ॥ ९ ॥

को न्वस्य कीर्तिं न शृणोत्यभिज्ञो यद्विक्रमोच्छिष्टमशेषभूपाः ।

लोकाः सपाला उपजीवन्ति काममद्यापि तन्मे वद कर्म शुद्धम् ॥ १० ॥

तात्पर्यम्

‘देवेभ्य ऋषयो भूपाश्चोच्यन्ते शक्तिमत्तया । क्वचित्क्वचिन्मोहनार्थं कादा-चित्काच्च हेतुतः ॥’ इति नारदीये ॥ १० ॥

पदरत्नावली

वक्तव्यत्वे गुणमाह– को न्वस्येति ॥ ‘देवेभ्य ऋषयो भूपाश्चोच्यन्ते शक्ति-मत्तया । क्वचित्क्वचित्तु मोहार्थं कादाचित्कात् तु हेतुतः ॥’ इति वचनाद् युक्तं सपाला इति ॥ १० ॥

प्रकाशिका

अस्य कीर्तिं को न शृृणोतीत्यन्वयः । यस्य विक्रमः पृथिवीदोहने तस्योच्छिष्ठ-मुच्छिष्ठतुल्यं कामं स्वाभीष्टम् । तत्तस्मात्तस्य कर्म पुनर्वद । अत्र सपाला जीवन्तीत्यस्य योग्यं तात्पर्यं प्रमाणेनैव दर्शयति ॥ देवेभ्य इति । कादाचित्काद्धर्यावेशरूपात् । तथा च सपाला इति वचन-मसुरजनमोहनाय वा पृथौ हर्यावेशमपेक्ष्य वा प्रवृत्तमतो न विरोध । इति भावः ॥ १० ॥

मैत्रेय उवाच–

गङ्गायमुनयोर्नद्योरन्तरा क्षेत्रमावसन् ।

आरब्धानेव बुभुजे भोगान् पुण्यजिहासया ॥ ११ ॥

पदरत्नावली

श्रद्धावतः श्रोतुं यस्मिञ्छ्रद्धा विदुषा तदेव वक्तव्यमिति भावयन् मैत्रेयस् तत्रोत्तरत्वेन तत्कथामाह– गङ्गेति ॥ यावद्भिर्भोगैर्देहस्थितिः स्यात् तानेव नाधिकानित्येवकारार्थः । तानपि पुण्यजिहासया पुण्यक्षयाभिप्रायेण न सुखार्थम् ॥ ११ ॥

प्रकाशिका

आरब्धानेव प्रारब्धकर्मप्राप्तानेव । न संचितप्राप्तानित्येवकारार्थः । तानपि पुण्यजिहासया पुण्यक्षपणेच्छयैव न सुखार्थम् ॥ ११ ॥

सर्वत्रास्खलितादेशः सप्तद्वीपैकदण्डधृक् ।

अन्यत्र ब्राह्मणकुलादन्यत्राच्युतगोत्रतः ॥ १२ ॥

पदरत्नावली

सर्वत्रेत्युक्तं सङ्कोचयति– अन्यत्रेति ॥ अच्युतगोत्रतो वैष्णवकुलात् । ‘गोत्रं नामि्न कुले खलम्’ इति यादवः ॥ १२ ॥

प्रकाशिका

अस्खलितोऽप्रतिहत आदेश आज्ञा यस्य । सप्तद्वीपेष्वेक एव दण्डं धरतीति स तथा । सर्वत्रेत्यस्यापवादमाह ॥ अन्यत्रेति । अच्युतस्य गोत्रं नाम जाप्यं येषां वैष्णवानां तेभ्यश्चान्यत्र

॥ १२ ॥

एकदाऽऽसीन्महासत्रदीक्षा तत्र दिवौकसाम् ।

समाजो ब्रह्मर्षीणां च देवर्षीणां च सत्तम ॥ १३ ॥

पदरत्नावली

ज्ञानिनः प्रारब्धकर्मभोगस्य नियतत्वेन सिद्धत्वान्नैतद्वर्णनमत्रापेक्षितमन्यत् किञ्चिच्छ्राव्यमस्ति चेद् वक्तव्यमिति तत्राह– एकदेति ॥ ‘यज्ञभेदे सदादाने सत्रमाच्छादने वने’ इत्यभिधानाद् दीक्षेति विशेषणाद् दीक्षा यज्ञ इत्यर्थः । समाजः संमेलनम् ॥ १३ ॥

प्रकाशिका

समाजो मेलनम् ॥ १३ ॥

तस्मिन्नर्हत्सु सर्वेषु स्वर्चितेषु यथार्हतः ।

उत्थितः स सदोमध्ये ताराणामुडुराडिव ॥ १४ ॥

पदरत्नावली

दानार्थं भोजनार्थं वा मिथो निरीक्षणार्थं चेतस्ततः संगच्छन्ते जनाः किमत्र चोद्यमिति तत्राह– तस्मिन्निति ॥ तस्मिन् समाजे अर्हत्सु संमान्येषु । ‘अर्हतौ जिनसंमान्यौ’ इति यादवः । उडुराट् चन्द्रः । स राजा समन्ततश्चतुर्दिशमुपविष्टानैक्षतेति षष्ठश्लोकेनान्वयो वेदितव्यः

॥ १४ ॥

प्रकाशिका

अर्हत्सु पूज्येषु । उत्थितः सन् । उडुराट् चन्द्रः । स राजा समन्ततश्चतुर्दिक्षु । उपविष्टानैक्षतेत्युत्तरेणान्वयः ॥ १४ ॥

प्रांशुः पीनायतभुजो गौरः कञ्जारुणेक्षणः ।

सुनासः सुमुखः सौम्यः पीनांसः सुद्विजस्मितः ॥ १५ ॥

पदरत्नावली

कथम्भूत इति तल्लक्षणं वक्ति– प्रांशुरित्यादिना ॥ गौरो निर्मलः । यद्वा ‘गौरोऽरुणे सिते पीते’ इति वचनाद् गौरशब्दाक्षिप्तवर्णविशेषविशिष्टत्वं वक्ति– कञ्जारुणेक्षणेत्यादिना ॥ सौम्यः सुन्दरः विप्रपियो वा । सोमयोग्यो वा । द्विजा दन्ताः ॥ १५ ॥

प्रकाशिका

प्रांशुरुन्नतः पीनावायतौ भुजौ यस्य । शोभना द्विजा दन्ताः स्मितं च यस्य । गौरो निर्मलः ॥ १५ ॥

व्यूढवक्षा बृहच्छ्रोणिर्वलीवल्गुतरोदरः ।

आवर्तनाभिरोजस्वी काञ्चनोरुरुदग्रवाक् ॥ १६ ॥

पदरत्नावली

व्यूढवक्षा उन्नतवक्षाः । वलीभी रेखाभिर् अतिशयेन वल्गु सुन्दरमुदरं यस्य स तथा । उदग्रवागुन्नतवाक् ॥ १६ ॥

प्रकाशिका

व्यूढं विस्तीर्णं वक्षो यस्य वलीभी रेखाभिरतिशयेन वल्गु सुन्दरमुदरं यस्यावर्त-वन्निम्ननाभिर्यस्य काञ्चनवदुज्वलावुरू यस्य सः । उदग्रवागुन्नतवाक् । उदग्रपादिति पाठे उदग्रौ उन्नतौ पादौ यस्येत्यर्थः ॥ १६ ॥

सूक्ष्मवक्रासितस्निग्धमूर्धजः कम्बुकन्धरः ।

महाधने दुकूलाग्य्रे परिधायोपधाय च ॥ १७ ॥

पदरत्नावली

सूक्ष्माश्च वक्राश्चासिता नीलाश्च स्निग्धाश्च मूर्धजाः केशा यस्य स तथा । कम्बुवत् त्रिरेखाङ्कितवृत्तशङ्खवत् कन्धरो यस्य स तथा । उपधायोत्तरीकृत्य ॥ १७ ॥

प्रकाशिका

सूक्ष्माश्च ते वक्राश्चासिता नीलाश्च स्निग्धाश्च मूर्धजाः केशा यस्य । कम्बुवत्त्रि-रेखाङ्कितशङ्खवत्कन्धरो यस्य स तथा । उपधायोत्तरीकृत्य ॥ १७ ॥

व्यञ्जिताशेषगात्रश्रीर्नियमे न्यस्तभूषणः ।

कृष्णाजिनधरः श्रीमान् कुशपाणिः कृतोचितः ॥ १८ ॥

पदरत्नावली

नियमे यज्ञनियमविषये ॥ १८ ॥

प्रकाशिका

नियमे यज्ञनियमविषये न्यस्तानि त्यक्तानि भूषणानि येन सः । अत एव तैरना-वृतत्वाद्व्यञ्जिताशेषगात्रेषु श्रीः स्वाभाविकी शोभा येन । कृतान्युचितानि कर्माणि येन ॥ १८ ॥

शिशिरस्निग्धताराक्षस् तानैक्षत समन्ततः ।

ऊचिवानिदमुर्वीशः सदस्यान् हर्षयन्निव ।

चारुचित्रपदं श्लक्ष्णं हृद्यं गूढमविक्लवम् ॥ १९ ॥

पदरत्नावली

किमर्थं निरीक्षणमित्यविदुषां चित्तव्याकुलतां परिहरति– ऊचिवानिति ॥ चित्राणि पदानि यस्मिंस्तत् तथा । श्लक्ष्णं मधुरम् । हृद्यं हृदयप्रियम् । गूढमर्थतो गम्भीरम् । अविक्लवमकातरमस्खलितमिति यावत्, वचनमिति शेषः ॥ १९ ॥

प्रकाशिका

शिशिरे सन्तापहरे स्निग्धे च तारे कनीनिके ययोस्तेऽक्षिणी यस्य । चारुणि चित्राणि पदानि यस्मिंस्तत्तथा । श्लक्ष्णं मधुरम् । हृद्यं हृदयप्रियम् । गूढमर्थतो गम्भीरमविक्लवमकातरम् । अस्खलितमिति यावत् । वचनमिति शेषः ॥ १९ ॥

पृथुरुवाच–

सभ्याः शृणुत भद्रं वः साधवो य इहागताः ।

सत्सु जिज्ञासुभिर्धर्ममावेद्यं स्वमनीषितम् ॥ २० ॥

पदरत्नावली

किमनेन चित्तव्याकुलता परिहृतेति तत्राह– सभ्या इति ॥ वो भद्रमस्त्वित्युक्तं प्रथमं चित्तव्याकुलता परिहारायेति ज्ञातव्यम् । धर्मं जिज्ञासुभिर्ज्ञातुकामैः पुरुषैः स्वमनीषितं सत्सु योग्येष्वावेद्यम् ॥ २० ॥

प्रकाशिका

वक्तव्यवचने औद्धत्यपरिहाराय स्वविनयं दर्शयति ॥ धर्ममिति । धर्मं जिज्ञासुभिर्ज्ञातुकामैः पुरुषैः स्वमनीषितं सत्सुयोग्येष्वावेद्यं वक्तव्यं वक्ष्यमाणवाक्यैर्धर्मजिज्ञासैव क्रियते न युष्मान्प्रति धर्मवचनमिति भावः ॥ २० ॥

अहं दण्डधरो धात्रा प्रजानामिह योजितः ।

रक्षिता वृत्तिदस्तेषु सेतुषु स्थापिता पृथक् ॥ २१ ॥

पदरत्नावली

किं तत् स्वमनीषितमित्यत उक्तम्– अहमिति ॥ ‘दण्डोऽस्त्री शासने राज्ञां हिंसायां लकुटे गुडे’ इत्यभिधानात् तत्तद्योग्येषु तं तं दण्डं धारयतीति दण्डधरः । धात्रा हरिणा । धातृशब्दार्थं लक्षयति– रक्षितेत्यादिना ॥ स्थापिता स्थापयिता ॥ २१ ॥

प्रकाशिका

स्वमनीषितमेवाह ॥ अहमिति । दण्डधरः शिक्षकोऽहं धात्रा हरिणा प्रजापालनादौ योजितः । पृथक् सेतुषु स्थापिता स्थापयिता ॥ २१ ॥

तस्य मे तदनुष्ठानाद् यदाहुर्ब्रह्मवादिनः ।

लोकाः स्युः कामसंदोहा यस्य तुष्यति दिष्टदृक् ॥ २२ ॥

पदरत्नावली

तस्य मे कामान् संदुहन्तीति कामसंदोहाः, कर्मण्यण्प्रत्ययः कामानां संदोहा येष्विति वा, लोकाः स्युरिति ब्रह्मवादिन आहुरिति यद् यस्मात् तस्मादेतत्फलमन्वीक्ष्याहं धात्रेह प्रजापालनादौ योजित इत्यन्वयः । तदनुध्यानात् तस्य प्रजापालनस्यानुष्ठानादित्यनुवादः । श्रीनारायणप्रसादेन भाविनो लोकाः कथं प्रजापालनेन स्युरिति तत्राह– यस्येति ॥ २२ ॥

प्रकाशिका

एवं प्रजाशिक्षणेन तव किं फलमित्यपेक्षायामाह ॥ तस्य म इति । दिष्टदृक्कर्मसाक्षी हरिः । यस्य प्रजारक्षणेन तुष्यति । तस्य ब्रह्मवादिनो वेदवादिनो यद्यान् लोकानाहुः । तदनुष्ठाना-त्प्रजारक्षणकरणात्ते लोका मे स्युः । कथंभूताः । कामानां सम्यग्दोहः प्रपूरणं येषु ॥ २२ ॥

य उद्धरेत् करं राजा प्रजा धर्मेष्वशिक्षयन् ।

प्रजानां शमलं भुङ्क्ते भागं च स्वं जहाति सः ॥ २३ ॥

पदरत्नावली

व्यतिरेकमाह– य उद्धरेदिति ॥ भागं षष्ठांशं पुण्यम् ॥ २३ ॥

प्रकाशिका

अन्यथा बाधकमप्याह ॥ य उद्धरेदिति । भागं षष्ठांशं पुण्यम् ॥ २३ ॥

तत् प्रजा भर्तृपिण्डार्थं स्वार्थमप्यनसूयवः ।

कुरुताधोक्षजधिय१स्तर्हि मेऽनुग्रहः कृतः ॥ २४ ॥

पदरत्नावली

इदानीं प्रजाः प्रत्याह– तत् प्रजेति ॥ यस्मात् प्रजानामरक्षणे प्रत्यवायो भवति तत् तस्मात् हे प्रजा यद्यनसूयवो यूयम् अधोक्षजे हरौ धियं कुरुत तर्हि नोऽनुग्रहः कृतो भवेदित्यन्वयः । तवानेन किम् ? तत्राह– भर्तृपिण्डार्थमिति ॥ भर्तुर्मम षष्ठांशलक्षणसुकृताख्यप्रयोजनाय । न केवलं मम, युष्माकमप्यस्ति प्रयोजनमित्याह– स्वार्थमिति ॥ २४ ॥

प्रकाशिका

तत् तस्मात् प्रजाशिक्षणेन मम परलोकसद्भावात् । हे प्रजाः । यद्यनसूयवो यूयं भर्तृपिण्डार्थं भर्तुर्मम षष्ठांशरूपभागलाभाय । स्वार्थमेवाधोक्षजधियः सन्तः स्वोचितकर्माणि कुरुत । तर्हि मेऽनुग्रहः कृतो भवेदित्यर्थः ॥ २४ ॥

यूयं तदनुमोदध्वं पितृदेवर्षयोऽमलाः ।

कर्तुः शास्तुरनुज्ञातुस्तुल्यं यत् प्रेत्य तत् फलम् ॥ २५ ॥

पदरत्नावली

सभ्यानुद्दिश्याह– यूयमिति ॥ तेन किमस्माकं फलमित्यत उक्तम्– अनुज्ञातु-रिति ॥ अनुज्ञात्रादीनां शास्त्रेषु यत् फलमुक्तं तत् तदनुसारि फलं स्यादित्यभिप्रायेण तुल्यमित्युक्तम् । न तु कर्त्रनुज्ञात्रोस्तुल्यफलत्वं स्यात् । अन्यथा कृतहान्यादिदोषापत्तिरिति ॥ २५ ॥

प्रकाशिका

सभ्यानुद्दिश्याह ॥ यूयमिति । हे पितृदेवर्षयः । तन्मयोपदिष्टम् । अनुमोदनेन किमस्माकं फलमित्यत उक्तम् ॥ अनुज्ञातुरिति । कर्तुर्यत्प्रेत्य फलं तच्छास्तुः शिक्षयितुरनुज्ञातु-रनुमोदितुश्च तुल्यं स्वयोग्यतासदृशम् । तदनुसारेणेति यावत् । भवतीत्यर्थः ॥ २५ ॥

अस्ति यज्ञपतिर्नाम केषांचिदिह सत्तमाः ।

इहामुत्र च लक्ष्यन्ते ज्योत्स्नावत्यः क्वचिद् भुवः ॥ २६ ॥

तात्पर्यम्

‘प्रकाशवद्भुवो देवा मानुषाश्चापि केचन ।’ इति वाराहे ॥ २६ ॥

पदरत्नावली

ननु यद्यधोक्षजसद्भावे प्रमाणं स्यात् तर्हि तद्धियं कुरुतेति विधातुं युक्तम् । तदेव कुत इति तत्राह– अस्तीति ॥ यद् दृष्टं तदेव सद् यददृष्टं तदेवासदिति वादिनोऽपेक्ष्य केषाञ्चि-दित्युक्तम् । केषाञ्चिद् व्यासादीनां महात्मनां पक्षे यज्ञपतिर्नाम विष्णुरस्तीत्यन्वयः । ‘‘यज्ञो यज्ञपतिर्यज्वे’’त्यादि स्मृतेः । श्रीनारायणस्य प्रसादेन प्राप्या लोकास्तेन नियता देवताश्च सन्तीत्ये-तदेकोक्त्याह– इहेति ॥ इह मनुष्यलोके तच्छरिरे च । अमुत्र स्वर्गादौ । ज्योत्स्नावत्यः प्रकाशभूयिष्ठा

भुवः स्थानविशेषा इन्द्रियादिप्रेरकत्वेन भवनाद् भुवो देवताश्च दृश्यन्ते । प्रमाणत इति शेषः । ‘प्रकाश-वद्भुवो देवा मानुषाश्चापि केचन’ इति वचनात् । दुर्लभत्वात् क्वचिदित्युक्तम् । इहेत्यनेन बिलस्वर्गं लक्षयति । सुखहेतुत्वेन चन्द्रिकया तुल्यरत्नप्रकाशेन प्रकाशितत्वात्– ज्योस्नावत्य इति ॥ २६ ॥

प्रकाशिका

ननु जीवव्यतिरिक्तेश्वर एव नास्तीति त्वत्पित्रा वेनेन मतं प्रवर्तितमतः कथमधोक्षजधिय इत्युक्तमित्याशङ्कायां जीवव्यतिरिक्तेश्वरसद्भावे प्रमाणं दर्शयति ॥ अस्तीति । यज्ञपतिर्यज्ञादिकर्मफलदाता विष्णुरस्तीति नाम प्रसिद्धम् । इह लोके केषाञ्चिद्व्यासादीनाम् । मत इति शेषः । हे सत्तमा अतिशयेन सन्तः । तत्र प्रमाणं दर्शयितुमुक्तम् ॥ ज्योत्स्नेति । तत्र ज्योत्स्नावत्यो भुव इत्यस्य प्रकृतसंगतमर्थं प्रमाणेनैव दर्शयति ॥ प्रकाशवदिति । चापिशब्दौ परस्परसमुच्चये । देवाश्च केचन मानुषा अपीति । तथा चेह भूलोके क्वचित्प्रदेशेऽमुत्र स्वर्गादौ च ज्योत्स्नावत्यः प्रकाशवत्यो भुवो योग्यतानुसारेण पूर्णाः सर्वे देवाः केचन मानुषाश्च लक्ष्यन्ते । शास्त्रेण प्रत्यक्षेण चेति शेषः । ततश्च ज्योत्स्नावत्वादिरूपफलदाता विष्णुः स्वीकार्यो ऽन्यथेतरेषामविद्यमानं ज्योत्स्नावत्त्वादिकं तेषामेव कुतोऽत एतादृशफलान्यथाऽनुपपत्तिरेवेश्वरे मानमिति भावः ॥ २६ ॥

मनोरुत्तानपादस्य ध्रुवस्यापि महीपतेः ।

प्रियव्रतस्य राजर्षेरङ्गस्यास्मत्पितुः पितुः ॥ २७ ॥

पदरत्नावली

केषांचिदिति सूचितांस्तान्नामतो निर्दिशति– मनोरिति ॥ अस्मत्पितुर्वेनस्य पितुः ॥ २७ ॥

प्रकाशिका

तानेव ज्योत्स्नावद्भूशब्दवाच्यान् लेशतो दर्शयति ॥ मनोरिति । स्वायम्भुव-स्येत्यर्थः ॥ २७ ॥

ईदृशानामथान्येषामजस्य च भवस्य च ।

प्रह्लादस्य बलेश्चापि कृत्यमस्ति गदाभृतः ॥ २८ ॥

पदरत्नावली

अजस्य ब्रह्मणः । गदाभृतो हरेः । कृत्यं पूजालक्षणं कार्यमस्ति ॥ २८ ॥

प्रकाशिका

अजस्य ब्रह्मणो भवस्य रुद्रस्य । इदं पदद्वयमशेषदेवोपलक्षकम् । गदाभृतो विष्णोः सकाशात्कृत्यं ज्योत्स्नावत्त्वादिकमस्ति ॥ २८ ॥

राज्यस्वर्गापवर्गाणां प्रायेणैकात्महेतुता ।

दौहित्रादीनृते मृत्योः शोच्यान् धर्मविमोहितान् ॥ २९ ॥

तात्पर्यम्

‘एकात्मा हरिरुद्दिष्टः प्रधानत्वात्समस्ततः ।’ इति च ॥ प्राय इत्यवधारणा-क्षेपः । प्रायःपदं स्यात्प्राचुर्ये चाक्षेपात्मावधारणे । अर्थतोऽवधृतिः क्षेपो मुखाक्षेपोऽव-धारणम्’ ॥ इति च ॥ २९ ॥

पदरत्नावली

स्वर्गादेरन्याधीनतया तत्प्राप्त्यर्थं तदुपादानस्यैव कर्तव्यत्वेन तत्र किं गदाभृतः कृत्येनेति तत्राह– राज्येति ॥ प्रायेणान्याधीनत्वमन्तरेणैवैकात्मनः समस्तात् प्रधानस्य हरेर्हेतुता कारणत्वम् । ‘एकात्मा हरिरुद्दिष्ठः प्रधानत्वात् समस्ततः’ इति वचनात् । ‘ज्ञानादेव स्वर्गो ज्ञानादेवापवर्गः’ इति श्रुतेः । स्वर्गादिप्राप्त्यर्थमपि श्रीनारायणस्य पूजा ज्ञानजनित्री कार्येत्याशयः । ननु प्रायःशब्दस्य प्राचुर्यार्थावधारणार्थत्वे निषिध्यावशिष्टाल्पनिषेधः कथं क्रियत इति चेन्न । तस्याव-धारणाक्षेपे प्रयोगदर्शनात् । तदुक्तम्– ‘प्रायः पदं स्यात् प्राचुर्ये चाक्षेपात्मावधारणे । अर्थतोऽवधृतिः क्षेपो मुखाक्षेपोऽवधारणम् ॥’ इति । एकश्चेतनो जीव एव राज्यादेः कारणमधिकृतत्वादिति चेन्न । विपक्षाविरोधाद् अनाम्नायत्वाच्च । ‘एकात्मा हरिरुद्दिष्टः प्रधानत्वात् समस्ततः’ इति एतत्समाख्यान-स्मृतिविरोधाच्च । केषांचिदित्यनेन केषांचिन्नास्तीत्युक्तम् । नास्तिकानाह– दौहित्रादीनिति ॥ मृत्योर्दौहित्रो दुहितुः पुत्रो वेनः ॥ २९ ॥

प्रकाशिका

ननु देवादीनामुक्तफलं प्रधानकर्मादिनैव भविष्यतीत्यपेक्षायामाह ॥ राज्येति । अत्रैकात्मेत्यस्य प्रकृतसङ्गतमर्थं प्रमाणेनैव दर्शयति ॥ एकात्मेति । सर्वजगत्प्रधानत्वादेकात्मशब्देन हरिरुच्यत इत्यर्थः । प्राय इत्यस्यापि प्राचुर्यार्थत्वे कदाचिद्धेतुत्वाभावोऽस्तीति प्रतीयतेऽतोऽत्र योग्यमर्थं दर्शयति ॥ प्राय इति । प्राय इति पदं बाहुल्यार्थाक्षेपावधारणयोर्मध्ये यदाक्षेपरूपमवधारणं तद्वाचकमित्यर्थः । अत्र प्रमाणं पठति ॥ प्रायः पदमिति । आक्षेपात्मेति विशेषेणव्यावर्त्यमवधारणान्तरं दर्शयन्नाक्षेपरूपावधारणस्वरूपमाह ॥ अर्थत इति । अर्थाद्यत्रावधृतिरवधारणमन्ययोगव्यवच्छेदो बोध्यते तदवधारणमाक्षेप इत्युच्यत इत्यर्थः । यथाऽस्मिन् ग्रामेऽयं पण्डित इति वचनेनार्थादन्यो न पण्डित इति ज्ञायते । मुखेत्यविभक्तिको निर्देशः । तथा च मुखादवधारणवाचकात् । एवशब्दाद्यदवधारणमुक्तरूपं साक्षात्प्रतीयते तदवधारणमाक्षेपरूपमित्यर्थः । इदं च पार्थ एव धनुर्धर इत्यादौ प्रसिद्धम् । तथा च प्रायःपदं साक्षादेवकारवाच्येऽन्ययोगव्यवच्छेदरूपा आक्षेपात्मकावधारणे वर्तते । तद्व्यावृत्त्यर्थ-मवधारणाक्षेप इत्युक्तं भवति । ततश्च राज्यादीनां प्रायेणान्याधीनत्वमन्तरेणैकात्मनः समस्तात्प्रधानस्य हरेर्हेतुता कारणत्वमस्ति । प्रधानकालकर्मादीनामस्वतन्त्राणां न तथा हेतुतेत्याशयः ॥ पूर्वं केषाञ्चि-दित्युक्त्याऽन्येषां नास्तीति सूचितम् । तानन्यान्दर्शयति ॥ दौहित्रादीनिति । मृत्योर्दौहित्रो वेनः । आदिशब्देन मणिमदादयो ग्राह्याः । तानृते केषाञ्चित्ज्ञानिनां मते हरिरस्तीत्यन्वयः ॥ २९ ॥

यत्पादसेवाभिरुचिस्तपस्विनामशेषजन्मोपचितं मलं धियः ।

सद्यः क्षिणोत्यन्वहमेधती सती यथा पदाङ्गुष्ठविनिःसृता सरित् ॥ ३० ॥

पदरत्नावली

यज्ञपतिस्तु राज्यादेर्हेतुर्येन विधिना फलसिद्धिः स्यात् तं प्रकारमुपदिशेत्यत आह– यत्पादेति । अत्र गङ्गादृष्टान्तो बुद्ध्यवतारार्थम् । न तु गङ्गाकृष्णपादसेवयोः फलसाम्याभि-प्रायेण । कृष्णपादसेवा साक्षाज्ज्ञानसाध्यप्रसादसाधनम् । गङ्गासेवा तु शुद्धान्तःकरणस्य भगव-त्सेवामुत्पाद्य तत्साधनमिति परम्परयोपसङ्गच्छते ॥ ३० ॥

प्रकाशिका

एवं सर्वजगदुत्तमं हरिं प्रसाध्येदानीं तद्भजनं विधातुमादौ श्लोकद्वयेन क्रमेण जायमानं भजनफलं तावदाह ॥ यत्पादेति ॥ ३० ॥

विनिर्धुताशेषमनोमलः पुमानसङ्गविज्ञानविशेषवीर्यवान् ।

यदङ्घ्रिमूले कृतकेतनः पुनर्न संसृतिं क्लेशवहां प्रपद्यते ॥ ३१ ॥

पदरत्नावली

नष्टमनोमलस्य किमात्यन्तिकफलम् ? अत्राह– विनिर्धुतेति ॥ निरस्तमनो-दोषस्य पुंसो विषयासङ्गलक्षणवैराग्याज्जाताया भक्तेर्विज्ञानं भवति । तदेव विशेषवीर्यमस्यास्तीति असङ्गविज्ञानविशेषवीर्यवान् । यस्याङ्घ्रिमूले कृताश्रयो विज्ञानात् पूर्वं यथा संसारफलमाप्नोति तथा नाप्नोतीत्यस्मिन्नर्थे पुनरिति । संसारक्लेशप्रतिपत्तिमपि नाप्नोति किं पुनस्तत्प्राप्तिरित्यतः प्रपद्यत इति

॥ ३१ ॥

प्रकाशिका

असङ्गो वैराग्यं विज्ञानविशेषोऽपरोक्षज्ञानं तल्लक्षणवीर्यवान् । यस्याङ्घ्रिमूले वैकुण्ठे कृतकेतनः कृताश्रयःसन् ॥ ३१ ॥

तमेव यूयं भजतात्मवृत्तिभिर्मनोवचःकायगुणैः स्वकर्मभिः ।

अमायिनः कामदुघाङ्घ्रिपङ्कजं यथाधिकारावसितार्थसिद्धये ॥ ३२ ॥

पदरत्नावली

एतत्सेवाफलमुक्त्वा तदुपस्तिं विधत्ते– तमेवेति ॥ फलस्यानुभवसिद्धत्वादन्य-योगव्यवच्छेदार्थम् एवशब्दः । भजतैवेत्ययोगव्यवच्छेदो वा । आत्मनि हरावेव वृत्तिर्वर्तनं येषां ते तथा तैः । अयमेव मनआदीनां गुणः यद् विष्णुविषयत्वेन चरणम् । स्वकर्मभिः स्वस्य विहिताश्रमादि-कर्मभिः । उक्तमेतत्सर्वमप्रयोजकं व्याजिन इत्यत उक्तम्– अमायिन इति ॥ फलपूर्वविधाने क्षिप्रप्रवृत्तिर्भवतीति भावेनोक्तम्– कामदुघेति ॥ इदमेव दर्शनन्नित्थम्भावमाह– यथेति ॥ ‘अथात आनन्दस्य मीमांसा भवति’ इत्यादिश्रुतौ मनुष्योत्तममारभ्य ब्रह्मपर्यन्तं योऽयमधिकारो योग्यतालक्षण-स्तस्मिन्नवसिता निर्णीता अर्थसिद्धिरानन्दप्राप्तिर्या तदर्थमित्यर्थः । अर्थः मोक्षः । ‘अर्थः स्याद् विषये मोक्षे शब्दवाच्ये प्रयोजने’ इति यादवः ॥ ३२ ॥

प्रकाशिका

एवं रुच्युत्पादनाय फलमुक्त्वेदानीं तद्भजनं विधत्ते ॥ तमेवेति । एतादृश-फलप्रदमेव । आत्मवृत्तिभिः परमात्मनिष्ठैः । तद्विषयकैरिति यावत् । मनोवचःकायगुणैर्ध्यानस्तुति-परिचर्यारूपैः । कार्यैः स्वविहितकर्मभिश्च । अमायिनो निष्कपटाः सन्तः । उक्तमेव फलं विशदयति ॥ यथेति । अधिकारो योग्यता । यथाधिकारं योग्यतामनतिक्रम्यावसिता निश्चिताऽर्थसिद्धिरानन्दप्राप्तिस्तस्यै

॥ ३२ ॥

असाविहानेकगुणाध्वरैः सता पृथग्विधैर्द्रव्यगुणक्रियोक्तिभिः ।

सम्पद्यतेऽर्थाशयलिङ्गनामभिर्विशुद्धविज्ञानघनस्वरूपतः ॥ ३३ ॥

तात्पर्यम्

सम्पद्यते प्राप्यते ॥ ३३ ॥

पदरत्नावली

स्वकर्मभिरित्युक्तकर्मकरणप्रकारमाह– असाविति ॥ ‘आत्मा वा इदमेक एवाऽग्र आसीत्’ इत्यादिश्रुतिसिद्धो योऽसौ श्रीनारायण इह जीवराशौ सता पुंसाऽनुष्ठितैरनेकगुणाध्वरैः सम्पद्यते प्राप्यत इत्यन्वयः । ते च अधिकारभेदाद् बहव इत्याशयेनाह– पृथगिति ॥ षोडशादि-भेदभिन्नैः । अनेकगुणत्वं व्यनक्ति– द्रव्येति ॥ द्रव्यं पुरोडाशादिकल्पोक्तगुणविशिष्टम् । ‘द्रव्यं गुणानामाधारः’ इति यादवः । गुणो विशिष्टमातापितृजन्यत्वादि क्रिया, ऋत्विग्व्यापारः, इन्द्रायाग्नय इत्याद्युक्तयो येषु ते तथा तैः । अर्थेषु यजमानेषु आशयोऽन्तःकरणं येषां ते देवा अर्थाशयास्तेषां लिङ्गानि वज्रधरत्वादीनीन्द्रादिनामानि च येषु ते तथा तैः । यद्वा अर्थाश्रयत्वं मुक्ताश्रयत्वं चक्रधरादि-लिङ्गं नारायणादिनाम च येषु ते तथा तैः । कथं प्राप्यते ? विशुद्धविज्ञानघनस्वरूपतः, एवं ज्ञानेन प्राप्य इत्यर्थः । अनेन कर्मणा शुद्धान्तःकरणाज्जातं ज्ञानं संसारनिवर्तकमित्युक्त्या ‘कर्मणैव हि संसिद्धिमास्थिता जनकादयः’ इत्यादेर्गतिरुक्तेति ज्ञायते ॥ ३३ ॥

प्रकाशिका

स्वकर्मभिरित्युक्तकर्माणि दर्शयंस्तत्साध्यं फलं विवृणोति ॥ असाविति । इह कर्मभूमावसौ यः पूर्वोक्तः परमात्मा सतामधिकारिणामनेकगुणा येषां तैरध्वरैः संपाद्यत इत्यन्वयः । अनेकगुणानेवाह ॥ द्रव्येति । द्रव्यं पुरोडाशादि गुणो वसन्तकालादिः क्रिया ऋत्विग्व्यापारा उक्तयो मन्त्रास्ताभिः । अर्थाः स्वर्गादिरूपाणि प्रयोजनान्याशयः संकल्पो लिङ्गान्यश्वमेधादिचिह्नानि नामान्यश्वमेधादीनि तैश्च पृथग्विधैः परस्परविलक्षणैरित्यध्वराणां विशेषणम् । किं कृत्वा । विशुद्ध-विज्ञानघनं निर्मलविशेषज्ञाननिबिडं भगवत्स्वरूपं विज्ञाय । अत्र संपद्यत इत्यस्य ज्ञायत इति व्याख्यान-निरासायार्थमाह ॥ संपद्यत इति । मुक्तैः प्राप्यत इत्यर्थः । ततश्च नानाविधैर्यज्ञैः स्वान्तर्यामिणो हरेर्ज्ञानं संपाद्य भगवत्प्राप्तिरूपां मुक्तिं प्राप्नोतीत्याशयः ॥ ३३ ॥

प्रधानकालाशयकर्मसङ्ग्रहः शरीरशेषं प्रतिपद्य चेतनः ।

क्रियाफलत्वेन विभुर्विभाव्यते यथाऽनलो दारुषु तद्गुणात्मकः ॥ ३४ ॥

तात्पर्यम्

प्रधानादीन् गृहीत्वा जीवं प्राप्य पुण्यकर्मभिर्ज्ञायते । यथा गुणवदिन्धनेऽग्नि-र्मथनादिना ॥ ३४ ॥

पदरत्नावली

कर्मसाधनज्ञानेन ज्ञायत इत्युक्तं, तत्र विशिष्टतया ज्ञानं मुक्तिसाधनं स्यादिति तं प्रकारं ब्रूते– प्रधानेति ॥ प्रधानं प्रकृतिः, कालः फलपाचकः, आशयोऽन्तःकरणं, कर्म जीवादृष्ट-मेतानि संगृह्णातीति प्रधानकालाशयकर्मसंग्रहः । त्यक्तेषु सर्वेषु शरीरमेव शिष्यते यस्य स शरीरशेषो जीवस्तं प्रतिपद्य प्राप्य चेतनो ज्ञानशक्तिमान्, नित्याविलुप्तज्ञान इत्यर्थः । विभुः श्रीनारायणोऽयं क्रियाफलत्वेन कर्मफलदातृत्वेन पुण्यकर्मभिः पुरुषैर्विभाव्यते ज्ञायत इत्यन्वयः । ‘फलमत उपपत्तेः’ इति सूत्राद्धरेः कर्मफलदातृत्वं सिद्धम् । अत्र दृष्टान्तमाह– यथेति ॥ यथाऽनलोऽग्निस्तस्य दारुणो गुणं स्थौल्यादिकमादत्ते । दारुस्थौल्याद्यनुसारेण स्वयं च स्थौल्यादिमान् भवतीति तद्गुणात्मकः विध्युक्त-गुणवत्सु दारुषु अग्निर्मथनादिनाऽभिव्यक्तो ज्ञायते तथा प्रधानादिशब्दाभिधेयलक्ष्म्यादिभिः परिवृतो जीवान्तर्गतो जीवपरिमाणगुणानुकारी तदनुष्ठितकर्मफलदातृत्वेन गुरुशिष्यव्याख्यानश्रवणमथनेनाभि-व्यक्तो हरिर्ज्ञायत इति भावः । प्रधानादीनां हर्यधीनत्वं तद्भिन्नत्वं च दर्शयितुं तद्ग्रहणम् । देहस्थत्वेऽपि तद्गुणसंपृक्ता(क्तत्वा)भावदर्शनाय दार्वनलनिदर्शनम् । किं चानेन देहदोषदारणसामर्थ्यं जगद्भक्षणेऽप्य-लम्बुद्धिराहित्यं सूचयितुं दार्वनलपदमुपात्तमिति ज्ञापयति ॥ ३४ ॥

प्रकाशिका

पूर्वं ज्योत्स्नावत्त्वादिरूपकर्मफलवैचित्र्यान्यथाऽनुपपत्त्या तद्धेतुत्वेन हरिरेव ज्ञायते न प्रधानादीत्युक्तं तदेव विशदयति ॥ प्रधानेति । अप्रतिपत्तिविप्रतिपत्तिनिरासायैतच्छ्लोकतात्पर्यं दर्शयति ॥ प्रधानादीनिति । गृहीत्वेत्यनेन संगृह्णातीति सङ्ग्रह इति व्युत्पत्तिं सूचयति । शरीरशेष-मित्यस्यार्थः जीवमिति । प्रतिपद्येत्यस्यार्थः प्राप्येति । क्रियाफलत्वेनेत्यस्यार्थः पुण्यकर्मभिरिति । उपलक्षणमेतत् । पुण्यापुण्यकर्मफलैरित्यर्थः । विभाव्यत इत्यस्यार्थः ज्ञायत इति । विचारेण दातृतयेति शेषः । तद्गुणात्मक इति वचनानुसारेण दारुष्वित्यस्य गुणवदिन्धन इति व्याख्यानं कृतम् । दार्ष्टान्तिके हरिव्यञ्जको विचार उक्तः । तत्स्थानीयं दृष्टान्तेऽग्निव्यञ्जकं किमित्यपेक्षायामध्याहार्यं दर्शयति ॥ मथनादिनेति । आदिपदेन सूर्यकान्तादिमणिसम्बन्धसङ्ग्रहः ॥ ततश्चायं श्लोकार्थः ॥ प्रधानं प्रकृतिः कालः फलपाचक आशयोऽन्तःकरणं कर्मादृष्टान्तानि सङ्गृह्णातीति सङ्ग्रहः । एतानि गृहीत्वेति यावत् । अनेन प्रधानादीनामस्वातन्त्र्यमुक्तमिति ज्ञातव्यम् । युक्तेषु सर्वेषु शरीरमेव शिष्यत इति शेषमङ्गं यस्य सः । शरीरशेषो जीवस्तं प्रतिपद्य प्राप्य । अनेन शरीरयुक्तं जीवं प्राप्य तत्तच्छरीरगुणभूतपरिमाणवान् भवतीत्यर्थ उक्तो भवति । चेतनः सर्वज्ञः । क्रियाफलत्वेन क्रियाणामदृष्टानां फलं यस्मात्स तथा तस्य भावस्तत्त्वं तेन रूपेण कर्मफलदातृत्वेन पुण्यकर्मभिः पुरुषैर्विभाव्यते विचारेण ज्ञायते । प्रधानादीनामिव नास्यास्वातन्त्र्यमिति प्रदर्शनाय विभुः समर्थ इत्युक्तम् । शरीरान्तर्गतस्य शरीरगुणपरिमाणवत्त्वे कर्मफलविचाररूपमथनेन ज्ञेयत्वे च दृष्टान्तमाह ॥ यथेति । यथा दारुष्वश्वत्थादिकाष्ठेषु विद्यमानोऽनलो मथनादिना तद्गुणात्मकः काष्ठगुणस्थौल्यादि-सदृशस्थौल्यादिमान्ज्ञायते तथैवेति ॥ ३४ ॥

अहो बतामी वितरन्त्यनुग्रहं हरिं गुरुं यज्ञभुजामधीश्वरम् ।

स्वधर्मयोगेन यजन्ति मामका निरन्तरं क्षोणितले धृतव्रताः ॥ ३५ ॥

पदरत्नावली

गुरुशिष्यव्याख्यानादिमथनेन हरिरभिव्यक्तो भवतीत्युक्तम् । तत्र गुरवः शिष्याश्च श्रीनारायणमुखोत्पन्नत्वाद् व्याख्यानादेर्मुख्यव्यापारत्वेनात एव मुख्यत्वेन सात्त्विकत्वेन गुरुत्वेन च स्वत एव व्याख्यानादौ प्रवृत्तिसम्भवाज्जलस्यन्दनवद् ब्राह्मणा एवेत्यभिप्रेत्याधुना तानभिष्टौति– अहो बतेति ॥ अमीत्यनेन हरेर्मुखजातत्वं परामृशति । बतेति चित्तं द्रवीकरोति । अहो इति सभ्यानुन्मुखीकरोति । इष्टदेवतात्वेन गुरुत्वेन स्वविहितकर्मफलदातृत्वेन श्रीनारायण एव पूज्य इत्यतो विशेषणत्रयम् । ‘एष मे सर्वधर्माणां धर्मोऽधिकतमो मतः । यद् भक्त्या पुण्डरीकाक्षं स्तवैरर्चेन्नरः सदा ॥’ इति वचनात् । स्वधर्मयोगो भक्तियोगस्तेन यजन्ति पूजयन्ति । भगवद्भक्तत्वेन स्वचेतःप्रीति-जनकत्वान्मामका इत्युक्तम् । कृष्याद्यन्यव्यापारराहित्यप्रकटनाय निरन्तरमिति । एतत्सूचनाय धृतव्रता इति । सत्रादिकर्मसु दीक्षितानामन्यव्यापाराभावस्तथाऽत्रापीति । कर्मणां फलाधिक्यद्योतनाय क्षोणितले पतनदुःखक्षयहेतुत्वात् प्रतिष्ठाहेतुत्वाच्च क्षोणितल इति । क्षिणु क्षये, तल प्रतिष्ठायामिति धातुः ॥३५॥

प्रकाशिका

तदेवं भगवद्भजनेऽप्रवृत्तान्प्रवृत्तियुक्तान्कृत्वा तत्र स्वत एव प्रवृत्तानां प्रवृत्तिमभि-नन्दनेन दृढयति ॥ अहो इति । वितरन्ति कुर्वन्ति । तेन मम षष्ठांशपुण्यलाभादिति भावः । इज्यत्वोप-पादनाय गुरुमित्यादिविशेषणद्वयम् । स्वधर्मयोगेन स्वधर्मलक्षणोपायेन मामका मत्प्रजाः ॥ ३५ ॥

मा जातु तेजः प्रभवेन्महर्द्धिभिस्तितिक्षया तपसा विद्यया च ।

देदीप्यमानेऽजितदेवतानां कुले स्वयं राजकुले द्विजन्मना१ ॥ ३६ ॥

पदरत्नावली

स्ववंश्यानां राज्ञां शिक्षामाह– मा जात्विति ॥ राजकुले विद्यमानाभिर्मह-र्द्धिभिः समुत्थितं तेजः प्रभावलक्षणम् । अजितः श्रीनारायणो देवता येषां ते तथा तेषाम् । तिति-क्षादिना देदीप्यमाने द्विजानां कुले जातु कदाचिदपि मा प्रभवेत् कुलक्षये समर्थं न भवेत् ॥ ३६ ॥

प्रकाशिका

एवं सामान्यतः प्रजाः शिक्षयित्वेदानीं राज्ञ एव शिक्षयति ॥ मा जात्विति । राजकुले विद्यमानाभिर्महर्द्धिभिः समुत्थितं यत्प्राप्तं तेजः सामर्थ्यं तदजितो भगवान्देवता येषां तेषां द्विजन्मनां कुले विषये जातु कदाचिदपि मा प्रभवेत्तदनिष्टकरणाय समर्थं न भवेदित्यर्थः । कथम्भूते । तितिक्षादिभिर्देदीप्यमाने । अनेन स्वानिष्टकर्तृनाशने तस्य सामर्थ्यमस्तीति ज्ञातव्यम् ॥ ३६ ॥

ब्रह्मण्यदेवः पुरुषः पुरातनो नित्यं हरिर्यच्चरणाभिवन्दनात् ।

अवाप लक्ष्मीमनपायिनीं यशो जगत्पवित्रं च महत्तमाग्रणीः ॥ ३७ ॥

तात्पर्यम्

हरिरिन्द्रो यच्चरणाभिवन्दनादनपायिनीं लक्ष्मीमाप । सोऽपि विष्णुर्ब्राह्मण-प्रियः । ‘यत्प्रसादेन देवेन्द्रो वेदोदितयशा अभूत् । सोऽपि विष्णुरमेयात्मा सदा ब्राह्मणवत्सलः’ इति हरिवंशेषु ॥ ३७ ॥

पदरत्नावली

न केवलं ब्रह्मकुलं नाभिभवनीयं किन्तु तत्र भक्तिरपि कर्तव्येत्यत्र कैमुत्यन्यायमाह– ब्रह्मण्यदेव इति ॥ ‘अर्कमर्कटमण्डूकविष्णुवासववायवः । तुरङ्गसिंहशीतांशुयमाश्च हरयो दश ॥’ इति निगदाद्धरिरिन्द्रो यस्य श्रीनारायणस्य चरणाभिवन्दनादनपायिनीं लक्ष्मीमवाप जगत्पवित्रं यशश्चावाप सोऽपि पुरातनः पुरुषो ब्रह्मण्यदेवो ब्राह्मणप्रियश्च देवः क्रीडादिगुण-युक्तश्चेत्यन्वयः । ब्राह्मणप्रियत्वं क्रीडामात्रमिति दर्शयितुं देव इति पदम् । अत एव महत्तमाग्रणी-रित्युक्तम् । महतामिन्द्रादीनां सकाशादुत्तमा ब्रह्मादयस्तेषामप्यग्रणीः श्रेष्ठस्तस्मात् क्रीडामात्रमिदम् । अत एवानुपपत्त्या हरिशब्देनेन्द्र एव गृहीतः । ‘यत्प्रसादेन देवेन्द्रो वेदोदितयशा अभूत् । सोऽपि विष्णुरमेयात्मा सदा ब्राह्मणवत्सलः ॥’ इति स्मृतेश्च प्रतीतार्थपरित्यागो युक्तः । अजितदेवताना-मित्युक्तिविरोधाच्च ॥ ३७ ॥

प्रकाशिका

न केवलं ब्रह्मकुलानिष्टं न कार्यमिति । किन्तु तत्र भक्तिरपि कार्येति कैमुत्येनाह ॥ ब्रह्मण्यदेव इति । अत्र हरिर्नारायणो येषां ब्राह्मणानां चरणाभिवन्दनादनपायिनीं लक्ष्मीं यशश्चावापेत्य-न्यथाप्रतीतिवारणायाबाधितां योजनां दर्शयति ॥ हरिरिन्द्र इति । ‘‘अर्कमर्कटमण्डूकविष्णुवासव-वायवः । तुरङ्गसिंहशीतांशुयमाश्च हरयो दश’’ ॥ इति वचनादिति भावः । अनपायिनीं बहुकाल-स्थायिनीं लक्ष्मीं संपदम् । यच्छब्दस्य तच्छब्दसापेक्षत्वात्स इत्युक्तम् । पुरातनः पुरुष इत्यस्य व्याख्यानं विष्णुरिति । ब्रह्मण्येत्यस्यार्थः ब्राह्मणप्रिय इति । उक्तैव योजनेत्यत्र नियामकं समाख्याप्रमाणं पठति ॥ यत्प्रसादेनेति । अनेन यच्चरणाभिवन्दनादित्येतदुक्तार्थम् । हरिरित्यस्यार्थकथनं देवेन्द्र इति । जगत्पवित्रमित्यस्यार्थः वेदोदितेति । सोऽपीत्यनेन मूलेऽपिशब्दोऽध्याहार्य इति सूचयति । महत्तमाग्रणीरित्यस्य तात्पर्यम् अमेयात्मेति । नित्यं ब्रह्मण्यदेव इत्यस्य व्याख्यानं सदा ब्राह्मणेति ॥ ततश्चायमर्थः ॥ हरिरिन्द्रो नित्यं यस्य चरणाभिवन्दनादनपायिनीं बहुकालस्थायिनीं लक्ष्मीं संपदं जगत्पवित्रकरं यशश्चावाप । स महत्तमाग्रणीर्महतामिन्द्रादीनां सकाशादुत्तमा ब्रह्मादयस्तेषामग्रणीः श्रेष्ठः पुरातनः पुरुषो विष्णुरपि नित्यं ब्रह्मण्यदेवो ब्राह्मणवत्सलः क्रीडादिगुणयुक्तश्च । ब्राह्मणवत्सलत्वं क्रीडामात्रमिति द्योतयितुं देव इत्युक्तम् । अनेनेतरै राजादिभिर्ब्राह्मणवत्सलैर्भाव्यमिति किं वाच्यमिति वाक्यशेषः ॥ ३७ ॥

यत्सेवयाऽशेषगुणाश्रयः स्वराट् विप्रप्रियस्तुष्यति काममीश्वरः ।

तदेव तद्धर्मपरैर्विनीतैः सर्वात्मना ब्रह्मकुलं निषेव्यताम् ॥ ३८ ॥

पदरत्नावली

अस्तु विष्णुर्द्विजप्रियस् ततः प्रकृते किमित्याशङ्क्य विष्णुभक्तिमवमृश्य ब्राह्मणसेवा कार्येत्याह– यत्सेवयेति ॥ अपवर्गावाप्तौ श्रीलक्ष्मीकान्तप्रसाद एवापेक्षणीयोऽतः क्षितिदेव-प्रीत्या किमित्यतो वा– यत्सेवयेति ॥ भगवत्प्रसादोत्पत्तौ विप्रसेवा द्वारमित्यर्थः । स्वराट् स्वतन्त्रः । यतो विष्णुप्रसादो भवति तस्माद् ब्राह्मणकुलं निषेव्यतामित्युपसंहरति– तदेवेति ॥ तद्धर्मपरैर्विष्णुधर्मपरैः

॥ ३८ ॥

प्रकाशिका

क्षत्रियाणां ब्राह्मणकुलसेवया विष्णुप्रीतिजनकत्वात्तदवश्यं तैः सेव्यमित्याह ॥ यत्सेवयेति । स्वराट् स्वतन्त्र ईश्वरः ब्रह्मकुलस्य सेवया कामं यथा स्यात्तथा तुष्यति । कुत इत्यत उक्तम् ॥ यद् यतः विप्रप्रिय इति । तदेव ब्राह्मणकुलमेव तद्धर्मपरैर्विष्णुप्रीतिकरधर्मानुष्ठानपरैः । सर्वात्मना सर्वप्रकारेण ॥ ३८ ॥

पुमाल्लभेताप्यतिवेलमात्मनः प्रसादतोऽत्यन्तशमं स्वतः स्वयम् ।

यन्नित्यसम्बन्धनिषेवया ततः परं किमत्रास्ति सुखं हविर्भुजाम् ॥ ३९ ॥

तात्पर्यम्

तस्मान्मोक्षसुखात्परं हविर्भुजां देवानामप्यत्र संसारेऽस्ति किम् ? ॥ ३९ ॥

पदरत्नावली

ब्राह्मणसेवाप्रसन्नश्रीनारायणप्रसादान्मौक्तिकपरमानन्दोऽपि भवतीत्याह– पुमानिति ॥ यस्य हरेर्नित्यसंबन्धो येषां ते यन्नित्यसंबन्धा द्विजास्तेषां निषेवया सेवालक्षणसङ्गतः पुमानतिवेलं क्षिप्रं तस्यात्मनो हरेः प्रसादतोऽत्यन्तशमं भगवन्निष्ठाजन्यमुक्तिसुखं लभेत ततस्तस्मा-न्मोक्षसुखात् परमन्यत् सुखं हविर्भुजामप्यत्र संसारेऽस्ति किम् ? नास्त्येव । हविर्भुजो देवताः । किंविशिष्टम् ? स्वयं स्वरूपभूतम् । अस्वरूपमपि स्वरूपवन्नोपचरितमित्याह– स्वत इति ॥ महत्सेवां द्वारमाहुर्विमुक्तेः’’ इति महत्सेवाया अपि मुक्तिसाधनत्वं सिद्धम् । यद्वा यन्नित्यसंबन्धानां सतां निषेवया पुमानात्मनो मनसः प्रसादतोऽत्यन्तशममतिशयितभगवन्निष्ठां लभेत ततः श्रीनारायणनिष्ठायाः स्वतोऽकृत्रिमं स्वयं स्वरूपसुखं लभेत । तत इत्युत्तरत्रापि संबध्यते । शेषं पूर्ववत् ॥ ३९ ॥

प्रकाशिका

ननु विष्णुप्रीत्याऽपि किं प्रयोजनमित्यपेक्षायां स्वस्वरूपसुखानुभवरूपमोक्षलाभ इत्याशयेनाह ॥ पुमानिति । अतिवेलं शीघ्रमात्मनः परमात्मनः प्रसादादत्यन्तशमं केवलसुखानुभव-रूपमोक्षं लभेत । अपिशब्दस्योत्तरार्धेनान्वयः । देहेन्द्रियाद्यभावत्कथं तत्र सुखानुभव इत्यत उक्तम् ॥ स्वयं स्वरूपभूतमिति । अस्वरूपमपि स्वरूपत्वेनोपचर्यत इति नेत्याह ॥ स्वत इति । वस्तुत इत्यर्थः। यस्य ब्रह्मकुलस्य नित्यसम्बन्धेन निषेवया लभेत । तद्ब्रह्मकुलं निषेव्यतामिति पूर्वेणान्वयः । ननु मोक्षसुखलाभेनापि किमित्यपेक्षायां न तस्मादन्यः पुरुषार्थोऽस्तीत्याह ॥ तत इति । अत्र तत इत्यस्य परामर्शं दर्शयन्किमत्र हविर्भुजामिति पदं प्रकृतसङ्गततया व्याख्याति ॥ तस्मादिति । तत इत्यस्यार्थस् तस्मादिति । मोक्षसुखादत्यन्तशममित्यत्र प्रकृतात्परमुत्तमं देवानामपीत्यनेनापिशब्दस्यात्र सम्बन्ध इत्युक्तं भवति । अस्ति किं नास्त्येवेत्यर्थः । अतोऽत्राल्पाधिकारिणां मोक्षसुखमेव परमप्रयोजनं न तेन संपाद्यमन्यदस्तीति भावः ॥ ३९ ॥

अश्नात्यनन्तः खलु तत्त्वकोविदैः श्रद्धाहुतं यन्मुख इज्यनामभिः१ ।

न वै तथा चेतनया बहिष्कृते हुताशने पारमहंस्यवर्यगुः ॥ ४० ॥

तात्पर्यम्

पारमहंस्यवर्या गावो यस्य ॥ ४० ॥

पदरत्नावली

इतोऽपि ब्रह्मकुलसेवा कर्तव्येत्याह– अश्नातीति ॥ भगवत्तत्वकोविदैः पुरुषैरीड्यस्य हरेर्नामभिर्यन्मुखे श्रद्धया हुतमनन्तो यथाऽश्नाति तथा चेतनया बहिष्कृते जडे हुताशने हुतं नाश्नातीत्यन्वयः । अनन्त इत्यनेन न कवलमात्रं फलं, किन्त्वनन्तमेवेति ध्वनयति । अनुनयार्थः खलुशब्दः । वा इत्यनेन नाहं तथाऽद्मीति प्रसिद्धिं स्मारयति । ब्राह्मणेष्वपि यतिमुखाशनेन हरेर्विशेष-तस्तृप्तिरित्यभिपे्रत्याह– पारमहंस्येति ॥ पारमहंस्यैः परमहंसाश्रमस्थैर्वर्या वरणीया गावो यस्य स पारमहंस्यवर्यगुः । त एव तद्वचनाभिप्रायं विदित्वा श्रद्धयाऽनुष्ठातार इत्यर्थः । यद्वा परमहंसविषया वर्या मनोहरा गावो यस्य स तथा । यतीनधिकं स्तौतीति । तेषामेव तत्त्वज्ञानाधिक्यादित्यर्थः । चित्रगु-शब्दवदयं शब्दः ॥ ४० ॥

प्रकाशिका

इतो ब्रह्मकुलसेवा हरिप्रीतिजनिकेत्याशयेनाह ॥ अश्नातीति । अनन्तपदमशनेन प्रीतोऽनन्तफलप्रद इति सूचनाय । तत्त्वकोविदैः पुरुषैर्ब्राह्मणेषु विशेषेण हरिः संनिहित इति तत्वं जानद्भिः पुरुषैर्यस्य ब्रह्मकुलस्य मुखे श्रद्धया हुतं दत्तमन्नादिकं यथाऽनन्तोऽश्नाति तदशनेन प्रीतोऽनन्तफलदो भवति । तथा हुताशने वह्नाविज्यानां देवानां नामभिरिन्द्राय स्वाहेत्यादिमन्त्रैः श्रद्धया हुतं हविरादिकं नाश्नाति । तस्य नीचत्वोपपादनाय चेतनया बहिष्कृतेऽचेतन इत्युक्तम् । तद्ब्रह्मकुलमिति पूर्वेणान्वयः । ब्राह्मणानामुत्तमाधिष्ठानत्वमुपपादयितुं पारमहंस्यवर्यगुरित्यनन्तविशेषणमुक्तम् । तदप्रतीत्या व्याख्याति ॥ पारमहंस्येति । तथा च पारमहंस्येत्यत्र स्वार्थे ष्यञ् प्रत्ययः । परमहंसैर्वर्या वरणीया विचार्या गावो वेदादिरूपा वाचः प्रतिपादिका यस्य स तथेति मूलार्थ उक्त इति ज्ञातव्यम् । हरिप्रतिपादकवेदादिविचारशीलत्वाद्ब्राह्मणरूपमधिष्ठानमुत्तममित्याशयः । ब्राह्मणेति वक्तव्ये पारमहंस्येति वचनं ब्राह्मणेष्वपि परमहंसानामुत्तमत्वज्ञापनाय ॥ ४० ॥

यद् ब्रह्म नित्यं विरजं सनातनं श्रद्धातपोमङ्गलमौनसंयमैः ।

समाधिना बिभ्रदिहार्थसिद्धये यत्रेदमादर्श इवावभासते ॥ ४१ ॥

पदरत्नावली

नन्वग्नित आधिक्ये चेतनावत्वं प्रयोजकं चेदवैदिकानामाराधनपात्रत्वं स्यादित्याशङ्क्य ब्रह्मकुलस्य वैशिष्ट्यमाह– यद् ब्रह्मेति ॥ अत्र यावद् ब्रह्म विष्ठितं तावती वागिति श्रुतिर् वेदस्य परब्रह्मणश्च लक्षणसाम्याद् द्वयमप्येकोक्त्या वक्ति । यद् ब्राह्मणकुलं नित्यत्वादिगुणविशिष्टं ब्रह्म वेदं हरेस्तत्त्वं च बिभ्रद् बिभर्ति । तद्धारणे सामर्थ्यं वक्ति– श्रद्धेति ॥ आचारहीनं न पुनन्ति वेदा इति वचनम् । मङ्गलं पुण्यम् । संयमो दमः । समाधिरेकाग्रता । किमर्थमित्यत उक्तम्– अर्थसिद्धय इति ॥ पुरुषार्थोपयोगीतरज्ञानप्रयासोऽपि न कार्य इत्याह– यत्रेति ॥ यत्र ब्रह्मणि श्रीनारायणे इदं जगदादर्शे दर्पण इवावभासते । वेदे चेदं पुरुषार्थचतुष्टयं ज्ञायते । यद्वा यत्र ब्रह्मकुले इदमुक्तं ब्रह्मद्वयं दर्पण इवावभाति ॥ ४१ ॥

प्रकाशिका

न केवलं परमहंसा एवोत्तमाः किन्तु हरिध्यानपरास्तदपरोक्षज्ञानवन्तश्च सर्वेऽ-पीत्याह ॥ यद्ब्रह्मेति । यद्ब्रह्मकुलम् । ब्रह्म गुणपूर्णं नित्यं बिभ्रद्बिभर्ति । तद्ब्रह्मकुलमिति पूर्वेणान्वयः । कथम्भूतं ब्रह्म । विरजं पारतन्त्र्यादिदोषदूरं सनातनं सर्वदैकप्रकारम् । पशुरपि बिभर्तीत्यत उक्तम् ॥ समाधिनेति । अप्रयत्नध्यानेनेत्यर्थः । तत्र कारणमाह ॥ श्रद्धातप इत्यादि । मङ्गलं विहिताचरणं निषिद्धवर्जनं च । प्रशस्ताचरणं नित्यमप्रशस्तस्य वर्जनम् । एतद्धि मङ्गलं प्रोक्तमृषिभिस्तत्त्वदर्शिभिरिति वचनात् । मौनं व्यर्थवचनक्रियासंत्यागः । संयम इन्द्रियनियमनम् । एतैर्जातेन समाधिना । अर्थस्य मोक्षस्य सिद्धये प्राप्त्यै । यत्र समाधौ सतीदं ब्रह्म आदर्शे दर्पणे इव चित्तेऽवभासतेऽपरोक्षतया ज्ञायत इत्यर्थः । तेन समाधिना विभ्रदित्यन्वयः ॥ ४१ ॥

तेषामहं पादसरोजरेणुमार्या वहेयाधिकिरीट आयुः ।

यं नित्यदा बिभ्रत आशुपापं नश्यत्यमुं सर्वगुणा भजन्ति ॥ ४२ ॥

पदरत्नावली

एवं ब्रह्मकुलमभिष्टूयात्मक्रियोपदेशतस्तत्सेवा यावदायुः कर्तव्येति विधत्ते– तेषामिति ॥ हे आर्यास् तत्त्वज्ञानोत्पत्तौ प्रथमसाधनं पापप्रणाशः । सोऽप्यनेन स्यादित्याशयेनाह– यं नित्यदेति ॥ उत्तरफलमाह– अमुमिति ॥ अमुं पुरुषम् ॥ ४२ ॥

प्रकाशिका

एवं ब्रह्मकुलं प्रशस्य तन्निषेवणं राजादिभिः कार्यमित्युक्त्वेदानीं राज्ञो मम तत्पादसेवा यावज्जीवं स्यादित्याशयेनाह ॥ तेषामिति । तेषां ब्राह्मणानाम् । हे आर्याः । आयुर्याव-ज्जीवम् । अधिकिरीटं मुकुटस्योपरि । वहेयेति प्रार्थनायां लिङ् । यं रेणुम् । अमुं यावज्जीवं ब्राह्मणसेवकं भजन्ति प्राप्नुवन्ति ॥ ४२ ॥

गुणालयं शीलधनं कृतज्ञं श्रद्धाश्रयं संवृणते१ नु संपदः ।

प्रसीदतां ब्रह्मकुलं गवां च जनार्दनः सानुचरश्च मह्यम् ॥ ४३ ॥

पदरत्नावली

एतदेव विशिनष्टि– गुणालयमिति ॥ संपदो गुणालयत्वादिविशिष्टं पुरुषमनु-संवृणत इत्यन्वयः । संवृणुत इति पाठे संवृण्वत इति व्याख्येयम् । यं नित्यसम्बन्धनिषेवयेत्यादौ स्तुतो जनार्दनः पारमहंस्यवर्यगुरित्यनेन ध्वनिता गावश्च ब्रह्मकुलं च प्रसीदत्वित्युपसंहरति– प्रसीदतामिति ॥ ब्रह्मकुलसेवावद् गोकुलसेवा ब्रह्मादिपरिवृतश्रीजनार्दनसेवा च यथाशास्त्रविहितं मुमुक्षुणा कर्तव्येत्यतो (इति वाऽऽह इति स्यात् ।) वाह– प्रसीदतामिति ॥ ४३ ॥

प्रकाशिका

तेनापि किमित्यत आह ॥ गुणालयमिति । गुणालयत्वादिविशिष्टं संपदः संवृणत इत्यन्वयः । संवृणुत इति पाठे संवृण्वत इति व्याख्येयम् । उक्तमुपसंहरति ॥ प्रसीदतामिति । तस्मादिति शेषः । गवां च कुलमित्यनेन गोकुलमपि निषेव्यतामिति पूर्वेण ग्राह्यमिति सूचयति । अथवा । गवां वेदादिवाचां कुलमित्यर्थः । पारमहंस्यवर्यगुरिति तासां प्रकृतत्वात् । महत्तमाग्रणीरिति सानुचरो जनार्दनश्च प्रकृत इत्यवधेयम् ॥ ४३ ॥

मैत्रय उवाच–

इति ब्रुवाणं नृपतिं पितृदेवद्विजातयः ।

तुष्टुवुर्हृष्टमनसः साधुवादेन साधवः ॥ ४४ ॥

पदरत्नावली

इदानीं मैत्रेयः पृथूक्तावविप्रतिपत्तिः सर्वस्याभूदिति वक्ति– इतीति ॥ साधुवादेन निर्दोषवाक्येन ॥ ४४ ॥

प्रकाशिका

साधुवादेन निर्दोषवाक्येन ॥ ४४ ॥

पुत्रेण जयते लोक इति सत्यवती श्रुतिः ।

ब्रह्मदण्डहतः पापो यद् वेनोऽत्यतरत् तमः ॥ ४५ ॥

तात्पर्यम्

‘वेनस्थो राजसो जीवः पृथुना स्वर्गतिं गतः । स्वयं तु तम एवाप सात्विकः पृथुतामगात्’ ॥ इति ब्रह्माण्डे ॥ ४५ ॥

पदरत्नावली

सूचितं स्पष्टयति– पुत्रेणेति ॥ ‘सोऽयं मनुष्यलोकः पुत्रेण जय्यः’ इत्यादिकं श्रौतमपि दृष्टचरमित्याहुरित्याह– ब्रह्मदण्डेति ॥ ‘शश्वत् पुत्रेण पितरोऽत्यायन् बहुलं तमः’ इति श्रुतिरत्र प्रमाणम् । पापस्य वेनस्य तमस्तरणं सत्यं चेत् सर्वेऽपि मुक्तिप्राप्तियोग्या इत्यायातं न तु नारकी कोऽपीति चेन्न । वेनशब्दस्य तामसराजससात्विकभेदेनाभिधेयत्रित्वस्य प्रामाणिकत्वात् । ‘वेनस्थो राजसो जीवः पृथुना स्वर्गतिं गतः । स्वयं तु तम एवाप सात्विकः पृथुतामगात् ॥’ इति स्मृतेः । तथा च वाक्ययोजना– ब्रह्मदण्डहतो विप्रशापहतः पापो दैत्यो नाम्ना वेनस्तमो ऽतरदिति यत् तत् प्रशंसामात्रं न तु सत्यम् । सत्यं तु सर्वस्मादत्यधिकं दुःखोदर्कं तम अत्यतरदगच्छत् । तृ प्लवनतरणयोरिति धातोः । प्लु गताविति च । ‘अतिः स्यादधिकार्थोक्तौ प्रशंसायामतिक्रमे’ इत्यभि-धानात् । यत्तामसो (यस्तामसः) वेनः सर्वदुःखकरो दैत्यः सोऽत्यतरत् सुखभोगलोकमतिक्रम्यागच्छत्, अन्धंतम इति शेषः । ब्राह्मणानां विप्राणां दण्डो राजयोग्यशिक्षा तया हतो गतः ‘दण्डोऽस्त्री शासने राज्ञाम्’ इति यादवः । हन हिंसागत्योरिति धातोः । रजोगुणपानं पातीति वा पापो राजसो वेनस्तमोऽत्यतरत् तमोऽतिक्रम्य स्वर्गतिं गतः । पृथुगुणेनेति शेषः । यदतरत् तर्तुमशक्यं, तमोगुण इति शेषः । तदतिक्रम्य वर्तमानं सत्त्वं वेत्तीति ज्ञानांशो वेनो ऽति अधिकार्थं भक्त्यादिगुणविस्ताराभिधेयं पृथुत्वमतरदाप्नोदिति । पापान् पाति रक्षतीति पिबति संहरतीति वा पापः ब्रह्म वेदः । तदुक्तो दण्डो हिंसा यस्य पशोः स ब्रह्मदण्डः । तं पशुं हन्तीति नान्यमविहितमिति ब्रह्मदण्डहतः । दण्डो हिंसायां लगुडे गुड इति च ॥ ४५ ॥

प्रकाशिका

साधुवादमेवाह ॥ पुत्रेणेति षड्भिः । जयते प्राप्नोति । यस्मात्पापो वेनो ब्रह्मदण्ड-हतो ब्राह्मणशापेन दग्धोऽपि तमो नित्यमनित्यं च नरकमत्यतरदतिक्रम्यागच्छत् । स्वर्गमिति शेषः । तस्मात् श्रुतिः । शश्वत्पुत्रेण पितरोऽत्यायन् बहुलं तम इति श्रुतिः । सत्यवती सत्यार्थवतीति सम्बन्धः । अत्र ‘‘भगवन्निन्दया वेनो द्विजैस्तमसि पातितः’’ इति वचनात्कथं वेनस्य स्वर्गप्राप्तिरुच्यत इत्याशङ्कां ‘‘त्र्यंशो वेनः समुद्दिष्टः’’ इति प्रमाणोदाहरणेन पूर्वं परिहृतामपि पुनः प्रमाणान्तरेण परिहरति ॥ वेनस्थ इति । वेनस्थो वेनदेहे प्रविष्टः राजसः पृथुना स्वर्गतिं गतः । स्वयमतितामसस्तम एव नित्यनरकमेव । सात्त्विको जीवो वेनस्थ इति वर्तते । तुशब्दश्चशब्दार्थः । तेन तामसो वेनस्थो जीवो निषादतामगादिति लभ्यते । अतो न कोऽपि विरोध इति भावः ॥ ४५ ॥

हिरण्यकशिपुश्चापि भगवन्निन्दया तमः ।

विविक्षुरत्यगात् सूनोः प्रह्लादस्यानुभावतः ॥ ४६ ॥

पदरत्नावली

हिरण्यकशिपुरपि सनकादिशप्तो जयः श्रीहरिपार्षदस्तस्य तमोऽतिगमनं युक्तम् अन्यस्य तदाविष्टस्यासुरस्य तमोऽतिगमनमौपचारिकमर्थवादवत् ॥ ४६ ॥

प्रकाशिका

श्रुतेः सत्यार्थत्वे ज्ञापकान्तरमप्याह ॥ हिरण्यकशिपुरिति । यस्मादिति वर्तते । तमोविविक्षुरपि प्रवेशसम्भावनाविषयोऽपि तमोऽतिक्रम्यागात् । ऊर्ध्वलोकमिति शेषः । तस्मादपि श्रुतिः सत्यवतीत्यन्वयः ॥ ४६ ॥

वीरवर्य पितः पृथ्व्याः समः सञ्जीव शाश्वतीः ।

यस्येदृश्यच्युते भक्तिः सर्वलोकैकभर्तरि ॥ ४७ ॥

पदरत्नावली

एवं तृप्ताः सर्वे स्वमनोगतं विज्ञापयन्ति– वीरवर्येति ॥ हे पृथ्व्याः पितः । पातृत्वात् पितृत्वम् । ननु त्वयैव नाथेनेत्युत्तरश्लोके पृथावपि भक्तेः कर्तव्यत्वं प्रतीयते । अतः कथं भगवत्येव भक्तिः कर्तव्येति चेदुच्यते । तत्र पृथुस्थपरमेश्वरमपेक्ष्यैवकारेणान्ययोगव्यवच्छेदः क्रियते । यो ब्रह्मक्षत्रमाविश्येत्युत्तरत्र पृथुस्थत्वप्रतीतेः ॥ ४७ ॥

प्रकाशिका

हे पृथ्व्याः पितः ॥ ४७ ॥

अहो वयं ह्यद्य पवित्रकीर्ते त्वयैव नाथेन मुकुन्दनाथाः ।

यदुत्तमश्लोकतमस्य विष्णोर्ब्रह्मण्यदेवस्य कथां व्यनङ्क्षि१ ॥ ४८ ॥

तात्पर्यम्

अहो वयमित्यादि तत्स्थपरमेश्वरापेक्षया । ‘यो ब्रह्मक्षत्रमाविश्ये’ति वचनात् ॥

पदरत्नावली

मुकुन्दो नाथो येषां ते तथा । अनेनाप्युक्तशङ्का पर्यहारि । व्यनक्षि अस्माभिरपृष्टामपि कथां व्यक्तां करोषि ॥ ४८ ॥

प्रकाशिका

मुकुन्दनाथाः स्मः । अत्र पृथोर्मुकुन्दाभेदप्रतीतिवारणाय विवक्षितं तात्पर्यं दर्शयति ॥ अहो वयमित्यादीति । आदिपदेनाध्यायसमाप्तिपर्यन्तस्य ग्रहणम् । पृथुस्थपरमेश्वरापेक्षया । योज्यमिति शेषः । कुत इत्यतोऽत्रोत्तरवाक्यं साधकं पठति ॥ यो ब्रह्मक्षत्रमिति । तथा च हे पवित्र-कीर्ते पृथ्वाविष्टराजराजरूपहरे । त्वयैव नाथेनेत्यादिरूपा योजना द्रष्टव्या । व्यनङ्क्षि व्यक्तां करोषि

॥ ४८ ॥

२नात्यन्तिकमिदं नाथ तव जीव्यानुशासनम् ।

प्रजानुरागो महतां प्रकृतिः करुणात्मनाम् ॥ ४९ ॥

पदरत्नावली

तव भृत्यानामस्माकमनुशासनं नैकान्तनियतमित्याह– नात्यन्तिकमिति ॥४९॥

प्रकाशिका

तवाजीव्यानां भृत्यानाम् आ अनुशासनं नात्यन्तिकं नात्यन्तमपूर्वं नाश्चर्यकर-मित्यर्थः । अत एव क्वचिन्नात्यद्भुतमित्यपि पाठः । प्रकृतिः स्वभावः ॥ ४९ ॥

अद्य नस्तमसः पारस्त्वयोपासादितः प्रभो ।

भ्राम्यतां नष्टदृष्टीनां कर्मभिर्दैवसंज्ञितैः ॥ ५० ॥

पदरत्नावली

उपासादितः प्रापितः । भ्राम्यतामेकत्रावस्थानमलभमानानाम् ॥ ५० ॥

प्रकाशिका

उपासादितः प्रापितः । कर्मभिरदृष्टैर्भ्राम्यतामेकत्रानवस्थितानाम् । दैवं भ्रामकमिति ग्रन्थान्तरविरोधपरिहारायोक्तं देवसंज्ञितैरिति । तथा च तत्र दैवशब्देनादृष्टमेव ग्राह्यमिति भावः ॥५०॥

नमो विवृद्धसत्वाय पुरुषाय महीयसे ।

यो ब्रह्म क्षत्रमाविश्य बिभर्तीदं स्वतेजसा ॥ ५१ ॥

पदरत्नावली

अहो वयमित्यत्रान्तर्याम्यपेक्षयेत्युक्तम् । तत् तत्र ज्ञानमेषां सिद्धमिति भावेन तत्सिद्धान्तं प्रकटयति– नम इति ॥ यो विष्णुः क्षत्रं राजकुलोत्पन्नं पृथुमाविश्येदं ब्रह्म ब्राह्मणकुलं बिभर्तित्यन्वयः ॥ ५१ ॥

॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुकृतायां

चतुर्थस्कन्धे एकविंशोऽध्यायः ॥

प्रकाशिका

यो विष्णुः क्षत्रं क्षत्रियं पृथुमाविश्येदं ब्रह्म ब्रह्मकुलं स्वतेजसा बिभर्ति तस्मा इति साधुवादेन तुष्टुवुरित्यन्वयः ॥ ५१ ॥

**॥ इति श्रीमद्वेदेशपूज्यपादशिष्येण यदुपतिना विरचितायां **

श्रीमद्भागवतटिप्पण्यां चतुर्थस्कन्धे एकविंशोऽध्यायः ॥ ४-२१ ॥