भगवांश्चापि वैकुण्ठः साकं मघवता विभुः
अथ विंशोऽध्यायः
मैत्रेय उवाच–
भगवांश्चापि वैकुण्ठः साकं मघवता विभुः ।
यज्ञैर्यज्ञपतिः स्विष्टो यज्ञभुक् तमभाषत ॥ १ ॥
पदरत्नावली
अत्रोत्तमगुरुणा स्वयोग्योपासनाविषयो हरिरुपदेष्टव्य इति द्योतयितुं पृथुजीवाय हरिणा स्वात्मोपदिश्यत इति प्रतिपादयितुमाह– भगवानिति ॥ अपिशब्दस्य ब्रह्मभाषणेन पुनः समुच्चयः । कारयितृत्वेन स्वामित्वेन भोक्तृत्वेनाप्येक एवोच्यत इति दर्शनाय वैकुण्ठादिनामग्रहणम् । चशब्देनाग्रपूजयेष्ट इति समुच्चिनोति । जगदुत्पत्तौ विश्लिष्टानां भूतानां संयोजकत्वाद् वैकुण्ठः । तदुक्तं शान्तिपर्वणि– ‘मया संश्लेषिता भूमिरद्भिर्व्योम च वायुना । वायुश्च तेजसा सार्द्धं वैकुण्ठत्वं ततो मम ॥’ इति । ‘अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च’ इति ॥ १ ॥
प्रकाशिका
मघवतेन्द्रेण साकं सह वर्तमानः ॥ १ ॥
श्रीभगवानुवाच–
एष ते ह्यकार्षीद् भङ्गं हयमेधशतस्य ह ।
क्षमापयत आत्मानममुष्य क्षन्तुमर्हसि ॥ २ ॥
पदरत्नावली
हयमेधशततमस्येति व्याख्येयम् । अन्यथा चरमाश्वमेधासिद्ध्या तदेकभङ्गाभावेन सर्वभङ्गापत्त्या त्वमेकोनशतक्रतुरित्यनुपपन्नं स्यात् । इममर्थं ग्रन्थान्तरे सिद्धं हेत्यने न सूचयति । किमत्र कार्यं ज्ञापयेति तत्राह– क्षमापयत इति ॥ आत्मानं त्वां क्षमापयतोऽमुष्येन्द्रस्य क्षन्तुमर्हसीत्यन्वयः । आत्मानं मां क्षमापयत इति वा त्वयि सन्निहितत्वेन तव विरोधाचरणं ममेति । तत् तस्मान्मम क्षमापणं प्रार्थनमित्यर्थः ॥ २ ॥
प्रकाशिका
आत्मानं त्वां क्षमापयतः क्षमां कारयतः । अमुष्येन्द्रस्य क्षन्तुमर्हस्यात्मानं त्वयि स्थितं मामिति वा ॥ २ ॥
सुधियः साधवो लोके नरदेव नरोत्तम ।
नाभिद्रुह्यन्ति भूतेभ्यो यर्ह्यनात्मा कलेवरम् ॥ ३ ॥
पदरत्नावली
अक्षमा साधुगुणो न स्यादित्याह– सुधिय इति ॥ तत्र निमित्तमाह– यर्हीति ॥ कलेवरमनात्मा जडमत एवानित्यं यर्हि यस्मात् तस्मात् ॥ ३ ॥
प्रकाशिका
अक्षमा न साधूनां गुण इत्याशयेनाह ॥ सुधिय इति । तत्र निमित्तमाह ॥ यर्हीति । यर्हि यस्मात्कलेवरं शरीरमनात्मा जडं तस्मात्तदभिमानेन भूतानि नाभिद्रुह्यन्ति ॥ ३ ॥
पुरुषा यदि मुह्यन्ति त्वादृशा देवमायया ।
श्रम एव परं जातो दीर्घया वृद्धसेवया ॥ ४ ॥
पदरत्नावली
इतोऽपि क्षमा कर्तव्येति व्यतिरेकमुखेनाह– पुरुषा इति ॥ ४ ॥
प्रकाशिका
इतोऽप्यभ्यस्तशास्त्राणामक्षमा नोचितेत्याह ॥ पुरुषा इति । मुह्यन्ति देहाभिमानेन स्वाननुकूलानि भूतानि द्रुह्यन्ति । वृद्धसेवया तज्जनितशास्त्राभ्यासेन ॥ ४ ॥
अत एव इमं विद्वानविद्याकामकर्मभिः ।
आरब्धमिति नैवास्मिन् प्रतिबुद्धोऽनुषज्जते ॥ ५ ॥
पदरत्नावली
तत् किम् ? तत्राह– अत एवेति ॥ ५ ॥
प्रकाशिका
प्रतिबुद्धो ज्ञानी । अस्मिन्नस्वाभाविके काये नानुषज्जते । भूतद्रोहकरमभिमानं न करोतीत्यर्थः ॥ ५ ॥
असंसक्तः शरीरेऽस्मिन्नमुनोत्पादिते गृहे ।
अपत्ये द्रविणे दारे कः कुर्यान्ममतां बुधः ॥ ६ ॥
पदरत्नावली
शरीरासङ्गफलमाह– असंसक्त इति ॥ अमुना देहेन । पुत्रादिगतममता-बुद्धित्यागः फलमित्यर्थः ॥ ६ ॥
प्रकाशिका
ननु शरीराभिमानत्यागेन तत्प्रयुक्तभूतद्रोहाभावेऽपि गृहापत्याद्यभिमानप्रयुक्तो भूतद्रोहः स्यादेवेत्यत आह ॥ असंसक्त इति । गृहाद्यभिमाने शरीराद्यभिमानस्य हेतुत्वात्तदभावे गृहाद्यभिमानो निर्मूलो नोत्पत्स्यत इति भावः ॥ ६ ॥
एकः शुद्धः स्वयंज्योतिर्निर्गुणोऽसौ गुणाश्रयः ।
सर्वगोऽनावृतः साक्षी निरात्माऽनात्मनः परः ॥ ७ ॥
देहाद्यपार्थास्तद्धर्मा न स्युस्तद्द्रष्टुरात्मनः ।
कैवल्यं तस्य वै धर्मः सुषुप्तं तन्निदर्शनम् ॥ ८ ॥
तात्पर्यम्
‘अन्येषामावृतो विष्णुः स्वस्यानावृत एव च । ‘आत्मा सर्वस्य जगत-स्तस्यात्माऽन्यो न विद्यते । सुषुप्तवच्च निर्दुःखो जाग्रद्वच्च प्रवृत्तिमान् । अनन्यसदृशत्वाच्च केवलोऽसौ हरिः स्मृतः’ ॥ इति तन्त्रसारे । ‘आत्मनैवावगम्यत्वाद्धरिरेष सुषुप्तवत् । केवलत्वेन विज्ञेयो मुक्तिस्तद्वददुःखता ॥’ इत्यध्यात्मे ॥ ७ ॥
पदरत्नावली
शरीराद्यसक्तिरप्येकत्वादिगुणविशिष्टपरमात्मज्ञानिन एव सुदृढा स्यादित्य-तस्तत्स्वरूपं निरूपयति– एक इत्यादिना ॥ घटादिष्वेकत्वादिकमौपचारिकम् । हरौ तु निरुपचरित-मिति द्योतनाय वेदान्तसिद्धगुणानुपदिशति । तथाहि– ‘एको देवः’ इति । ‘न जायते म्रियते वा विपश्चित्’ इति जननादिदोषाभावाच्छुद्धः । ‘पूर्णः सत्यः शुद्धबुद्धस्वरूपो नित्यचिन्मयः’ इति । ‘अत्रायं पुरुषः स्वयंज्योतिः’ । ‘परं ज्योतिरुपसंपद्य’ इति । ‘केवलो निर्गुणश्च’ इति, ‘विज्ञानमानन्दं ब्रह्म’ इति । ‘अन्तर्बहिश्च तत्सर्वम्’ इति । अनावृतः स्वस्यान्येषामावृत एव । ‘अन्येषामावृतो विष्णुः स्वस्यानावृत एव च’ इति । ‘साक्षी चेता’ इति । निर्गत आत्मा स्वामी यस्य स निरात्मा तस्यात्मा अन्यो न विद्यत इति । अनात्मनो गुणराशिरहिताज्जीवराशेर् वरः । ‘उत्तमः पुरुषस्त्वन्यः’ ॥
हरेः सर्वगतत्वेन जननादिदेहधर्माः सम्भवन्त्यतः कथं देहिपरत्वम् (देहिभ्यः परत्वम्) ? अत्राह– देहादीति ॥ देहप्रभृति तद्धर्मा देहिधर्मा जननादयस्तद्द्रष्टुस्तेषां धर्माणां द्रष्टुः । आत्मनः सर्वस्य जगतोऽन्तर्यामिणो हरेर्न स्युरित्यन्वयः । ‘आत्मा सर्वस्य जगतस्तस्यात्मान्यो न विद्यते’ इति । कीदृशाः ? अपार्था पुरुषार्थाख्यप्रयोजनशून्याः । हरेर्धर्मः क इति तत्राह– कैवल्यमिति ॥ ‘अनन्य-सदृशत्वाच्च केवलोऽसौ हरिः स्मृतः’ इति वचनात् कैवल्यं नामान्यसादृश्यराहित्यं धर्मम् इत्यर्थः । वा इत्येतत् ‘तद्यत्स्वभावः कैवल्यम्’ इति वाक्यं सूचयति । नित्यनिर्दुःखत्वं च तस्य धर्मस् तद्बुद्धा-वारोपयति– सुषुप्तमिति ॥ तस्य धर्मस्य निदर्शनं दृष्टान्तः सुषुप्तम् । शरीराभिमानाभावेन हर्येकस्थितिः सुषुप्तिर्नाम । न हि तदा दुःखलेशोऽस्ति । ‘सा सौम्य तदा संपन्नो भवति’ इति श्रुतेः । ‘सुषुप्तवच्च निर्दुःखो जाग्रद्वच्च प्रवृत्तिमान्’ इति च । आत्मावगम्यत्वं वा तद्धर्मः । अत्रापि सुषुप्तमुदाहरणं हि मानम् । तस्यापि जन्यज्ञानाभावेनाहमिति स्वरूपज्ञानवेद्यत्वात् । आत्मानैवावगम्यत्वाद्धरिरेष सुषुप्तवत् । केवलत्वेन विज्ञेयो मुक्तिस्तद्वददुःखता’ इति ॥ ७,८ ॥
प्रकाशिका
शरीरादावभिमानत्यागोऽपि भगवत्स्वरूपज्ञानेनैव स्यादित्याशयेन भगवत्स्वरूप-मुपदिशति ॥ एक इति । एकः स्वगतभेदशून्यः शुद्धो जन्मादिदोषदूरः । स्वयंज्योतिर्न परप्रकाश्यो, निर्गुणः सत्त्वादिगुणविकारविधुरः । गुणाश्रयो ज्ञाननन्दादिगुणाश्रयः । सर्वगोऽनावृत इत्यादौ सर्वग इत्यनेन तत्तद्देहाद्यावृतत्वमनावृत इत्यनेन कथं विरुद्धमनावृतत्वमुच्यते । एवं निरात्मेत्यनेन जडत्वमुक्त्वा पुनरात्मेत्यात्मत्वं कथं विरुद्धमुच्यते । कश्च कैवल्यशब्दार्थः । सुषुप्तं तन्निदर्शनमित्यत्र दार्ष्टान्तिकं च किमित्यपेक्षायां तत्सर्वं प्रमाणेनैवोपपादयति ॥ अन्येषामिति । सर्वग इत्यस्य तात्पर्यम् ॥ अन्येषा-मिति । आवृत एवेति सम्बन्धः । आत्मेत्यस्यार्थप्रदर्शनम् आत्मा सर्वस्येति । निरात्मेत्यस्यार्थकथनं तस्येति । आत्मा स्वामी । तथा च प्रमाणैर्निवारित आत्मा स्वामी यस्येति तदर्थः । न त्वचेतन इत्यतो न विरोध इति भावः । सुषुप्तं तदिति निदर्शनस्य दार्ष्टान्तिकमाह ॥ सुषुप्तवच्च निर्दुःखश्चेति । अनेन सुषुप्तशब्दः सुप्तजीवपर इति सूचयति । निर्दुःख इति कैवल्यशब्दार्थप्रदर्शनम् । तथा च तस्य भगवतः कैवल्यं निर्दुःखत्वं धर्मः । तत्तत्र सुषुप्तं सुप्तजीवजातं निदर्शनमिति मूलं योज्यमिति भावः । सुषुप्तमित्येतदुपलक्षणम् । जाग्रद्वदित्यपि ग्राह्यम् । तथा च कैवल्यं स्वातन्त्र्येण प्रवृत्तिमत्त्वं तस्य धर्मस्तत्र जाग्रज्जीवो निदर्शनमित्यपि मूलार्थमभिप्रेत्योक्तम् ॥ जाग्रद्वच्च प्रवृत्तिमानिति । कैवल्य-शब्दस्यार्थान्तरमप्याह ॥ अनन्येति । अत्र चशब्देन निर्दुःख इत्यादिपूर्वोक्तमपि कैवल्यशब्दार्थ-प्रदर्शनपरमिति सूचयति । अत्रापि सुषुप्तनिदर्शनं विवक्षितमिति ज्ञेयम् । प्रमाणान्तरेण कैवल्यमित्यर्धस्य तात्पर्यं प्रकारान्तरेण दर्शयति ॥ आत्मनैवेति । एष हरिः केवलत्वेन केवलशब्दार्थत्वेन विज्ञेयः । कुत इत्यत उक्तम् ॥ सुषुप्तवदिति । सुषुप्तवदात्मनैव स्वरूपज्ञानेनैवावगम्यत्वादिति । तथा च कैवल्यं स्वस्वरूपज्ञानेनैवावगम्यत्वं तस्य धर्मः । तत्र सुषुप्तदर्शनम् । सुषुप्त्यवस्थायां जीवस्वरूपज्ञानेनैवाव-गम्यत्वस्यैतावन्तं कालं सुखमहमस्वाप्समित्युत्तरकालीनपरामर्शान्यथाऽनुपपत्त्या सिद्धार्थत्वादिति मूलार्थ इति भावः । अत्र सुषुप्तशब्दो मुक्तिपरतयाऽपि विवक्षितस्तस्य च मुक्तिपरत्वं सुप्तिवाचकशब्दानां मुक्तिपरत्वस्य शास्त्रे सिद्धत्वादित्यभिप्रेत्य कैवल्यमित्यर्धस्य तात्पर्यमाह ॥ मुक्तिरिति । सुषुप्तशब्द-वाच्येति शेषः । कैवल्यशब्दार्थप्रदर्शनम् ॥ अदुःखतेति । तथा च कैवल्यं निर्दुःखत्वं तस्य धर्मः । तत्तत्र सुषुप्तं मुक्तिर्निदर्शनमिति मूलं योज्यमिति भावः । आत्मनो जीवराशेः पर उत्तमः ॥
नन्विदमयुक्तम् । जीववद्देहादिमत्वेन तद्धर्मजननादिमत्वेन च कृष्णरामादिरूपे प्रतीयमानत्वादित्यत आह ॥ देहादीति । जडदेहादयोऽपार्था अपगतप्रयोजनाः । अतो न तस्य सन्तीति शेषः । तर्हि कथमस्मदादिदेहे तस्यावस्थानमित्यत उक्तम् ॥ न स्युस्तद्द्रष्टुरिति । केवलं साक्षितया शरीरादिकं पश्यत आत्मनः परमात्मन इति । तथा च रामकृष्णादिदेहा न जडरूपा अवाप्तसमस्तकामतया तत्साध्य-प्रयोजनाभावात् । अस्मदादिदेहेषु च तटस्थ एव तद्द्रष्टा नियामकतयाऽस्त्यतो न जडदेहादिसम्बन्ध-स्तस्य नापि तद्धर्मा जडदेहधर्मा जननादयस्तस्य स्युरित्यर्थः । अत आत्मनः पर इत्युक्त-मुपपन्नमित्याशयः । तर्हि कस्तस्य धर्म इत्यपेक्षायामाह ॥ कैवल्यमिति । व्याख्यातमेतत् ॥ ७,८ ॥
य एवं सन्तमात्मानमात्मस्थं वेद पूरुषः ।
नाज्यते प्रकृतिस्थोऽपि तद्गुणैः समवस्थितः ॥ ९ ॥
पदरत्नावली
भगवद्धर्मकथनफलमाह– य एवं सन्तमिति ॥ यः पुरुष एवं सन्तमात्मस्थं जीवान्तर्यामिणमात्मानं वेद स प्रकृतिस्थोऽपि तस्य शरीरगुणैः क्षुत्पिपासादिलक्षणैर्नाज्यते न लिप्यते । समवस्थितः सम्यगाहितचित्तत्वादिति हेतुगर्भविशेषणम् ॥ ९ ॥
प्रकाशिका
यदर्थं भगवत्स्वरूपमुपदिष्टं तदिदानीमाह ॥ य एवमिति । यः पुरुष एवं सन्तमेवंभूतमात्मानं परमात्मानं वेद । स प्रकृतिस्थोऽपि तत्कार्यदेहस्थोऽपि तद्गुणैः शरीरगुणैः सुखदुःखादिभिर्नाज्यते न लिप्यते । यतः समवस्थितोऽभिमानत्यागेनावस्थितः । तथा चोक्तज्ञानेन शरीराभिमानत्यागो भवति । ततश्च तद्धर्मालेप इत्याशयः ॥ ९ ॥
यः स्वधर्मेण मां नित्यं निराशीः श्रद्धयाऽन्वितः ।
भजते शनकैस्तस्य मनो राजन् प्रसीदति ॥ १० ॥
पदरत्नावली
मनःप्रसादस्य प्रथमसाधनत्वात् तत्सम्भवः केन स्यादिति तत्राह– य इति
॥ १० ॥
प्रकाशिका
मनःशुद्धिरप्यभिमानत्यागकारणमित्यभिप्रेत्य मनःशुद्धिजनकमुपदिशति ॥ य इति । प्रसीदति शुद्धं भवति ॥ १० ॥
परित्यक्तगुणः सम्यग्दर्शनो विशदाशयः ।
शान्तिं मे समवस्थानं ब्रह्म कैवल्यमश्नुते ॥ ११ ॥
पदरत्नावली
मनःप्रसादफलमाह– परित्यक्तगुण इति ॥ परित्यक्ता गुणा विषयलक्षणा येन स तथा । समवस्थानं निर्विकारं यद् ब्रह्म कैवल्यं स्वस्वयोग्यतानुरोधेन पूर्णतालक्षणं केवलभावं तल्लक्षणं शान्तिं मे प्रसादान्मुक्तिमश्नुत इत्यन्वयः ॥ ११ ॥
प्रकाशिका
ननूक्तविधानेन जाताभ्यामभिमानत्यागमनःशुद्धिभ्यां च किं प्रयोजनमित्यत आह ॥ परित्यक्तेति । परित्यक्तगुणो विषयाभिमानशून्य उक्तरीत्या विशदाशयः शुद्धान्तः करणः सन् । सम्यक् समीचीनं ब्रह्म तद्विषयकं दर्शनं यस्य स तथा । ब्रह्मापरोक्षज्ञानी भवतीत्यर्थः । तेनापि किमित्यत उक्तम् ॥ शान्तिमिति । मे मत्प्रसादाच्छान्तिमश्नुत इति । का शान्तिरित्यतो ब्रह्मप्राप्ति-रेवेत्याह ॥ समवस्थानमिति । सम्यक् स्वरूपाविर्भावेनावस्थानं यस्मात्तत्तथा । स्वरूपाविर्भावकरं कैवल्यं निर्दुःखं ब्रह्माश्नुते ॥ ११ ॥
उदासीनमिवाध्यक्षं द्रव्यज्ञानक्रियात्मनाम् ।
कूटस्थमिममात्मानं यो वेदाप्नोति शोभनम् ॥ १२ ॥
तात्पर्यम्
‘हरिरक्लिष्टकारित्वादुदासीन इतीर्यत’ इति च ॥ १२ ॥
पदरत्नावली
सम्यग्दर्शन इत्युक्तं दर्शनप्रकारं दर्शयति– उदासीनमिवेति ॥ द्रव्यज्ञान-क्रियात्मनां तामसाहङ्कारिकतैजसरूपाणां पदार्थानामध्यक्षमधिपतिम् । उदासीनमिवाक्लिष्टकारिणमेव । कूटस्थं निर्विकारम् आत्मानं हरिं यो वेद स शोभनं दर्शनमेवाप्नोतीत्यन्यवयः । ‘हरिरक्लिष्टकारित्वा-दुदासीन इतीर्यते’ इति च ॥ १२ ॥
प्रकाशिका
मोक्षार्थमेवमपि ब्रह्म ज्ञातव्यमित्याह ॥ उदासीनमिति । अत्रोदासीनमित्यनेन कर्तृत्वाभाव एवोच्यत इति भाति । अतोऽत्र तात्पर्यं प्रमाणेनैव दर्शयति ॥ हरिरिति । तथा च द्रव्यज्ञानक्रियात्मनां भूतज्ञानकर्मेन्द्रियात्मकानां देहानामध्यक्षमधिपतिं तथाऽप्युदासीनमिव स्थितम् । अक्लिष्टकारित्वात् । इमं पूर्वोक्तगुणमात्मानं यो वेद स उक्तरीत्या शोभनं सुखरूपं परं ब्रह्म प्राप्नोति
॥ १२ ॥
भिन्नस्य लिङ्गस्य गुणप्रवाहं द्रव्यक्रियाकारकचेतनात्मनः ।
दृष्ट्वा सुसंपत्सु विपत्सु सूरयो न विक्रियन्ते मयि बद्धसौहृदाः ॥ १३ ॥
तात्पर्यम्
‘जीवाद्भिन्नस्य मनसो गुणाः सत्वादयो मताः । तज्ज्ञात्वा न विकुर्वीत स्वस्वरूपं मनस्तथा’ इति षाड्गुण्ये ॥ १३ ॥
पदरत्नावली
इदं चावश्यं ज्ञेयमित्याह– भिन्नस्येति ॥ द्रव्यक्रियाकारकचेतनानि सततं व्याप्य तिष्ठतीति द्रव्याद्यात्मा, तस्य जीवाद् भिन्नस्य कालादिव्यवधानेन लीनं पदार्थजातं गमयतीति लिङ्गं, तस्य मनसो यः सत्त्वादिगुणानां प्रवाहः प्रवर्तनविशेषस्तं दृष्ट्वा ज्ञात्वा । प्रत्यक्षासु संपत्सु विपत्सु न विक्रियन्ते । जातोऽहं मृतोऽहमित्यादि विकारं न प्राप्नुवन्ति । के ? सूरयः । अत्र हेतुगर्भविशेषणमाह– मयीति ॥ मयि बद्धं सौहृदं महत्वबुद्धिलक्षणं प्रेम यैस्ते तथा, तस्मादिति शेषः । ‘जीवाद् भिन्नस्य मनसो गुणः सत्त्वादयो मताः । तज्ज्ञात्वा न विकुर्वीत स्वस्वरूपं मनस्तथा ॥’ इति वचनादुक्त एवार्थो नान्य इत्यर्थः ॥ १३ ॥
प्रकाशिका
न केवलमुक्तविधब्रह्मज्ञानेनैवाभिमानत्यागः किन्तु कारणान्तरमपि तत्रास्तीशये-नाह ॥ भिन्नस्येति । अस्य श्लोकस्य विवक्षितं तात्पर्यं प्रमाणेनैव दर्शयति ॥ जीवादिति । भिन्नस्यै-तज्जीवाद्भिन्नस्येति व्याख्यातम् । लिङ्गस्येत्यस्यार्थः मनस इति । गुणप्रवाहमित्यस्य तात्पर्यं गुणा इति । दृष्ट्वा न विक्रीयन्त इत्यस्य तात्पर्यं तज्ज्ञात्वा न विकुर्वीतेति । चेतनात्मन इत्यस्य तात्पर्यं स्वस्वरूपमिति । ज्ञात्वेत्यस्यानुकर्षणार्थस्तथाशब्दः ॥ तथा च चायमर्थः ॥ द्रव्यक्रियाकारक-चेतनात्मनो द्रव्यक्रियाकारकात्मनश्चेतनात्मनश्चेति व्याख्येयम् । तथा जीवाद्भिन्नस्य द्रव्यक्रियाकार-कात्मनो भूतकर्मज्ञानेन्द्रियात्मकलिङ्गशरीररूपस्याचेतनस्य चेतनात्मनः स्वस्वरूपात्मकस्य लिङ्गस्य लीनं पदार्थजातं गमयतीति लिङ्गं तस्य मनसश् चेतनाचेतनात्मकमनस इति यावत् । सकाशाद्गुणप्रवाहं सत्त्वादिगुणविकारप्रवाहरूपं संसारं सु सम्यक् दृष्ट्वा ज्ञात्वा सूरयो ज्ञानिनः संपत्सु विपत्सु च प्राप्तासु न विक्रियन्ते देहाभिमानेन विकारं न प्राप्नुवन्ति । कथम्भूता मयि बद्धं दृढीकृतं सौहृदं प्रेम येषां ते तथा । दृढभक्तिमन्त इत्यर्थः । तथा चेतनाचेतनभेदेन द्विविधं मन एव सत्त्वादिगुणप्रवाहरूपसंसारकारण-रूपमिति ज्ञानं भगवति भक्तिश्चेति कारणद्वयमत्र निरूपितमिति ज्ञातव्यम् ॥ १३ ॥
समः समानोत्तममध्यमाधमः सुखे च दुःखे च जितेन्द्रियाशयः ।
मयोपक्लृप्ताखिलसत्त्वसंयुतो विधत्स्व धीराखिललोकरक्षणम् ॥ १४ ॥
पदरत्नावली
इदमपि मुक्तिसाधनमित्याह– सम इति ॥ सुखे च दुःखे च समो निर्विकारः । समानाः स्वस्वयोग्यतानुसारेण उत्तममध्यमाधमाश्च यस्य स तथोक्तः । समत्वे कारणमाह– जितेति ॥ रक्षायां किं बल इत्यत उक्तम्– मयेति ॥ मया उपक्लृप्तो ऽखिलः पूर्णः सत्त्वगुणस्तेन संयुतः ॥१४॥
प्रकाशिका
मोक्षसाधनान्तराणि दर्शयन् स्वधर्मेणेत्युक्तं स्वधर्मं राज्ञ उपदिशति ॥ सम इति । सुखे दुःखे च समो निर्विकार इति द्वन्द्वसहिष्णुत्वम् । स्वस्वयोग्यतानुसारेण समाना उत्तममध्यमाधमा यस्य । अनेन सर्वत्र समबुद्धित्वम् । जितेन्द्रियाशय इत्यनेनेन्द्रियजयश्चेत्येतानि साधनान्यत्रोक्तानीति ज्ञातव्यम् । स्वधर्मं दर्शयति ॥ अखिललोकरक्षणं विधत्स्वेति । कथमेकेन मया तत्कर्तुं शक्य-मित्यपेक्षायामाह ॥ मयेति । मयोपक्लृप्ताः संपादिता ये सत्त्वा द्विजाग्य्रादयः प्राणिनस्तैः संयुत इत्यर्थः
॥ १४ ॥
श्रेयः प्रजापालनमेव राज्ञो यत् सांपराये सुकृतं षष्ठमंशम् ।
अतोऽन्यथा हृतपुण्यः प्रजानामरक्षिता करहारोऽघमत्ति ॥ १५ ॥
पदरत्नावली
अपवर्गानुपयोगिप्रजापालनेन किमित्याशङ्क्येदमेव तव श्रेय इत्याह– श्रेय इति ॥ सांपराये मोक्षे प्रजाकृतसुकृताद् विभज्य षष्ठमंशं सुकृतं लभत इति यस्मात् तस्मादिति । विपक्षे बाधकमाह– अत इति ॥ अतोऽन्यथेत्यस्य विवरणमरक्षितेति । ‘दुःखैनो व्यसनेष्वघम्’ इति यादवः
॥ १५ ॥
प्रकाशिका
ननु लोकरक्षणं दण्डादिसापेक्षम् । अतस्तत्त्यक्त्वाऽन्यद्विधेयमित्यत आह ॥ श्रेय इति । यद्यस्मात्सांपराये मोक्षे स्वर्गे वा प्रजाकृतात्सुकृतं विभज्य षष्ठमांशमत्ति तस्मात् । विपक्षे बाधक-माह ॥ अतोऽन्यथेति । प्रजादिभिर्हृतं पुण्यं यस्य सः । प्रजानामघं पापमत्ति भुंक्ते । अतोऽन्यथेत्यस्य विवरणम् ॥ करहारः सन्नरक्षितेति । दण्डादियुक्तमपीदं राज्ञस्तव मोक्षसाधनतया वेदविहितमिति भावः
॥ १५ ॥
एवं द्विजाग्य्रानुमतानुवृत्तधर्मे प्रधानान्यतमोऽवितास्याः ।
ह्रस्वेन कालेन गृहोपयातान् द्रष्टासि सिद्धाननुरक्तलोकः ॥ १६ ॥
पदरत्नावली
गुरूपदिष्टज्ञानस्यैव मुक्तिहेतुत्वात् किं प्रजारक्षणेनेत्याशङ्क्य तेन ज्ञानोपदेष्टृ-सिद्धज्ञानिप्राप्तिस्ततः संविच्च प्राप्यत इत्याह– एवमिति ॥ १६ ॥
प्रकाशिका
योग्यताभिज्ञगुरूपदिष्टज्ञानमेव सर्वेषां मोक्षसाधनतया प्रसिद्धमतः किं प्रजारक्षणे-नेत्याशङ्कायां राज्ञां प्रजारक्षणरूपकर्मणैव तादृशगुरुप्राप्तिरपि भवतीत्याशयेनाह ॥ एवमिति । द्विजाग्य्राणामनुमतश्चासावनुवृत्तश्च परंपराप्राप्तो यो धर्मः स एव प्रधानो ययोस्तौ धर्मप्रधानौ धर्मप्रधाना-वन्यतमावन्यावर्थकामौ यस्य सः । धर्म एव प्रधानः । अर्थकामौ तु प्रासङ्गिकौ यस्येत्यर्थः । एवं भूतः सन् अस्याः पृथिव्या अविता रक्षिता चेत्सिद्धान्सनकादीन् अनुरक्तो लोको यस्मिन् ॥ १६ ॥
वरं च मत् कंचन मानवेन्द्र वृणीष्व तेऽहं गुणशीलयन्त्रितः ।
नाहं मखैर्वै सुलभस्तपोभिर्योगेन वा यः समवृत्तवर्ती ॥ १७ ॥
पदरत्नावली
साक्षात्कृतो वैकुण्ठोऽपि कञ्चन वरं नादादिति लोकापवादं परिहरति– वरं चेति ॥ अपवादभीरुर्वरं वृणीष्वेति वक्ति न तु तद्गुणलुब्ध इत्यत उक्तम्– तेऽहमिति ॥ मखादीनन्तरेण शीलयन्त्रित इति किं विशिष्योच्यते इति तत्राह– नाहमिति ॥ योगेनाष्टाङ्गलक्षणेन । समं तत्तद्वस्तु-योग्यतानुसृतं वृत्तं वर्तनं येषां ते समवृत्ताः पुरुषास्तेषु वर्तितुं शीलमस्येति समवृत्तवर्ती यद् यस्मात् तस्मान्नाहं तव मखादिना सुलभः स्यां किन्तु गुर्वादिषु संवृद्धभक्त्यैवेत्यर्थः ॥ १७ ॥
प्रकाशिका
मन् मत्तो गुणैर्भक्त्यादिभिः शीलेन स्वत्स्वभावेन यन्त्रितो वशीकृतो योगेनाष्टाङ्ग-लक्षणेन समं तत्तद्योग्यतानुसारेण विकृतं वृत्तं वर्तनं येषां ते समवृत्ताः समदर्शिनः पुरुषास्तेषु वर्तितं शीलमस्येति समवृत्तवर्ती यद्यस्मात्तस्मात् ॥ १७ ॥
मैत्रेय उवाच–
स इत्थं लोकगुरुणा विष्वक्सेनेन विश्वजित् ।
अनुशासित आदेशं शिरसा जगृहे हरेः ॥ १८ ॥
पदरत्नावली
पृथुरात्मनि गुणग्राहित्वलक्षणं प्रकटयन् श्रीरमणोक्तमग्रहीदित्याह– स इत्थमिति ॥ विश्वजित् समस्तजेता ॥ १८ ॥
प्रकाशिका
विश्वजित्समस्तजेता राजा ॥ १८ ॥
स्पृशन्तं पादयोः शीर्ष्णा व्रीडन्तं स्वेन कर्मणा ।
शतक्रतुं परिष्वज्य विद्वेषं विससर्ज ह ॥ १९ ॥
तात्पर्यम्
‘आयासदुःखव्रीडादीन्प्रायशः सुखिनोऽपि तु । नियमादृषिभूतेषु मोहाया-दर्शयन्सुराः’ इति ब्रह्मतर्के ।
‘अपक्वभक्तियुक्ता ये न तेषां विष्णुदर्शनम् । प्रायो भवति दुःखस्य त्वभावः प्रायशो भवेत्’ ॥ इति प्रकाशसंहितायाम् ॥ १९ ॥
पदरत्नावली
विश्वक्सेनेन श्रीहरिणोक्तं गृहीतमिति शृृङ्गग्राहिक इव दर्शयतीत्याह– स्पृशन्तमिति ॥ मनसा पृथुसन्निहितराजरूपिणो हरेः पादयोः स्पृशन्तं, व्रीडितमसुरजनमोहाय लज्जास्वभावं दर्शयन्तम् । ‘आयासदुःखव्रीडादीन् प्रायशः सुखिनोऽपि तु । नियमाद् ऋषिभूपेषु मोहायादर्शयन् सुराः ॥’ इति वचनाद् व्रीडितत्वं नेत्यर्थः ॥ १९ ॥
प्रकाशिका
क्षमापयितुं पादयोः स्पृशन्तं स्वेन स्वीयेन कर्मणाऽश्वापहरणरूपेण व्रीडन्तम् । प्रेम्णा परिष्वज्य । अत्र तात्पर्यं यद्यपि पूर्वाध्याये देवाः शक्ताश्चेत्यादिना प्रमाणं दर्शितं तथापि दाढर्््याय प्रमाणान्तरेणापि दर्शयति ॥ आयासेति । आदिशब्देन प्रणामादिग्रहणम् । सुरा नियमात् तारतम्यनियममपेक्ष्य ऋष्यादिभ्यो विशेषेण सुखिनोऽपि ऋषिभूतेषु च विषयेष्वायासादीन्प्रायशो मोहायादर्शयन्नित्यन्वयः । ‘‘आज्ञया वा हरेः क्वापि’’ इति वचनेन हर्याज्ञादिनाऽपि तत्प्रदर्शनाव-गमात्प्रायश इत्युक्तम् । नन्वपरोक्षज्ञानिनो जीवन्मुक्तस्य पृथोः कथं द्वेषप्रसक्तिः । कथं च यज्ञासमाप्ति-निमित्तदुःखप्रसक्तिर्येन द्वेषं विससर्ज हेति वचनं ब्रह्मणस्तद्दुःख शान्तिपरिहारप्रकारोपदेशश्च मूले सङ्गतः स्याद् इत्यतो जीवन्मुक्तानामपि दुःखादिप्रसक्तिं प्रमाणेनैव दर्शयति ॥ अपक्वेति । अपक्वभक्त्या युक्ता जीवन्मुक्ता ऋषिभूपादय एतेषां प्रायो बाहुल्येन ब्रह्मदर्शनं न भवति । प्रायशः प्रारब्धकर्मणा तिरोहितं ब्रह्मदर्शनं यत्नेन कदाचिदेवाविर्भवतीत्यर्थः । अनेन पक्वभक्तीनां देवानां प्रायो ब्रह्मदर्शनं भवतीति सूचयति । तेषां बाहुल्येन ब्रह्मदर्शनं भवति । कदाचित्प्रारब्धकर्मणा तिरोधानमिति मन्तव्यम् । तुशब्दो हेत्वर्थः । अतो दुःखस्याभावोऽपि प्रायशो भवेदित्यर्थः । दुःखशब्दो द्वेषादेरप्युपलक्षकः । तथा च पृथोर्भूपस्य कदाचिद्यत्नेन ब्रह्मदर्शने जाते तस्मिन्समये आनन्दभरितस्य दुःखद्वेषाद्यभावेऽपि प्रारब्धकर्मणा तिरोधानसमये द्वेषादिप्रसक्तिरस्त्येवेति भावः ॥ १९ ॥
भगवानपि विश्वात्मा पृथुनोपहृतार्हणः ।
समुज्जिहानया भक्त्या गृहीतचरणाम्बुजः ॥ २० ॥
तात्पर्यम्
‘जगत्समस्तं विश्वं च निखिलं पूर्णमुच्यते’ ॥ इत्यभिधानम् ॥ २० ॥
पदरत्नावली
विष्णोः पृथौ प्रसादोद्रेकं दर्शयति– भगवानिति ॥ विश्वात्मा पूर्णात्मा । ‘जगत् समस्तं विश्वं च निखिलं पूर्णमुच्यते’ इत्यभिधानाद् विश्वपदस्य पूर्णार्थत्वमेवाङ्गीकर्तव्यं, न तु प्रपञ्चात्मकत्वम् । तस्य बहुप्रमाणविरुद्धत्वात् । चन्द्रोदये समृद्धवृद्धिवदनुदिनं समुज्जिहानया प्रवर्धमानया भक्त्येत्यनेन ‘अपक्वभक्तियुक्ता ये न तेषां हरिदर्शनम् । प्रायो भवति दुःखस्य त्वभावः प्रायशो भवेत् ॥’ इति वचनात् साक्षात्कृतमधोक्षजं प्रत्यक्षं पश्यतः पृथोरपक्वभक्तियुक्तेभ्योऽप्युत्तमत्वं दर्शयन् तत्साक्षात्कारे भक्तेरेव प्रयोजकत्वात् तच्छृंखलया कीलितत्वान्मद्बन्धने सैव संपादनीयेति सूचयति ॥ २० ॥
प्रकाशिका
मूले विश्वात्मेत्येतज्जगदभिन्न इति प्रतीतिवारणाय प्रमाणेनैव विश्वशब्दार्थमाह ॥ जगदिति । जगदादिशब्दैः पूर्णमुच्यत इत्यर्थः । तथा च गुणपूर्णदेह इति विश्वात्मेत्यस्यार्थ इत्यर्थः । समुज्जिहानया प्रार्थनया प्रवर्धमानया ॥ २० ॥
प्रस्थानाभिमुखोऽप्येनमनुग्रहविलम्बितः ।
पश्यन् पद्मपलाशाक्षो न प्रतस्थे सुहृत् सताम् ॥ २१ ॥
पदरत्नावली
यात्रा प्रयाणं प्रस्थानमित्यभिधानम् ॥ २१ ॥
प्रकाशिका
प्रस्थानं प्रयाणम् । यात्रा प्रयाणं प्रस्थानमित्यभिधानम् । अनुग्रहेण विलम्बितः सन् प्रयाणं न कृतवान् । पद्मपत्रवद्विस्तृताक्षः ॥ २१ ॥
स आदिराजो रचिताञ्जलिर्हरिं विलोकितुं नाशकदश्रुलोचनः ।
न किञ्चनोवाच स बाष्पविक्लवो हृदोपगुह्यामुमथ व्यवस्थितः१ ॥ २२ ॥
पदरत्नावली
न केवलं पृथोर्भक्त्युद्रेक आन्तरः । अपि तु बाह्योऽपि दृश्यत इति भावेनाह– स आदिराज इति ॥ चक्षुर्वाग्व्यवहारोपरमेण पुनः किमकारीति तत्राह– हृदेति ॥ २२ ॥
प्रकाशिका
एवं भगवतः कृपोत्कर्षमुक्त्वेदानीं पृथोर्भक्त्युद्रेकमाह ॥ स इति द्वाभ्याम् । अमुं हरिं हृदोपगुह्य ध्यात्वा व्यवस्थितः ॥ २२ ॥
अथाभिमृज्याश्रुकणान् विलोकयन्नतृप्तदृग्गोचरमाह पूरुषम् ।
पदा स्पृशन्तं क्षितिमंस उन्नते विन्यस्तहस्ताग्रमुरङ्गविद्विषः ॥ २३ ॥
पदरत्नावली
किमनया तूष्णीमवस्थित्या द्रष्टुस्तन्द्रीहेतुभूतयेति निरूप्य हर्युक्तस्योत्तरं वक्तु-मुपक्रमते– अथेति ॥ अश्रुकणान् नेत्रजलबिन्दून् । अतृप्तयोरलंबुद्धिमप्राप्तयोर्दृशोर्गोचरं विषयम् । उरङ्गविद्विषः गरुडस्य ॥ २३ ॥
प्रकाशिका
अश्रुकणान्नेत्रजलबिन्दून् अतृप्तयोर्दृशयोर्गोचरं विषयम् । पदा क्षितिं स्पृशन्तं स्वानुग्रहाय भूम्यामवस्थितमुरङ्गविद्विषो गरुडस्यांसे विन्यस्तहस्ताग्रम् ॥ २३ ॥
पृथुरुवाच –
वरान् विभो त्वद् वरदेश्वराद् बुधः कथं वृणीते गुणविक्रियात्मनाम् ।
ये नारकाणामपि सन्ति चैहिकाः१ तानीश कैवल्यपतेर्वृणीत कः ॥ २४ ॥
पदरत्नावली
भगवदादिष्टं चेत् पृथुना गृहीतमथ तदुक्तेषु कस्योत्तरत्वेन वक्तव्यमस्यास्तीति न पश्यामि, अन्यदतः किमाहेति तत्राह– वरानिति ॥ जातावेकवचनमिति न्यायेन वरं वृणीष्वेत्युक्तम् । तत्र देयत्वेनाभिमताः किमैहिका उत पारत्रिकाः ? आद्ये स्रक्चन्दनवनितादयो यदि तर्हि तत्रापि वदामीत्याह– वरानिति ॥ सुलभत्वाद् वरणीया न भवन्तीत्याह– गुणेति ॥ गुणेषु विषयेषु विक्रिया विकारस्तेन युक्त आत्मा मनो येषां ते तथा तेषां नारकाणां नरकस्थानाम् । अपिशब्देन नरलोके किं वक्तव्यमिति सूचयति । वैश्रवणात् पुलकादानवत् कैवल्यपतेस्त्वदेतादृशवरादानं जुगुप्सितमित्यर्थः । द्वितीयोऽप्यनेनैव प्रत्युक्तः । स्वर्गसारूप्यादिलक्षणमोक्षभेदेन पारत्रिका अपि द्विधा भिद्यन्ते । तत्र कैवल्येऽपि न ममाभिरुचिः किमु स्वर्गादाविति ॥ २४ ॥
प्रकाशिका
वरं वृणीष्वेति यदुक्तं तदसहमान आह ॥ वरानिति । त्वत् त्वत्तो वरदानां ब्रह्मादीनामीश्वराद्बुधो ज्ञानी कथं वृणीते न कथमपि । ये त्वया दीयमाना ऐहिका अर्था गुणैर्विषयै-र्विक्रिया विकारो यस्य स तथा । एवम्भूत आत्मा मनो येषां तेषां नारकाणां नरकस्थानामपि सन्ति । बुधत्वादहमपि तान्न वृण इत्याह ॥ तानीशेति ॥ चशब्दोऽवधारणे । अहमपीत्यर्थो वा ॥ २४ ॥
न कामये नाथ तदप्यहं क्वचिन्न यत्र युष्मच्चरणाम्बुजासवम् ।
महत्तमान्तर्हृदयान्मुखच्युतं विधत्स्व कर्णामृतमेष मे वरः ॥ २५ ॥
पदरत्नावली
एवं तर्हि तव कोऽभिप्राय इत्याह– न कामयेति ॥ क्वचिदित्यनेन पुरुषार्थ-मात्रमाक्षिपति तर्हि मया देयं नास्तीत्यत्राह– महत्तमेति ॥ महत्तमानामन्तर्हृदयान्मुखद्वारेण च्युतं निःसृतं कर्णयोरमृतं तच्चरितलक्षणं विधत्स्वेत्यन्वयः । अनेन सर्वदैतत् तुभ्यमस्त्विति तत्र त्वदनुग्रह एव कारणमन्यथा न स्यादिति ध्वनयति । अभीष्टं पूरयति– एष इति ॥ २५ ॥
प्रकाशिका
त्वच्चरणकथाश्रवणमेव मया वरणीयं न तु तद्रहितकैवल्यमपीत्याशयेनाह ॥ न कामय इति । महत्तमानामन्तर्हृदयान्मुखद्वारेण च्युतं निःसृतं युष्मच्चरणाम्बुजयोराश्रितं यदासवं मकरन्दतुल्यं यशः कथाग्रथितम् । तच्छ्रवणमिति यावत् । अत एव कर्णयोरमृतवत्सुखकरं यत्र कैवल्ये नास्ति तदप्यहं क्वचित्कदाचिदपि न कामये । तस्मात्तदेव विधत्स्व । पुनरन्यदपि वरं वरयेत्यपेक्षाया-माह ॥ एष इति । एष एव मे मया वरणीयो वर इत्यर्थः ॥ २५ ॥
स उत्तमश्लोकमहन्मुखच्युतो भवत्पदाम्भोजसुधाकणानिलः ।
स्मृतिं पुनर्विस्मृततत्त्ववर्त्मनां कुयोगिनां नो वितरत्यलं वरैः ॥ २६ ॥
पदरत्नावली
हस्तप्राप्तमणित्यागवत् कैवल्यादिपुरुषार्थत्यागेन तव किं फलितमिति तत्राह– स इति ॥ हे उत्तमश्लोक महतां मुखद्वारेण च्युतः ॥ २६ ॥
प्रकाशिका
किं यशःश्रवणेनापि साध्यं फलं येन तदेव त्वया प्रार्थ्यत इत्यपेक्षायां तत्साध्यं फलं दर्शयन्नुक्तमेव विशदयति ॥ स इति । हे उत्तमश्लोक । भगवत्पदाम्भोजयोराश्रितायाः कथासुधायाः कणो लेशस्तत्सम्बन्धी योऽनिलः स एव दूरादपि किंचिच्छ्रवणमित्यर्थः । विस्मृतं तत्त्ववर्त्म यैस्तेषां कुयोगिनां पुनः स्मृतिं तत्त्वज्ञानं वितरति विस्तारयति । अतो नोऽस्माकमन्यवरैरलम् ॥ २६ ॥
यशः शिवं सुश्रव आर्यसङ्गमे यदृच्छया चोपशृणोति ते सकृत् ।
कथं गुणज्ञो विरमेद् ऋते१ पशुं श्रीर्यत् प्रवव्रे गुणसंग्रहेच्छया ॥ २७ ॥
पदरत्नावली
ननु मत्कथा भवता बहुशोऽश्रावि । अतोऽस्मदाग्रहाद् विरम्यान्यं वरं वरयेति चेत् तत्राह– यश इति ॥ हे सुश्रवः शोभनकीर्ते । आर्याणां त्वत्तत्वज्ञानां सङ्गमे यदृच्छया प्रसङ्गतः प्राप्तं तव यशः कथारूपेण ग्रथितं भक्त्या उपशृृणोति स गुणज्ञः सारज्ञः पुरुषः पशुमज्ञमृते कथमस्माद् विरमेदित्यन्वयः । तत्र हेतुः– श्रीरिति ॥ गुणस्त्वावृत्तिस्तत्संग्रहेच्छया यद्यशः प्रवव्रे इति यस्मात् तस्मात् । अनेन यशःश्रवणमात्रवृत्त्या क्रियते चेदानन्दाभिवृद्धिः स्यादिति सूच्यते । ‘गुणस्त्वा-वृत्तिशब्दादिज्येन्द्रियामुख्यतन्तुषु’ इति यादवः ॥ २७ ॥
प्रकाशिका
ननु मत्कथा त्वया बहुशः श्रुताऽस्त्यतः किं तद्वरेणेत्यत आह ॥ यश इति । हे सुश्रवः शोभनकीर्ते । आर्याणां तत्त्वज्ञानिनां सङ्गमे यदृच्छया प्रसङ्गतः प्राप्तं ते तव यशःसङ्ग । कथारूपेण ग्रथितमिति शेषः । भक्त्योपशृणोति स गुणज्ञः सारज्ञः पुरुषः पशुमज्ञमृते कथमस्मा-द्विरमेदित्यन्वयः । अत्र निमित्तमाह ॥ श्रीरिति । यद्यः गुणानां भगवत्सम्बन्धिनां संग्रहः समीचीनो ग्रह उपदेशो यस्मादिति विग्रहेण उपदेशस्तदिच्छया लोकानां भगवद्गुणोपदेशेच्छया प्रवव्र इत्यर्थः
॥ २७ ॥
अथाभजं त्वाऽखिलपूरुषोत्तमं गुणालयं पद्मकरेव लालसः ।
अप्यावयोरेकपतिस्पृधोः कलिर्न स्यात् कृतस्त्वच्चरणैकतानयोः ॥ २८ ॥
जन्तोर्जगत्यां जगदीश वैशसं स्यादेव यत् कर्मणि नः समीहितम् ।
करोषि फल्ग्वप्युरु दीनवत्सल स्व एव धिष्ण्येऽभिरतस्य किं तया ॥ २९ ॥
तात्पर्यम्
‘धिष्ण्यं तेजश्च सामर्थ्यं महिमा धाम चोच्यते’ इत्यभिधानम् ॥ अल्पपुण्य-त्वान्न मद्भक्तियोग्य इति न मन्तव्यम् । यतः फल्ग्वप्युरु करोषि वात्सल्यात् । विना वात्सल्यं श्रियाऽपि किं तव ॥ २९ ॥
पदरत्नावली
अथ तस्मादहं त्वामभजं भजामि । तथाप्येकमेव पतिं स्पर्धेते इत्येकपतिस्पृधौ । तयोस्त्वच्चरणैकतानयोस्त्वत्पदैकनिष्ठयोरावयोः कलिः कलहः कृतो न स्यात् । अपि किम् । न स्यादेव ॥
जन्तुस्वभावमपेक्ष्य कलिः स्यादिति शङ्का न तु भगवद्भक्तस्येत्यभिप्रेत्याह– जन्तोरिति ॥ हे जगदीश अखण्डेश । ‘जगत्समस्तं विश्वं च निखिलं पूर्णमुच्यते’ इति च । जगत्याम् अत्रास्मद्विषये राजप्रधानलोके विद्यमानस्य जन्तुसमूहस्य मिथो वैशसं हिंसालक्षणः कलहः स्यात् कलिस्वभावत्वात् । स न स्यान्निमित्ताभावादित्युक्तं यत्कर्मणीति ॥ नोऽस्माकं कर्मणि त्वत्पूजालक्षणे यत् समीहितं शुभलक्षणं तत् फल्गु अल्पमपि उरु महत् करोषि । तत्र हेतुगर्भविशेषणमाह– दीनवत्सल इति ॥ तत्राप्यल्पस्यापि शुभस्य फलप्रदानेन महत्त्वकरणं न तु परमाणुपरिमितस्य शुभस्य सुखपर्वतीकरणम् । तथा सति वैषम्यापातः स्यात् । तस्य निर्देषस्यासम्भवादिति बोद्धव्यम् । इतोऽपि कलिर्न स्यादित्याह– स्व एवेति ॥ स्वस्वरूपभूते धिष्ण्ये महिम््नयेव । ‘धिष्ण्यं तेजश्च सामर्थ्यं महिमा धाम चोच्यते’ इत्यभिधानम् । स्वसुखार्थमन्यापेक्षां विनाऽभिरतस्य तव वात्सल्यं विना तया श्रियापि किम् ? अत्रापि वात्सल्यमेव कारणम् । येन येन भक्त्यतिशयः क्रियते तत्र तत्राधिकवात्सल्यं स्यादिति तात्पर्य-मवबोद्धव्यम् । जगत्यां मूलप्रकृतौ श्रियां जन्तोरज्ञजनस्य वैशसं विषमबुद्धिलक्षणं स्यादेव । न तु पण्डितस्य । कुतः ? यद् यस्मान् नः कर्मणि श्रौतादिविषये वैशसं यत् संज्ञपनलक्षणं तत् समीचीनमीहितं, भक्तिपूर्वकत्वात् । अल्पपुण्यस्य तव न मद्भक्तियोग्यत्वमत्राह– करोषीति ॥ ‘यमेवैष वृणुते तेन लभ्यः’ इति श्रुतेर् भक्तिवशत्वद्योतनाय फल्ग्वप्युरु करोषीत्युक्तम् । अनेन हरौ भक्तिरवश्यं कर्तव्येति ज्ञायते । अन्यत् सममिति । भजनक्रियामपि न शक्नुमः कर्तुं त्वत्प्रसादातिरेकेणेत्याह– जगज्जगत्यामिति ॥ जगता जङ्गमेन । उपलक्षणमेतत् । स्थावरेणापि युक्तायां जगत्यां लोके नोऽस्माभिः कर्मणि विषये यत् समीहितं स्यात् तद् वैशसमेव हिंसारूपमेवात एव फल्गु तुच्छफलम् । ततः स्वतश्च तृप्तये नालमित्यर्थः । अथ भगवानुरु परिपूर्णं करोति । अत्र हेतुगर्भविशेषणम्– दीनवत्सलेति ॥ हेत्वन्तरमाह– स्व एवेति ॥ परिपूर्णानन्दरूपेऽभिरतस्य तया भजनक्रियया किं ? भृत्यवात्सल्यादुरु करोतीत्यर्थः । अथवा अप्येकपतिस्पृधोः कलिः स्यादिति सन्देहः कृतः पूर्वम् । अधुना तव मयि पक्षपातात् कलिरित्याह– जगज्जगत्यामिति ॥ जगतो जङ्गमस्थावरलक्षणस्य प्राणि-समूहस्य जगत्याधारभूता मूलप्रकृतिर्लक्ष्मीस्तस्यां वैशसं पीडा स्यादेव । हे जगदीश । कुतः ? यद् यस्मादस्माकं कर्मणि श्रौतादौ फल्ग्वप्युरु करोति न तथा तया कृतम् । हे दीनवत्सल किमिद-माश्चर्यमित्याह– स्व एवेति ॥ तया श्रिया किं प्रयोजनम् । कामिनामुपकरिष्येत्यर्थः । जगज्जगत्या-मित्येकपदेऽपि लक्ष्म्यामित्यर्थः । अथवा जगतो हिंसारूपत्वात् तदन्तःपाती कथमहं त्वां भजामि त्वत्प्रसादं विनेत्याह– जगदिति ॥ हे जगदीश जगत्यां लोके यज्जगत् प्राणिसमूहस् तद् वैशसमेव हिंसाप्रकृतिरेव । तथापि तदन्तःपातिभिरस्माभिः कर्मणि यत् समीहितं स्यात् तत् फल्गु हिंसारूप-मप्युर्वहिंसारूपकमपि करोति भवान् । हे दीनवत्सल किमर्थमेवम् ? पक्षपातेन करोति ? न स्वे धिष्ण्येऽभिरतस्य तया अहिंसया तव किम्? केवलं मामुद्धर्तुमेवेति भाव इति केचिद् व्याचक्षते । तदसत् । पदानां विवक्षितार्थावाचकत्वेन पाठसंप्रदायाभावेन प्रमाणविरोधेन प्रेक्षावद्भिरुपेक्षणीयत्वात् । पूर्वापरविरोधाच्च । लक्ष्म्या हरेर्भक्तेषु पक्षपातकथनस्य स्वानुभवविरुद्धत्वाच्च ॥ २८,२९ ॥
प्रकाशिका
अथ तस्मादभजं भजामि । पद्मकरेव श्रीरिव यज्ञविषये यथेन्द्रेण कलिर्जात एवं त्वद्भजनविषये रमया सह कलहो मम सर्वथा न भविष्यतीत्याह ॥ अप्यावयोरिति । हे अखण्डेश । जगत्यां यद्यद्यपि कर्मण्येकपतिभजनरूपे एकेन क्रियमाणेऽपरस्य तद्भजकस्य जन्तोर्वैशसं विरोधः कलहः स्यादेव । अपि तथाऽप्येकमेव पतिं स्पर्धत इच्छत इत्येकपतिस्पृधौ तयोस्त्वच्चरणावेवैकतानौ मुख्याश्रयौ ययोस्तौ तयोरावयोः श्रियो मम च कलिः कलहः कृतो न स्यात् । तस्या हरिवद्भक्तवत्सलत्वा-दित्याशयः ॥
नः समीहितमित्युत्तरग्रन्थस्य पूर्वेण संगत्यप्रतीतेस्तामाह ॥ अल्पपुण्यत्वादिति । भक्तियोग्यो भजनयोग्यः । त्वमिति शेषः । न वक्तव्यमित्यनन्तरमित्याह नः समीहितमित्यादिनेति शेषः । यदित्यस्यावृत्तिमभिप्रेत्योक्तम् ॥ यत इति । दीनवत्सलेति सम्बोधनं हेतुगर्भमित्याशयेनोक्तं वात्सल्यादिति । या महतीं सेवां करोति श्रीस्तस्यामपि महती प्रीतिर्वात्सल्यप्रयुक्तैव न तत्सेवामहत्व-प्रयुक्तेति दर्शयितुं स्व एव धिष्ण्येऽभिरतस्य किं तयेति मूलं प्रवृत्तम् । तत्रापेक्षितं पूरयन् किं तयेत्यस्य विवक्षितं तात्पर्यमाह ॥ विनेति । तयेत्यस्यार्थः श्रियेति । धिष्ण्यशब्दस्य प्रकृतयोग्यमर्थं प्रमाणेनैव दर्शयति ॥ धिष्ण्यं तेज इति । महिमा धिष्ण्यादिभिः शब्दैरुच्यत इत्यर्थः । अस्याभिधानस्य किं तवेत्यनन्तरं वक्तव्यत्वेऽपि पूर्वमुदाहरणं विश्वशब्दार्थाभिधानकथनप्रसङ्गात्कृतम् ॥ ततश्चायं यन्नः समीहितमित्यादेरर्थः ॥ हे दीनवत्सल । त्वं यद्यतो नोऽस्माकं समीहितं चेष्टितं भजनं फल्ग्वप्युरु करोषि भक्तेषु वात्सल्यात् । सत्यं लोके महद्भिः सेव्ये राजादौ नाल्पकस्य भजनाधिकारस्तथापि न त्वं लौकिकराजादिरिव । यतो भक्तकृते भजनेऽल्पत्वं तुच्छीकृत्य तदीयां भक्तिमेव निरीक्ष्य तुष्टो भवसि । अतोऽल्पकस्यापि मम त्वद्भजने योग्यताऽस्तीत्याशयः । त्वदीयभजनेऽल्पत्वं तुच्छीकृतमिति कथं ज्ञायत इति चेद्यतो या महतीं सेवां करोति श्रीस्तस्यामपि तव महती प्रीतिर्वात्सल्यप्रयुक्तैव न सेवामहत्व-प्रयुक्तेत्याह ॥ स्व एवेति । स्व एव स्वरूपभूत एव धिष्ण्ये महिम््नयभिरतस्य । स्वरमणस्येति यावत् । तव तयाऽपि श्रियाऽपि वात्सल्यं विना सेवामहत्वेन साध्यं प्रयोजनं किं न किमपि । तथा च त्वद्भजनयोग्यतायामल्पपुण्यत्वादिकं न प्रयोजकं किन्तु भक्तिरेव तत्प्रयोजिकेत्याशयः ॥ २८,२९ ॥
भजन्त्यथ त्वामत एव साधवो व्युदस्तमायागुणविभ्रमोदयम् ।
भवत्पदानुस्मरणादृते सतां निमित्तमन्यद् भगवन् न विद्महे ॥ ३० ॥
तात्पर्यम्
अथान्यच्च । अतः वात्सल्यादेव ॥ ३० ॥
पदरत्नावली
अस्मिन्नर्थे साधुसम्मतिमाह– भजन्तीति ॥ अथान्यच्चास्मिन्नर्थे प्रमाणमस्तीति । किं तदिति ? तदुच्यते– अत एवेति ॥ भक्तवात्सल्यादेव साधवः सज्जनास्त्वां भजन्ति । कं गुणमुप-संहृत्येति तत्रोक्तम्– व्युदस्तेति ॥ मायागुणानां विभ्रमोदयो विलासोदयः स निरस्तो येन स तथा तम् । संसारोच्छेदोऽपि न स्वत एषामित्यभिप्रेत्याह– भवत्पदेति ॥ अन्यत् कर्मादिकम् ॥ ३० ॥
प्रकाशिका
त्वद्भजनयोग्यतायां भक्तिरेव प्रयोजिका न महत्पुण्यत्वादिकमित्यत्र युक्त्यन्तर-माह ॥ भजन्तीति । अत्र अथशब्दस्यानन्तर्याद्यर्थत्वेऽसंगतिमालोच्य सङ्गतमर्थं दर्शयति ॥ अथेति । अन्यच्च प्रमाणमत्रोच्यत इत्यथशब्दस्यार्थ इत्यर्थः । स्व एव धिष्ण्येऽभिरतस्येत्यादिनोक्तयुक्तिसमुच्चयार्थ-श्चकारः । अत एवेत्यनेन परामृश्यं हेतुं दर्शयति ॥ अत इति ॥ ततश्चायं श्लोकार्थः ॥ अथ किं च साधवो निष्कामा अत एव तव भक्तेषु वात्सल्यादेव त्वां भजन्ति । अन्यथा सेवामहत्त्वस्यैव प्रयोजकत्वे तन्न स्यादित्याशयः । कथंभूतं त्वाम् । व्युदस्तो दूरीकृतो मायागुणानां सत्त्वादीनां भ्रमो विलासः । विकार इति यावत् । तस्योदयं कार्यं येन । ननु ते निष्कामाः किमर्थं त्वां भजन्तीत्यपेक्षायामाह ॥ भवत्पदेति । निमित्तमुद्देश्यं फलम् । अतस्त्वत्स्मरणमेव तेषामावश्यकमित्याशयः ॥ ३० ॥
मन्ये गिरं ते जगतां विमोहिनीं वरं वृणीष्वेति भजन्तमात्थ यत् ।
वाचा नु तन्त्या यदि ते जनोऽसितः कथं पुनः कर्म करोति मोहितः ॥ ३१ ॥
पदरत्नावली
विमुक्तिमुख्यनिमित्तमङ्घ्रिस्मरणादन्यन्नास्तीति यद् यस्मात् तस्मात्, भजन्तं प्रति वरं वृणीष्वेति वाणी जगन्मोहकरीत्याह– मन्ये गिरमिति ॥ तदुपपादयति– वाचेति ॥‘तस्येदं वाचा तन्त्या नामभिर्दामभिः सर्वं सितम्’ इति श्रुतिः । षिञ् बन्धने । यद्यसितो बन्धनरहितस्तर्हि पुनः शश्वत् कथं कर्म करोतीत्यन्वयः ॥ ३१ ॥
प्रकाशिका
नन्वेवं वरं वृणीष्वेति कथं भगवतोक्तमित्यपेक्षायां मोक्षस्य दौर्लभ्यात्तादृशवाचा प्रलोभनं तस्य स्वभाव एवेत्याशयेनाह ॥ मन्य इति । न केवलं वरं वृणीष्वेति वाचैव विमोहयसि किन्तु स्वर्गकामो यजेतेत्यादिरूपया वेदवाचाऽपीत्याह ॥ वाचेति । वेदवाग्रूपया तन्त्या यदि जनोऽ-सितोऽबद्धः स्यात्तर्हि पुनः फलैर्विमोहितः सन् कथं कर्म करोति । फलेच्छया पुनः पुनर्वेदविहित-कर्मकरणं न स्यादिति यावत् । वर्तते च तत् । तस्मादुक्तरूपवेदवाचा मोहित इत्यवगम्यत इत्यर्थः
॥ ३१ ॥
त्वन्माययाऽद्धा जगदीश खण्डितो यदन्यदाशास्त ऋतात्मनोऽबुधः ।
यथा चरेद् बालहितं पिता स्वयं तथा त्वमेवार्हसि नः समीहितम् ॥ ३२ ॥
पदरत्नावली
इतोऽपि मोहित इत्याह– त्वन्माययेति ॥ अबुधो यो जन ऋतात्मनः सत्यात्मनो हरेः सकाशादन्यत् स्वर्गादिकमाशास्त इति यत् तस्मादेव त्वन्मायया खण्डितस्त्व-दुपास्तेर्वियोजित इत्यर्थः । अस्यामवस्थायां बहु प्रजल्पेन किम् ? इदमेव प्रार्थय इत्याह– यथेति ॥३२॥
प्रकाशिका
अनादित एव त्वदीयबन्धकशक्त्या मोहितस्य पुनर्वरं वृणीष्वेति मोहनं मृत-मारणमेवेत्याशयेनाह ॥ त्वन्माययेति । अद्धाऽनादिकालमारभ्याबुधो जनो ऋतात्मनो विकारशून्यस्य हरेः सकाशादन्यत्स्वर्गादिकमाशास्त इति यद् यस्मात्तस्मादेव त्वन्मायया बन्धकशक्त्या खण्डित-स्त्वद्भजनाद्वियोजितस्तं प्रत्येतादृशवचनं कृपालोस्तव नोचितमिति शेषः । तस्मादस्मद्धितमेव त्वया कार्यमित्याह ॥ यथेति । स्वयमविज्ञापित एव समीहितुं चेष्टितुमर्हसि ॥ ३२ ॥
श्रीभगवानुवाच –
साधु तेऽवसितं राजन्नाशास्ते न यदाशिषः ।
स्वर्गापवर्गनरकान् समं पश्यति मत्परः ॥ ३३ ॥
पदरत्नावली
पृथूक्तं श्रीपतिमनसि संविष्टमिति भावेन हरेस्तदुक्तिप्रशंसाप्रकारमाह– साध्विति ॥ साधूचितम् । इदमात्यन्तिकभक्तलक्षणमिति भावेनाह– स्वर्गेति ॥ नरकान्नरकान्तर-प्राप्तिसमये किंचिन्निवृत्तिः समत्वम् ॥ ३३ ॥
प्रकाशिका
आशिषो भवान् नाशास्त इति यद्यस्मात्तस्मात्ते त्वयाऽवसितं निश्चितं साधु । तत्किमित्यत आह ॥ स्वर्गेति । अपवर्गोऽपि भक्तिफलत्वेन दीयमानो हेयत्वेन स्वर्गादिसम इति । पश्यतीत्यर्थः । तथा च भगवानेव पुरुषार्थस्तदतिरिक्तं हेयमिति व्यवस्थितिरनेन दर्शितमिति ज्ञातव्यम्
॥ ३३ ॥
प्रीतोऽहं ते महाराज रोषं दुस्त्यजमत्यजः ।
श्रद्धधानो मदादेशं तन्मह्यं परमार्हणम् ॥ ३४ ॥
मैत्रेय उवाच–
इति वैन्यस्य राजर्षेः प्रतिनन्द्यार्थवद् वचः ।
पूजितोऽनुगृहीत्वैनं गन्तुं चक्रेऽच्युतो मतिम् ॥ ३५ ॥
देवर्षिपितृगन्धर्वसिद्धचारणपन्नगाः ।
किन्नराप्सरसोऽमर्त्याः खगा भूतान्यनेकशः ॥ ३६ ॥
पदरत्नावली
मद्भक्तस्य रोषत्याग एव मत्प्रीतिसाधनमित्याह– प्रीत इति ॥ प्रतिवचनं चेत् समाप्तं परं किमकारि हरिणेति तत्राह– इतीति ॥ हरिमनुगता देवादयः किं चक्रुः ? अत्राह– देवेति
॥ ३४-३६ ॥
प्रकाशिका
तन् मदादेशकारणम् ॥ ३४-३६ ॥
यज्ञेश्वरधिया राज्ञा वाग्वित्ताञ्जलिभक्तितः ।
सभाजिता ययुः सर्वे वैकुण्ठानुगतास्ततः ॥ ३७ ॥
भगवानपि राजर्षेः सोपाध्यायस्य पश्यतः ।
हरन्निव मनोऽमुष्य स्वधाम प्रत्यगात् प्रभुः ॥ ३८ ॥
तात्पर्यम्
‘भूतेषु हरिरित्येव हर्यर्पणधिया तथा । सर्वभूतेषु च हरेः पूजा कार्याऽऽत्म-वेदिभिः ।’ इति पाद्मे ॥ ३७ ॥
पदरत्नावली
सर्वप्राणिषु यज्ञेश्वरो हरिरवस्थितः । तदुक्तम्– ‘भूतेषु हरिरित्येव हर्यर्पणधिया तथा । सर्वभूतेषु च हरेः पूजा कार्यऽऽत्मवेदिभिः ॥’ इति । इदं सर्वं तदर्पणमस्त्विति धीर्यज्ञेश्वरधीस्तया सभाजिताः सम्भाविताः ॥ गन्तुं मन एव कृतं न तु गतमिति शङ्का माभूदित्याह– भगवानपीति
॥ ३७,३८ ॥
प्रकाशिका
यज्ञेश्वरधियेत्यस्य विवक्षितमर्थं प्रमाणेनैव दर्शयति ॥ भूतेष्विति । सर्वभूतेषु च हरेः पूजा कार्या । चशब्दः पृथुकृतप्रणामादिसमुच्चायकः । कया बुद्ध्या भूतेषु हरिर्नियामकतयाऽस्तीति धिया । एवशब्दो न भूतान्येव हरिरिति धियेत्यर्थः । अनेन यज्ञेश्वरो हरिः सदैव ऋष्यादिषु संनिहितः पूज्य इति धिया इति मूलव्याख्यानं सूचयति ॥ प्रकारान्तरेणापि तद्व्याख्याति ॥ हर्यर्पणेति । तथाशब्दः पूर्वोक्तसमुच्चायकः । हर्यर्पणधिया मयि स्थित्वा हरिरेव कारयितेति धियेत्यर्थस् तथा च स्वस्मिन्नपि यज्ञेश्वरधियेति मूलार्थ इति भावः । ततश्चायं श्लोकार्थः ॥ उक्तरीत्या यज्ञेश्वरधिया वाक्चित्ताञ्जलिभि-र्भक्तितः सभाजिताः पार्षदाश्च । ततः स्थानात् ॥ ३७,३८ ॥
अदृष्टाय नमस्कृत्य स्वस्य संदर्शितात्मने ।
वासुदेवाय देवानां देवाय स्वपुरं ययौ ॥ ३९ ॥
पदरत्नावली
राज्ञो यज्ञशालातः स्वपुरप्रस्थानप्रकारमाह– अदृष्टायेति ॥ अदृष्टाय चक्षुषोर-विषयाय । स्वस्य संदर्शितात्मने साक्षात्कारितस्वरूपाय ॥ ३९ ॥
॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुकृतायां
चतुर्थस्कन्धे विंशोऽध्यायः ॥
प्रकाशिका
अदृष्टाय चक्षोरविषयाय सन्दर्शित आत्मा येन तस्मै ॥ ३९ ॥
**॥ इति श्रीमद्वेदेशपूज्यपादशिष्येण यदुपतिना विरचितायां **
श्रीमद्भागवतटिप्पण्यां चतुर्थस्कन्धे विंशोऽध्यायः ॥ ४-२० ॥