१९ एकोनविंशोऽध्यायः

अथादीक्षत राजर्षिर्हयमेधशतेन सः

अथ एकोनविंशोऽध्यायः

मैत्रेय उवाच–

अथादीक्षत राजर्षिर्हयमेधशतेन सः ।

ब्रह्मावर्ते मनोः क्षेत्रे यत्र प्राची सरस्वती ॥ १ ॥

पदरत्नावली

ब्रह्मार्पितकर्मणा शुद्धान्तःकरणस्य पुंसो हरेरापरोक्ष्यं स्यादिति वेदयितुं पृथोर्यज्ञकरणव्याजेन हरेर्माहात्म्यं निरूप्यतेऽस्मिन्नध्याये । कर्मणा ज्ञानमातनोतीति श्रुतेः । तत्र प्रथमतः पृथोर्यज्ञदीक्षाप्रकारमाह– अथेति ॥ ‘घोटके वीथितुरगतुरङ्गाश्वतुरङ्गमाः । वाजिवाहावगन्धर्वहय-सैन्धवसप्तयः’ इत्यमरः । नाम्ना ब्रह्मावर्ते । ‘सरस्वतीदृषद्वत्योरन्तरं देवनिर्मितम् । ब्रह्मावर्तं मानवन्तं विदुर्देशं विचक्षणाः ॥’ इत्यभिधानम् । प्राचीमैन्द्रीं दिशमुद्दिश्य स्यन्दमाना ॥ १ ॥

प्रकाशिका

हयमेधशतेन निमित्तेनादीक्षत दीक्षितोऽभूत् । शताश्वमेध-संकल्पमकरोदित्यर्थः । ब्रह्मावर्ते ‘‘सरस्वतीदृषद्वत्योरन्तरं देवनिर्मितम् । ब्रह्मावर्तं मानवन्तं विदुर्देशं विचक्षणा’’ ॥ इति प्रमाणप्रसिद्धे प्राचीमैन्द्रीं दिशमुद्दिश्य स्यंदमाना ॥ १ ॥

तदभिप्रेत्य भगवान् कर्मातिशयमात्मनः ।

शतक्रतुर्न ममृषे पृथोर्यज्ञमहोत्सवम् ॥ २ ॥

पदरत्नावली

अत्रेन्द्रेण स्वनामाभिभूष्णौ यज्ञे क्रियमाणे कथं क्षान्तम् ? अत्राह– तदभि-प्रेत्येति ॥ २ ॥

प्रकाशिका

आत्मनः स्वस्य । कर्मातिशेतेत्यतिशयम् । स्वकृतक्रतुशतापेक्षयाऽतिशयोपेत-मभिप्रेत्य ज्ञात्वा तत्पृथोर्यज्ञमहोत्सवं न ममृषे न सेहे ॥ २ ॥

यत्र यज्ञपतिः साक्षाद् भगवान् हरिरीश्वरः ।

अन्वाहूयत सर्वात्मा सर्वलोकगुरुः प्रभुः ॥ ३ ॥

अन्वितौ ब्रह्मशर्वाभ्यां लोकपालैः सहानुगैः ।

उपगीयमानो गन्धर्वैर्मुनिभिश्चाप्सरोगणैः ॥ ४ ॥

पदरत्नावली

शतक्रतोः कर्मणोऽतिशयमाह– यत्रेति ॥ सर्वात्मा सर्वव्यापी ॥ निघण्टुवद् यज्ञपतिरित्यादिनाम्नां बहुत्वकथनेन किमेकेनागतेनेत्यत उक्तम्– अन्विताविति ॥ अनेनापि राजैश्वर्यं न द्योतितमित्यत उक्तम्– उपगीयमान इति ॥ ३,४ ॥

प्रकाशिका

अतिशयमेव दर्शयति ॥ यत्रेति सप्तभिः । सर्वात्मा सर्वव्यापी । अन्वाहूयत प्रत्यक्षेणादृश्यत ॥ ३,४ ॥

सिद्धा विद्याधरा दैत्या दानवा गुह्यकादयः ।

सुनन्दनन्दप्रमुखाः पार्षदप्रवरा हरेः ॥ ५ ॥

पदरत्नावली

गायकानां किञ्चिदनुगम्य स्वाभिप्रेतमुपेत्य पश्चादन्यतो गमनसम्भवादित्यतो यावद्गम्यमनुगन्तॄनाह– सिद्धेति ॥ ५ ॥

प्रकाशिका

सिद्धादयश्च तं हरिमन्वीयुरित्युत्तरेणान्वयः ॥ ५ ॥

कपिलो नारदो दत्तो योगेशाः सनकादयः ।

तमन्वीयुर्भागवता ये च तत्सेवनोत्सुकाः ॥ ६ ॥

पदरत्नावली

तत्त्वविदामनुगमनमेव तन्माहत्म्यद्योतकमित्यत उक्तम्– कपिल इत्यादि ॥ नित्यविरोधिनां दैत्यानामनुगमनं कथं सङ्गच्छत इत्यत उक्तम्– भागवता इति ॥ अनेन दैत्यादयो द्विविधाः सन्तीति ध्वनितम् । ये च तस्य हरेः सेवनोत्सुकास्ते चान्वीयुरिति ॥ ६ ॥

प्रकाशिका

भागवता इति विशेषणाद्दैत्यदानवाश्च भगवद्भक्ता एवात्र विवक्षिता इति सूचयति

॥ ६ ॥

यत्र धर्मदुघा भूमिः सर्वकामदुघा मही ।

दोग्धि स्माभीप्सितानर्थान् यजमानस्य भारत ॥ ७ ॥

पदरत्नावली

धर्मदुघा यज्ञयोग्यमयो दोग्धीति ॥ न केवलमेतावदेव किं तु सर्वकामदुधा । नैतत् स्तुतिमात्रमनुभवसिद्धमित्याह– महीति ॥ महित्वान्महनीयत्वाच्च मही ॥ ७ ॥

प्रकाशिका

धर्मदुघा यज्ञोपयुक्तपदार्थदोग्ध्री । न केवलमेतावत् । किन्तु सर्वकामदुघा ॥ ७ ॥

ऊहुः सर्वरसान् नद्यः क्षीरदध्यन्नगोरसान् ।

तरवो भूरिवर्ष्माणः प्रासूयन्त मधुच्युतः ॥ ८ ॥

सिन्धवो रत्ननिकरान् गिरयोऽन्नं चतुर्विधम् ।

उपायनान्युपाजह्रुः सर्वे लोकाः सपालकाः ॥ ९ ॥

पदरत्नावली

गोपालानां रसानां चतुर्विधान्नजनित्वेन कथं तत्सम्भव इत्यत्राह– ऊहुरिति ॥ अनेन नदीनां मूर्तिमत्त्वं लक्षयति । जलानां मूर्तिमधार्यमाणानां वोढुमसम्भवात् । ‘‘वर्ष्म देहप्रमाणयोः’’ इत्यभिधानात् स्थूलप्रमाणाः ॥ भक्ष्यं भोज्यं लेह्यं पेयं चेति चतुर्विधम् । व्ययार्थं द्रव्यं न कोशादुद्धार्यम् । किं तु सर्वैरानीतमेवालम् । प्रीत्यापि तस्यातिशुद्धत्वादिति भावेनाह– उपायनानीति ॥ ८,९ ॥

प्रकाशिका

ऊहुर्वहन्ति स्म । सर्वरसान् द्राक्षादिसर्वफलरसान्मधुरादीन्वा । क्षीरं च दधि चान्नं पायसादिरूपं गोरसो घृतं तक्रं च तान् । तरवः प्रासूयन्त । कथंभूताः । भूरीणि विस्तृतानि वर्ष्माणि शरीराणि येषां ते तथा । मधुच्युतोऽमृतस्राविणः । भक्ष्यं भोज्यं लेह्यं पेयं चेति चतुर्विधम् ॥ ८,९ ॥

इति चाधोक्षजेशस्य पृथोर्यज्ञमहोदयम् ।

असूयन् भगवानिन्द्रः प्रतिघातमचीकरत् ॥ १० ॥

पदरत्नावली

भूमण्डले कोऽप्यजातशत्रुर्नास्ति यतः श्रीनारायणैकदेवस्य पृथोरपि यज्ञविघ्नं शक्रोऽकरोदित्याह– इतीति ॥ इतिशब्दः प्रकारवचनः । उक्तप्रकारयज्ञे महोदयम् असूयन्नसहमानः । स्वार्थे वा यत्प्रत्ययः ॥ १० ॥

प्रकाशिका

अधोक्षज ईशो नाथो यस्य तस्य यज्ञमहोदयं यज्ञमहोत्सवमसूयन् असहमानः प्रतिघातं विघ्नम् ॥ १० ॥

चरमेणाश्वमेधेन यजमाने यजुष्पतिम् ।

वैन्ये यज्ञपशुं स्पर्धन्नपोवाह तिरोहितः ॥ ११ ॥

पदरत्नावली

कीदृशं विघ्नमकरोदित्यत्राह– चरमेणेति ॥ चरमेणान्त्येन शततमेन यज्ञेन यजुष्पतिं यजुर्मन्त्राधिदैवतं हरिं यजमाने सति । स्पृधु स्पर्धायामिति धातोः शतृप्रयोगेणात्मनः शतक्रतुत्वं तस्य पृथोरेकोनशतक्रतुत्वं हरेरभिप्रेतमिति ध्वनयन् इन्द्रो हरेरुल्लङ्घनं नाकरोदिति ज्ञायते । हरेरनभि-प्रेतत्वेऽश्वापहरणं तत्कटाक्षतो न क्षममिति । उत्तमश्लोकविग्रहाविति वक्ष्यमाणत्वात् ॥ ११ ॥

प्रकाशिका

चरमेणान्त्येन यजुष्पतिं सर्ववेदपालकं विष्णुं यजमाने सति स्पर्धन्स्पर्ध-मानस्तिरोहितः सन् अपोवाहापहृतवान् ॥ ११ ॥

तमत्रिर्भगवानैक्षत् त्वरमाणं विहायसा ।

आमुक्तमिव पाषण्डं योऽधर्मे धर्मविभ्रमः ॥ १२ ॥

अत्रिणा चोदितो हन्तुं पृथुपुत्रो महारथः ।

अन्वधावत संक्रुद्धस्तिष्ठ तिष्ठेति चाब्रवीत् ॥ १३ ॥

पदरत्नावली

नन्वेवं तर्हि ऋषीणां त्रिकालदर्शित्वख्यातिरपहस्तितेति तत्राह– तमत्रिरिति ॥ विहायसा गन्तुं त्वरमाणम् । पुनः किमाकारमद्राक्षीदित्यत उक्तम्– आमुक्तमिवेति ॥ पाखण्ड-रूपमामुक्तं गृहीतमिव स्थितम् । पाखण्डं लक्षयति– योऽधर्म इति ॥ जनानां ज्ञानदुर्बलानामधर्मे धर्मोऽयमिति विभ्रमो बुद्धिभ्रंशो यस्तत् पाखण्डरूपम् ॥ अत्रिणा दृष्टं चेत् प्रकृते किम् ? अत्राह– अत्रिणेति ॥ १२,१३ ॥

प्रकाशिका

विहायसाऽऽकाशमार्गेण त्वरमाणं धावन्तं पाषण्डं पाखण्डरूपमामुक्तम् । नित्य-गृहीतमिव स्थितम् । कोऽसौ पाखण्ड इत्यत आह ॥ अधर्म इति । अधर्मे धर्मोऽयमिति विभ्रमो भ्रान्तिर्यस्मात्स तथोक्तः ॥ १२,१३ ॥

तं तादृशाकृतिं वीक्ष्य मेनेऽधर्मशरीरिणम् ।

जटिलं भस्मना छन्नं तस्मै बाणं न मुञ्चति ॥ १४ ॥

पापान्निवृत्तं वै भूयो हन्तवेऽत्रिरचोदयत् ।

जहि यज्ञहनं तात महेन्द्रं विबुधाधिपम् ॥ १५ ॥

पदरत्नावली

अनुधावनेन प्रत्यावर्त्य शक्रेण सह युद्धमभूत् किम् ? नेत्याह– तमिति ॥ अधर्मशरीरिणं पापदेहिनं मेन इत्यन्वयः । मुञ्चति मुमोच । लटा पाखण्डिना सह युद्धं न धर्म इति सूचयति ॥ चोरक्रियामनुवर्तमानस्य पुंसो वधो न दोषायेति मुख्यधर्मविदुषा तत्र प्रेर्यमाणेन भवितव्यमिति जानन्नत्रिः पुनश्च तमचोदयदित्याह– पापान्निवृत्तमिति ॥ वैशब्देन पापशङ्कां निवारयति । गुरोर्वचनमौषधमिति श्रुतेः । विबुधाधिपत्यं चतुर्मुखस्याप्यस्तीत्यत उक्तम्– महेन्द्रमिति ॥ १४,१५ ॥

प्रकाशिका

न मुंचति न मुमोच ॥ १४,१५ ॥

एवं वैन्यसुतः प्रोक्तस्त्वरमाणं विहायसा ।

अन्वधावदतिक्रुद्धो रावणं गृध्रराडिव ॥ १६ ॥

पदरत्नावली

गृध्रराट् जटायुः ॥ १६ ॥

प्रकाशिका

गृध्रराट् जटायुः ॥ १६ ॥

सोऽश्वं रूपं च तद्धित्वा तस्थावन्तर्हितः स्वराट् ।

धीरः स्वपशुमादाय पितुर्यज्ञमुपेयिवान् ॥ १७ ॥

तत् तस्य चाद्भुतं कर्म विलक्ष्य परमर्षयः ।

नामधेयं ददुस्तस्मै विजिताश्व इति प्रभो ॥ १८ ॥

तात्पर्यम्

‘देवाः शक्तास्तु मोहाय दर्शयेयुरशक्तवत् । ऋषीणां चैव राज्ञां च नहि ते देवतासमाः । आज्ञया वा हरेः क्वापि कार्यतो वा क्वचित्क्वचित्’ इति गारुडे ॥ ‘प्रणिपातादिकं देवैर्ऋष्यादिषु जनार्दने । क्रियतेऽतो न तेषां हि तेजोभङ्गः कथञ्चन । अत्युत्तमानामवरे तेजो-भङ्गो न विद्यते । यथा नराणां तिर्यक्षु प्रायः साम्ये हि स स्मृतः’ ॥ इति स्कान्दे ॥ १७ ॥

पदरत्नावली

अत्रेन्द्रोऽसुरजनमोहाय स्वामशक्तिं दर्शयन्निवाभवदित्याह– सोऽश्वमिति ॥ तदुक्तम्– ‘देवाः शक्ताश्च मोहाय दर्शयेयुरशक्तवत् । ऋषीणां चैव राज्ञां च न हि ते देवतासमाः ॥ आज्ञया वा हरेः क्वापि कार्यतो वा क्वचित् क्वचित् ॥’ इति ॥ यत्र क्वापि तु देवैर्ऋष्यादिषु प्रणिपातादिकं क्रियते सोऽपि तत्स्थहरौ मनसा संकल्प्य क्रियत इति तात्पर्यं ज्ञातव्यम् । तदुक्तम्– ‘प्रणिपातादिकं देवैर्ऋष्यादिषु जनार्दने । क्रियतेऽतो न तेषां हि तेजोभङ्गः कथञ्चन ॥ अत्युत्तमानामवरे तेजोभङ्गो न विद्यते । यथा नराणां तिर्यक्षुः प्रायः साम्ये हि स स्मृतः ॥’ इति । ऋष्यादिषु स्थिते जनार्दने क्रियत इत्यर्थः ॥ इन्द्रं जितवता पृथोः पुत्रेण लोकसंमतं किं जयस्तम्भलक्षणं यशः प्राप्तम् ? अत्राह– तत् तस्येति ॥ १७,१८ ॥

प्रकाशिका

स इन्द्रोऽश्वं यज्ञपशुं तद्रूपं पाखण्डरूपं च हित्वाऽन्तर्हितः सन् तत्स्थौ । अत्रेन्द्रस्य पृथुपुत्रापेक्षयाऽशक्तता प्रतीयतेऽतोऽत्र विवक्षितं तात्पर्यं प्रमाणेनैव दर्शयति ॥ देवा इति । तुशब्दोऽप्यर्थः । ऋषीणां राज्ञां च सकाशात् । कुत एवं तात्पर्यं वक्तव्यमित्यत उक्तम् ॥ न हीति । यस्मात्ते ऋष्यादयो देवतासमा एव न कुत उत्तमा इत्याशयः । नन्वेवमधमेष्वत्युत्तमैर्देवैरशक्त्यादिप्रदर्शने तेषां तेजोभङ्गः प्राप्त इत्याशङ्कापरिहाराय प्रमाणं पठति ॥ प्रणिपातादिकमिति । आदिपदेनाशक्ति-प्रदर्शनं ग्राह्यम् । द्वितीयादिपदेन राजादेर्ग्रहणम् । जनार्दने । ऋष्याद्यन्तर्गतहरिमुद्दिश्येत्यर्थः । तेषां देवानाम् । कुत इत्यत आह ॥ अत्युत्तमानामिति । अवरे नीचतया लोकप्रसिद्धे विषये प्रणिपातादिना तेजोभङ्गो न विद्यते । तत्र हरिमात्रोद्देश्यत्वस्य सर्वैर्निश्चेतुं शक्यत्वादित्याशयः । अत्र दृष्टान्तमाह ॥ यथेति । तिर्यक्षु गवादिषु प्रणिपातादिना तेजोभङ्गो न विद्यते तथैवेति । तर्हि कुत्र भवतीत्यपेक्षाया-माह ॥ प्राय इति । स तेजोभङ्गः परस्परद्वेषिणोः साम्ये सति स तेजोभङ्गः स्मृतः । हीत्यत्रानुभवं प्रमाणयति । द्वेषाद्यभावे स नास्तीत्याशयेन प्राय इत्युक्तम् । प्रणिपातग्रहणं स्पृशन्तं पादयोः प्रेम्णेति वक्ष्यमाणेन्द्रकृतप्रणामस्यापि न तत्तेजोभङ्गकारित्वमिति प्रदर्शनाय ॥ १७,१८ ॥

उपसृज्य तमस्तीव्रं जहाराश्वं पुनर्हरिः ।

चषालयूपयोश्छन्नो हिरण्यरशनं विभुः ॥ १९ ॥

अत्रिः संदर्शयामास त्वरमाणं विहायसा ।

कपालखट्वाङ्गधरं वीरो नैनमबोधत ॥ २० ॥

अत्रिणा चोदितस्तस्मै सन्दधे विशिखं रुषा ।

सोऽश्वं रूपं च तद्धित्वा तस्थावन्तर्हितः स्वराट् ॥ २१ ॥

पदरत्नावली

पुंसा स्वकार्यसिद्धिपर्यन्तं प्रयत्नवता भाव्यमिति न्यायमनुसन्दधान इन्द्रः पूर्वस्मादधिकयत्नं विधाय दुर्जनमोहाय वेषान्तरं विधायाश्वमपाहार्षीदित्याह– उपसृज्येति ॥ हरिरिन्द्रः । चषालयूपयोरन्तर्मध्ये छन्नो निलीनः । ‘चषालो यूपकटकः कम्बासुगहनावृतिः’ इत्यभिधानाद् तक्षनिर्मितयूपे वलयश्चषालः । हिरण्येन रचिता रशना काञ्ची यस्य तम् ॥ वि कायाच्छिरसः पृथग्भावं कुर्वती शिखा यस्य स विशिखः । ‘वि निषेधे पृथग्भावे’ इति यादवः । एवंविधं शरं दृष्ट्वा किं पराद्रवदिन्द्रः ? न । किन्तु निलीनोऽभूद् रूपान्तरेण यज्ञान्तरायकरणायेत्याह– सोऽश्वमिति

॥ १९–२१ ॥

प्रकाशिका

उपसृज्य सृष्ट्वा । हरिरिन्द्रः । ‘‘चषालो यूपकटक’’ इत्यभिधानात् । दारुनिर्मित-यूपवलयश्चषालश्चषालयूपयोरन्तरे मध्ये छन्नः सन् हिरण्येन निर्मिता रशना काञ्ची यस्य तमश्वम् । विभुः समर्थः ॥ १९,२०,२१ ॥

वीरश्चाश्वमुपादाय पितृयज्ञमथाव्रजत् ।

तदवद्यं हरे रूपं जगृहुर्ज्ञानदुर्बलाः ॥ २२ ॥

पदरत्नावली

अन्तर्हित इत्यनेन गृहीतरूपं विसृज्य रूपेणान्तर्धानं गम्यते तत्र पूर्वरूपं किमभूत् ? अचेतनस्य चेतनसम्बन्ध एव हानादिक्रियासामर्थ्यमन्यथोच्छ्वसनीभूय नष्टं स्यात् । न तद्युक्तम् । देवकृतस्यान्यथात्वादर्शनात् । अत्राह– तदवद्यमिति ॥ हरेरिन्द्रस्य ज्ञानदुर्बला अन्यथा-ज्ञानिन इत्यर्थः ॥ २२ ॥

प्रकाशिका

हरेरिन्द्रस्य । ज्ञानदुर्बला अज्ञाः । अवद्यं निन्दितम् ॥ २२ ॥

यानि रूपाणि जगृहे इन्द्रो हयजिहीर्षया ।

तानि पापस्य षण्डानि१ लिङ्गं षण्डमिहोच्यते२ ॥ २३ ॥

एवमिन्द्रे हरत्यश्वं वैन्ययज्ञजिघांसया ।

तद्गृहीतविसृष्टेषु पाषण्डेषु मतिर्नृणाम् ॥ २४ ॥

पदरत्नावली

रूपस्यावद्यत्वमाह– यानीति ॥ खण्डानि लिङ्गानि । खण्डः समुदायः किमित्यत उक्तम्– लिङ्गमिति ॥ खण्डपदस्य समुदायवाचित्वेऽपीहास्मिन् प्रकरणे खण्डशब्देन लिङ्गमुच्यते । अभ्यर्हितत्वादुभयोः समुदायवाचित्वात् । ‘लिङ्गं शेफसि वेषे च चिह्ने बुद्ध्यादिसंहतौ’ इत्यभिधानात् । संहतिः समुदाय इत्यर्थः । पापस्य वेषो वा । अप्यक्षरसाम्यान्निर्ब्रूयादिति निरुक्ति-कारवचनादेकेनापि प्रकारेण विवक्षितार्थसिद्धिः स्फुटेति ॥ साम्प्रतं ये वर्तमानाः पाखण्डा एतन्मूला इत्याह– एवमिति ॥ मतिरभिरुचिरभूदिति शेषः ॥ २३,२४ ॥

प्रकाशिका

इन्द्रगृहीतरूपेषु पाषण्डशब्दं निर्वक्ति ॥ यानीति । पाषण्डशब्दार्थं स्वयमेवाह ॥ लिङ्गमिति । इहास्मिन्नवसरे । तथा च पाशब्दः पापपरः । नामैकदेशे नामग्रहणमिति वचनात् । तस्य षण्डं लिङ्गं ज्ञापकं रूपं पाषण्डमिति निरुक्तमिति ज्ञातव्यम् ॥ २३,२४ ॥

धर्म इत्युपधर्मेषु नग्नरक्तपटादिषु ।

प्रायेण सज्जते भ्रान्त्या पेशलेषु च वाग्मिषु ॥ २५ ॥

तदभिज्ञाय भगवान् पृथुः पृथुपराक्रमः ।

इन्द्राय कुपितो बाणमादत्तोद्यतकार्मुकः ॥ २६ ॥

तात्पर्यम्

‘धर्मोपमस्त्वधर्मोय उपधर्मः स उच्यते’ । इति हरिवंशेषु ॥ २५ ॥

पदरत्नावली

कथम् ? धर्म इति निरूप्य । स्वयं किंरूपेषु ? उपधर्मेषु । स्वतोऽधर्मत्वेऽपि उपमितधर्मेषु । तदुक्तम्– ‘धर्मोपमस्त्वधर्मो य उपधर्मः स उच्यते’ इति । चक्षुर्विषयं लक्षणमाह– नग्नेति ॥ आदिशब्देन कन्यानरकपालढक्कादिमत्त्वं गृह्यते । तेषामनुत्सादनमाह– प्रायेणेति ॥ सङ्गे निमित्तमाह– पेशलेष्विति ॥ पेशलेष्वविचाररमणीयेषु । एतदपि कुत इत्यत उक्तम्– वाग्मिष्विति ॥ कुतर्कबंृहितशास्त्रवाचालेषु ॥ एवमस्यामवस्थायां पृथुना कृतः पराक्रमो न श्रूयते इति तत्राह– तदभिज्ञायेति ॥ २५,२६ ॥

प्रकाशिका

तेनादौ गृहीतेषु पश्चाद्विसृष्टेषु धर्म इति मतिः सज्जते इत्यन्वयः । कथं भूतेषूप-धर्मेषु । अत्रोपधर्मशब्दस्य प्रकृतमर्थं प्रमाणेनैव दर्शयति ॥ धर्मोपम इति । तुशब्दोऽवधारणे । धर्मोपम एव धर्मवत्प्रतीयमान एव यो धर्मः स इत्यर्थः । तथा च वस्तुतोऽधर्मेषु धर्मोपमतया प्रतीय-मानेष्वित्युपधर्मेष्विति भावः । तानि रूपाणि दर्शयति ॥ नग्नेति । नग्ना जैनादयः । रक्तपटा बौद्धा आदिशब्दात्कापालिकादीनां ग्रहणम् । भ्रान्त्या पेशलेष्वापाततो रम्येषु वाग्मिषु हेतूक्तिचतुरेषु

॥ २५,२६ ॥

तमृत्विजः शक्रवधाभिसन्धितं विचक्ष्य दुष्प्रेक्ष्यमसह्यरंहसा ।

निवारयामासुरहो महामते न युज्यतेऽत्रान्यवधोऽप्रचोदितात्१ ॥ २७ ॥

पदरत्नावली

विहितहिंसां विनाऽन्यहिंसोद्यमे तत्त्वविदो निद्रिताः किम् ? तत्राह– ऋत्विज इति ॥ कुतो न युक्त इत्यत उक्तम्– अप्रचोदित इति ॥ अविहितत्त्वात् ॥ २७ ॥

प्रकाशिका

शक्रवधेऽभिसन्धितं कृताभिप्रायम् । अप्रचोदिताद्वध्यतयाऽविहितात् । अत्रान्यस्य वधो न युज्यते । अप्रचोदित इति पाठे यत इति शेषः । यजमानेनान्यवधो न कार्य इति चोदनाविरुद्धत्वादित्यर्थः ॥ २७ ॥

वयं मरुत्वन्तमिहार्थनाशनं ह्वयामहे त्वच्छ्रवसा हतत्विषम् ।

अयातयामोपहवैस्तमग्नये प्रसह्य राजन् जुहवाम तेऽहितम् ॥ २८ ॥

पदरत्नावली

कथं तर्हि तन्निग्रहोपाय इति तत्रोच्यते– वयमिति ॥ अयातयामोपहवैरन्यत्रा-प्रयुक्तत्वेनागतसारैर्मन्त्रैः । मरुत्वन्तमिन्द्रम् । अर्थनाशनं यज्ञाख्यप्रयोजनद्रुहम् । आहूय किं कुर्वन्तीति तत्रोच्यते– तमग्नय इति । ते तवाहितम् ॥ २८ ॥

प्रकाशिका

तर्हि वैरिनिवारणं कथं स्यादित्यत आहुः ॥ वयमिति । मरुत्वन्तमिन्द्र-मयातयामा अगतसाराश्च ते उपह्वाश्चाह्वानमन्त्राश्च तैर्ह्वयामहे । अनन्तरं ते तवाहितमग्नये जुहवाम होष्यामः ॥ २८ ॥

इत्यामन्त्र्य क्रतुपतिं विदुरास्यर्त्विजो रुषा ।

स्रुङ्न्यस्तं जुह्वतोऽभ्येत्य स्वयंभूः प्रत्यषेधत ॥ २९ ॥

पदरत्नावली

नन्विन्द्रे निधनं गते यज्ञ एव न स्यात् । मन्त्राणां तद्विषयत्वात् । ‘मरुत्वन्तं सख्याय हवामहे’ इति श्रुतेः । अतोऽत्र धर्मरहस्यवेदी कोऽपि नाभूदिति सभादोषं परिहरतो ब्रह्मण उक्तिप्रकारं वक्ति– इतीति ॥ क्रतुपतिं पृथुम् । अस्य पृथोः संबन्धिनः स्नुङ्न्यस्तं हविः । मन्त्रशक्त्येति शेषः ॥ २९ ॥

प्रकाशिका

क्रतुपतिं पृथुम् । मन्त्रबलेन स्नुङ्न्यस्तं स्रुचि स्थापितमिन्द्रं जुव्हतोऽस्य पृथोः सम्बन्धिनो ऋत्विजोऽभ्येत्येत्यन्वयः ॥ २९ ॥

न वध्यो भवतामिन्द्रो यद् यज्ञो भगवत्तनुः ।

१न जिघांसत यज्ञेन यस्येष्टास्तनवः सुराः ॥ ३० ॥

पदरत्नावली

किमाकारः प्रतिषेध इति तत्राह– न वध्य इति ॥ कुतो न वध्य इत्यत उक्तम्– यद् यज्ञ इति ॥ यद् यस्माद् भगवतो हरेस्तनुर्यज्ञः । अनेनेन्द्रस्यावध्यत्वे किमायातम् ? अत्राह– यस्येति ॥ सुरा इन्द्राद्या हरेरिष्टास्तनवो विशेषसन्निधानयोग्या यस्मात् तस्मात् तस्येष्ट-तनुत्वादस्मिन् यज्ञे २तमिन्द्रं न जिघांसत । इन्द्रजिघांसया हरेरप्रीत्या यज्ञ एव न स्यादित्यर्थः । यद्वा यज्ञो भगवत इन्द्रस्य तनुर्यदत्रेष्टाः सुराश्च यस्येन्द्रस्य तनवस्तस्मादस्मिन् यज्ञे तं न जिघांसतेति ॥३०॥

प्रकाशिका

प्रतिषेधकारणमेवाह ॥ न वध्य इति । कुतो न वध्य इत्यत उक्तम् ॥ यद्यज्ञ इति । यद्यस्माज्ञः भगवत इन्द्रस्य तनुःरिव तनुप्रतीकः । यज्ञेनेष्टाः सुराश्च यस्येन्द्रस्य तनवस् तस्मात्तं न जिघांसत । तद्धिंसायां यज्ञप्रवृत्तिरेव न स्यादित्याशयः ॥ ३० ॥

तदिदं पश्यत महद् धर्मव्यतिकरं द्विजाः ।

इन्द्रेणानुष्ठितं राज्ञः कर्मैतद्धि जिघांसया ॥ ३१ ॥

पदरत्नावली

भीषयन्निव वक्ति– तदिदमिति ॥ इन्द्रेण शतक्रतुत्वहानिलक्षण-मित्ये-तदनुष्ठितमिति ध्वनयति– इन्द्रेणेति ॥ पृथो राज्ञ एतत्कर्म जिघांसया ॥ ३१ ॥

प्रकाशिका

इतःपरं तेन सख्यमेव सम्पाद्यमन्यथा पुनः पाषण्डान्स्रक्ष्यतीत्याशयेनाह ॥ तदिद-मिति । महतां सम्बन्धिनो धर्मस्य व्यतिकरो व्यत्यासो यस्मिंस्तद्राज्ञ एतत्कर्मजिघांसयेन्द्रेणानुष्ठितमिदं तत्संप्रदायाल्लोके प्रवृत्तं च पाषण्डं पश्यत ॥ ३१ ॥

पृथुकीर्तिः पृथो भूयास्त्वं ह्येकोनशतक्रतुः ।

अलं ते क्रतुभिः शिष्टैर्यद् भवान् मोक्षधर्मवित् ॥ ३२ ॥

पदरत्नावली

इदानीं पृथुमभिवदति– पृथुकीर्तिरिति ॥ हे पृथो त्वमेकोनशतक्रतुरिति पृथुकीर्तिः प्रख्यातकीर्तिर्भूया इत्यन्वयः । हिशब्देन त्वमेवैवंविधकीर्तिमान् नान्य इति स्फोटयति । शक्रः शतक्रतुर्भूयादहं त्वदाज्ञया एकोत्तरशतक्रतुर्भूयासमित्येवमभिसन्धिः स्यात् । अत्राह– अलं त इति ॥ ते शिष्टैरेकद्वित्रैः क्रतुभिरधिकः स्यामिति बुद्धिरलं तिष्ठतु । ‘अलं तु भूषणे शक्तौ पर्याप्तौ विनिवारणे’ इति यादवः । तवैतदेव भूषणमिति भावेनाह– यद् भवानिति ॥ मोक्षधर्मस्तारतम्यादिलक्षणस्तं वेत्तीति यद् यस्मात् तस्मात् । निवृत्तिधर्मज्ञ इति वा । अनेन पृथुजीवादिन्द्रस्यात्युत्तमत्वं सूचितमिति ज्ञायते

॥ ३२ ॥

प्रकाशिका

सख्यसंपादनमेव कथं भविष्यतीत्याशङ्कायां चरमयज्ञाकरणेनैवेत्याशयेन पृथुं प्रति वक्ति ॥ पृथुकीर्तिरिति । हे पृथो । त्वमेकोनशतक्रतुरिति पृथुकीर्तिः प्रख्यातकीर्तिर्भूया इत्यन्वयः । एकोनत्वेऽपि तव कीर्तिर्भूयसी भविष्यतीति भावः । तर्हि मद्योग्यानन्दाविर्भावलक्षणा मुक्तिः कथं स्यादित्यत आह ॥ अलमिति । ते त्वया शिष्टैः कृतुभिर् एकोनशतैरेव ते स्वरूपम् अलं पूर्णं भविष्यति । अधिकयत्नेन तव दोषश्च स्यादित्याशयेनाह ॥ यद्भवानिति । स्वस्वरूपयोग्यमुक्त्यर्थमधिको यत्नो न कार्य इति धर्मविदित्यर्थः ॥ ३२ ॥

नैवात्मने महेन्द्राय रोषमाहर्तुमर्हसि ।

उभावपि हि भद्रं ते उत्तमश्लोकविग्रहौ ॥ ३३ ॥

पदरत्नावली

फलितमाह– नैवात्मन इति ॥ त्वत्सन्निहितहरेर्विशेषनिवासहेतुत्वाद् आत्मन इत्युक्तम् । एतदेव विशिनष्टि– उभाविति ॥ उत्तमश्लोकस्य हरेर्विशेषस्थितिहेतुविग्रहो देहो ययोस्तौ । तुभ्यं भद्रमस्तु । हरेः सन्निधानविशेषपात्रत्वादन्योन्यं जयपराजयौ न वक्तव्यौ ॥ ३३ ॥

प्रकाशिका

स्वोत्तमद्रोहोऽपि तव नोचित इत्याशयेनाह ॥ नैवेति । आत्मने स्वामिने । अनेनेन्द्र उत्तम इति सूचयति । रोषं द्वेषमाहर्तुं संपादयितुम् । उभयोरपि हरिविशेषावेशस्योक्तत्वा-त्परस्परं द्वेषो न युक्त इत्याशयेनाह ॥ उभावपीति । तस्माद्वेषपरित्यागेन ते भद्रं भविष्यति ॥ ३३ ॥

मास्मिन् महाराज कृथाः स्म चिन्तां निशामयास्मद्वच आदृतात्मा ।

यद् ध्यायतो दैवहतं तु कर्तुं मनोऽतिकष्टं विशते तमोऽन्धम् ॥ ३४ ॥

पदरत्नावली

रोषशमनमेव कर्तुमुचितम् । अन्यथा चिन्तया देहनाशस्तव स्यादित्याह– मास्मिन्निति ॥ यद् दैवहतं कार्यं तत् कर्तुमुपायं ध्यायतः पुंसो मनोऽतिकष्टमन्धन्तमो विशते । तुशब्देन लोकद्वयेऽप्यनर्थपरंपरां सूचयति । हेत्वर्थो वा । तस्मादस्मिन् कार्ये चिन्तां स्मृत्वा मा कृथा इत्यन्वयः । ‘स्मृते वृत्ते निषेधे स्म’ इति यादवः । अथैतत् कुर्वित्याह– निशामयेति ॥ निशामय शृणु ॥ ३४ ॥

प्रकाशिका

एवमुक्तेऽप्यारब्धक्रतुसमाप्तिर्न जातेति चिन्तयन्तं राजानं प्रत्याह ॥ मास्मिन्निति । अस्मिंश्चरमयज्ञविषये न समाप्त इति चिन्तां मा कृथाः । निशामय शृृणु । यद्यस्माद्दैवहतं कार्यं तत्कर्तु-मुपायं ध्यायतः पुंसो मनोऽतिकष्टमतिशयेन कष्टं यस्मात्तत् । अन्धयतीत्यन्धं तमो मोहं विशते । तस्माच्चिन्तां मा कृथाः ॥ ३४ ॥

क्रतुर्विरमतामेष देवेषु दुरवग्रहः ।

धर्मव्यतिकरो यत्र पाषण्डैरिन्द्रनिर्मितैः ॥ ३५ ॥

पदरत्नावली

किं तत् ? अत्राह– ऋतुरिति ॥ न केवलं क्रतोर्विरामेण पूर्यते किं तु देवेषु दुःखग्रहो विरमताम् । देवेषु कुपितेषु त्वद्राष्ट्रे वृष्टिविघातोऽपि स्यादतस्तद्दुरवग्रहविरामः कर्तव्य इत्यर्थः । क्रतुविशेषणं वा । कुपितदेवविषयो दुष्टोऽवग्रह यस्मात् स तथा । देवप्रीत्या सुवृष्ट्यर्थं पुरुषै-र्यज्ञोऽनुष्ठीयते । तत्र देवप्रतिहते क्रतौ क्रियमाणे तदप्रीत्याऽनावृष्ट्यां व्रीह्याद्यौषध्यनुत्पत्त्याऽन्नाभावेन प्राणिनां प्राणधारणोपायाभावेन देहवियोगलक्षणो विनाशः स्यादिति । ‘व्याङ्परिभ्यो रमः’ इत्यनेन विहितपरस्मैपदप्रयोगं विहाय स्वार्थहानिसूचनाय विरमतामित्यात्मनेपदप्रयोगः । इतोऽपि क्रतुर्विरम-त्वित्याह– धर्मव्यतिकर इति ॥ यत्र यस्मिंश्चरमाश्वमेधे क्रियमाणे सति इन्द्रनिमित्तैः पाखण्डैर्धर्म-व्यतिकरोऽधर्मे धर्मबुद्ध्या धर्मनाशः स्यात् ॥ ३५ ॥

प्रकाशिका

तस्माद्दैवहतमिमं यज्ञं कर्तुमाग्रहस्त्याज्य इत्याह ॥ क्रतुरिति । यतः क्रतोर्देवेषु तव दुरवग्रहो भविष्यति । एष यज्ञकरणे तव धर्मविलोपश्च स्यादित्याह ॥ धर्मव्यतिकर इति । यत्र क्रतुकरणे धर्मस्य व्यतिकरो व्यत्यासः । लोप इति यावत् । भविष्यति ॥ ३५ ॥

एभिरिन्द्रोपसंसृष्टैः पाखण्डैर्हारिभिर्जनम् ।

ह्रियमाणं विचक्ष्वैतद् यस्ते यज्ञध्रुगश्वमुट् ॥ ३६ ॥

पदरत्नावली

धर्मव्यतिकरं प्रत्यक्षतोऽपि पश्येत्याह– एभिरिति ॥ हारिभिर्वशीकरणसमर्थै-र्ह्रियमाणं संगृह्यमाणमेतत् कर्म विचक्ष्व पश्य । कोऽसाविन्द्र इत्यत आह– य इति ॥ यज्ञं द्रुह्यतीति यज्ञध्रुक्, अश्वं मुष्णातीति अश्वमुट्, स इन्द्र इत्यर्थः ॥ ३६ ॥

प्रकाशिका

वर्तमानमपि पश्येत्याह ॥ एभिरिति । हारिभिर्मनोहारिभिर्ह्रीयमाणं संगृह्यमाण-मेतत्कर्म विचक्ष्व पश्य । कोऽसाविन्द्र इत्यत उक्तम् ॥ य इति । यज्ञं द्रुह्यतीति यज्ञध्रुक् । अश्वं मुष्णातीत्यश्वमुट् स इन्द्र इत्यर्थः ॥ ३६ ॥

भवान् परित्रातुमिहावतीर्णो धर्मं च नानासमयानुरूपम् ।

वेनापचारादवलुप्तमद्य तद्देहतो विष्णुकलाऽसि वैन्य ॥ ३७ ॥

पदरत्नावली

धर्मावनार्थमवतीर्णत्वाच्च तस्य नाशप्रयत्ने महानतिक्रम इत्याशयेनाह– भवानिति ॥ चशब्दो धर्मविरोधिपरिहारार्थमपीति ग्राह्यम् । नानासमयानुरूपं नानाविधशास्त्रानुसृतं वेनापचाराद् वेनाख्यापचारादवलुप्तं नष्टम् । तस्य वेनस्य देहतः । अहं क इति भ्रान्तिर्माभूदित्यत-स्तत्स्वरूपमुपदिशति– विष्णुकलेति ॥ हे वैन्य अनेन विष्णोः सत्त्वेन स्थितिहेतुत्वात् तत्कला-विशिष्टत्वात् तद्धर्मविरुद्धाचरणं न युक्तमिति सूचयति ॥ ३७ ॥

प्रकाशिका

अस्तु धर्मनाशस्तेन मम किमनिष्टमित्यत आह ॥ भवानीति । नानासमयानुरूपं नानाशास्त्रानुसारिणं वेनापचाराद्वेनकृतादन्यायादवलुप्तं नष्टम् । तस्य वेनस्य देहतः । विष्णुकलाऽसि विष्ण्वाविष्टविभिन्नांशोऽसि । अनेन विष्णोः पालकत्वात्तदाविष्टस्य तवापि धर्मपालकत्वमुचितमिति सूचयति ॥ ३७ ॥

स त्वं विमृश्याभिभवं प्रजापतेः सङ्कल्पितं विश्वसृजोऽतिपीपृहि ।

ऐन्द्रीं च मायामुपधर्ममातरं प्रचण्डपाखण्डपथं प्रभो जहि ॥ ३८ ॥

पदरत्नावली

उक्तोपसंहारमुखेन कर्तव्यं विधत्ते– स त्वमिति ॥ यस्माद् धर्मावनार्थ-मवतीर्णोऽसि तस्मात् स त्वं प्रजापतेरिन्द्रस्याभिभवं त्वच्चिकीर्षितं शतक्रतुत्वं विमृश्य मदनुष्ठिते धर्मविरोधः स्यादिति मया तन्न कार्यमिति विचार्य विश्वसृज इन्द्रस्य संकल्पितं पृथुना शतक्रतुत्वं न विधेयमिति निरूपितमतिपीपृहि अत्यन्तं पूरयेत्यन्वयः । इन्द्रस्य विरोधाकरणेऽभितः सर्वतो भवं शुभं भवतीति विमृश्य विश्वसृजः प्रजापतेर्मम तवैकोनशतक्रतुत्वं संङ्कल्पितमतिपीपृहीति वा । पृ पालन-पूरणयोरिति धातुः । प्रचण्डस्य पाखण्डस्य पन्थानमैन्द्रीमिन्द्रनिर्मितामुपधर्मस्य मातरं जनयित्रीं मायां च जहि विशिष्टधर्माचरणेन विनाशयेत्यन्वयः ॥ ३८ ॥

प्रकाशिका

मम सर्वप्रजापतित्वाद्विश्वसृष्ट्रत्वाच्च मदभीष्टं त्वया कार्यमन्यथा मम तिरस्कारस्त्वया कृतः स्यादित्याशयेनाह ॥ स त्वमिति । यो धर्मत्राणायावतीर्णः स त्वं प्रजापतेर्ममाभिभवं तिरस्कारम् । मद्वचनाकरणे इति शेषः । विमृश्य विचार्येन्द्र एव शतक्रतुर्नान्य इति विचार्य विश्वसृजो विष्णोर्मम वा सङ्कल्पितं मदभीष्टमतिपीपृह्यत्यन्तं पूरय । पृ पालनपूरणयोरिति धातुः । प्रचण्डपाषण्डस्य पन्थानं मार्गभूतामैन्द्रीमिन्द्रनिर्मिताम् । उपधर्मस्य धर्मवत्प्रतीयमानस्याधर्मस्य मातरं जनयित्रीं मायां च जहि । तन्नाशकं सद्धर्मं प्रवर्तयेत्याशयः ॥ ३८ ॥

मैत्रेय उवाच–

इत्थं स लोकगुरुणा समादिष्टो विशांपतिः ।

तथाच कृतवान् सख्यं मघोनाऽपि च सन्दधे ॥ ३९ ॥

पदरत्नावली

सत्विकप्रधानत्वात् पृथुना चतुर्मुखोक्तं गृहीतमित्याह– इत्थमिति ॥ मघो-नेन्द्रेण ॥ ३९ ॥

प्रकाशिका

आद्यश्चशब्दोऽवधारणे । तथैव कृत्वा यज्ञगृहं हित्वा सख्यं स्नेहं च कृत्वा मघोनाऽपि इन्द्रेणापि । स्वानिष्टकरणे उद्यतेनापीत्यपिशब्दार्थः । सन्दधे सन्धानं कृतवान् ॥ ३९ ॥

कृतावभृथ्यस्नानाय पृथवे भूरिकर्मणे ।

वरान् ददुस्ते वरदा ये तद्बर्हिषि तर्पिताः ॥ ४० ॥

विप्राः सत्याशिषस्तुष्टाः श्रद्धया लब्धदक्षिणाः ।

आशिषो युयुजुः क्षत्तरादिराजाय सत्कृताः ॥ ४१ ॥

तथाऽऽहतामहाबाहो सर्व एव समागताः ।

पूजिता दानमानाभ्यां पितृदेवर्षिमानवाः ॥ ४२ ॥

पदरत्नावली

यज्ञान्तोऽवभृथस्तत्प्रभवमावभृथ्यं स्नानं येन स तथोक्तस्तस्मै ॥ एतदेव विशिनष्टि– विप्रा इति ॥ सत्याशिषोऽभीष्टसाधनसमर्थशुभवाक्यप्रबन्धाः । आशीर्दानलक्षण एव फलाविर्भावप्रदर्शनाय युयुजुरित्युक्तम् । फलनित्यसंबन्धार्थं वा । ददातेः कालान्तरेऽपि फलप्राप्तिसंशयहेतुत्वसम्भवात् ॥ ४०,४१ ॥

॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुकृतायां

चतुर्थस्कन्धे एकोनविंशोऽध्यायः ॥

प्रकाशिका

यज्ञान्तोऽवभृतस्तत्सम्बन्धिस्नानमावभृथ्यं कृतमावभृथ्यं येन स तथोक्तस्तस्मै । तर्पिता देवा इति शेषः ॥ ४०,४१ ॥

**॥ इति श्रीमद्वेदेशपूज्यपादशिष्येण यदुपतिना विरचितायां **

श्रीमद्भागवतटिप्पण्यां चतुर्थस्कन्धे एकोनविंशोऽध्यायः ॥ ४-१९ ॥