१८ अष्टादशोऽध्यायः

इत्थं पृथुमभिष्टूय रुषा प्रस्फुरिताधरम्

अथाष्टादशोऽध्यायः

मैत्रेय उवाच–

इत्थं पृथुमभिष्टूय रुषा प्रस्फुरिताधरम् ।

पुनराहावनिर्भीता संस्तभ्यात्मानमात्मना ॥ १ ॥

पदरत्नावली

स्वरूपभूता गुणा हरेरपरोक्षज्ञानाद् व्यज्यन्त इत्येतदर्थसंग्रहार्थं भूमेस्तत्तद्वसुदोहनं निरूप्यतेऽस्मिन्नध्याये । तत्रादौ पृथोः क्रोधशमनाय पुनर्भूमेस्तं प्रति वचनप्रकारं वक्ति– इत्थमिति ॥१॥

प्रकाशिका

आत्मना स्वेनैवात्मानं मनः संस्तभ्य स्थिरीकृत्य ॥ १ ॥

सन्नियच्छ विभो मन्युं विबोध श्रावितं च मे ।

सर्वतः सारमादत्ते यथा मधुकरो बुधः ॥ २ ॥

पदरत्नावली

कथं नियच्छामि क्रोधं, येन तच्छान्तिहेतुं श्रुत्वाऽऽर्द्रान्तःकरणो भवामीति तत्राह– निबोधेति ॥ पुंसेह सद्धर्म एव शिक्षणीयो, न सल्लिकाधर्म इत्याशयेनाह– सर्वत इति ॥ २ ॥

प्रकाशिका

श्रावितं विज्ञापितम् । मद्वाक्येऽनादरः न कर्तव्य इत्याशयेनाह ॥ सर्वत इति ॥ २ ॥

अस्मिंल्लोकेऽथवाऽमुष्मिन् मुनिभिस्तत्त्वदर्शिभिः ।

दृष्टा योगाः प्रयुक्ताश्च पुंसां श्रेयःप्रसिद्धये ॥ ३ ॥

पदरत्नावली

कीदृशं श्राव्यते यत् प्रकृतोपयोगि स्याद् ? अत्राह– अस्मिन्निति । लोके कृष्यादिश्रेयःसिद्धये बीजाद्यर्जनोपायाः, अमुष्मिन् स्वर्गादौ यागादियोगास्तत्वदर्शिभिर्मुनिर्भिदृष्टाः प्रयुक्ताश्चेत्यन्वयः ॥ ३ ॥

प्रकाशिका

मयि जीर्णा औषधीरुपायेन गृहाणेति वक्तुमुपायेनैव सर्वं सिद्ध्यति नान्यथेति तावदाह ॥ अस्मिन्निति त्रिभिः । पुंसां श्रेयसः पुरुषार्थस्य सिद्धये प्राप्त्यै अस्मिन् लोके कृष्यादयोऽ-मुष्मिन् लोकेऽग्निहोत्रादयो योगा उपाया दृष्टाः प्रयुक्ता अनुष्ठिताश्च ॥ ३ ॥

तानातिष्ठति यः सम्यगुपायान् पूर्वदर्शितान् ।

अपरः श्रद्धयोपेत उपायान् विन्दतेऽञ्जसा ॥ ४ ॥

पदरत्नावली

ततः किमित्यतोऽन्वयव्यतिरेकावाह– तानातिष्ठतीति ॥ ४ ॥

प्रकाशिका

पूर्वैर्दर्शितान् । अपरोऽर्वाचीनः ॥ ४ ॥

ताननादृत्य योऽविद्वानर्थानारभते स्वयम् ।

तस्य व्यभिचरन्त्यर्थाः प्रारब्धाश्च पुनः पुनः ॥ ५ ॥

पदरत्नावली

अविद्वानव्युत्पन्नः । व्यभिचरन्ति नियमेन न सिद्ध्यन्ति ॥ ५ ॥

प्रकाशिका

व्यभिचरन्ति न सिद्ध्यन्ति ॥ ५ ॥

पुरा सृष्टाश्चौषधयो ब्राह्मणाय विशांपते ।

भुज्यमाना मया दृष्टा असद्भिरधृतव्रतैः ॥ ६ ॥

अपालिता नादृतास्ता भवद्भिर्लोकपालकैः ।

चोरीभूतेऽथ लोकेऽहं यज्ञार्थेऽग्रसमौषधीः ॥ ७ ॥

पदरत्नावली

किं कथाकथनेन । अधुनौषधीनामनुपलम्भः । तस्मात् तन्निमित्तं कथयेति तत्राह– पुरेति ॥ याः पुरा विरिञ्चेन सृष्टास्ता ओषधीरहमग्रसमित्यन्वयः । असत्पुरुषैर्भुज्यमानत्वं भवादृशेन क्षत्रियेणारक्षितत्वमगोपितत्वं, नृलोकस्य चोरप्रायत्वं चावेक्ष्य सत्सूत्पन्नेषु श्रीनारायण-पूजालक्षणयज्ञप्रयोजनस्यावश्यकत्वादिति ॥ ६,७ ॥

प्रकाशिका

इदानीं सहेतुकमुपायमाह ॥ पुरेति षड्भिः । भवद्भिर्भवादृशैरपालिता-श्चोराद्य-निवारणात् । अनादृता यज्ञादिप्रवृत्त्यभावात् । यज्ञार्थे उत्तरत्र यदा सन्तो राजानो भविष्यन्ति तदा पुनर्यज्ञप्रवृत्त्यर्थमग्रसं गिलितवती ॥ ६,७ ॥

नूनं ता वीरुधः क्षीणा मयि कालेन भूयसा ।

१तत्र दृष्टेन योगेन भवानादातुमर्हति ॥ ८ ॥

पदरत्नावली

तर्हि ता देहीति तत्राह– नूनमिति ॥ क्षीणानामापादनं दुःसाध्यमिति तत्राह– शास्त्रदृष्टेन । ननु स्वरूपतो नष्टा उत लघुतामापन्ना इति संशयो मा भूत् । तत्तत्कार्यसाधने तच्छास्त्र दृष्टोपायेन सर्वं साध्यम् ॥ ८ ॥

प्रकाशिका

तर्हि ता इदानीं देहीत्यत आह ॥ नूनमिति । क्षीणा जीर्णाः क्षीररूपेण परिणता इत्यर्थः । तत्र तस्मिन्विषये । दृष्टेन शास्त्रदृष्टेन योगेनोपायेन ॥ ८ ॥

वत्सं कल्पय मे वीर येनाहं वत्सला तव ।

धोक्ष्ये क्षीरमयान् कामाननुरूपं च दोहनम् ॥ ९ ॥

पदरत्नावली

तथापि किं रामानुचराणां वानराणां रेणुकाया वा मृतसञ्जीविन्यादिनेत्यत्र प्राप्तमुपायं वक्ति– वत्समिति ॥ वत्सला वत्सप्रिया । अनुरूपं तत्तद्योग्यम् । दोहनं दोहक्रियाविशेषम्

॥ ९ ॥

प्रकाशिका

तमेव शास्त्रदृष्टमुपायं दर्शयति ॥ वत्सं कल्पयेति । वत्सं, दोहनं पात्रं, दोग्धारं चोपकल्पय । वत्सला वत्सप्रिया । अनुरूपं तत्तद्योग्यं दोहनं दोहक्रियाविशेषम् । धोक्ष्ये पूरयिष्यामि

॥ ९ ॥

दोग्धारं च महाबाहो भूतानां भूतभावन ।

अन्नमीप्सितमूर्जस्वद्१ भगवान् वाञ्छते यदि ॥ १० ॥

पदरत्नावली

नैतावता पूर्यत इत्यत उक्तम्– दोग्धारं चेति ॥ ओजस्वद् अवष्टम्भकृत्प्राण-धारणशक्तिप्रदमित्यर्थः ॥ १० ॥

प्रकाशिका

भूतानामीप्सितमन्नमूर्जस्वद्बलप्रदम् ॥ १० ॥

समां च कुरु मां राजन् देववृष्टं यथा पयः ।

अपर्तावपि भद्रं ते उपावर्तेत मां विभो ॥ ११ ॥

पदरत्नावली

ओषध्युत्पत्तौ प्रधानसाधनं जलम् । तद् विषमायां मयि देववृष्टं पयो न समं प्रसरति । तद् यथाऽपर्तावपि अवृष्टिकाले समं स्यात् तथा मां समां कुरु । अन्यथौषध्यनुत्पादे त्वत्कोपविषया स्यामित्याह– समां चेति ॥ ११ ॥

प्रकाशिका

अपर्तावप्यपगतेऽपि वर्षर्तौ यथा मे सर्वतः समं पय उपावर्तेत तथा मां समां कुरु

॥ ११ ॥

इति प्रियहितं वाक्यं भुव आदाय भूपतिः ।

तथा चकार सर्वत्र सारमाददते बुधाः ॥ १२ ॥

पदरत्नावली

अत्रापि त्वद्ग्रस्तं त्वयैवोद्गीर्य दातव्यम्, अन्यथा वधिष्यामीति पुनरपि पृथुना किं कुपितम् ? न । किन्तु तदुक्तमङ्गीकृतं, सारग्राहित्वादित्याह– इतीति ॥ प्रियहितं श्रोत्रृसुखम् । प्रियं पथ्यम् । हृदयंङ्गमं हितम् । भूपतिः पृथुः ॥ १२ ॥

प्रकाशिका

प्रियहितं श्रोतॄणां सुखं प्रियं पथ्यम् । पूर्वं तस्यैव क्रुद्ध इदानीं तद्वाक्यं कथं गृहीतवानित्यत आह ॥ सर्वत्रेति । सारग्राहित्वं बुधानां स्वभाव इति भावः ॥ १२ ॥

वत्सं कृत्वा मनुं पाणावदुहत् सकलोषधीः ।

ततोऽपरे यथाकामं दुदुहुः पृथुभाविताम् ॥ १३ ॥

प्रकाशिका

मनुं स्वायंभुवम् । पाणौ स्वपाणिलक्षणे पात्रे । स्वयं पृथुरौषधीः क्षीररूपम् । यत्र ये दोग्धारस्तेषां श्रेष्टा वत्सा भवन्ति । तेषु पृथिव्या वात्सल्यात् । गोरूपायाः पृथिव्याः स्वप्रियवत्सयोगे यत्क्षीरं निःसरति । तत्पश्चात्तत्तदीप्सितफलाकारेण परिणतं भवतीति द्रष्टव्यम् । अत एव क्षीरमया-न्कामानित्युक्तम् । क्षीरविकारानित्यर्थः । पृथुभावितां पृथुना सम्भावितां गोरूपां पृथिवीम् ॥ १३ ॥

ऋषयो दुदुहुर्देवीमिन्द्रियेष्वथ सत्तमाः ।

वत्सं बृहस्पतिं कृत्वा पयश्छन्दोमयं शुचि ॥ १४ ॥

पदरत्नावली

ततोऽपर इत्युक्तं विव्रियते– ऋषय इत्यादिना ॥ देवीं सरस्वतीम् । इदमेव विशिनष्टि– छन्दोमयमिति ॥ वेदमयं पयः । कुत्र ? वागिन्द्रियेषु ॥ १४ ॥

प्रकाशिका

अपर इत्युक्तमेव विवृणोति ॥ ऋषय इति । देवीं धरां वाङ्मनःश्रोत्राणां वेदधारकत्वादितरेन्द्रियाणां शुद्धिसंपादकत्वादिन्द्रियाणां च पात्रत्वमिति ज्ञातव्यम् । छन्दोमयं वेदमयं वेदवाक्योपादनम् । क्रमस्य जन्यत्वान्न कुचोद्यावकाशः ॥ १४ ॥

कृत्वा वत्सं सुरगणा इन्द्रं सोममदूदुहन् ।

हिरण्मयेन पात्रेण वीर्यमोजो बलं पयः ॥ १५ ॥

तात्पर्यम्

‘गुणाः स्वरूपभूताश्च बाह्याश्चेति द्विधा मताः । स्वरूपभूता व्यज्यन्ते हरे-र्बाह्यान् दुहुः पयः ॥’ इति ब्राह्मे ॥ १५ ॥

पदरत्नावली

न केवलं सोमरसमात्रमदूदुहन् । किं तु तदुद्भवं गुणं चेत्याह– वीर्यमिति ॥ पराक्रमं माहात्म्यं वा । ओजोऽवष्टम्भशक्तिम् । बलं निराहारत्वेऽपि चेष्टाशक्तिम् । अत्र बाह्यानेव गुणानदूदुहन् न तु स्वरूपभूतान् । तदुक्तम् ‘गुणाः स्वरूपभूताश्च बाह्याश्चेति द्विधा मताः । स्वरूपभूता व्यज्यन्ते हरेर्बाह्यान् दुहुः पयः ॥’ इति ॥ १५ ॥

प्रकाशिका

सोमं सोमलतारसम् । न केवलमेतावत् । किन्तु तत्साध्यं वीर्यं पराक्रमशक्ति-मोजोऽवष्टम्भशक्तिं बलं शारीरमिति गुणरूपं च पयोऽदूदुहन् । अत्र सुराणां पृथिवीदोहनानन्तरं वीर्यादिगुणप्राप्तिरुच्यते । सा न स्वरूपभूतगुणविषया किन्तु बाह्यदेहनिमित्तकगुणविषयैवेति प्रमाणेनैव दर्शयति ॥ गुणा इति । वीर्यादयो गुणा इत्यर्थः । हरेर्हरिप्रसादाद्व्यज्यन्ते मुक्ताविति शेषः । बाह्यान् बहुगुणरूपं पयो दुदुहुः । सुरा इति शेषः ॥ १५ ॥

दैतेया दानवा वत्सं प्रह्लादमसुरर्षभम् ।

विधाय दुदुहुः क्षीरमयःपात्रे सुरासवम् ॥ १६ ॥

तात्पर्यम्

‘प्रतिमन्वन्तरं प्रायः प्रह्लादाद्या बभूविरे’ । इति च ॥ १६ ॥

पदरत्नावली

अयःपात्रे अयोमये पात्रे । सुराख्यमासवं मधु । प्रह्लादस्य प्रतिमन्वन्तर-मुत्पन्नप्रायत्वादत्रोक्तम् । ‘प्रतिमन्वन्तरं प्रायः प्रह्लादाद्या बभूविरे’ इति वचनात् ॥ १६ ॥

प्रकाशिका

अयःपात्रे अयोमयपात्रे सुरासवं सुराख्यमासवं मधु । अत्र स्वायंभुवमन्वन्तर-कालीनपृथुसमये वैवस्वतमन्वन्तरसमयोत्पन्नप्रह्लादस्य कथमवस्थानमित्याशङ्कां प्रमाणेनैव परिहरति ॥ प्रतिमन्वन्तरमिति । तथा च स्वायंभुवमनुकालेऽपि प्रह्लादस्योत्पन्नत्वान्नोक्तशङ्कावकाश इत्याशयः

॥ १६ ॥

गन्धर्वाप्सरसोऽधुक्षन् पात्रे पद्ममये पयः ।

वत्सं विश्वावसुं कृत्वा गान्धर्वं मधु सौभगम् ॥ १७ ॥

पदरत्नावली

गान्धर्वं गानम् । मधु सौभगं सौभाग्यलक्षणं मधु ॥ १७ ॥

प्रकाशिका

गान्धर्वं गायनम् । मधु श्रवणसुखकरं सौभगं सौभाग्यं च ॥ १७ ॥

वत्सेन पितरोऽर्यम्णा कव्यं क्षीरमधुक्षत ।

आमपात्रे महाभाग श्रद्धया श्राद्धदेवताः ॥ १८ ॥

पदरत्नावली

आमपात्रे नवभाण्डे श्राद्धदेवताः श्राद्धकर्मणां देवताः ॥ १८ ॥

प्रकाशिका

कव्यं पित्रन्नात्मकम् । आमपात्रेऽपक्वमृण्मयपात्रेऽधुक्षत दुदुहुः ॥ १८ ॥

प्रकल्प्य वत्सं कपिलं सिद्धाः सङ्कल्पनामयीम् ।

सिद्धिं नभसि विद्यां च ये च विद्याधरादयः ॥ १९ ॥

पदरत्नावली

सङ्कल्पनामयीं सङ्कल्पमात्रेणाभीष्टसिद्धिप्रदां सिद्धिम् । ये विद्याधरादयस्ते च नभसि विद्यां खेचरत्वलक्षणां सिद्धिमधुक्षतेत्यन्वयः ॥ १९ ॥

प्रकाशिका

सङ्कल्पनामयीं सङ्कल्पमात्रेणाभीष्टसिद्धिप्रदामणिमादिसिद्धिम् । ये विद्याधरादयस्ते च तमवे वत्सं कल्पयित्वा नभसि विद्यां खेचरत्वादिविद्यारूपामधुक्षत ॥ १९ ॥

अन्ये च मायिनो मायामन्तर्धानगतात्मना ।

मयं प्रकल्प्य वत्सत्वे दुदुहुर्धारणामयीम् ॥ २० ॥

पदरत्नावली

अन्तर्धानगतात्मनाऽदृश्यत्वे प्राप्तमनस्कत्वेन । अन्ये मायिनो धारणामयीं चिन्तामात्रसाध्यां मायाम् ॥ २० ॥

प्रकाशिका

अन्तर्धानगतात्मनाऽन्तर्धानेऽदृश्यत्वे गतात्मनाऽदृश्यत्वविषयकेन मनसा धारणा-मयीं चिन्तामात्रसाध्यां मायां मायासृष्टिम् । सिद्धादिष्वप्यामपात्र इत्युक्तमेव पात्रमनुवर्तनीयम् ॥ २० ॥

यक्षरक्षांसि भूतानि पिशाचाः पिशिताशनाः ।

भूतेशवत्सा दुदुहुः कपाले क्षतजासवम् ॥ २१ ॥

पदरत्नावली

पिशिताशना मांसभक्षाः । भूतेशो भैरवाख्यो रुद्रो वत्सो येषां ते तथोक्ताः । क्षतजासवं रुधिराख्यं मद्यम् ॥ २१ ॥

प्रकाशिका

पिशिताशना मांसभक्षकाः । भूतेशो रुद्रो वत्सो येषां ते तथा । क्षतजं रुधिरमेवासवं मधु ॥ २१ ॥

तथाऽहयो दन्दशूकाः सर्पा नागाश्च तक्षकम् ।

वत्सं विधाय दुदुहुर्बिलपात्रे विषं पयः ॥ २२ ॥

पदरत्नावली

अह्यादीनां विषधरत्वसाम्येऽपि अवान्तरविशेषत्वात् पृथगुक्तिः ॥ २२ ॥

प्रकाशिका

अहयो निष्फणाः । दन्दशूकास्तद्विशेषाः । सर्पाः सफणाः । त एव कद्रुसन्तति-जाता नागाः । बिलपात्रे मुखलक्षणपात्रे ॥ २२ ॥

पशवो यवसं क्षीरं वत्सं कृत्वा च गोवृषम् ।

अरण्यपात्रे चाधुक्षन् मृगेन्द्रेण च दंष्ट्रिणः ॥ २३ ॥

पदरत्नावली

गोवृषं नन्दिकेश्वरम् । मृगेन्द्रेण सिंहेन दंष्ट्रिणः ॥ २३ ॥

प्रकाशिका

यवसं तृणं गोवृषं नन्दिकेश्वरं मृगेन्द्रेण सिंहेन वत्सेन दंष्ट्रिणः ॥ २३ ॥

क्रव्यादाः प्राणिनः क्रव्यं दुदुहुः स्वकलेवरे ।

सुपर्णवत्सा विहगाश्चरं चाचरमेव च ॥ २४ ॥

पदरत्नावली

क्रव्यादाः प्राणिनो हिंस्राः, क्रव्यमपक्वमांसं, स्वकलेवरे पात्रे दुदुहुरित्यन्वयः । चरं जङ्गमम् । अचरं तरुफलम् ॥ २४ ॥

प्रकाशिका

क्रव्यादा मांसभक्षकाः प्राणिनः । क्रव्यं मांसरूपं पयः स्वकलेवरे पात्रं दुदुहुरित्यन्वयः । चरं कीटाद्यचरं फलमूलादिकम् ॥ २४ ॥

वटवत्सा वनस्पतयः पृथग्रसमयं पयः ।

गिरयो हिमवद्वत्सा नानाधातून् स्वसानुषु ॥ २५ ॥

पदरत्नावली

वनस्पतयस् तिक्तादिभेदेन बहुत्वाद्रसस्य पृथगित्युक्तम् । नानाधातून् सुवर्णादीन् ॥

प्रकाशिका

पृथक् तिक्तादिभेदेन भिन्नम् ॥ २५ ॥

सर्वे स्वमुख्यवत्सेन स्वे स्वे पात्रे पृथक् पृथक् ।

सर्वकामदुघां पृथ्वीं दुदुहुः पृथुभाविताम् ॥ २६ ॥

पदरत्नावली

उपसंहरति– सर्व इति ॥ स्वजातिषु मुख्यः स्वमुख्यः स एव वत्सस्तेन । सर्वान् कामान् दोग्धीति सर्वकामदुघा ताम् ॥ २६ ॥

प्रकाशिका

स्वजातिमुख्येन स्वमुख्येन ॥ २६ ॥

एवं पृथ्वादयः पृथ्वीमदुहन् स्वन्नमात्मनः ।

दोहवत्सादिभेदेन क्षीरभेदं कुरुद्वह ॥ २७ ॥

पदरत्नावली

एकस्याः पृथिव्याः क्षीरभेदः कथमभूत् ? तत्राह– एवमिति ॥ दोहभेदेन वत्सभेदेन, आदिशब्दाद् दोग्धृभेदेन च ॥ २७ ॥

प्रकाशिका

पृथ्वादय इत्यत्रादिशब्देन ऋष्यादेर्ग्रहणम् । वत्सादीत्यादिपदेन दोग्धृग्रहणम् । स्वन्नमभीष्टमन्नम् । क्षीरभेदं क्षीरपरिणामरूपं दोहः पात्रम् ॥ २७ ॥

ततो महीपतिः प्रीतः सर्वकामदुघां पुथुः ।

दुहितृत्वे चकारेमां प्रेम्णा दुहितृवत्सलः ॥ २८ ॥

पदरत्नावली

राज्ञा किं प्रीतं कुपितमुत तूष्णीम्भूतमिति संशयावसरो नास्तीत्याह– तत इति ॥ लोकगोविलक्षणक्षीरभेददातृत्वादत्र प्रीतेरेव सम्भावितत्वात् ॥ २८ ॥

प्रकाशिका

इमां पृथिवीम् ॥ २८ ॥

चूर्णयन् स्वधनुःकोट्या गिरिकूटानि राजराट् ।

भूमण्डलमिदं वैन्यः प्रायश्चक्रे समं विभुः ॥ २९ ॥

पदरत्नावली

इदानीं भूमेः समीकरणप्रकारं वक्ति– चूर्णयन्निति ॥ गिरिकूटानि गिरि-शृङ्गाणि । ‘कूटोऽस्त्री शृङ्गमायाद्येष्वद्रिकुञ्जेषु भेदयोः’ इति यादवः । क्वचित् क्वचिद् गिरिकूटादीनां सत्वात् प्राय इत्युक्तम् ॥ २९ ॥

प्रकाशिका

गिरिकूटानि गिरिशृङ्गाणि ॥ २९ ॥

अथास्मिन् भगवान् वैन्यः प्रजानां वृत्तिदः पिता ।

निवासान् कल्पयाञ्चक्रे तत्र तत्र यथार्हतः ॥ ३० ॥

पदरत्नावली

भूमेः समीकरणेन सुखपर्यटनात् परं प्रजानां प्रयोजनं किमकारि राज्ञेति तत्राह– अथेति ॥ ३० ॥

प्रकाशिका

निवासानावासस्थानानि ॥ ३० ॥

ग्रामान् पुरः पत्तनानि दुर्गाणि विविधानि च ।

घोषान् व्रजांश्च शिबिरान् नगरान् खेटखर्वटान् ॥ ३१ ॥

तात्पर्यम्

‘गोष्ठं घोष इति प्रोक्तो व्रजस्तत्पालसंस्थितिः’ इत्यभिधानम् ॥ ३१ ॥

पदरत्नावली

उक्तं विशिनष्टि– ग्रामानिति ॥ ग्रामो बहुजनाकीर्णः । राजराजाश्रयं पुरम् । समुद्रसंगतनद्युपकण्ठे यवनजनाश्रयः पत्तनम् । जलपर्वतादिना गन्तुमशक्यं स्थानं दुर्गम् । गवां स्थानं घोषः । गोपालानां स्थानं व्रजः । ‘गोष्ठं घोष इति प्रोक्तो व्रजस्तत्पालसंस्थितिः’ इत्यभिधानात्, ‘गोष्ठाध्वनिवहा व्रजाः’ इति सामान्यवचनमिति ज्ञातव्यम् । सेनानिवेशस्थानं शिबिरम् । वैश्याना-माश्रयो नगरम् । मृगयोपजीवनं खेटः । आदित्यादिवारमुद्दिश्य यत्र वणिजां योगस्तत् खर्वटाख्यं स्थानम् । वस्त्रभारविक्रयस्थानं वा । पाखण्डिनां निवासस्थानं वा ॥ ३१ ॥

प्रकाशिका

ग्रामा बहुजनसङ्कीर्णाः । अट्टादिशून्याः पुरः । हाटकादिमत्यः राजराजाश्रयास् ता एव महत्यः पत्तनानि । दुर्गाणि गन्तुमशक्यान्यौदकपर्वतादिस्थानानि । घोषान्व्रजांश्चेत्यनयोरर्थभेदं प्रमाणेनैव दर्शयति ॥ गोष्ठमिति । गोष्ठं घोष इति प्रोक्तः । तत्पालानां गोपालानां संस्थितिर्यस्मिन्देशे स देशो व्रज इति प्रोक्त इत्यर्थः । तथा च घोषान् गवां स्थानानि व्रजान् गोपालावासस्थानानि चेति मूलं व्याख्येयमिति भावः । शिबिरान् सेनानिवासस्थानानि । नगरान्वैश्यनिवासस्थानानि । मृगयूना-मावासस्थानं खेटः । यस्मिन्देशे आदित्यादिवारविशेषे वणिजां योगः स खर्वटः । वस्त्रविक्रयस्थानं वा । एतान् कल्पयांचक्र इति पूर्वेणान्वयः ॥ ३१ ॥

प्राक् पृथोरिह नैवैषा पुरग्रामादिकल्पना ।

यथासुखं वसन्ति स्म तत्र तत्राकुतोभयाः ॥ ३२ ॥

पदरत्नावली

इदं पुरादिनिर्माणं पृथोर्माहात्म्याविनाभूतमित्याह– प्राक् पृथोरिति ॥ किमत इति तत्राह– यथेति ॥ अनेनेतः पूर्वं राज्ञां साधुत्वेऽपि संबाधया प्रजानां निवाससुखं नास्तीति सूचितम्

॥ ३२ ॥

॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुकृतायां चतुर्थस्कन्धे अष्टादशोऽध्यायः ॥

प्रकाशिका

वसन्ति । प्रजा इति शेषः ॥ ३२ ॥

**॥ इति श्रीमद्वेदेशपूज्यपादशिष्येण यदुपतिना विरचितायां **

श्रीमद्भागवतटिप्पण्यां चतुर्थस्कन्धे अष्टादशोऽध्यायः ॥ ४-१८ ॥