एवं स भगवान् वैन्यः ख्यापितो गुणकर्मभिः
अथ सप्तदशोऽध्यायः
मैत्रेय उवाच–
एवं स भगवान् वैन्यः ख्यापितो गुणकर्मभिः ।
छन्दयामास तान् कामैः प्रतिपूज्याभिनन्द्य च ॥ १ ॥
ब्राह्मणप्रमुखान् वर्णान् भृत्यामात्यपुरोधसः ।
पौरान् जानपदान् श्रेणीः प्रकृतीः समपूजयत् ॥ २ ॥
तात्पर्यम्
‘राज्ञा समानवयसः श्रेणयस्त्वङ्गरक्षकाः’ इत्यभिधानम् ॥ २ ॥
पदरत्नावली
अस्मिन्नध्याये सूतादिभिः श्रीहरिमहिमोपनिबद्धत्वेन पृथोर्महिम्नउक्तत्वात् तन्माहात्म्यमेवोच्यते । तत्रादौ सूतादितृप्तिकरणप्रकारमाह– एवं स भगवानित्यदिना ॥ छन्दयामास सन्तोषयामास ॥ ‘राज्ञा समानवयसः श्रेणयस्त्वङ्गरक्षकाः’ इत्यभिधानाच्छ्रेणयोऽङ्गरक्षकाः ॥ १,२ ॥
प्रकाशिका
श्रेणीरित्यस्य तैलकताम्बूलकादीनिति व्याख्यानमप्रामाणिकमित्याशयेन प्रमाणेनैव तदर्थमाह ॥ राज्ञेति । तुशब्दोऽवधारणार्थः । तेनानभिमतार्थनिरासः । तथा च श्रेणीः स्वसमानवयसोऽङ्गरक्षकानिति व्याख्येयमिति भावः ॥ २ ॥
विदुर उवाच–
कस्माद् दधार गोरूपं धरित्री बहुरूपिणी ।
यां दुदोह पृथुस्तत्र को वत्सो दोहनं च किम् ॥ ३ ॥
पदरत्नावली
विदुरः सूतादिभिः सूचितं गोदोहनादिपृथुविक्रमं विस्तरतः श्रोतुं लोकोपकाराय पृच्छति– कस्मादिति ॥ दोहनं पात्रद्रव्यम् ॥ ३ ॥
प्रकाशिका
दोहनं पात्रम् ॥ ३ ॥
प्रकृत्या विषमा देवी कृता तेन समा कथम् ।
तस्य मेध्यं हयं देवः कस्य हेतोरपाहरत् ॥ ४ ॥
सनत्कुमाराद् भगवतो ब्रह्मन् ब्रह्मविदुत्तमात् ।
लब्ध्वा ज्ञानं सविज्ञानं राजर्षिः कां गतिं गतः ॥ ५ ॥
प्रकाशिका
मेध्यं यज्ञार्हम् ॥ ४,५ ॥
यच्चान्यदपि कृष्णस्य ब्रह्मन् भगवतः प्रभोः ।
श्रवः सुश्रवसः पुण्यं पूर्वदेहकथाश्रयम् ॥ ६ ॥
तात्पर्यम्
पूर्वतनानां कथासम्बद्धं१ हरेर्यशः ॥ ६ ॥
पदरत्नावली
पूर्वदेहाः पुरातनास्तेषां कथाश्रयं सत्कथासंबद्धं सुश्रवसो हरेः श्रवो यशः ॥ ६ ॥
प्रकाशिका
कृष्णस्य हरेः सुष्टु श्रवो यस्य कृष्णस्य । पूर्वदेहः पृथुदेहस्तत्कथाश्रयमिति प्रतीतिवारणाय पूर्वदेहकथाश्रयमित्यस्य विवक्षितमर्थमाह ॥ पूर्वतनानामिति । श्रव इत्यस्यार्थः यश इति । तथा च पूर्वो देहो येषां ते पूर्वदेहाः पुरातना अतीतराजानस्तत्कथाश्रयं तत्कथासम्बद्धं श्रवो यश इति व्याख्यानं सूचयति ॥ ६ ॥
भक्ताय मेऽनुरक्ताय तव चाधोक्षजस्य च ।
वक्तुमर्हसि योऽदुह्यद् वैन्यरूपेण गामिमाम् ॥ ७ ॥
पदरत्नावली
योऽदुह्यदिति सर्वप्राणिनां तच्छक्तिनियतत्वात् पुनर्वचनमादौ वक्तव्यार्थम् ॥ ७ ॥
प्रकाशिका
तव चाधोक्षजस्य च भक्ताय । अदुह्यद्दुग्धवान् । गां भूमिम् ॥ ७ ॥
श्रीशुक उवाच–
चोदितो विदुरेणैवं वासुदेवकथां प्रति ।
प्रशस्य तं प्रीतमना मैत्रेयः प्रत्यभाषत ॥ ८ ॥
पदरत्नावली
तत्र शुकोऽपि कथाप्रसङ्गं संदधातीत्याह– चोदित इति ॥ त्वयाऽहं यथा चोदित एवं विदुरेणेति ॥ ८ ॥
मैत्रेय उवाच–
यदाऽभिषिक्तः पृथुरङ्ग विप्रैरामन्त्रितो जनतायाश्च पालः ।
प्रजा निरन्ने क्षितिपृष्ठ एत्य क्षुत्क्षामदेहाः पतिमभ्यवोचन् ॥ ९ ॥
पदरत्नावली
तत्र पूर्वोत्तरकथाविच्छेदपरिहारायादित एव मैत्रेयो वक्तीत्याह– यदेति ॥ क्षितिपृष्टे भूगोलके । निरन्ने भोजनपदार्थरहिते सति ॥ ९ ॥
प्रकाशिका
हे अङ्ग । यदा जनतायास्त्वं पाल इत्यामन्त्रितो नियुक्तश्च तदा क्षितिपृष्ठे क्षितितले निरन्ने भोजनपदार्थरहिते सति क्षुत्क्षामाः क्षीणा देहा यासां ताः प्रजापतिं पृथुमेत्याब्रुवन् ॥ ९ ॥
प्रजा ऊचुः –
वयं राजन् जाठरेणाभितप्ता यथाऽग्निना कोटरस्थेन वृक्षः ।
त्वामद्य याताः शरणं शरण्यं यः शाधि नो वृत्तिकरः पतिर्नः ॥ १० ॥
तन्नो भवानर्हति रातवेऽन्नं क्षुधाऽर्दितानां नरदेवदेव ।
यावन्न नङ्क्ष्यामह उज्झितान्ना वार्तापतिस्त्वं किल लोकपालः ॥ ११ ॥
पदरत्नावली
निरन्न इत्यनेन दुःखनिमित्तमिति ज्ञातम् । तत् कीदृशम् ? अत्राह– वयमिति ॥ जाठरेण जठरसम्बन्धिनाऽग्निना । कोटरं वृक्षविवरम् । युष्माकमीदृशाग्निपरिहाराय अन्यशरणप्राप्तिः किं न स्यात् ? अत्राह– यः शाधीति ॥ यस्त्वं नोऽस्माकं वृत्तिकरः पतिर्यस्मात् तस्मान्नोऽस्मान् शाधि अनुशिक्षस्वेयं बुद्धिरिति ॥ वृत्तिकर इत्यनेन ज्ञाताभिप्रायस्यापि राज्ञः स्वाभिप्रायमुद्गलयन्तीत्याह– तन्न इति ॥ रातवे भरणाय । उज्झितान्नस्त्यक्तान्नाः, पूर्वमेवेति शेषः । वार्तापतिर् जनानामन्नं दत्त्वा रक्षक इत्यर्थः ॥ १०,११ ॥
प्रकाशिका
कोटरं वृक्षविवरम् । यस्त्वं नोऽस्माकं वृत्तिकरः पतिर्यस्मादतो नोऽस्मान् शाधि । एवं कर्तव्यमित्यनुशिक्षस्व ॥ १०,११ ॥
मैत्रेय उवाच–
पृथुः प्रजानां करुणं निशम्य परिवेदितम्१ ।
दीर्घं दध्यौ कुरुश्रेष्ठ निमित्तं सोऽन्वपद्यत ॥ १२ ॥
(पृथिव्यौषधिबीजानि निगीर्णान्यसति शास्तरि ।
तदहं देहिनां वृत्तिमात्मयोगेन साधये ॥)१
इति व्यवसितो बुद्ध्या प्रगृहीतशरासनः ।
संदधे विशिखं भूमौ क्रुद्धस्त्रिपुरहा यथा ॥ १३ ॥
पदरत्नावली
राज्ञो राजधनमदोत्सिक्तत्वसम्भवेन किमुत्तरं कार्यमभूद् ? अत्राह– पृथुरिति ॥ करुणं दयाजनकम् । निमित्तमन्नाभावस्य कारणमन्वपद्यत ज्ञातवान् ॥ ज्ञात्वाप्यशक्यमिति मत्वा साधयिष्याम इति गुडजिह्विकावाणीमुक्त्वा किं कार्यान्तरे तेनास्थायीति तत्राह– इतीति ॥ विशिखं शरम् । त्रिपुरहा हरः ॥ १२,१३ ॥
प्रकाशिका
करुणं कृपाजनकम् । परिवेदितं विज्ञापितम् । निमित्तमन्नाभावस्य कारणमन्वपद्यत ज्ञातवान् ॥ इति व्यवसितः पृथिव्यामोषधीनां बीजानि निगीर्णान्यतो निरन्नेयमिति निश्चययुक्तः सन् । विशिखं बाणम् । त्रिपुरहा रुद्रः ॥ १२,१३ ॥
प्रवेपमाना धरणी निशम्योदायुधं च तम् ।
गौः सत्यपाद्रवद् भीता मृगीव मृगयोर्द्रुतम् ॥ १४ ॥
तामेवान्वव्रजद् वैन्यः कुपितोऽत्यरुणेक्षणः ।
शरं धनुषि संधाय यत्र यत्र पलायति ॥ १५ ॥
पदरत्नावली
तत्र भूम्या किमकारीति तत्राह– प्रवेपमानेति ॥ वेपृ कम्पन इति धातुः । गौः सती गोरूपा । मृगयोर्व्याधात् ॥ अत्र पृथुना पलायन्त्या स्त्रिया किमिति निवृत्तं किम् ? नेत्याह– तामेवेति ॥ अन्वव्रजत् पृष्ठतो गतोऽभूत् । सारङ्ग इव कार्यसारग्राहित्वात् पृष्ठतोऽयासीदेव, न बाणं मुक्त्वाऽवधीदित्याशयेनाह– शरमिति ॥ १४-१५ ॥
प्रकाशिका
वेपृ कंपन इति धातुः । गौः सती गोरूपा । मृगुयुर्लुब्धको व्याघ्रो वा । तस्माद्भीता मृगीव ॥ १४,१५ ॥
सा दिशो विदिशो देवी रोदसी चान्तरं तयोः ।
धावती तत्र तत्रैनं ददर्शानूद्यतायुधम् ॥ १६ ॥
लोके नाविन्दत त्राणं वैन्यान्मृत्योरिव प्रजाः ।
त्रस्ता तदा निववृते हृदयेन विदूयता ॥ १७ ॥
अवोचाथ महाभागं धर्मज्ञाऽपन्नवत्सल ।
त्राहि मामपि भूतानां पालनेऽवस्थितो भवान् ॥ १८ ॥
पदरत्नावली
राजरूपिणो हरेः सिन्निधानविशेषवत्वादुत्तरकार्यस्यापि स्वाभिप्रेतत्वान्नेन्द्रा-द्यन्यतमोऽपि तामत्रायतेत्याह– लोके नेति ॥ वैन्यादन्यस्मात् । जीवन् भद्राणि पश्यतीति बुन्द्वैव हरेः सर्वप्राणिप्रेरकत्वेन तच्छक्तिनियतत्वाच्च भूमेरावृत्तिमाह– त्रस्तेति ॥ अत्र वचनमेवानुसर्तव्यं नान्यदिति भाववती वक्ति– उवाचेति ॥ १६-१८ ॥
प्रकाशिका
रोदसी द्यावापृथिव्यौ तयोरन्तरमंतरिक्षम् ॥ १६-१८ ॥
स त्वं जिघांससे कस्माद् दीनामकृतकिल्बिषाम् ।
अहनिष्यत् कथं योषां धर्मज्ञ इति यो मतः ॥ १९ ॥
प्रहरन्ति न वै स्त्रीषु कृतागःस्वपि जन्तवः ।
किमुत त्वद्विधा राजन् करुणा दीनवत्सलाः ॥ २० ॥
पदरत्नावली
रक्षायां नियुक्तस्य तवापराधमन्तरेणाभिहननं न युक्तमित्याह– स त्वमिति ॥ एवमपि मां हनिष्यसि चेत् तव धर्मज्ञत्वमपहस्तितं स्यादित्याशयेनाह– अहनिष्यदिति ॥ यो भवान् धर्मज्ञ इति मतोऽभविष्यत् तर्हि कथं योषां मामहनिष्यदित्यन्वयः ॥ बालिशा अपि जन्तवः स्त्रीवधं न कुर्वन्ति किं पुनर्भवादृशा इत्याह– प्रहरन्तीति ॥ १९,२० ॥
प्रकाशिका
यो धर्मज्ञ इति मतः स भवान्योषां स्त्रियं मां कथमहनिष्यद्धनिष्यति । एष्यत्तु निश्चितं यत्तु तदतीतत्वेन भण्यत इति वचनात् ॥ १९,२० ॥
मां निहत्याजरां नावं यत्र विश्वं प्रतिष्ठितम् ।
आत्मानं च प्रजाश्चेमाः कथमंभसि धास्यसि ॥ २१ ॥
पदरत्नावली
न केवलमदृष्टहानिरपि तु दृष्टहानिरपि स्यादित्याह– मां निहत्येति ॥ अजरां नूतनामिव स्थिताम् । धास्यसि धारयिष्यसि ॥ २१ ॥
प्रकाशिका
अजरां नूतनामिव स्थिताम् । दृढमिति यावत् । धास्यसि धारयिष्यसि ॥ २१ ॥
पृथुरुवाच –
वसुधे त्वां वधिष्यामि मच्छासनपराङ्मुखीम् ।
भागं बर्हिषि या वृङ्क्ते न तनोषि च नो वसु ॥ २२ ॥
पदरत्नावली
स्वोक्तकारित्वकरणाय पृथुर्भीतिकरं वाक्यं वक्ति– वसुध इति ॥ ननु वध-योग्यापराधः क इति तत्राह– मच्छासनेति ॥ अनेन तव पत्युर्मम स्त्रीवधो न दोषाय, भर्तृशासनातिक्रम एवापराधित्वादिति ध्वनितम् । किं तत् त्वच्छासनातिलङ्घनं येनापराधिनी स्याम् ? अत्राह– भागमिति ॥ या भवती बर्हिषि यज्ञे भूः स्वाहेति हुतं हनिर्भागं वृङ्क्ते वृणोति, सा त्वं वसु धनं योग्यं न तनोषि परिपाकेन न प्रपञ्चयसीत्यन्वयः ॥ २२ ॥
प्रकाशिका
या भवती बर्हिषि यज्ञे भूःस्वाहेति हुतं भागं हविर्वृंक्ते वृणोति सा त्वं वसु धान्यादिरूपम् ॥ २२ ॥
यवसं जग्ध्यनुदिनं नैव दोग्ध्यौधसं पयः ।
तस्यामेवं हि दुष्टायां दण्डो नात्र न शस्यते ॥ २३ ॥
पदरत्नावली
एतदेव विशिनष्टि– यवसमिति ॥ हविराख्यं यवसम् । पयःशब्दस्य जलेऽपि वृत्तेरित्यत औधसमिति । मत्पालिताभ्यः प्रजाभ्यो या पयो न दोग्धि तस्यामेवं दुष्टायामत्र भवत्यां दण्डो न शस्यत इति नहि । शस्यत एवेत्यार्थः ॥ २३ ॥
प्रकाशिका
गोरूपां मां कथं हनिष्यसीत्यपेक्षायामाह ॥ यवसमिति । या गौर्यवसं तृणं जग्धि अत्ति । औधसमूधसि विद्यमानं पयो नैव दोग्धि पादप्रहारादिना या दोग्धॄन्पीडयति तस्यां गवि दण्डोऽत्र लोके न शस्यत इति न । किन्तु शस्यत एवेत्यर्थः । तथा च हविर्लक्षणं यवसं त्वमत्सि त्वत्स्थितं धान्यादिलक्षणं पयश्च न मुंचसि । अतो गोरूपाया अपि तव वध उचित एवेत्याशयः ॥ २३ ॥
त्वं खल्वौषधिबीजानि प्राक् सृष्टानि स्वयम्भुवा ।
न मुञ्चस्यात्मरुद्धानि मामवज्ञाय मन्दधीः ॥ २४ ॥
पदरत्नावली
आत्मन्यसत्त्वान् न मुञ्चामीति नेत्याह– त्वं खल्विति ॥ त्वदधिकरणत्वेन प्रजाजीवनार्थत्वेन विरिञ्चिसृष्टौषध्यदाने चौर्याख्यदोषोऽपि तव स्यादित्यर्थः । आत्मनि सत्त्वान् न दास्यामीति दुराग्रहबुद्धिरवज्ञेति ॥ २४ ॥
प्रकाशिका
मय्यसत्वादेव न मुञ्चामीत्यत आह ॥ त्वं खल्विति । खल्विति प्रमाणप्रसिद्धिं द्योतयति । तथा च ब्रह्मणा सृष्टान्यौषधबीजानि त्वयि सन्तीति प्रमाणप्रसिद्धमित्यर्थः । आत्मनि स्वदेहे । मामवज्ञाय । अस्मिन् भूपाले सति न मुंचामीति दुराग्रहबुद्धिरवज्ञा ॥ २४ ॥
अमीषां१ क्षुत्परीतानामार्तानां परिवेदितम्२ ।
शमयिष्यामि तद्बाणैर्भिन्नायास्तव मेदसा ॥ २५ ॥
पदरत्नावली
मद्वधस्तव कोपनिवारणावसायी, न तु शरणागतप्रजारक्षणोपायासिद्धिरिति तत्राह– अमूषामिति ॥ अमूषां शरणागतानाम् । मेदसा मांसविशेषेण ॥ २५ ॥
प्रकाशिका
मद्वधे सर्वथाऽन्नं न स्यात्तथा च केन प्रजानां दुःखशान्तिं करिष्यसीत्यत आह ॥ अमीषामिति । परिवेदितं परिवेदनयाऽवगतं दुःखम् । मेदसा मांसविशेषेण ॥ २५ ॥
पुमान् योषिदुत क्लीब आत्मसम्भावनोऽधमः ।
भूतेषु निरनुक्रोशो नृपाणां तद्वधो वरः ॥ २६ ॥
पदरत्नावली
तथापि स्त्रीवधो न शस्त इति तत्राह– पुमानिति ॥ य एवं विधस्तद्वधः ॥२६॥
प्रकाशिका
यदुक्तं योषां कथं हनिष्यसीति तत्राह ॥ पुमानिति । वरः श्रेष्ठो न पापकारीत्यर्थः
॥ २६ ॥
त्वां स्तब्धां दुर्मदां नीत्वा मायागां तिलशः शरैः ।
आत्मयोगबलेनेमा धारयिष्याम्यहं प्रजाः ॥ २७ ॥
एवं मन्युमयीं मूर्तिं कृतान्तमिव बिभ्रतम् ।
प्रणता प्राञ्जलिः प्राह मही संजातवेपथुः ॥ २८ ॥
पदरत्नावली
यदुक्तम्– ‘मां निहत्यात्मानमिमाः प्रजाश्चांभसि कथं धारयिष्यसि’ इति तत्राह–त्वां स्तब्धामिति ॥ मायागतामित्यनेन गोवधदोषोऽपि नास्तीति सूचितम् । आत्मयोगबलेनौत्पत्तिक-स्वरूपधारणया शक्त्या । तत्र निरुत्तरया धरया किमकारीति तत्राह– एवमिति ॥ २७,२८ ॥
प्रकाशिका
यच्चोक्तं प्रजाश्चेमाः कथमंभसि धास्यसीति तत्राह ॥ त्वामिति । तिलशस्तिल-प्रमाणानि शकलानि नीत्वा कृत्वा । मायागामित्यनेन हत्यापापमपि नेति सूचयति । आत्मयोगबलेन स्वसामर्थ्येन ॥ २७,२८ ॥
धरण्युवाच –
नमः परस्मै पुरुषाय मायया विन्यस्तनानातनवे(ऽ) गुणात्मने ।
नमः स्वरूपानुभवेन निर्धुतद्रव्यक्रियाकारकविभ्रमोर्मये ॥ २९ ॥
तात्पर्यम्
‘ब्रह्मादिजीवदेहास्तु मायादेहाः प्रकीर्तिताः’ इति वाराहे ॥ २९ ॥
पदरत्नावली
स्वयं देवतास्वेकत्वेन हरेरन्यस्यैवंविधवाक्यानुदयादित्यादिहेतुना ज्ञातत्वाद् धरा पृथ्वन्तर्यामिणं तद्योग्यैर्गुणैरन्यत्रायोग्यैः श्रीनारायणमभिष्ठौति– नम इति ॥ मायया प्रकृत्या चित्प्रकृत्या वा । विन्यस्ता तद्योग्यतया विरचिता नाना तनवो ब्रह्मादिजीवदेहा येन स तथोक्तस्तस्मै । ‘ब्रह्मादि-जीवदेहास्तु मायादेहाः प्रकीर्तिताः’ इति वचनात्, मायाशब्देन नेन्द्रजालमत्रोच्यत इति । स्वस्यापि प्राकृतदेहसम्भवेन देवदत्तवत् कर्मणि श्रान्तत्वेन प्रपञ्चरचनानुपपत्तिरित्यत उक्तम्– अगुणात्मन इति ॥ सत्वादिगुणरहितस्वरूपाय । यदि हरेः स्वरूपं प्राकृतगुणरहितं तर्हि कीदृशं येन देहित्वेन सृष्ट्यादौ प्रवृत्तिः स्यादित्यस्यापीदमेवोत्तरम्– गुणात्मन इति ॥ ज्ञानानन्दादिगुणदेहाय । ‘आत्मा जीवे धृतौ देहे’ इति यादवः । अस्तु ज्ञानादिगणदेहत्वं तथापि प्रकृत्या प्रवर्तमानस्य कर्दममणेरिव कथित-दोषानिस्तार इति तत्राह– स्वरूपेति ॥ स्वरूपानुभवेन तद्ब्रह्म वेदाहं ब्रह्मास्मीति श्रुतिसिद्धेन स्वरूपापरोक्षेण, निर्धूता निरस्ता, द्रव्यक्रियाकारकनिमित्तानां विभ्रमाणामूर्मयो येन स तथा । द्रव्यादयस् तामसतैजसवैकारिकाहंकारसंज्ञाः । यद्वा द्रव्यं गुणानामाधारो देहः, क्रिया कर्मेन्द्रियम्, कारकं ज्ञानेन्द्रियम्, एतन्निमित्तानां विभ्रमाणां संशयाद्यन्तःकरणधर्माणामूर्मयः परंपरा दूरोत्सारिता येन स तथा । ‘‘विभ्रमः संशये भ्रान्तौ शोभाया च इति यादवः । तत्र किं कारणमित्यत उक्तम्– स्वरूपेति ॥ द्रव्यक्रियादिनिमित्तविभ्रमोर्मयोऽस्माकमेव न हरेरिति निरणायि ॥ २९ ॥
प्रकाशिका
पृथ्वाविष्टो हरिरेवेदं करोतीति ज्ञात्वा धरा तं स्तौति ॥ नम इत्यादिना । अत्र मायातनव इत्यस्य प्रकृतमर्थं प्रमाणेनैवाह ॥ ब्रह्मादीति । न तु कल्पिता इति तुशब्दार्थः । मायादेहा जडप्रकृतिनिर्मितदेहा इत्यर्थः । तथा च माययेच्छया विन्यस्ता रचिता नानातनवः प्रकृतिनिर्मितब्रह्मादि-देहा येनेति मूलार्थ इति भावः । निर्धूता दूरीकृता द्रव्यं देहगेहादिकं क्रिया तद्विषयो व्यापारः कारकाणीन्द्रियादीनि तेषु विभ्रमोऽहङ्कारममकाराभिमानस्तन्निमित्ता ऊर्मयो रागद्वेषादयश्च यस्मिंस्तस्मै
॥ २९ ॥
येनाहमात्मीयतनुर्विनिर्मिता धात्रा यतोऽयं गुणसर्गसङ्ग्रहः ।
स एव मां हन्तुमुदायुधः स्वराडुपस्थितोऽन्यं शरणं कमाश्रये ॥ ३० ॥
पदरत्नावली
यतः स्वामित्वेन पितृत्वेन गुरुत्वेन स्थितं हरिं शरणं विहाय ममान्यो रक्षकोऽ-स्तीति भ्रान्ताऽलब्धान्यन्निवृत्तेत्यतस् तत्स्वामित्वादिकं तवैवेति सयुक्तिकमाह– येनेति ॥ येन धात्रा हरिणाऽहमात्मीयतनुः स्वशरीरत्वेन निर्मिता ‘यस्य पृथिवी शरीरम्’ इति श्रुतेः । यतो यस्मात् सत्त्वादिगुणैः सर्गसंग्रहः स्यात्, स एव पितृभूतः स्वराट् स्वामी उदायुधः शिक्षागुरुर्मां हन्तुमुपस्थित इत्यन्वयः । किमत इति तत्राह– अन्यमिति ॥ ‘किं कुर्मः कस्य वा ब्रूमो गरदायां स्वमातरि’ इति वाक्यं ध्वनयति– कमित्यनेन ॥ ३० ॥
प्रकाशिका
यः पिता सर्वस्वामी स एव हन्तुमुद्यतश्चेत्कुतो गन्तव्यमहो कष्टमित्याशयेनाह ॥ येनाहमिति । येन विधात्रा जगत्सर्जकेन हरिणाऽऽत्मीयतनुः स्वशरीरत्वेन निर्मिता । यस्य पृथिवी शरीरमिति श्रुतेः । यतो यस्मिन् गुणसर्गस्य सत्त्वादिगुणजातदेहस्य प्राणिसमूहस्य सङ्ग्रहो धारणं भवति स एव स्वराट् स्वतन्त्रः ॥ ३० ॥
य एतदादावसृजच्चराचरं स्वमाययाऽऽत्माश्रययाऽवितर्क्यया ।
तयैव सोऽयं किल गोप्तुमुद्यतः कथं नु मां धर्मपरो जिघांसति ॥ ३१ ॥
पदरत्नावली
तव निर्मातेश्वरोऽन्यस्त्वां जिघांसु पृथू राजा चापर इति मन्दाशङ्कां परिहरन्निव पूर्वोक्तार्थं विवृणोति– य एतदिति ॥ आत्मैवाश्रयो यस्याः सा आत्माश्रया तया, अत एवावितर्क्यया विविधतर्काविषयया । ‘अजामेकां लोहितशुक्लकृष्णाम्’ इत्यादिश्रुतिसिद्धत्वान्निर्वक्तुमशक्ययेत्येतद-द्वैतवादितर्कागोचरयेत्यर्थः । वार्तासम्भाव्ययोः किलेत्यभिधानम् । अतः सम्भावितं न भवतीति । यथा स्वस्य तर्काविषयत्वं तथा मायाया अपीति सूचितम् ॥ ३१ ॥
प्रकाशिका
इदानीं जगत्पालने प्रवृत्तस्य सर्वथा मद्वधो नोचित इत्याह ॥ य एतदादाविति । स्वमायया स्वेच्छयाऽऽत्माश्रयया बन्धकतया जीवविषययाऽवितर्क्यया विविधतर्काविषयया नु इदानीं गोप्तुमुद्यतः । किलेति श्रुतिमत्र प्रमाणयति ॥ ३१ ॥
नूनं तवेशस्य समीहितं जनैस्तन्मायया१ दुर्जरयाऽकृतात्मभिः ।
न लक्ष्यते यस्त्वकरोदकारयद् योऽनेक एकः परतः स ईश्वरः ॥ ३२ ॥
तात्पर्यम्
स परत ईश्वर इत्याक्षेपः ॥ ३२ ॥
पदरत्नावली
हरेस्तर्काविषयत्वं स्पष्टयति– नूनं तवेति ॥ विभो । अकृतात्मभिरल्प-बुद्धिभिरशिक्षितबुद्धिभिर्वा । जनैर्दुर्जयया मायया । ईशस्यैश्वर्यादिगुणाकरस्य । समीहितं समीचीनं चेष्टितं न लक्ष्यते । नूनं तर्कयामीत्यन्वयः । ‘तर्कनिश्चितयोर्नूनम्’ इति यादवः । समीहितं किं तदित्यत आह– यस्त्विति ॥ यस्त्वकरोत् कार्यम् ब्रह्मणा जगदकारयच्च । अनेकः ‘इन्द्रो मायाभिः पुरुरूप ईयते’ इति श्रुतेः । तत्त्वत एकः । ‘एकमेवाद्वितीयम्’ इति श्रुतेः । एवंविधः स परतः परेषामीश्वरो नास्माक-मार्तानामिति क्षोण्याक्षेपलक्षणमर्थविशेषं ध्वनयति । अर्थान्तरासम्भवात् ॥ ३२ ॥
प्रकाशिका
ननु ब्रह्मादिरिवायमपि स्वोत्तमानुग्रहादीश्वरश्चेत्किमनेनेत्यपेक्षायामाह ॥ नूनमिति । समीहितं चेष्टितम् । तन्मायया तदीयबन्धकशक्त्या अकृतात्मभिर् अजितमनस्कैः । दुर्जरया मायया । यः स्वतन्त्रः स्वयमकरोद् ब्रह्मादिभिरकारयच्च यो ऽनेक एकश्च परतः स ईश्वर इति । अस्य न स्वत इत्यन्यथाप्रतीतिवारणायाभिप्रेतमर्थमाह ॥ स परत ईश्वर इत्याक्षेप इति । काक्वा आक्षेपार्थतया योज्य-मित्यर्थः । तथा च स एवंविधमाहात्म्योपेतो हरिः किं परतः स्वोत्तमात्तदनुग्रहादीश्वरो नैव किन्तु स्वत एव तदुत्तमस्यान्यस्याभावादिति मूलार्थ इति भावः ॥ ३२ ॥
सर्गादि योऽस्यानुरुणद्धि शक्तिभिर्द्रव्यक्रियाकारकचेतनात्मभिः ।
तस्मै समुन्नद्धविरुद्धशक्तये नमः परस्मै पुरुषाय वेधसे ॥ ३३ ॥
तात्पर्यम्
‘विरुद्धशक्तयो यस्य नित्या युगपदेव च । तस्मै नमो भगवते विष्णवे सर्वजिष्णव’ इति च ॥ ३३ ॥
पदरत्नावली
कर्तृत्वेन कारयितृत्वेन सर्वस्वातन्त्र्यप्रतीतेः पृथिव्यादीनां कर्तृत्वमीश्वरशक्त्यनु-स्यूतत्वादित्याह– सर्गादीति ॥ द्रव्याणि पञ्चभूतानि, क्रियाः कर्मेन्द्रियाणि, कारका ज्ञानेन्द्रियाणि, चेतनो जीवः, एतान् व्याप्य तिष्ठन्तीति चेतनात्मानस् ताभिः शक्तिभिर्योऽस्य जगतः सर्गाद्यनुरुणद्धि तत्तद्योग्यतानुकूल्येन करोति तस्मै नम इत्यन्वयः । एकस्य युगपदनेकवैचित्र्योपेतपदार्थस्रष्टृत्वं कथमुप-पद्यत इत्यत उक्तम्– समुन्नद्धेति ॥ तदुक्तम्– ‘विरुद्धशक्तयो यस्य नित्या युगपदेव तु । तस्मै नमो
भगवते विष्णवे सर्वजिष्णवे ॥’ इति । कर्तृत्वशक्तिः स्वरूपभूतेत्युक्तम्– वेधस इति ॥ कर्तृत्वशक्तिमते । किं नामधेयमस्येत्यत उक्तम्– परस्मा इति ॥ अनेन पुंशक्तिमत्वादस्यैवोक्तमुपपन्नमित्यसूचि ॥ ३३ ॥
प्रकाशिका
अयमेव सर्वेश्वर इत्युपपादयता नतानां न भीतिरित्याशयेन तं नमति ॥ सर्गादीति । अस्य जगतः सर्गादि सृष्ट्याद्यष्टकं योऽनुरुणद्धि योग्यतानुसारेण करोति । द्रव्याणि भूतानि क्रिया कारकाणि ज्ञानेन्द्रियाणि चेतनास् तदभिमानिनो जीवास् तदात्मभिः शक्यत्वाच्छक्तिनामभिः सहकारिभिः । एकस्य कथं विरुद्धविचित्रानेककार्यकर्तृत्वमित्यत आह ॥ समुन्नद्धविरुद्धशक्तय इति । समुन्नद्धाः सम्यगुत्कृष्टा लोकदृष्ट्या विरुद्धाः शक्तयो यस्य तस्मै । वेधसे विरुद्धानेककार्यकर्त्रेऽत एव परस्मै सर्वोत्तमपुरुषाय नम इत्यर्थः । अत्र वेत्रबीजानां भर्जनेन कदलीकाण्डजनकत्वशक्तिवद्भगवच्छक्ती-नामन्यजन्यत्वशङ्का कार्यक्रमानुसारेण कथं यौगपद्यमित्याशङ्कां च परिहर्तुं प्रमाणसंवादमाह ॥ विरुद्धेति । युगपद्विरुद्धशक्तयोऽत एव नित्याश्च भगवतोऽघटितघटकैश्वर्यसंपन्नाय । तथा चाघटितघटकैश्वर्य-बलाल्लोकदृष्ट्या विरुद्धा अपि शक्तयो युगपदेव नित्याश्च यस्य सन्ति तस्मै नम इति मूलाशय इति भावः
॥ ३३ ॥
स वै भवानात्मविनिर्मितं जगद् भूतेन्द्रियान्तःकरणात्मकं विभो ।
संस्थापयिष्यन्नज मा रसातलादभ्युज्जहाराम्भस आदिसूकरः ॥ ३४ ॥
पदरत्नावली
पूर्वं त्वयैव भूतधात्रीत्वेन सङ्क्लृप्तत्वात् हिरण्याक्षनीतां यामुदाहारितवांस्तत्रात्म-योगबलेनैव धारयिष्यामीत्यङ्गीकारे संकल्पभङ्गः स्यादित्याशयेनाह– स वा इति ॥ स वा इत्यनेन य एतदित्याद्युक्तं परामृश्यते । मा माम् ॥ ३४ ॥
प्रकाशिका
पूर्वं सर्वभूतधारणाय रसातलान्मामुद्धृत्य तस्यामपि प्रजारक्षणे प्रवृत्तस्य तव मद्वधो नोचित इति सकरुणमाह ॥ स वा इति द्वाभ्याम् । स वा इत्यनेन य एतदादावसृजच्चराचर-मित्यादिनोक्तः स्रष्टा परामृश्यते । हे अज । यः सृष्टवान्स एव भवान् आत्मना स्वेन निर्मितं भूतेन्द्रियान्तःकरणात्मकं जगत्सम्यक् स्थापयिष्यन् आदिसूकरो भूत्वा रसातलादंभसो मा मामभ्युज्जहारोद्धृतवान् ॥ ३४ ॥
अपामुपस्थे मयि नाव्यवस्थिताः प्रजा भवानद्य रिरक्षिषुः किल ।
स वीरमूर्तिः समभूद् धराधरो यो मां पयस्युग्रशरो जिघांसति ॥ ३५ ॥
पदरत्नावली
भूमेरुद्धर्ताऽन्योऽहमन्यस्तस्मात् सङ्कल्पभङ्गः कथमिति मन्दाशङ्कां परिहरति– अपामुपस्थे इति ॥ जलस्योपरिस्थितां मां जिघांसति स वीरमूर्तिर्भवानद्य रक्षितुकामो धराधरो भूमेर्भर्ता समभूदित्यन्वयः ॥ ३५ ॥
प्रकाशिका
स एव धराधरो वराहः । अपामुपस्थे उपरि स्थिते मयि मल्लक्षणायां नावि अवस्थिताः प्रजा रिरक्षिषू रक्षितुमिच्छुः । वीरे पृथौ प्रविष्टा राजराजमूर्तिर्यस्य समभूत् । य एवं भूतः स त्वं पयसि तादर्थ्ये औषध्यादिरूपक्षीरार्थं मां जिघांसतीदं विचित्रमीत्यर्थः ॥ ३५ ॥
नूनं जनैरीहितमीश्वराणामस्मद्विधैस्तद्गुणसर्गमायया ।
न ज्ञायते मोहितचित्तवृत्तिभिस्तेभ्यो नमो वीरयशस्करेभ्यः ॥ ३६ ॥
पदरत्नावली
स्त्री त्वमस्मद्विचेष्टितं किं जानासीत्याशङ्क्य सत्यं, तथाप्यस्माकं युष्मत्प्रसाद-नाय नम इत्येतावत्कर्तुमुचितमिति भावेनाह– नूनं जनैरिति । त्वद्गुणसर्गमायया तव सृष्ट्यादौ गुणकर्मभूतया सर्गमायया प्रकृत्या ॥ ३६ ॥
॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुकृतायां
चतुर्थस्कन्धे सप्तदशोऽध्यायः ॥
प्रकाशिका
इदानीं पृथुमेव लक्षीकृत्य समर्थानां चेष्टितं दुर्ज्ञेयमिति सामन्यतो वदन्ती प्रार्थना-पूर्वकं तं नमति ॥ नूनमिति । अस्मद्विधैर्जनैरीश्वराणां भवादृशानां समर्थानामीहितं चेष्टितं न ज्ञायते । कथंभूतैः । तेषामीश्वराणां गुणानामैश्वर्यादीनां सर्गो यया सा तथा सा च मायेश्वरेच्छा तया मोहितानि चित्तवर्त्मानि मनोवृत्तयो येषां तैरित्यर्थः । वीरयशस्करेभ्य इत्यनेन यथा वीराणां यशोवर्धनं भवति तथा चेष्टतां न तु यथेष्टमिति प्रार्थना कृतेति ज्ञातव्या ॥ ३६ ॥
**॥ इति श्रीमद्वेदेशपूज्यपादशिष्येण यदुपतिना विरचितायां **
श्रीमद्भागवतटिप्पण्यां चतुर्थस्कन्धे सप्तदशोऽध्यायः ॥ ४-१७ ॥