१६ षोडशोऽध्यायः

इति ब्रुवाणं नृपतिं गायका मुनिचोदिताः

अथ षोडशोऽध्यायः

मैत्रेय उवाच–

इति ब्रुवाणं नृपतिं गायका मुनिचोदिताः ।

तुष्टुवुस्तुष्टमनसस्तद्वागमृतसेवया ॥ १ ॥

पदरत्नावली

पृथुस्तुतिव्याजेन हरौ भक्त्यवतारार्थं तन्माहात्म्यं निरूप्यतेऽस्मिन्नध्याये । नन्वत्र सूतादयः स्तुतौ पृथुना निवारिताः । अन्ये के स्तोतारो येन तत्स्तुत्या हरौ भक्तिरवतार्यत इत्याशङ्क्य मुनिप्रेरितास्त एव तुष्टुवुरिति तत्स्तुतिप्रकारमुपक्रमते– इति ब्रुवाणमित्यादिना ॥ १ ॥

प्रकाशिका

गायकाः सूतादयः ॥ १ ॥

सूता ऊचुः–

नालं वयं ते महिमानुवर्णने यो देवदेवोऽवततार मायया ।

वेनाङ्गजातस्य च पौरुषाणि ते वाचस्पतीनामपि बभ्रमुर्धियः ॥ २ ॥

पदरत्नावली

वयं तोष्याम इति प्रारम्भ एव श्रेयान् न तु तत्र समर्था इत्याहुरित्याह– नाल-मिति ॥ अलं समर्थाः । पृथुसन्निहितश्रीहरिमहिमसन्दृब्धत्वादिति भावेनोच्यते– य इति ॥ यो देवदेवः श्रीनारायणो मायया भक्तानुकम्पेच्छया अवततार । तस्य वेनाङ्गजं वेनस्याङ्गादवयवाज् जन्म, अतस्य ‘‘अत सातत्यगमने’’ इति धातोर्विशेषसन्निहितत्वेन प्राप्तस्य, ते त्वयि स्थितस्य हरेः पौरुषाणि वर्णयितुं वाचस्पतीनां ब्रह्मादीनामपि धियो बभ्रमुरिति यस्मात् तस्माद् वयं न समर्था इति किमु वर्णनीयम् ? चशब्दः कैमुत्यार्थः । अन्यत्र देवो हरिस्तस्य देवो देवनं क्रीडनं यस्मिन् पृथौ स देवदेवः पृथुः, मायया भगवदिच्छोद्बोधितमुनीच्छयाऽवततार प्रकाशितोऽभूत् तस्य ते वेनस्याङ्गादवयवाज्जातस्य पौरुषाणि कथयितुं वाचत्पतीनां कवीनां धियो बभ्रमुरिति यदत इति । धीशब्देन मनो लक्ष्यते । मनसा वा अग्रे संकल्पयत्यथ वाचा व्याहरतीति श्रुतेः । वाचो भ्रमन्तीति किमु वक्तव्यमित्यर्थः ॥ २ ॥

प्रकाशिका

नालं न समर्थाः । ते त्वत्संन्निहितस्य हरेः । मायया भक्तानुकंपेच्छयाऽवततार । वेनस्याङ्गाच्छरीराज्जे जाते पृथौ अतस्य विशेषेण संन्निहितस्य । ‘‘अत सातत्यगमने’’ इति धातोः । ते पौरुषाणि पराक्रमान् प्रति । तदनुवर्णन इति यावत् । वाचस्पतीनां ब्रह्मादीनामपि धियो बभ्रमुः । धियां भ्रमे कुतो वाचामवकाश इत्याशयः । कुतःपुनस्तद्वर्णने वयं समर्था भवेम ॥ २ ॥

अथाप्युदारश्रवसः पृथोर्हरेः कलावतारस्य कथामृतादृताः ।

यथोपदेशं मुनिभिः प्रचोदिताः श्लाघ्यानि कर्माणि वयं वितन्महे ॥ ३ ॥

पदरत्नावली

१तर्हि निवर्ततामित्याहुरित्याह– अथापीति ॥ असमर्था अपि कथामृतादृतत्वान् निवर्तितुं मनो नायातीत्यर्थः । तर्हि किं कुर्वन्तीति तत्राहुरित्याह– यथोपदेशमिति ॥ साकल्येन स्तवना-शक्तौ निवर्तनं वरमित्यत उक्तम्– मुनिभिरिति ॥ आज्ञोल्लङ्घनभीरुत्वाद् वितन्महे प्रपञ्चयामः ॥ ३ ॥

प्रकाशिका

अथाऽपि साकल्येन वर्णयितुमशक्ता अपि पृथोः पृथ्वाविष्टस्य कथामृते आदृता आदरयुक्ताः । यथोपदेशं मुनिभिः । पूर्वमुपदिष्टप्रकारमनतिक्रम्य तैरेव प्रचोदिताः सन्तो वितन्महे विस्तारयामः ॥ ३ ॥

एष धर्मभृतां श्रेष्ठो लोकं धर्मेऽनुवर्तयन् ।

गोप्ता च धर्मसेतूनां शास्ता तत्परिपन्थिनाम् ॥ ४ ॥

पदरत्नावली

किं गुणविशिष्टः प्रपञ्च इत्यत्रोच्यते– एष इति ॥ तत्परिपन्थिनां तस्य धर्मसेतो-र्विरोधिनाम् ॥ ४ ॥

प्रकाशिका

तत्परिपंथिनां धर्मसेतुविरोधिनाम् ॥ ४ ॥

एष वै लोकपालानां बिभर्त्येकस्तनौ तनूः ।

काले काले यथाभागं लोकयोरुभयोर्हितम् ॥ ५ ॥

पदरत्नावली

एष पृथौ सन्निहितो हरिस्तनौ स्वदेहे तनूः शक्तिलक्षणा मूर्तीर् यथाभागं बिभर्ति

॥ ५ ॥

प्रकाशिका

एष पृथौ संन्निहितो हरिस्तनौ स्वदेहे तनूर् मूर्तीः । तच्छक्ति-रिति यावत् । काले काले बिभर्ति । यथाभागं यज्ञादिना स्वर्लोकस्य वर्षणादिना भूलोकस्येति भागमनतिक्रम्योभयोर्लोक-योर्हितं बिभर्ति ॥ ५ ॥

वसु काल उपादत्ते काले चायं विमुञ्चति ।

समः सर्वेषु भूतेषु प्रतपन् सूर्यवद् विभुः ॥ ६ ॥

पदरत्नावली

भरणप्रकारं दर्शयति– वस्वित्यादिना ॥ ‘वसु ह्रदेऽग्नौ योक्त्रंशे वसु तोये महाधने’ इत्यभिधानाद् यथासम्भवं योज्यम् । करादानकाले वसुमुपादत्ते । दुर्भिक्षादौ दानयोग्य-पुरुषागमनकाले विमुञ्चति । सूर्योऽपि ग्रीष्मादिकाले वसु जलमुपादत्ते । वर्षादौ मुञ्चति । समो यथा योग्यं, दण्ड्यादिषु प्रतपन् प्रतापं कुर्वन्, अन्यत्र यथर्तु प्रतपन् ॥ ६ ॥

प्रकाशिका

सूर्यादिदेवशक्तिधारणमस्याहुर्वस्वित्यष्टभिः । वसु धनं करादानकाले आदत्ते । दुर्भिक्षादिकाले विमुञ्चति प्रजाभ्यः स्वयं धनं ददाति । यथा सूर्यो ग्रीष्मादौ वसु जलमादत्ते । वर्षासु मुंचति तद्वत् । समो यथायोग्यं दण्ड्यादिषु प्रतपन् प्रतापं कुर्वन् । अन्यत्र यथर्तु प्रतपन् ॥ ६ ॥

तितिक्षत्यक्रमं वैन्य उपर्याक्रमतामपि ।

भूतानां करुणः शश्वदार्तानां क्षितिवृत्तिमान् ॥ ७ ॥

पदरत्नावली

उपर्याक्रमतामात्मानमतिक्रम्य वर्तमानानां सतामक्रममपराधं तितिक्षति सहते । दारिद्य्रेणार्तानां क्षितिवृत्तिमान् भूमिलक्षणवृत्तिदाता । भूमार्थो मतुबर्थः ॥ ७ ॥

प्रकाशिका

उपर्याक्रमतां स्वदेहं पदा स्पृष्ट्वा गच्छतामप्यार्तानां सतामक्रममपराधम् । अतः क्षितेर्वृत्तिः सहनं साऽस्यास्तीति क्षितिवृत्तिमान् ॥ ७ ॥

देवेऽवर्षत्यसौ देवो नरदेववपुर्हरिः ।

कृच्छ्रप्राणाः प्रजा ह्येष रक्षिष्यत्यञ्जसेन्द्रवत् ॥ ८ ॥

पदरत्नावली

देवेऽवर्षति अनावृष्टौ सत्यां बुभुक्षया कृच्छ्रप्राणाः क्लिष्टेन्द्रियचेष्टाः प्रजा रक्षिष्य-तीत्यन्वयः ॥ ८ ॥

प्रकाशिका

देवेऽवर्षत्यनावृष्टौ सत्यां बुभुक्षया कृच्छ्रङ्गताः प्राणा यासां ताः प्रजाः स्वयं वृत्तिं दत्वा रक्षिष्यति ॥ ८ ॥

आप्याययत्यसौ लोकं वदनामृतमूर्तिना ।

सानुरागावलोकेन विशदस्मितचारुणा ॥ ९ ॥

पदरत्नावली

वदनामृतमूर्तिना मुखचन्द्रेण ॥ ९ ॥

प्रकाशिका

वदनमेवामृतमूर्तिश्चन्द्रस्तेन सानुरागोऽवलोको यस्मिन् । विशदस्मितेन चारुणा । वर्तमाननिर्देशो वर्तमानसामीप्यात् ॥ ९ ॥

अव्यक्तवर्त्मैष विशुद्धकार्यो गम्भीरचेता उपगुप्तवित्तः ।

अनन्तमाहात्म्यगुणैकधामा पृथुः प्रचेता इव संवृतात्मा ॥ १० ॥

पदरत्नावली

अव्यक्तं सूक्ष्मं वर्त्म चारैः प्रवेशमार्गो यस्य स तथा । अव्यक्तानां योगिनां वर्त्म यस्येति वा । नितरां शुद्धं कार्यं कर्तव्यं यस्य । उपगुप्तवित्तः सुरक्षितकोशः सुरक्षितयशा वा । ‘वित्तं यशो धनं वित्तो विद्वान् विश्रुत एव च’ इत्यभिधानम् । अनन्तानां माहात्म्यगुणानामेकं धामाश्रयो यस्य स तथा वा । अन्यत्र शेषस्य माहात्म्यगुणैकधामा संवृत आत्मा स्वरूपं यस्य स तथा ॥ १० ॥

प्रकाशिका

अव्यक्तवर्त्मा न व्यक्तं वर्त्म प्रवेशनिर्गमनयोर्मार्गो यस्याव्यक्तानां योगिनां वर्त्म यस्य । निगूढं निष्पत्तेः पूर्वमज्ञातं कार्यं यस्योपगुप्तं सुरक्षितं वित्तं यस्य स तथा । अनन्तमाहात्म्योपेतानां गुणानामेकधामा मुख्याश्रयः । संवृतात्मा सम्यगाच्छादितस्वरूपः । प्रचेता इव वरुण इव । समुद्राभि-मानिनो वरुणस्याप्येते गुणा द्रष्टव्याः ॥ १० ॥

दुरासदो दुर्विषह आसन्नोऽपि विदूरवत् ।

नैवाभिभवितुं शक्यो वेनारण्युत्थितोऽनलः ॥ ११ ॥

पदरत्नावली

अग्नेः शक्तिसन्निधानस्वभावमाह– दुरासद इति ॥ ११ ॥

प्रकाशिका

अग्निशक्तिं दर्शयति ॥ दुरासद इति । शत्रोर्मनसाऽपि प्राप्तुमशक्यः । दुर्विषहः शत्रुभिः सोढुमशक्यः । विदूरवत्पौरुषेणाभिभवितुमशक्यः । वेन एवारणिस्तस्मादुत्थितो ऽनल इवानलः ॥ ११ ॥

अन्तर्बहिश्च भूतानां पश्यन् कर्माणि चारणैः ।

उदासीन इवाध्यक्षो वायुरात्मेव देहिनाम् ॥ १२ ॥

पदरत्नावली

वायुसन्निधानफलमाह– अन्तर्बहिरिति ॥ अन्तश्चारणैः श्वाससंचारैर्बहिश्चारिगूढ-पुरुषैः । प्रेमालम्बनत्वाद् देहिनामात्मा । वायुस्तु प्राणरूपेणोदासीन उपरिस्थितोऽधो वर्तमानं सर्वमीक्षते यथा तथाऽयमप्यध्यक्षः सर्वस्मादुपरि वर्तमानावक्षौ यस्येति वाऽध्यक्षः, परितो वर्तमानं जानाति तथेति वा ॥ १२ ॥

प्रकाशिका

चारणैर् गूढचारिभृत्यैः कर्माणि स्वस्तुतिनिन्दारूपाणि पश्यन् जानन्नप्युदासीन इव वर्तिष्यते । अध्यक्षोऽधिपतिः । देहिनामात्मान्तर्यामी । अध्यक्षो वायुर्मुख्यप्राण इव । प्राणपक्षे चारणैरन्तःश्वाससंचारविशेषैः ॥ १२ ॥

नादण्ड््यं दण्डयत्येष सुतमात्मद्विषामपि ।

दण्डयत्यात्मजमपि दण्ड््यं धर्मपथे स्थितः ॥ १३ ॥

पदरत्नावली

आत्मद्विषामात्मशत्रूणां सुतमप्यदण्ड्यं न दण्डयति । दण्ड्यमात्मजमपि दण्डयति । तत्र निमित्तमाह– धर्मपथ इति ॥ अनेन धर्मराजसन्निधानफलमुक्तं भवति ॥ १३ ॥

प्रकाशिका

आत्मद्विषां सुतमिति सुतग्रहणं तस्य स्वसुतसाम्यबुद्धिप्रदर्शनाय । धर्मपथे यमधर्ममार्गे ॥ १३ ॥

अस्याप्रतिहतं चक्रं पृथोरामानसाचलात् ।

वर्तते भगवानर्को यावत् तपति गोगणैः ॥ १४ ॥

पदरत्नावली

परमेष्ठ्यंशसन्निधानफलमाह– अस्येति ॥ आमानसाचलान् मानसपर्वतपर्यन्तम् । गोगणै रश्मिगणैः ॥ १४ ॥

प्रकाशिका

चक्रमाज्ञा सेना वा रथचक्रं वा । आमानसाचलमभिव्याप्य प्रवर्तते । कियत्पर्यन्त-मित्यत आह ॥ र्ओति । अर्को गोगणै रश्मिसमूहैर्यावत्तपति तावत् ॥ १४ ॥

रञ्जयिष्यति यल्लोकमयमात्मविचेष्टितैः ।

अथामुमाहू राजानं मनोरञ्जनकैः प्रजाः ॥ १५ ॥

पदरत्नावली

चन्द्रगुणसन्निधानफलमाह– रञ्जयिष्यतीति ॥ यद् यस्मादस्मात् ॥ १५ ॥

प्रकाशिका

मनोरंजनकैरात्मचेष्टितै रंजयिष्यतीति यद्यस्मादथ तस्मात् ॥ १५ ॥

दृढव्रतः सत्यसन्धो ब्रह्मण्यो वृद्धसेवकः ।

शरण्यः सर्वभूतानां मानदो दीनवत्सलः ॥ १६ ॥

पदरत्नावली

सन्धोऽवधौ प्रतिज्ञायामिति यादवः ॥ १६ ॥

मातृभक्तिः परस्त्रीषु पत्न््नयामर्ध इवात्मनः ।

प्रजासु पितृवत् स्निग्धः किङ्करो ब्रह्मवादिनाम् ॥ १७ ॥

प्रकाशिका

मातरीव भक्तिर्भजनं यस्य । आत्मनो देहस्यार्धे इव पत्न््नयां प्रीतिमान् ॥ १७ ॥

देहिनामात्मवत् प्रेष्ठः सुहृदानन्दवर्धनः ।

मुक्तसङ्गप्रसङ्गोऽयं दण्डपाणिरसाधुषु ॥ १८ ॥

एष दोग्धा महीं वीरो गां सतीमोजसौषधीः ।

समां करिष्यते चेमां धनुःकोट्या समन्ततः ॥ १९ ॥

पदरत्नावली

आनन्दवर्धन आनन्दवृद्धिकरः । मुक्तसङ्गैः परमहंसैः प्रसङ्गो यस्य स तथा । पूर्वं ध्वनितमर्थं स्पष्टयति– दण्डपाणिरिति ॥ १८ ॥

प्रकाशिका

मुक्तसङ्गेषु परमहंसेषु प्रकृष्टः सङ्गो यस्य । असाधुषु तच्छिक्षाविषये दण्डपाणिर्यम इव स्थितः ॥ १८.१९ ॥

अयं तु साक्षाद्भगवांस्त्र्यधीशः कूटस्थ आत्मा कलयाऽवतीर्णः ।

यस्मिन्नविद्यारचितं निरर्थकं पश्यन्ति नानात्वमिव प्रतीतम् ॥ २० ॥

तात्पर्यम्

यल्लोके निरर्थकं तद्भगवद्रूपेषु प्रतीतनानात्वदृष्टान्तेन पश्यन्ति सन्तः । ‘मत्स्य- रूपादिनानात्वदृष्टिवद् यन्निरर्थकम्’ । इति पाद्मे । ‘एवं धर्मान्पृथक् पश्यन्’ इति च ॥ २० ॥

पदरत्नावली

उक्तमिदं सर्वं श्रीनारायणसन्निधानफलमित्यभिप्रेत्याह– अयं त्विति ॥ तुशब्द एवार्थे । अस्मिन् पृथौ कलयाऽवतीर्णः सन्निहितः साक्षाद्भगवांस्तु ऋष्याद्यन्यतमो न स्यात् किन्तु श्रीनारायण एव त्विति हेतुगर्भविशेषणद्वयमाह– त्र्यधीश इति ॥ त्रयाणामीश इन्द्रादयस्तेषा-मप्यधिकत्वेनेशः । ‘स्यादध्यधिक ईश्वरे’ इति यादवः । चेतनाचेतनकूटे तिष्ठतीति कूटस्थः । स्थान-दोषलेपनमस्य नास्तीत्यत उक्तम्– आत्मेति ॥ गुणपूर्णत्वादात्मा । तर्हि स्थानभेदान्नानात्वमायातम् ? अत्रोच्यते– यस्मिन्निति ॥ यल्लोके निरर्थकं तद् यस्मिन् हरौ प्रतीतमविद्यया हरीच्छया रचितं कल्पितं नानात्वमिव यथा पश्यन्ति । एतदुक्तं भवति । यल्लोके खपुष्पादिकमविद्यमानं तन्मत्स्यादिभगवद्रूपेषु प्रतीतं नानात्वं यथा मिथ्याभूतं पश्यन्ति योगिनस्तथेति । तदुक्तम्– ‘यल्लोके निरर्थकं तद्भगवद्रूपेषु प्रतीतनानात्वदृष्टान्तेन पश्यन्ति सन्तः । मत्स्यरूपादिनानात्वदृष्टिवद् यन्निरर्थकम् ॥’ इति पाद्मे । ‘एवं धर्मान् पृथक् पश्यन्’ इति च । अनेन तद्धर्माणामपि पृथक्त्वदर्शनेनानर्थ इत्युक्तं भवति ॥ २० ॥

प्रकाशिका

ननु मनुष्यदेहधारिणि पृथौ कथमुक्ता एते गुणा इत्यतोऽस्माभिः स्तुतोऽयं हरिरेवेति स्पष्टमाहुः ॥ अयं त्विति । अयं पृथौ संनिहितः । तुशब्दो विशेषसंन्निधिसूचकः । साक्षादनुपचारेण त्रयाणां लोकानामधीशः कूटस्थो निर्विकारः । आत्माऽऽदानादिकर्ता परमात्मकलया राजराजरूपेण । तस्मादुक्तगुणा उपपन्ना इति शेषः । नन्वेवं भगवति नानाविधजगदादानादि-कर्तृत्वोक्त्या नानात्वं प्राप्तमित्यतस्तत्प्रतीतेर्भ्रान्तित्वमवश्यं कल्प्यमित्याशयेनाह ॥ यस्मिन्निति । अत्र जगतो मिथ्यात्वमुच्यत इति प्रतीतिवारणायापेक्षितमध्याहारं दर्शयंस्तात्पर्यमाह ॥ यल्लोक इति । निरर्थकमविद्यमानविषयकं गन्धर्वनगरादिज्ञानम् । यस्मिन्नित्यस्य तात्पर्यं भगवद्रूपेष्विति । प्रतीतं नानात्वमिवेत्यस्यार्थः प्रतीयमाननानात्वदृष्टान्तेनेति । नानात्वप्रतीतिदृष्टान्तेनेत्यर्थः । तथा च यत्तच्छब्दयोर्लोके सन्त इत्येतयोश्चाध्याहार इति ज्ञातव्यम् । अत्र प्रमाणसंवादं दर्शयति ॥ मत्स्येति । आदिपदेन कूर्मरूपादिग्रहणम् । निरर्थकमविद्यमानविषयकं ज्ञानम् । यस्मिन्नित्यस्य यद्धर्मेष्वपि व्याख्यानमभिप्रेत्य भगवद्धर्मेषु नानात्वप्रतीतेर्भ्रमत्वे प्रमाणमाह ॥ एवं धर्मानिति । एवं श्रुतिश्चास्तीति शेषः । यथा पर्वतेषु दुर्गे वृष्टमुदकमधो धावति । एवं धर्मान् भगवतः परस्परं च पृथग्भिन्नानि पश्यन् तानेव यथा दृष्टान् धर्मानन्वेव तद्दर्शनमन्वेवाधो धावतीति श्रुत्यर्थः । अत्र भगवद्धर्माणां भेदज्ञानेना-नर्थोक्त्या तज्ज्ञानस्याविद्यमानविषयकत्वमर्थात्प्राप्तमित्यवगन्तव्यम् ॥ तथा चायं मूलार्थः ॥ अविद्ययेश्वरेच्छया रचितं कल्पितं यल्लोके निरर्थकमविद्यमानविषयकं गन्धर्वनगरादिज्ञानं तत्सन्तो यस्मिन्यदीयरूपेषु धर्मेषु च प्रतीतं नानात्वमिव नानात्वप्रतीतिमिव । तदृष्टान्तेनेति यावत् । पश्यन्ति । तद्वदिदं भ्रमरूपमिति जानन्तीत्यर्थः । सोऽयमिति पूर्वार्धेनान्वयः । तथा चाविद्यमानविषयक-गन्धर्वनगरादिज्ञानस्य भ्रमत्वे भगवद्रूपनानात्वप्रतीतेर्दृष्टान्तपूर्वकतया ज्ञानिभिरुपादानात्तस्य भ्रमत्वं निश्चितमिति ज्ञातव्यम् । अन्यथा दृष्टान्ततया उपादानासम्भवादित्याशयः ॥ २० ॥

अयं भुवो मण्डलमोदयाद्रेर्गौप्तैकवीरो नरदेवनाथः ।

आस्थाय जैत्रं रथमात्तचापः पर्यस्यते दक्षिणतो यथाऽर्कः ॥ २१ ॥

पदरत्नावली

राज्यावधिमाहुरित्याह– अयमिति ॥ ओदयाद्रेरुदयपर्वतपर्यन्तम् । पर्यस्यते पर्यटति ॥ २१ ॥

प्रकाशिका

पुनस्तद्गुणानाहुः ॥ अयमिति । आ उदयार्द्रेरुदयपर्वतपर्यन्तं गोप्ता गोपयिष्यति । तदर्थं दक्षिणतः पर्यस्यते पर्यटिष्यति प्रदक्षिणां करिष्यतीत्यर्थः ॥ २१ ॥

तस्मै नृपालाः किल तत्र तत्र बलिं हरिष्यन्ति सलोकपालाः ।

मंस्यन्तमीषां१ स्त्रिय आदिराजं चक्रायुधं तद्यश उच्चरन्त्यः ॥ २२ ॥

अयं महीं गां दुदुहेऽधिराजः प्रजापतिर्वृत्तिकरः प्रजानाम् ।

यो लीलयाऽद्रीन् स्वशरासकोट्या भिन्दन् समां गामकरोद् यथेन्द्रः ॥ २३ ॥

पदरत्नावली

अन्येषु राजसु सत्सु अस्यादिराज्यं कथमित्याशङ्क्य चक्रवर्तित्वाद् युज्यत इत्युच्यते– तस्मा इति ॥ कीदृशं यश उच्यरन्त्य इत्यत्राह– अयंं महीमिति ॥ २२,२३ ॥

प्रकाशिका

तस्मै तथा प्रदक्षिणां कुर्वते । मंस्यन्ति ज्ञास्यन्ति । उच्चरन्त्यः कीर्त्ययन्त्यः

॥ २२,२३ ॥

विस्फूर्जयन्नाजगवं धनुः स्वं२ यदाऽचरत् क्ष्मामविषह्य आजौ ।

तदा निलिल्युर्दिशि दिश्यसन्तो लाङ्गूलमुद्यम्य यथा मृगेन्द्रः ॥ २४ ॥

पदरत्नावली

निलिल्युर्निलीनाः । लाङ्गूलं पुच्छम् ॥ २४ ॥

प्रकाशिका

लांगूलं पुच्छमुद्यम्य यथा मृगेन्द्रश्चरति । तथा धनुर्विस्फूर्जयन् यदा क्ष्मामचरत्तदा निलिल्युः । निलीना इत्यन्वयः ॥ २४ ॥

एषोऽश्वमेधाञ्छतमाजहार सरस्वती प्रादुरभूद्धि यत्र ।

अहार्षीद् यस्य हयं पुरन्दरः शतक्रतुश्चरमे वर्तमाने ॥ २५ ॥

पदरत्नावली

अहार्षीदित्यनेन अस्य प्रतिभटः शतमख एव नान्य इति द्योतनाय कथितमिति ज्ञातव्यम् । चरमे अन्त्येऽश्वमेधे वर्तमाने सति ॥ २५ ॥

प्रकाशिका

प्रादुरभूत् प्रादुरभावि । तत्राहार्षीत् ॥ २५ ॥

एष स्वसद्मोपवने समेत्य सनत्कुमारं भगवन्तमेकम् ।

आराध्य भक्त्याऽलभतामलं तज् ज्ञानं यतो ब्रह्म परं वदन्ति ॥ २६ ॥

पदरत्नावली

यतो ज्ञानात् परं ब्रह्म प्रत्यक्षं भवति इति वदन्ति योगिनः ॥ २६ ॥

प्रकाशिका

पृथुमेव लक्षीकृत्याहुः ॥ एष इति । यतो ज्ञानात्परं ब्रह्म प्रत्यक्षं भवतीति वदन्ति योगिनस्तत् ॥ २६ ॥

तत्र तत्र गिरस्तास्ता इति विश्रुतविक्रमः ।

श्रोष्यत्यात्माश्रिता गाथाः पृथुः पृथुपराक्रमः ॥ २७ ॥

पदरत्नावली

तद्भविष्यत्कथा अतीतत्वेन कथं कथ्यत इत्यत्रोच्यते– तत्रेति ॥ आत्माश्रिताः स्वविषया यास्त्रिभिः षड्भिश्चरणैरुपलक्षिता यशोनिबन्धाः ॥ २७ ॥

प्रकाशिका

तद्भविष्यत्कथातीतत्वेन कथं कथ्यत इत्यत्रोच्यते ॥ तत्रेति । विश्रुतविक्रम आत्माश्रिताः स्वविषयास्त्रिभिः षड्भिश्चरणैरुपलक्षिता यशोनिबन्धाः ॥ २७ ॥

दिशो विजित्याप्रतिरुद्धचक्रः स्वतेजसोत्पाटितलोकशल्यः ।

एवं सुरेन्द्रैरुपगीयमानो१ महानुभावो भविता पतिर्भुवः ॥ २८ ॥

पदरत्नावली

अप्रतिरुद्धचक्रोऽप्रतिहताज्ञो भविता भविष्यतीत्युपसंहरते ॥ २८ ॥

॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुकृतायां

चतुर्थस्कन्धे षोडशोऽध्यायः ॥

प्रकाशिका

अप्रतिरुद्धचक्रोऽप्रतिहतपराक्रमः । उपगीयमानो महानुभावो यस्य ॥ २८ ॥

**॥ इति श्रीमद्वेदेशपूज्यपादशिष्येण यदुपतिना विरचितायां **

श्रीमद्भागवतटिप्पण्यां चतुर्थस्कन्धे षोडशोऽध्यायः ॥ ४-१६ ॥