१५ पञ्चदशोऽध्यायः

अत्र तु प्रथमो राज्ञां पुमान् प्रथयिता यशः

अथ पञ्चदशोऽध्यायः

विप्रा ऊचुः–

अत्र तु प्रथमो राज्ञां पुमान् प्रथयिता यशः ।

पृथुर्नाम महाराजा भविष्यति पृथुश्रवाः ॥ १ ॥

इयं च देवी सुदती गुणभूषणभूषणा१ ।

अर्चिर्नाम वरारोहा पृथुमेवावरुन्धती ॥ २ ॥

पदरत्नावली

श्रीनारायणचरणारविन्दमकरन्दनिषेविणां महतां पुरुषाणामिहामुत्रानभिमता अपि भगवदिच्छया सकलाः संपदो भवन्तीति निरूप्यतेऽस्मिन्नध्याये पृथुकथाकथनव्याजेन । तत्रादौ विप्राणां पृथुप्रशंसाप्रकारं वक्ति– अत्रेति ॥ तुशब्देन भेदवादिना पृथोर्हरेश्च महान् भेदोऽस्तीति सूच्यते । एतदर्थद्योतकप्रमाणसद्भावात् । तथा ह्युक्तम्– ‘ब्रह्मण्यनन्ते गरुडे रुद्रे कामे शचीपतौ । अनिरुद्धे मनौ चेव पृथौ च कृतवीर्यजे । नारदे चैवमाद्येषु विशेषात् सन्निधिर्हरेः ॥ सुदर्शनादिष्वस्त्रेषु तथा सन्निहितो हरिः । नरलक्ष्मणौ बलश्चैव शेषस्यांशाः प्रकीर्तिताः ॥ तथा भरतशत्रुघ्नौ शङ्खचक्रावुदाहृतौ । प्रद्युम्नश्च कुमारश्च स्कन्दः कामांशकाः स्मृताः ॥’ इति । ‘वैन्ये पृथौ सन्निहितो राजरूपी जनार्दनः’ इति विशेषवचनेनायं वैन्यः पृथुः श्रीनारायणांशो ऽन्यस्तथा कश्चित् पृथुनामा तत्रोच्यत इति शङ्का निर्मूलितेति ज्ञातव्यम् । अत्रास्मिन् वर्षे राज्ञां गणनसमये प्रथमः । कथम् ? यतो यशः प्रथयिता अतः प्रथयितृत्वात् पृथुर्नाम । महाराजेत्यत्र टच्प्रत्ययाभावस्तेभ्यो वैशिष्ट्यद्योतनार्थः ॥ सुदती शोभ-मानदन्ता । अर्चिर्नामगुणैरर्चितत्वाद् भूषणैर्ज्वलितत्वात् । अर्चिर्भा ज्वालेत्यभिधानात् । वरो वरणीयो आरोहो नितम्बो यस्याः सा तथोक्ता । अवरुन्धती पतित्वेन स्वीकुर्वाणा भविष्यतीत्यर्थः ॥ १,२ ॥

प्रकाशिका

सुदती शोभनदंतवती । गुणानां भूषणानां च भूषणा भूषणरूपा वरो वरणीय आरोहो नितंबो यस्याः । अवरुंधती पतित्वेन स्वीकुर्वाणा भविष्यतीत्यर्थः ॥ २ ॥

एष साक्षाद्धरेरंशो जातो लोकरिरक्षया ।

इयं च तत्परा हि श्रीरनुजज्ञेऽनपायिनी ॥ ३ ॥

तात्पर्यम्

तत्र सन्निहितः साक्षाद्भगवान् । ‘ब्रह्मण्यनन्ते गरुडे रुद्रे कामे शचीपतौ । अनिरुद्धे मनौ चैव पृथौ च कृतवीर्यजे । नारदे चैवमाद्येषु विशेषात्सन्निधिर्हरेः । सुदर्शनादि-ष्वस्त्रेषु तथा सन्निहितो हरिः । नरलक्ष्मणौ बलश्चैव शेषस्यांशाः प्रकीर्तिताः । तथा भरतशत्रुघ्नौ चक्रशङ्खावुदाहृतौ । प्रद्युम्नश्च कुमारश्च स्कन्दः कामांशजाः स्मृताः’ ॥ इति स्कान्दे । ‘वैन्ये पृथौ सन्निहितो राजरूपी जनार्दनः’ । इति ब्राह्मे ॥ ३ ॥

पदरत्नावली

एष पृथुः साक्षाद्धरेः श्रीनारायणस्यांश इति । सप्तसु प्रथमेति सूत्रादंशस्य सन्निधानस्य मुख्यं पात्रम् । लोकरिरक्षया जनरक्षणेच्छया । यद्वा प्रत्यक्षसदृशोः साक्षादित्यभिधानात् हरेः साक्षादंशः, पृथोर्या जातिस्तज्जातिसदृशजातिरूपेण सन्निहित इत्यर्थः । तदुक्तम्– ‘राजरूपी जनार्दनः’ इति । यतो हरिः पृथौ सन्निधानविशेषात् तदंशत्वं तस्माच्छ्रियोऽपि तथा वचनमित्यस्मिन्नर्थे हिशब्दः । ‘हिर्हेताववधारणे’ इति यादवः । अवधारणार्थत्वे उक्तस्मृतिविरोधः ॥ ३ ॥

प्रकाशिका

एष इति । अत्र पृथोः साक्षाद्धरेरंशत्वोक्तिर्विशेषावेशत इत्युक्तम् । तथात्वे योजना कथमित्यतस्तां सूचयति ॥ तत्रेति । पृथावित्यर्थः । तथा चैष इति प्रथमा सप्तम्यर्थे सप्तसु प्रथमेति सूत्रादित्याशयः । पृथौ हरेर्विशेषावेश इत्यत्र दार्ढ्याय प्रमाणान्तरमप्याह ॥ ब्रह्मणीति । अनन्ते शेषे मनौ स्वायम्भुवे । एवकारद्वयं चशब्दार्थे । तथा चानिरुद्धे च मनौ च पृथौ च कृतवीर्यजे च कार्तवीर्यार्जुने च नारदे चेति योजनीयम् । तथा सन्निहितो विशेषेण सन्निहितः । एवं नरलक्ष्मणादिष्वपि भगवतो विशेषावेशोऽस्ति तेषां विशेषावेशवदनन्ताद्यंशवत्त्वादित्याह ॥ नरलक्ष्मणाविति । शेषस्यांशाः शेषे च विशेषावेश उक्तः । अतस्तेऽपि विशेषाद्धरिसंनिधिमन्त इत्याशयः । चक्रशङ्खौ चक्रशङ्खांशौ । भरतश्च-क्रांशः शत्रुघ्नः शङ्खांशः । सुदर्शनादिषु च हरेर्विशेषावेश उक्तः । अतस्तदंशयोरनयोरस्तीति भावः । पृथौ विशेषतः संनिहितस्य हरेर्नामप्रदर्शनाय प्रमाणान्तरं पठति ॥ वैन्य इति । वेनस्यापत्यं पुमान्वैन्यः । तस्मिन् राजरूपी राजराजनामा ॥ ततश्चायं मूलार्थः ॥ एष एतस्मिन्हरेः साक्षादंशो राजराजनामा जातः प्रादुर्भूतः । इयमस्यामर्चिनाम््नयामनुजज्ञे प्रादुर्भूता ॥ ३ ॥

मैत्रेय उवाच–

प्रशंसन्ति स्म तं विप्रा गन्धर्वप्रमुखा जगुः ।

मुमुचुः सुमनोधाराः सिद्धा नृत्यन्ति तत्स्त्रियः ॥ ४ ॥

शङ्खतूर्यमृदङ्गाद्या नेदुर्दुन्दुभयो दिवि ।

तत्र सर्व उपाजग्मुर्देवर्षिपितृणां गणाः ॥ ५ ॥

पदरत्नावली

गन्धर्वप्रवरादयस्तत्र द्विजप्रशंसासमये गानादिकं चक्रुरित्यन्वयः ॥ ४ ॥

प्रकाशिका

तत्स्त्रियोऽप्सरसो नृत्यन्ति स्म ॥ ४,५ ॥

ब्रह्मा जगद्गुरुर्देवः सहागत्य सुरेश्वरैः ।

वैन्यस्य दक्षिणे हस्ते दृष्ट्वा चिह्नं गदाभृतः ॥ ६ ॥

पादयोररविन्दं च तं वै मेने१ हरेः कलाम् ।

यस्याप्रतिहतं चक्रमंशस्य परमेष्ठिनः ॥ ७ ॥

पदरत्नावली

तत्र देवान् विशिनष्टि– ब्रह्मेति ॥ तस्मिन् पृथौ सन्निहितां हरेः कलां मेन इत्यन्वयः ॥ ६,७ ॥

प्रकाशिका

चिह्नं रेखात्मकं चक्रम् ॥ अरविन्दं रेखात्मकम् । तं तस्मिन् । षट्सु द्वितीयेति सूत्रात् । तस्मिन्हरेः कलाऽस्तीत्यत्र ज्ञापकान्तरमप्याह ॥ यस्येति । यस्य राज्ञश्चक्रमाज्ञाऽप्रतिहतं केनापि प्रतिहतं न भवति । स तस्मिन्परमेष्ठिनो हरेरंशः प्रमाणप्रसिद्धः । पृथ्वाज्ञा यस्मान् न प्रतिहता । अतोऽस्मिन्परमेष्ठिनो हरेरंशोऽस्तीति ज्ञायत इति भावः ॥ ६,७ ॥

तस्याभिषेक आरब्धो ब्राह्मणैर्ब्रह्मवादिभिः ।

आभिषेचनिकान्यस्मै आजह्रुः सर्वतो जनाः ॥ ८ ॥

सरित्समुद्रा गिरयो नागा गावः खगा मृगाः ।

द्यौः क्षितिः सर्वभूतानि समाजह्रुरुपायनम् ॥ ९ ॥

सोऽभिषिक्तो महाराजः सुवासाः साध्वलङ्कृतः ।

पत्न््नयाऽर्चिषाऽलङ्कृतया विरेजेऽग्निरिवापरः ॥ १० ॥

पदरत्नावली

एवं प्रशस्य ब्राह्मणैः किमकारीति तत्राह– तस्येति ॥ अभिषेकसाधनानि स्वयं संपादितानि किंवाऽन्यैरित्यत आह– आभिषेचनिकानीति ॥ तत्रोपायनानि क आजह्रुरिति तत्राह– सरिदिति ॥ ८,९ ॥

प्रकाशिका

अभिषेचनिकान्यभिषेकसाधनानि ॥ ८-१० ॥

तस्मै जहार धनदो हैमं वीर वरासनम् ।

वरुणः सलिलस्रावमातपत्रं शशिप्रभम् ॥ ११ ॥

वायुश्च वालव्यजने धर्मः कीर्तिमयीं स्रजम् ।

इन्द्रः किरीटमुत्कृष्टं दण्डं संयमनं यमः ॥ १२ ॥

पदरत्नावली

न केवलं सरिदादय उपायनं ददुः, किन्त्वन्ये लोकपालादयोऽपीत्याह– तस्मा इति ॥ ११,१२ ॥

प्रकाशिका

हे वीर । वरासनं सिंहासनम् । सलिलस्यामृतरूपस्य बिन्दुरूपेण स्रावो यस्मात्तत्तथा ॥ वालव्यजने चामरे ॥ ११,१२ ॥

ब्रह्मा ब्रह्ममयं वर्म भारती हारमुत्तमम् ।

हरिस्सुदर्शनं चक्रं तत्पत्न््नयव्याहतां श्रियम् ॥ १३ ॥

पदरत्नावली

तस्य हरेः पत्नी लक्ष्मीः ॥ १३ ॥

प्रकाशिका

तस्य हरेः पत्नी लक्ष्मीः ॥ १३ ॥

दशचन्द्रमसिं रुद्रः शतचन्द्रं तथाऽम्बिका ।

सोमोऽमृतमयानश्वांस्त्वष्टा रूपाश्रयं रथम् ॥ १४ ॥

पदरत्नावली

नाम्ना दशचन्द्रं खङ्गम् । त्वष्टा विश्वकर्मा रूपाश्रयं रथम् ॥ १४ ॥

प्रकाशिका

दशचन्द्रं तन्नामकासिं खड्गं शतचन्द्रं तन्नामकं चर्म । अमृतमयान् अत्यन्तशुभ्रान् त्वष्टा विश्वकर्मा रूपाश्रयं सुंदरम् ॥ १४ ॥

अग्निराजगवं चापं सूर्यो रश्मिमयानिषून् ।

भूः पादुके योगमये द्यौः पुष्पबलिमन्वहम् ॥ १५ ॥

पदरत्नावली

योगमयेऽणिमादियोगसाधने ॥ १५ ॥

प्रकाशिका

आजगवं तन्नामकं रश्मिमयान् रश्मिदेवताभिमन्यमानान् योगमये पादस्पर्श-मात्रेणाभीष्टदेशप्रापके । पुष्पबलिं पुष्पलक्षणपूजाम् ॥ १५ ॥

नाट्यं सुगीतं वादित्रमन्तर्धानं च खेचराः ।

ऋषयश्चाशिषः सत्याः समुद्रः शङ्खमात्मजम् ॥ १६ ॥

पदरत्नावली

अन्तर्धानमदृश्यताम् । आत्मजमात्मनो जातम् ॥ १६ ॥

प्रकाशिका

नाट्यादिकौशलं खेचरा देवाः । अन्तर्धानमदृश्यताम् । सत्या अमोघाः । आत्मजं स्वस्मिन् जातम् ॥ १६ ॥

सिन्धवः पर्वता नद्यो रथवीथीर्महात्मनः ।

सूतोऽथ मागधो बन्दी संस्तोतुमुपतस्थिरे ॥ १७ ॥

पदरत्नावली

रथवीथी रथमार्गान् । यथात्मविद्यं राजा निषेवणीय इति भावेन सूतादीना-मुपस्थानप्रकारं वक्ति– सूतोऽथेति ॥ १७ ॥

प्रकाशिका

रथवीथी रथमार्गान् । उपतस्थिरे उपस्थिताः ॥ १७ ॥

स्तावकांस्तानभिप्रेत्य पृथुर्वैन्यः प्रतापवान् ।

मेघनिर्ह्रादया वाचा प्रहसन्निदमब्रवीत् ॥ १८ ॥

पदरत्नावली

पृथोर्निरहङ्कारत्वप्रकटनाय वक्ति– स्तावकानिति ॥ मेघनिर्ह्रादवन् मेघध्वनिवद् ध्वनिर्यस्याः सा तथा तया ॥ १८ ॥

प्रकाशिका

स्तावकान् स्तोतुमुद्यतान् अभिप्रेत्य ज्ञात्वा ॥ १८ ॥

पृथुरुवाच–

हे सूत हे मागध सौम्य बन्दिन् लोकेऽधुनाऽस्पष्टगुणस्य मे स्यात् ।

किमाश्रयो मे स्तव एष योज्यतां मा मय्यभूवन् वितथा गिरो वः ॥ १९ ॥

पदरत्नावली

हे सूताद्या योज्यतां स्तुतिं प्रयुञ्जतां वो युष्माकमेष स्तवो मे किमाश्रयः कं गुणमाश्रित्य वर्तमानः स्यादित्यन्वयः । तव शौर्यादिगुणमाश्रित्य वर्तत इति तत्राह– लोक इति ॥ अस्पष्टगुणस्याप्रकाशितपराक्रमादिगुणस्य । यद्वा यद्यहं प्रख्यातगुणः स्यां तर्ह्येष वः स्तवो योज्यताम् । न तथा । तस्मात् किमाश्रयो योज्यते । यत एवमतो मयि प्रयुक्ता गिरो वितथा मा भूवन्नित्यन्वयः

॥ १९ ॥

प्रकाशिका

लोकेऽधुनाऽस्पष्टगुणस्य मे मामुद्दिश्य वो युष्मत्कर्तृकः स्तवो गुणवत्ताज्ञापक-शब्दसमूहः किमाश्रयः स्यात् । निर्विषयः स्यादिति यावत् । अतोऽधुना मयि मद्विषये प्रयुक्ता वो गिरः स्तुतिरूपा वितथा विगतार्था माऽभूवन् भवितुं नार्हन्ति । किन्तु कालान्तरे स्पष्टगुणस्य मे एषः स्तवः योज्यताम् । तथात्वे सार्थका भविष्यन्तीत्याशयः ॥ १९ ॥

तस्मात् परोक्षेऽस्मदुपाश्रितान्यलं करिष्यथ स्तोत्रमपीड्यवाचः ।

सत्युत्तमश्लोकगुणानुवादे जुगुप्सितं न स्तवयन्ति सभ्याः ॥ २० ॥

पदरत्नावली

किमिदानीं फलितम् ? अत्राह– तस्मादिति ॥ यस्मादिदानीमनाविष्कृतगुणा वयं तस्मादिड्यवाचो यूयं परोक्षे कालान्तरे कृतविक्रमानन्तरमस्मदुपाश्रितान्यस्मद्विषयाणि कर्माण्या-श्रित्यालमत्यर्थं स्तोत्रं करिष्यथेत्यन्वयः । यद्वा कथङ्कारञ्चेदं वितथाः स्युरस्मद्गिर इति तत्राह– तस्मादिति ॥ यतो वयमप्रकाशितगुणस्तत्र प्रवर्तमाना विषयाणामसत्त्वाद् वैतथ्यमालभन्ते, तस्मात् तद्दोषपरिहारार्थमस्मदपरोक्षे चास्मन्निकटेऽस्मद्दूरप्रदेशे वर्तमानो हरिस्तस्येड्यवाचो हरेराश्रितानि चरितान्यङ्गीकृत्य स्तोत्रमलङ्करिष्यथ भूषितं कुर्वन्तु । अन्यथा दूषितमेव स्यादतस्तस्य गुणानां नित्यत्वात् तद्विषया युष्मद्गिरः सफलाः स्युः । ‘अविद्यमानकथका बन्दिनः परिकीर्तिताः’ इति युष्मद्दोषोऽपि परिहृतः स्यादिति । भाविनो गुणान् समूह्य स्तुम इति तत्राह– सतीति ॥ उत्तम-श्लोकगुणानामनुवादे सत्यभ्यर्हितेऽपि सभ्या आत्मस्तवनं जुगुप्सितमिति न स्तावयन्ति । ‘आत्म प्रशंसा मरणम्’ इति स्मृतेः ॥ २० ॥

प्रकाशिका

एतदेवाह ॥ तस्मादिति । तस्मादिदानीमस्पष्टगुणत्वात्परोक्षे कालान्तरेऽस्म-दुपाश्रितानि स्पष्टानि कर्माण्याश्रित्यालमत्यर्थम् । स्तोत्रं करिष्यथ । अपीड्यवाचोऽबाधितार्थकवाचः । अनेनेदानीं स्तवने वाचां बाध्यार्थत्वरूपं पीड्यत्वं स्यादिति सूचयति । अभ्युपेत्य चेदमुदितं वस्तुतस्त्वात्मस्तुतिश्रवणं सर्वदा महद्भिर्न कार्यमित्याशयेनाह ॥ सत्युत्तमेति । उत्तमश्लोको हरि-स्तद्गुणानुवादे तत्स्तोत्रे श्राव्यतया विद्यमाने सति जुगुप्सितं स्वात्मानं सभ्या महान्तो न स्तवयन्ति स्तावयन्ति । अन्यकृतं स्वात्मस्तोत्रं न शृण्वन्तीत्याशयः ॥ २० ॥

महद्गुणानात्मनि कर्तुमिच्छन् कः स्तावकैः स्तावयतेऽसतोऽपि ।

स वै भविष्यन्निति विप्रलब्धो जनापहासं कुमतिर्न वेद ॥ २१ ॥

पदरत्नावली

वयं तत्र तत्र तं प्रभुं स्तुत्वा ततः फलं लभामहे तत्कथमित्याशंक्य तन्मूर्खविषयं न विद्वद्विषयमित्याशयेनाह– महद्गुणानिति ॥ अनभिव्यक्तत्वेन बाल्येऽसतोऽविद्यमानानपि महतां पृथिव्यादीनां क्षमादिगुणानात्मनि कर्तुमिच्छन् प्रकाशयितुकामः को विद्वान् स्तावकैर् भवादृशैः स्तावयते ? न कोऽपीत्यन्वयः । कथं तन्मूर्खविषयमभूदिति तत्राह– स वा इति ॥ यद्वा यदुक्तं हरिविषयं स्तोत्रमलङ्करिष्यथेति तद् गुणसंदृब्धं स्तोत्रं निर्गुणे हरौ कथं संगच्छते, तथात्वे वाऽस्मद्गिरां वैतथ्यं सुलभं स्यादिति तत्राह– सतीति ॥ उत्तमश्लेकस्य हरेर्गुणानामनुवादे सति स्तोतृणां पापहरत्वेन प्रशस्ते । सभ्याः पण्डिताः । विण्मूत्रपूर्णं मदुपैति काऽन्येति जुगुप्सितमात्मानं न स्तावयन्तीत्यन्वयः । सभ्येष्वेकोऽपि तथाविधः किं न स्यादिति शङ्कमानो मूर्ख एवेति भावेनाह– महद्गुणानिति ॥ आत्मन्यसतो महतो अणोरणीयान् महतो महीयानिति श्रुतिसिद्धस्य हरेर्गुणानौदार्यादिकानात्मनि कर्तु-मिच्छन् स्तावकैः को विद्वान् स्तावयते । अपिपदेनोक्तं जुगुप्सितमित्यनुकर्षति । किमित्याक्षेप इत्यतो लोकापवादविषयत्वादित्याशयेनाह– स वा इति ॥ २१ ॥

प्रकाशिका

गुणानामप्राकट्ये स्वात्मप्रशंसा सर्वथा न श्रोतव्येत्यप्याह ॥ महद्गुणानिति । महतामिन्द्रादीनां गुणान् आत्मनि स्वस्मिन् कर्तुम् उत्तरत्र संपादयितुमिच्छन्को विवेकी स्तावकैर्युष्माभिः पूर्वमसतो गुणान् स्तावयते न कोऽपीत्यर्थः । ननु तथाविधो राजादिर्लोके दृश्यत इत्याशङ्कायां स मूर्ख इत्याह ॥ स वा इति । य इहलोके विप्रलब्धः स्वात्मन्यविद्यमानगुणप्रतिपादकशब्दैः स्तुतो भवेत्स जनापहासं विवेकिजनैः क्रियमाणमपहासं न वेद । अत एव कुमतिर्मूर्खः ॥ २१ ॥

प्रभवो ह्यात्मनः स्तोत्रं जुगुप्सन्त्यपि विश्रुताः ।

ह्रीमन्तः परमोदाराः पौरुषं वा विगर्हितम् ॥ २२ ॥

पदरत्नावली

सद्गुणाः प्रभवोऽप्यात्मस्तुतिं जुगुप्सन्ते किमुत वयमिति भावेनाह– प्रभवोऽ-पीति ॥ विद्यमानगुणसंदृब्धं स्तोत्रं प्रत्यक्षप्रमितं पारमार्थिकं पौरुषमपि निन्दन्तीत्यर्थः ॥ २२ ॥

प्रकाशिका

विवेकिनां प्रभूणां नैवं स्थितिरित्याह ॥ प्रभवो हीति । प्रकर्षेण भवन्तीति प्रभवो विवेकिनो विश्रुताः प्रख्यातगुणा अपि जुगुप्सन्ति निन्दन्ति । वाशब्द उपमायाम् । वा विकल्पोप-मानयोरित्यभिधानात् । तथा च यथा विगर्हितं पौरुषं ब्राह्मणवधादिविषयपराक्रमं तद्विषयकं स्वस्तोत्रं जुगुप्सन्ति तथैवेति ॥ २२ ॥

वयं त्वविदिता लोके सूताद्यापि वरीमभिः ।

कर्मभिः कथमात्मानं गोपयिष्याम१ बालवत् ॥ २३ ॥

पदरत्नावली

वरीमभिर्वरणीयैः श्रेष्ठैरित्यर्थः ॥ २३ ॥

॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुकृतायां

चतुर्थस्कन्धे पञ्चदशोऽध्यायः ॥

प्रकाशिका

हे सूत । वरीमभिः श्रेष्ठैः ॥ २३ ॥

**॥ इति श्रीमद्वेदेशपूज्यपादशिष्येण यदुपतिना विरचितायां **

श्रीमद्भागवतटिप्पण्यां चतुर्थस्कन्धे पञ्चदशोऽध्यायः ॥ ४-१५ ॥