१४ चतुर्दशोऽध्यायः

भृग्वादयस्ते मुनयो लोकानां क्षेमदर्शिनः

अथ चतुर्दशोऽध्यायः

मैत्रेय उवाच–

भृग्वादयस्ते मुनयो लोकानां क्षेमदर्शिनः ।

गोप्तर्यसति वै नॄणां पश्यन्तः पशुसाम्यताम् ॥ १ ॥

पदरत्नावली

गुरुवाक्यं श्रद्धयाऽनुतिष्ठतामिहामुत्र श्रेयःस्यात् । अकुर्वतामनर्थश्चेत्येतन्निरूप्य-तेऽस्मिन्नध्याये । तत्रादौ भृग्वादिऋषिभिः क्रियमाणं राज्ये वेनस्याभिषेकं वक्ति– भृग्वादय इति ॥ ‘क्षेमो ना प्राप्तरक्षायाम्’ इति यादवः पशुसाम्यतां पशुसाधर्म्यं साङ्कर्यम् ॥ १ ॥

प्रकाशिका

क्षेमदर्शिनः क्षेमचिन्तकाः । पशुसाम्यतां पशुसाधर्म्यम् । सांकर्यम् ॥ १ ॥

वीर मातरमाहूय सुनीथां ब्रह्मवादिनः ।

प्रकृत्यसंमतं वेनमभ्यषिञ्चन् पतिं भुवः ॥ २ ॥

पदरत्नावली

हे वीर, प्रकृत्या स्वभावेनामात्यादिबुद्ध्या राज्यासंमतमनुचितम् ॥ २ ॥

प्रकाशिका

हे वीर । प्रकृत्यसंमतममात्यादीनां प्रकृतीनामसंमतम् । प्रकृत्याऽसंमतमिति पाठे स्वभावेन राज्येऽनुचितमित्यर्थः ॥ २ ॥

श्रुत्वा नृपासनगतं वेनमत्युग्रशासनम् ।

निलिल्युर्दस्यवः सद्यः सर्पत्रस्ता इवाखवः ॥ ३ ॥

पदरत्नावली

अस्मिन्नभिषिक्ते सत्येको गुणो राज्यस्य स्यादित्याह– श्रुत्वेति ॥ निलिल्यु-र्निलीनाः ॥ ३ ॥

प्रकाशिका

दस्यवश्चोरा निलिन्युर्निलीना बभूवुः ॥ ३ ॥

स आरूढनृपस्थान उन्नद्धोऽष्टविभूतिभिः ।

अवमेने महाभागान् स्तब्धः सम्भावितः शठः ॥ ४ ॥

पदरत्नावली

पालके राज्ञि बहवो गुणा भवन्ति, तत्रैको गुण इति (किं) विशिष्योच्यत इति चेत् सत्यम्, अस्य सर्वे दोषा एव सन्तीति वक्तुमुपक्रमते– स आरुढेति ॥ आरूढं नृपस्थानं सिंहासनं येन स तथा । मन्त्र्यमात्यदूतराज्यकोशदुर्गजनपदपुरोहिताख्यैर्वा, अणिमादिभिर्वाऽष्टविभूतिभिरुन्नद्धः स्तब्धः । महत्सूत्थानाद्याचारशून्यः ॥ ४ ॥

प्रकाशिका

आरूढं नृपस्थानं सिंहासनं येन स तथा । अष्टविभूतिभिर् अष्टानां दिक्पाला-नामैश्वर्यैरुन्नद्धः स्तब्धः ॥ ४ ॥

एवं मदान्ध उत्सिक्तो निरङ्कुश इव द्विपः ।

पर्यटन् रथमास्थाय कम्पयन्निव रोदसी ॥ ५ ॥

न यष्टव्यं न दातव्यं न होतव्यं द्विजाः क्वचित् ।

एवं न्यवारयद् धर्मं भेरीघोषेण सर्वतः ॥ ६ ॥

पदरत्नावली

अतो लोकस्य किमवद्यमभूद् ? अत्राह– एवं मदान्ध इति ॥ उत्सिक्त उद्वृत्तः ॥ हे द्विजाः ॥ ५,६ ॥

प्रकाशिका

उत्सिक्त उद्वृत्तः । रोदसी द्यावापृथिव्यौ ॥ ५,६ ॥

वेनस्यावेक्ष्य मुनयो दुर्वृत्तस्य विचेष्टितम् ।

विमृश्य लोकव्यसनं कृपयोचुः स्म सत्रिणः ॥ ७ ॥

पदरत्नावली

तत्र निग्रहानुग्रहसमर्था मुनयः किमकार्षुरिति तत्राह– वेनस्येति ॥ सत्रिणो यज्वानः ॥ ७ ॥

प्रकाशिका

सत्रिणो यज्वानः ॥ ७ ॥

अहो उभयतः प्राप्तं लोकस्य व्यसनं महत् ।

दारुण्युभयतो दीप्त इव तस्करपालयोः ॥ ८ ॥

पदरत्नावली

उभयतस्तस्करपालयोः । दारुणीति सप्तमी षष्ठ्यर्थे, दारुण उभयतो दीप्तो वन्हिः

॥ ८ ॥

प्रकाशिका

दारुणि काष्ठे उभयतो मूलतोऽग्रतश्च दीप्ते ज्वलिते तन्मध्यवर्तिनां पिपीलिकादि प्राणिनां यथोभयतो व्यसनं भवति । एवं तस्करपालयोस्तस्करात्पालकाच्च व्यसनं प्राप्तमित्यर्थः॥८॥

अराजकभयादेष कृतो राजाऽतदर्हणः ।

ततोऽप्यासीद् भयं त्वद्य कथं स्यात् स्वस्ति देहिनाम् ॥ ९ ॥

पदरत्नावली

दारुण इव उभयतो व्यसनं कथम् ? अत्राह– अराजक इति ॥ न तस्य राज्यस्यार्हणो योग्यो भवतीति अतदर्हणः ॥ ९ ॥

प्रकाशिका

एतदेव विशदयन्नाहुः ॥ अराजकेति । अतदर्हः राज्यानर्हः ॥ ९ ॥

ओरिव पयःपोषः पोषकस्याप्यनर्थकृत् ॥ १० ॥

वेनः प्रकृत्यैव खलः सुनीथागर्भसम्भवः ।

निरूपितः प्रजापालः स जिघांसति वै प्रजाः ॥ ११ ॥

पदरत्नावली

अयमप्यस्माकमनर्थकर इत्याहुरित्याह– ओरिवेति ॥ १०,११ ॥

प्रकाशिका

अयं स्वपोषकाणामस्माकमप्यनर्थकर इत्येतद्दृष्टान्तमुखेनाहुः ॥ ओरिवेति । पयःपोषः क्षीरेण पोषणम् । युष्माभिरयं कथं षोषित इत्यत आहुः ॥ वेन इति । प्रकृत्यैव स्वभावेनैव सुनीथागर्भसम्भवो यतोऽतो निरूपितो नियुक्तोऽस्माभिः ॥ युष्माभिः कथं पोषित इति तत्राह– प्रकृत्येति ॥ सुनीथागर्भसम्भवत्वाद् अस्माभिः प्रजापालो निरूपितः । स सांप्रतं प्रजा जिघांसति वै हन्तुमेवाकाङ्क्षति वै ॥ १०,११ ॥

तथाऽपि सान्त्वयामोऽमुं माऽस्मांस्तत्पातकं स्पृशेत् ।

१यद्विद्वद्भिरसद्वृत्तो वेनोऽस्माभिः कृतो नृपः ॥ १२ ॥

सान्त्वितो यदि नो वाचं न ग्रहीष्यत्यधर्मकृत् ।

लोकधिक्कारसन्दग्धं दहिष्यामः स्वतेजसा ॥ १३ ॥

पदरत्नावली

तर्हि किं क्रियत इति तत्राह– तथाऽपिति ॥ प्रकृत्या खलत्वादस्मदुक्तं न शृृणोति यद्यपि तथाऽपीति । सान्त्वने हेतुमाह– माऽस्मानिति ॥ युष्मत्सान्त्वनाग्रहणे किं बाधकं करिष्यन्ति ? तदशक्तौ तत्सान्त्वनं व्यर्थम्, अत्राह– तद्विद्वद्भिरिति ॥ असद्वृत्त इति तस्य दौरात्म्यं विद्वद्भिः ॥ १२,१३ ॥

प्रकाशिका

तथापि दुर्वृत्तत्वेऽपि सान्त्वयामः समीचीनवचनैः प्रार्थयिष्यामः । तत्पातकं तस्य पातकम् । तत्पातकस्पर्शो युष्माकं कुत इत्यत आहुः ॥ यद्विद्वद्भिरिति । यद्यस्मादसद्वृत्तोऽयमिति विद्वद्भिरेवास्माभिर्वेनो नृपः कृतस्तस्मात्तदीयपापस्य स्पर्शोऽस्माकं प्राप्तः समभूदित्याशयः ॥१२,१३॥

एवमध्यवसायैनं मुनयो गूढमन्यवः ।

उपव्रज्याब्रुवन् वेनं सान्त्वयित्वाऽथ सामभिः ॥ १४ ॥

नृपवर्य निबोधैतद् यत् ते विज्ञापयाम भोः ।

आयुः श्रीबलकीर्तीनां तव तात विवर्धनम् ॥ १५ ॥

पदरत्नावली

एवं जिज्ञासमानाः कालक्षेपं नाकुर्वन्नित्याह– एवमिति ॥ १४ ॥

प्रकाशिका

सामभिः प्रियोक्तिभिः ॥ १४,१५ ॥

धर्म आचरितः पुंसां वाङ्मनःकायबुद्धिभिः ।

लोकान् विशोकान् वितरत्यथानन्त्यमसङ्गिनाम् ॥ १६ ॥

पदरत्नावली

आनन्त्यं मोक्षम् । असङ्गिनां फलाभिसन्धिरहितानाम् ॥ १६ ॥

प्रकाशिका

असंगिनां निष्कामिनाम् । आनंत्यं मोक्षमपि ॥ १६ ॥

स ते मा विनशेद् वीर प्रजानां क्षेमलक्षणः ।

यस्मिन् विनष्टे नृपतिरैश्वर्यादवरोहति ॥ १७ ॥

पदरत्नावली

स धर्मो मा विनशेन् नष्टो न स्यात् । बाधकमाहुरित्याह– यस्मिन्निति ॥ अवरोहति अधो याति ॥ १७ ॥

प्रकाशिका

मा विनशेन्मा विनश्यतु । अवरोहत्यधो याति ॥ १७ ॥

राजन्नसाध्वमात्येभ्यश्चोरादिभ्यः प्रजा नृपः ।

रक्षन् यथा बलिं गृह्णन्निह प्रेत्य च मोदते ॥ १८ ॥

यस्य राष्ट्रे पुरे चैव भगवान् यज्ञपूरुषः ।

इज्यते स्वेन धर्मेण जनैर्वर्णाश्रमात्मकैः ॥ १९ ॥

तस्य राज्ञो महाराज भगवान् भूतभावनः ।

परितुष्यति विश्वात्मा तिष्ठतो निजशासने ॥ २० ॥

तस्मिंस्तुष्टे किमप्राप्यं जगतामीश्वरेश्वरे ।

लोकाः सपाला ह्येतस्मै हरन्ति बलिमादृताः ॥ २१ ॥

पदरत्नावली

कोऽसौ धर्मो यो लोकान् दधातीति तत्राहुरित्याह– राजन्निति ॥ असाधवो दुर्जना अमात्याः सचिवास्तेभ्यः । ‘साधु त्रिषूचिते सौम्ये सज्जने वार्धुषौ पुमान्’ इत्यभिधानम् । ‘यथा सादृश्ययोग्यत्ववीप्सास्वार्थानतिक्रमे’ इति वचनाद् यथा योग्यम् । षष्ठांशं बलिं करम् ॥ तत्तुष्ठ्या किं फलं स्यादित्यत्राह– तस्मिन्निति ॥ १८,२१ ॥

प्रकाशिका

कोऽसौ धर्मो यो लोकान्वितरतीत्यत आहुः ॥ राजन्निति । यो नृपोऽसाधवो येऽमात्यादयस्तेभ्यः । यथायोग्यं षष्ठांशं बलिं करम् ॥ १८-२१ ॥

तं सर्वलोकामरयज्ञसंग्रहं त्रयीमयं द्रव्यमयं तपोमयम् ।

यज्ञैर्विचित्रैर्यजतो भवाय ते राजन् स्वदेशाननुरोद्धुमर्हसि ॥ २२ ॥

तात्पर्यम्

सर्वलोकादीन्सङ्गृह्णातीति तत्सङ्ग्रहः । ‘सर्वस्य ग्रहणाद्विष्णुः सर्वसङ्ग्रह उच्यते । वेदस्य तस्य वक्तृत्वात्प्राधान्यं तु त्रयीमयः । सर्वं तद्विषयत्वेन मुख्यं सर्वमयस्ततः’ इति स्कान्दे ॥ २२ ॥

पदरत्नावली

इतोऽपि श्रीनारायण एवेज्यत इत्याहुरित्याह– तं सर्वेति ॥ सर्वशब्दः प्रत्येक-मभिसंबध्यते । सर्वान् लोकानमरान् यज्ञान् सङ्गृह्णातीति सर्वलोकामरयज्ञसंग्रहस्तम् । त्रय्या त्रिभिर्वेदैः प्रतिपाद्येषु मुख्यप्रतिपाद्यत्वात् त्रयीमयस्तम् । सर्वद्रव्यानां भगवद्विषयत्वात् हरिर्द्रव्यमयस्तम् । अनेनैव तपोमयमिति व्याख्यातम् । ‘सर्वसङ्ग्रहणाद्विष्णुः सर्वसङ्ग्रह उच्यते । वेदस्य तस्य वक्तृत्वात् प्राधान्यं तु त्रयीमयः । सर्वं तद्विषयत्वेन मुख्यं सर्वमयस्ततः ॥’ इति वाक्यं चात्र मानम् । एवंविधं श्रीहरिं विचित्रैर्यज्ञैस्ते तव भवाय भद्राय यजतः स्वदेशान् स्वस्य तव देश आदेश उपदेशो येभ्यो यज्विभ्यस्ते स्वदेशास्तान् । स्वस्य देशो विसर्जनं दानं येषां ते तथा तान् विप्रान् । त्वमनुरोद्धुमनुकूली-कर्तुमर्हसीत्यर्थः । ‘भवो भद्रे हरे प्राप्तौ’ इति यादवः ॥ २२ ॥

प्रकाशिका

एतादृशहरिपूजकब्राह्मणानुसरणं त्वया कार्यमित्याहुः ॥ तमिति । अत्र सर्वलोकामरयज्ञसङ्ग्रहमित्यस्य प्रकृतोपयुक्तमर्थं दर्शयति ॥ सर्वलोकादीनिति । सङ्गृह्णाति सम्यग्जानाति स्वीकरोतीति वा । तत्सङ्ग्रहः सर्वलोकादिसङ्ग्रहः । इत्युच्यत इति शेषः । अत्र प्रमाणं पठति ॥ सर्वस्येति । लोकादेरित्यर्थः । त्रयीमय इत्यादेरपि विवक्षितमर्थं प्रमाणशेषेणैव दर्शयति ॥ वेदस्येति । तस्य वक्तृत्वात्प्रतिपादकत्वात् प्राधान्यम् । तुशब्दोऽनन्यविषयतयेति विशेषसूचकः । सर्वं द्रव्यं तपआदिकं तद्विषयत्वेन तदुद्देश्यकत्वेन मुख्यं प्रधानं ततो वेदादेः प्राधान्यप्रदत्वतः ॥ ततश्चायमर्थः ॥ सर्वशब्दः प्रत्येकमभिसम्बध्यते । सर्वान् लोकांस्तत्पालानमरान्सुरांस्तत्प्रतिपादकान्यज्ञांश्च संगृह्णातीति तथा तम् । मयशब्दोऽयं न मयट् । तथा च त्रयी वेदो मय इतरशब्दराशितो यस्मात्प्रधानं भवति तत्प्रतिपादितो भवति स त्रयीमयस् तमित्यर्थः । एवं द्रव्यमयं पुरोडाशादिकं तपश्च मयं प्रधानम् । मुख्यमिति यावत् । यस्मादुद्देशाद्भवति स तथा तम् । विचित्रैर्द्रव्ययज्ञास्तपोयज्ञा इत्यादिषूक्तैर्यज्ञैस्ते तव भवाय भद्राय स्वदेशान्स्वदेशस्थान् । अनुरोद्धुमनुवर्तितुम् ॥ २२ ॥

यज्ञेन युष्मद्विषये द्विजातिभिर्वितायमानेन सुराः कला हरेः ।

स्विष्टाः सुतुष्टाः प्रदिशन्ति वाञ्छितं तद्धेलनं नार्हसि वीर चेष्टितुम् ॥ २३ ॥

तात्पर्यम्

‘विष्णोः सन्निहितत्वात्तु सर्वे देवा हरेः कलाः’ इति च ॥ २३ ॥

पदरत्नावली

इन्द्रादिविषयेण स्वर्गादिफलप्रदेन यज्ञेन हरियजनं कथं सङ्गच्छते प्रत्युत तद्विघातेनानर्थ एव स्यादित्याशङ्क्येन्द्रादयो विष्णोर्मुख्यसन्निधानपात्रत्वेन तदिज्यया तत्प्रीत्या प्रीता यजमानाय यद् यदभीष्टं तत् तद् दिशन्ति, अन्यथाऽयजने तदवज्ञयाऽनर्थमेव प्रयच्छन्तीत्याहुरित्याह– यज्ञेनेति ॥ ‘विष्णोः सन्निहितत्वात्तु सर्वे देवा हरेः कलाः’ इति वचनात्, मत्स्यादिवत् कला न भवन्तीति ज्ञातव्यम् । ‘कल बन्धन’ इति धातोरत्मनि हरेः सन्निधानं बध्नातीति कला इत्यर्थः ॥२३॥

प्रकाशिका

ननु यज्ञैर्हरिरेवेष्टश्चेदिन्द्रादयो देवाः कथं फलप्रदाः स्युरित्याशङ्कायां तेषामपि हरिसंनिधानपात्रत्वेनेज्यत्वात्फलप्रदत्वमतो यज्ञाकरणे तदवज्ञाऽपि तव भविष्यतीत्याशयेनाहुः ॥ यज्ञेनेति । युष्मद्विषये भवदुद्देशे । अत्र सुरा हरेः कला अंशा इत्युक्त्या मत्स्यादिवत्सुराणां कलात्वमिति प्रतीयतेऽतोऽत्र विवक्षिततात्पर्यं प्रमाणेनैवाह ॥ विष्णोरिति । तुशब्दो विशेषेणेत्यर्थकः । अवधारणार्थे वा । संनिहितत्वादेव सर्वदेवेष्विति शेषः । कला इत्युच्यन्ते इति शेषः । तथा च हरेः कलाविशेषेण हरिणाऽऽविष्टा इत्यर्थः । तथा च यज्ञैर्देवान्तःस्थितस्य हरेरधिष्ठानभूता देवा अपि इष्टाः सन्तः फलप्रदा इत्याशयः । तेषां देवानां हेलनमवज्ञाम् ॥ २३ ॥

वेन उवाच–

बालिशा बत यूयं वै अधर्मे धर्ममानिनः ।

ये वृत्तिदं पतिं हित्वा जारं पतिमुपासते ॥ २४ ॥

पदरत्नावली

ऋषीणां वाक्यामृतं शिरसि वज्रपातोपममिव मन्यमानो गूढापेक्षाभिसन्धिर्वेनः प्रतिवक्तीत्याह– वेन इति ॥ २४ ॥

प्रकाशिका

बालिशा अज्ञाः । तेषां कथमधर्मे धर्ममानित्वम् इत्यतोऽस्याधर्मत्वमुपपादयति ॥ ये वृत्तिदमिति । वृत्तिदमन्नादिप्रदम् । जारमिति लुप्तोपमा । यथा स्वपतिं हित्वा स्त्री जारमुपास्ते तथा भवन्तो वृत्तिदमत एव पतिं पालकं मां हित्वाऽन्यमीशमुपासते । अतोऽयमधर्मस्तत्र च धर्ममानिन इत्यन्वयः ॥ २४ ॥

अवजानन्ति ये मूढा नृपरूपिणमीश्वरम् ।

नानुविन्दन्ति ते भद्रमिह लोके परत्र च ॥ २५ ॥

पदरत्नावली

स्वबुद्ध्या बालिशत्वमुपपादयति– अवजानन्तीति ॥ २५ ॥

प्रकाशिका

इष्टविघातित्वाच्चायमधर्म इत्याशयेनाह ॥ अवजानन्तीति ॥ २५ ॥

को यज्ञपुरुषो नाम यत्र वो भक्तिरीदृशी ।

भर्तृस्नेहविदूराणां यथा जारे कुयोषिताम् ॥ २६ ॥

विष्णुर्विरिञ्चो गिरिश इन्द्रो वायुर्यमो रविः ।

पर्जन्यो धनदः सोमः क्षितिरग्निरपां पतिः ॥ २७ ॥

पदरत्नावली

पुनरपि वेनः शापयोग्यापराधमात्मनि कर्तुं वक्ति– को यज्ञेति ॥ अस्मद्भक्ति-विषयो नाम्ना विष्णुः सृष्ट्यादिकारिणस्तदाज्ञानियता विरिञ्चादयस्तत्परिवारभूता इति भ्रान्तिर्मा भूद् यत एवैते विष्णुप्रभृतयो मयि सन्निहिता अतस्तच्छक्तिमत्त्वाद् अहमेवाखिलोत्तम इज्यतम इत्याह– विष्णुरित्यादिना ॥ २६,२७ ॥

प्रकाशिका

बालिशत्वमुपपादयति ॥ क इत्यादिना । भर्तृस्नेहो विदूरो येषाम् ॥ २६,२७ ॥

एते चान्ये च विबुधाः प्रभवो वरशापयोः ।

देहे तिष्ठन्ति नृपतेः सर्वदेवमयो नृपः ॥ २८ ॥

पदरत्नावली

वरशापयोर् दाने प्रभवः । सर्वदेवमय इत्युपसंहारः ॥ २८ ॥

प्रकाशिका

वरशापयोर्दाने प्रभवः । यः सर्वदेवमयः सर्वदेवात्मकस्तं भवन्तो न जानंत्यतो यूयं बालिशा इत्याशयः ॥ २८ ॥

तस्मान्मां कर्मभिर्विप्रा यजध्वं गतमत्सराः ।

बलिं च मह्यं हरत मत्तोऽन्यः कोऽग्रभुक् पुमान् ॥ २९ ॥

मैत्रेय उवाच–

इत्थं विपर्ययमतिः पापीयानुत्पथं गतः ।

अनुनीयमानस्तद्याञ्चां न चक्रे भ्रष्टमङ्गलः ॥ ३० ॥

इति तेऽसकृतास्तेन द्विजाः पण्डितमानिना ।

भग्नायां हव्ययाञ्चायां तस्मै विदुर चुक्रुधुः ॥ ३१ ॥

हन्यतां हन्यतामेष पापः प्रकृतिदारुणः ।

जीवन् जगदसावाशु कुरुते भस्मसाद् ध्रुवम् ॥ ३२ ॥

नायमर्हत्यसद्वृत्तो नरदेववरासनम् ।

यो वै यज्ञपतिं विष्णुं विनिन्दत्यनपत्रपः ॥ ३३ ॥

पदरत्नावली

किं फलितम् ? तदाह– इत्थमिति ॥ तेषामृषीणां याञ्चाम् ॥ आत्मनि शापसामर्थ्ये समुल्लसति कर्णौ पिधाय निर्याणमनुचितमिति पश्यन्तः शापात् पूर्वभाविकोपायुधमृषय उदाहरन्नित्याह– इतीति ॥ इतिशब्दः प्रकारवचनः । हव्यविषययाञ्चायाम् ॥ ऊचुश्चेत्याह– हन्यतामिति ॥ जीवंश्च जगद् भस्मसात् करोति ॥ ३०-३२ ॥

प्रकाशिका

अग्रभुक् आदौ यज्ञभागभोक्ता ॥ २९-३३ ॥

को वैनं परिचक्षीत वेनमेकमृतेऽशुभम् ।

प्राप्त ईदृशमैश्वर्यं यदनुग्रहभाजनः१ ॥ ३४ ॥

पदरत्नावली

निन्द्यदोषसद्भावान् निन्दतीति किं न स्यात् ? अत्राह– को वेति ॥ निरनिष्टो निरवद्य इति श्रुतेः । अशुभोऽयमेव निन्द्यदोषाकर इति भावः । यस्य हरेरनुग्रहस्य भाजनम् । यस्यानुग्रहो यस्मिन् स यदनुग्रहः, पुमान्, स एव भाजनं वा, तदनुग्रहरहितत्वादयं हन्तव्य इत्यर्थः । अत्र क्रोधवचनयोः क्रमकरणमेकैकं दृष्ट्वाऽस्मानयं क्षमापयेदिति बुद्ध्या कृतमिति ज्ञातव्यम् ॥ ३४ ॥

प्रकाशिका

ननु निंद्यस्य निन्दनं युक्तमेवेत्यतो विष्णुर्न केनापि निन्द्य इत्याहुः ॥ को वेति । परिचक्षीत विनिन्द्येत न कोऽपीत्यर्थः । कृतघ्नश्चायमतोऽवश्यं हन्तव्य इत्याशयेनाहुः ॥ प्राप्त इति । यदनुग्रहभाजनो यस्य विष्णोरनुग्रहविषयः सन् ईदृशमैश्वर्यं प्राप्तोऽतस्तमेनमित्यन्वयः ॥ ३४ ॥

इत्थं व्यवसिता हन्तुमृषयो रूढमन्यवः ।

निजघ्नुर्हुङ्कृतैर्वेनं हतमच्युतनिन्दया ॥ ३५ ॥

पदरत्नावली

मरेत्युक्तिः श्रोतृणां श्रोत्रदुःसहेति प्रकारान्तरेण तं जघ्नुरित्याह– इत्थमिति ॥ एवं मारितो वेनः कं लोकमवाप ? ॠषीणां तन्मतदूषकत्वात् के तस्यानुष्ठातारः ? तन्मतनिरासिनः पृथोश्च क्षिप्रभावित्वात्, उत्सन्नप्रायमिति च वक्तुं न युक्तम्, तत्र तत्र दृश्यमानत्वादिति सर्वं ‘अहं ब्रह्मेति वेनस्तु ध्यायन्नापाधरं तमः । तद्राद्धान्तो महीं व्याप्तो भेर्या ख्यापयतोऽनिशम् ॥ असुरा राक्षसाश्चैव पिशाचास्तत्पथि स्थिताः । भूमौ तत् पृथुना सर्वं निरस्तं महितात्मना । पुनः कलियुगे प्राप्ते अष्टाविंशतिमे मनोः । वैवस्वतस्य समये जाताः क्रोधवशा भुवि । ख्यापयन्ति दुरात्मनो मणिमांस्त-त्पुरःसरः ॥’ इत्यनेन निरस्तम्, इत्यतोऽत्र तु ग्रन्थबाहुल्यादन्यत्र विस्तृतत्वाच्च ज्ञातुमनभ्यर्हितत्वाच्च न प्रपञ्चितमिति ज्ञातव्यम् । तेषां क्रोधवशानां पुरःसरोऽग्रगन्ता मुख्य इत्यर्थः ॥ ३५ ॥

प्रकाशिका

पूर्वं गूढमन्यव इदानीं रूढमन्यवः । हुंकृतैर् हुंकारैः ॥ ३५ ॥

ऋषिभिः स्वाश्रमपदं गते पुत्रकलेवरम् ।

सुनीथा पालयामास विद्यायोगेन शोचती ॥ ३६ ॥

पदरत्नावली

वेनस्य पुत्राभावाद्, ऋषीणां क्रोधात्, पुरोहितस्य भीतत्वात्, प्रेतकार्यमन्त्र-वक्त्रभावात् परं कलेवरं किं कृतम् ? अत्राह– ऋषिभिरिति ॥ विद्यायोगेन मन्त्रौषधादिविद्योपायेन । शोचतीत्यनेन मातृस्वभावो दर्शितः ॥ ३६ ॥

प्रकाशिका

स्वाश्रमपदं प्रति गते गमने कृते सति विद्यायोगेन मन्त्ररूपोपायेन ॥ ३६ ॥

एकदा मुनयस्ते तु सरयूसलिलाप्लुताः ।

हुत्वाऽग्निं सत्कथाश्चक्रुरुपविष्टाः सरित्तटे ॥ ३७ ॥

वीक्ष्योत्थितान् महोत्पातानाहुर्लोकभयंकरान् ।

अप्यभद्रमनाथाया दस्युभ्यो न भवेद् भुवः ॥ ३८ ॥

पदरत्नावली

एवं वेनं शप्त्वा तपोबलादन्यमेकं राजानं चक्रुः ? तद्वंश्याभावात् तूष्णीमासुः ? कलेवरं मुनयः किमकुर्वन् ? इति परीक्षितः शङ्कां परिहरन्नुत्तरकथाप्रसङ्गमाह– एकदेति ॥ सरयूनाम्नो नद्याः सलिले आप्लुताः कृतस्नानाः सतोऽभ्यर्हितस्य विष्णोः कथा यदा चक्रुः ॥ तदा महोत्पातान् वीक्ष्याहुरित्यन्वयः । किमाहुरिति तत्राह– अपीति ॥ अपिशब्दस्य भवेदित्यनेनान्वयः । अनाथाया इति हेतुगर्भविशेषणादभद्रं सम्भावितमिति प्रावोचन्नित्यर्थः ॥ ३७,३८ ॥

प्रकाशिका

अनाथाया इति हेतुगर्भविशेषणम् । अपिशब्दः किंशब्दार्थः । अनाथाया भुवोऽभद्रं न भवेत्किं भवेदेवेत्याहुरित्यर्थः ॥ ३८ ॥

एवं ब्रुवत्सु ऋषिषु धावतां सर्वतो दिशम् ।

पांसुः समुत्थितो भूमेश्चोराणां वसु लुम्पताम् ॥ ३९ ॥

पदरत्नावली

वसु लुम्पतां चोराणां सकाशाद् भूमेः पांसुः समुत्थित इत्यन्वयः ॥ ३९ ॥

प्रकाशिका

वसु धनादिकं लुंपतां चोराणां सकाशाद्भूमौ पांसुः समुत्थित इत्यन्वयः ॥ ३९ ॥

तदुपद्रवमाज्ञाय लोकस्य वसु लुम्पताम् ।

भर्तर्युपरते तस्मिन्नन्योन्यं च जिघांसताम् ॥ ४० ॥

पदरत्नावली

ततः किमभूत् ? अत्राह– तदुपद्रवमिति ॥ तत् तदा लोकस्य चोराणामुपद्रव-माज्ञायैव निश्चित्य मृतस्य वेनस्य महीपतेरूरुं तरसा ममन्थुरित्यन्वयः ॥ ४० ॥

प्रकाशिका

तत्तदा लोकस्योपद्रवमाज्ञाय निश्चित्य ॥ ४० ॥

चोरप्रायं जनपदं हीनसत्त्वमराजकम् ।

लोका नावारयञ्छक्ता अपि तद्दोषदर्शिनः ॥ ४१ ॥

पदरत्नावली

युष्मत्तोऽन्ये तन्निवारका न सन्ति किम् इति तटस्थचोद्यं परिहरन्तीत्याह– चोरप्रायमिति ॥ तद्दोषदर्शिनः यद्यधर्मकर्तारं न वारयन्ति तर्हि स दोषस्तानपि स्पृशेदिति दोषं पश्यन्तः । किं च शक्तास्तन्निवारणे समर्था अपि लोकाः, लुक् प्रकाशन इति धातोः, विशिष्टज्ञाना जना हीनसत्त्वं पराक्रमविधुरमराजकं प्रजापालकरहितं जनपदं वीक्ष्य चोरान् नावारयन्निति यदत इत्यर्थः

॥ ४१ ॥

प्रकाशिका

हीनसत्त्वं पराक्रमरहितं जनपदं चाज्ञाय शक्ता लोकाः क्षत्रियादयो जना नावारयन् । चोरानिति शेषः । कथंभूताः । तद्दोषदर्शिनोऽपि अवारणे दोषदर्शिनोऽपि ॥ ४१ ॥

ब्राह्मणः समदृक् शान्तो दीनानां समुपेक्षकः ।

स्रवते ब्रह्म तस्यापि भिन्नभाण्डात् पयो यथा ॥ ४२ ॥

पदरत्नावली

सामान्यमुक्त्वा जातिविशेषस्य दोषाधिक्यमाहुरित्याह– ब्राह्मण इति ॥ ब्रह्मेति भावप्रधानो निर्देशः । दुष्टोपद्रवेण दीनानां जनानामुपद्रवं दृष्ट्वा समुपेक्षकस्तूष्णींभूतः स्यात् तस्य ब्रह्मत्वं ब्राह्मण्यं स्रवते नश्यति । तन्निदर्शयन्ति– भिन्नेति ॥ तस्मादस्माभिरनुष्ठेयमिति भावः ॥ ४२ ॥

प्रकाशिका

नैवं ब्राह्मणानामस्माकमुपेक्षोचितेत्याशयेनाहुः ॥ ब्राह्मण इति । समदृगपि शान्तोऽपि ब्राह्मणो यदि दीनानां समुपेक्षको भवेत्तर्हि तस्य ब्रह्म । भावप्रधानो निर्देशः । ब्राह्मण्यं स्रवते नश्यति । तस्मादस्माभिरुपेक्षा न कार्येति शेषः ॥ ४२ ॥

नाङ्गस्य वंशो राजर्षेरेष संस्थातुमर्हति ।

अमोघवीर्या हि नृपा वंशेऽस्मिन् केशवाश्रयाः ॥ ४३ ॥

पदरत्नावली

इतोऽपीत्याहुरित्याह– नाङ्गस्येति ॥ संस्थातुं नाशं प्राप्तुम् । कुत इत्यत उक्तम्– अमोघेति ॥ ४३ ॥

प्रकाशिका

तर्ह्यन्यो राजा क्रियतामित्यत आहुः ॥ नाङ्गस्येति । संस्थातुं नाशं प्राप्तुम् । हि यस्मादस्मिन्वंशे उत्पन्ना नृपा अमोघवीर्या अमोघपराक्रमास्तस्मात् ॥ ४३ ॥

विनिश्चित्यैवमृषयो विपन्नस्य महीपतेः ।

ममन्थुरूरुं तरसा तत्रासीद् बाहुको नरः ॥ ४४ ॥

पदरत्नावली

यथाऽमृतमन्थने कालकूटमादावुदभूदेवं तत्रापीति भावेनाह– तत्रेति ॥ तत्र मथ्यमाने सति बाहुको वामनः । ‘कुब्जक्षुद्रदीर्घखर्वह्रस्ववामनबाहुकाः’ इत्यभिधानाम् ॥ ४४ ॥

प्रकाशिका

एवमस्यैव वंशो वर्धनीय इति निश्चित्येत्यर्थः । विपन्नस्य मृतस्य । बाहुको वामनः

॥ ४४ ॥

काककृष्णोऽतिह्रस्वांगो ह्रस्वबाहुर्महाहनुः ।

ह्रस्वपान्निम्ननासाग्रो रक्ताक्षस्ताम्रमूर्धजः ॥ ४५ ॥

पदरत्नावली

विशिनष्टि– काकेति ॥ महाहनुः स्थूलकपोलः । निम्ननासाग्रोऽधोनतघ्राणशिराः

॥ ४५ ॥

प्रकाशिका

काककृष्णः काकवत्कृष्णवर्णः । महान्तौ हनू कपोलप्रांतौ यस्य स महाहनुः । निम्ननासाग्रोऽधोन्नतघ्राणशिराः ॥ ४५ ॥

तं तु तेऽवनतं दृष्ट्वा किं करोमीति वादिनम् ।

निषीदेत्यब्रुवंस्तात स निषादस्ततोऽभवत् ॥ ४६ ॥

पदरत्नावली

ततो निषीदेति वचनात् ॥ ४६ ॥

प्रकाशिका

ततो निषीदेति वचनात् ॥ ४६ ॥

तस्य वंश्यास्तु नैषादा गिरिकाननगोचराः ।

योऽपाहरज्जायमानो वेनकल्मषमुल्बणम् ॥ ४७ ॥

मैत्रेय उवाच–

अथ तस्य पुनर्विप्रैर्विपन्नस्य महीपतेः ।

बाहुभ्यां मथ्यमानाभ्यां मिथुनं समपद्यत ॥ ४८ ॥

तद् दृष्ट्वा मिथुनं जातमृषयो ब्रह्मवादिनः ।

ऊचुः परमसन्तुष्टा विदित्वा भगवत्कलाम् ॥ ४९ ॥

तात्पर्यम्

‘अहं ब्रह्मेति वेनस्तु ध्यायन्नापाधरं तमः । तद्राद्धान्तो महीं व्याप्तो भेर्या ख्यापयतोऽनिशम् । आसुरा राक्षसाश्चैव पिशाचास्तत्पथि स्थिताः । भूमौ तत्पृथुना सर्वं निरस्तं महितात्मना । पुनः कलियुगे प्राप्ते अष्टाविंशतिमे मनोः । वैवस्वतस्य समये जाताः क्रोधवशा भुवि । ख्यापयन्ति दुरात्मनो मणिमांस्तत्पुरःसरः’ इति भविष्यत्पुराणे ।

‘त्र्यंशो वेनः समुद्दिष्टः सत्वांशः पृथुतामगात् । रजोंऽशश्च दिवं प्राप्तो १निषादस्तामसोऽ-भवत् । स्वयं वेनश्चतुर्थस्तु महातमसि पातितः’ इति कौर्मे । ‘पापरूपी पृथग्जातो निषादो वेनदेहतः । यस्मात्तस्मात्पृथोः पुत्राद्रजो वेनो दिवं ययौ’ इति गारुडे ॥ ४७ ॥

पदरत्नावली

स क इति तं विशिनष्टि– योऽपाहरदिति ॥ अनेन वेनश्चतुर्धा विभक्त इति ज्ञायत इति । तथाहि तामसो राजसः सात्त्विकस्तामसतामस इति । तत्र तामसांशो निषादः । राजसांशः स्वर्गस्य गन्ता । सत्त्वांशः पृथुः । तामसतामासांशो वेनः स्वयमन्धतमोगतः । तदुक्तम्– ‘त्र्यंशो वेनः समुद्दिष्टः सत्त्वांशः पृथुतामगात् । रजोंऽशश्च दिवं प्राप निषादस्तामसोऽभवत् ॥ स्वयं वेनश्चतुर्थस्तु महातमसि पातितः ।’ इति । ‘‘रजोंऽशो वेनो दिवं गत’’ इति केनावगम्यत इति चोद्यं ‘पापरूपी पृथग् जातो निषादो वेनदेहतः । यस्मात् तस्मात् पृथोः पुत्राद् रजो वेनो दिवं ययौ ॥’ इत्यनेन परिहृतमिति ग्रन्थान्तरसिद्धत्वादत्र न विस्तृतम् ॥ अथ सत्त्वांशात् पृथोरुत्पत्तिं वक्ति– अथेति

॥ ४७-४९ ॥

प्रकाशिका

तत्स्वरूपमाह ॥ योऽपाहरदिति । वेनकल्मषं वेनगतपापम् । स्वशरीररूपं तच्छरीराद्बहिर्निर्गमनेनापाहरदित्यर्थः । तद्गतपापाभिमानी यस्तामसो जीवो स एव स्वशरीररूपं तद्गतं पापमादाय निषादरूपेण बहिरुत्पन्न इत्याशयः ॥

अत्र मदन्य ईश्वरो नास्तीति वेनमतस्य कथमृषिभिर्निन्दा कृता तस्यापि मोक्षसाधनतया ‘‘ब्रह्मैव सन् ब्रह्माप्नोति’’ इत्यादौ श्रूयमाणत्वात् । तत्कालीनैः सर्वैः परिगृहीतत्वाच्च । न च पृथुना तन्मतं निरस्तमिति वाच्यम् । पुनरस्मिन्कलियुगे संकरादिभिः प्रवर्तितत्वात् । न हि निन्द्यत्वे एतत्सम्भवतीत्यतो यैस् तस्मिन् युगेऽस्मिन् वा युगे तन्मतमनुवर्तितं ते तमोयोग्या असुरा एव न सज्जीवा अतो निन्दा युक्तैवेत्याशयेन तेषामसुरादित्वे प्रमाणं पठति ॥ अहं ब्रह्मेति । अन्धन्तम आप । तथा च तथाध्यानस्य मोक्षसाधनताप्रतिपादकवाक्यमन्यथा नेयमित्याशयः । चशब्देन मर्त्याधमा ग्राह्याः । तत्पथि स्थिता-स्तद्गृहीतवन्तः । वैवस्वतस्य मनोः समये एकसप्ततिमहायुगे काले तत्राप्यष्टाविंशतिमहायुगान्तर्गत-कलियुगे प्राप्ते सति क्रोधवशास्तन्नामानोऽसुराः पूर्वं भीमेन हतास्त एव दुरात्मना भुवि जाताः सन्तस्तन्मतं ख्यापयन्ति । यस्तेषां पुरःसरो मुख्यो मणिमांस्तन्नामकोऽसुरः स एवेदानीं संकराभिधो जातः । तत्पुरःसरस्तेषां भुव्युत्पन्नानामसुराणां तोटकादीनां गुरुरित्यर्थः ।

ननु वेनस्योदाहृतप्रमाणानुसारेणांधन्तमः प्राप्तौ वेनः पृथुतामगादिति ग्रन्थान्तरविरोधः । ‘‘पुत्रेण जीयते लोक’’ इत्यादिना पृथुराजगुणेन वेनस्य स्वर्गप्राप्त्ययोगाच्च । तस्यैव ग्रन्थान्तरे निषादरूपेणापि जन्मोक्त्ययोगाच्चेत्यत एतेषामभिप्रायं प्रमाणेनैव दर्शयति ॥ त्र्यंश इति । त्रयोंऽशा आविष्टा यस्मिन्स त्र्यंशः । सात्विकादिभिस्त्रिभिरंशैराविष्टः स्वयं चतुर्थ इत्यर्थः । सत्त्वांशः सात्त्विको जीवः पृथुता-मगात्पृथुतयोत्पन्नः । रजोंऽशो राजसो जीवो दिवं प्राप्तः । पृथुगुणेनेति शेषः । तामसस्तामसो जीवः स्वयं तद्देहाभिमानी जीवः । तु विशेषेण तामसस् तामसतामसः । अत एव द्विजैर्महातमसि पातितः । अनेन निजघ्नुर्हुंकृतैर्वेनमिति यद्द्विजकर्तृकं वेनहननमुक्तं तन्महातमसि पतनरूपमेवेति ज्ञान्तव्यम् । वेनदेहाधिष्ठितो रजोंऽशो दिवं प्राप्त इति न युक्तम् । तद्देहे तेनापि बहुतरपापसंपादनादित्याशङ्कां प्रमाणेनैव परिहरति ॥ पापरूपीति । राजसवेनसंपादितपापरूपीत्यर्थः । पृथग्जातः । तस्मात्पापाप-गमात् । अनेन योऽपाहरज्जायमानो वेनकल्मषमुल्बणमित्यत्र वेनपदं राजसवेनपरमिति सूचितम् । तद्देहमानिनोंऽधन्तमोयोग्यस्य वेनस्य कल्मषापहरणेऽस्य बाधितत्वादिति ध्येयम् ॥ ४७-४९ ॥

ऋषय ऊचुः –

एष विष्णोर्भगवतः कला भुवनपावनी ।

इयं च लक्ष्मीः सम्भूतिः पुरुषस्यानपायिनी ॥ ५० ॥

तात्पर्यम्

‘पृथुहैहयादयो जीवास्तेष्वाविष्टो हरिः स्वयम् । विशेषावेशतस्तेषु साक्षाद्धर्यं-शतावचः । किंस्तुघ्नव्यासऋषभकपिला मत्स्यपूर्वकाः । आकूतिजैतरेयौ च धर्मजत्रयमेव च । धन्वन्तरिर्हयग्रीवो दत्तात्रेयश्च तापसः । स्वयं नारायणस्त्वेते नाणुमात्रविभेदिनः । बलतः स्वरूपतश्चैव गुणैरपि कथञ्चन’ इति तत्त्वनिर्णये । ‘तत्र सन्निहिता श्रीश्च यत्र सन्निहितो हरिः । नास्य सन्निधिमात्रेण रमा पत्नीत्वमाव्रजेत् । साक्षादेव तु साक्षाच्च हरेः सन्निधितः क्वचित् । गोप्यादिरूपा भवति विपरीतं न तु क्वचित्’ इति च ॥ ५० ॥

पदरत्नावली

एष विष्णोः कलेति लिङ्गव्यत्ययेन मत्स्यादिवत् साक्षाद्धरेरंशतावचः साक्षादंशो नायं किं तु विशेषावेशादंश इति वचनमिति ध्वनयति । तदुक्तम्– ‘पृथुहैहयादयो जीवास्तेष्वाविष्टो हरिः स्वयम् । विशेषावेशतस्तेषु साक्षाद्धर्यंशतावचः ॥ किंस्तुघ्नव्यासऋषभकपिला मत्स्यपूर्वकाः । आकूतिजैतेरेयौ च धर्मजत्रयमेव च । धन्वन्तरिर्हयग्रीवो दत्तात्रेयश्च तापसः । स्वयं नारायणस्त्वेते नाणुमात्रविभेदिनः । बलतः स्वरूपतश्चैव गुणैरपि कथंचन ॥’ इति । इदं च लक्ष्मीः सम्भूतिरिति विशेषणात् पृथुरपि हरेः साक्षादंश इतरथाऽस्य तत्पतित्वायोगादिति बुद्धिव्यामोहो न कर्तव्यः । ‘तत्र सन्निहिता श्रीश्च यत्र सन्निहितो हरिः । नास्य सन्निधिमात्रेण रमा पत्नीत्वमाव्रजेत् ॥ साक्षादेव तु साक्षाच्च हरेः सन्निधितः क्वचित् । गोप्यादिरूपा भवति विपरीतं न तु क्वचित् ॥’ इति निर्णायक-वचनात् । ‘पुरुषो धातु पुनी पुनाट् पुंस्त्वात्मपरमात्मनोः’ इत्यभिधानात् प्रकरणबलाच्च पुरुषं परमात्मानमपहाय न तिष्ठतीत्यभिप्रायेणोक्तम्– पुरुषस्यानपायिनीति ॥ लक्ष्मीविशेषणवती कापि रमणी भर्तृवियोगशून्या जातेति तात्पर्यमिति ॥ ५० ॥

॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुकृतायां

चतुर्थस्कन्धे चतुर्दशोऽध्यायः ॥

प्रकाशिका

मूले एष विष्णोर्भगवत इत्यत्र पृथोर्मत्स्यादिवत्साक्षाद्भगवत्कलात्वमुच्यत इति प्रतीतिं प्रमाणेनैवापाकरोति ॥ पृथ्विति । पृथ्वादयोऽन्ये जीवास्तेषु हरिः स्वयं राजराजरूपेणाविष्ट इत्यर्थः । नन्वेवं ते साक्षाद्धरेरंशा इति वक्ष्यमाणविरोध इत्यत आह ॥ विशेषावेशत इति । इतरराजापेक्षया तत्र राजरूपस्य विशेषेण सामर्थ्यप्रदर्शनेनाविष्टत्वात्साक्षाद्धर्यंशत्वप्रतिपादकं वचः । उपपद्यत इति शेषः । तर्हि साक्षाद्धरेरंशाः क इत्यतस्तानाह ॥ किंस्तुघ्न इत्यादिना । किंस्तुघ्नः शिंशुमारः । मत्स्यपूर्वका मत्स्यादयो दशावतारा आकूतिजो यज्ञनामा । ऐतरेयो महिदासः । धर्मजत्रयं नारायणो हरिः कृष्ण इत्येतन्नामकम् । तापसो मनुः स्वयं साक्षान्नारायणः । तदेव विशदयति ॥ नाणुमात्रेति । इयं च लक्ष्मीः सम्भूतिरित्यस्यापि साक्षादवतारत्वप्रतीतिवारणाय प्रमाणेनैव तात्पर्य-माह ॥ तत्रेति । यत्र यस्याः स्त्रियः पतिरूपे पुरुषे हरिः संन्निहितस्तत्र तस्यां स्त्रियाम् । ननु पृथ्वादौ पुरुषे हरेः संन्निहितत्वाद्रमा साक्षादेव रुक्मिण्यादिवत्प्रादुर्भूता तत्पत्नीत्वं प्राप्तेति किं न स्यादित्यत आह ॥ नास्येति । अस्य हरेर्जीवान्तरे संनिधानमात्रेणेत्यर्थः । अतस्तत्र तत्पत्न््नयां रमा आविष्टा भवतीत्येव वक्तव्यमित्यर्थः । तर्हि कुत्र रमा साक्षात्पत्नीत्वं प्राप्नोतीत्यपेक्षायामाह ॥ साक्षादेवेति । यत्र यदा रामकृष्णादिरूपेण हरिः साक्षादेव भवति, तत्र तदा रमा साक्षाद्धरेः पत्नीत्वमाव्रजेत् । तदैव क्वचित् स्त्त्र्यन्तरे संनिधितश्च पत्नीत्वमाव्रजेत् । अस्योदाहरणमाह ॥ गोप्यादिरूपेति । यथा गोप्यादिसंनिहितेत्यर्थः । आदिपदाज्जाम्बवत्यादीनां ग्रहणम् । यथा रमाऽन्यत्राविष्टाऽपि साक्षादवतीर्ण-हरिपत्नी भवति तथा हरिरन्यत्राविष्टः साक्षादवतीर्णरमायाः पतिः क्वचिद्भवति किं नेत्याह ॥ विपरीत-मिति । विपरीतं यथा साक्षादवतीर्णस्य हरेरन्यत्राविष्टा रमा पत्नी भवति । तथाऽन्यत्राविष्टस्य हरेः साक्षात्पत्नी नैव भवतीत्यर्थः । तथा च भगवत्कलां पृथ्वाविष्टाम् । एष एतस्मिन्विष्णोः कला सन्निहिताऽस्ति । इयमस्यां लक्ष्म्याः सम्भूतिः कला संनिहिता यतः सा पुरुषस्य हरेरनपायिन्य-वियोगिनीति मूलं व्याख्येयमिति भावः ॥ ५० ॥

॥ इति श्रीमद्वेदेशपूज्यपादशिष्येण यदुपतिना विरचितायां

श्रीमद्भागवतटिप्पण्यां चतुर्थस्कन्धे चतुर्दशोऽध्यायः ॥ ४-१४ ॥