१३ त्रयोदशोऽध्यायः

निशम्य कोषारविणोपवर्णितं ध्रुवस्य वैकुण्ठपदाधिरोहणम्

अथ त्रयोदशोऽध्यायः

श्रीशुक उवाच–

निशम्य कोषारविणोपवर्णितं ध्रुवस्य वैकुण्ठपदाधिरोहणम् ।

प्ररूढभावो भगवत्यधोक्षजे प्रष्टुं पुनस्तं विदुरः प्रचक्रमे ॥ १ ॥

पदरत्नावली

अत्र हरितद्भक्तकथाश्रवणेन शुद्धान्तःकरणस्य बिम्बप्रतिबिम्बज्ञानादेवापवर्गः स्यादिति दीप्यतेऽस्मिन्नध्याये । तत्रादौ विदुरस्य प्रचेतसां विषये प्रश्नप्रकारस्तदुत्तरत्वेन मैत्रेयेणाऽस्य वंशावलिवर्णनं क्रियते– निशम्येत्यादिना ॥ प्ररूढभावः प्रवृद्धभक्तिः । ‘सत्रेऽगायत् प्रचेतसाम्’ इत्युक्तिः प्रश्नबीजम् ॥ १ ॥

प्रकाशिका

प्ररूढो भावो भक्तिर्यस्य ॥ १ ॥

विदुर उवाच–

के ते प्रचेतसो नाम कस्यापत्यानि सुव्रत ।

कस्यान्ववाये प्रख्याताः कुत्र वा सत्रमासत ॥ २ ॥

पदरत्नावली

अन्ववाये वंशे ॥ २ ॥

प्रकाशिका

सत्रेऽगायत्प्रचेतसामित्युक्तिः पश्नबीजम् । अन्ववाये वंशे ॥ २ ॥

मन्ये महाभागवतं नारदं देवदर्शनम् ।

येन प्रोक्तः क्रियायोगः परिचर्याविधिर्हरेः ॥ ३ ॥

पदरत्नावली

महाभागवतेन विदुरेण हरिकथाप्रश्नं विहाय प्रचेतसां प्रश्नः किमिति क्रियते इत्याशङ्क्य तेषां कथाऽपि हरिकथाऽविनाभूता, नारदेन प्रोच्यमानत्वात्, नारदस्त्वन्यकथां न वक्ति भागवतचूडामणित्वादित्याह– मन्य इति ॥ क्रियायोगः स क इति तत्राह– परिचर्याविधिर्हरेरिति ॥३॥

प्रकाशिका

नारदेन प्रचेतसां सत्रे वर्णिताः कथाः प्रष्टुं तन्महिमानमाह ॥ मन्य इति । देवस्य दर्शनं यस्य हरेः परिचर्याया विधिः प्रकारो यस्मिन्सः क्रियायोगः क्रियालक्षणो मोक्षोपायो येन नारदेन पञ्चरात्रादिग्रन्थे प्रोक्त इत्यर्थः ॥ ३ ॥

स्वधर्मशीलैः पुरुषैर्भगवान् पुरुषोत्तमः ।

इज्यमानो भक्तिमता नारदेनेरितः किल ॥ ४ ॥

पदरत्नावली

प्रवृत्तानां योग्यः कथं निवृत्तिविषयो भवतीत्याशङ्क्य संकल्पविशेषात् स्यादित्या-शयेनाह– स्वधर्मशीलैरिति ॥ अयं भावः । साक्षान्नारायण एव चरुपुरोडाशादिद्रव्यस्वामित्वेन तदभिमान्यग्न्यादिदेवतान्तर्यामित्वेन तच्छब्दप्रवृत्तिनिमित्तस्य मुख्यत्वेन देवतात्वेन च मन्त्रमूर्तित्वेनेज्यत इति नारदेन प्रतिपादित इति ॥ ४ ॥

प्रकाशिका

स्वधर्मशीलैः पुरुषैः प्रचेतोभिरिज्यमानः पूज्यमानो नारदेनेरितः प्रतिपादितः किल । प्रचेतसो हरिमुद्दिश्य यागं कृतवन्तस्तत्स्वरूपं तान्प्रति नारदेन कथितमिति ग्रन्थान्तरे श्रूयत इत्यर्थः ॥४॥

यास्ता देवर्षिणा तत्र वर्णिता भगवत्कथाः ।

मह्यं शुश्रूषवे ब्रह्मन् कार्त्स्न्येनाचष्टुमर्हसि ॥ ५ ॥

पदरत्नावली

ततः किं फलितमित्यत्राह– यास्ता इति ॥ ५ ॥

प्रकाशिका

अतो याः कथास्तत्र देवर्षिणा वर्णितास्ताः कथा मह्यमाचष्टुं वक्तुमर्हसि ॥ ५ ॥

मैत्रेय उवाच–

ध्रुवस्य चोत्कलः पुत्रः पितरि प्रस्थिते वनम् ।

सार्वभौमश्रियं नैच्छदधिराजासनं पितुः ॥ ६ ॥

पदरत्नावली

अधिराजासनं राजासनमधिकृत्य वर्तमानं सार्वभौमश्रियं नैच्छदित्यन्वयः ॥ ६ ॥

प्रकाशिका

ध्रुवस्य वंशे जात इति वक्तुं तावद्ध्रुवस्य वंशपरंपरामाह ॥ ध्रुवस्येत्यादिना । अधिराजासनं राजासनमधिकृत्य वर्तमानं सार्वभौमश्रियं नैच्छदित्यन्वयः ॥ ६ ॥

स जन्मनोपशान्तात्मा निःसङ्गः समदर्शनः ।

ददर्श लोके विततमात्मानं लोकमात्मनि ॥ ७ ॥

पदरत्नावली

कुतो नैच्छदिति तत्राह– स जन्मनेति ॥ जन्मप्रभृति भगवन्निष्ठादिगुणयुक्त-त्वात् । समदर्शनत्वं स्पष्टयति– ददर्शेति ॥ आत्मानं परमात्मानं लोके विततं ददर्श । लोकमात्मनि परमात्माधारतया स्थितमद्राक्षीदित्यन्वयः ॥ ७ ॥

प्रकाशिका

कुतो नैच्छदित्यतोऽत्र हेतुमाह ॥ स इति चतुर्भिः । जन्मना जन्मारभ्य ॥ समदर्शन इत्युक्तमेव विवृणोति ॥ ददर्शेति । तथा च सर्वत्र हरिं समं पश्यतीति समदर्शन इत्युक्तं भवति । समं तत्तद्योग्यतामनतिक्रम्य पश्यतीति वा समदर्शनः ॥ ७ ॥

आत्मानं ब्रह्म निर्वाणं प्रत्यस्तमितविग्रहम् ।

अवबोधरसैकात्म्यमानन्दमनुसन्ततम् ॥ ८ ॥

पदरत्नावली

एतदेव विशिनष्टि– आत्मानमिति ॥ ददर्शेत्यनुवर्तते । आत्मानं स्वबिम्बं हरिमेव ददर्शेत्यन्वयः । कथम् ? ब्रह्म, अथ कस्मादुच्यते ब्रह्मेति बृहन्तो ह्यस्मिन् गुणा इति श्रुतेः, गुणतो देशतो व्याप्तम् । हृदयगुहाकाशस्याल्पत्वेन तत्स्थितस्यापि तथात्वात् कथं व्याप्तमित्युच्यत इत्याशङ्क्य प्राकृतवैकृतरूपवत एवानुपपत्तिः, व्याप्तत्वेन हरेस्तादृशशरीराभावादिति भावेनोक्तम्– निर्वाणमिति ॥ एतद्बाणमवष्टभ्येति श्रुतौ बाणशब्दस्य शरीरे प्रयोगात् । देहविनाशे तत्रस्थस्यापि विनाशसम्भवात् कथं ब्रह्मत्वमुच्यत इत्यतो वाऽऽह– निर्वाणमिति ॥ निर्गतो नाशो यस्मात् तत् तथोक्तम् । ‘निर्वाणं निर्वृतौ मोक्षे विनाशे गजमज्जने’ इति यादवः । अनेन देहिनो जीवस्य देहोऽहमिति तन्निमित्तदुःखित्वेऽपि हरेस्तन्नास्तीति ज्ञापितम् । हरेः प्राकृतदेहो नास्तीति स्पष्टमाह– प्रत्यस्तमितेति ॥ ‘गात्रं वपुः संहननं शरीरं वर्ष्म विग्रहः’ इत्यमरः । प्रतीत्युपसर्गयोगेन यानि यान्यवताररूपाणि अन्तर्यामिरूपाणि च तानि तानि सर्वाण्यपि प्राकृतशरीररहितानीति सूचनेन मूलरूपस्य किमु वक्तव्यमित्यायातम् । तर्हीदं शून्यकल्पमित्यत उक्तम्– अवबोधेति ॥ अवबोधरसो ज्ञानरसः स एवैकमात्मनोऽभिन्नं रूपं यस्य तत् तथोक्तम् । प्राकृतज्ञानमिश्रितं न भवतीत्येकेत्युक्तम् । तस्यापि ज्ञानवाचित्वादवगच्छतीत्यादौ सिद्धत्वात् । ज्ञानज्ञानः सुखसुख इति श्रुतिरपि सूचिता स्यात् । रूपरूपिणोरभेदद्योतनायैकात्म्यमित्युक्तम् । ऐकात्म्यप्रत्ययसारमिति श्रुतिश्च । एवं चेद् विज्ञानवादानु-प्रवेश इति तत्राह– आनन्दमिति ॥ आनन्दयतीत्यानन्दः । सुखानुभवरूपमित्यर्थः । विज्ञानमानन्दं ब्रह्मेति श्रुतेः । उपसंहरति– अनुसन्ततमिति ॥ अन्तःसर्वप्राणिष्वनुगतत्वेन तद्बहिष्ट्वेन च गुणगुणिनो रूपरूपिणोरभेदेन ततं व्याप्तमित्युपपन्नमित्यर्थः । ‘सम् अभेदे’ इति यादवः ॥ ८ ॥

प्रकाशिका

पुनः कथम्भूतमात्मानम् । जीवराशिं प्रत्यस्तमितोऽदर्शनं प्राप्तो विग्रहो यस्य । जीवप्रयत्नेनाव्यक्तदेहमिति यावत् । नन्वेवमशरीरत्वप्रतिपादकश्रुतिविरोध इत्यत उक्तम् ॥ निर्वाणमिति । प्राकृतशरीरशून्यमित्यर्थः । नन्वेवं कथं तस्य जीवाभेदोक्तिरित्यत उक्तम् ॥ ब्रह्मेति । गुणपूर्णमित्यर्थः । तथा चाभेदश्रुतयोऽपि भेदपरतयैव योज्या इति भावः । ननु प्राकृतविग्रहाभावे कीदृशो भगवद्विग्रह इत्यपेक्षायां विग्रहस्वरूपं दर्शयन् लोके विततिः किं देहेनोतादेहेनेत्यपेक्षायामाह ॥ अवबोधरसैकात्म्य-मिति । अवबोधरसेन श्रेष्ठज्ञानात्मकेन हरिणैकात्म्यमेकस्वरूपत्वं यस्य देहस्य स तथा । श्रेष्ठज्ञानात्मक-हर्यभिन्नत्वात्तद्देहोऽपि ज्ञानात्मक इत्याशयः । आनन्दमानन्दरूपं च देहमन्वनुसृत्य सम्यक् ततं ज्ञानानन्दरूपदेहेनैव व्याप्तमित्यर्थः । ददर्शेति पूर्वेणान्वयः ॥ ८ ॥

अव्यवच्छिन्नयोगाग्निदग्धकर्ममलाशयः ।

स्वरूपमवरुन्धानो नान्यदस्मात् तदैक्षत ॥ ९ ॥

तात्पर्यम्

स्वरूपं जीवस्य बिम्बरूपं परमात्मानम्। ‘भिन्नस्वरूपमभिदं स्वरूपं तु द्विधा हरेः । भिन्नस्वरूपं ब्रह्माद्या मत्स्याद्यभिदमुच्यते’ इति गारुडे ॥ ९ ॥

पदरत्नावली

ज्ञानाग्निना दग्धबाह्यान्तःकरणस्यैतादृशभगवद्रूपदर्शनं सङ्गच्छत इत्याह– अव्यवच्छिन्नेति ॥ योगशब्देन तज्जनितज्ञानं लक्ष्यते । अव्यवच्छिन्नयोगेन निरन्तरध्यानलक्षणोपासनया जातेन ज्ञानाग्निना दग्धं भस्मीभूतं कर्ममलं पापक्रियानिमित्तं मलं किट्टं यस्य स तथा । तादृश आशयोऽतःकरणं यस्य स तथा । निर्मलान्तःकरणपात्रे प्रज्वलितेन ज्ञानदीपेन लोके विततमात्मान-मात्मनि ततं लोकं च ददर्शेत्युक्त्या द्वयोः समत्वमायातमिति मन्दाशङ्कामपनुदन् विशदयति– स्वरूपमिति ॥ स्वरूपं जीवस्य बिम्बरूपं परमात्मानमवरुन्धानः स्वज्ञानान्तःस्थितं कुर्वाणः साक्षात्कृतं कुर्वाणो ऽस्माद्धरेरन्यत् स्वतन्त्रमनियतं तज्जगन्नैक्षत, किन्तु तत्सृष्टं तत्स्थापितं तन्नियतं तत्संहृतं तज्ज्ञापितं तद्बद्धं तन्मोचितमपश्यदित्यर्थः । तदा स्वरूपं प्रतिबिम्बमस्माद् बिम्बादन्यद् भिन्नं नैक्षतेति बिम्बप्रतिबिम्बयोरत्रैक्यमुच्यत इति वक्तुं न युक्तम् । अवरुन्धान इत्यस्य निर्विषयत्वात्, तदेति कालस्य पृथङ्निर्देशानुपपत्तेश्च । ददर्शेत्यत्र लोकात्मनोराधाराधेयत्वोक्तेश्च । तस्य च भेदनिष्ठत्वात् । तदुक्तम्– भिन्नस्वरूपमभिदं स्वरूपं तु द्विधा हरेः । भिन्नस्वरूपं ब्रह्माद्यं मत्स्याद्यभिदमुच्यते ॥’ इति ॥ ९ ॥

प्रकाशिका

कथं भूतो ऽव्यवच्छिन्नो निरन्तरो योगो ध्यानं जनको यस्य स तथा । तल्लक्षणाग्निना दग्धाः कर्मानिष्टं काम्यं मलं पापं चाशयो जडान्तःकरणं च यस्य स तथा । स्वरूपशब्दस्य स्वरूपमिति प्रतीतिवारणाय विवक्षितमर्थमाह ॥ स्वरूपमिति । अनेन स्वस्य रूपमिति षष्ठीतत्पुरुषः । रूपशब्दश्च बिम्बपर इत्युक्तं भवति । स्वोत्तमानामपि बिम्बत्वात्तद्व्यावृत्तये परमात्मानमित्युक्तम् । परमात्माभिन्न-मित्यर्थः । अनेन स्वः स्वतन्त्रः परमात्मा तस्य रूपं तदात्मकमित्यपि स्वरूपशब्दव्याख्यानं सूचयति । सम्यक् न रूपं किन्तु तदाविष्टमित्यपि व्याख्यानमित्यभिप्रेत्य तत्र प्रमाणं पठति ॥ भिन्नस्वरूपमिति । अभिदमभिन्नम् । तुशब्द इतीत्यर्थः । तथा च हरेः स्वरूपं हरिस्वरूपशब्दवाच्यं भिन्नस्वरूपं भिन्नमत एव सु अरूपमेकमित्यर्थः । अभिदमभिन्नमपरमिति द्विधेत्यर्थः । ब्रह्माद्या जीवा हरेर्भिन्नस्वरूपं भिन्नत्वेऽपि हरिस्वरूपशब्दवाच्या इत्यर्थः । मत्स्यादीत्यत्रादिपदेन बिम्बरूपमपि ग्राह्यम् । उत्युच्यते स्वरूपशब्देन । रूढ्येति शेषः । अनेन परमात्माभिन्नमित्येतदपि प्रमापितमिति ध्येयम् ॥ ततश्चायं मूलार्थः ॥ स्वः स्वतन्त्रः परमात्मा तस्य रूपं तदात्मकं यत्स्वस्य जीवस्थरूपं बिम्बं तत् । तथा सु अरूपं किन्तु तदाविष्टं ब्रह्मादिकं तदप्यवरुन्धानः स्वज्ञानावृतं कुर्वाणः । पश्यन्निति यावत् । अस्मदुक्तरीत्या स्वरूपशब्दवाच्या-दन्यत्स्वदेहादिकं नैक्षत ॥ ९ ॥

जडान्धबधिरोन्मत्तमूकाकृतिरतन्मतिः ।

लक्षितः पथि बालानां प्रशान्तार्चिरिवानलः ॥ १० ॥

पदरत्नावली

एवंविधोऽपि लोकसम्भाषणविसर्जनार्थमविवेकिनामेवं दृष्ट इत्याह– जडेति ॥ अतन्मतिस्तत्तद्वस्तुविषयज्ञानशून्यः । विवेकिनां पक्षे एव सर्वविलक्षणे विष्णौ यया संसारं तरति सा मतिर्यस्य सोऽतन्मतिरिति । प्रशान्तार्चिर्भस्मगर्भितोऽग्निरिव ॥ १० ॥

प्रकाशिका

जडादीनामिवाकृतिर्यस्य । अतन्मतिर्न तेषामिव मतिर्यस्य । प्रशान्तान्यर्चींषि ज्वाला यस्यानलस्य तद्वत्स्थितः ॥ १० ॥

मत्वा तं जडमुन्मत्तं कुलवृद्धाः समन्त्रिणः ।

वत्सरं भूपतिं चक्रुर्यवीयांसं भ्रमेः सुतम् ॥ ११ ॥

तात्पर्यम्

‘कल्पः कल्पाभिमानी सन् शिंशुमारानुगःस्थितः । वत्सरो राज्यमकरोत्पित्रा दत्तं महाबलः’ इति ब्राह्मे । ‘चक्रे नारायणः साक्षात्किंस्तुघ्नः कल्पमात्मजम्’ । इति पाद्मे

॥ ११ ॥

पदरत्नावली

अस्मिन्नेवं गते कोऽत्र राजाऽभूद् ? अत्राह– मत्वेति ॥ कालावयवस्य वत्सरस्य राज्यार्हत्वं कथमित्यत उक्तम्– यवीयांसमिति । कुलवृद्धा ज्येष्ठे कल्पनामि्न सुते स्थिते वत्सरं राजानं कथमकुर्वन्नित्येतच्चोद्यं ‘कल्पः कल्पाभिमानी सन् शिंशुमारानुगः स्थितः । वत्सरो राज्यमकरोत् पित्रादत्तं महाबलः । चक्रे नारायणः साक्षात् किंस्तुध्नः कल्पमात्मजम् ॥’ इत्यनेन परिहर्तव्यम् ॥११॥

प्रकाशिका

यवीयांसं कनिष्ठम् । ननु ज्येष्ठभार्याजातस्य श्रेष्ठस्योत्कलस्य विरक्तत्वेन भूपतित्वा-भावेऽपि भ्रमिसुतयोः कल्पवत्सरयोर्मध्ये कल्पस्य ज्येष्ठत्वात्तं विहाय कथं कनिष्ठं वत्सरं भूपतिं चक्रुरित्याशङ्कायां प्रमाणेनैव तत्रोपपत्तिमाह ॥ कल्प इति । ननु ध्रुवसुतः कथं शिंशुमारानुगो जात इत्यत्रैवोपपत्तिं प्रमाणेनैवाह ॥ चक्र इति । किंस्तुघ्नः शिंशुमारः । तथा च शिंशुमारो ध्रुवसुतं कल्पमात्मजं कृत्वा स्वनियम्यकालविशेषरूपकल्पाभिमानिनं विधाय स्वानुगं चक्र इत्याशयः ॥ ११ ॥

स्वर्वीथिर्वत्सरस्येष्टा भार्याऽसूत षडात्मजान् ।

पुष्पार्णं तिग्मकेतुं च इषमूर्जं वसुं जयम् ॥ १२ ॥

पदरत्नावली

वत्सरोऽपि नाम्ना स्वर्वीथ्यां भार्यायां षट्सुतानापेत्याह– स्वर्वीथिरिति ॥ स्वर्गमार्गाभिमानित्वात् स्वर्वीथीति ॥ १२ ॥

प्रकाशिका

इष्टा प्रिया भार्या ॥ १२ ॥

पुष्पार्णस्य प्रभा भार्या दोषा च द्वे बभूवतुः ।

प्रातर्मध्यन्दिनं सायमिति ह्यासन् प्रभासुताः ॥ १३ ॥

प्रदोषो निशिथो व्युष्ट इति दोषासुतास्त्रयः ।

व्युष्टः सुतं पुष्करिण्यां सर्वतेजसमादधे ॥ १४ ॥

पदरत्नावली

अत्र यं यमादाय कथा प्रवर्तते स एव वंशे हेतुभूतः । अन्ये त्वकृतोद्वाहा-योगिनोऽप्रजाश्चेति तात्पर्यं ज्ञातव्यम् । एताः स्त्रियः सुताश्च कालादितत्तद्वस्त्वभिमानिन इति च

॥ १३–१४ ॥

प्रकाशिका

निशिथः निशीथः । एतास्त्रियः सुताश्च प्रायस् तच्छब्दवाच्यास्तत्तद्वस्त्वभिमानिन इति ज्ञातव्याः ॥ १३,१४ ॥

स चक्षुः सुतमाकूत्यां पत्न््नयां मनुमवाप ह ।

मनोरसूत महिषी विरजान्१ नड्वला सुतान् ॥ १५ ॥

षुरुकुत्सं त्रितं द्युम्नं सत्यव्रतमृतव्रतम् ।

अग्निष्टोममतीरात्रं सुद्युम्नं शिबिमुल्मुकम् ॥ १६ ॥

उल्मुकोऽजनयत् पुत्रान् पुष्करिण्यां षडुत्तमान् ।

अङ्गं सुनासमाख्यातिं क्रतुमाङ्गिरसं गयम् ॥ १७ ॥

पदरत्नावली

स सर्वतेजाश्चक्षुर्नामानं सुतं नाम्ना आकूत्यां पत्न््नयामवापेत्यन्वयः । मनोर्महिषी नाम्ना नड्वला, वैराजा वैराजपुत्री पुरकुत्सादीन् दशसुतानसूतेत्यन्वयः ॥ १५,१६ ॥

प्रकाशिका

स सर्वतेजाश्चक्षुः संज्ञं मनुं सुतमवाप । मनोर्महिषी नड्वला विरजान् शुद्धान् दश सुतान् असूत ॥ १५–१७ ॥

सुनीथाऽङ्गस्य या पत्नी सुषुवे वेनमुल्बणम् ।

यद्दौःशील्यात् स राजर्षिर्निर्विण्णो निरगात् पुरात् ॥ १८ ॥

पदरत्नावली

अङ्गस्य या सुनीथानाम पत्नी सा उल्बणमसुरप्रकृतिं वेनं सुषुवे इत्यन्वयः ॥१८॥

प्रकाशिका

उल्बणमसुरम् ॥ १८ ॥

यमङ्ग शेपुः कुपिता वाग्वज्रा मुनयः किल ।

गतासोस्तस्य भूयस्ते ममन्थुर्दक्षिणं करम् ॥ १९ ॥

पदरत्नावली

यं वेनम् । अङ्ग विदुर । गतासोर्मृतस्य ॥ १९ ॥

प्रकाशिका

यं वेनम् । अङ्ग विदुर । वागेव वज्रं येषाम् । गतासोर्मृतस्य ॥ १९ ॥

अराजके तदा लोके दस्युभिः पीडिताः प्रजाः ।

जातो नारायणांशेन पृथुः पृथुपराक्रमः ॥ २० ॥

पदरत्नावली

ततः किमभूत् ? । तत्राह– जात इति ॥ २० ॥

प्रकाशिका

मथनहेतुमाह ॥ अराजक इति । लोकेऽराजके जाते सति यदा प्रजा दस्युभिः पीडितास्तदा जात इत्यन्वयः ॥ २० ॥

विदुर उवाच–

तस्य शीलनिधेः साधोर्ब्रह्मण्यस्य महात्मनः ।

राज्ञः कथमभूद् दुष्टा प्रजा यद्विमना ययौ ॥ २१ ॥

पदरत्नावली

श्रवणमङ्गलत्वात् सामान्यतः कथितं विशेषतो विदुरः श्रोतुं पृच्छतीत्याह– तस्येति ॥ यद्विमना यस्या दुष्टप्रजाया विषण्णमनाः ॥ २१ ॥

प्रकाशिका

दुष्टा प्रजा दुष्टपुत्रः । यद्विमना यस्याः प्रजाया हेतोर्विमनाः सन् ॥ २१ ॥

किं चां हो वेनमुद्दिश्य ब्रह्मदण्डमयूयुजन् ।

दण्डव्रतधरे राज्ञि मुनयो धर्मकोविदाः ॥ २२ ॥

पदरत्नावली

दण्डव्रतं हिंसाख्यं व्रतं धारयतीति दण्डव्रतधरः । ‘दण्डोऽस्त्री शासने राज्ञां हिंसायां लकुटे गुडे’ इति यादवः । यद्वा शासनाख्यं व्रतं बिभ्रति । न तेष्वज्ञानलेशः सम्भाव्यत इत्याह– धर्मकोविदा इति ॥ २२ ॥

प्रकाशिका

दण्डव्रतं हिंसाख्यव्रतं धारयतीति दण्डव्रतधरस्तस्मिन् । अनेन सर्वशिक्षको न शापार्ह इति सूचयति ॥ २२ ॥

नावध्येयः प्रजापालः प्रजाभिरघवानपि ।

यदसौ लोकपालानां बिभर्त्योजः स्वतेजसा ॥ २३ ॥

एतदाख्याहि मे ब्रह्मन् सुनीथात्मजचेष्टितम् ।

श्रद्धधानाय भक्ताय त्वं परावरवित्तमः ॥ २४ ॥

मैत्रेय उवाच–

अङ्गोऽश्वमेधं राजर्षिराजहार महाक्रतुम् ।

नाजग्मुर्देवतास्तस्मिन्नाहूता ब्रह्मवादिभिः ॥ २५ ॥

पदरत्नावली

नावध्येयो नावज्ञेयः । तत्र निमित्तमाह– यदसाविति ॥ यत एवं तत्त्वं तस्मादत्र महन्निमित्तमस्ति, एतन्मे आख्याहीत्यन्वयः । ममात्रेतिहासज्ञानं नास्तीति वक्तुं शक्यमित्यत उक्तम्– परावरेति ॥ सूचितमर्थं विस्तरतो वक्तुमुपक्रमते– अङ्ग इति ॥ २३-२५ ॥

प्रकाशिका

नावध्येयो नावज्ञेयः । ओजः सामर्थ्यम् ॥ २३-२५ ॥

तमूचुर्विस्मितास्तात यजमानमथर्त्विजः ।

हवींषि हूयमानानि न ते गृह्णन्ति देवताः ॥ २६ ॥

प्रकाशिका

ते हवींषि ॥ २६ ॥

राजन् हवींष्यदुष्टानि श्रद्धयाऽऽसादितानि ते ।

छन्दांस्ययातयामानि योजितानि धृतव्रतैः ॥ २७ ॥

पदरत्नावली

न द्रव्यादिदोषादित्याह– राजन्निति ॥ आसादितान्यापादितानि । अयातया-मान्यगतवीर्याणि ॥ २७ ॥

प्रकाशिका

आसादितानि संपादितानि । अयातयामान्यगतवीर्याणि ॥ २७ ॥

न विदामेह देवानां हेलनं वयमण्वपि ।

यन्न गृह्णन्ति भागान् स्वान् ये देवाः कर्मसाक्षिणः ॥ २८ ॥

पदरत्नावली

हेलनमवज्ञानम् ॥ २८ ॥

प्रकाशिका

हेलनमवज्ञानम् ॥ २८ ॥

मैत्रेय उवाच–

अङ्गो द्विजवचः श्रुत्वा यजमानः सुदुर्मनाः ।

तत् प्रष्टुं व्यसृजद् वाचं सदस्यांस्तदनुज्ञया ॥ २९ ॥

प्रकाशिका

यज्ञे धृतमौनोऽपि वाचं व्यसृजत्प्रायुंक्त ॥ २९ ॥

नागच्छन्त्याहुता देवा न गृह्णन्ति ग्रहानिह ।

सदसस्पतयो ब्रूत किमवद्यं मया कृतम् ॥ ३० ॥

पदरत्नावली

आहुता आहूताः । ग्रहान् हविःपिण्डान् ॥ ३० ॥

प्रकाशिका

आहुता आहूताः । गृहान्सोमपात्राणि । इह यज्ञे न गृह्णन्ति ॥ ३० ॥

सदस्या ऊचुः –

नरदेवेह भवतो नावद्यं हि मनाक् स्थितम् ।

अस्त्येकं प्राक्तनमघं यदिहेदृक् त्वमप्रजः ॥ ३१ ॥

पदरत्नावली

राज्ञा पृष्टा यजमानकर्मगुणदोषान् विविच्य तत्परिहृत्य कर्मप्रवर्तनायामन्त्रिताः सदस्या ऋत्विजः किं विशेषमवलोक्य प्रोचुरिति तत्राह– नरदेवेति ॥ इहास्मिन् जन्मनि । ईदृशः दृष्टोऽप्रजोऽनपत्य इति यदतः प्राक्तनं पूर्वजन्मार्जितमघं बालहत्यादिकमेकमघमस्तीत्यनुमीयते ॥ ३१ ॥

प्रकाशिका

इहास्मिन् जन्मनि यद्यस्मादघादीदृग्गुणाधिकोऽपि त्वमप्रजः पुत्ररहितः ॥ ३१ ॥

तथा साधय भद्रं ते आत्मानं सुप्रजं नृप ।

इष्टस्ते पुत्रकामस्य पुत्रं दास्यति यज्ञभुक् ॥ ३२ ॥

पदरत्नावली

तथा तस्मात् ते आत्मानं सप्रजं पुत्रेण सह वर्तमानं साधय कुरु । ततो भद्रं भवति । तत्र क उपाय इति तमाहुरित्याह– इष्ट इति ॥ ३२ ॥

प्रकाशिका

यथा देवा हविर्गृह्णन्ति तथाऽऽत्मानं सप्रजं पुत्रेण सह वर्तमानं साधय कुरु । ततो भद्रं भवति । कथं साधनीयमित्यत आह ॥ इष्ट इति ॥ ३२ ॥

यथा स्वभागधेयानि ग्रहीष्यन्ति दिवौकसः ।

यद् यज्ञपुरुषः साक्षादपत्याय हरिर्वृतः ॥ ३३ ॥

तात्पर्यम्

‘अनपत्योऽपि सद्धर्मा लोकजिन्नात्र संशयः । देवैस्तु पृथुजन्मार्थे हविरङ्गस्य नो हृतम् ॥ अनपत्यत्वकर्माऽसौ बालहत्याकृतेः पुरा । अतो दुष्टोऽभवत्पुत्र इष्टो विष्णुरतः पृथुः’ ॥ इति वामने ॥ ३३ ॥

पदरत्नावली

किं भद्रं स्यादित्यत्राह– यथेति ॥ दिवौकसां हरेरङ्गोत्पन्नत्वेन तदाश्रितत्वेन स्थितेस्तन्मनस्कत्वेन तत्तुष्ट्या तत्तुष्टेः स्वभागादानानादानयोस्तदिच्छाविनाभूतत्वात् । अधुना तदिष्ट-त्वात् सर्वं समञ्जसं भवतीति भावेनाहुरित्याह– यद् यज्ञपुरुष इति ॥ अनेनापुत्रस्य लोको नास्तीति प्रायिकम् । सद्धर्मवतो धर्मबलाल्लोको भवत्येव । हरीच्छया विशिष्टपुरुषोत्पत्तये देवैर्हविर्नाहृतम् । अङ्गस्यापि बालहत्यादिदोषादनपत्यत्वादि कल्प्यत इति ज्ञायते । तदुक्तम्– ‘अनपत्योऽपि सद्धर्मा लोकजिन्नात्र संशयः । देवैस्तु पृथुजन्मार्थे हविरङ्गस्य नो हृतम् ॥’ इति ॥ ३३ ॥

प्रकाशिका

तथा सति स्वभागधेयानि स्वभागान् । यद्यस्माद्यज्ञपुरुषो हरिः साक्षाद्वृतः न देव-द्वाराऽतोऽपत्यं तव भविष्यतीति निश्चित्य दिवौकसः स्वभागधेयानि गृहिष्यन्तीत्याशयः । अत्रापत्याप्त्यै पुत्रकामेष्टौ कृतायां देवा हविर्गृहीष्यन्तीत्युक्त्याऽनपत्यस्य हविर्देवा न गृहिष्यन्तीति । ततश्च तस्य स्वर्गादिलोकप्राप्तिर्नास्तीति प्रतीयतेऽतोऽत्र विवक्षितं तात्पर्यं प्रमाणेनैवाह ॥ अनपत्योऽपीति । सद्धर्मा स्वविहितधर्मानुष्ठाता लोकजिदुत्तमलोकं प्राप्नोति । तर्हि देवैः कस्मादङ्गस्य हविर्नो गृहीतमित्यत उक्तम् ॥ देवैरिति । तुशब्दोऽवधारणे । पृथुजन्मार्थमेव पृथुजन्म भवेदित्यर्थमेवाङ्गस्य हविर्नो हृतं गृहीतम् । यद्यस्माभिरस्य हविर्गृह्येत तर्ह्ययं पुत्रकामेष्टिं न करिष्यति । ततश्च पृथुजन्म न भवेदतः पृथुजन्मार्थमस्यात्र हविर्न ग्राह्यमित्यभिप्रायेणैव न गृहीतम् । न त्वनपत्यकारणादित्यर्थः । नन्वस्या-नपत्यस्य तथाऽपि पुत्रकामेष्टौ कृतायामप्यादौ दुष्टपुत्रोत्पत्तिश्च किमर्थमित्यपेक्षायामाह ॥ अनपत्यत्व-कर्माऽसाविति । असावंगः । अनपत्यत्वे निमित्तभूतं कर्म पापं यस्य स तथा । कुतः । पूर्वजन्मनि बालहत्याकृतेः कारणात् । अतोऽनपत्योऽभवदित्यपि ग्राह्यम् । दुष्टः पुत्रोऽभवदित्यत्र पुत्रकामेष्टौ कृतायामपीति शेषः । ननु तर्हि विष्णुमुद्दिश्य कृताया इष्टेर्वैय्यर्थ्यमापन्नमित्यत उक्तम् ॥ इष्टेति । यतो विष्णुरिष्टोऽतः पृथुः पश्चादभवदित्यर्थः । बालहत्याजनितपापवशादेव पुत्रकामेष्टिफलभूतोऽपि पुत्रो न साक्षाज्जात इत्याशयः ॥ ३३ ॥

तांस्तान् कामान् हरिर्दद्याद् यान् यान् कामयते जनः ।

आराधितो यथैवैष यथा पुंसां फलोदयः ॥ ३४ ॥

पदरत्नावली

न केवलं हरिपूजया पुत्रकामस्य पुत्रावाप्तिः, तत्तत्कामेन तत्तदवाप्तिरपि स्यादित्याह– तांस्तानिति ॥ फलाकाङ्क्षानुसारेण पूजाऽपि तादृशीति भावेनाहुः– आराधित इति ॥३४॥

प्रकाशिका

ननु मुक्तिप्रदो हरिः किमितरपुरुषार्थं ददातीत्यत आह ॥ तांस्तानिति । नन्वेवं कथं मुक्तिप्रद इत्यत उक्तम् ॥ आराधित इति । एष हरिर्यथा यत्कामनयाऽऽराधितस्तथा तत्कामनानु-सारेणैव फलोदयः । हरेः सकाशाद्भवतीति शेषः । मोक्षकामनयाऽऽराधितो मोक्षं ददातीतर-पुरुषार्थकामनयाऽऽराधित इतरपुरुषार्थान् ददातीत्याशयः ॥ ३४ ॥

इति व्यवसिता विप्रास्तस्य राज्ञः प्रजाप्तये१ ।

पुरोडाशं निरवपन् शिपिविष्टाय विष्णवे ॥ ३५ ॥

पदरत्नावली

हितमुक्त्या ते तूष्णीमभूवन् किम् ? नेत्याह– इतीति ॥ प्रजातये संतत्यै । शिपिविष्टो नाम पुत्रकामेष्टिदेवता हरे रूपान्तरम् । अत एव ‘शिपिविष्टस्तु खलतौ दुश्चर्मणि महेश्वरे’ इत्यन्यवृत्तिनिवारणाय– विष्णव इति ॥ ३५ ॥

प्रकाशिका

प्रजाप्तये प्रजोत्पत्तये शिपिविष्टाय शिपिषु पशुषु यज्ञनामकेन पुरुषेण प्रविष्टा-येत्यर्थः । तथा च श्रुतिः । यज्ञो वै विष्णुः पशवः शिपिर्यज्ञ एव पशुषु प्रतितिष्ठतीति ॥ ३५ ॥

तस्मात् पुरुष उत्तस्थौ हेममाल्यमलाम्बरः ।

हिरण्मयेन पात्रेण सिद्धमादाय पायसम् ॥ ३६ ॥

स विप्रानुमतो राजा गृहीत्वाऽञ्जलिनोदनम् ।

अवघ्राय मुदा युक्तः प्रादात् पत्न््नया उदारधीः ॥ ३७ ॥

पदरत्नावली

तस्मान्निरुप्तपुरोडाशात् ॥ अञ्जलिनोदनमिति पाठः ॥ ३६,३७ ॥

प्रकाशिका

तस्मात्पुरोडाशहोमात्पुरुष उत्तस्थौ । कुण्डादिति शेषः ॥ ३६,३७ ॥

सा तत् पुंसवनं राज्ञी प्राश्यर्तौ पत्युरादधे ।

ततः काल उपावृत्ते कुमारं सुषुवेऽप्रजा ॥ ३८ ॥

पदरत्नावली

पुमांसं सूत इति पुंसवनं पायसम् । उपावृत्ते प्राप्ते । अप्रजा पुत्ररहिता ॥ ३८ ॥

प्रकाशिका

पुमान् सूयते अनेनेति पुंसवनं तत्पायसं संप्रास्य पत्युः सकाशाद्गर्भमादधे । अप्रजा सती ॥ ३८ ॥

स बाल एव पुरुषो मातामहमनुव्रतः ।

अधर्मांशोद्भवं मृत्युं तेनाभवदधार्मिकः ॥ ३९ ॥

स शरासनमुद्यम्य मृगयुर्वनगोचरः ।

हन्त्यसाधुर्मृगान् दीनान् वेनोऽसावित्यरौज्जनः ॥ ४० ॥

तात्पर्यम्

‘मृत्युर्देवो यमभ्राता वेनमातामहोऽसुरः ॥ पीडां वेनेति च प्राहुर्वेनोऽसौ पीडनादभूदि’ति च ॥ ३९, ४० ॥

पदरत्नावली

बाल एव कौमारवया एव । अधर्मांशेनोद्भवो यस्य स तथा तम् । मातामहं मातुः पितरं मृत्युनामानमसुरवरमनुव्रत इति यत् तेन स पुरुषोऽधार्मिको धर्मविरुद्धकर्मकृदभूदिति । अनेन विशेषणेन धर्मांशोद्भवो मृत्युरन्योऽस्तीति रहस्यमवगन्तव्यम् । तदुक्तम्– ‘मृत्युर्देवो यमभ्राता वेनमातामहोऽसुरः’ इति ॥ किं नामाऽयं बाल इत्यतस्तत्कर्मानुसृतं नाम लोका अरूरुवन्नित्याह– स शरासनमिति ॥ वेनयति पीडयतीति वेनः । ‘पीडां वेनेति च प्राहुर्वेनोऽसौ पीडनाद्भूद्’ इति वचनात् । असाधुर्दुर्जनः ॥ ३९,४० ॥

प्रकाशिका

बाल एव कौमारवया एव । मातामहं मातुः सुनीथायाः पितरम् । ननु मृत्यु-नामकदेवमनुव्रतस्य कथमधार्मिकत्वमुच्यत इत्यपेक्षायामत्राभिप्रायं प्रमाणेनैवाह ॥ मृत्युरिति । तथा च यमभ्राता देवो मृत्युरत्र न मृत्युशब्देन ग्राह्यः किं त्वधर्मांशोद्भवमधर्माभिमान्यसुरांशोद्भवं मातामहमिति विशेषणद्वयसामर्थ्यादसुर एव मृत्युनामा ग्राह्योऽतोऽधार्मिको धर्मविरुद्धकर्मकृदित्याशयः ॥ वेनोऽसा-वित्यरौज्जन इत्युक्तत्वेन शब्दनिर्वचनं प्रमाणशेषेण दर्शयति ॥ पीडामिति । तथा च मृगुयुर्लुब्धकः सन् वेनयति पीडयतीति वेनोऽसागच्छतीति जनोऽरौच्चुक्रोश । असाधुर्दुर्जनः ॥ ३९,४० ॥

आक्रीडे क्रीडतो बालान् वयस्यानतिदारुणः ।

प्रसह्य निरनुक्रोशः पशुमारममारयत् ॥ ४१ ॥

तं विलक्ष्य खलं पुत्रं शासनैर्विविधैर्नृपः ।

यदा न शासितुं कल्पो भृशमासीत् सुदुर्मनाः ॥ ४२ ॥

पदरत्नावली

आक्रीडे क्रीडास्थाने । पशुमारमिति लुप्तोपमा । यथा पशुमारो गोध्नश् चण्डाल-स्तथेति ॥ स्वशासनमुल्लङ्ग्य वर्तमानं पुत्रमवलोक्य पित्रा किमकारीति तत्राह– तं विलक्ष्येति ॥ दुरशोभनदुःखयोरित्यनेन सुष्ठु दुःखितमनाः ॥ ४१,४२ ॥

प्रकाशिका

आक्रीडे क्रीडास्थाने । पशुमारो पशुहिंसकः यथा पशून्मारयति तथैवेति लुप्तोपमा

॥ ४१,४२ ॥

प्रायेणाभ्यार्चितो देवो येऽप्रजा गृहमेधिनः ।

कदपत्यकृतं दुःखं ये न विन्दन्ति दुर्भरम् ॥ ४३ ॥

पदरत्नावली

प्रलापाद् दुःखं चावगम्यत इत्याह– प्रायेणेति ॥ ये गृहमेधिनोऽप्रजा एवं दुर्भरं कदपत्यकृतं दुःखं न विन्दन्ति तैः सर्वेरपि प्रायेण देवो नारायणोऽभ्यर्चित इत्यन्वयः ॥ ४३ ॥

प्रकाशिका

दुर्मनसस्तस्य कुपुत्रनिन्दावाक्यान्याह ॥ प्रायेणेति त्रिभिः । ये गृहमेधिनोऽप्रजा एवं दुर्भरं धारयितुमशक्यं कदपत्यकृतं दुःखं न विन्दन्ति तैः प्रायेण देवो नारायणोऽभ्यर्चित इत्यन्वयः

॥ ४३ ॥

यतः पापीयसी कीर्तिरधर्मश्च महान् नृणाम् ।

यतो विरोधः सर्वेषां यत आधिरनन्तकः ॥ ४४ ॥

कस्तं प्रजापदेशं वै मोहं बन्धनमात्मनः ।

पण्डितो बहुमन्येत यदर्थाः क्लेशदा गृहाः ॥ ४५ ॥

पदरत्नावली

अपकीर्त्यादिदोषहेतुत्वात् पण्डितो नरकत्राणाहेतुत्वात् साधुरयं पुत्र इति बहुमानं न करोतीत्याह– यत इति ॥ ४४,४५ ॥

प्रकाशिका

सर्वेषां सर्वैः सह । आधिर्मानसी व्यथा ॥ प्रजापदेशं प्रजा इति नाममात्रं प्रकर्षेण जननरूपार्थाभावात् । आत्मनः स्वस्य मोहेनायं मम पुत्र इति मिथ्याज्ञानेन बन्धनं बन्धनहेतुम् । यदर्था यन्निमित्ता ॥ ४४,४५ ॥

कदपत्यं वरं मन्ये सदपत्याच्छुचास्पदात्१ ।

निर्विद्येत गृहान्मर्त्यो यत् क्लेशनिवहा गृहाः ॥ ४६ ॥

पदरत्नावली

न केवलं दुःखमेव कदापत्यात् किन्तु विवेकिनः प्रयोजनं चास्तीत्याह– कदपत्यमिति ॥ क्लेशसमूहेनातुरो मर्त्यो स्वगृहान्निर्विद्येतेति यस्माद् वित्तेषणादिशुचां पदात् सदपत्यात् कदपत्यं वैराग्यहेतुत्वात् साधु मन्य इत्यन्वयः । हलन्तादपि टापं चेति वचनाच्छुचेति रूपं साधु ॥४६॥

प्रकाशिका

इदानीं विवेकिनो निर्वेदहेतुत्वात्कदपत्यमेव वरमिति स्तौति ॥ कदपत्यमिति । शुचास्पदात्पोषणाय वित्ताद्यर्जनाद्यायासास्पदात् । क्लेशनिवहेन क्लेशसमूहेनातुरो मर्त्यो गृहान्निर्विद्येतेति यस्मात्तस्माद्वरं मन्य इत्यन्वयः । वैराग्यहेतुत्वादिति भावः । टापं चापि हलन्तानामिति वचनाच्छुचेति साधु ॥ ४६ ॥

एवं स निर्विण्णमना नृपो गृहान्निशीथ उत्थाय महोदयोदयात् ।

अलब्धनिद्रोऽनुपलक्षितो नृभिर्हित्वा गतो वेनसुवं प्रसुप्ताम् ॥ ४७ ॥

पदरत्नावली

नन्वत्र शोकान्मरणं देशान्तरगमनं वा स्यात् । तत्र किमनेनाकारीति तत्राह– एवं स इति ॥ महानुदयो महती विभूतिस्तस्या उदय उद्रेको यस्मिन् तत् तथा तस्मात् । लक्ष दर्शनाङ्कनयोरिति धातोरनुपलक्षितोऽदृष्टः ॥ ४७ ॥

प्रकाशिका

महोदयानां महाविभूतीनामुदय उद्रेको यस्मिंस्तत्तथा तस्मात् । वेनसुवं वेनमातरम्

॥ ४७ ॥

विज्ञाय निर्विद्य गतं पतिं प्रजाः पुरोहितामात्यसुहृद्गणादयः ।

विचिक्युरुर्व्यामतिशोककातरा यथा निगूढं पुरुषं कुयोगिनः ॥ ४८ ॥

पदरत्नावली

जलादौ मृतो दूरं गतो वेति संशये तयोरेकं निश्चित्य किमकार्षुस्तदीया इति तत्राह– विज्ञायेति ॥ विचिक्युरन्विष्यादृष्टवन्तः । हृदि गूढं पुरुषं हरिम् ॥ ४८ ॥

प्रकाशिका

विचिक्युरन्वेषितवन्तः । तत्रैव सन्तमपि नापश्यन्नित्यत्र दृष्टान्तमाह ॥ यथेति

॥ ४८ ॥

अलक्षयन्तः पदवीं प्रजापतेर्हतोद्यमाः प्रत्युपसृत्य ते पुरीम् ।

ऋषीन् समेतानभिवन्द्य साश्रवो न्यवेदयन् पौरव भर्तृविप्लवम् ॥ ४९ ॥

पदरत्नावली

अन्विष्यादृष्टवन्तः किमकुर्वन्नित्यत आह– अलक्षयन्त इति ॥ पौरव विदुर । साश्रवः बाष्पसहिताः । साधीयसो विष्णुयाजिनोऽङ्गस्यैवं दुष्टपुत्रोत्पत्तिस्तन्निमित्तेन विप्लवश्च कथम-भूदितीदं चोद्यं ‘अनपत्यत्वकर्माऽसौ बालहत्याकृतेः पुरा । अतो दुष्टोऽभवत् पुत्र इष्टो विष्णुरतः

पृथुः ॥’ इति ॥ ४९ ॥

॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुकृतायां

चतुर्थस्कन्धे त्रयोदशोऽध्यायः ॥

प्रकाशिका

साश्रवो बाष्पसहिताः । हे पौरव हे विदुर । भर्तृविप्लवं नाशम् ॥ ४९ ॥

**॥ इति श्रीमद्वेदेशपूज्यपादशिष्येण यदुपतिना विरचितायां **

श्रीमद्भागवतटिप्पण्यां चतुर्थस्कन्धे त्रयोदशोऽध्यायः ॥ ४-१३ ॥