ध्रुवं निवृत्तं प्रतिबुध्य वैशसादपेतमन्युर्भगवान् धनेश्वरः
अथ द्वादशोऽध्यायः
मैत्रेय उवाच–
ध्रुवं निवृत्तं प्रतिबुध्य वैशसादपेतमन्युर्भगवान् धनेश्वरः ।
तत्रागतश्चारणयक्षकिन्नरैः संस्तूयमानोऽभ्यवदत् कृताञ्जलिम् ॥ १ ॥
धनद उवाच–
भो भो क्षत्रियदायाद परितुष्टोऽस्मि तेऽनघ ।
यस्त्वं पितामहादेशाद् वैरं दुस्त्यजमत्यजः ॥ २ ॥
पदरत्नावली
साधनसामग््रयां भगवत्प्रसादात् स्वरूपानन्दानुभवलक्षणो मोक्षोऽपि तत्तद्योग्यतानु-सारेण प्राप्यते पुरुषैरिति निर्दिश्यतेऽस्मिन्नध्याये । तत्रादौ ध्रुवकृतापराधं क्षान्त्वा वैश्रवणेन ध्रुवाय वरप्रदानप्रकारं वक्ति– ध्रुवं निवृत्तमित्यादिना ॥ वैशसाद् युद्धात् ॥ परितोषहेतुमाह– यस्त्वमिति
॥ १,२ ॥
प्रकाशिका
वैशसाद्युद्धात् । धनेश्वरः कुबेरः ॥ १,२ ॥
न भवानवधीद् यक्षान् न यक्षा भ्रातरं तव ।
काल एव हि भूतानां प्रभुरप्ययभावयोः ॥ ३ ॥
पदरत्नावली
स्वस्य मनोश्चैकमत्यं व्यनक्ति– न भवानिति ॥ अप्ययभावयोर्मरणजन्मनोः ॥३॥
प्रकाशिका
अप्ययभावयोर्मरणजन्मनोः ॥ ३ ॥
अहं त्वमित्यपार्था धीरज्ञानात् पुरुषस्य हि ।
स्वाप्नीव भात्यनुध्यानाद् यथा बन्धविपर्ययः ॥ ४ ॥
तात्पर्यम्
परमेश्वरं विनाऽहं त्वं कर्तेति भ्रान्तिः । ‘नाहं कर्ता न कर्ता त्वं कर्ता यस्तु सदा प्रभुः ।’ इति मोक्षधर्मे । विपर्ययो दुःखादिः सुखादिरूपस्य ॥ ४ ॥
पदरत्नावली
नन्वहं मच्छत्रूनवधिषं, न त्वमेतदकार्षीरिति प्रदर्शनं कथम् ? अत्राह– अहं त्वमिति ॥ पुरुषस्य परमेश्वरस्य कर्तृत्वाज्ञानादहं त्वं कर्तेति धीरपार्था भ्रान्ता भाति । नाहं कर्ता न कर्ता त्वं कर्ता यस्तु स्वयं प्रभुरित्यनेन परमेश्वरकर्तृत्वस्य प्रामाणिकत्वप्रतीतेः । कथमिव ? यथा स्वाप्नीव ? यथा स्वप्ने जाग्रत्वबुद्धिः । आत्मन्यविद्यमानकर्तृत्वाभिमानादनर्थोऽपि स्यादित्याह– अनुध्यानादिति ॥ अनुध्यानात् पुनः पुनरात्मनि कर्तृत्वस्मरणाद् । यया कर्तृत्वधिया सुखादि-रूपस्यात्मनो बन्धेन पुत्रमित्रादिस्नेहबन्धेन विपर्ययो दुःखादिर्भवतीत्यतस्तादृशी बुद्धिस्त्वया न कार्येति भावः ॥ ४ ॥
प्रकाशिका
कथं तर्ह्यहं कर्ता त्वं कर्तेत्यादिरूपा बुद्धिरित्यतः सा भ्रान्तिरित्याह ॥ अहं त्वामिति । अत्रेश्वराधीनकर्तृत्वस्य जीवेऽपि सत्वात्कथमपार्थेति भ्रान्तित्वमुच्यत इत्यतोऽभिप्राय-माह ॥ परमेश्वरमिति । परमेश्वरप्रेरणां विनेत्यर्थः । तथा च स्वातन्त्र्येण कर्तृत्वप्रतीतिर्भ्रम इत्याशयः । कुत एवमित्यतो जीवानामस्वतन्त्रकर्तृत्वे परमेश्वरस्य स्वतन्त्रकर्तृत्वे च प्रमाणं पठति ॥ नाहमिति । स्वातन्त्र्येणेति शेषः । तुशब्दः स्वातन्त्र्यरूपविशेषार्थः । बन्धविपर्यय इति बन्धस्य मिथ्यात्वमुच्यत इति भाति । अतस्तस्याभिप्रायमाह ॥ विपर्यय इति । सुखज्ञानादिरूपस्य जीवस्य दुःखादिविपर्ययो विपरीतत्वम् । तथा दुःखादिरूपस्य जीवस्य दुर्जीवस्य सुखादिविपर्यय इत्यपि ग्राह्यम् । तथा च स्वाभाविको बन्ध इत्यनेनोच्यते न मिथ्यात्वमित्याशयः ॥ ततश्चायं श्लोकार्थः ॥ अहमेव कर्ता त्वमेव कर्तेति धीरपार्थाऽपगतविषया । भ्रम इति यावत् । पुरुषस्य देहे विद्यमानस्य स्वतन्त्रकर्तुरज्ञानात् । हीति तत्र प्रमाणप्रसिद्धिं सूचयति । अनुध्यानाज्जाग्रदवस्थानुभूतपदार्थसंस्कारपाटवात्स्वाप्नीव स्वाप्नपदार्थेषु जाग्रत्वबुद्धिरिवाभाति । नाहं कर्तेति प्रमाणादिति शेषः । यया स्वातन्त्र्येण कर्तृत्वभ्रान्त्याऽनु-कूलप्रतिकूलयो रागद्वेषाख्यबन्धनेन विपर्ययः स्वरूपापेक्षयादुःखादिरूपं वैपरीत्यं भवतीत्यर्थः ॥ ४ ॥
तद् गच्छ ध्रुव भद्रं ते भगवन्तमधोक्षजम् ।
सर्वभूतात्मभावेन सर्वभूतात्मविग्रहम् ॥ ५ ॥
पदरत्नावली
ननु जीवकृतकार्योपक्रमोपसंहारदर्शनात् कथं तस्य जीवस्य कर्तृत्वाभाव इत्या-शङ्क्य कर्तृत्वादौ नियमाभावात् तद्दत्तमेव कर्तृत्वं न मम स्वतन्त्रकर्तृत्वमति निश्चित्य तत्क्रियाविशिष्टं भगवन्तं भजस्वेत्याह– तद् गच्छेति ॥ सर्वभूतानामात्मभावेन कर्तृत्वदानादानयोः कर्ता परमात्मेति स्नेहलक्षणया बुद्ध्या, सर्वभूतेष्वात्मा विग्रहो ज्ञानादिगुणपूर्णमूर्तिर्यस्य स तथा तम् ॥ ५ ॥
प्रकाशिका
सर्वभूतात्मभावेन सर्वभूतान्तर्यामित्वेन सर्वभूतेष्वात्मनः स्वस्य विग्रहश्चिदा-नन्दात्मकदेहो यस्य तम् । यद्वा । सर्वभूतात्मनि देहे विग्रहः प्रवेशत्वादिलक्षणो यस्य स तथा तम् ॥५॥
भजस्व भजनीयाङ्घ्रिमभवाय भवच्छिदम् ।
युक्तं विरहितं शक्त्या गुणमय्याऽऽत्ममायया ॥ ६ ॥
तात्पर्यम्
आत्मसामर्थ्याख्यया शक्त्या युक्तम् । गुणमय्या विरहितम् ॥ ६ ॥
पदरत्नावली
प्रादेशाद्याकारत्वेनावस्थानं कथं गुणशक्तिमन्तरेणेत्यत उक्तम्– युक्तमिति ॥ आत्मसामार्थ्याख्यया शक्त्या युक्तः, गुणमय्या आत्माधीनया मायया प्रकृत्या विरहितम् ॥ ६ ॥
प्रकाशिका
शक्त्या युक्तं विरहितमित्यत्र शक्तिशब्दार्थं वदन्व्याहतिपरिहारायान्वयं दर्शयति ॥ आत्मसामर्थ्याख्ययेति । गुणमय्या सत्त्वादिगुणात्मिकयाऽऽत्माधीनया मायया जडप्रकृत्या विरहितं तयाऽबद्धमात्मसामर्थ्याख्यया युक्तं भजस्वेति पूर्वेणान्वयः ॥ ६ ॥
वृणीहि कामं नृप यन्मनोगतं मत्तस्त्वमौत्तानपदेऽविशङ्कितः ।
वरार्हणोऽस्यम्बुजनाभपादयोर्निरन्तरं त्वां वयमङ्ग शुश्रुम ॥ ७ ॥
तात्पर्यम्
निरन्तरं भगवत्पादमानसम् ॥ ७ ॥
पदरत्नावली
यद्यपि हरेः करुणावर्षधारापात्रत्वेनान्यतः प्राप्यो वरस्तव नास्ति तथाऽपि वैश्रवणो ध्रुवे प्रसन्नः किलेति द्योतनाय वरं वरयेति वक्ति– वृणीहीति ॥ अन्यतः कथं वृणोमीत्य-विशङ्कितः । अम्बुजनाभास्य हरेः पादयोः सेवायां निरन्तरं सदातनं तदेकमानसमित्यर्थः ॥ ७ ॥
प्रकाशिका
अम्बुजनाभपादयोर्निरन्तरमित्यस्य योग्यं तात्पर्यं दर्शयति ॥ निरन्तरं भगव-त्पादमानसमिति । तथा चाम्बुजनाभपादयोर्निरन्तरं मनोव्यवधानरहितमिति व्याख्येयमिति भावः ॥७॥
मैत्रेय उवाच–
स राजराजेन वराय चोदितो ध्रुवो महाभागवतो महामतिः ।
हरौ स वव्रेऽचलितां स्मृतिं यया तरत्ययत्नेन दुरत्ययं तमः ॥ ८ ॥
पदरत्नावली
मुमुक्षुणाऽयमेव वरो वरणीय इति शिक्षणाय तस्य वरदानप्रकारमाह– स राजराजेनेति ॥ ८ ॥
प्रकाशिका
राजराजेन कुबेरेण ॥ ८ ॥
तस्य प्रीतेन मनसा तां दत्वैलिबिलि१स्ततः ।
पश्यतोऽन्तर्दधे सोऽपि स्वपुरं प्रत्यपद्यत ॥ ९ ॥
पदरत्नावली
ऐलिबिल इलिबिलापुत्रो वैश्रवणः ॥ ९ ॥
प्रकाशिका
ऐलिबिलिर् इलिबिलापुत्रः कुबेरः ॥ ९ ॥
अथायजत यज्ञेशं क्रतुभिर्भूरिदक्षिणैः ।
द्रव्यक्रियादेवतानां कर्माकर्मफलप्रदम् ॥ १० ॥
तात्पर्यम्
द्रव्यक्रियादेवतानां विषयम् । अकर्मफलप्रदं मोक्षफलप्रदम् ॥ १० ॥
पदरत्नावली
ब्रह्मज्ञानोत्पत्तये यज्ञ एव कर्तव्य इति प्रकटनाय तस्य यज्ञकरणप्रकारमाह– अथेति ॥ अथ विषयासक्तिं विहाय पुरप्राप्त्यनन्तरं मङ्गलं कर्म प्रारब्धवान् । किं तदित्यत उक्तम्– अयजतेति ॥ द्रव्यक्रियादेवतानां कर्म विषयम् । अकर्मफलप्रदं मोक्षाख्यफलप्रदम् ॥ १० ॥
प्रकाशिका
कर्माकर्मफलप्रदमित्यस्यैकपदताभ्रमवारणायान्वयं दर्शयन्व्याचष्टे ॥ द्रव्यक्रियेति । तथा च द्रव्यक्रियादेवतानां कर्म अकर्मफलप्रदमिति वाक्यद्वयम् । आद्ये कर्मशब्दो विषयपर्याय इत्युक्तं भवति । तथा च द्रव्यत्यागरूपक्रियाणां कर्म विषयं मुख्योद्देश्यमित्यर्थः । द्वितीये न विद्यते कर्म बन्धकं यस्मिन्नित्यकर्मशब्दो देवतोद्देशेन मोक्षपरः । तथा च तद्रूपफलप्रदमिति मूलार्थ इति भावः ॥ १० ॥
सर्वात्मन्यच्युते सर्वे तीव्रौघां भक्तिमुद्वहन् ।
ददर्शात्मनि भूतेषु तमेवावस्थितं विभुम् ॥ ११ ॥
तमेव शीलसम्पन्नं ब्रह्मण्यं दीनवत्सलम् ।
गोप्तारं धर्मसेतूनां मेनिरे पितरं प्रजाः ॥ १२ ॥
तात्पर्यम्
‘विश्वः पूर्णस्तथा सर्वः समस्तश्चाभिधीयते’ इत्यभिधानम् ॥ ११ ॥
पदरत्नावली
सर्वात्मनि सर्वान्तर्यामिणि सर्वे पूर्णे । ‘विश्वः पूर्णस्तथा सर्वः समस्तश्चाभि-धीयते’ इत्यभिधानात् ‘सर्वः शर्वः शिवः स्थाणुः’ इति नामत्वात् सर्वनामसंज्ञा नास्ति । आत्मनि स्वस्मिन् भूतेषु चावस्थितं तं विभुं व्याप्तं यं पुरा तपसा प्रत्यक्षीचकार तमित्यर्थः ॥ तस्य प्रजानुरञ्जन-विधानमाह– तमेवेति ॥ ११,१२ ॥
प्रकाशिका
सर्वात्मनि सर्वान्तर्यामिणि । सर्व इत्यस्य प्रकृतसङ्गतमर्थं प्रमाणेनैव दर्शयति ॥ विश्व इति । विश्वादिशब्दैः पूर्णत्वमभिधीयत इत्यर्थः । तथा च सर्वगुणपरिपूर्ण इति मूलार्थ इति भावः । संज्ञात्वान्न सर्वनामकार्यम् । तीव्रौघां निरन्तरप्रवाहरूपाम् । आत्मनि स्वस्मिन् भूतेषु चावस्थितम् ॥ ११,१२ ॥
षट्त्रिंशद्वर्षसाहस्रं शशास क्षितिमण्डलम् ।
भोगैः पुण्यक्षयं कुर्वन्नभोगैरशुभक्षयम् ॥ १३ ॥
पदरत्नावली
पुरा कतिपयैर्मासैरेव भगवदनुग्रहमवाप्याभीष्टमाप्तवतो धु्रवस्य किमु वक्तव्यमेतैरिति भावेन तस्य क्षितिपालनकालावधिमाह– षट्त्रिंशदिति ॥ प्रारब्धपुण्यक्षयमशुभक्षयं ज्ञानसामर्थ्यात्
॥ १३ ॥
प्रकाशिका
भोगैः सुखानुभवैः प्रारब्धपुण्यक्षयं, अभोगैस्तद्विरुद्धदुःखानुभवैरशुभस्य प्रारब्ध-पापस्य क्षयम् ॥ १३ ॥
एवं बहुसवं कालं महात्माऽविकलेन्द्रियः ।
त्रिवर्गौपयिकं नीत्वा पुत्रायादान्नृपासनम् ॥ १४ ॥
पदरत्नावली
बहुसवं बहुतिथम् । अविकलेन्द्रियो वशीकृतेन्द्रियः । जरसा चक्षुरादीन्द्रिय-वैकल्यमन्धत्वादिलक्षणं न प्राप्त इति वा । त्रयाणां वर्गाणां धर्मकामार्थानामौपयिकमुपयोगसाधनं देहं नीत्वा देहयात्रां विधायेत्यर्थः ॥ १४ ॥
प्रकाशिका
बहुसवं बहुतिथिम् । अविकलानीन्द्रियाणि यस्य सोऽविकलेन्द्रियः । कथंभूतं कालम् । त्रयाणां वर्गाणां धर्मार्थकामानामौपयिकमुपयुक्तम् । साधनमिति यावत् । यौवनावस्थापादकं कालं नीत्वेत्यर्थः ॥ १४ ॥
मन्यमान इदं विश्वं मायारचितमात्मनि ।
अविद्यारचितस्वप्नगन्धर्वनगरोपमम् ॥ १५ ॥
तात्पर्यम्
‘अन्यथात्वात्क्षिप्रनाशाज्जगत्स्वप्नादिवत्स्मृतम् । वर्तमानं नियत्यैव सदैव परमात्मनि’ । इति वाराहे ॥ ‘महामायेत्यविद्येति नियतिर्मोहिनीति च । प्रकृतिर्वासनेत्येवं तवेच्छानन्त कथ्यते’ इति स्कान्दे ॥ १५ ॥
पदरत्नावली
पुत्राय सिंहासनं दत्वाऽयं किमकार्षीत् ? गृह एवावस्थितश्चेद् वैराग्यादि-साधनह्रासेन लोकोपहासविषयः स्यादित्यतः स्वपुरं विहाय देशान्तरं गत इति वक्तव्यम् । अतः किं देशं शुचितीर्थमगमदिति तत्राह– मन्यमान इत्यादिना ॥ स ध्रुव इदं विश्वं कालोपसृष्टमियता कालेन नष्टं भवतीति मन्यमानो विशालां बदरिकाश्रमे स्यन्दमानां नदीं प्रययावित्यन्वयः । ‘विशाला बदरी प्रोक्ता नगरी निम्नगा तथा’ इत्यभिधानम् । कीदृशं विश्वम् ? आत्मन्याधारतया हरेर्माययेच्छया रचितम् । अ निषेधे पुमान् विष्णावित्यभिधानादस्य विष्णोर्विद्ययेच्छया रचिते स्वप्नगन्धर्वनगरे उपमा यस्य तत् तथोक्तम् । ‘महामायेत्यविद्येति नियतिर्मोहिनीति च । प्रकृतिर्वासनेत्येव तवेच्छाऽनन्त कथ्यते ॥’ इत्यनेन निरुपपदमायाशब्दस्य हरेरिच्छावाचित्वं कथमितीयमाशङ्का परिहृतेति ज्ञायते ॥ १५ ॥
प्रकाशिका
स्वप्नगन्धर्वनगरोपममिति विश्वस्य स्वप्नादिसाम्योक्त्या मिथ्यात्वमुच्यत इति प्रतीयतेऽतः स्वप्नादिसाम्योक्तेरभिप्रायं प्रमाणेनैव दर्शयति ॥ अन्यथात्वादिति । विकारित्वादित्यर्थः । स्वप्नशब्देन तत्रापि जाग्रत्वमुच्यते । मूले गन्धर्वनगरसमकक्षतयोपादानात्तद्व्याख्यानरूपत्वाच्चास्य । आदिशब्देन गन्धर्वनगरस्य ग्रहणम् । अवधारणार्थस्यैवशब्दद्वयस्यान्यथात्वादेव क्षिप्रविनाशादेवेति सम्बन्धः । न तु मिथ्यात्वादिति तदर्थः । कुत इत्यत उक्तम् ॥ वर्तमानमिति । यतः परमात्मनि तदाधारतया सदाऽनाद्यनन्तकाले नियत्या नियमेन सर्वकल्पेष्वेकप्रकारेणेश्वरेच्छयेति वा वर्तमानं प्रवर्तमानमित्यर्थः । अनेनात्मनि मायारचितमित्येतदुक्तार्थम् । यद्यपि स्वाप्नजाग्रत्वादेरत्यन्तासत्वेन न विकारित्वादिकं तथाऽपि विश्वस्य विकारित्वाद्युपेततया सदा सत्वाभावस्य लाभेन तेनैव स्वप्नादिसाम्यमत्राभिप्रेतं न विकारित्वादिनेत्यवगन्तव्यम् ।
ननु मूले विश्वस्य मायारचितत्वं स्वप्नादेश्चाविद्यारचितत्वमुच्यतेऽतो मिथ्यात्वेनैव स्वप्नादिसाम्यं वक्तव्यमित्यतोऽत्र मायाऽविद्याशब्दौ भगवदिच्छावाचकावित्यभिप्रेत्य प्रमाणं पठति ॥ महामायेति । मायाशब्दपर्यायो महामायाशब्दोऽतो नासङ्गतिरित्यवधेयम् ॥ ततश्चायं श्लोकार्थः ॥ आत्मनि परमात्मनि तदाधारतया मायारचितमीश्वरेच्छानिर्मितमिदं विश्वमविद्ययेश्वरेच्छया रचिते प्रदर्शिते स्वाप्नजाग्रत्व-गन्धर्वनगरे सदा सत्वाभावेन उपमाभूते यस्य तत्तथोक्तम् । मन्यमानो विशालां बदरीं प्रयया-वित्युत्तरेणान्वयः ॥ १५ ॥
आत्मस्त्र्यपत्यसुहृदो बलमृद्धकोश-
मन्तःपुरं परिविहारभुवश्च रम्याः ।
भूमण्डलं जलधिमेखलमाकलय्य
कालोपसृष्टमिति स प्रययौ विशालाम् ॥ १६ ॥
पदरत्नावली
नन्विदमीश्वरेच्छारचितमिति वक्तुं न युक्तम् । तथात्वे मिथ्याभूतस्वप्नादि-साम्यकथनमनुपपन्नम् । तदुच्यते । तस्मान्मायाशब्देनेन्द्रजालमेवोच्यते । उक्तमानस्यानेकार्थवृत्तिगतवादि- शब्दवदुपपत्तेरित्यत उक्तम्– कालेति ॥ उर्वारुकश्यामतादिवत् कालान्तरेऽन्यथा दर्शनाद् यद् दृष्टं तन्नष्टमिति क्षणभङ्गुरत्वात् स्वप्नादिसाम्यम् । न तु मिथ्यात्वात्, तस्य चार्थक्रियाकारित्वेन सत्यत्वस्य प्रामाणिकत्वात् । तदुक्तम्– ‘अन्यथात्वात् क्षिप्रनाशाज्जगत् स्वप्नादिवत् स्मृतम् । वर्तमानं नियत्यैव सदैव परमात्मनि ॥’ इति । आत्मनीत्युक्त्या च सत्यत्वमवगम्यते । अनादिनित्यनिरस्तकुहकस्य हरेरिन्द्र-जालाश्रयत्वं न युज्यते । सदा निरस्तकुहकमिति स्वोक्तेश्च । निष्फलं निष्क्रियं शान्तमिति श्रुतेः । निष्क्रियब्रह्मैक्यमात्मनो जानतो ध्रुवस्य विशालागमनक्रियायोगाच्च । आत्मस्त्रीपुत्रादीनां विश्वान्तर्भूतत्वेन तद्ग्रहणेन गृहीतानामपि पुनर्वचनं दुष्करं तत्त्यागमपि कृतवानिति ध्रुवस्य वैराग्यातिशयद्योतनायेति । परितो विहारभुवः । आकलय्य निश्चित्य ॥ १६ ॥
प्रकाशिका
आत्मा देहः । परिविहारभुवः परितो विद्यमानविहारभूप्रदेशान् । पूर्वं विश्वशब्देन गृहीतानामात्मादीनां पुनर्वचनं तेषां दुस्त्यजत्वज्ञापनाय । तथा च दुस्त्यजमपि देहादिकमनित्यमिति ज्ञात्वा तत्राभिमानरहितः प्रययाविति भावः । कालेन कालनामकेन हरिणोपस्पृष्टं संहृतमनित्य-मित्याकलय्य विचार्य विशालां बदरीं तत्रत्यां नदीं वा । विशाला बदरी प्रोक्ता नगरी निम्नगा तथेत्यभिधानात् ॥ १६ ॥
तस्या विशुद्धकरणः शिववार्विगाह्य
बद्धासनो जितमरुन्मनसाऽऽहृताक्षः ।
स्थूले दधार भगवत्प्रतिरूप एतद्
ध्यायंस्तदव्यवहितो व्यसृजत् समाधौ ॥ १७ ॥
तात्पर्यम्
स्थूले पातालादिके । शिलावत्प्रतिमारूपे । ‘शिलावत्प्रतिमैषा हि विष्णो-र्लोकचतुर्दशी’ इति च ॥ १७ ॥
पदरत्नावली
तत्र गतोऽपि पितापुत्रविषयस्नेहं मुक्त्वा वैराग्यद्रढीयस्तया भगवद्भक्ति-रामालिङ्गितस्य मुग्धस्येव स्थितस्य तदुपास्तिप्रकारं वक्ति– तस्या इति ॥ तस्या विशालायाः शिवं वा मङ्गलवारि । स्थूले पातालादिके । नैतन्निजमित्यत उक्तम्– प्रतिरूप इति ॥ शिलावत् प्रतिमास्थाने । तदुक्तम्– ‘शिलावत् प्रतिमैषा हि विष्णोर्लोकचतुर्दशी’ इति । समाधौ निरायासेन चित्तस्य ध्येयवस्तु-विषयकरणमतिप्रवाहे सति अभ्यस्तत्वात् स्थूलध्यानं व्यसृजत् स्वबिम्बोपास्तेरावश्यकत्वेन स्थूल-सन्निहितरूपैक्येन सूक्ष्मरूपमस्मरदित्यर्थः । अव्यवहितः स्थूलसन्निहितसूक्ष्मरूपयोरभेदं पश्यन्नित्यर्थः
॥ १७ ॥
प्रकाशिका
विशालां गतस्याष्टाङ्गयोगानुष्ठानमाह ॥ तस्या इति । तस्या नद्या भागीरथ्याः शिवं वा उदकं विगाह्य प्रविश्येति स्नानादयो नियमा उक्ताः । विशुद्धकरण इति शमादयो यमाः । बद्धासन इत्यादिनाऽऽसनादीनि स्फुटमेवोक्तानि । जितो वशीकृतो मरुत्प्राणो येन स तथोक्तः । विषयेभ्यः मनसा सहाहृतान्यक्षाणि येन । स्थूले भगवत्प्रतिरूप इति पदद्वयस्य विवक्षितमर्थं दर्शयति ॥ स्थूल इति । पातालादिलोकानां शिलावद्विष्णुप्रतिमात्वे प्रमाणं पठति ॥ शिलावदिति । तथा च स्थूले पातालादिचतुर्दशभुवनात्मके भगवतः प्रतिरूपे शिलावत्प्रतिमारूपे एतन्मनो दधारेति मूलार्थ इति भावः । अनेन धारणोक्तेति ज्ञातव्यम् । अनन्तरमेतत्स्वबिम्बरूपं ध्यायंस्तत्र स्थूलरूपे मनोधारणं व्यसृजत्पश्चात्समाधौ सत्यव्यवहितः परमाच्छादिकाया व्याघुट्टितत्वेन व्यवधानशून्य एव हरिं पश्यंस्त-च्छरीराभिमानादिकं व्यसृजत् । असंप्रज्ञातसमाधिमानभूदित्यर्थः ॥ १७ ॥
भक्तिं हरौ भगवति प्रवहन्नजस्र-
मानन्दबाष्पकलया मुहुरर्द्यमानः ।
विक्लिद्यमानहृदयः पुलकाचिताङ्गो
नात्मानमस्मरदसाविति मुक्तलिङ्गः ॥ १८ ॥
पदरत्नावली
तस्यासंप्रज्ञातसमाध्यवस्थामाह– भक्तिमिति ॥ अहमसौ धु्रव इत्यात्मानं नास्मरत् किन्तु भगवन्तमेवास्मरदित्यनेन जीवन्मुक्तत्वं लक्षयति । मुक्तलिङ्गः सूक्ष्मशरीराभिमानरहितः
॥ १८ ॥
प्रकाशिका
एतदेव विशदयति ॥ भक्तिमिति । विक्लिद्यमानहृदयो द्रवद्धृदयः । अहमसौ ध्रुव इत्यात्मानं नास्मरत् । यतो मुक्तलिङ्गो विश्लथितलिंगशरीरः ॥ १८ ॥
स ददर्श विमानाग्य्रं नभसोऽवतरद् भुवः ।
विभ्राजयद् दश दिशो राकापतिमिवोदितम् ॥ १९ ॥
तत्रानुदेवप्रवरौ चतुर्भुजौ श्यामौ किशोरावरुणाम्बुजैक्षणौ ।
स्थिताववष्टभ्य गदां सुवाससौ किरीटहाराङ्गदचारुकुण्डलौ ॥ २० ॥
पदरत्नावली
ध्रुवस्य हरेरपरोक्षज्ञानोत्पन्नप्रसादचिह्नमाह– स ददर्शेति ॥ विभ्राजयद् दीपयत् । राकापतिं पूर्णचन्द्रम् ॥ वृक्षात् पतत् पर्णमिव स्वर्गाच्च्युतं नक्षत्रमिव विद्यमानं नाद्राक्षीत्, किन्तु सनाथमित्याह– तत्रेति ॥ अनु अनन्तरम् । तत्र विद्यमाने विमाने स्थितौ ॥ १९,२० ॥
प्रकाशिका
राकापतिं पूर्णचन्द्रम् ॥ १९,२० ॥
विज्ञाय तावुत्तमभावकिङ्करावभ्युत्थितः साध्वससन्नविक्रमः ।
ननाम नामानि गृणन् मधुद्विषः पार्षत्प्रधानाविति संहताञ्जलिः ॥ २१ ॥
तं कृष्णपादाभिनिविष्टचेतसं बद्धाञ्जलिं प्रश्रयनम्रकन्धरम् ।
सुनन्दनन्दावुपलभ्य सम्मितं प्रीत्योचतुः पुष्करनाभसंमतौ ॥ २२ ॥
पदरत्नावली
उत्पन्ननिर्दोषज्ञानत्वात् सहसा विमानपुरुषदर्शनात् तदा तस्य भ्रान्तिज्ञानं नाभूदिति भावेन तत्सत्कारप्रकारमाह– विज्ञायेति ॥ प्रागदृष्टश्रुतवस्तुदर्शने साध्वसलक्षणोऽन्तः-करणवृत्तिविशेषो सम्भ्रमो भवति । तेन सन्नो नष्टो विक्रमः प्रवृत्तिविशेषो यस्य स तथोक्तः । तस्य हरेः किङ्करौ सदाऽक्षिगतौ भृत्यौ संहताञ्जलिर्बद्धाञ्जलिः ॥ आत्मनो देवत्वेन हस्तादिसंज्ञया स्वागमनज्ञापनं विनैवं स्वाभिप्रायमूचतुरित्याह– तमिति ॥ उपलभ्य दृष्ट्वा ॥ २१,२२ ॥
प्रकाशिका
उत्तमो भावो लीला क्रिया वा यस्य स उत्तमभावो हरिस्तस्य किंकरौ विज्ञायेत्यर्थः । साध्वसेन सम्भ्रमेण सन्नो नष्टो विक्रमः पूजासाधनप्रवृत्तिविशेषो यस्य स तथोक्तः । केवलं मधुद्विषो कृष्णस्य नामानि गृणन्मधुद्विषः पार्षदप्रधानाविति हेतोर्ननाम ॥ २१,२२ ॥
सुनन्दनन्दावूचतुः –
भो भो भद्र सुभद्रं ते वचो नोऽवहितः शृणु ।
यः पञ्चवर्षस्तपसा भवान् देवमतीतृपत् ॥ २३ ॥
तस्याखिलजगद्धातुर्विद्धि देवस्य शार्ङ्गिणः ।
पार्षदाविह सम्प्राप्तौ नेतुं त्वां भगवत्पदम् ॥ २४ ॥
सुदुर्जयं विष्णुपदं जितं त्वया यत् सूरयोऽप्राप्य विचक्षते परम् ।
आतिष्ठ तच्चन्द्रदिवाकरादयो ग्रहर्क्षताराः परियन्ति दक्षिणम् ॥ २५ ॥
अनास्थितं ते पितृभिरन्यैरप्यङ्ग कर्हिचित् ।
आतिष्ठ जगतां वन्द्यं तद् विष्णोः परमं पदम् ॥ २६ ॥
तात्पर्यम्
‘शिंशुमारो ध्रुवश्चैव संस्थितौ यत्पुरे सदा । तत्पश्यन्ति न यान्त्यन्ये लोकं यान्ति सुरान्विना’ इति च ॥ २५,२६ ॥
पदरत्नावली
भवान् यं देवमतीतृपत् तृप्तमकार्षीत् तस्य हरेः पार्षदौ त्वां भगवत्पदं नेतुमिह प्राप्तौ विद्धीत्यन्वयः ॥ वैकुण्ठं नेतुं किम् ? नेत्याहतुरिति ब्रूते– सुदुर्जयमिति ॥ जितं साधितम् । सूरयः सप्तऋषिप्रभृतयो यदप्राप्य परं दूराद् विचक्षते पश्यन्ति । तर्हि तद् गहनं विपिनं किम् ? नेत्यत उक्तम्– चन्द्रेति ॥ चन्द्रदिवाकरादयो ग्रहाः, ऋक्षाणि सप्तविंशतिसंख्याका अश्विन्यादयस्तारा मेषादिराशयो व्योमतले दृश्यमाना ज्योतिर्मूर्तयो वा दक्षिणं परियन्ति प्रदक्षिणं कुर्वन्ति तदातिष्ठे-त्यन्वयः ॥ इतोऽपीदमास्थेयमिति प्रतिपादयत इत्याह– अनास्थितमिति ॥ अन्यैरनधिष्ठितं चेत् किं श्मशानं तदित्यत उक्तम्– जगतामिति ॥ सा किं वसतिरत उक्तम्– तद् विष्णोरिति ॥ ‘शिंशुमारो धु्रवश्चैव संस्थितौ यत्पुरे सदा । तत्पश्यन्ति न यान्त्यन्ये लोकं यान्ति सुरान् विना ॥’ इति वचनेन तत्र तात्पर्यमवगन्तव्यम् ॥ २३–२६ ॥
प्रकाशिका
ते भद्रं मङ्गलमस्तु ॥ विष्णुपदं शिंशुमाराधिष्ठितं स्थानं जितं साधितम् । तत्पदं सूरय उत्क्रान्ता ज्ञानिनोऽप्राप्य परं केवलं दूरादेव विचक्षते पश्यन्ति । यच्चन्द्रदिवाकरादयो ग्रहा ऋक्षाण्यश्विन्यादयस्तारा अपरे नक्षत्राणि दक्षिणं प्रदक्षिणं यथा स्यात् तथा परियन्ति ततदातिष्ठ अधितिष्ठ । अत्रोत्क्रान्तानां ज्ञानिनां शिंशुमारध्रुवयोः स्थानप्राप्तिर्नास्तीति कथमुच्यते । ‘‘प्रयान्ति चक्रं नृप शिंशुमारम्’’ इति ‘‘सोमं वैश्वानरं चेन्द्रं ध्रुवम्’’ इति ध्रुवस्य च ज्ञानिप्राप्यतयोक्तत्वादतोऽत्र विवक्षितमभिप्रायं प्रमाणेनैव दर्शयति ॥ शिंशुमार इति । तत्पुरम् । उत्क्रान्ता ज्ञानिनो दूरादेव पश्यन्ति । सुरान्विना । अन्ये तत्र न यान्ति । सुरास्तु तदुभयाधिष्ठितं लोकं यान्तीत्यर्थः । तथा च शिंशुमारस्वामिकं ध्रुवस्वामिकं च लोकं सर्वेऽपि ज्ञानिनो यान्ति । अतस्तदभिप्रायकं प्रयान्ति चक्रं नृप शिंशुमारमित्यादिवचनम् । शिंशुमारलोकान्तर्गतं यत्सदोभयावासस्थानं पुरं तद्देवान्विनाऽन्ये ज्ञानिनो न यान्ति । किन्तु दूरादेव पश्यन्तीत्यत्राभिप्रेतम् । अतो न कोऽपि विरोध इत्याशयः ॥ २३,२५,२६ ॥
एतद् विमानप्रवरमुत्तमश्लोकमौलिना ।
उपस्थापितमायुष्मन्नधिरोढुं त्वमर्हसि ॥ २७ ॥
पदरत्नावली
केनेदं विमानं प्रेषितमिति शङ्कां निवारयत इत्याह– एतदिति ॥ उत्तमश्लोक-मौलिना शिंशुमारमूर्तिना हरिणा ॥ २७ ॥
प्रकाशिका
उत्तमश्लोका ब्रह्मादयस्तेषां मौलिना श्रेष्ठेन शिंशुमारेण हरिणा ॥ २७ ॥
मैत्रेय उवाच–
निशम्य वैकुण्ठनियोज्यमुख्ययोर्मधुच्युतां वाचमुरुक्रमप्रियः ।
कृताभिषेकः कृतनित्यमङ्गलो मुनीन् प्रणम्याशिषमभ्यवादयत् ॥ २८ ॥
पदरत्नावली
मैत्रेयो विदुरायाह । भगवद्भक्तमाहात्म्यं शृण्विति भावेन तस्य पदमारोढुमिति-कर्तव्यतां वक्ति– निशम्येति ॥ वैकुण्ठस्य हरेर्नियोज्यानां पार्षदानां मध्ये मुख्ययोः । मधु पुष्परसमिव रसं च्योतति स्रवतीति मधुच्युता ताम् । कृतं नित्यकर्माख्यं मङ्गलं येन स कृतनित्यमङ्गलः । अभ्यवादयदभिवादयामास ॥ २८ ॥
प्रकाशिका
वैकुण्ठस्य हरेर्नियोज्यभृत्यास्तेषु मुख्यौ तर्योर्मधु च्युतं निःसृतं यस्यां ताम-मृतस्राविणीमित्यर्थः । कृतं नित्यमङ्गलं नित्यकर्माख्यं मङ्गलं शुभकर्म येन स तथोक्तः । अभ्यवादयदभिवादयामास वाचा पूजयामास ॥ २८ ॥
परीत्याभ्यर्च्य धिष्ण्याग््य्रं पार्षदावभिवन्द्य च ।
इयेष तदधिष्ठातुं बिभ्रद् रूपं हिरण्मयम् ॥ २९ ॥
पदरत्नावली
नेदं ध्रुवस्यैव मङ्गलशकुनमन्येषामपि महतां भवतीति ध्वनयंस्तद्यात्रा-प्रारम्भमाङ्गल्यं वक्ति– परीत्येत्यादिना ॥ २९ ॥
तदा दुन्दुभयो नेदुर्मृदङ्गपणवादयः ।
गन्धर्वमुख्याः प्रजगुः पेतुः कुसुमवृष्टयः ॥ ३० ॥
पदरत्नावली
यदा धिष्ण्याग््रयं विमानमधिष्ठातुमियेष तदा दुन्दुभ्यादयो नेदुरित्यन्वयः ॥ ३० ॥
प्रकाशिका
यदा धिष्ण्याग्रयं विमानमधिष्ठातुं येष तदा दुंदुभयो इनेदुः ॥ ३० ॥
स च स्वर्लोकमारोक्ष्यन् सुनीतिं जननीं ध्रुवः ।
अन्वस्मरदहं हित्वा नैनां यास्ये त्रिविष्टपम् ॥ ३१ ॥
इति व्यवसितं तस्य व्यवसीय१ सुरोत्तमौ ।
दर्शयामासतुर्देवीं देवयानेन चाग्रगाम् ॥ ३२ ॥
तत्र तत्र प्रशंसद्भिः पथि वैमानिकैः सुरैः ।
अवकीर्यमाणो ददृशे कुसुमैः क्रमशो ग्रहान् ॥ ३३ ॥
पदरत्नावली
नाहमेव सत्यसङ्कल्पशिरोमणिः किन्तु भक्तोऽपीति भावेन हरिणा स्फुरितान्तः-करणवृत्तिविशेषो ध्रुव एतादृशं पुत्रं सूतवत्याः स्वकृते त्यक्तविषयभोगायाः सुनीतेः पुत्रेण सह स्वर्लोक-प्राप्तिर्नाभूत् स्वयं वा नास्मर्षीदिति लोकापवादं मन्वान इव यदा स्वमातरमस्मार्षीत् तदा कैटभारेः सङ्कल्पं जानमानौ तौ पार्षदौ तस्य पुरतो यान्तीं मातरं दर्शयामासतुरित्याह– स चेति ॥ अनेन ध्रुवस्यापि सत्यसङ्कल्पत्वं लोके प्रकाशितमिति ज्ञायते ॥ अग्रगामग्रतो गच्छन्तीम् ॥ ३१,३२ ॥
प्रकाशिका
व्यवसीय ज्ञात्वा ॥ ३१-३३ ॥
त्रिलोकीं देवयानेन सोऽतिव्रज्य मुनीनपि ।
पुरस्ताद् यद् ध्रुवगतिं विष्णोः पदमथाभ्यगात् ॥ ३४ ॥
पदरत्नावली
ध्रुवा निश्चला गतिर्यस्य स तथा । देवयानेन मार्गेण ॥ ३४ ॥
प्रकाशिका
मुनीन्सप्तर्षीन् । अतः परस्ताद्यद्विष्णोः शिंशुमारस्य पदं तदभ्यगात् । ध्रुवा निश्चला गतिर्यस्य स तथोक्तः ॥ ३४ ॥
यद् भ्राजमानं स्वरुचैव सर्वतो
लोकास्त्रयो ह्यनुविभ्राजन्त एते ।
२न ते खला जन्तुषु ये त्वनुग्रहाद्
व्रजन्ति भद्राणि चरन्ति येऽनिशम् ॥ ३५ ॥
पदरत्नावली
तत्पदप्राप्याधिकारिणोऽन्वयव्यतिरेकाभ्यामाह– न त इति ॥ ये तु जन्तुषु खलास्ते यन्न व्रजन्ति, ये तु जन्तुषु अनुग्रहाद् दयालक्षणादनिशं भद्राणि चरन्ति ते यद् व्रजन्ति ॥ ३५ ॥
प्रकाशिका
यद्भ्राजमानमनु यस्य रुचा लोका विभ्राजन्ते । जन्तुषु ये खलास्ते यन्न व्रजन्ति । ये तु जन्तुष्वनुग्रहाद्दयालक्षणादीश्वरानुग्रहादिति वाऽनिशं भद्राणि चरन्ति ते तद् व्रजन्ति ॥ ३५ ॥
शान्ताः समदृशः शुद्धाः सर्वभूतानुरञ्जनाः ।
यान्त्यञ्जसाऽच्युतपदमच्युतप्रियबान्धवाः ॥ ३६ ॥
इत्युत्तानपदः पुत्रो ध्रुवः कृष्णपरायणः ।
अभूत् त्रयाणां लोकानां चूडामणिरिवामलः ॥ ३७ ॥
पदरत्नावली
एतदेव विशिनष्टि– शान्ता इति ॥ एतेऽखिला इति पाठे जन्तुषु ये भद्राणि चरन्ति एतेऽखिला विष्णोरनुग्रहाद् व्रजन्ति । भद्राचरणं विशिनष्टि– येऽनिशमिति ॥ येऽनिशं शान्त्यादिगुणयुक्तास्तेऽच्युतपदं यान्तीत्यन्वयः । एतत्पदं प्राप्य स्वरूपाविर्भावयोग्यान् विना पुरस्तादन्यैरित्युक्तम् ॥ ३६ ॥
प्रकाशिका
एतदेव विशदयति ॥ शान्ता इति । येऽनिशं शान्त्यादिगुणयुक्तास्तेऽच्युतपदं यान्तीत्यन्वयः । अच्युतपदं ध्रुवलोकम् । अच्युतप्रिया बान्धवा येषाम् ॥ ३६,३७ ॥
गम्भीरवेगानिमिषां ज्योतिषां चक्रमर्पितम् ।
यस्मिन् भ्रमति कौरव्य मेढ्यामिव गवां गणः ॥ ३८ ॥
पदरत्नावली
चन्द्रदिवाकरादय इत्यत्र ज्योतिश्चक्रेण प्रदक्षिणीक्रियमाणमेतत्स्थानमित्युक्तम् । तत् कियद्दूरत इति न प्रतीतम् । तदिदानीं लक्षयति– गम्भीरेति ॥ गम्भीरवेगानि अनिमींषीव गम्भीरवेगानिमींषि तेषाम् । मिष निमिष इति धातोः । निमिषन्ति न मिलन्तीत्यनिमिषस् तेषाम-गच्छतामित्यर्थः । यस्मिन्नित्यनेनोपरीति प्रतीतिं निवारयति– मेढ्यामिति ॥ अनेन मेढ्याः समीपे परितो भ्रमन्तीति यथा प्रतीतं तथाऽत्रापीत्यर्थः ॥ ३८ ॥
प्रकाशिका
यस्मिन्ध्रुवस्थाने ज्योतिषामादित्यादीनां चक्रमाहितं सम्यक्सम्बद्धं सद्भ्रमति । कथं भूतानां ज्योतिषाम् । गंभीरवेगानिमिषां गंभीरो वेगो येषां तानि गम्भीरवेगानि न मिषन्ति न मीलन्तीत्यनिमींषि । गम्भीरवेगानि च तानि अनिमींषि च तेषां गम्भीरवेगवता मनस्तं गच्छतां चेत्यर्थः । मेढ््यां बद्धः परितो यथा गवां गणो भ्रमति तथैवेत्यर्थः ॥ ३८ ॥
महिमानं विलोक्यास्य नारदो भगवान् ऋषिः ।
आतोद्यं वितुदन् श्लोकान् सत्रेऽगायत् प्रचेतसाम् ॥ ३९ ॥
पदरत्नावली
इति केनायं महिमा लालितो येनास्माकमपि तत्र श्रद्धातिशयः स्यादित्यत आह– महिमानमिति ॥ आतोद्यं महद्वीणावाद्यम् । ‘आतोद्यं वाद्यमिष्यते’ इति हलायुधः ॥ ३९ ॥
प्रकाशिका
आतोद्यं वीणां वितुदन् वादयन् ॥ ३९ ॥
नारद उवाच–
नूनं सुनीतेः पतिदेवतायास्तपःप्रभावस्य सुतस्य तां गतिम् ।
१दृष्ट्वाऽभ्युपायानपि वेदवादिनो नैवाधिगन्तुं प्रभवन्ति किं नृपाः ॥ ४० ॥
पदरत्नावली
तपसः प्रभावो माहात्म्यं यस्य स तथा तस्य । प्रतापमाहात्म्ययोः प्रभावः स्यादिति यादवः ॥ ४० ॥
प्रकाशिका
पतिरेव देवता यस्याः सा तस्याः सुतस्य यस्तपःप्रभावो माहात्म्यं तस्य तां गतिम् । तत्फलमधिगन्तुमुपायान्मोक्षसाधनधर्मान्दृष्ट्वाऽपि वेदवादिनो ऋषयो नैव प्रभवन्ति किं पुनर्नृपाः । ‘‘दृष्टाऽभ्युपायाः’’ इति पाठे दृष्टा अभ्युपाया मोक्षहेतवो यैस्त इति व्याख्येयम् ॥ ४० ॥
यः पञ्चवर्षो गुरुदारवाक्शरैर्भिन्नेन यातो हृदयेन दूयता ।
वनं ममादेशकरोऽजितं प्रभुं जिगाय तद्भक्तिगुणैः पराजितम् ॥ ४१ ॥
पदरत्नावली
अजितं जिगाय वशीचकार ॥ ४१ ॥
प्रकाशिका
तपःप्रभावगतिं विशिनष्टि ॥ यः पञ्चवर्ष इति द्वाभ्याम् । गुरुदाराः पितृपत्नी सुरुचिः । अजितमपि यो जिगाय वशीकृतवान् ॥ ४१ ॥
यः क्षत्रबन्धुर्भुवि तस्याधिरूढमन्वारुरुक्षेदपि वर्षपूगैः ।
यः पञ्चवर्षो यदहोभिरल्पैः प्रसाद्य वैकुण्ठमवाप तत्पदम् ॥ ४२ ॥
प्रकाशिका
यः पञ्च वर्षाणि यस्य सोऽल्पैरेवाहोभिर्वैकुण्ठं प्रसाद्य यत्तस्य पदमवाप तत्पदं तस्य अधिरूढं कः क्षत्रबन्धुः क्षत्रियो वर्षपूगैरप्यन्वारुरुक्षेदारोढुमिच्छेन्न कोऽपि । तदिच्छाऽप्यशक्ता दूरतस्तदारोहणमिति भावः ॥ ४२ ॥
मैत्रेय उवाच–
एतत् तेऽभिहितं सर्वं यत् पृष्टोऽहमिह त्वया ।
ध्रुवस्योद्दामयशसश्चरितं संमतं सताम् ॥ ४३ ॥
प्रकाशिका
उद्दाम उत्कृष्टं यशो यस्य ॥ ४३ ॥
धन्यं यशस्यमायुष्यं पुण्यं स्वस्त्ययनं महत् ।
स्वर्ग्यं ध्रौव्यं सौमनस्यं प्रशस्यमघमर्षणम् ॥ ४४ ॥
पदरत्नावली
ध्रौव्यं ध्रुवस्य मोक्षस्य साधनम् ॥ ४४ ॥
प्रकाशिका
धन्यमित्यादि धनादेर्निमित्तम् । ध्रौव्यं ध्रुवस्य मोक्षसाधनम् । सौमनस्यं सुमनःप्रदं प्रशस्यं प्रशंसार्हममर्षणं पापनाशनम् ॥ ४४ ॥
श्रुत्वैतच्छ्रद्धयाऽभीक्ष्णमच्युतप्रियचेष्टितम् ।
भवेद् भक्तिर्भगवति यया स्यात् क्लेशसङ्क्षयः ॥ ४५ ॥
पदरत्नावली
अच्युतप्रियस्य ध्रुवस्य चेष्टितम् ॥ ४५ ॥
प्रकाशिका
श्रुत्वा यो वर्तते तस्य । भक्तिर्भवेत् ॥ ४५ ॥
महत्त्वमिच्छतां तीर्थं श्रोतुः शीलादयो गुणाः ।
यत्र तेजस्तदिच्छूनां मानो यत्र मनस्विनाम् ॥ ४६ ॥
पदरत्नावली
तीर्थमुपायः साधनं मन्त्राद्युपदेष्टृवदुपदेष्टृ वा । ‘तेजो बले प्रभावेऽन्ने ज्योतिष्यर्चिषि रेतसि । नवनीतेऽनले धर्मे दाने हस्तिमदेऽपि च’ इत्यभिधानात्, तदिच्छूनां तेज आकाङ्क्षमाणानां यत्र यस्मिंश्चरितेऽभ्यस्यमाने तेजो भवतीत्यर्थः ॥ ४६ ॥
प्रकाशिका
तीर्थं महत्वावाप्तिस्थानं यत्र यस्मिन्नभ्यस्यमाने सति भवन्ति ॥ ४६ ॥
प्रयतः कीर्तयेत् प्रातः समवाये द्विजन्मनाम् ।
सायं च पुण्यश्लोकस्य ध्रुवस्य चरितं महत् ॥ ४७ ॥
पौर्णमास्यां सिनीवाल्यां द्वादश्यां श्रवणेऽथ वा ।
दिनक्षये व्यतीपाते संक्रमेऽर्कदिनेऽपि वा ॥ ४८ ॥
पदरत्नावली
समावाये समूहे कीर्तयेदित्यतस्तात्पर्यादिदमिति वक्ति– पुण्यश्लोकस्येति ॥४७॥
प्रकाशिका
समवाये समूहे ॥ ४७,४८ ॥
श्रावयेच्छ्रद्दधानानां तीर्थपादपदाश्रयः ।
नेच्छंस्तत्राऽत्मनाऽऽत्मानं सन्तुष्ट इति सिद्ध्यति ॥ ४९ ॥
तात्पर्यम्
मनसा परमात्मानं प्रति सन्तुष्टः ॥ ४९ ॥
पदरत्नावली
श्रावयन् फलाभिसन्धिं न कुर्यादिति भावेनाह– नेच्छन्निति ॥ तत्र चरिते श्राविते श्रुते वा फलं नेच्छन्, वर्तते इति शेषः । कथं तर्हि फलसिद्धिरित्यत आह– आत्मनेति ॥ अत्रेत्युत्तर-त्रापि सम्बध्यते । चरित्रे श्राव्यमाणे आत्मना मनसा आत्मानं परमात्मानं प्रति सन्तुष्टः सिद्ध्यति प्राप्ताभीष्टफलो भवति ॥ ४९ ॥
प्रकाशिका
नेच्छन्निष्कामः । कथं तर्हि फलप्राप्तिरित्यत आह ॥ तत्रेति । अत्रात्म-नाऽऽत्मानमिति पदद्वयस्य विवक्षितमर्थं वदन् अन्वयं दर्शयति ॥ मनसेति । तथा च तृतीयान्तमात्मपदं मनोवाचि द्वितीयान्तं परमात्मवाचि, प्रतीतियोग्यतया लभ्यत इति भावः । ततश्च तत्र ध्रुवचरिते श्राव्यमाणे आत्मना मनसाऽऽत्मानं परमात्मानं प्रति सन्तुष्टो भवतीति हेतोः सिद्ध्यति । प्राप्ताभीष्टफलो भवतीति भावः ॥ ४९ ॥
ज्ञानमज्ञाततत्त्वाय यो दद्यात् सत्पथामृतम्१ ।
कृपालोर्दीननाथस्य देवास्तस्यानुगृह्णते ॥ ५० ॥
पदरत्नावली
ध्रुवचरितव्याख्यानव्याजेन भागवतं ज्ञानमुपदिशतो न केवलं भगवानेवानुग्रहं करोति, किन्तु तदिन्द्रियाभिमानिनो देवा अपीत्याह– ज्ञानमिति ॥ ५० ॥
प्रकाशिका
ध्रुवचरितश्रवणव्याजेन भागवतज्ञानमुपदिशतो न केवलं भगवानेवानुग्रहं करोति किन्तु देवा अपीत्याह ॥ ज्ञानमिति । ज्ञानमुक्तरूपम् । कथं भूतं ज्ञानं सत्पथे मोक्षमार्गे अमृत-मिवामृतम् ॥ ५० ॥
इदं मया तेऽभिहितं कुरूद्वह ध्रुवस्य विख्यातविशुद्धकर्मणः ।
हित्वाऽर्भकः क्रीडनकानि मातुर्गृहं च विष्णुं शरणं यो जगाम ॥
पदरत्नावली
पुनरपि तन्माहात्म्यं सूचयन्नुपसंहरति– इदं मयेति ॥ ५१ ॥
॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुकृतायां
चतुर्थस्कन्धे द्वादशोऽध्यायः ॥
प्रकाशिका
मातुर्गृहं च हित्वा ॥ ५१ ॥
**॥ इति श्रीमद्वेदेशपूज्यपादशिष्येण यदुपतिना विरचितायां **
श्रीमद्भागवतटिप्पण्यां चतुर्थस्कन्धे द्वादशोऽध्यायः ॥ ४-१२ ॥