११ एकादशोऽध्यायः

प्रजापतेर्दुहितरं शिंशुमारस्य वै ध्रुवः

अथ एकादशोऽध्यायः

मैत्रेय उवाच–

प्रजापतेर्दुहितरं शिंशुमारस्य वै ध्रुवः ।

उपयेमे भ्रमिं नाम तत्सुतौ कल्पवत्सरौ ॥ १ ॥

पदरत्नावली

अत्र न केवलं मोक्ष एव भगवत्प्रसादायत्तः किन्तु बाह्याभ्यन्तरशत्रुजयोऽपीत्य-तस्तन्माहात्म्यं वर्ण्यते । तत्रादौ ध्रुवविवाहादिप्रकारः कथ्यते– प्रजापतेरित्यादिना ॥ तत्सुतौ तस्या भ्रमेः सुतौ कल्पो वत्सरश्च ॥ १ ॥

इलायामपि भार्यायां वायोः पुत्र्यां महाबलः ।

पुत्रमुत्कलनामानं योगेश्वरमजीजनत् ॥ २ ॥

पदरत्नावली

योगेश्वरमणिमाद्यष्टाङ्गयोगानामीश्वरम् । अनेन राज्यानिच्छुत्वात् पश्चादुक्तिरिति ज्ञायते ॥ २ ॥

प्रकाशिका

महाबलो ध्रुवः योगेश्वरमणिमाद्यष्टांगयोगानामीश्वरम् ॥ २ ॥

उत्तमस्त्वकृतोद्वाहो मृगयायां बलीयसा ।

हतः पुण्यजनेनाद्रौ तन्माता तद्गतिं गता ॥ ३ ॥

पदरत्नावली

राजपुत्र उत्तमः किमभूत् ?ध्रुवभ्रातृत्वेन तत्कथाया अपि श्रवणार्हत्वात् साऽपि वक्तव्येति तत्राह– उत्तमस्त्विति ॥ तन्माता तस्योत्तमस्य माता सुरुचिस्तस्योत्तमस्य गतिं मरणत्व-लक्षणां गतिं गता ॥ ३ ॥

प्रकाशिका

तस्य सुतस्य गतिं स्थितिम् । मृतिमिति यावत् ॥ ३ ॥

ध्रुवो भ्रातृवधं श्रुत्वा कोपामर्षशुचाऽर्पितः ।

जैत्रं स्यन्दनमास्थाय गतः पुण्यजनालयम् ॥ ४ ॥

पदरत्नावली

अत्र प्राकृतस्वभावेन ध्रुवेण किमकारीति तत्राह– ध्रुव इति ॥ कोपामर्ष-शुचार्पितः । भागुरिन्यायेनास्य शब्दस्य टाबन्तत्वं साधु । पुण्यजनालयम् अलकां पुरीम् ॥ ४ ॥

प्रकाशिका

कोपः क्रोधोऽमर्षोऽसहिष्णुता ताभ्यां युक्तया शुचार्पितो व्याप्तः । जैत्रं जयशीलं पुण्यजनालयमलकापुरीम् ॥ ४ ॥

गत्वोदीचीं दिशं राजा रुद्रानुचरसेविताम् ।

ददर्श हिमवद्द्रोण्यां पुरीं गुह्यकसङ्कुलाम् ॥ ५ ॥

पदरत्नावली

पुररक्षकानाह– रुद्रेति ॥ हिमवतो गिरेर्द्रोण्यां निम्नतटे गुह्यका यक्षास्तैः संकुलां निबिडां स्तिमिताम् ॥ ५ ॥

प्रकाशिका

रुद्रानुचरा राक्षसा गुह्यका इति यक्षाणामेव नामान्तरम् ॥ ५ ॥

दध्मौ शङ्खं महाबाहुः खं दिशश्चानुनादयन् ।

येनोद्विग्नदृशः क्षत्तरुपदेव्योऽत्रसन् भृशम् ॥ ६ ॥

ततो निष्क्रम्य बलिना उपदेवमहाभटाः ।

असहन्तस्तन्निनादमभिपेतुरुदायुधाः१ ॥ ७ ॥

पदरत्नावली

उपदेव्यो यक्षस्त्रियः ॥ उदतिष्ठन्निति वा पाठः ॥ ६,७ ॥

प्रकाशिका

उपदेव्यो यक्षस्त्रियः ॥ ६,७ ॥

स तानापततो वीर उग्रधन्वा महारथः ।

एकैकं युगपत् सर्वानहन् बाणैस्त्रिभिस्त्रिभिः ॥ ८ ॥

ते वै ललाटलग्नैस्तैरिषुभिः सर्व एव हि ।

मत्वा निरस्तमात्मानमाशंसन् कर्म तस्य तत् ॥ ९ ॥

पदरत्नावली

अहन् हतवान् ॥ पत्रारोप इषुर्द्वयोरित्यमरः । ध्रुववीरकर्मस्तवनेन गुह्यकानां रणवीरत्वमसूचि ॥ ८,९ ॥

प्रकाशिका

अहन् जघान ॥ ८,९ ॥

तेऽपि चामुममृष्यन्तः पादस्पर्शमिवोरगाः ।

शरैरविद्ध्यन् युगपद् द्विगुणं प्रचिकीर्षवः ॥ १० ॥

पदरत्नावली

तत्कर्म प्रशस्य गुह्यकैः किं पृष्ठतः प्रसुप्तमिति तत्राह– तेऽपि चेति ॥ युगपत् सम्भूय ध्रुवकृतविक्रमाद् द्विगुणं प्रकर्षेण कर्तुमिच्छन्त एव न तु कर्तुं समर्थाः ॥ १० ॥

प्रकाशिका

द्विगुणं यथा भवति तथा षड्भिः प्रतिकर्तुमिच्छवः ॥ १० ॥

ततः परिघनिस्त्रिंशैः प्रासशूलपरश्वधैः ।

शक्त्यृष्टिभिर्भुशुण्डीभिश्चित्रवाजैः शरैरपि ॥ ११ ॥

पदरत्नावली

चित्रा नानावर्णा वाजाः पक्षा येषां ते चित्रवाजास्तैः ॥ ११ ॥

प्रकाशिका

चित्रवाजैर्विचित्रपक्षैः ॥ ११ ॥

अभ्यवर्षन् प्रकुपिताः सरथं सह सारथिम् ।

इच्छन्तस्तत्प्रतीकर्तुमयुतानां त्रयोदश ॥ १२ ॥

पदरत्नावली

अयुतानां त्रयोदशलक्षादुपरि त्रिंशत्सहस्राणि । प्राधान्यविवक्षयैतत् ॥ १२ ॥

प्रकाशिका

अयुतानां वा त्रयोदशलक्षादुपरि त्रिंशत्सहस्राणि । प्राधान्यविवक्षयैतत् ॥ १२ ॥

औत्तानपादिः स तदा शस्त्रवर्षेण भूयसा ।

नोपादृश्यत सञ्च्छन्न आसारेण यथा गिरिः ॥ १३ ॥

पदरत्नावली

तदा ध्रुवः किमभूदिति तत्राह– औत्तानापादिरिति ॥ आसारेण वेगवता वर्षेण सन्ततनिबिडवर्षधारयेत्यर्थः ॥ १३ ॥

प्रकाशिका

तदा ध्रुवः किमभूत्तत्राह ॥ औत्तानपादिरिति । आसारेण सन्ततनिबिडवर्षधारया

॥ १३ ॥

हाहाकारस्तदैवासीत् सिद्धानां दिवि पश्यताम् ।

हतोऽयं मानवः सूर्यो मग्नः पुण्यजनार्णवे ॥ १४ ॥

पदरत्नावली

मानवः मनोः पौत्रः सूर्यः ज्ञानिप्रियः, सूर्य इव सूर्यो वा ॥ १४ ॥

प्रकाशिका

सूर्यः ज्ञानिप्रियः सूर्य इव सूर्यो वा । मानवो मनोः पौत्रः ॥ १४ ॥

नदत्सु यातुधानेषु जयकाशिष्वथो मृधे ।

उदतिष्ठद् रथस्तस्मान्नीहारादिव भास्करः ॥ १५ ॥

पदरत्नावली

नन्वत्र मग्नस्य श्वासनिरोधेन मरणं, जलं संस्तभ्यावस्थानम्, अधोगमनम्, अन्यत उन्मज्जनमिति पक्षेष्वेकः सम्भवति । अन्यत उन्मज्जने पलायनापरपर्याये जैत्रं स्यन्दनमित्येतदनुपपन्नं स्यात्, अतः किमभूदिति तत्राह– नदत्स्विति ॥ अथ मज्जनानन्तरमेव ध्रुवस्य तस्माद् युद्धादुदतिष्ठ-दित्यन्वयः । जलमग्नस्य सूर्यस्यान्यत उन्मज्जनं भवतीति मत्वा यत्र निमज्जनं तत्र उन्मज्जनम् । तद्दृष्टान्तत्वेन नीहारादिति ॥ १५ ॥

प्रकाशिका

जयकाशिषु जयप्रकाशकेषु नदत्सूदतिष्ठच्छस्त्रास्त्रवर्षादन्यत्रागात् ॥ १५ ॥

धनुर्विस्फूर्जयन्नुग्रं द्विषतां खेदमुद्वहन् ।

अस्त्रौघं व्यधमद् बाणैर्घनानीकमिवानिलः ॥ १६ ॥

पदरत्नावली

द्विषतामस्त्रौघं व्यधमन्नष्टमकरोत् ॥ १६ ॥

प्रकाशिका

द्विषतां शस्त्रौघं व्यधमत् सञ्चूर्णितमकरोत् ॥ १६ ॥

तस्य ते चापनिर्मुक्ता भित्त्वा वर्माणि रक्षसाम् ।

कायानाविविशुस्तिग्मा गिरीनशनयो यथा ॥ १७ ॥

पदरत्नावली

एकत्र प्रयोगेण यक्षाणां गात्रधमनं तेषां चर्मभेदनं शरीरच्छेदनं चेति कार्यत्रय-मभूदित्याह– तस्य त इति ॥ पविरशनिः शतधारं वज्रं कुलिशं दम्भोलिरिति हलायुधः । दम्भोलिरश-निर्द्वयोरित्यमरः ॥ १७ ॥

प्रकाशिका

वर्माणि कवचानि ॥ १७ ॥

भल्लैः सञ्च्छिद्यमानानां शिरोभिश्चारुकुण्डलैः ।

ऊरुभिर्हेमतालाभैर्दोर्भिर्वलयवल्गुभिः ॥ १८ ॥

पदरत्नावली

वीररसमाह– भल्लैरिति ॥ भल्लैरर्धचन्द्राकारैर्वराहशरैर्वा । हेमतालाभैः सुवर्ण-तालसमानैरुरुभिरुत्सङ्गैः ॥ १८ ॥

प्रकाशिका

भल्लैरर्धचन्द्राकारैः ॥ १८ ॥

हारकेयूरमुकुटैरुष्णीषैश्च महाधनैः ।

आस्तृतास्ता रणभुवो रेजुर्वीरमनोहराः ॥ १९ ॥

प्रकाशिका

रणभुवो रणभूप्रदेशाः ॥ १९ ॥

हतावशिष्टा इतरे रणाजिराद् रक्षोगणाः क्षत्रियवर्यसायकैः ।

प्रायो १विकृन्तावयवा विदुद्रुवुर्मृगेन्द्रविक्रीडितयूथपा इव ॥ २० ॥

पदरत्नावली

क्वापि सर्वनाशो न दृष्टश्रुतपूर्व इति किं वदन्तीमनुसरन्नाह– हतेति ॥ मृगेन्द्रेण सिंहेन विगतक्रीडोपक्रमा यूथपा गजाः ॥ २० ॥

प्रकाशिका

विकृन्ता छिन्ना अवयवो येषाम् । मृगेन्द्रेण सिंहेन विगतक्रीडोपक्रमाः । यूथपा गजाः ॥ २० ॥

अपश्यमानः स तदाऽऽततायिनं महामृधे कंचन मानवोत्तमः ।

पुरीं दिदृक्षन्नपि नाविशद् द्विषां न मायिनां वेद चिकीर्षितं जनः ॥ २१ ॥

पदरत्नावली

अस्यामवस्थायां पुरीं प्रविश्य तत्सर्वमपहृत्य गमनं तत्रावस्थानं वेत्युभयस्मादेकं प्राप्तं, तत्र ध्रुवेण किमकारीत्याशङ्क्योभयमपि न कृतं मायिजनकुचेष्टाशङ्कयेति भावेनाह– अपश्यमान इति ॥ तथाहि जनो मायिनां चिकीर्षितं न वेद न जानाति यदत इति ॥ २१ ॥

प्रकाशिका

आततायिनं शस्त्रपाणिम् । यतो जनो मायिनां चिकीर्षितं कर्तुमिष्टं न वेद न जानात्यतः ॥ २१ ॥

इति ब्रुवंश्चित्ररथः स्वसारथिं यत्तः परेषां प्रतियोगशङ्कितः ।

शुश्राव शब्दं जलधेरिवेरितं नभस्वता दिक्षु रजोऽन्वदृश्यत ॥ २२ ॥

पदरत्नावली

इदं चिन्तनमुत वाचिकमिति न ज्ञायत इत्यतो विविनक्ति– इति ब्रुवन्निति ॥ प्रतियोगेन पुनरुद्यमेन शङ्कितः । जलधेरुत्पन्नमिव नभस्वता वायुनेरितम् ॥ २२ ॥

प्रकाशिका

इति ब्रुवन्नित्यत्रापि ‘‘न मायिनाम्’’ इत्यादेरनुषङ्गः । चित्ररथो ध्रुवो । यत्तः प्रयत्नवान्प्रतियोगः पुनरुद्यमः । जलधेरुत्पन्न इव नभस्वता वायुनेरितं प्रेरितम् ॥ २२ ॥

क्षणेनाच्छादितं व्योम घनानीकेन सर्वतः ।

१विस्फुरत्तटिता दिक्षु त्रासयंस्तनयित्नुना ॥ २३ ॥

पदरत्नावली

पुनः किं किं शङ्काकारमभूदिति प्रपञ्चयति– क्षणेनेत्यादिना ॥ च्छादितं च्छन्नम् । विस्फुरन्त्यस्तडितो यस्मिंस्तथा तेन स्तनयित्नुना गर्जितम् ॥ २३ ॥

प्रकाशिका

विस्फुरंत्यस्तटितो यस्मिंस्तेन । त्रासयन्तः स्तनयित्नवो यस्मिंस्तेन ॥ २३ ॥

ववर्षू रुधिरौघास्थिपूयविण्मूत्ररेतसः ।

३निपेतुर्गगनादस्य कबन्धान्यग्रतोऽनघ ॥ २४ ॥

पदरत्नावली

ववृषुर् मेघा इति शेषः । कबन्धानि शिरोरहितशरीराणि ॥ २४ ॥

प्रकाशिका

ववर्षुः । मेघा इति शेषः । रेतस इति पुंस्त्वं छान्दसम् । कबन्धानि शिरोरहित-शरीराणि ॥ २४ ॥

ततः खेऽदृश्यत गिरेर्निपेतुः सर्वतो दिशम् ।

गदापरिघनिस्त्रिंशमुसलाः साश्मवर्षिणः४ ॥ २५ ॥

पदरत्नावली

अश्मवर्षिणो गिरेर्गदादीनि सर्वतो दिशं निपेतुः ॥ २५ ॥

प्रकाशिका

साश्मवर्षिणोऽश्मवर्षसहितं यद्वर्षं तद्वन्तः ॥ २५ ॥

अहयोऽशनिनिःश्वासा वमन्तोऽग्निं रुषाऽक्षिभिः ।

अभ्यधावन् गजा मत्ताः सिंहव्याघ्राश्च यूथशः ॥ २६ ॥

पदरत्नावली

‘‘दृशद्गरलयोरश्म वेश्म धामप्रवेशयोः’’ इत्यभिधानाद् अश्मवर्षिण इत्यहि-विशेषणं वा । अहयश्च निपेतुः । अशनिर्मेघवन्हिज्वाला । तद्वन्निःश्वासो येषां ते तथा ॥ २६ ॥

प्रकाशिका

अशनिर्मेघवह्निज्वाला तद्वन्निःश्वासो येषाम् ॥ २६ ॥

समुद्र ऊर्मिभिर्भीमः प्लावयन् सर्वतो भुवम् ।

आससाद महाह्रादः कल्पान्त इव भीषणः ॥ २७ ॥

पदरत्नावली

ह्रादो नादः ॥ २७ ॥

प्रकाशिका

ह्रादो नादः ॥ २७ ॥

एवंविधान्यनेकानि त्रासनान्यमनस्विनाम् ।

ससृजुस्तिग्मगतय१ आसुर्या माययाऽसुराः ॥ २८ ॥

पदरत्नावली

अमनस्विनां मनोबलरहितानाम् । तिग्मगतयस्तीक्ष्णप्रवृत्तयः । आसुर्या असुरजनप्रियया ॥ २८ ॥

प्रकाशिका

त्रासनानि भयङ्कराण्यमनस्विनां मनोबलरहितानाम् । तिग्मा क्रूरा गतिः प्रवृत्तिर्येषां ते । तिग्ममतय इत्यपि पाठः । असुराः सुरभिन्ना यक्षाः ॥ २८ ॥

ध्रुवे प्रयुक्तामसुरैस्तां मायामतिदुस्तराम् ।

निशाम्य तस्य मुनयः शमाशंसन्२ समागताः ॥ २९ ॥

पदरत्नावली

स्वकर्तव्यतया मुनयो भगवत्प्रसादेन सर्वत्राजिताय धु्रवाय हितमुपदिशन्तीत्याह– ध्रुव इति ॥ सं सुखम् । ‘समभेदे समीचीने सुष्ठुपूजासुखेषु च’ इति यादवः । पपौशसाविति प्राच्या इति सूत्राद् वा सं सुखमिति ज्ञायते ॥ २९ ॥

प्रकाशिका

शं कल्याणमाशंसन्प्रार्थितवन्तः ॥ २९ ॥

मुनय ऊचुः –

औत्तानपादे भगवांस्तव शार्ङ्गधन्वा

देवः क्षिणोत्ववनतार्तिहरो विपक्षान् ।

यन्नामधेयमभिधाय निशम्य चाद्धा

लोकोऽञ्जसा तरति दुस्तरमङ्ग मृत्युम् ॥ ३० ॥

पदरत्नावली

यन्नामधेयमभिधायेत्यनेन भगवन्नाम स्मृत्वाऽभिधाय युध्यतस्तव शत्रुजयः स्यादित्युपदिष्टमिति ज्ञातव्यम् ॥ ३० ॥

प्रकाशिका

अद्धा साक्षात् । अञ्जसा सुखेनैव । अनेन नारायणास्त्रमृषिभिः स्मारितमिति ज्ञातव्यम् ॥ ३० ॥

मैत्रेय उवाच–

निशम्य वदतामेवम् ऋषीणां धनुषि ध्रुवः ।

सन्दधेऽस्त्रमुपस्पृश्य यन्नारायणनिर्मितम् ॥ ३१ ॥

पदरत्नावली

असुरमायाविनाशे समर्थं नारायणास्त्रमिति जानन् ध्रुवो मुनिभिरपि तदेवोप-दिष्टमिति निरूप्य तदस्त्रं धनुषि संदध इत्याह– निशम्येति ॥ ३१ ॥

प्रकाशिका

उपस्पृश्याचमनादिकं कृत्वा यन्नारायणेन निर्मितमभिव्यक्तं तत् ॥ ३१ ॥

सन्धीयमान एतस्मिन् माया गुह्यकनिर्मिताः ।

क्षिप्रं विनेशुर्विदुर क्लेशा ज्ञानोदये यथा ॥ ३२ ॥

तस्यार्षास्त्रं धनुषि प्रयुञ्जतः सुवर्णपुङ्खाः कलहंसवाससः ।

विनिःसृता आविविशुर्द्विषद्बलं वनं यथा भीमरवाः शिखण्डिनः ॥ ३३ ॥

पदरत्नावली

तस्यास्त्रस्य माहात्म्यमचिन्त्यमिति भावेनाह– सन्धीयमान इति ॥ अविद्यास्मितारागद्वेषाभिनिवेशा क्लेशाः ॥ आर्षास्त्रम् ऋषिच्छन्दोदेवतासहितास्त्रं, ज्ञानास्त्रं वा, ऋष ज्ञान इति धातोः । सुवर्णालङ्कृताः पुङ्खा ज्यानुसन्धानप्रदेशा येषां ते सुवर्णपुङ्खाः । वस आच्छादन इति धातोः, वासःशब्देन पक्षा लक्ष्यन्ते । कलहंसानां वासांसि पक्षा इव पक्षा येषां ते कलहंसवाससः । शिखण्डिनो मयूराः । भीमो भयङ्करो रवो नादो येषां ते तथा ॥ ३२,३३ ॥

प्रकाशिका

आर्षमृषिसम्बन्धि । ऋषिभिः स्मारितमिति यावत् । तच्च तदस्त्रं च प्रयुञ्जतः सतः । सुवर्णपुङ्खाः सुवर्णमयाः पुंखा मूलप्रदेशा येषाम् । कलहंसानां वासांसि पक्षा इव पक्षा येषां शराणां ते तथा । शिखण्डिनो मयूराः ॥ ३३ ॥

तैस्तिग्मधारैः प्रधने शिलीमुखैरितस्ततः पुण्यजना उपद्रुताः ।

तमभ्यधावन् कुपिता उदायुधाः सुपर्णमुन्नद्धफणा इवाहयः ॥ ३४ ॥

पदरत्नावली

पुण्यजनानां वीररसमाह– तैरिति ॥ तिग्मधारैरुग्राग्रैः । शिलीमुखैः शरैः । सुपर्णं गरुडम् । उन्नद्धफणा उद्धृतफणाः ॥ ३४ ॥

प्रकाशिका

तिग्मधारैरुग्राग्रैः शिलीमुखैः शरैः प्रघने युद्धे ॥ ३४ ॥

स तान् पृषत्कैरभिधावतो मृधे निकृत्तबाहूरुशिरोधरोदरान् ।

निनाय लोकं परमर्कमण्डलं व्रजन्ति निर्भिद्य यमूर्ध्वरेतसः ॥ ३५ ॥

पदरत्नावली

अर्कमण्डलं निर्भिद्य यं लोकं व्रजन्ति तं परं लोकं निनायेत्यन्वयः ॥ ३५ ॥

प्रकाशिका

पृषत्कैर्बाणैः परमुत्तमं लोकं निनाय प्रापयामास । कथं भूतम् । ऊर्ध्वरेतसः संन्यासिनोऽर्कमण्डलं भित्वा यं व्रजन्ति तम् ॥ ३५ ॥

तान् हन्यमानानभिवीक्ष्य गुह्यकाननागसश्चित्ररथेन भूरिशः ।

औत्तानपादिं कृपया पितामहो मनुर्जगादोपगतः सहर्षिभिः ॥ ३६ ॥

पदरत्नावली

किमेवं ध्रुवः सर्वाननवशिष्टानकरोदित्यस्योपयोगिकथान्तरमाह– तान् हन्य-मानानिति ॥ अनागसो वधयोग्यापराधरहितान् । चित्ररथेन ध्रुवेण ॥ ३६ ॥

प्रकाशिका

अनागसो निरपराधान् । चित्ररथेन ध्रुवेण ॥ ३६ ॥

मनुरुवाच–

अलं वत्सातिरोषेण तमोद्वारेण पाप्मना ।

येन पुण्यजनानेतानवधीस्त्वमनागसः ॥ ३७ ॥

पदरत्नावली

आगत्य निःशेषं हनेत्युक्तं किम् ? नेत्याह– अलमिति ॥ तमोद्वारेण यथार्थज्ञानप्रतिबन्धकत्वेन नरकद्वारेण, पाप्मना पापहेतुना ॥ ३७ ॥

प्रकाशिका

तमोद्वारेण तमोगुणकारणेन यथार्थज्ञानप्रतिबन्धकत्वेन नरकद्वारेण पाप्पना पापसाधनेन ॥ ३७ ॥

नास्मत्कुलोचितं तात कर्मैतत् सद्विगर्हितम् ।

वधोऽयमुपदेवानामारब्धस्तेऽकृतैनसाम् ॥ ३८ ॥

पदरत्नावली

किं च धर्मशास्त्रानुवर्तिनामस्माकं कुलधर्मो न भवत्ययमित्याह– नास्मदिति ॥ अकृतैनसामिति पदम् ॥ ३८ ॥

प्रकाशिका

अकृतैनसामकृतापराधानाम् ॥ ३८ ॥

नन्वेकस्यापराधेन तत्सङ्गाद् बहवो हताः ।

भ्रातुर्वधाभितप्तेन त्वयाऽङ्ग भ्रातृवत्सल ॥ ३९ ॥

पदरत्नावली

अकृतापराधत्वं कथम् ? भ्रातृवधलक्षणापराधकरणादिति तत्राह– नन्विति ॥ ननुरेवार्थे वर्तते, अपराधेनेति संबध्यते ॥ ३९ ॥

प्रकाशिका

ननु मद्भ्रातृहंतारः कथमकृतैनस इत्यत आह ॥ नन्विति । एकस्य यक्षस्यापराधेन तत्संगादपराधियक्षापरित्यागात् ॥ ३९ ॥

नायं मार्गो हि साधूनां हृषीकेशानुवर्तिनाम् ।

यदात्मानमसङ्गृह्य पशुवद् भूतवैशसम् ॥ ४० ॥

पदरत्नावली

तस्यापराधिनः सङ्गात् तदपरित्यागात् तेऽप्यपराधिन इति सूक्ष्मदर्शनं भागवतानां नोपपन्नमित्याह– नायमिति ॥ आत्मानं मनो ऽसङ्गृह्यानियम्य, पशुवन्मूढवत् ॥ ४० ॥

प्रकाशिका

सत्यप्यपराधे न भागवतस्य तवेदं नोचितमित्याह ॥ नायमिति । आत्मानं मनोऽसङ्गृह्यानियम्य पशुवन्मूढवत् । भूतानां वैशसम् । हिंसेति यावत् ॥ ४० ॥

सर्वभूतात्मभावेन भूतावासं हरिं भवान् ।

आराध्याप दुराराध्यं विष्णोस्तत् परमं पदम् ॥ ४१ ॥

पदरत्नावली

इतोऽप्येकापराधेन बहूनां वधो न युक्तः, सर्वप्राणिनामन्तर्यामित्वेन हरिमुपास्य प्राप्ततत्प्रसादत्वादित्याह– सर्वभूतेति ॥ सर्वभूतानामात्मभावेनान्तर्यामित्वेन भूतेषु प्राणिष्वावासो यस्य स तथा भूतान्यावसन्त्यस्मिन्निति वा तम् ॥ ४१ ॥

प्रकाशिका

इतोऽपि तवेदमुचितमित्याह ॥ सर्वभूतेति द्वाभ्याम् । सर्वभूतानामन्तर्यामित्वेन भूतावासं भूतेष्ववस्थितम् ॥ ४१ ॥

स त्वं हरेरनुध्याता१ तत्पुंसामपि सम्मतः ।

कथं त्ववद्यं कृतवाननुशिक्षन् सतां व्रतम् ॥ ४२ ॥

पदरत्नावली

प्राप्तफलत्वात्, अद्य हरिणा किम् ? इति भावो न तवास्तीत्याह– स त्वमिति ॥ तस्य हरेः पुंसां भक्तानां संमतः । ततः किम् ? तत्राह– कथमिति ॥ ४२ ॥

प्रकाशिका

हरेरनुध्याता सर्वभूतेषु हर्यनुसन्धानवान् । अनुध्यात इति पाठे हरिणा हृदि चिन्तित इत्यर्थः । साधुत्वेन संमतः ॥ ४२ ॥

तितिक्षया करुणया मैत्र्या चाखिलजन्तुषु ।

समत्वेन च सर्वात्मा भगवान् सम्प्रसीदति ॥ ४३ ॥

पदरत्नावली

किं तत् सतां व्रतम् ? तेन किं फलम् ? तत्राह– तितिक्षयेति ॥ शत्रुषु शत्रुत्व-दर्शनं सुहृत्सु सुहृत्त्वदर्शनं समत्वम् ॥ ४३ ॥

प्रकाशिका

सतां व्रतमेव दर्शयंस्तत्फलमेवाह ॥ तितिक्षयेति । नीचेषु सत्सु करुणया । समेषु मैत्र्याऽखिलजन्तुषु समत्वेन हरेरेकप्रकारताज्ञानेन । सर्वात्मा सर्वान्तर्यामी ॥ ४३ ॥

सम्प्रसन्ने भगवति पुरुषः प्राकृतैर्गुणैः ।

विमुक्तो जीवनिर्मुक्तो ब्रह्म निर्वाणमृच्छति ॥ ४४ ॥

पदरत्नावली

तत्प्रसादफलमाह– संप्रसन्न इति ॥ ततः किम् ? तत्राह– जीवेति ॥ जीवत्वाभिमानान् नितरां मुक्तो भवति । तत्फलमाह– ब्रह्मेति ॥ नित्यनिर्मुक्तशरीरं परमानन्दं वा ब्रह्म ऋच्छत्याप्नोतीत्यन्वयः । ब्रह्मनिर्वाणं ब्रह्मणि नाशमृच्छतीत्यङ्गीकारे मुक्तेः शून्यभावत्वेन न केनाप्यर्थित्वं स्यात् ॥ ४४ ॥

प्रकाशिका

तेनापि किमित्यत आह ॥ संप्रसन्ने इति । गुणैः सत्त्वादिभिर्विमुक्तोऽत एव जीवत्यनेनेति जीवः शरीरं तस्मान्निर्मुक्तः । निर्वाणं नित्यनिर्मुक्तजडशरीरं ब्रह्मर्च्छति प्राप्नोति ॥ ४४ ॥

भूतैः पञ्चभिरारब्धो योषित् पुरुष एव हि ।

तयोर्व्यवायात् सम्भूतिर्योषित्पुरुषयोरिह ॥ ४५ ॥

पदरत्नावली

सृष्टिप्रकारज्ञाने ततो विरक्त्या प्रकृतिबन्धहानेच्छा स्यादतस्तामाह– भूतैरिति ॥ पुरुषो योषिच्चेति भावः । पञ्चभिः पृथिव्यादिशरीरैर् आरब्धः सृष्टः । अतः परं कथं प्रारंभ इत्यत आह– तयोरिति ॥ इह जीवराशौ तयोर्योषित्पुरुषयोर्व्यवायेन मैथुनधर्मेण सम्भूतिः करचरणादि-विभागलक्षणं जन्म भवति । समित्यनेन पृथिव्यादिसंयोगेन जन्म सूचयति ॥ ४५ ॥

प्रकाशिका

एवं भ्रातृहंतृत्वं यक्षाणामङ्गीकृत्योक्तमिदानीमीश्वरकृतसृष्टावेवायं भ्राता न स्वभावतः स्वातन्त्र्येण । तद्धन्ता च हरिरेव न यक्षादिरित्याशयेन हरेः स्वातन्त्र्येण सृष्ट्यादिकर्तृत्वरूपं माहात्म्यं दर्शयति ॥ भूतैरित्यादिना । आदिकालीनो योषिद्योषिद्देहः पुरुषः पुरुषदेहश्चारब्धः सृष्टो न स्वाभाविकः । इह जीवराशौ । तयोर्योषित्पुरुषयोर्व्यवायान्मैथुनादन्ययोर्योषित्पुरुषयोरिह संसारे सम्भूतिः करचरणादिविभागलक्षणं सम्भवति ॥ ४५ ॥

एवं प्रवर्तते सर्गः स्थितिः प्रलय एव च ।

गुणव्यतिकराद् राजन् मायया परमात्मनः ॥ ४६ ॥

पदरत्नावली

न केवलमादिसर्गः, किन्तूत्तरत्राप्येवमेवेत्याह– एवमिति ॥ स्थितिसंहारयोः सर्गविपरीतत्वात् कथं सर्गवदित्युच्यत इत्यत्राह– गुणव्यतिकरादिति ॥ रजआदिगुणानां विषम-समावस्थाभेदकारणात् । परप्रेरणामन्तरेण जडेभ्यो गुणेभ्य एवं प्रवृत्तिः कथम् ? अत्राह– माययेति । परमात्मनो माययेच्छया, प्रेरितेभ्य इति शेषः । इदमत्राकूतम् । रजोगणकार्यभूतारब्धदेहाच् चेतना-धिष्ठितात् सर्गः । पालकसत्वगुणकार्यभूतारब्धदेहात् स्थितिः । तमोगुणकार्यभूतारब्धदेहात् संयम इति च । एतत्सर्वमीश्वरेच्छाधीनमिति ॥ ४६ ॥

प्रकाशिका

एवं पञ्चभूतारब्धैरेव राजादिभिः स्थितिः पञ्चभूतारब्धैरेव यमादिभिः संयमः संहारश्च भवति । ननु पञ्चभूतारब्धदेहानां कथं विचित्रसर्गस्थितिसंयमरूपविलक्षणकार्यहेतुत्वमित्यत उक्तम् ॥ गुणेति । गुणानां सत्त्वादीनां व्यतिकराद्व्यत्यासादिति । तथा च पञ्चभूतानुस्यूतरजःप्रधानेन देहेन सृष्टिस्तदनुस्यूतसत्त्वप्रधानेन देहेन स्थितिस्तदनुस्यूततमःप्रधानेन संयम इत्यर्थः । ननु चेतनेच्छाद्यभावे जडानां भूतानां गुणव्यतिकरेण कथं सर्गादीत्यत उक्तम् ॥ परमात्मन इति । माययेच्छया । प्रेरितादिति शेषः ॥ ४६ ॥

निमित्तमात्रं तत्रात्मा निर्गुणः पुरुषर्षभः ।

व्यक्ताव्यक्तमिदं विश्वं यत्र भ्रमति लोहवत् ॥ ४७ ॥

तात्पर्यम्

‘हरिरक्लिष्टकारित्वादयस्कान्तवदुच्यते । कामकर्मस्वभावेषु काले चावस्थितो हरिः । सर्वकारणभूतः संस्तत्तन्नाम्नाऽभिधीयते’ इति सत्यसंहितायाम् ॥ ४७ ॥

पदरत्नावली

एतदेव विशिनष्टि– निमित्तमात्रमिति ॥ यत्र यस्येश्वरस्य सन्निधाने व्यक्ताव्यक्तं कार्यकारणात्मकमिदं विश्वं भ्रमति चेष्टते । किमिव ? अयस्कांतस्य सन्निधाने लोहं खर्वं यथा तथा, सः निर्गुणः सत्त्वादिशक्त्यनुपहतशक्तिरात्मा परमात्मा तत्र सृष्ट्यादौ निमित्तमात्रं न तूपादानकारणम्

॥ ४७ ॥

प्रकाशिका

परमात्मनः केचिदुपादानत्वं वदन्ति तान्निराकरोति ॥ निमित्तमात्रमिति । तत्र जगत्सृष्ट्यादौ युक्तिमाह ॥ निर्गुण इति । अनेन सगुणप्रकृतेरेवोपादानत्वमिति सूचयति ॥ निर्गुणत्वेऽपि युक्तिः पुरुषर्षभ इति । क्षराक्षरपुरुषोत्तम इत्यर्थः । एतदुपपादयति ॥ व्यक्ताव्यक्तमिति । कार्य-कारणात्मकमित्यर्थः । यस्मिन्निमित्ते सति भ्रमति चेष्टते । अत्र दृष्टान्तमाह ॥ लोहवदिति । यथाऽ-यस्कान्ते निमित्ते सति लोहं सूच्यादिकं चेष्टते तथेत्यर्थः । अत्रायस्कांतस्य तटस्थतयैवायोभ्रामकत्वं तथा हरेरपि तटस्थतयैव जगच्चेष्टकत्वमुच्यत इति प्रतीतिनिवारणायायस्कान्तदृष्टान्तदार्ष्टान्तिकभाववचनाभिप्रायं प्रमाणेनैवाह ॥ हरिरिति ॥ उच्यते पुराणादाविति शेषः । न तु तटस्थतया कर्तृत्वादित्याशयवानाह ॥ कामेति । चशब्दाद्दैवे चेत्यदृष्टस्य सङ्ग्रहः । सर्वकारणभूतः सन् सर्वकारणतयेत्यर्थः । तत्तनाम्ना कामकर्मादिनाम्ना । अभिधीयते । वेदद्रष्टृभिरिति शेषः । अनेन ‘‘केचित्कर्म वदन्त्येनम्’’ इति वक्ष्यमाणश्लोकतात्पर्यमुक्तमिति ज्ञातव्यम् ॥ ४७ ॥

स खल्विदं भगवान् योगशक्त्या गुणप्रवाहेषु विभक्तवीर्यः ।

करोत्यकर्तेव निहन्त्यहन्ता चेष्टा विभूम्नः खलु दुर्विभाव्या ॥ ४८ ॥

पदरत्नावली

तर्हि मुख्यकर्तृत्वं हरेर्गतम् ? अत्राह– स खल्विति ॥ खलुशब्दोऽन्यकारण-शक्तिनिषेधार्थः । स भगवान् योगशक्त्या गुणप्रवाहेषु सृष्ट्यादिषु तत्तत्क्रियानुसारेण विभक्तवीर्यो विभक्तमाहात्म्यः, अक्लिष्टकर्तृत्वादकर्तेव जगत् करोति, अहन्तेव शत्रुभावरहितत्वान्निहन्ति संहरति । अनेन हरेः समत्वभङ्गो निरस्त इति । एकस्य विरुद्धकर्तृत्वं कथमित्यत उक्तम्– चेष्टेति ॥ दुर्विभाव्या ज्ञातुमशक्या, अस्मादृशैरिति शेषः । कर्तृत्वसामान्यनिषेधे ‘हरिरक्लिष्टकारित्वादयस्कान्तवदुच्यते । कामकर्मस्वभावेषु काले चावस्थितो हरिः । सर्वकारणभूतः संस्तत्तन्नाम्नाऽभिधीयते ॥’ इति वाक्यविरुद्धं स्यादिति नायमर्थः शोभते ॥ ४८ ॥

प्रकाशिका

ननु लोके पित्रादिरेव सृष्टिकर्ता राजादिरेव पालनकर्ता यमादिरेव संहारकर्तेति प्रसिद्धेः परमात्मनः सृष्ट्यादिकर्तृत्वं कथमित्यत आह ॥ स खल्विति । स भगवान्योगशक्त्या गुणप्रवाहेषु गुणानां सत्त्वादीनां प्रवाहः सृष्टिर्येभ्यस्तेषु पित्रादिषु स्थित्वा तत्र क्रियानुसारेण विभक्तं वीर्यं सामर्थ्यं यस्य स तथा । इदं पुत्रादिरूपं जगत्करोति । पालयतीत्यपि ग्राह्यम् । निहन्ति च । खल्विति प्रमाणप्रसिद्धिं दर्शयति । तथा च लौकिकीप्रसिद्धिरप्रयोजकेति भावः । नन्वाप्तसमस्तकामस्य भगवतः प्रयोजनरागाभावान्न सृष्टिपालनकर्तृत्वं वास्तवं नापि संहर्तृत्वं द्वेषाभावादित्यत उक्तम् । प्रयोजना-पेक्षयाऽकर्तेव करोति द्वेषेणाहन्तैव निहन्तीति । ननु कथमिदं लोकविरुद्धं घटत इत्यत उक्तम् ॥ चेष्टेति । विशेषेण परिपूर्णस्य भगवतश्चेष्टाप्रवृत्तिर्दुर्विभाव्या लौकिकन्यायेन ज्ञातुमशक्या । खलु इदमपि श्रुत्यादिप्रसिद्धमित्यर्थः ॥ ४८ ॥

सोऽनन्तोऽन्तकरः कालोऽनादिरादिकृदव्ययः ।

जनं जनेन जनयन् मारयन् मृत्युनाऽऽत्मनः ॥ ४९ ॥

पदरत्नावली

दुर्विभाव्यत्वमाह– सोऽनन्त इति ॥ य एवंविधः स हरिरस्य विश्वस्यान्तकरः स्वयमनन्तः स्वमारकमृत्युरहितः । ‘अन्तोऽस्त्र्यवसिते मृत्यौ’ इति यादवः । देवदत्तवत् स्वयं दण्डमादाय हन्ति किम् ? नेत्याह– काल इति ॥ आयुरादिफलपाचकत्वात् । पूर्वापरत्वविशेषोऽपि नास्तीत्याह– अनादिरिति ॥ न केवलमन्तकरः, किन्त्वादिकृच्च । चोरवत् संवृतो न करोत्यतोऽव्यय इति । अव्ययोऽसंवृतः । निमित्तमात्रत्वं स्पष्टयन् उक्तमेव द्रढयति– जनमिति ॥ जनेन पित्रादिशरीरेण जनं पुत्रादिशरीरं जनयन्नात्मनोऽधीनेन मृत्युना कालरूपेण मारयन् शरीरवियोगं कारयन् वर्तत इत्यन्वयः ॥ ४९ ॥

प्रकाशिका

ननु भगवतोऽप्यन्तवत्त्वे सर्वान्तकरत्वं सादित्वे सर्वजनकत्वं च कथमित्यत आह ॥ सोऽनन्त इति । स्वयमनन्तः सर्वान्तकरो यतः कालः कालनामा । स्वयमनादिरादिकृत् प्रथमकर्ता । मुख्यकर्तेति यावत् । यतोऽव्ययो ज्ञानेच्छादीनां ह्रासशून्यः । नन्वेवं सृष्ट्यादिषु पित्रादेरपि कर्तृत्व-प्रसिद्धिः किं निबन्धना इत्यतस्तेऽपि तदधीना एव कर्तार इत्याशयेनोक्तम् ॥ जनमिति । जनं पुत्रादिरूपमात्मनः स्वस्याधीनेन जनेन पित्रादिना जनयन् आदिकृत् । आत्मनोऽधीनेन मृत्युना यमादिना मारयन्नन्तकर इत्यन्वयः ॥ ४९ ॥

न वै स्वपक्षोऽस्य विपक्ष एव वा परस्य मृत्योर्विशतः समं प्रजाः ।

तं धावमानमनुधावन्त्यनीशा यथा रजांस्यनिलं भूतसङ्घाः ॥ ५० ॥

पदरत्नावली

एवं प्रवर्तमानस्य नैर्घृण्यादिदोषापत्तिर्नास्ति, समत्वादित्याह– न वा इति ॥ वा इत्यनेनावैषम्यादिसूत्रप्रसिद्धिं दर्शयति । समं पुण्यपापानुसारेण । मृत्योः परस्य विलक्षणस्य रुद्रादीनां मारकत्वादिकमेतत्कटाक्षोपक्षिप्तमिति भावेनाह– तं धावमानमिति ॥ ५० ॥

प्रकाशिका

एवं कुर्वतोऽपि न वैषम्यादिदोषप्रसक्तिः कर्मसापेक्षत्वादित्याह ॥ न वा इति । परस्य पालकस्य स्वपक्षो योग्यताद्यतिरेकेण पक्षपातविषयः । मृत्योर्मारकस्य विपक्षो योग्यताद्यतिरेकेण दण्ड््यः । वै श्रुत्यादिप्रसिद्धमेतत् । कुत इत्यतोऽस्य हेतुगर्भं विशेषणमाह ॥ विशत इति । प्रजा जनान्समं यथा भवति तथा । पुण्यपापाद्यनुसारेणेति यावत् । विशतः प्रवेशतः । प्रेरयत इति यावत् । नन्वेवं स्वातन्त्र्यभङ्ग इत्यत आह ॥ तं धावमानमिति । स्वातन्त्र्येण प्रवर्तमानं भगवन्तमनीशाः कर्माद्यधीना भूतसङ्घा अनुधावंत्यनुसृत्य प्रवर्तन्ते । अत्र दृष्टान्तमाह ॥ यथेति । अनिलं धावन्तमनु यथा रजांसि तथैवेत्यर्थः । तथा चानादिकर्मबद्धानां जीवानां तत्कर्मणां च तदधीनत्वान्न तस्य स्वातन्त्र्यभङ्ग इत्याशयः ॥ ५० ॥

आयुषोऽपचयं जन्तोस्तथैवोपचयं विभुः ।

उभाभ्यां रहितः स्वस्थो दुःस्थस्य विदधात्यसौ ॥ ५१ ॥

पदरत्नावली

आयुरादिफलपाचकत्वेनान्तादिकर इत्युक्तं स्पष्टयति– आयुष इति ॥ ५१ ॥

प्रकाशिका

नन्वेवं पुनर्वैषम्याद्यापत्तिरित्यत एतादृशवैषम्यादिकं तस्य स्वभाव एवेत्याशयेनाह ॥ आयुष इति । ऐश्वर्यादेरप्युपलक्षमेतत् । उपचयं वृद्धिम् । दुःस्थस्य स्वाधीनपुण्यपापबद्धस्य जन्तोर् अपचयं ह्रासम् । स्वस्थः पुण्यपापाबद्धोऽत एवोभाभ्यामायुराद्युपचयापचयाभ्यां रहितः । अनेन तस्य स्वातन्त्र्यमुपपादितमिति ज्ञातव्यम् । एतादृशस्य स्वभाव एवासाविति भावः ॥ ५१ ॥

केचित् कर्म वदन्त्येनं स्वभावमपरे नृप ।

एके काले परे दैवं पुंसः काममुतापरे ॥ ५२ ॥

पदरत्नावली

बहवः कालकर्मादिकमस्योत्पत्त्यादेः कारणमिति सङ्गिरन्ते तत्पदार्थतात्पर्या-परिज्ञानादिति सन्तोष्टव्यम् । यतस् तत्तद्वस्तुषु स्थित्वा तत्तत्क्रियार्थप्रवर्तकत्वेन तत्तन्नाम्नाऽयमेवोच्यत इति भावेनाह– केचिदिति ॥ केचिन्मीमांसकाः । अपरे चार्वाकादयः । एके पौराणिकाः । परे मौहूर्तिकाः । अपरे वात्सायनकोविदाः । कामकर्मस्वभावेष्विति वचनात्, अयमेव निश्चीयत इति ॥ ५२ ॥

प्रकाशिका

ननु कालकर्मादिकमपि वेदेषु जगत्कारणतया तत्र तत्रोच्यतेऽतस्तद्विरोध इत्यतस्ते कालकर्मादिशब्दा अपि एतमेव वदन्त्यतो न कोऽपि विरोध इत्याशयेनाह ॥ केचिदिति । केचिद्वे-दद्रष्टारः । एवमपरे इत्यत्रापि वेदद्रष्टार एव विवक्षिताः । तथा च ये ये वेदद्रष्टारः कर्मस्वभावादिकं सर्वकारणतया वदन्ति ते कर्मादिशब्दैः कर्माद्यन्तःस्थितं हरिमेव प्रतिपादयन्त्यतो न कोऽपि विरोध इत्यर्थः । कर्म सर्वकारणतयोच्यमानकर्मशब्दवाच्यमेनमेव वदन्ति । एवं स्वभावमित्यादावपि तथा-विधस्वभावादिशब्दवाच्यमेनं वदन्तीति व्याख्येयम् । कामं तथाविधकामशब्दवाच्यम् । श्रूयते हि कामोऽकार्षीत्कामः करोतीति । पुंसोऽधिकारिणः प्रति वदन्तीत्यन्वयः ॥ ५२ ॥

अव्यक्तस्याप्रमेयस्य नानाशक्त्युदयस्य च ।

न वै चिकीर्षितं तात को वेदाद्धाऽस्य सम्भवम् ॥ ५३ ॥

पदरत्नावली

कामकर्मादिशब्दानां कथं निर्वचनं येन तेषां भगवद्विषयत्वं ज्ञायत इति तत्राह– अव्यक्तस्येति ॥ प्रत्यक्षादिप्रमाणाविषयश्चेत् शून्यकल्पोऽयमित्यत उक्तम्– नानाशक्तीति ॥ कर्मादि-नानाशक्तीनामुदयो यस्मात् स तथोक्तस्तस्य । अनेन परिशेषप्रमाणसिद्धिं सूचयति । चिकीर्षितं कर्तुमिष्टं कर्म । अस्य सम्भवमुत्पत्तिम् । निरुक्तिप्रकारं च को ब्रह्मा वेत्ति चेत् सोप्यद्धा न जानातीत्यर्थः ॥५३॥

प्रकाशिका

नन्वीश्वरो जगत्कारणेषु कर्मकालादिषु तत्तच्छक्त्युद्बोधकतया स्थितस् तत्तच्छब्द-वाच्यरूपवान्किमर्थं भवतीत्यपेक्षायामाह ॥ अव्यक्तस्येति । कर्तरि षष्ठी । अप्रमेयस्य रमयाऽपि साकल्येन ज्ञातुमशक्यस्येत्यर्थः । नानाशक्तीनां कर्मादिनिष्ठानामुदयो यस्मात्तस्यास्य नानारूपधारकस्य । सम्भवं घटकम् । चिकीर्षितं कर्तुमिष्ठम् । को ब्रह्मा अद्धा सम्यक् न वेद । वयं न विद्म इति किं वाच्यमित्याशयः ॥ ५३ ॥

नैवैते पुत्रक भ्रातुर्हन्तारो धनदानुगाः ।

विसर्गादानयोस्तात पुंसो दैवं हि कारणम् ॥ ५४ ॥

पदरत्नावली

एवं सर्वत्र हरेः स्वातन्त्र्यमुपपाद्य फलितमाह– नैवेति ॥ विसर्गादानयो-र्मरणजन्मनोः । विसर्गस्यादानस्याङ्गीकारस्य चेति वा । हिशब्दो हेतौ ॥ ५४ ॥

प्रकाशिका

एवमुपपादितस्य हरिस्वातन्त्र्यस्य प्रकृतोपयोगमाह ॥ नैवैत इति । कुतः । उक्तमेव हेतुमनुवदति ॥ विसर्गेति । विसर्गः सृष्टिरादानं संहारो हि यस्माद्दैवं भगवान् ॥ ५४ ॥

स एव विश्वं सृजति स एवावति हन्ति च ।

अथापि ह्यनहंकारान्नाज्यते गुणकर्मभिः ॥ ५५ ॥

पदरत्नावली

किं तद् दैवमित्यतो यज्जगत्कारणं ब्रह्म तदेवात्रोक्तमिति सृष्ट्यादिविशेषणै-र्विशिनष्टि– स एवेति ॥ कर्दमक्षेत्रप्रवृत्तदेवदत्तवदस्य गुणकर्मलेपो नास्ति, अहं कर्तेत्यभिमानाभावा-दित्याह– अथापीति ॥ ५५ ॥

प्रकाशिका

एतेऽपि हन्तारः किं न स्युरित्याशङ्कां पराकुर्वंस्तस्य न लेप इत्याह ॥ स एवेति । गुणैः सत्त्वादिभिः कर्मभिः पुण्यपापैर्नाज्यते न सम्बद्ध्यते ॥ ५५ ॥

एष भूतानि भूतात्मा भूतेशो भूतभावनः ।

स्वशक्त्या मायया युक्तः सृजत्यत्ति च पाति च ॥ ५६ ॥

पदरत्नावली

अनेनापि गुणकर्मलेपः कथमुद्घाटित इति तत्राह– एष इति ॥ स्वशक्त्या स्वाधीनया, स्वरूपशक्त्या वा ॥ ५६ ॥

प्रकाशिका

नन्वेवं प्रकृत्यादीनां कारणताप्रतिपादकश्रुत्यादिविरोध इत्यत आह ॥ एष इति । स्वस्य शक्तिर्नियामिका यस्याः सा तथा तया मायया चेतनाचेतनरूपया प्रकृत्या । कालकर्मादे-रप्युपलक्षकमेतत् । अनेन प्रकृत्यादेरस्वातन्त्र्यकारणत्वम् । स एवेत्यवधारणं तु स्वतन्त्रकारणान्तर-निषेधाभिप्रायेण । अतो न कोऽपि विरोध इत्युक्तं भवति । यतो भूतात्मा भूतानामादानादिकर्ताऽतः सृजति । सर्जनाभावे तदादानाद्यनुपपत्तेः । यतो भूतानामीशो रुद्रोऽतोऽत्ति । यतो भूतानि भावयति वर्धयतीति भूतभावनोऽतः पातीति योज्यम् ॥ ५६ ॥

तमेव मृत्युममृतं तात दैवं सर्वात्मनोपैहि जगत्परायणम् ।

यस्मै बलिं विश्वसृजो हरन्ति गावो यथा वै नसि दामयन्त्रिताः ॥ ५७ ॥

पदरत्नावली

कार्यपदप्रयोगाभावान् नेदमनुष्ठातुं योग्यमित्याशङ्क्येवं विधं दैवमिति गुणान्तर-समर्पणेनोपसंहरति– तमेवेति ॥ अमृतं नित्यमुक्तम् । नसि नासिकायाम् । यन्त्र बन्धन इति धातुः । दाम्ना यन्त्रिता बद्धाः ॥ ५७ ॥

प्रकाशिका

उपसंहरति ॥ तमेवेति । तस्मादिति शेषः । मृत्युं मारकममृतं मरणरहितम् । नसि नासिकायां यन्त्रिताः । यन्त्र बन्धन इति धातुः । दाम्ना बद्धाः ॥ ५७ ॥

यः पञ्चवर्षो जननीं त्वं विहाय मातुः सपत्न्नया वचसा भिन्नवर्मा ।

वनं गतस्तपसा प्रत्यगक्षमाराध्य लेभे मूर्ध्नि पदं त्रिलोक्याः ॥ ५८ ॥

पदरत्नावली

श्रीनारायणप्रसादेनावाप्तसमस्तसंपदस् तव तन्नियतभूतद्रोहो न घटत इति भावेनाह– यः पञ्चवर्ष इत्यादिना ॥ सर्वप्राणिनः प्रति प्रतिगतमक्षमिन्द्रियं यस्य स तथा तम् । अनेन मया क्रियमाणं कर्म नासौ पश्यतीत्येतत् परिहृतम् ॥ ५८ ॥

प्रकाशिका

एतादृशस्य हरेराराधनं तव न दुर्घटमित्याशयेनाह ॥ यः पञ्चवर्ष इति । यः पञ्चवर्षः स त्वं यमाराध्य त्रिलोक्या मूधर्ि्न विद्यमानं पदं स्थानं लेभे लब्धवानसि । तमेवेदानी-मन्विच्छेत्युत्तरेणान्वयः । प्रत्यञ्चि अक्षीणि यस्मिंस्तम् ॥ ५८ ॥

तमेवमङ्गात्मनि मुक्तविग्रहैर्व्यपाश्रितं निर्गुणमेकमक्षरम् ।

आत्मानमन्विच्छ १विमुक्तिमात्मदृग् यस्मिन्निदं भिन्नमसत् प्रतीयते ॥ ५९ ॥

पदरत्नावली

विमुक्तविग्रहैर्योगिभिर्व्यपाश्रितं निषेवितम् । अनेन भूतविग्रहोऽस्य प्रियो न भवतीत्युक्तं निर्गुणमावृत्तिशून्यं, कुपितत्वात् पुनःप्रसादानभिमुखमित्यर्थः । भूतद्रोहे क्रुद्धस्यास्य तपसाऽपि पुनः प्रसादापादनं दुष्करं तवेति ध्वनितम् । शब्दाद्यविषयं वा, वागादिनाऽपि प्रसादयितुं दुःशकमित्यर्थः । कुतः ? निर्गुणमतीन्द्रियम्, इन्द्रियाविषयत्वादित्यर्थः । ‘गुणस्त्वावृत्तिशब्दादि-ज्येन्द्रियामुख्यतन्तुषु’ इति यादवः । एकं केवलमक्षरं मूलकारणम् । आत्मानं परमात्मानम् । विशिष्टा मुक्तिर्यस्मात् स तथा तम् । एवंगुणविशिष्टं हरिमात्मनि हृद्यन्विष्यालोक्य भजस्वेत्यन्वयः । तत्स्वरूपं कीदृशमिति न प्रश्नार्ह इति भावेनोक्तम्– आत्मदृगिति ॥ पूर्वमात्मानं दृष्टवान् इति यत् तस्मात् । कथमित्यत उक्तम् । असदस्वतन्त्रं भिन्नं पञ्चविधभेदोपेतमिदं चेतनाचेतनात्मकं विश्वं यस्मिन् यदाधारतया प्रतीयत इति ॥ ५९ ॥

प्रकाशिका

हरिभक्तस्य तव नैवंविधभूतद्रोहो युक्त इत्याशयेनाह ॥ तमेवेति । आत्मनि मनसि मुक्तविग्रहैः परित्यक्तविरोधैर्योगिभिर्व्यपाश्रितं निषेवितम् । अनेन भूतविग्रहोऽस्य प्रियो न भवतीति सूचयति । निर्गुणं सत्त्वादिगुणकृतविकारशून्यम् । एकं सर्वोत्तममक्षरं देहनाशशून्यमात्मानं परमात्मान-मन्विच्छ । आराधयितुमिति शेषः । विमुक्तिं विशिष्टा मुक्तिर्यस्मात्तमात्मदृक् सन् पुनः परमात्मा-परोक्षज्ञानी भूत्वेत्यर्थः । भिन्नं पञ्चविधभेदोपेतमिदं विश्वं यस्मिन्यदाश्रितं वर्ततेऽत एवासदस्वतन्त्रं प्रतीयते ॥ ५९ ॥

त्वं प्रत्यगात्मनि सदा भगवत्यनन्त

आनन्दमात्र उपपन्नसमस्तशक्तौ ।

भक्तिं विधाय परमां शनकैरविद्या-

ग्रन्थिं विभेत्स्यसि ममाहमिति प्ररूढाम् ॥ ६० ॥

पदरत्नावली

ननु आत्मदर्शिनो मम संसारपाशच्छेदः किमिति नाभूदित्यतस्तादृग्गुणानुपसंहृत्य बिम्बोपास्त्यभावादतस्तथोपास्तौ स स्यादिति भावेन तदुपास्तिप्रकारं विदधान आह– त्वं प्रत्यगात्म-नीति ॥ प्रत्यगात्मनि तवाभिमुखे बिम्बरूपे भक्तिमुपास्तिलक्षणां सेवाम् । अन्यत्रानुपपन्ना अत्रोपपन्ना अविरुद्धा समस्ता अस्थूलानण्वादिलक्षणाः शक्तयो यत्र स तथा तस्मिन् ॥ ६० ॥

प्रकाशिका

नन्वेतादृशभूतद्रोहकारणाहङ्कारजनकाविद्याग्रन्थिच्छेदो मम कथं भविष्यतीत्य-पेक्षायामाह ॥ त्वमिति । प्रत्यगात्मन्यन्तःस्थिते परमात्मनि । लोकदृष्ट्या विरुद्धा अप्यत्रो-पपन्नाः समस्ताः शक्तयो यस्मिन् । परमामितोऽप्यधिकाम् । ममाहमिति बुद्धिजननेन प्ररूढा-मुन्मूलयितु-मशक्याम् ॥ ६० ॥

संयच्छ रोषं भद्रं ते प्रतीपं श्रेयसां परम् ।

श्रुतेन भूयसा राजन्नगदेन यथाऽऽमयम् ॥ ६१ ॥

पदरत्नावली

तत्र प्रथमसाधनमिदमित्याह– संयच्छेति ॥ ६१ ॥

प्रकाशिका

तत्रेदं प्रथमसाधनमित्याशयेनाह ॥ संयच्छेति । प्रतीपं प्रतिकूलमगदेनौषधेनामयं रोगं यथा नियच्छति तथा ॥ ६१ ॥

येनोपसृष्टात् पुरुषाल्लोक उद्विजते भृशम् ।

न बुधस्तद्वशं गच्छेदिच्छन्नभयमात्मनः ॥ ६२ ॥

पदरत्नावली

श्रेयसां प्रतीपत्वं कथम् ? अत्राह– येनेति ॥ येन रोषेणोपसृष्ठादुपरक्तात् । सज्जनानुग्रहस्यापेक्षितत्वाद् लोको ज्ञानिजनोऽत्रोच्यते । लुक् प्रकाश इति धातोः ॥ ६२ ॥

प्रकाशिका

कुतो रोषसंयमनं मया कार्यमित्यतोऽत्र सामान्यन्यायमाह ॥ येनेति । येन यदर्थेनोपसृष्टात् सम्बद्धात् ॥ ६२ ॥

हेलनं गिरिशभ्रातुर्धनदस्य त्वया कृतम् ।

यज्जघि्नवान् पुण्यजनान् भ्रातृघ्नानित्यमर्षितः ॥ ६३ ॥

तं प्रसादय वत्साशु सन्नत्या प्रश्रयोक्तिभिः ।

न यावन्महतां तेजः कुलं नाभिभविष्यति ॥ ६४ ॥

पदरत्नावली

वैश्रवणस्य सत्स्वेकत्वेनास्यावज्ञाननिमित्तरोषोऽपि परिहरणीय इत्याह– हेलन-मित्यादिना ॥ वैश्रवणे हेलनमपि शिवावज्ञानं स्यात्, तदवज्ञानेन श्रीनारायणविषयज्ञानमपि नोदेतीत्यभिप्रायेणोक्तम्– गिरिशभ्रातुरिति ॥ अत एव महतामिति बहुवचनम् ॥ ६३,६४ ॥

प्रकाशिका

हरिभक्तद्रोहकरत्वाच्च न यक्षवधस्तव न युक्त इत्याह ॥ हेलनमिति । हेलन-मवज्ञा । गिरिशस्य रुद्रस्य भ्रातेव भ्राता सखा तस्य धनदस्य कुबेरस्य ॥ तं कुबेरं सन्नत्या साष्टाङ्ग-प्रणामेन ॥ ६३,६४ ॥

इत्युक्तस्तं प्रणम्याह भगवंस्तेऽनुशासनम् ।

आतिष्ठे भ्रातृमात्रोर्मे शोचतः क्षम्यतामिति ॥ ६५ ॥

मैत्रेय उवाच–

एवं स्वायम्भुवः पौत्रमनुशास्य मनुर् ध्रुवम् ।

तेनाभिवन्दितः साकमृषिभिः स्वपुरं ययौ ॥ ६६ ॥

पदरत्नावली

ध्रुवस्य च सत्तमत्वाद् गुर्वनुशासनानुज्ञानं तथा मनोश्च पौत्रमभिनन्द्य स्वपुरगमनं वक्ति– इत्युक्त इति ॥ शोचत इत्यनेन पूर्ववैरानुसन्धानेन ध्रुवेण तूष्णीं स्थितं भ्रातृमातृमरणप्रतिक्रियां कर्तुं समर्थेनापीति जनश्रुतिं परिहर्तुमिव यक्षवधे प्रवृत्तमिति ध्वनयति ॥ ६५ ॥

॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुकृतायां चतुर्थस्कन्धे एकादशोऽध्यायः ॥

प्रकाशिका

भ्रातृमात्रोरिति तादर्थ्ये षष्ठी ॥ ६५,६६ ॥

**॥ इति श्रीमद्वेदेशपूज्यपादशिष्येण यदुपतिना विरचितायां **

श्रीमद्भागवतटिप्पण्यां चतुर्थस्कन्धे एकादशोऽध्यायः ॥ ४-११ ॥