१० दशमोऽध्यायः

त एवमुत्सन्नभया उरुक्रमे कृतप्रणामाः प्रययुस्त्रिविष्टपम्

अथ दशमोऽध्यायः

मैत्रेय उवाच–

त एवमुत्सन्नभया उरुक्रमे कृतप्रणामाः प्रययुस्त्रिविष्टपम् ।

सहस्रशीर्षाऽपि ततो गरुत्मता मधोर्वनं भृत्यदिदृक्षयागतः ॥ १ ॥

पदरत्नावली

हरेः केवलं मोक्षाख्यपुरुषार्थस्य प्राप्तिरेव न किन्त्वैहिकस्यापीतीममर्थं प्रतिपादयत्यस्मिन्नध्याये । तत्रादौ देवानां स्वलोकगमनं हरेर्मधुवनयात्रां च वक्ति– त एवमिति ॥ सहस्रशीर्षा श्रीवासुदेवः । ‘गरुत्मान् गरुडस्तार्क्ष्यः’ इत्यभिधानम् ॥ १ ॥

प्रकाशिका

ते देवा एवं भगवद्वाक्येनोत्सन्नभया नष्टभयाः सन्तः सहस्रशीर्षा वासुदेवो गरुत्मता गरुडेन सह । तदारूढ इति यावत् ॥ १ ॥

स वै धिया योगविपाकतीव्रया हृत्पद्मकोशे स्फुरितं तडित्प्रभम् ।

तिरोहितं सहसैवोपलक्ष्य बहिः स्थितं तदवस्थं ददर्श ॥ २ ॥

पदरत्नावली

ध्रुवस्य हरिदर्शनप्रकारं वक्ति– स वा इति ॥ योगपरिपाकेन ध्यानपरिणत्या तीव्रया स्वत एव भगवदुन्मुख्या । तदवस्थं हृत्पद्मकोशे याऽवस्था तया विशिष्टम् ॥ २ ॥

प्रकाशिका

योगो ध्यानं तस्य विपाकः परिणामस्तेन तीव्रया यत्नाभावेऽपि भगवन्मुखया । तिरोहितमुपलक्ष्य ज्ञात्वा तस्य हृत्पद्मगतस्यावस्था यस्य स तदवस्थस्तम् । हृत्पद्मगतस्था तादृशावस्थाविशिष्टमित्यर्थः ॥ २ ॥

तद्दर्शनेनागतसाध्वसः क्षिताववन्दताङ्गं विनिमय्य दण्डवत् ।

दृग्भ्यां प्रपश्यन् प्रपिबन्निवार्भकश्चुम्बन्निवास्येन भुजेन चाश्लिषन् ॥ ३ ॥

पदरत्नावली

गुरूक्तगुणानुपसंहृत्य भगवदुपास्तौ शक्तस्य ध्रुवस्य किं पुनर्वन्दनादाविति भावेन तत्प्रावण्यप्रकारमाह– तद्दर्शनेति ॥ आगतसाध्वसः प्राप्तसम्भ्रमः । बालस्वाभावं दर्शयन्निव भक्त्यतिशयमाह– दृग्भ्यामिति ॥ ३ ॥

प्रकाशिका

आगतसाध्वसः प्राप्तसम्भ्रमः । विनिमय्यानतं कृत्वा । सम्भ्रममेवाह ॥ दृग्भ्यामिति । दृग्भ्यां चक्षुर्भ्यां प्रपिबन्निवास्येन चुंबन्निव भुजैर्भुजाभ्यामाश्लिष्यन्निव प्रपश्यन् अवन्दत ॥ ३ ॥

स तं विवक्षन्तमतद्विदं हरिर्ज्ञात्वाऽस्य सर्वस्य च हृद्यवस्थितः ।

कृताञ्जलिं ब्रह्ममयेन कम्बुना पस्पर्श बालं कृपया कपोले ॥ ४ ॥

पदरत्नावली

भक्तानुकम्पित्वं प्रकटयतो हरेस्तदनुग्रहविशेषमाह– स तमिति ॥ विवक्षन्तं स्तुतिरूपां वाचं वक्तुकामम् । न तद् ब्रह्मतत्वं वेत्तीत्यतत्ववित् तम् । ब्रह्ममयेन वेदमयेन ‘पाञ्जजन्यो वा एष आम्नाय उदितः’ इति श्रुतेः । कम्बुना पाञ्चजन्याख्यशङ्खेन ॥ ४ ॥

प्रकाशिका

विवक्षन्तं स्तुतिरूपां वाचं वक्तुमिच्छन्तमतद्विदं स्तुतिरूपवचनविन्न भवतीत्यतद्वित्तं सर्वस्य हृद्यवस्थितो यतोऽस्य च ध्रुवस्यापि हृद्यवस्थितोऽतो ज्ञात्वा । ब्रह्ममयेन वेदात्मकेन । तदभिमानिदेवताभिमन्यमानेनेति यावत् । पाञ्चजन्यो वा एष आम्नाय उदित इति श्रुतेः । कंबुना पाञ्चजन्याख्यशङ्खेन ॥ ४ ॥

स वै तदैव प्रतिपद्य तां गिरं दैवीं परिज्ञातपरात्मनिर्णयः ।

तद्भक्तिभावोऽभ्यगृणादसत्वरं परिश्रितोरुश्रवसं ध्रुवक्षितिम्१ ॥ ५ ॥

पदरत्नावली

तत्फलमाह– स वा इति ॥ स वै सोऽपि । या गीः पूर्वमज्ञाता तां गिरम् । दैवीं देवः सर्वेषु देवेषु गुणैर्द्योतमानस्तद्विषयां गिरम् । उपलब्धिफलमाह– परिज्ञातेति ॥ यावत् स्वयोग्यं परितो ज्ञातः परमात्मनस्तत्वनिर्णयो येन स तथोक्तः, तद्भक्त्या भावो रोमाञ्चनादिक्रियाविशेषो यस्य स तथोक्तः, ‘भावो लीला क्रिया च’ इति यादवः । असत्वरमिति क्रियाविशेषणम् । यथा स्खलितं न भवति तथा । अनेन संग्रस्तलुप्तादिबालवचनस्वभावं व्यावर्तयति । अत्वरया सह वर्तत इत्यसत्वरस्तमिति भगवद्विशेषणम् । परिश्रितं व्याप्तमुरु बृहत् श्रवणमङ्गलं श्रवो यशो यस्य स तथा तम् । ध्रुवा नित्या क्षितिर्वैकुण्ठादिस्थानं यस्य स तथा तम् । ध्रुवः क्षितिमिति वा पाठः । क्षि निवास गत्योरिति धातोः क्षितिं गतिमित्यर्थः ॥ ५ ॥

प्रकाशिका

या गीः पूर्वमज्ञाता तां गिरं वेदात्मिकां स्तुतिम् । दैवीं देवो हरिस्तद्विषयाम् । यावत्स्वयोग्यं परितो ज्ञातः परमात्मनस्तत्त्वनिर्णयो येन स तथोक्तः । तद्भक्त्या भावो रोमाञ्चनादिक्रिया यस्य स तथोक्तः । भावो लीला क्रीयेत्यभिधानात् । असत्वरमिति क्रियाविशेषणम् । द्रुतोच्चारणादिकं यथा न भवति तथेति । त्वरया सहितः सत्वरो न सत्वरोऽसत्वरस्तं स्थिरतया । अवस्थित इति भगवद्विशेषणं वा । परितः स्थितं व्याप्तमुरु बृहच्छ्रवः मङ्गलं श्रवणं यस्य स तथा तम् । ध्रुवक्षितिं ध्रुवा नित्या स्थितिर्वैकुण्ठादिस्थानं यस्य स तथा तम् । ध्रुवः क्षितिमिति वा पाठः । क्षि निवासगत्योरिति धातोः । क्षितिं गतिमित्यर्थः ॥ ५ ॥

ध्रुव उवाच–

योऽन्तः प्रविश्य मम वाचमिमां प्रसुप्तां

संजीवयत्यखिलशक्तिधरः स्वधाम्ना ।

अन्यांश्च हस्तचरणश्रवणत्वगादीन् ।

प्राणान् नमो भगवते पुरुषाय तुभ्यम् ॥ ६ ॥

पदरत्नावली

यदीयं स्तुतिर्वेदसिद्धगुणानुरूपा तर्हि ब्रह्ममयेत्युक्तिः सफला स्यादित्यत-स्तत्सिद्धैर्गुणैरभिष्टौति– योऽन्तरिति ॥ प्रसुप्तां निद्रितामिमां वैखरीं नाम वाचं सञ्जीवयति संस्कारात्मना बोधयति । अन्यान् हस्तादीन् प्राणानिन्द्रियाणि स्वस्वविषयाणि करोति तस्मै तुभ्यं नम इत्यन्वयः । ‘असुप्तः सुप्तानभिचाकशीति’ इति श्रुतिः । ‘ब्रह्मणो वा एतानि करणानि’ इति च ॥६॥

प्रकाशिका

यो मम प्रसुप्तां स्तोत्रेऽसमर्थां वाचं वागिन्द्रियमन्यांश्च प्राणानिन्द्रियाणि । स्वधाम्ना स्वसामर्थ्येनाखिलशक्तिधर इन्द्रियतदभिमानिदेवताशक्तिप्रेरकः सञ्जीवयति । स्वस्वविषयव्यापारो-न्मुखान्करोति । तस्मै पुरुषाय देहान्तर्नियामकाय तुभ्यं नमः ॥ ६ ॥

एकस्त्वमेव भगवन्निदमात्मशक्त्या

मायाख्ययोरुगुणया महदाद्यशेषम् ।

सृष्ट्वाऽनुविश्य पुरुषस्तदसद्गुणेषु

नानेव दारुषु विभावसुवद् विभासि ॥ ७ ॥

पदरत्नावली

पुरि शयनात् पुरुषश्चेत् पुराणां नानात्वाद्धरेरपि नानात्वेनाद्वितीयत्वभङ्ग इति तत्राह– एकस्त्वमिति ॥ एकस्यापि विभावसुवदग्निवन् नानात्वमविरुद्धमित्यर्थः । ‘तत् सृष्ट्वा तदेवानुप्राविशत् तदनुप्रविश्य सच्च त्यच्चाभवत्’ इति श्रुतिः । तस्या असन्तोऽमङ्गला गुणाः सत्वादयो येषु महदादिषु ते तथा, तेषु । अनेन स्वगतभेदराहित्यं पुरुषशब्दप्रवृत्तिनिमित्तं चोक्तं भवति । पुरि शयनात् पुरुष इति । एकमेवाद्वितीयमिति च ॥ ७ ॥

प्रकाशिका

ननु पुराषाणां नानात्वात्तद्गतस्य हरेरपि नानात्वप्राप्तौ कथं य इत्याद्येकवचनेनैकत्वं तस्योक्तमित्यत आह ॥ एकस्त्वमिति । आत्माधीनतया शक्यत्वाच्छक्तिशब्दवाच्यया प्रकृत्या उरवो गुणाः सत्त्वाद्या यस्यास्तया इदं महदाद्यशेषं सृष्ट्वाऽनुविश्यानुप्रवेशेन यः पुरुषशब्दवाच्यः स त्वम् । तस्याः प्रकृतेरसन्तोऽमङ्गला गुणाः सत्त्वादयो येषु ते तथा तेषु सात्त्विकादिरूपेषु कार्येष्वित्यर्थः । दारुषु काष्ठेषु विभावसुरग्निर्यथा विभाति ॥ ७ ॥

त्वद्दत्तया वयुनयेदमचष्ट विश्वं

सुप्तः प्रबुद्ध इव नाथ भवत्प्रपन्नः ।

तस्यापवर्ग्यशरणं तव पादमूलं

विस्मर्यते कृतधिया कथमार्तबन्धो ॥ ८ ॥

पदरत्नावली

अस्मिन्नर्थे किं प्रमाणम् ? अत्राह– त्वद्दत्तयेति ॥ वयुनया ज्ञानेन । कृतधिया कृतज्ञेन । अनेन दातृदेययोर्हि भेदं दातुरेकत्वं विश्वस्य हर्यधीनत्वं च पश्यतो ज्ञानिनः प्रत्यक्षं प्रमाण-मित्युक्तं भवति । अचष्टापश्यत् । ‘सोऽज्ञानाद् विमुक्तो ज्ञानी भवति’ इति श्रुतिं सूचयति सुप्तः प्रबुद्ध इवेत्यनेनेति ॥ ८ ॥

प्रकाशिका

ममैतादृशं ज्ञानं त्वदधीनमिति किं वाच्यम् । यतो ब्रह्मणोऽपि ज्ञानं त्वदधीनमिति वदंत्येव । त्वत्कृतोपकारं विस्मरन्ति ते कृतघ्ना इत्याह ॥ त्वद्दत्तयेति । वयुनया ज्ञानेनाचष्टापश्यत् । कथं सुप्तः पुरुषः प्रबुद्धः सन् यथा पश्यति तद्वत् । यत आपवर्ग्या मुक्तास्तेषामपि शरणम् । कृतधिया कृतज्ञेन कथं विस्मर्यते । न कथमपि । एवं भूतं त्वां विस्मरन्तः कृतघ्ना एवेत्याशयः ॥ ८ ॥

नूनं विमुष्टमतयस्तव मायया ते

ये त्वां भवाप्ययविमोक्षणमन्यहेतोः ।

अर्चन्ति कल्पकतरुं कुणपोपभोग्य-

मिच्छन्ति यत् स्पर्शजं निरयेऽपि नॄणाम् ॥ ९ ॥

पदरत्नावली

भगवत्प्रसादादेव भगवद्विषयं ज्ञानं स्यात् । तदेव विपक्षे बाधकप्रदर्शनेन द्रढयति– नूनमिति ॥ ये अन्यस्य हेयत्वेनानित्यस्य सुखस्य हेतोर्भवाप्ययविमोक्षणं जननमरणात्मकसंसारमुक्तिदं कल्पकतरुमिव भक्ताभीष्टदं त्वामचर्यन्ति ते तव मायया बन्धकशक्त्या विमुष्टमतय इत्यन्वयः । विषयसुखं दुर्लभं चेत् कथं निन्द्यं स्यादित्यत उक्तम्– कुणपेति ॥ निरयेऽपि सुलभमित्यर्थः । यच्छब्दो हेत्वर्थः ॥९॥

प्रकाशिका

एतादृशोपकारिणं मामर्चन्तोऽपि केचित्कुतो न मुच्यन्त इत्यपेक्षायां ते त्वयैव वञ्चितचित्ताः पुनः संसरन्तीत्याह ॥ नूनमिति । भवाप्ययविमोक्षणं जननमरणात्मकसंसारमुक्तिदम् । कल्पतरुं कल्पवृक्षवत्सर्वाभीष्टप्रदम् । त्वामन्यहेतोः कामाद्यर्थं येऽर्चन्ति ते नूनं विमुष्टमतयो वञ्चित-चित्ताः । कुतः । यतो यस्य विषयजातस्य स्पर्शजं सम्बन्धेन जायमानं सुखं नरकेऽपि नृणां सुलभम् । तत्कुणपतुल्येन देहेनोपभोग्यं विषयसुखमिच्छन्ति । तस्मादन्यकामान्विहायैव त्वद्ध्यानादिरूपमर्चनं मोक्षार्थं कार्यमित्याशयः ॥ ९ ॥

या निर्वृतिस्तनुभृतां तव पादपद्म-

ध्यानाद् भवज्जनकथाश्रवणेन वा स्यात् ।

सा ब्रह्मणि स्वमहिमन्यपि नाथ मा भूत्

किम्वन्तकासिलुलितात् पततां विमानात् ॥ १० ॥

तात्पर्यम्

परब्रह्मणि स्थितस्य ध्यानादिकं विना न भवति । सुप्तौ दृष्टत्वात् ॥ १० ॥

पदरत्नावली

भवान् भगवत्प्रसाद एव प्रार्थनीय इति रोचयति तस्मात् किं फलं दृष्ट्वेति तत्राह– या निर्वृतिरिति ॥ या निर्वृतिः स्वमहिमनि अनन्याधारलक्षणस्वमाहात्म्ये ब्रह्मणि परब्रह्मणि स्थितस्य जीवस्यापि मा भूद् ध्यानादिकमन्तरेण न स्यात्, कुतः ? ‘तदु यत्रैतत् सुप्तः समस्तः संप्रसन्नः स्वप्नं न विजानाति एष आत्मेति होवाचैतदमृतमेतदभयमेतद् ब्रह्मेति । स ह शान्तहृदयः प्रवव्राज । सहाप्राप्यैव देवानेतद् भयं ददर्श । नाहं खल्वयमेवं संप्रत्यात्मानं जानात्ययमहमस्मीति नो एवेमानि भूतानि विना शमेवापीतो भवति नाहमत्र भोग्यं पश्यामि’ इति श्रुतौ सुप्तौ तत्स्थत्वेऽपि ध्यानाभावात् सुखानु-भवाभावस्य दृष्टत्वादितीममर्थमपिपदेन ध्वनयति । स्वमहिमनि ब्रह्मणि सुखं नास्तीति योजना ‘अथ कस्मादुच्यते ब्रह्मेति बृहन्तो ह्यस्मिन् गुणाः’ ‘एष ह्येवानन्दयति’ इत्यादिश्रुतिविरुद्धत्वेनोपेक्षणीया । यतः स्थितस्येत्यध्याहारो युक्तिसिद्धत्वादंगीक्रियते । ननु तर्हि स्वर्गाद्यैश्वर्यं तत्फलं किं न स्यात् ? ज्ञानादेव सर्वे कामाः सम्पद्यन्त इति श्रुतेरिति तत्राह– किम्विति ॥ अन्तकस्य हरेर् भ्रूविभ्रमलक्षणेनासिना विलुलितात् पर्यस्ताद् विमानात् पततां पुंसां सा निर्वृतिर्न स्यादिति किमु । एतदुक्तं भवति कर्मसाध्यज्ञानात् स्वर्गादिलक्षणविमानं प्राप्य इतस्ततो नन्दनादिषु विहारार्थं पततां गच्छतां पुंसां सा निर्वृतिर्नास्तीति किमु वक्तव्यमिति । विमानाद्भ्रश्यतामित्यर्थाङ्गीकारे तत्र दुःखप्राचुर्यात् सा निर्वृतिर्न स्यादिति वक्तुमयुक्तत्वादुक्त एवार्थः । अन्तकासिलुलितत्वमनित्यत्वद्योतनायोक्तमिति ज्ञातव्यम् । अत्र ध्यानं ज्ञानोत्पत्तावन्तरङ्गसाधनम् । कथाश्रवणं तत्साधनम् । श्रुतगुणानां पश्चा-दुपसंहारोपपत्तेरिति ज्ञातव्यम् । अधिकारिणामनन्तत्वात् तत्तद्योग्यताविशेषादेवमुक्तमिति वा ॥ १० ॥

प्रकाशिका

नन्वेवमन्यकामनां विहाय मोक्षकामनया त्वद्ध्यानादिकं कुर्वतां मोक्षकामनामपि विहाय केवलं त्वत्प्रीत्यर्थमेव तत्कुर्वतां च को विशेषो येन ते मोक्षाशामपि त्यजन्तीत्यपेक्षायां तेषां ध्यानादिना जीवन्मुक्तदशायामेव मोक्षकामानां परममुक्तिगताभिव्यक्तपूर्ण स्वरूपसुखापेक्षयाऽधिक-स्वरूपसुखाभिव्यक्तिर्भवति । किमु परममुक्तिदशायामित्याशयेनाह ॥ या निर्वृतिरिति । अत्र सा ब्रह्मणि चतुर्मुखे नास्तीति प्रतीतिवारणाय स्थितस्येति पदमध्याहृत्य योजयति ॥ परब्रह्मणीति । मुक्तस्यापीत्यर्थः । नन्विदमपि बाधितम् । मुक्तस्याधिकारिकदेवादेरभिव्यक्तक्लृप्तपूर्णसुखवत्त्वादित्यत उक्तम् । ध्यानादिकं विना परब्रह्मणि स्थितस्यापीति ॥ ज्ञानोत्तरं बहुतरध्यानाद्यकरणेऽपि मुक्त-स्येत्यर्थः । अल्पमुक्तस्येति यावत् । यद्यप्याब्रह्मणीति विच्छिद्याल्पमुक्तेऽपीति व्याख्यातुं शक्यम् । तथाऽपि तनुभृतामिति षष्ठ्यन्तस्य पूर्वमुक्तत्वात्पततामिति वक्ष्यमाणत्वाच्चात्रापि स्थितस्येत्यध्याहृत्यैव योजितमित्यवगन्तव्यम् । न भवतीत्यनेन मा भूदित्येतदुक्ततात्पर्यम् । ननूत्तमाधिकारिणामप्यधिकस्वरूप-सुखाभिव्यक्तौ परब्रह्मप्राप्तिरेव निमित्तं न ध्यानादिकं येनाल्पमुक्ते तदभावेनाधिकसुखाभिव्यक्त्यभाव इत्यत उक्तम् ॥ सुप्ताविति । ‘‘प्राज्ञेनात्मना संपरिष्वक्तः’’ इत्यादिप्रमाणप्रसिद्धाया ब्रह्मप्राप्तेः सुप्तौ सत्वेऽपि नाधिकसुखस्याविर्भावो दृष्टः । ध्यानाद्यभावात् । अतो ध्यानादिकमपि तत्र निमित्तं न ब्रह्मप्राप्तिमात्रमित्यर्थः ॥ ततश्चायं श्लोकार्थः ॥ तनुभृतां विस्तृतब्रह्मोपासकानां मोक्षकामनामपि परित्यज्य भजतां रसिकानां तव पादपद्मध्यानाद्भवज्जनकथाश्रवणेन भवतो भवज्जनानां च कथायाः । वाशब्दोऽधिकारिविशेषसूचकः । श्रवणेन या निर्वृतिर्यत्सुखं स्यात्सा निर्वृतिः स्वरूपसुखाभिव्यक्तिः स्वमहिमन्यनन्याधीनमाहात्म्योपेते परब्रह्मणि स्थितस्याल्पमुक्तस्यापि मुक्त्यनन्तरभाविना ध्यानादि-व्यञ्जकेन विना परब्रह्मप्राप्तिमात्रेण मा भून्न भवति । सुप्तौ परब्रह्मप्राप्तावपि सुप्त्यनन्तरं परब्रह्मध्यान-दर्शनाद्यभावेन मुक्तिसुखाभावस्य दृष्टत्वात् । अन्तकस्य हरेरसिस्थानीयेन कालचक्रेण लुलिता-त्खण्डिताद्विमानात्पततां स्वर्गादिनिवासिनां सा नास्तीति किमु वक्तव्यम् । तथा च मोक्षकामनामपि परित्यज्य भजतामुत्तमाधिकारिणां परममुक्तिदशायामधिकस्वरूपसुखाभिव्यक्तिर्भवतीति किं वाच्य-मित्याशयः ॥ १० ॥

भक्तिं मुहुः प्रवहतां त्वयि मे प्रसङ्गो

भूयादनन्त महताममलाशयानाम् ।

येनाञ्जसोल्बणमुरुव्यसनं भवाब्धिं

नेष्ये १भवद्गुणकथामृतपानमत्तः ॥ ११ ॥

पदरत्नावली

भवज्जना भगवद्भक्तास् तेषां मुखनिःसृताया भगवत्कथायाः श्रवणलक्षणोपासन-येत्युक्तम् । तत्र भवज्जनस्य चरितलक्षणकथाश्रवणेनेतीममर्थमभिप्रेत्य भवज्जनसंगतौ भवत्कथासु श्रवणं सुलभं स्यादिति मत्वा तत्संगतिं प्रार्थयते– भक्तिं मुहुरिति ॥ येन प्रसङ्गेन भवाब्धिं नेष्ये तरिष्यामि । न प्राप्स्यामीति वा । इषु गताविति धातुः ॥ ११ ॥

प्रकाशिका

तर्हि तादृशभक्तसङ्गतिः कथाश्रवणाय मम भूयादित्याशास्ते ॥ भक्तिमिति । भक्तिं त्वयि प्रवहतामविच्छेदेन कुर्वताम् । येन महत्प्रसङ्गेन सम्यगंजसाऽयत्नत एव । उरूणि व्यसनानि यस्मिन् । नेष्ये पारं गमिष्यामि । भवद्गुणकथैवामृतं तस्य पानेन मत्त इतरविषयस्मरणशून्यः सन् ॥ ११ ॥

ते न स्मरन्त्यतितरां प्रियमीशमाद्यं

स्वान् संपदः सुतसुहृद्गृहवित्तदारान् ।

ये त्वब्जनाभ भवदीयपदारविन्द-

सौगन्ध्यलुब्धहृदयेषु कृतप्रसङ्गाः ॥ १२ ॥

तात्पर्यम्

ये स्वान् सम्पदः स्मरन्ति ते त्वां न स्मरन्ति । ये भगवद्भक्तसङ्गास् ते स्वान् सम्पदो न स्मरन्ति ॥ १२ ॥

पदरत्नावली

भक्तानां लक्षणमाह– तेनेति ॥ ये स्वान् सुतसुहृद्गृहवित्तदारान् संपदः स्मरन्ति तेऽतितरां प्रियमाद्यमीशं त्वां न स्मरन्ति, हे अब्जनाभ ये भवदीयपदारविन्दसौगन्ध्यलुब्धहृदयेषु भगवद्भक्तेषु कृतप्रसङ्गाः, भगवद्भक्तभक्तास्ते स्वान् सुतादीन् संपदो न स्मरन्तीत्यन्वयः । अनेन श्रीहरिभक्तिरेव न भवाब्धिसन्तारिणी, किन्तु तद्भक्तभक्तिरपीति सूचितम् ॥ १२ ॥

प्रकाशिका

ननु किं विषयास्मरणरूपमत्ततयाऽपि प्रयोजनं येनोक्तलक्षणमत्ततासिद्ध्यै मद्भक्त-सङ्गोऽपेक्षितः स्यादित्यतस् त्वद्भक्तताप्रयोजनं त्वत्स्मरणमेवेत्यन्वयव्यतिरेकाभ्यामुपपादयति ॥ ते न स्मरन्तीति । अत्रान्वयव्यतिरेकयोः स्पष्टमप्रतीत्या ते न स्मरन्तीत्यादेरावृत्त्या योजनां दर्शयति ॥ ये स्वान्संपद इति । स्वानित्यनेन सुतसुहृदादेर्ग्रहणम् । न तु संपदो विशेषणम् । अनेनोक्तविध-मत्ततास्वव्यतिरेकेण हरिस्मरणव्यतिरेको दर्शित इति ज्ञातव्यम् । अन्वयप्रतिपादकद्वितीयार्धतात्पर्य-माह ॥ ये भगवद्भक्तसङ्गा इति । न स्मरन्ति । किन्तु त्वामेव स्मरन्तीत्यपि ग्राह्यम् ॥ ततश्चायं श्लोकार्थः ॥ ये स्वान्स्वीयान्सुतादीन्संपदश्च स्मरन्ति । तेऽतितरां प्रियमाद्यमीशं त्वां न स्मरन्ति । ये तु भवदीयपादारविंदसौगन्ध्यलुब्धं हृदयं येषां ते तेषु त्वद्भक्तेषु कृतप्रसङ्गाः संपादितप्रकृष्टसंवासास्ते स्वान्सुतादीन्संपदश्च न स्मरन्ति । किं त्वतितरां प्रियं त्वामेव स्मरन्ति । अत उक्तत्वद्भक्त-तायास्त्वत्स्मरणमेव प्रयोजनमित्याशयः ॥ १२ ॥

तिर्यङ्नगद्विजसरीसृपदेवदैत्य-

मर्त्यादिभिर्विरचितं सदसद्विशेषम् ।

रूपं स्थविष्ठमज ते महदाद्यशेषं

नातः परं परम वेद्मि न यत्र वाचः ॥ १३ ॥

तात्पर्यम्

‘पश्यमानोऽपि तु हरिं न तु वेत्ति कथञ्चन । वेत्ति किञ्चित्प्रसादेन हरेरथ गुरोस्तथा’ ॥ इति ब्रह्मतर्के ॥ १३ ॥

पदरत्नावली

ब्रह्मादीनामपि त्वत्प्रसादाद् ऋते त्वद्रूपदर्शनमसुकरं किमुत मादृशानामिति भावेनाह– तिर्यङ्नगेति ॥ हे अज अशेषं सर्वावयवोपपन्नं महदादि महत्तत्वमादिर्यस्य तत् तथोक्तम् । सता पृथिव्यादिभूतत्रयेणासता वाय्वादिभूतद्वयेन विशेषो यस्य तत् तथोक्तम् । स्थविष्ठं स्थूलतमं तिर्यगादिभिर्विरचितं ब्रह्माण्डाख्यं रूपं वेद्मि । हे परम अतः स्थूलात् परं सूक्ष्मरूपं न वेद्मि । अत्र हेतुगर्भविशेषणमाह– यत्रेति ॥ वाच इत्युपलक्षणम् । वेदाभिमानिनो लक्ष्म्यादयो यत्र यद्विषयज्ञानवन्तो न भवन्ति । किमुक्तं भवति ? लक्ष्मीब्रह्माद्या अनुदिनं पश्यन्तोऽपि किञ्चिदनन्तत्वेन जानन्ति, किम्वहम् ? तदुक्तम्– ‘पश्यमानोऽपि तु हरिं न तु वेत्ति कथंचन । वेत्ति किंचित् प्रसादेन हरेरथ गुरोस्तथा ॥’ ‘द्वे वाव ब्रह्मणो रूपे मूर्तं चैवामूर्तं च’, ‘यतो वाचो निवर्तन्ते अप्राप्य मनसा सह’ इत्यादिश्रुतेः ॥ १३ ॥

प्रकाशिका

ननु मद्भक्तसङ्गसाध्येन स्मरणेनापि किं प्रयोजनं तत्साध्यस्य मद्दर्शनस्येदानीं तव जातत्वादित्यतो विशेषज्ञानार्थं तदपेक्षितमित्याशयेनाह ॥ तिर्यगिति । अत्र अतस् तिर्यगादिसहिता-द्ब्रह्माण्डात्परं विलक्षणं यत्ते रूपं तन्न वेद्मीत्युक्त्येदानीं दृष्टं न भगवतो रूपं किन्तु मर्त्यात्मकमेव भाति । अत एतादृशोक्तेस्तात्पर्यं प्रमाणेनैव दर्शयति ॥ पश्यमानोऽपीति । आद्यस्तुशब्दो हेत्वर्थः । द्वितीयोऽवधारणार्थः । कथञ्चन न वेत्तीत्युच्यते । पुराणादाविति शेषः । कुत इत्यत उक्तम् ॥ वेत्तीति । तथाशब्दः समुच्चये । यतो हरेरथानन्तरं गुरोश्च प्रसादेन किंचिदेव वेत्त्यतः । तथा च न वेत्तीत्यस्य विशेषतो न वेत्तीत्यर्थो वर्णनीय इति भावः ॥ ततश्चायं श्लोकार्थः ॥ हे अज । अशेषं सकलं महदादिकार्यकारणं यस्य तन्महदाद्यशेषं सर्वावयवोपपन्नं महदादि महत्तत्त्वमादिर्यस्य । सता पृथिव्यादि-भूतत्रयेणासता वाय्वादिभूतद्वयेन विशेषो यस्य तत्तथोक्तम् । तिर्यगादिभिः सह विशेषेण रचितं ब्रह्माण्डाख्यं ते स्थविष्ठं स्थूलतमं रूपं प्रतिमाऽत एतस्मात्परं विलक्षणं चिदानन्दात्मकमिदं रूपं हरेर्गुरोश्च प्रसादेन किञ्चित्पश्यन्नप्यहं न विशेषतो वेद्मि । कथं भूतम् । यत्र वाचो वेदादिरूपा न साकल्येन प्रतिपादयितुं प्रवर्तन्ते । तथा च विशेषतस्त्वत्स्वरूपज्ञानाय त्वद्भक्तप्रसङ्गो भूयादित्याशयः

॥ १३ ॥

कल्पान्त एतदखिलं जठरेण गृह्णन् ।

शेते पुमान् स्वदृगनन्तसखस्तदङ्के ।

यन्नाभिसिन्धुरुहकाञ्चनलोकपद्म-

गर्भे द्युमान् भगवते प्रणतोऽस्मि तस्मै ॥ १४ ॥

पदरत्नावली

सृष्टिसंहारकर्त्रोर्ब्रह्मरुद्रयोर्लोकहृद्गतां विष्णुसमत्वशङ्कां निवर्तयितुमाह– कल्पान्त इति ॥ अनन्तः सखा यस्य स तथोक्तः । स्वदृक् स्वयंप्रकाशः पुमान् कल्पान्ते एतदखिलं जगज् जठरेणोदरेण गृह्णन् संहरन् तस्यानन्तस्याङ्के शेते । यस्य नाभिसिन्धुरुहं नाभिसरसो जातं तदेव काञ्चनं सुवर्णवर्णं लोकात्मकं पद्म तस्य गर्भे द्युमान् द्युतिमान् ब्रह्मा, जात इति शेषः । अनेन रुद्रस्य संहर्तृत्वं ब्रह्मणः स्रष्टृत्वं च द्वारमात्रमिति ज्ञातव्यम् । एवंविधमाहात्म्यस्य हरेस्त्वया किमुपक्रियते ? तत्राह– भगवत इति ॥ १४ ॥

प्रकाशिका

नन्विदानीं दृश्यमानं भगवत्स्वरूपं नेत्येव किं न स्यादित्यपेक्षायामस्य भगव-त्स्वरूपत्वमुपपादयति ॥ कल्पान्त इति । एतत् त्रैलोक्यम् । यः पुमान् शेते अनन्तसखः शेषसहायः । तदङ्के तदुत्सङ्गे । यस्य नाभिरेव सिन्धुः समुद्रस्तस्मिन् रोहतीति तथा तदेव काञ्चनं सुवर्णवर्णं लोकात्मकं पद्मं तस्य गर्भे कर्णिकायां द्युमान्प्रकाशमानो ब्रह्मा । जात इति शेषः । तस्मै तदभिन्नतया प्रतीयमानाय प्रणतोऽस्मि । तथा च यत्प्रणतोऽस्मि तदिदं रूपं कल्पान्तशायित्वादिलक्षणोपेतं भगवद्रूपाभिन्नतया मया दृष्टत्वाद्भगवत्स्वरूपं भवत्येवेत्याशयः ॥ १४ ॥

त्वं नित्यमुक्तपरिशुद्धविबुद्ध आत्मा

कूटस्थ आदिपुरुषो भगवांस्त्र्यधीशः ।

१ये बुध्द्यवस्थितमखण्डितया स्वबुद्ध्या

दृष्ट्वा स्थिता वधिमतो व्यतिरिक्त आस्से ॥ १५ ॥

तात्पर्यम्

वधिम् अवधिम् । अल्लोपेन । संसारस्यावधिभूतं त्वामास्थिताः । सहैवास्ते

॥ १५ ॥

पदरत्नावली

पङ्के प्रवर्तमानस्य पङ्कलेप इव सृष्ट्यादौ प्रयतमानस्य हरेरनित्यत्वं दोषबद्धत्व-मशुद्धत्वं च स्यादित्याशङ्क्य योगिनोऽपि दुर्भगशरीरस्थस्य तद्गतदुःखाद्यनुभवो नास्ति किमुत नित्यस्य नित्यमुक्तस्य नित्यशुद्धस्यात एवाप्रतिहतबोधस्येति भावेनाह– त्वं नित्येति ॥ किमेवंभूतः परिच्छिन्न इति ? नेत्याह– आत्मेति ॥ आततत्वादात्मा । तर्हि तत्तत्पदार्थसंबन्धेन तत्तद्धर्माः संगम्यन्त इत्यत उक्तम्– कूटस्थ इति ॥ षड्विकारशून्यः । एवंविधः कोऽयम् ? अत्राह– आदिपुरुष इति ॥ आदी-त्युपलक्षणम् । जगत आदावन्ते च वर्तमानः । पुरुषः पूर्णषड्गुणः श्रीनारायणः । पूर्णषड्गुणत्वं स्पष्टमाह– भगवानिति ॥ ऐश्वर्यस्य समग्रस्येति स्मृतेः । कुतोऽस्य समग्रैश्वर्यमवगम्यत इत्यत उक्तम्– त्र्यधीश इति ॥ त्रयाणां लोकानां मुक्तामुक्तसंसारिणां, वर्तमानादिकालानां वा जागृदाद्यवस्थानाम् ऋगादिवेदानां वा, इत्यादि त्रित्वसंख्यावतामधीशः । इन्द्रादिव्यावृत्त्यर्थमधीश इत्युक्तम् । त्वमेवं विशिष्ट इति यद् यस्मात् तस्मादखण्डितया स्वबुद्ध्या स्वरूपज्ञानेन वधिं संसारस्यावधिभूतं बुद्ध्यव-स्थितं त्वां दृष्ट्वाऽवस्थिता ये पुरुषास्तैः सहातोऽस्मात् प्रपञ्चाद् व्यतिरिक्तस्त्वमास्स इत्यन्वयः । वष्टिभागुरिरल्लोपमवाप्योरुपसर्गयोरिति वचनादल्लोपः प्रामाणिकः ॥ १५ ॥

प्रकाशिका

युक्त्यन्तरमप्याह ॥ त्वमिति । त्वं मया दृश्यमानः । नित्यमुक्तश्चासौ परितः सर्वत्र शुद्धश्चासौ विबुद्धो विशेषेण सर्वज्ञश्चात्मा व्याप्तः कूटस्थो विकारशून्यो जगदादावन्ते च वर्तमानः पुरुषः । त्रयाणां लोकानामधीशोऽखण्डेशः । तथा च श्रुत्यादिप्रसिद्धनित्यमुक्तत्वादिभगवल्लक्षणोपेततया दृश्यमानत्वादिदं भगवत्स्वरूपं भवत्येवेत्याशयः । दृश्यमानमिदं रूपं न मर्त्यात्मकमित्यत्र कैमुत्यन्यायमाह ॥ ये बुद्ध्यवस्थितमिति । अत्र स्थितावधिमित्यस्यैकपदत्वप्रतीतिवारणायाभिमतं छेदं दर्शयन्व्याख्याति ॥ वधिमिति । ननु वधिमिति कथं रूपमित्यत आह ॥ अल्लोपेनेति । आदौ विद्यमानस्याकारस्य लोपेनेत्यर्थः । वष्टिभागुरिरल्लोपमवाप्योरुपसर्गयोरिति वचनादिति ज्ञातव्यम् । तथा चास्थिता वधिमिति पदद्वयमिति भावः । नन्वेवमवधिमित्यस्य प्रतिसम्बन्धिवाचकं पदं न श्रूयते । ये आस्थिता इत्यत्र तच्छब्दोऽपि । अत उभयत्रापेक्षितं पूरयन् अन्वयं दर्शयति ॥ संसारस्येति । कर्मबन्धस्येत्यर्थः । अवधिभूतं चरमावधिभूतम् । निवर्तकमिति यावत् । आस्थिता आश्रिताः । मुक्ता इति यावत् ॥ ततश्चायमर्थः ॥ येऽधिकारिणो बुद्ध्यवस्थितं स्वबुद्ध्यादीन्द्रियनियामकमखण्डितया स्वबुद्ध्याऽविच्छिन्नेन मनसा । संसारस्यावधिभूतं त्वां दृष्ट्वा त्वामास्थिता आश्रिता मुक्तास्तैः सहैवातो मर्त्याद्व्यतिरिक्तो विलक्षणः । विकाररहित इति यावत् । आस्से भवसि । तथा च त्वदाश्रिता मुक्ता अपि यदा मर्त्यदेहरहितास्तदा त्वं तद्रहित इति किं वाच्यमित्याशयः । यद्बुद्ध्यवस्थितमिति पाठेऽपि यद् ये इत्येव व्याख्येयम् ॥ १५ ॥

यस्मिन् विरुद्धगतयोऽप्यनिशं पतन्ति

विद्यादयो विविधशक्तय आनुपूर्व्या ।

तद् ब्रह्म विश्वभवमेकमविश्वमाद्य१-

मानन्दमात्रमविकारमहं प्रपद्ये ॥ १६ ॥

तात्पर्यम्

‘आनुपूर्वी श्रुतिश्चैव त्रयी चाम्नाय उच्यते’ इत्यभिधानम् ॥ १६ ॥

पदरत्नावली

अघटितघटनशक्तिमत्त्वादयमेवाभीष्टसिद्धये प्रार्थनीय इत्याह– यस्मिन्निति ॥ विरुद्धगतयो लोके विरूद्धविषया विद्यादयो विविधशक्तयो स्थूलत्वमणुत्वंह्रस्वत्वमित्यादयो यस्मिन् हरावनिशं पतन्ति वर्तन्ते । तत्र प्रमाणमाह– आनुपूर्व्येति ॥ ‘आनुपूर्वी श्रुतिश्चैव त्रयी चाम्नाय उच्यते’ इत्यभिधानात्, ‘विचित्रशक्तिः पुरुषः पुराणः’ ‘अस्थूलमनण्वह्रस्वम्’ इत्यादिकया श्रुत्या सिद्ध-मित्यर्थः । अहं तद् ब्रह्म शरणं प्रपद्य इत्यन्वयः । जगत्कारणमेव ब्रह्मात्र विवक्षितं न तु जीव इति भावेनाह– विश्वभवमिति ॥ विश्वस्य भव उत्पत्तिर्यस्मात् तत् तथा । नैतल्लक्षणं परमाणुष्वति-व्याप्तमित्याह– एकमिति ॥ परमाणूनामनेकत्वादिदमेव मुख्यकारणमित्यर्थः । कारणत्वं मृद्वन्नेत्याह– अविश्वमिति ॥ जगतोऽन्यत् । अनन्तमिति पाठे जीवाश्रितं कर्म कारणमस्तीत्याशङ्क्य कर्मणः क्षणभङ्गुरत्वेनानित्यत्वाद् अचेतनत्वाच्च कारणत्वानुपपत्तिरित्यर्थः । विश्वस्य आद्यन्तवत्त्वेनानित्यत्वादस्य तदभावात् कारणत्वं युक्तमित्याह– आद्यमिति ॥ आद्यमित्युपलक्षणम् । विश्वस्यादावन्ते च भवतीति । अनाद्यनन्तत्वं प्रधानस्यास्तीत्यत उक्तम्– आनन्दमात्रमिति ॥ इतोऽपि प्रधानस्य कारणत्वमनुपपन्न-मित्याह– अविकारमिति ॥ १६ ॥

प्रकाशिका

इतोऽपीदं भगवत्स्वरूपमित्याशयेनाह ॥ यस्मिन्निति । विरुद्धगतयो लोके विरुद्धतया दृश्यमाना विद्यादयः । विद्यापदं पञ्चरात्रादिपौरुषेयशब्दराशिपरम् । आदिपदेनाणुत्व-महत्त्वादयो ग्राह्याः । विद्याविवक्षायां विविधा अनेकप्रकाराः शक्तयो योगरूढ््यादिरूपा वृत्तयोऽर्थ-विवक्षायां विविधा विचित्रा अघटितघटका शक्तिः सामर्थ्यनिर्वाहिका येषामिति व्याख्येयम् । अनिशं निरन्तरं देशकालादिव्यवस्थां विना पतन्ति प्रतिपादयन्ति प्रविशन्ति च । आनुपूर्व्येत्यस्य प्रकृतसङ्गतमर्थं दर्शयति ॥ आनुपूर्वीति । आनुपूर्व्यादिशब्दैराम्नाय एवोच्यत इत्यर्थः । तथा च आनुपूर्व्याऽस्थूल-मनण्वित्याद्याम्नायेन सहिता इति मूलार्थ इति भावः । यद्ब्रह्म गुणपूर्णं विश्वस्य जगतो भव उत्पत्ति-र्यस्मात्तद् एकं सर्वोत्तममविश्वं विश्वभिन्नम् । अनन्तमिति पाठे नित्यम् । आद्यमनादि । प्रधान-व्यावृत्त्यर्थमुक्तम् ॥ आनन्दमात्रमविकारम् ॥ विकाररहितमिति । आनुपूर्वेत्यस्य चात्रापि सम्बन्धः । तथा चानुपूर्व्योक्तगुणविशिष्टतया । प्रसिद्धमिति शेषः । तदिदमहं प्रपद्य इत्यर्थः ॥ १६ ॥

सत्याशिषो हि भगवंस्तव पादमूल-

माशिष्टयोऽनुभजतः पुरुषार्थमूर्तेः ।

अप्येवमार्य भगवान् परिपाति दीनान्

वास्रेव वत्सकमनुग्रहकातरोऽस्मान् ॥ १७ ॥

तात्पर्यम्

तव पादमूलं भजत आचार्यस्याशिष्टयः शिक्षाः सत्याशीःप्रदा एव । तथापि अस्मान् शिष्यान् विशिष्टफलप्राप्तये पुनः परिपाति भवान् ॥ १७ ॥

पदरत्नावली

इतरदेवतानुग्रहात् त्वदनुग्रह एवाभीष्टफलप्राप्तिहेतुरित्याह– सत्याशिष इति ॥ पुरुषार्थमूर्तेरानन्दानुभवरूपस्य तव पादमूलमनुभजतः पुरुषस्य आशिष्टय आचार्यशिष्टाः सत्याशिषो यथार्थशुभफलप्रदा ह्येव । एवमपि तथापि । आर्य पूज्य । अनुग्रहकातरो भवान्, दीनानस्मान् शिष्यान् विशिष्टफलप्राप्तये पुनः वास्रेव नवप्रसूता गौरिव वत्सं, परिपातीत्यन्वयः । ‘वास्रेव विद्युन्मिमाति वत्सं न माता सिषक्ति’ इति श्रुतिः ॥ १७ ॥

प्रकाशिका

न मद्वांच्छितफलदानायात्र त्वदागमनं त्वद्भक्तस्यास्मद्गुरोरनुग्रहेणैव तस्य सिद्धत्वात् । किन्तु कृपापारवश्येन विशिष्टफलदानायेत्याशयेनाह ॥ सत्याशिष इति । इदमन्वयं प्रदर्शयन्व्याख्याति ॥ तवपादमूलमिति । आचार्यस्येति विशेष्यमध्याहृतम् । शिक्षा उपदेशाः । सत्याशिष इत्यस्यार्थः ॥ सत्याशीःप्रदा इति । शुभवाञ्छितप्रदा इत्यर्थः । अनेन सत्या आशिषो याभ्य इति विग्रहं सूचयति । हिशब्दार्थ एवेति । अप्येवमित्यस्यार्थस् तथाऽपीति । अस्मानित्यत्राचार्यो न संग्राह्य इत्याह ॥ शिष्यानिति । पुनारक्षणं व्यर्थमित्यत उक्तम् ॥ विशिष्टफलप्राप्तय इति ॥ ततश्चायं श्लोकार्थः ॥ पुरुषार्थ आनन्दानुभवः स एव मूर्तिर्यस्य तस्य तव पादमूलमनु स्वयोग्यतानुसारेण भजत आचार्यस्य नारदादेराशिष्टयः शिक्षाः । अनुग्रहपूर्वकोपदेशा इति यावत् । यद्यपि सत्याशिषो हि मद्वाञ्छितप्रदा एवाप्येवं तथाऽपि । हे आर्य पूज्य । भगवान्समग्रैश्वर्यादिमान् । अनेन स्वप्रयोजनं नास्तीति सूचयति । भवान्दीनान् अस्मान् शिष्यान् विशिष्टफलप्राप्तये पुनः परिपाति । कुतः । यतोऽनुग्रहकातरः कृपापरवशः । कृपापरवशतया रक्षणे दृष्टान्तमाह ॥ वास्रेति । नवप्रसूता गौर्वास्रा यथा वत्सकमनुग्रहकातरेव परिपाति तथेति । वास्रेव विद्युन्मिमाति वत्सं न माता सिषक्तीति श्रुतिः

॥ १७ ॥

मैत्रेय उवाच–

अथाभिष्टुत एवं वै सत्संकल्पेन धीमता ।

भृत्यानुरक्तो भगवान् प्रतिनन्द्येदमब्रवीत् ॥ १८ ॥

श्रीभगवानुवाच–

वेदाहं ते व्यवसितं हृदि राजन्यबालक ।

तत् प्रयच्छामि भद्रं ते दुरापमपि भूयसाम् ॥ १९ ॥

नान्यैरधिष्ठितं भद्र यद् भ्राजिष्णु ध्रुवक्षिति ।

यत्र ग्रहर्क्षताराणां ज्योतिषां चक्रमाहितम् ॥ २० ॥

मेढ्यां गोचक्रवत् स्थास्नु उदस्तात्१ कल्पवासिनाम् ।

धर्मोऽग्निः कश्यपः शक्रो मुनयो ये वनौकसः ।

चरन्ति दक्षिणीकृत्य भ्रमन्तो वत्सतारकाः ॥ २१ ॥

पदरत्नावली

भूयसां महतां योगिनामपि दुरापमित्यनेनायोग्यानामेव दुष्प्रापं, न तु योग्यानां, तेषां साधनसामग्य्रा सुलभत्वादित्यर्थः सूच्यत इत्युत्तरग्रन्थेन ज्ञायत इति भावेन विशिनष्टि– नान्यैरिति ॥ ध्रुवा नित्या क्षितिर्निवासो यस्मिंत्तत् तथोक्तम् । मेढीति तिलपीडोलूखलम् । कल्पलयेऽपि लयो नास्तीत्याशयेनाह– स्थास्न्विति ॥ अनेन ध्रुवक्षितीत्यस्यार्थविशेषो दर्शितः । पुरस्तादग्रे धर्मादयो यत् स्थानं प्रदक्षिणीकृत्य चरन्ति तत् तुभ्यं दास्यामीत्यन्वयः । वनौकसो वानप्रस्थाः ॥ २०,२१ ॥

प्रकाशिका

व्यवसितं सङ्कल्पितं ते तुभ्यम् । भूयसां ध्रुववरदवराणां योगिनाम् ॥ एतदेव विशदयति ॥ नान्यैरिति । भो भद्र । ध्रुवा स्थिरा क्षितिर्निवासो यस्मिंस्तत्तथोक्तम् ॥ धान्यक्रमणाय भ्राम्यमाणानां पशूनां बन्धनं स्तंभो मेढी तस्यां गोचक्रवद्बलीवर्दसमूहवत् । आहितमर्पितम् । कल्पवासिनां मनुकल्पवासिनामुदस्तात्पश्चादपि स्थास्नु मन्वन्तरप्रलयेऽप्यविनाशीति यावत् । पुरस्तादिति पाठे उत्तरोत्तरमनुकल्पवासिनां पुरस्तात्पूर्वं मनुप्रलयकाल इति यावत् । स्थास्नु तदा लोकत्रय-नाशेऽप्यनश्वरमिति व्याख्येयम् ॥ मुनयः सप्तर्षयो वनौकसो वानप्रस्थाये अन्ये मुनय ते धर्माग्न्यादयो नक्षत्रदेवतारूपाः सन्तो यत्प्रदक्षिणीकृत्य भ्रमन्तश्चरन्ति । तत्प्रयच्छामीत्यन्वयः ॥ १८-२१ ॥

प्रस्थिते तु वनं पित्रा दत्तां गां धर्मसंश्रयः ।

षट्त्रिंशद्वर्षसाहस्रं रक्षिताऽव्याहतेन्द्रियः ॥ २२ ॥

पदरत्नावली

सिंहासनाधिपतिरपि भूयादिति भावेनाह– प्रस्थित इति ॥ गां भूमिम् ॥ २२ ॥

प्रकाशिका

ऐहिकं राज्याधिपत्यादिकमपि ददामीत्याह ॥ प्रस्थित इति । तुभ्यं गां भूमिं दत्वा पित्रोत्तानपादेन वनं प्रति प्रस्थिते प्रयाणे कृते सति । रक्षिता रक्षिष्यति ॥ २२ ॥

त्वद्भ्रातर्युत्तमे नष्टे मृगयायां तु तन्मनाः ।

अन्वेषती वनं माता दावाग्निं सा प्रवेक्ष्यति ॥ २३ ॥

पदरत्नावली

उत्तमे भ्रातरि सति कथं सिंहासनाप्तिरिति तत्राह– त्वद्भ्रातरीति ॥ तस्मिन्नेव मनो यस्याः सा तन्मनाः, वनमन्वेषती मार्गमाणा । अनेन तन्मातृभयमपि प्रत्युक्तमिति ज्ञायते ॥२३॥

प्रकाशिका

मद्भ्रातुरुत्तमस्य राज्यसाधिकायां सुरुच्यां सत्यां कथं मम राज्यप्राप्तिरित्यत आह ॥ त्वद्भ्रातरीति । तस्मिन्नेव मनो यस्यास्तन्मनाः सा सुरुचिः ॥ २३ ॥

इष्ट्वा मां यज्ञहृदयं यज्ञैः पुष्कलदक्षिणैः ।

भुक्त्वा चेहाशिषः सत्या अन्ते माऽनुस्मरिष्यसि ॥ २४ ॥

पदरत्नावली

पुष्कलदक्षिणैः पूर्णदक्षिणैः । ‘पुरुषं पुष्कलं पूर्णम्’ इति हलायुधः । अनेन यज्ञानामुत्तमकल्पत्वं ध्वनयति । माऽनुस्मरिष्यसीत्यनेन सर्वदा स्मरन्नपि मरणकाले विशेषतो मत्स्मरणं कुर्विति विधत्ते । एष्यदर्थत्वाद् उभयोरिति एष्यदर्थत्वाद् उभयोः (सर्वदास्मरण मरणकालस्मरणयोः) लृट्प्रयोग इति भावः स्यादिति भाति ॥ २४ ॥

प्रकाशिका

यज्ञो हृदयं प्रियो यस्य तम् । सत्याः शुभा मा माम् ॥ २४ ॥

ततो गन्तासि मत्स्थानं सर्वलोकनमस्कृतम् ।

उपरिष्ठाद् ऋषिभ्यस्त्वं यतो नावर्तते यतिः ॥ २५ ॥

पदरत्नावली

ततः किम् ? अत्राह– तत इति ॥ यतो नावर्तते यतिरित्यनेन ध्रुवस्य मुक्ते-र्नियतत्वं ध्वनयति ॥ २५ ॥

प्रकाशिका

मत्स्थानं पूर्वदत्तं ध्रुवलोकम् । यतः स्थानाद्यतिः स्वधर्मानुष्ठानेन तल्लोकं प्राप्तः॥

मैत्रेय उवाच–

इत्यर्चितः स भगवानतिसृज्यात्मनः पदम् ।

बालस्य पश्यतो धाम जगाम गरुडध्वजः ॥ २६ ॥

पदरत्नावली

अतिसृज्य दत्वा ॥ २६ ॥

प्रकाशिका

अतिसृज्य दत्वा ॥ २६ ॥

सोऽपि सङ्कल्पजं विष्णोः पादसेवोपसादितम् ।

प्राप्य सङ्कल्पनिर्वाणं नातिप्रीतोऽभ्यगात् पुरम् ॥ २७ ॥

पदरत्नावली

सोऽपि ध्रुवोऽपि सङ्कल्पजं सङ्कल्पाज्जातं विष्णोः पादसेवयोपसादितं प्राप्तं सङ्कल्पनिर्वाणं प्रतिज्ञाफलं प्राप्य ॥ २७ ॥

प्रकाशिका

सोऽपि ध्रुवोऽपि विष्णोः सङ्कल्पजं विष्णोः पादसेवनोपसादितं प्राप्तं सङ्कल्पनिर्वाणं स्वसङ्कल्पफलम् ॥ २७ ॥

विदुर उवाच–

सुदुर्लभं यत् परमं पदं हरेर्मायाविनस्तच्चरणार्चनार्जितम् ।

लब्ध्वाऽप्यसिद्धार्थमिवैकजन्मना कथं स्वमात्मानममन्यतार्थवित् ॥ २८ ॥

मैत्रेय उवाच–

मातुः सपत्न््नया वाग्बाणैर्हृदि विद्धस्तु तान् स्मरन् ।

नैच्छन्मुक्तिपतेर्मुक्तिं तस्मात् तापमुपेयिवान् ॥ २९ ॥

पदरत्नावली

विदुरो मुक्तेरितरेषु पुरुषार्थेषु विरक्तेन भाव्यमिति जानन्नपि तत्प्रकटनाय पृच्छति– सुदुर्लभमिति ॥ मायाविनो भक्ताभीष्टफलदानसामर्थ्यवतः । असिद्धार्थमसाधितप्रयोजनम् । अर्थवित् तत्तत्कालोचितप्रयोजनं वेत्तीति ॥ विदुषोऽपि सांसारिको निर्बन्धो दुस्त्यज इति भावेन तच्चोद्यं परिहरति– मातुरिति ॥ २८,२९ ॥

प्रकाशिका

माया ज्ञानमस्यास्तीति मायावी तस्य सर्वज्ञस्य हरेः परमं पदं ध्रुवलोकमेक-जन्मना लब्धमप्यात्मानं स्वमसिद्धार्थमिवाप्राप्तप्रयोजनमिव कथममन्यत ज्ञातवान् । न चाविवेकी । यतोऽर्थवित् । स्वप्रयोजनाभिज्ञः ॥ २८,२९ ॥

ध्रुव उवाच–

समाधिनाऽनेकभवेन यत्पदं विदुः सनन्दादय ऊर्ध्वरेतसः ।

मासैरहं षड्भिरमुष्य पादयोश्छायामुपेत्यापहतः पृथङ्मतिः ॥ ३० ॥

पदरत्नावली

अनेकभावेनेति ॥ भवपदमावृत्य व्याख्येयम् । तथाहि अनेकेषु भवेषु जन्मसु भवति समुत्पद्यत इति तेन । अमुष्य हरेः पादयोश्छायां प्राप्य पृथङ्मतिर्विषयबुद्धित्वादपहतस्तिर्यक् ताडित इवाभवम् ॥ ३० ॥

प्रकाशिका

पश्चात्तापमेवाह ॥ समाधिनेति सार्धषड्भिः । अनेके भवा यस्मिन् बहुजन्म-स्वभ्यस्तेनेत्यर्थः । अपहतोऽपगतः । पृथङ्मतिर्भगवदितरविषयाभिनिविष्टबुद्धिः ॥ ३० ॥

अहो बत ममानात्म्यं मन्दभाग्यस्य पश्यत ।

भवच्छिदः पादमूलं गत्वा याचे तदन्तवत् ॥ ३१ ॥

तात्पर्यम्

‘आधिपत्यमनित्यं तु ध्रुवलोकस्य यद् ध्रुवे । न तु तत्स्थानगन्तॄणां यतीनां १गतिरुत्तमा । तस्यापि मुक्तिर्नियता नियतं चापि तत्पदम् । तथापि कामनानिन्दा ध्रुवेण सुकृता बत ॥’ इति भविष्यत्पर्वणि ॥ ३१ ॥

पदरत्नावली

राजभटादिना ताडितस्येव तस्य पश्चात्तापोद्रेकं वक्ति– अहो बतेति ॥ अनात्म्यं जाड्यम् अन्तवदित्यनेन स्वस्यानित्याधिपत्यं सूचयति । तदुक्तम् ‘आधिपत्यमनित्यं तु ध्रुवलोकस्य यद् ध्रुवे’ इति । यतो नावर्तते यतिरित्युक्तिरपि युज्यत इत्याह– ‘न तु तत्स्थानगन्तॄणां यतीनां स्थितिरुत्तमा’ इति । आधिपत्यमनित्यं चेत् ततो निवृत्त्या न कदापि तस्य मुक्तिरित्यत आह– ‘तस्यापि मुक्तिर्नियता’ इति । तर्हि जानता विष्णुनेदं पदं किमिति दत्तमिति तत्राह– ‘‘नियतं चापि तत्पदम्’’ । तस्य क्लृप्तत्वाद् दत्तमित्यर्थः । तर्हि ध्रुवेण किमित्यनिन्दीति तत्राह– ‘तथापि कामनानिन्दा ध्रुवेण सुकृता बत’ इति । मुमुक्षुणा विषयाभिलाषो न कर्तव्य इति शिक्षणार्थमित्यर्थः । कामना विषयाभिलाषः । तस्य निन्दा धिक्कारः ॥ ३१ ॥

प्रकाशिका

अनात्म्यं जाड्यम् । गत्वा प्राप्य । यदंतवन्नश्वरं तद्याचे प्रार्थितवान् । अत्र ध्रुवलोकस्यान्तवत्त्ववचनं यतो नावर्तते यतिरिति पूर्वोक्त्या विरुद्धम् । तत्र तत्स्थानगतस्य यतेरनावृत्त्युक्त्या तत्स्थानस्याक्षयत्वप्रतीतेरतो विवक्षितं तात्पर्यं प्रमाणेनैव दर्शयति ॥ आधिपत्यमिति । ध्रुवे यद्ध्रुवलोकस्याधिपत्यं तत्तु तदेवानित्यम् । तत्स्थानगंतॄणां यतीनां ध्रुवलोकस्याधिपत्यं, न तु नैव । किन्तूत्तमा पुनरावृत्तिशून्या स्थितिः । तथा चान्तवदिति वचनं ध्रुवाधिपत्यविषयम् । यतो नावर्तत इति वचनं तु तत्स्थानगन्तृयतिविषयमतो न कोऽपि विरोध इत्याशयः । नन्वेवं ध्रुवस्य पुनरावृत्तितया न मुक्तिरित्यत उक्तम् ॥ तस्यापीति । तर्हि सर्वज्ञेन हरिणा तत्स्थानाधिपत्यं तस्मै कस्माद्दत्तमित्यत आह ॥ नियतं चापीति । चोऽवधारणे । तत्पदमपि तस्य नियतमेवातो हरिणा दत्तमित्याशयः । तर्ह्यधिकारिणां स्वाधिकारकामनाया हरिप्रीत्यर्थकत्वात्कथं धुवेण ‘‘अहो बत ममानात्म्यम्’’ इति तत्कामनानिन्दा कृतेत्यत आह ॥ तथाऽपीति । तत्पदस्य नियतत्वेऽपि ध्रुवेण कामना निन्दा सुकृता सुष्टु कृता । मुमुक्षुणा विषयकामना सर्वथा न कार्येति लोकशिक्षणार्थमित्यर्थः । बतेति तस्य कृपालुत्व-मास्वादयति ॥ ३१ ॥

मतिर्विदूषिता देवैर्यतद्भिरसहिष्णुभिः ।

यो नारदवचस्तथ्यं नाग्रहीषमसत्तमः ॥ ३२ ॥

पदरत्नावली

शास्त्रशिक्षितबुद्धेस्तव कथं बुद्धिव्यामोहः प्राप्त इति तत्राह– मतिर्विदूषितेति ॥ ‘‘नाधुनाऽप्यवमानं ते’’ इत्यादि नारदवचनम् ॥ ३२ ॥

प्रकाशिका

नारदेन शिक्षितबुद्धेस्तव कथं जाड्यं प्राप्तमित्यत आह ॥ मतिरिति । देवै-र्बुद्ध्यभिमानिभिर्यतद्भिर्मदपेक्षया शीघ्रं मन्वन्तरप्रलयकाल एवाविनाशिपदं प्रति । अत एवासहिष्णुभिः । ‘‘विकल्पे विद्यमानेऽपि’’ इत्यादिरूपं नारदवचः ॥ ३२ ॥

दैवीं मायामुपाश्रित्य प्रसुप्त इव भिन्नदृक् ।

तप्ये द्वितीयेऽप्यसति भ्रातृभ्रातृव्यहृद्रुजा ॥ ३३ ॥

तात्पर्यम्

‘द्वितीयस्य स्वतन्त्रस्य त्वभावाद्द्वयवर्जितः । ईश्वरश्चेशितव्यस्य भावात्स परमेश्वरः ॥’ इति हरिवंशेषु ॥ ३३ ॥

पदरत्नावली

एतदेव विशदयति– दैवीमिति ॥ सर्वत्र निर्मलत्वेन द्योतमानस्य देवस्य हरेर्विद्य-मानां मायां बन्धकशक्तिमुपाश्रित्य स्पृष्ट्वा, प्रसुप्तोऽज्ञाने शयितो यथा भिन्नदृक् यथावस्तु न पश्यति विपरीतं पश्यति च तथाऽहमपि भ्राताऽयमुत्तमो भ्रातृव्यः शत्रुरिति हृद्रुजा हृदयभेदिरोगेण तप्ये । स्वतन्त्रस्यान्यस्य हरेर् द्वितीयस्य सद्भावे संतापः सम्भावित इति ? नेत्याह– द्वितीय इति ॥ द्वितीये स्वतन्त्रेऽन्यस्मिन्नसत्यविद्यमानेऽपि । सर्वस्वातन्त्र्येण सर्वैश्वर्येणाद्वितीयत्वमीश्वरत्वं च । ब्रह्मादीशित-व्यस्य भावात् परमेश्वरत्वं हरेरेव युक्तमितीममर्थमपिपदेन ध्वनयति । तदुक्तम्– ‘द्वितीयस्य स्वतन्त्रस्य त्वभावाद् द्वयवर्जितः । ईश्वरस्येशितव्यस्य भावात् स परमेश्वरः ॥’ इति ॥ ३३ ॥

प्रकाशिका

एतदेव दर्शयति ॥ दैवीमिति । सर्वत्र निर्मलत्वेन द्योतमानस्य हरेर्विद्यमानां तां मायां बन्धकशक्तिमुपाश्रित्य तद्वशो भूत्वा सुप्त इव स्वप्नं पश्यन्निव भिन्नदृग्वस्तुयाथात्म्यापेक्षयाऽन्यथा पश्यन् द्वितीयेऽसत्यपि भ्राता य उत्तमो भ्रातृव्यः शत्रुरिति दृष्टिजातया हृद्रुजा हृद्रोगेण तप्ये तापमनुभवामि । अत्र द्वितीयेऽसत्यपीति स्वातिरिक्तस्य मिथ्यात्वमुच्यत इति भाति । अतोऽत्र विवक्षितं तात्पर्यं प्रमाणेनैव दर्शयति ॥ द्वितीयस्येति । यत ईशितव्यस्यान्यस्य भावात्सद्भावमपेक्ष्येश्वर इत्युच्यते । तुशब्दोऽवधारणे । स्वापेक्षया द्वितीयस्य स्वतन्त्रस्याभावादेव द्वयवर्जितः । द्वितीयशून्य इत्युच्यते । न तु द्वितीयस्यासत्त्वादित्यर्थः । कुत इत्यत आह ॥ ईश्वरश्चेति । य ईश्वर इत्युच्यते स भगवांस्तु परमेश्वरः श्रुत्यादिप्रसिद्धः । अत ईशितव्यं ब्रह्मादिद्वितीयं सत्यमित्येवाङ्गीकार्यम् । ततश्च द्वितीयाभाववचनस्योक्त एवार्थः । तथा च द्वितीये भगवदपेक्षयाऽन्यस्मिन्स्वतन्त्रेऽसत्यपि भ्रातैव स्वतन्त्रः शत्रुरिति बुद्ध्या जातया हृद्रुजा तप्य इति मूलं व्याख्येयमिति भावः ॥ ३३ ॥

मयैतत् प्रार्थितं व्यर्थं चिकित्सेव गतायुषि ।

प्रसाद्य जगदात्मानं तपसा दुष्प्रसादनम् ॥ ३४ ॥

पदरत्नावली

ध्रुवलोकस्याधिपत्यस्यानित्यत्वात् सुतरां सिंहासनाधिष्ठानस्य संप्रार्थ्य भिक्षणं व्यर्थमित्याह– मयैतदिति ॥ जगतामिति बहुवचनेनान्येषामाधिपत्यं श्लथयति । तेन द्वितीय-स्वातन्त्र्याभावो निश्चीयत इति ज्ञातव्यम् ॥ ३४ ॥

प्रकाशिका

तपसा प्रसाद्य मया यत्प्रार्थितं तदेतद्व्यर्थं नश्वरत्वात् । चिकित्सा औषधदानम् । जगतामादानादिकर्तारम् ॥ ३४ ॥

भवच्छिदमयाचेऽहं भवं भाग्यविवर्जितः ।

तादात्म्यं यच्छतो मौढ्यान्मानो मे भिक्षितो बत१ ।

ईश्वरात् क्षीणपुण्येन पुलकानिव चाधनः ॥ ३५ ॥

तात्पर्यम्

‘हरौ नियतचित्तत्वाद्ग्रहवत् तत्प्रवेशनात् । मोक्षं तादात्म्यमित्याहुर्न तद्रूपत्वतः क्वचित् ॥’ इति भविष्यत्पर्वणि ॥ तच्चित्ततैव तादात्म्यम् । ‘नैकात्मतां मे स्पृहयन्ति’ इत्युक्त-त्वात् । ‘हरीच्छितेच्छुतैकात्म्यं न तेनैकस्वरूपता’ इति च । ‘कामेन मे काम आगात्’ इति च श्रुतिः ॥ ३५ ॥

पदरत्नावली

अभीष्टपुरुषार्थदानासामार्थ्याभावान् न भिक्षितमिति न मन्तव्यमित्याह– भवच्छिदमिति ॥ भी भयसंचलनयोरिति धातोर् भयमात्रराहित्यं चेद् विवक्षितं लोकेऽप्यस्तीति किमित्यनुशोक इत्यत उक्तं विशिनष्टि– तादात्म्यमिति ॥ तादात्म्यं हरिं निरतचित्ततया ग्रहवद्धरि-प्रवेशलक्षणो मोक्षः । तदुक्तम्– ‘हरौ नियतचित्तत्वाद् ग्रहवत् तत्प्रवेशनात् । मोक्षं तादात्म्यमित्याहुर्न तु तद्रूपतः क्वचित् ॥’ इति । नैकात्म्यतां मे स्पृहयन्ति केचिदित्यत्र हरिणाकाङ्क्षिताकाङ्क्षितृत्वमेवैकात्म्यं न तु तत्स्वरूपत्वम् ‘हरीच्छितेच्छ्रुतैकात्म्यं न तेनैकस्वरूपता’ इति वचनात् । कामेन मे काम आगादित्युपास्तिसमये प्रार्थनोक्तिश्च । मे मनो बत दुःखानुभवयोग्यं वस्तु भिक्षितं, क्षीणपुण्येन कारणेन । अत्र दृष्टान्तमाह– पुलकानिति ॥ पुलकास्तुच्छधान्यानि कुलित्थादीनि भक्तसिक्थानि वा । ‘स्यात् पुलकस्तुच्छधान्ये संक्षेपे भक्तसिक्थके’ इति यादवः ॥ ३५ ॥

प्रकाशिका

प्रार्थितमेव दर्शयति ॥ भवच्छिदमिति । भवं संसारम् । तादात्म्यमित्यस्य स्वाभेदमिति व्याख्याननिरासाय प्रमाणोदाहरणपूर्वकं विवक्षितमर्थमाह ॥ हराविति । मुक्तानामिति शेषः । तद्रूपतः स्वरूपतो न तु नैव । क्वचित्कुत्रापि ग्रन्थे । यत एवं भविष्यत्पर्वण्युक्तमतस्तच्चित्ततैव तदेकाग्रयचित्तत्वमेव तादात्म्यं प्रकृते तादात्म्यशब्दार्थ इत्यर्थः । ननु ग्रहवत्प्रवेशनमपि तच्छब्दार्थतया कुतो नोच्यत इत्यत आह ॥ नैकात्म्यतामिति । एकात्म्यतां मे मयि न स्पृहयन्ति नेच्छन्ति । ग्रहवत्प्रवेशनरूपस्यैकात्म्यस्यात्रैकान्तिभिरप्रार्थनीयतयोक्तत्वेनैकान्तिध्रुवप्रार्थनीयतयोच्यमानमिदमैकात्म्यं न तत्प्रवेशनरूपं किन्तु तदेकचित्ततारूपमेवेत्यर्थः । तत्कामितकामवत्त्वं वैकात्म्यशब्दार्थतया विवक्षितं न तत्स्वरूपमैक्यमित्याशयेन तत्र प्रमाणं पठति ॥ हरीच्छितेति । ऐकात्म्यम् ऐकात्म्यताशब्दार्थ इति भावः । तुशब्दोऽवधारणार्थ इत्यभिप्रेत्य तद्व्यावर्त्यमाह ॥ नैकस्वरूपतेति । ननु मुक्तस्य हरीच्छितेच्छा-वत्त्वमेव कुतो येनैवं व्याख्यानमित्यतोऽत्र श्रुतिमपि दर्शयति ॥ कामेनेति । मृत्योः संहर्तुरीश्वरस्य कामेनेच्छानुसारेणैव मे काम आगात् । मुक्तावागच्छतीति श्रुत्यर्थः । तथा चैवं जीवन्मुक्तिदशायां प्रार्थनायाः कृतत्वान्मुक्तस्य हरीच्छितेच्छावत्त्वमर्थात्सिद्ध्यत्येवेत्याशयः ॥ ततश्चायं मूलार्थः ॥ तादात्म्यं मुक्तौ तदैकाग्रचित्तत्वं यच्छत ईश्वराद्धरेः सकाशात्क्षीणपुण्येन मे मया राज्यादिविषये मानोऽभिमानो भिक्षितो याचितो बत हा कष्टम् । मनोभिक्षितमिति पाठे मनो मनोऽनुसारेण संकल्पितं भिक्षितमिति व्याख्येयम् ॥ अत्र दृष्टान्तमाह ॥ ईश्वरादिति । यथाऽधनो दरिद्रः क्षीणेन पुण्येनेश्वराच्चक्रवर्तिनः सकाशात्पुलकानि तुच्छधान्यानि कुलित्थादीनि याचते तथैवेत्यर्थः । चशब्दस्तुषादि-तुच्छपदार्थान्तर-समुच्चायकः ॥ ३५ ॥

मैत्रेय उवाच–

न वै मुकुन्दस्य पदारविन्दयो रजोजुषस्तात भवादृशा जनाः ।

वाञ्छन्ति तद्दास्यमृतेऽर्थमात्मनो यदृच्छया लब्धमनःसमृद्धयः ॥ ३६ ॥

पदरत्नावली

मैत्रेयो ध्रुवस्यानुशोके तात्पर्यमाह– न वा इति ॥ तद्दास्यमित्यनेन तादात्म्य-मित्येतद् विवृतमर्थतः । अन्यपुरुषार्थं कुतो न वाच्छन्तीति तत्राह– यदृच्छयेति ॥ यदृच्छया भगव-दिच्छया । आकङ्क्षामन्तरेणापि मनोभीष्टानां प्राप्तत्वादित्यर्थः ॥ ३६ ॥

प्रकाशिका

मैत्रेयो हरिभक्तस्य ध्रुवस्यैतादृशानुतापो युक्त एवेत्याशयेनाह ॥ न वा इति । तद्दास्यमित्यनेन तादात्म्यमित्येतदुक्तार्थतया विवृतमिति ज्ञातव्यम् । अर्थमन्यपुरुषार्थमात्मनः परमात्मानः सकाशात् । कुतो न वाञ्छतीत्यत आह ॥ यदृच्छयेति । भगवदिच्छयैव लब्धेन वित्तादिना मनसः समृद्धिर्येषां ते तथा ॥ ३६ ॥

आकर्ण्यात्मजमायान्तं सम्परेत्य यथागतम् ।

राजा न श्रद्दधे भद्रमभद्रस्य कुतो मम ॥ ३७ ॥

पदरत्नावली

एवमस्तु, उत्तरकथाप्रसङ्गः क इति वैदुरीं शङ्कां परिहरन्निवाह– आकर्ण्येति

॥ ३७ ॥

प्रकाशिका

प्रस्तुतमाह ॥ आकर्ण्येति । संपरेत्य मृत्वा आगतमाकर्ण्य यथा न श्रद्दधते तथैवेत्यर्थः । अभद्रस्य मम भद्रं कुत इति मत्वेति शेषः ॥ ३७ ॥

श्रद्धाय वाक्यं देवर्षेर्हर्षवेगेन धर्षितः ।

वार्ताहर्तुरतिप्रीतो हारं प्रादान्महाधनम् ॥ ३८ ॥

पदरत्नावली

नन्वश्रद्धया राज्ञः प्राक्तनो द्वेषोऽनुमीयते अभद्रवचनं चौपचारिकं निश्चायक-प्रमाणाभावादिति शङ्का मा भूदित्याह– श्रद्धायेति ॥ हर्षवेगेन हर्षोद्रेकेण धर्षितो विवशीकृतः । महान्ति धनानि यस्य स तथा ॥ ३८ ॥

प्रकाशिका

एवं शोकेन श्रद्धामकृत्वा विवेकमवलंब्यैष्यत्यविरत इति देवर्षेर्नारदस्य वाक्यं श्रद्धाय यथार्थमवबुद्ध्य हर्षवेगेन हर्षोद्रेकेण धर्षितो वशीकृतो महान्ति धनानि यस्य स तथा ॥ ३८ ॥

सदश्वं रथमारुह्य कार्तस्वरपरिष्कृतम् ।

ब्राह्मणैः कुलवृद्धैश्च पर्यस्तोऽमात्यबन्धुभिः ॥ ३९ ॥

पदरत्नावली

सन्तोऽभ्यर्हिता अश्वा यस्य स तथा तम् । पर्यस्तः परिवृतः ॥ ३९ ॥

प्रकाशिका

पर्यस्तः परिवृतः ॥ ३९ ॥

शङ्खदुन्दुभिनादेन ब्रह्मघोषेण वेणुभिः ।

निश्चक्राम पुरात् तूर्णमात्मजाभीक्षणोत्सुकः ॥ ४० ॥

पदरत्नावली

इदमपि राज्ञः स्नेहोद्रेकलक्षणमिति भावेनाह– शङ्खेति ॥ ४० ॥

प्रकाशिका

वेणुभिर्वेणुनादैश्च सहितः ॥ ४० ॥

सुनीतिः सुरुचिश्चास्य महिष्यौ रुक्मभूषिते ।

आरुह्य शिबिके सार्धमुत्तमेनाभिजग्मतुः ॥ ४१ ॥

पदरत्नावली

हरेः शक्तिरचिन्त्येति ध्वनयन् सुनीतिसुरुच्योर्यात्रां चाह– सुनीतिरिति ॥ रुक्मं हेम । शिबिके आन्दोलिके ॥ ४१ ॥

प्रकाशिका

रुक्मं हेम । शिबिके आन्दोलिके । उत्तमेन साकमिति शेषः ॥ ४१ ॥

तं दृष्ट्वोपवनाभ्याश आयान्तं तरसा रथात् ।

अवरुह्य नृपस्तूर्णमासाद्य प्रेमविह्वलः ॥ ४२ ॥

पदरत्नावली

दूरप्रदेशे दर्शनं सार्वजनीनं न स्यादिति हरिणा पुरनिकट एव घटितमिति भावेन पुरोपवनसमीपे कुमारदर्शनं तदनन्तरं राज्ञो माननक्रियाविशेषं चाह– तं दृष्ट्वेति ॥ ४२ ॥

प्रकाशिका

उपवनाभ्याशे समीपे ॥ ४२ ॥

परिरेभेऽङ्गजं दोर्भ्यां दीर्घोत्कण्ठमनाः श्वसन् ।

विष्वक्सेनाङ्घ्रिसंस्पर्शहताशेषाघबन्धनम् ॥ ४३ ॥

पदरत्नावली

अङ्गजं पुत्रम् । विष्वक्सेनाङ्घ्रीति विशेषणेनालिङ्गनव्याजेन तत्स्प्रष्टुरपि पापपरिहारः स्यादिति ध्वनयति ॥ ४३ ॥

प्रकाशिका

अङ्गजं पुत्रम् । विष्वक्सेनस्य हरेरङ्घ्रिस्पर्शेन हतमशेषमघं बन्धनं च यस्य स तथा तम् । अनेन राज्ञोऽपि तत्स्पर्शेनाघपरिहार इति सूचितम् ॥ ४३ ॥

अथाजिघ्रन्मुहुर्मूघर्ि्न शान्तैर्नयनवारिभिः ।

स्नापयामास तनयमाप्तोद्दाममनोरथम् ॥ ४४ ॥

पदरत्नावली

किमनेनालिङ्गनमात्रेणानन्दातिरेकलक्षणाज्ञापकेनेत्यतस्तद्विशिनष्टि– अथेति ॥ शान्तैः सुशीतलैः सुखलक्षणतयाऽवसितैर्वा । ‘अन्तोऽस्त्र्यवसिते मृत्यौ स्वभावे परमात्मनि’ इति यादवः । शर्म तोषं च शं सुखम्’ इति हलायुधः । अनेन राज्याभिषेकमदूरे सूचयति । एतमर्थं च ध्वनयंस्तं विशिनष्टि– आप्तेति ॥ आप्तः प्राप्त उद्धाम उत्कृष्टो मनोरथो वीरासनादिलक्षणो येन स तथा तम् ॥ ४४ ॥

प्रकाशिका

शान्तैः शीतलैः । शस्य सुखस्यान्तो निर्णयो यैः । सुखसूचकैरिति यावदिति वा । आप्तः प्राप्त उद्दाम उत्कृष्टो मनोरथो येन तम् ॥ ४४ ॥

अभिवन्द्य पितुः पादावाशीर्भिश्चानुमन्त्रितः ।

ननाम मातरौ शीर्ष्णा सत्कृतः सज्जनाग्रणीः ॥ ४५ ॥

सुरुचिस्तं समुत्थाप्य पादावानतमर्भकम् ।

परिष्वज्याह जीवेति बाष्पगद्गदया गिरा ॥ ४६ ॥

पदरत्नावली

भगवद्भक्तस्यापि रागद्वेषादिदोषो नास्ति किमुत हरेरितीममर्थं ध्वनयन् ध्रुवोऽपि पित्राद्युचितक्रियामाचरतीत्याह– अभिवन्द्येति ॥ मातरावित्युक्त्या पूर्वान्तःकरणकालुष्यं दूरीकृतमिति व्यनक्ति । शीर्ष्णा ननामेत्यनेन पितुर्मातुर्गुरुत्वाधिक्यं सूचयति । तदुक्तम्– ‘दशाचार्यसमो भ्राता शतभ्रतृसमः पिता । पितुर्दशशतं माता गौरवेणातिरिच्यते ॥’ इति । सुरुच्या मुख्यमातृत्वाभावेऽपि सत्स्वभावत्वेन भेदबुद्धिर्न कृतेति द्योतनाय सज्जनाग्रणीरिति विशेषितम् ॥ ध्रुवप्रणामे सुरुच्या द्वेषं विहाय किमभ्यधायीति तत्राह– सुरुचिरिति ॥ अर्भकमिति लुप्तोपमम्, अर्भकं प्रेङ्खच्छिशुमिवेत्यनेन स्नेहविशेषाज् ज्ञानगुरुत्वमगणय्य समुत्थाप्येति ज्ञायते ॥ ४५,४६ ॥

प्रकाशिका

आशीर्भिराशीर्वचनैरनुमन्त्रित उक्तः । मन्त्रतुल्यैराशीर्वचनैर्विषयीकृत इति यावत् । इदं कर्तव्यं तस्य नाश्चर्यमिति सूचनाय सज्जनाग्रणीरित्युक्तम् ॥ ४५,४६ ॥

यस्य प्रसन्नो भगवान् गुणैर्मैत्र्यादिभिर्हरिः ।

तस्मै नमन्ति भूतानि निम्नमाप इव स्वयम् ॥ ४७ ॥

पदरत्नावली

ध्रुवस्य मरणमाकाङ्क्षयमाणा सुरुचिः (सुरुच्या) कथं जीवेति वाण्युदस्थापीति तत्राह– यस्येति ॥ मैत्र्यादिभिर्मैत्रीकरुणादिभिः । नमन्ति प्रह्वीभवन्ति ॥ ४७ ॥

प्रकाशिका

द्वेषयुक्तायाः सुरुच्याः कथं ध्रुवे प्रीतिरुत्पन्नेत्यपेक्षायामाह ॥ यस्येति । मैत्र्यादिभिः । उत्तमेषु भक्तिः समेषु मैत्र्यधमेषु सत्सु कृपेत्येवमादिभिरित्यर्थः । नमंत्यनुसरन्ति । प्रव्हीभवन्तीति वा । आपः स्वयं स्वयमेव निम्नदेशं प्रति यथा तथैव ॥ ४७ ॥

उत्तमश्च ध्रुवश्चोभावन्योन्यं प्रेमविह्वलौ ।

अङ्गसङ्गादुत्पुलकावस्रौघं मुहुरूहतुः ॥ ४८ ॥

पदरत्नावली

उत्तमस्य भूतेष्वेकत्वेन ध्रुवद्वेषाशङ्का दूरोत्सारितेति तयोः प्रणयोद्रेकनिमित्त-क्रियामाह– उत्तमश्चेति ॥ अस्त्रौघं बाष्पप्रवाहम् । ‘ओघः परंपरायां स्याज्जलस्रोतसि संचये’ इति यादवः ॥ ४८ ॥

प्रकाशिका

अस्रौघं बाष्पप्रवाहम् । ऊहतुर्दधतुः ॥ ४८ ॥

सुनीतिरस्य जननी प्राणेभ्योऽपि प्रियं सुतम् ।

उपगुह्य जहावाधिं यदङ्गस्पर्शनिर्वृता ॥ ४९ ॥

पयः स्तनाभ्यां सुस्राव नेत्रजैः सलिलैः शिवैः ।

तदाऽभिषिच्यमानाया वीरे वीरसुवो मुहुः ॥ ५० ॥

पदरत्नावली

सूचीकटाहन्यायेन ध्रुवे सुरुच्यादिप्रणयक्रियां प्रोच्याधुना सुनीतिविषयमाह– सुनीतिरस्येति ॥ अस्य जननीति विशेषणं विशिनष्टि– पय इति ॥ औरसपुत्रस्मरणादिना मातृस्तनयोः स्तन्यप्रस्रवणेन तज्जनकत्वानुमानं सुलभमित्यर्थः । वीरं पुत्रं सूत इति वीरसूः, तस्याः । वीरे पुत्रे । यशसं वीरवत्तममिति श्रुतिः ॥ ४९,५० ॥

प्रकाशिका

वीरं पुत्रं सूतवतीति वीरसूस्तस्याः । वीरे पुत्रेऽभिषिच्यमानायाः स्तनाभ्यां पयस्तदा सुस्राव ॥ ५० ॥

तां शशंसुर्जना राज्ञीं दिष्ट्या ते पुत्र आर्तिहा ।

प्रतिलब्धश्चिरं नष्टो रक्षिता मण्डलं भुवः ॥ ५१ ॥

पदरत्नावली

सुनीतिकथाऽपि श्रोतृणां पापप्रणाशिन्यपि भवतीति भावेन तां विशिनष्टि– तां शशंसुरिति ॥ दिष्ट्या स्यान्मङ्गलादिष्वित्यभिधानात्, दिष्ट्या पुण्येन ॥ ५१ ॥

प्रकाशिका

दिष्ट्या पुण्येन नष्टोऽदर्शनं प्राप्तो रक्षिता रक्षिष्यति ॥ ५१ ॥

अभ्यर्चितस्त्वया नूनं भगवान् प्रणतार्तिहा ।

यदनुध्यायिनो धीरा मृत्युं जिग्युः सुदुर्जयम् ॥ ५२ ॥

पदरत्नावली

पुण्यमपि विशिष्यन्तीत्याह– अभ्यर्चित इति ॥ यदि प्रणतार्तिहरो हरिस्त्वया नाभ्यर्चितस्तर्हि चिरं नष्टः पुत्रो न प्रतिलब्धः स्यात्, न तथा, तस्मादभ्यर्चित इति तर्कः । किंविशिष्टो भगवानिति तत्राह– यदनुध्यायिन इति ॥ अनेन तर्कस्याप्रतिपक्षतां दर्शयति ॥ ५२ ॥

प्रकाशिका

यदि प्रणतार्तिहरो हरिस्त्वया नाभ्यर्चितस्तर्हि चिरं नष्टः पुत्रो न प्रतिलब्धः स्यात् । न च तथा । तस्मादभ्यर्चित इति तर्कः । भगवन्तं विशिनष्टि ॥ यदनुध्यायिन इति ॥ ५२ ॥

लाल्यमानं जनैरेवं ध्रुवं सभ्रातरं नृपः ।

आरोप्य करिणीं हृष्टः स्तूयमानोऽविशत् पुरम् ॥ ५३ ॥

तात्पर्यम्

‘कलभश्चैव कन्यानां करिणी बालमङ्गले’ इति राजनीतौ ॥ ५३ ॥

पदरत्नावली

ध्रुवस्य जनलालनप्रकियां संक्षिप्नुरिव मैत्रेयो राज्ञः पुरप्रवेशमाह– लाल्य-मानमिति ॥ ‘कलभश्चैव कन्यानां करिणी बालमङ्गले’ इति वचनात् करिणीमित्युक्तम् ॥ ५३ ॥

प्रकाशिका

जनैर्मात्रादिभिर्जनैः स्तूयमान इति वाऽन्वयः । अत्र विशिष्टकरिणीग्रहणेऽभिप्रायं प्रमाणेनैव दर्शयति ॥ कलभ इति । कलभः करिशावकः । कन्यानां मङ्गले कर्तव्ये वाहनार्थं कलभ एव स्यात् । बालानां कुमाराणां मङ्गले कर्तव्ये करिणी स्यादित्यर्थः । अतः कुमारस्य ध्रुवस्य मङ्गलार्थं करिण्येवोपात्तेत्याशयः ॥ ५३ ॥

तत्र तत्रोपसंक्लृप्तैर्लसन्मकरतोरणैः ।

संवृतैः कदलीस्तम्भैः पूगपोतैश्च तद्विधैः ॥ ५४ ॥

पदरत्नावली

संवृतैः पुष्पबन्धनसहितैः । तद्विधैः पुष्पबन्धनसहितैः ॥ ५४ ॥

प्रकाशिका

पुरं वर्णयति । तत्र तत्रेति चतुर्भिः । संवृतैः फलपुष्पबन्धनसहितैः । पूगानां पोतैर्बालवृक्षैस्तद्विधैः फलपुष्पयुक्तैर् उपस्कृतं प्रतिद्वारमित्युत्तरेणान्वयः ॥ ५४ ॥

चूतपल्लववासःस्रङ्मुक्तादामविलम्बिभिः ।

उपस्कृतं प्रतिद्वारमपां कुम्भैः सदीपकैः ॥ ५५ ॥

पदरत्नावली

विलम्बीनि चूतपल्लवादीनि येषु ते तथा तैः । प्रतिद्वारमुपसंस्कृतमलंकृतम् ॥ ५५ ॥

प्रकाशिका

चूतपल्लवाश्च वासांसि च स्रजश्च मुक्तादामानि च तेषां विलम्बो विशिष्टं लम्बनं येषु कुम्भेष्विति तैः ॥ ५५ ॥

प्राकारैर्गोपुराट्टालैः शातकुम्भपरिच्छदैः ।

सर्वतोऽलंकृतं श्रीमद्विमानशिखरद्युभिः ॥ ५६ ॥

पदरत्नावली

शातकुम्भपरिच्छदैः सुवर्णालङ्कारैः । श्रीमतां विमानानां शिखराणां द्युभिर् द्युतिभिरलङ्कृतम् । अनेन देवादीनां विमानानामागमनं सूचयति ॥ ५६ ॥

प्रकाशिका

शातकुंभपरिच्छदैः सुवर्णालङ्कारैरट्टालं हर्म्यमित्यर्थः । श्रीमतां विमानानां शिखराणां च द्युभिरलङ्कृतम् । अनेन देवादीनामागमनं तत्र सूचयति ॥ ५६ ॥

मृष्टचत्वररथ्यादिमार्गं चन्दनचर्चितम् ।

लाजाक्षतैः पुष्पफलैस्तन्दुलैर् बलिभिर्युतम् ॥ ५७ ॥

पदरत्नावली

चत्वरश्चतुष्पथः । रथ्या राजमार्गः । आदिशब्देन तिर्यगाद्यवान्तरमार्गो गृह्यते

॥ ५७ ॥

प्रकाशिका

चत्वरश्चतुष्पथो रथ्य राजमार्गः । आदिपदेनावान्तरमार्गग्रहणम् । मृष्टाः संमार्जिताश्चत्वरादयो यस्मिन् ॥ ५७ ॥

ध्रुवाय पथि दृष्टाय तत्र तत्र पुरस्त्रियः ।

सिद्धार्थाक्षतदध्यम्बुदूर्वापुष्पफलानि च ॥ ५८ ॥

पदरत्नावली

सिद्धार्थः सितसर्षपाः ॥ ५८ ॥

प्रकाशिका

सिद्धार्थाः शुभ्रसर्षपाः ॥ ५८ ॥

उपजह्रुः प्रयुञ्जाना वात्सल्यादाशिषः सतीः ।

शृण्वंस्तु वल्गुगीतानि प्राविशद् भवनं पितुः ॥ ५९ ॥

पदरत्नावली

तासां पुरस्त्रीणां वल्गूनि चारूणि गीतानि ॥ ५९ ॥

प्रकाशिका

उपजह्रुर्व्यकिरन् । सतीः सत्यः । एतासां पुरस्त्रीणां वल्गूनि चारूणि गीतानि

॥ ५९ ॥

महामणिव्रातमये स तस्मिन् कशिपूत्तमे ।

लालितो नितरां पित्रा न्यवसद् दिवि देववत् ॥ ६० ॥

पदरत्नावली

कशिपूत्तमे मञ्चोत्तमे, भोजनाच्छादनादिना प्रेष्ठे वा ॥ ६० ॥

प्रकाशिका

तस्मिन् भवने विद्यमाने कशिपूत्तमे मञ्चोत्तमे ॥ ६० ॥

पयः फेननिभाः शय्या दान्ता रुक्मपरिच्छदाः ।

आसनानि महार्हाणि यत्र रौक्मा उपस्कराः ॥ ६१ ॥

यत्र स्फटिककुड्येषु महामारकतेषु च ।

मणिप्रदीपा आभान्ति ललनारत्नसंयुताः ॥ ६२ ॥

पदरत्नावली

कशिपूत्तम इत्युक्तं प्रपञ्चयति– पयःफेननिभा इति ॥ दान्ता दन्तनिर्मिताः । रुक्मपरिच्छदा उपर्याछादनपरा यासां तास्तथा । उपस्कराः पात्राणि । रौक्मानि सुवर्णनिर्मितानि ॥ रत्नं श्रेष्टे च निर्दिष्टमिति हलायुधः । ललनारत्नैः स्त्रीरत्नैः संयुता यत्र शय्यादय आभान्ति तस्मिन्निति

॥ ६१,६२ ॥

प्रकाशिका

दान्ता गजदन्तनिर्मिता रुग्मपरिच्छदाः सुवर्णालङ्कारयुक्ताः । मञ्चादय इति शेषः । यत्र भवने उपस्कराः पात्राणि ॥ ६१ ॥

उद्यानानि च रम्याणि विचित्रैरमरद्रुमैः ।

कूजद्विहङ्गमिथुनैर्गायन्मत्तमधुव्रतैः ॥ ६३ ॥

प्रकाशिका

कूजन्ति विहङ्गमिथुनानि येषु तैर्गायन्तो मत्ता मधुव्राता येषु तैरमरद्रुमै रम्याण्युद्यानानि च यत्र यस्मिन् भवने इति पूर्वेणान्वयः ॥ ६३ ॥

वाप्यो वैदूर्यसोपानाः पद्मोत्पलकुमुद्वतीः ।

हंसकारण्डबकुलैर्जुष्टाश्चक्राह्वसारसैः ॥ ६४ ॥

उत्तानपादो राजर्षिः प्रभावं तनयस्य तम् ।

श्रुत्वा दृष्ट्वाऽद्भुततमं प्रपेदे विस्मयं परम् ॥ ६५ ॥

वीक्ष्योढवयसं पुत्रं प्रकृतीनां च संमतम् ।

अनुरक्तप्रजं राजा ध्रुवं चक्रे भुवः पतिम् ॥ ६६ ॥

पदरत्नावली

धु्रवप्रभावो देवादीनामाश्चर्यजनकः किम्वितरेषामिति भावेनोत्तानपादान्तःकरण-प्रवृत्तिविशेषं वक्ति– उत्तानपाद इति ॥ विस्मयफलमाह– वीक्ष्येति ॥ ऊढवयसमित्यनेन राज्यपालन-शक्तिं व्यनक्ति ॥ ६५,६६ ॥

प्रकाशिका

ऊढवयसं प्राप्तयौवनम् । अनुरक्ताः प्राजा यस्मिंस्तम् ॥ ६६ ॥

आत्मानं च प्रवयसमाकलय्य विशांपतिः ।

वनं विरक्तः प्रातिष्ठद् विमृशन्नात्मनो गतिम् ॥ ६७ ॥

पदरत्नावली

तत्र स्वयं किमकारीति तत्राह– आत्मानं चेति ॥ आकलय्य ज्ञात्वा । आत्मनः स्वस्य हरेश्च गतिं स्थितिं विमृशन् विचारयन्निति ॥ ६७ ॥

॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुकृतायां

चतुर्थस्कन्धे दशमोऽध्यायः ॥

प्रकाशिका

प्रवयसं संवृद्धम् आकलय्य ज्ञात्वा । आत्मनः स्वस्य हरेश्च गतिं स्थितिम् । विमृशन्विचारयन् ॥ ६७ ॥

**॥ इति श्रीमद्वेदेशपूज्यपादशिष्येण यदुपतिना विरचितायां **

श्रीमद्भागवतटिप्पण्यां चतुर्थस्कन्धे दशमोऽध्यायः ॥ ४-१० ॥