०९ नवमोऽध्यायः

सनकाद्या नारदश्च ऋभुर्हंसोऽरुणिर्यतिः

अथ नवमोऽध्यायः

मैत्रेय उवाच–

सनकाद्या नारदश्च ऋभुर्हंसोऽरुणिर्यतिः ।

नैते गृहान् ब्रह्मसुता ह्यवसन्नूर्ध्वरेतसः ॥ १ ॥

पदरत्नावली

संसारविरक्तस्य पुंसः श्रीनारायणश्रीपादपद्ममूलमेव शरणमिति निरूपयत्यस्मि-न्नध्याये । तत्र परमभागवतस्य ध्रुवस्य चरितमनुवर्णयितुं हेयत्वेनाधर्मवंशानुचरितमाह– सनकाद्या इति ॥ गृहान् नावसन् गृहस्थाश्रमं नाभजन्नित्यर्थः । ऊर्ध्वरेतस इत्यनेन संन्यासाश्रमं सूचयति ॥ १ ॥

प्रकाशिका

एवं मनुकन्यासन्ताननिरूपणेनैव ब्रह्मपुत्राणां मरीच्यादीनां सन्ततिर्वर्णिता । इदानीमवशिष्टब्रह्मसुतानां स्थितिमाह ॥ सनकाद्या इति । नावसन्नाश्रिताः । ऊर्ध्वरेतसः परमहंसाः । संन्यासिन इति यावत् । आसन्निति शेषः । अतस्तेषां सन्ततिर्न जातेत्याशयः ॥ १ ॥

मृषाऽधर्मस्य भार्याऽऽसीद् दम्भं मायां च शत्रुहन् ।

असूत मिथुनं तत्तु निर्ऋतिर्जगृहेऽप्रजः ॥ २ ॥

पदरत्नावली

अप्रजः सन्ततिरहितः ॥ २ ॥

प्रकाशिका

अधर्मोऽपि ब्रह्मपुत्रस्तस्य वंशमाह ॥ मृषेति चतुर्भिः । दम्भोऽविद्यमानमहत्त्व-प्रदर्शनम् । माया कापट्यम् । अत्र मृषादिशब्दा अभिमानिचेतनपराः । अप्रजः पुत्ररहितः ॥ २ ॥

तयोः समभवल्लोभो निकृतिश्च महामते ।

ताभ्यां क्रोधश्च हिंसा च दुरुक्तिश्च तयोः कलिः ॥ ३ ॥

प्रकाशिका

निकृतिः शठता ॥ ३ ॥

दुरुक्तौ कलिराधत्त भयं मृत्युं च सत्तम ।

तयोश्च मिथुनं जज्ञे यातना निरयस्तथा ॥ ४ ॥

प्रकाशिका

भयमृत्युशब्दवाच्ययोरन्यतरस्य स्त्रीत्वं ज्ञातव्यम् । यातना तीव्रवेदना ॥ ४ ॥

एते ह्यधर्मवृक्षस्य वंशाः संसृतिहेतवः ।

श्रेयस्कामो न सेवेत नितरामाश्रमोत्तमी ॥ ५ ॥

पदरत्नावली

अत्र मायादयः स्त्रियोऽन्ये पुमांसः । संसारहेतवो हि यस्मात् तस्माच्छ्रेयस्काम एतान् न सेवतेत्यन्वयः । आश्रमोत्तमी सन्न्यासी ॥ ५ ॥

प्रकाशिका

न सेवेताभिमन्यमानान् मृषादीनिति शेषः । आश्रमोत्तमी सन्न्यासी ॥ ५ ॥

सङ्ग्रहेण मया ख्यातो ऽनुसर्गस्तवानघ ।

त्रिःश्रुत्वैतत् पुमान् पुण्यं विधुनोत्यात्मनो मलम् ॥ ६ ॥

पदरत्नावली

मया ख्यातो ऽनुसर्ग इत्यत (इत्यत्र) सन्ध्यभावः सङ्ग्रहोक्त्याल्पत्वं न ज्ञातव्यम्, महानयम्, ग्रन्थबहुलत्वात्, लोके दृश्यमानत्वाच्चेति प्रदर्शनार्थ इति ज्ञातव्यम् । अस्यानु-सर्गस्य श्रवणफलमाह– त्रिः श्रुत्वेति ॥ आत्मनो मनसो मलं विधुनोति निरस्यति ॥ ६ ॥

प्रकाशिका

ख्यात अनुसर्ग इत्यत्र सन्ध्यभावश्छान्दसः । पुण्यं पुण्यकरम् । आत्मनो मनसो मलं रागादिकं धुनोति निरस्यति ॥ ६ ॥

अथातः कीर्तये वंशं पुण्यकीर्तेः कुरूद्वह ।

स्वायंभुवस्यापि मनोर्हरेरंशांशजन्मनः ॥ ७ ॥

तात्पर्यम्

‘आविष्टा हरिणा जीवा ब्रह्मा दक्षो मनुः पृथुः । शक्राद्या ऋषयश्चैव मत्स्य-व्यासादयो हरिः ॥’ इति ब्रह्मवैवर्ते ॥ ७ ॥

पदरत्नावली

वक्तव्यायाः कथायाः समाप्तत्वादतः परं किं वक्तव्यमिति तत्राह– अथात इति ॥ अथेत्यनेन पूर्वस्माद् वक्ष्यमाणस्यार्थस्य मङ्गलत्वं वक्ति । यतोऽधर्मादिकं हेयमत उपादेयं कथयामीति– अत इति ॥ अपिशब्देन वंशस्यानल्पत्वं श्रुतिस्मृतिभ्यां सम्भावितत्वमाह– हरेरिति ॥ हरेरंशांशेन विशेषावेशेन सहितं जन्म यस्य स तथा तस्य । ‘आविष्टा हरिणा जीवा ब्रह्मा दक्षो मनुः पृथुः । शक्रद्या ऋषयश्चैव मत्स्यव्यासादयो हरिः ॥’ इति ॥ ७ ॥

प्रकाशिका

अतः प्रयोजनसद्भावात् । मनोर्वंशं मनुपुत्रवंशम् । कथम्भूतस्य मनोः । हरेरंशांश-जन्मनः । अत्र स्वायंभुवस्य मनोर्मत्स्यादिवत्साक्षाद्धरेरंशत्वमुच्यत इति प्रतीतिवारणाय तात्पर्यं प्रमाणेनैव दर्शयति ॥ आविष्टा इति । ब्रह्माद्या देवा ऋषयश्च एते जीवा हरिणाविष्टा एव न तु साक्षादंशाः । मत्स्यव्यासादयो हरिर्हरेः साक्षादंशा इत्यर्थः । तथा च हरेर्ब्रह्माण्डान्तर्गतस्य पुरुष-नामकस्य योंऽशः श्वेतद्वीपगतस्तदंशेन राजराजेश्वराख्येन युक्तं जन्म यस्य स तथोक्तस्तस्येति मूलं व्याख्येयमिति भावः ॥ ७ ॥

प्रियव्रतोत्तानपादौ शतरूपापतेः सुतौ ।

वासुदेवस्य कलया रक्षायां जगतः स्थितौ ॥ ८ ॥

तात्पर्यम्

‘प्रियव्रतोत्तानपादप्रमुखेषु हरिः स्वयम् । आविष्टः सर्वभूतेषु ऋषभाद्याः स्वयं हरिः’ ॥ इति हरिवंशेषु ॥ ८ ॥

पदरत्नावली

प्रियव्रतोत्तानपदोर्मनुपुत्रत्वेन पूर्वमुक्तयोः पुनरत्रोक्तिर्वंशस्य आदित्वज्ञापनाय । अनुवदति– प्रियव्रतेति । राजराजाख्यकलया सन्निहितौ तदुक्तम्– ‘‘प्रियव्रतोत्रानपादप्रमुखेषु हरिः स्वयम् । आविष्टः सर्वभूतेषु ऋषभाद्याः स्वयं हरिः’’ इति ॥ ८ ॥

प्रकाशिका

वासुदेवस्य कला स्वरूपांशस् तया जगतो रक्षायां स्थिताविति प्रतीतिवारणाय विवक्षितं तात्पर्यं प्रमाणेनैवाह ॥ प्रियव्रतेति । सर्वभूतेषु पुण्यश्लोकराजसु स्वयं राजराजाख्यस्वांशेन । उक्तस्यापवादमाह ॥ ऋषभाद्या इति । तापसमन्वादिसंग्रहायाद्यपदम् । स्वयं हरिः साक्षाद्धरेरंशा इत्यर्थः । तथा च वासुदेवस्य कलया राजराजेश्वराख्येनांशेनाविष्टाविति मूलं व्याख्येयमिति भावः ॥८॥

जाये उत्तानपादस्य सुनीतिः सुरुचिस्तयोः ।

सुरुचिः प्रेयसी पत्युर्नेतरा यत्सुतो ध्रुवः ॥ ९ ॥

पदरत्नावली

प्रियव्रतोत्तानदयोर्मध्ये प्रियव्रतविक्रमस्य प्रथमं वक्तव्यत्वे सत्युत्तानपादपुत्रस्य ध्रुवस्यातिरमणीयत्वेन विरक्तिभक्तिजनकत्वेन श्रोतुः श्रद्धाजनकत्वेन भगवदुपास्तौ क्षिप्रप्रवृत्तिजनकत्वे-नाऽऽश्चर्यबुद्धिजनकत्वेन च प्रथमं तच्चरितं वक्तुमुपक्रमते– जायेति ॥ यस्याः सुनीतेः सुतः ॥ ९ ॥

प्रकाशिका

प्रियव्रतवंशस्य बहुत्वात्सूचीकटाहन्यायेनोत्तानपादवंशं निरूपयितुमाह ॥ जायेति । सुनीतिः सुरुचिश्च जाये । तयोर्मध्ये यस्याः सुनीतेः सुतो ध्रुवः ॥ ९ ॥

एकदा सुरुचेः पुत्रमङ्कमारोप्य लालयन् ।

उत्तमं नारुरुक्षन्तं ध्रुवं राजाऽभ्यनन्दत ॥ १० ॥

पदरत्नावली

सुनीतिः कथं पत्युः प्रेष्ठा नाभूदिति ज्ञायत इति तं प्रकारं वक्ति– एकदेति ॥ नाम्नोत्तमम् । आरुरुक्षन्तमङ्कमारोढुकामम् ॥ १० ॥

प्रकाशिका

इतः परं पञ्चभिरध्यायैर्ध्रुवचरितमाह ॥ एकदेति । उत्तममुत्तमसंज्ञं सुरुच्याः पुत्रं लालयन् । आरुरुक्षन्तमंकमारोढुमिच्छन्तं नाभ्यनन्दत ॥ १० ॥

तथा चिकीर्षमाणं तं सपत्न््नयास्तनयं ध्रुवम् ।

सुरुचिः शृृण्वतो राज्ञः सेर्ष्यमाहातिगर्विता ॥ ११ ॥

पदरत्नावली

तथाचिकीर्षमाणम् अङ्कमारोर् मिच्छन्तम् । सपत्न््नयाः सुनीतेः । सेर्ष्यमिति क्रियाविशेषणम् ॥ ११ ॥

प्रकाशिका

तथा चिकीर्षमाणमंकमारोढुमिच्छन्तं सपत्न््नयाः सुनीतेः पुत्रम् । सेर्ष्यमिति क्रियाविशेषणम् ॥ ११ ॥

न वत्स नृपतेर्धिष्ण्यं भवानारोढुमर्हति ।

न गृहीतो मया यत् त्वं कुक्षावपि नृपात्मज ॥ १२ ॥

बालोऽसि बत नात्मानमन्यस्त्रीगर्भसम्भृतम् ।

नूनं वेद भवान् यस्य दुर्लभेऽर्थे मनोरथः ॥ १३ ॥

पदरत्नावली

धिष्ण्यं सिंहासनम् । अनर्हत्वे निमित्तमाह– न गृहीत इति ॥ नेदमाश्चर्य-मित्याह– बाल इति ॥ ततः किमिति तत्राह– नात्मानमिति ॥ स्वायोग्यमिच्छन् पततीति भावेनाह– यस्येति ॥ यस्य तव ॥ १२,१३ ॥

प्रकाशिका

गर्वोक्तिमेवाह ॥ नेति त्रिभिः । नृपतेर्धिष्ण्यं सिंहासनम् ॥ १२,१३ ॥

तपसाऽऽराध्य पुरुषं तस्यैवानुग्रहेण मे ।

गर्भे त्वं साधयाऽऽत्मानं यदीच्छसि नृपासनम् ॥ १४ ॥

पदरत्नावली

तर्हि त्वत्पुत्रभावित्वे किं कर्तव्यम् ? अत्राह– तपसेति ॥ पुरुषं विष्णुम् ॥ १४ ॥

प्रकाशिका

पुरुषमीश्वरम् । सिंहासनयोग्यपुत्रसम्पादके मे गर्भे आत्मानं देहं साधय सम्पादय

॥ १४ ॥

मैत्रेय उवाच–

मातुः सपत्न््नयाः सुदुरुक्तिविद्धः

श्वसन् रुषा दण्डहतो यथाऽहिः ।

हित्वा मिषन्तं पितरं सन्नवाचं

जगाम मातुः स रुदन् सकाशम् ॥ १५ ॥

पदरत्नावली

ध्रुवः सपत्न््नयाः सुरुच्या वाक्यं श्रुत्वा किमकार्षीदिति तत्राह– मातुरिति ॥ मिषन्तं पश्यन्तम्, सन्नवाचं तूष्णींभूतम् । आमिषं हित्वा मातुरिव स्थितस्य बिलस्य सकाशमहिरिवेति वा ॥ १५ ॥

प्रकाशिका

मिषन्तं पश्यन्तम् । सन्नवाचं तूष्णींभूतम् ॥ १५ ॥

तं निःश्वसन्तं स्फुरिताधरोष्ठं

सुनीतिरुत्सङ्गमुदूह्य बालम् ।

निशम्य तत् १पुत्रमुखान्नितान्तं

सा विव्यथे यद् गदितं सपत्न््नया ॥ १६ ॥

पदरत्नावली

अस्यामवस्थायां सुनीत्या किमकारीति तत्राह– तं निःश्वसन्तमिति ॥ १६ ॥

प्रकाशिका

उदूह्यारोप्य । सपत्न््नया यद्गदितं तत्पुत्रमुखान्निशम्य ॥ १६ ॥

सोत्सृज्य धैर्यं विललाप शोकदावाग्निना दावलतेव बाला ।

वाक्यं सपत्न््नयाः स्मरती सरोजश्रिया दृशा बाष्पकलामुवाह ॥ १७ ॥

पदरत्नावली

धातोरनेकार्थत्वात् कीदृशी व्यथा तयाऽकारीति तत्राह– सोत्सृज्येति । विलापस्योदरताडनाऽविनाभूतत्वेन तत्पूर्वकं तया परिदेवितमित्यर्थः । शोकदावाग्निना शोकाख्य-वनवह्निना, दह्यमानेति शेषः । दावलता वनवल्ली । बाष्पकलां नेत्रजलधाराम् ॥ १७ ॥

प्रकाशिका

शोक एव दावाग्निस्तेन शोकाख्यवनवह्निना । दह्यमानेति शेषः । दावलतेव वनलतेव स्थिता सा बाला विललाप विलापं चकार । बाष्पकलां नेत्रजलधाराम् ॥ १७ ॥

दीर्घं श्वसन्ती वृजिनस्य पारम्

अपश्यती बालकमाह बाला ।

माऽमङ्गलं तात परेषु मंस्था

भुङ्क्ते जनो यत् परदुःखदस्तत् ॥ १८ ॥

पदरत्नावली

वृत्त्या सस्यभक्षणवद् राज्ञा कृतावज्ञानस्यापरिहार्यत्वात् सम्प्राप्तदुःखस्यावसान-मचक्षाणा, आत्मनो निर्दुष्टमनस्कत्वं दर्शयन्ती बालं शिक्षयतीत्याह– दीर्घं श्वसन्तीति ॥ परदुःखदो जनस्तद् दुःखं स्वयं भुङ्क्ते इति यद् यस्मात् तस्मात् परेष्वमङ्गलं मा मंस्था न निरूपयेत्यन्वयः

॥ १८ ॥

प्रकाशिका

वृजिनस्य दुःखस्य पारमवसानम् । परेषु वैरिष्वभद्रममङ्गलं मा मंस्था न निरूपय । यद्यस्मात्परदुःखदो यः स तु तद्दुःखं भुङ्क्ते ॥ १८ ॥

सत्यं सुरुच्याऽभिहितं भवान् मे

यद् दुर्भगाया उदरे गृहीतः ।

स्तन्येन वृद्धश्च विलज्जते यां

भार्येति वा वोढुमिडस्पतिर्माम् ॥ १९ ॥

पदरत्नावली

परेण द्वेषादुक्तमपि गुणग्राहिणः स्वात्मनः पथ्यमेव भवतीति भावेनाह– सत्यमिति ॥ चार्थो वाशब्दः । इडस्पतिः राजा । यां मां भार्येति च वोढुं वक्तुं विलज्जते, भवांस्तस्या दुर्भगाया दुःखहेत्वदृष्टाया मे उदरे गृहीतोऽत एव स्तन्येनैव वृद्धो न पितृदत्तरसायनेनेति यस्मात् तस्मात् सुरुच्या तपसाऽऽराध्येति यदभिहितं तत् सत्यमित्यन्वयः ॥ १९ ॥

प्रकाशिका

दुर्भगत्वमेवाह ॥ विलज्जत इति । इडस्पतिर्भूपतिर्यां मां च भार्येति वोढुं स्वीकर्तुं विलज्जते । वाशब्दश्चार्थे । (वाशब्दाद्दासीत्यपि) भवान् तस्या दुर्भगाया दुःखहेत्वदृष्टाया मे मयोदरे गृहीतः यद् यस्मात् । चशब्दोऽवधारणे । अत एव स्तन्येनैव वृद्धः । न तु पितृदत्तरसायनादिना । तस्मात ‘‘बालोऽसि । नात्मानमन्यस्त्रीगर्भसम्भवम्’’ इति यत्सुरुच्याभिहितं तत्सत्यम् ॥ १९ ॥

आतिष्ठ तत् तात विमत्सरस्त्वमुक्तं १स्वमात्राऽपि यदव्यलीकम् ।

आराधयाधोक्षजपादपद्मं यदीच्छसेऽध्यासनमुत्तमो यथा ॥ २० ॥

पदरत्नावली

एतदेव विवृणोति– आतिष्ठेति ॥ मत्पुत्र उत्तमो यथा यद्यध्यासनमिच्छसे आत्मनो हितमाकाङ्क्षसि तर्ह्यधोक्षजपादपद्मामाराधयेति यत् सुमात्रा सुरुच्या कथितं तदव्यलीकं कर्तु-मातिष्ठ । तप इति शेषः ॥ २० ॥

प्रकाशिका

वैरिभिरुक्तमपि हितवदेवावश्यं ग्राह्यमित्याशयेनाह ॥ आतिष्ठेति । स्वमात्रा पितृ-भार्यात्वेन मातृसमाना मातुःसपत्नी तयाऽपि यदुक्तं तदातिष्ठ कुरु । कुतः । यद् यस्मात् । अव्यलीकं सत्यं प्रियं वा । किं तयोक्तं यन्मया कर्तव्यमित्यतस्तपसाऽऽराध्य पुरुषमिति तयोक्तमर्थतोऽनुवदति ॥ आराधयेति । मत्पुत्र उत्तमो यथा तथाऽत्मनोऽध्यासनं यदीच्छसे तर्ह्यधोक्षजपादपद्ममाराधयेति यदुक्तं तदातिष्ठेत्यन्वयः ॥ २० ॥

यत्पादपद्मं परिचर्य विश्वविभावनायात्तगुणाभिपत्तेः ।

अजोऽध्यतिष्ठत् खलु पारमेष्ठ्यं पदं जितात्मा श्वसनाभिवन्द्यम्१ ॥ २१ ॥

पदरत्नावली

केनचित् श्रीनारायणश्रीचरणपरिचर्याफलं निरुपममवाप्तं चेत् तर्हि श्रोतुस् तत्र क्षिप्रं प्रवृत्तिर्भवतीति तत्राह– यत्पादेति ॥ परिचर्य परिपूज्य विश्वविभावनाय विश्वस्य विविध-सृष्ट्यर्थमात्तगुणाभिपत्तेर् अङ्गीकृतसार्वज्ञादिगुणप्राप्तिहेतोरजो ब्रह्मा । जितात्मा वशीकृतमनाः । श्वसनस्य वायोरपि विभागराहित्येन गन्तुं योग्यं वन्द्यम् ॥ २१ ॥

प्रकाशिका

ध्रुवस्य रुच्युत्पादनाय पुराकल्परूपमर्थवादमाह ॥ यत्पादपद्ममिति द्वाभ्याम् । यद् यस्य । परिचर्य परिपूज्य विश्वस्य विभावनाय सृष्ट्याद्यर्थमात्तगुणाभिपत्तेः स्वीकृतसत्त्वादिगुण-सम्बन्धस्य । अजो ब्रह्मा जितात्मा वशीकृतमनाः । श्वसनेन मुख्यवायुनाऽभिवन्द्यम् । वायो-र्ब्रह्मसमत्वेऽपि पदप्रयुक्तमभिवन्दनमिदमिति ज्ञातव्यम् । जितात्मश्वसनाभिवन्द्यमिति पाठे जित आत्मा मनः प्राणश्च यैस्ते तथा तैरभिवन्द्यमिति व्याख्येयम् ॥ २१ ॥

तथा मनुर्वो भगवान् पितामहो यमेकभक्त्या पुरुदक्षिणैर्मखैः ।

इष्ट्वाऽभिपेदे दुरवापमन्यतो भौमं सुखं दिव्यमथापवर्ग्यम् ॥ २२ ॥

पदरत्नावली

चतुर्मुखस्य भगवत्पुत्रत्वेन तत्प्रसादयोग्यतया तस्य तादृशैश्वर्यावाप्तिर्युक्ता । अस्मत्पूर्वजेन केनाप्तं येन श्रद्धयाऽस्माकमपि तत्र झटिति प्रवृत्तिः स्यात् ? अतस्तदनुभावयेति तत्राह– तथेति ॥ अन्यतो भक्त्यादिव्यतिरिक्तसाधनेनान्याभ्यो देवताभ्यो वा । भौमं मन्वन्तराधिपत्यं दिव्यं स्वर्गसंबन्धि आपवर्ग्यं कैवल्यसम्बन्धि । अथेत्यनेन देहत्यागानन्तरमेवापवर्गसुखावाप्तिर्न जन्मान्तरं प्राप्येत्याह ॥ २२ ॥

प्रकाशिका

अन्यतोऽन्यैः ॥ २२ ॥

तमेव वत्साश्रय भृत्यवत्सलं मुमुक्षुभिर्मृग्यपदाब्जपद्धतिम् ।

अनन्यभावे निजधर्मभाविते मनस्यवस्थाप्य भजस्व पूरुषम् ॥ २३ ॥

पदरत्नावली

किं बहुनोक्तेन, सारं वक्ष्यामीत्याह– तमेवेति ॥ यत्किञ्चिद्दोषदृष्ट्या विमुखो न स्यादित्यत उक्तम्– भृत्येति ॥ न केवलं विषयलोलैरेवाराध्यम्, किन्तु संसारमोक्षेच्छुभिरपीति भावे-नोक्तम्– मुमुक्षुभिरिति ॥ अत्र प्रधानसाधनमिदमिति ध्वनयति– अनन्यभाव इति ॥ अनन्यो भावो विषयो यस्य स तथा तस्मिन् । तस्य भक्तिसाधनत्वं ध्वनयति– निजधर्मेति ॥ यमनियमादयो निजधर्मास्तैर्भाविते कृततत्स्वात्मभावे ॥ २३ ॥

प्रकाशिका

मृग्या पदाब्जयोः पद्धतिर्मार्गो यस्य तम् । अनन्यभावे अन्यभक्तिरहिते निजधर्मा यमादयस्तैर्भाविते शोधिते । निर्मल इति यावत् ॥ २३ ॥

नान्यं ततः पद्मपलाशलोचनाद् दुःखच्छिदं ते मृगयामि कञ्चन ।

यो मृग्यते हस्तगृहीतपद्मया श्रियेतरैरङ्ग विमृग्यमाणया ॥ २४ ॥

पदरत्नावली

कुतोऽयमेवापेक्षिताशेषपुरुषार्थावाप्ताविति नियमोऽन्यः किं न स्यादिति तत्राह– नान्यं तत इति ॥ यो युष्माकं कुलदेवता लक्ष्मीकान्तस्ततस् तस्मात् पद्मपलाशलोचनात् । अनेनाकाश-वन्नीरूपस्योपासनं न संगच्छत इति चोद्यं परिहृतम् । त्वया नान्विष्योक्तं, विचारिते कश्चित् स्यादित्यत उक्तम्– मृगयामीति ॥ लक्ष्मीतत्त्वं स्यादिति तत्राह– य इति ॥ श्रीत्वं भारत्यादावप्यस्तीत्यत उक्तम्– इतरैरिति ॥ इतरैर्ब्रह्मादिभिः सेव्याऽपि संपल्लक्षणा श्रीः किं न स्यादित्यत उक्तम्– हस्तेति ॥ अनेन श्रीः प्रिया मूर्तिमती साक्षाल्लक्ष्मीरिति ज्ञायते । मृग्यत इत्यनेन हरेर्गुणतः स्वरूपतश्चोत्तमत्वं ध्वनयति । विमृग्यमाणयेत्यनेन श्रीकटाक्षमोक्षस्य दुःसाधनत्वमाह ॥ २४ ॥

प्रकाशिका

कुतोऽयमेव भजनीय इत्यत आह ॥ नान्यमिति । यो युष्माकं कुलदेवता लक्ष्मीकान्तस्तस्मात् । श्रीरेव तादृशी किं न स्यादित्यत उक्तम् ॥ य इति । नवनवविशेषोपलंभे पूजार्थं हस्तगृहीतपद्मयेत्यर्थः । अङ्ग हे ध्रुव । इतरैर्ब्रह्मादिभिर्ज्ञानभक्त्यादिवृद्ध्यर्थं विशेषेण मृग्यमाणया । तथा च सर्वोत्तमश्रीस्वामित्वादयमेव भजनीय इति भावः ॥ २४ ॥

मैत्रेय उवाच–

एवं संजल्पितं मातुराकर्ण्यार्थागमं वचः ।

सन्नियम्यात्मनाऽऽत्मानं निश्चक्राम पितुः पुरात् ॥ २५ ॥

पदरत्नावली

बालत्वाद् रोषतोषयोः क्षणकालीनत्वेन समत्वान् मातृवचः श्रुत्वाऽपि गृह एवावस्थानं, हृदि सन्निधाय तत्समर्थनाय ततो निर्गमनं वा युक्तमिति, ध्रुवेण द्वयोर्मध्ये किमकारीत्यान्तरीं शङ्कां परिहर्तुमाह– एवमिति ॥ अर्थस्याभिप्रेतस्यागमः प्राप्तिर्यस्मात् तत् तथा तदा आत्मानं मनः, आत्मना धैर्यगुणेन ॥ २५ ॥

प्रकाशिका

सञ्जल्पितं सम्यगुक्तं मातुर्मात्रा । अर्थस्य पुरुषार्थस्यागमः प्राप्तिर्यस्माद् आत्मना धैर्येणात्मानं मनः सन्नियम्य विषयेभ्यो निवृत्त्य ॥ २५ ॥

नारदस्तदुपाकर्ण्य ज्ञात्वा चास्य चिकीर्षितम् ।

स्पृष्ट्वा मूर्धन्यघघ्नेन पाणिना प्राह विस्मितः ॥ २६ ॥

पदरत्नावली

ध्रुवो नाम महात्मेति द्योतयंस्तस्य स्वाभीष्टसिद्धिलक्षणं नारदसंवादं वक्ति– नारदेति ॥ उपाकर्ण्येत्यनेन नारदस्य दूरश्रवणशक्तिर्योगीन्द्रत्वात् स्वाभाविकीति सूचयति । सर्वप्राणि-चित्तविषयं ज्ञानं वा योगसिद्धमिति । स्पृष्ट्वेत्यादिना गुरुप्रसादं ध्वनयति । अघघ्नेन सर्वदुरित-विनाशकेनेति पित्रादिद्वेषनिमित्तदोषनाशं सूचयति ॥ २६ ॥

प्रकाशिका

उपाकर्ण्येत्यनेन नारदस्य योगीन्द्रत्वाद्दूरश्रवणे शक्तिरस्तीति सूचयति । स्पृष्टेत्यनेन समग्रानुग्रहम् ॥ २६ ॥

अहो तेजः क्षत्रियाणां मानभङ्गममृष्यताम् ।

बालोऽप्ययं हृदा धत्ते यत् समातुरसद्वचः ॥ २७ ॥

पदरत्नावली

विस्मित इत्युक्तमभिनयति– अहो इति ॥ तेजःधैर्यलक्षणम् । अमृष्यताम-सहमानानाम् । समातुः समानमातुः सुरुच्याः ॥ २७ ॥

प्रकाशिका

विस्मित इत्युक्तम् । विस्मयमेवाभिनयेनाह ॥ अहो इति । तेजो धैर्यलक्षणं प्रभावो वा । अमृश्यतामसहमानानाम् ॥ २७ ॥

नारद उवाच–

क्व यात्येको भवान् वत्स हित्वा स्वगृहमृद्धिमत् ।

लक्षये त्वाऽवमत्याङ्ग सन्तप्तं स्वजनोत्थया ॥ २८ ॥

पदरत्नावली

किं प्राहेति तत्राह– क्व यातीति ॥ लक्षये लक्षणवृत्त्या जानामि ॥ २८ ॥

प्रकाशिका

लक्षये लक्षणवृत्त्या जानामि ॥ २८ ॥

ध्रुव उवाच–

किं न ते ध्यानजातेन दृष्टं वा योगराधसा ।

नोत्सहे सुरुचेर्वाचा समाधातुं मनःक्षतम् ॥ २९ ॥

नारद उवाच–

नाधुनाऽप्यवमानं ते सन्मानं चापि पुत्रक ।

लक्षयामः कुमारस्य सक्तस्य क्रीडनादिषु ॥ ३० ॥

पदरत्नावली

अत्र ध्रुवेण किमुत्तरं दत्तमिति तत्राह– किं न त इति ॥ ध्यानेन ज्ञानं लक्षयति कार्यकारणसम्बन्धात् । ते त्वया ध्यानजातेन योगराधसा, अष्टाङ्गयोगजनितदूरदर्शनशक्तिलक्षणसामर्थ्येन वा किं न दृष्टम्, ? सर्वं दृष्टमेव, तथापि वक्ष्यामीति शेषः । किं तदिति तत्राह– नोत्सह इति ॥ नारदेनापि किं प्रत्युत्तरमुक्तम् ? तत्राह– नाधुनेति ॥ २९,३० ॥

प्रकाशिका

योगराधसा योगसामर्थ्येन न दृष्टं किं सर्वं दृष्टमेव । तथाऽपि । वक्ष्यामीति शेषः। तदेव वचनं दर्शयति ॥ नोत्सह इति । नोत्सहे न शक्तोऽस्मि । वाचा जातमिति शेषः ॥ २९,३० ॥

विकल्पे विद्यमानेऽपि न ह्यसंतोषहेतवः ।

पुंसो मोहमृते भिन्ना यल्लोका निजकर्मभिः ॥ ३१ ॥

तात्पर्यम्

विविधकल्पने विद्यमानेऽपि परिणततया ॥ ३१ ॥

पदरत्नावली

ननु क्रीडनादिषु सक्तस्य बालस्य न युक्तम् । अन्यस्य विवेकिनः कथमित्या-शङ्क्य नितरामीदृशस्य सन्तोषहेतुत्वमिति बोधयति– विकल्प इति ॥ विकल्पे शत्रुमित्रादिविविधकल्पने विद्यमानेऽपि पुंसो मोहमृते भ्रममन्तरेणासंतोषहेतवो मनःखेदजनका न सन्ति । कुतः ? लोका जना भिन्नाः स्वानुष्ठितैर्निजकर्मभिरुत्तमाधममध्यमभेदेन नानाविधा इति यस्मात् ॥ ३१ ॥

प्रकाशिका

ननु नाहं लौकिककुमार इत्यतो विवेकिनोऽपि विमर्शे सति वैरिदुर्वचो न दुःख-हेतुरित्याह ॥ विकल्प इति । अत्र विकल्पे मानापमानविवेके सत्यपि लोका भिन्ना न सन्ति किन्तु मोहकल्पिता एवेत्यर्थपरत्वप्रतीतिनिरासाय विकल्प इत्यस्यार्थमाह ॥ विविधकल्पन इति । अत्र मोहकल्पित्वस्याऽभिप्रेतत्ववर्णने विद्यमान इत्यनेनाविरोध इति दर्शनाय विद्यमानेऽपीत्यस्यानुवादः । विविधकल्पने शत्रुमित्रादिभावेन कल्पने परमार्थतो विद्यमानेऽपीत्यर्थः । कल्पशब्दो नात्र भ्रमरूप-ज्ञानपरः किन्तु जननपर इत्याशयेनाह ॥ परिणततयेति । प्रकृतेरिति शेषः । क्वचित्तथैव पाठः । तथा च विकल्पे प्रकृतिपरिणामवशाच्छत्रुमित्रभावेन जनने विद्यमानेऽपि पुंसो मोहमृतेऽयं मम स्वभावत एव शत्रुरिदं मित्रमिदममित्रमिति भ्रममन्तरेणासन्तोषहेतवो दुःखजनका न हि । इदमुपलक्षणम् । सुखजनकाश्चेत्यपि ग्राह्यम् । विवेकिनोऽप्युक्तरूपमिथ्याज्ञानमेव सुखदुःखजनकं न शत्र्वादितयोत्पन्ना लोका इति जानन्तीत्यर्थः । अयं शत्रुरित्यादिज्ञानस्य मोहत्वमेव कुत इत्यत उक्तम् ॥ यल्लोका इति । यद्यस्माल्लोकाः । निजकर्मभिरदृष्टप्रेरकेश्वरोत्पादितप्रकृतिपरिणामवशाद्भिन्नाः शत्र्वादितयोत्पन्ना न तु सज्जीवेषु स्वभावतः शत्रुभावः । नापि दुर्जीवेषु स्वभावतः मित्रभावः । अतस्तेषूक्तरूपं ज्ञानं मोहरूप-मेव । ततश्चेतादृशपरिणामजनकेश्वरस्वातन्त्र्यविमर्शनेन मोहमपाकृत्य मनसि खेदः परिहार्य इत्याशयः

॥ ३१ ॥

परितुष्येत् ततस्तात तावन्मात्रेण पूरुषः ।

दैवोपसादितं यावद् वीक्ष्येश्वरगतिं बुधः ॥ ३२ ॥

पदरत्नावली

तत ईश्वरगतिं बुधो विद्वान् यावद् दैवोपासादितं वीक्ष्य तावन्मात्रेण परितुष्ये-दित्यन्वयः । ईश्वरगतिं वीक्ष्य यावद् दैवोपसादितं तावन्मात्रेणेति वा । अनेन सुरुच्या दुर्वचस्तव संतापकारणं न भवतीत्युक्तं भवति ॥ ३२ ॥

प्रकाशिका

नन्वेवमध्यासनप्राप्त्यभावे कथं मम जीवनमित्यत आह ॥ परितुष्येदिति ॥ ततः कर्मप्रेरकेश्वरस्य स्वातन्त्र्याद् ईश्वरगतिम् अदृष्टप्रेरकेश्वरस्य स्वातन्त्र्यं वीक्ष्य सम्यग्विचार्य बुधो विद्वान्याव-द्दैवोपसादितम् अदृष्टप्रेरकेश्वरेण दत्तं तावन्मात्रेण अन्नादिना परितुष्येदलम्बुद्धिं प्राप्नुयात् । अधिकाकांक्षा न कार्येत्याशयः ॥ ३२ ॥

अथ मात्रोपदिष्टेन योगेनावरुरुत्ससि ।

यत्प्रसादात् स वै पुंसां दुराराध्यो गतो मम ॥ ३३ ॥

पदरत्नावली

हरेः प्रसादजनके तपसि स्थितां बुद्धिं दृढां विधातुं बाधकमभिधत्ते– अथेति ॥ अथ यदि मात्रोपदिष्टेन योगेनोपायेन यस्य हरेः प्रसादाद् यं हरिमवरुरुत्ससि अनुग्रहोन्मुखी-कर्तुमिच्छसि, तर्ह्यपि स हरिर्मम पुंसां दुराराध्यो मतः । कुतस्तत्प्रसादावाप्तिः ? कुतस्तरां फल-प्राप्तिरित्यर्थः । वा इत्यनेन स्वानुभवसिद्धमिति दर्शयति ॥ ३३ ॥

प्रकाशिका

अध्यासनार्थं यत्नोऽपि तव न सुकर इत्याह ॥ अथेति । अथ यदि मात्रोपदिष्टेन योगेनोपायेन । अध्यासनमिति शेषः । यत्प्रसादाद् यस्य हरेः प्रसादात् ॥ ३३ ॥

मुनयः पदवीं यस्य निःसङ्गेनोरुजन्मभिः ।

न विदुर्मृगयन्तोऽपि तीव्रयोगसमाधिना ॥ ३४ ॥

पदरत्नावली

मुनयोऽपि यन्मार्गं समाराध्य न जानन्ति बालकस्त्वं किमुतेत्याह– मुनय इति

॥ ३४ ॥

प्रकाशिका

दुराराध्यत्वमेवोपपादयति ॥ मुनय इति । पदवीं मार्गम् । निःसङ्गेन तीव्रभक्ति-योगयुक्तेन समाधिना मृग्यन्तोऽपि यस्य पदं न विदुः स देवो दुराराध्य इत्यन्वयः ॥ ३४ ॥

अतो निवर्ततामेष निर्बन्धस्तव निष्फलः ।

यतिष्यति भवान् काले श्रेयसे समुपस्थिते ॥ ३५ ॥

पदरत्नावली

ततः किं ? तत्राह– अत इति ॥ तर्हि निःश्रेयसाय प्रयतमानस्य पुंसो जन्मनो निरर्थकत्वमित्याशङ्क्या नायं कालः, किन्तु कालान्तर इत्याह– यतिष्यतीति ॥ काले वार्धके ॥३५॥

प्रकाशिका

तर्हि श्रेयसोऽर्थं प्रयतमानस्य मम जन्मनो वैय्यर्थ्यमित्यतो नायं काल इत्याह ॥ यतिष्यतीति । श्रेयसे निःश्रेयसाय काले वार्धके सम्यगुपस्थिते प्राप्ते सति ॥ ३५ ॥

यस्य यद्देवविहितं स तेन सुखदुःखयोः ।

आत्मानं तोषयन् देही तमसः पारमृच्छति ॥ ३६ ॥

पदरत्नावली

सुखदुःखयोर्मध्ये यत् सुखं दुःखं वा यस्य दैवेन विहितं स देही तयोरेकेन तेनात्मानं तोषयंस्तमसः पारमज्ञानस्यान्तं मोक्षमृच्छति गच्छतीत्यन्वयः ॥ ३६ ॥

प्रकाशिका

तावत्पर्यन्तमपि नाधिकाकांक्षा कार्येत्याशयेनेदानीमनुष्ठेयं मोक्षसाधनमुपदिशति ॥ यस्येति द्वाभ्याम् । सुखदुःखयोर्मध्ये यत्सुखं यद्दुःखं वा यस्य दैवेन विहितं दत्तं स देही तयोरन्यतरे-णात्मानं तोषयंस्तत्कृतोच्चनीचतामनापादयंस्तमसोऽज्ञानस्य पारमन्तं मोक्षम् ऋच्छति गच्छति ॥ ३६ ॥

गुणाधिकान्मुदं लिप्सेदनुक्रोशं गुणाधमात् ।

मैत्रीं समानादन्विच्छेन्न तापैरभिभूयते ॥ ३७ ॥

पदरत्नावली

मनोदुःखाभावे उपायान्तरमाह– गुणाधिकादिति ॥ शमदमादिगुणाधिकात् । पुरुषादिति प्रत्येकं सम्बध्यते । अनुक्रोशं दयाम् । मैत्रीं सौहार्दम् । तापैर्मनःखेदकरैर्भावैः ॥ ३७ ॥

प्रकाशिका

गुणाधिकात् । पुरुषादिति शेषः । ल्यब्लोपनिमित्ता एताः पञ्चम्यः । गुणाधिकं पुरुषं प्राप्येत्यादिरूपयोजना द्रष्टव्या । मुदं प्रीतिं लिप्सेत्कुर्यात् । नासूयामित्यर्थः । अनुक्रोशं कृपां न तिरस्कारम् । मैत्रीं सौहार्दम् । न तु स्पर्धाम् । तापैर्मनः खेदकैर्भावैः । तथा च मोक्षमार्गमनुतिष्ठता त्वयाऽऽदृष्टप्रेरकेश्वरनिष्ठारूपे शमे संपादिते दुर्वचनादिजनितपरितापादिनाऽभिभवस्तव न भविष्यतीति भावः ॥ ३७ ॥

ध्रुव उवाच–

सोऽयं शमो भगवता सुखदुःखहतात्मनाम् ।

दर्शितः कृपया पुंसां दुर्दर्शोऽस्मद्विधैस्तु यः ॥ ३८ ॥

अथापि मेऽविनीतस्य क्षात्रं घोरमुपेयुषः ।

सुरुच्या दुर्वचोबाणैर्न भिन्ने श्रयते हृदि ॥ ३९ ॥

पदरत्नावली

नारदेनैवं बोधितोऽपि ध्रुवस्तं मार्गं प्रशस्य स्वहार्दं विज्ञापयति– सोऽयमिति ॥ योऽस्मद्विधैर्दुर्दर्शः शास्त्रदृष्ट्या ज्ञातुमशक्यः सोऽयं शमो भगवन्निष्ठालक्षणो भगवता सुखदुःखाभ्यां हतात्मनां पीडितमनसां पुंसां कृपया दर्शितो यद्यपि ॥ अथापि तथापि । अविनीतस्य । कुतः ? क्षात्रं घोरं धर्ममुपेयुषो गच्छतो मे सुरुच्या दुर्वचोबाणैर्भिन्ने हृदि स शमो न श्रयते स्थितिं न लभत इत्यन्वयः

॥ ३८,३९ ॥

प्रकाशिका

योऽस्माद्विधैर्दुर्दर्शः शास्त्रदृष्ट्या ज्ञातुमशक्यः सोऽयं शमो भगवन्निष्ठालक्षणो भगवता सुखदुःखाभ्यां हतात्मनां पीडितमनसां पुंसां कृपया दर्शितो यद्यपि । अथाऽपि स शमो मे मम सुरुच्या दुर्वचोबाणैर्भिन्ने हृदि न श्रयते न स्थितिं लभते । कथम्भूतस्य मे । क्षात्रं क्षत्रस्य सम्बन्धि घोरं धर्ममुपेयुषः प्राप्तवतोऽत एवाविनीतस्यार्येष्वनम्रस्य ॥ ३८,३९ ॥

पदं त्रिभुवनोत्कृष्टं जिगीषोः साधुवर्त्म मे ।

ब्रूह्यस्मत्पितृभिर्ब्रह्यन्नन्यैरप्यनधिष्ठितम् ॥ ४० ॥

पदरत्नावली

तर्हि तवाकाङ्क्षायाः कियानवधिरिति तत्राह– पदमिति ॥ अनेन राजसिंहा-नस्यानित्यत्वेन न तपःसाध्यत्वेनाकाङ्क्षयत्वमिति सूचितम् । अस्मत्पितृभिरित्यादिनोत्तमस्य मनोरथे-नाप्यनवाप्यमित्यसूचि ॥ ४० ॥

प्रकाशिका

तर्हि किं त्वया कार्यमित्यपेक्षायामाह ॥ पदमिति । अन्यैरप्यनधिष्ठितमत एव त्रिभुवने उत्कृष्टं पदं स्थानं जिगीषोर्जेतुं प्राप्तुमिच्छोर्मे साधुवर्त्म समीचीनं मार्गं ब्रूहि । अनेनाध्या-सनप्राप्तिमात्रं न मदीयप्रयत्नफलमिति सूचयति ॥ ४० ॥

नूनं भवान् भगवतो योऽङ्गजः परमेष्ठिनः ।

१वितुदन्नटते वीणां हितार्थं जगतोऽर्कवत् ॥ ४१ ॥

पदरत्नावली

भवान् लोकहितार्थाटनत्वान् मदभीष्टमुपदिशतीत्याशयेनाह– नूनमिति ॥ ४१ ॥

प्रकाशिका

वीणां वितुदन्वादयन् । अनेनाटतस्तव श्रमो नास्तीति सूचयति । तथा च त्वदटनस्य जगद्धितार्थत्वान्ममापि जगदंतस्थत्वाद्ब्रूहीत्याशयः ॥ ४१ ॥

मैत्रेय उवाच–

इत्युदाहृतमाकर्ण्य भगवान् नारदस्तदा ।

प्रीतः प्रत्याह तं बालं तद्वाक्यमनुकम्पया ॥ ४२ ॥

पदरत्नावली

यादृच्छिकगतित्वात् तदुक्तमाकर्ण्य स्मित्वा योगित्वेनादृश्यशक्तिमत्वात् तूष्णीं गतमुत किमप्युक्तमिति तत्राह– इतीति ॥ तद्वाक्यं प्रति प्रीतः ॥ ४२ ॥

प्रकाशिका

तद्वाक्यं प्रति प्रीतः ॥ ४२ ॥

नारद उवाच–

जनन्याऽभिहितः पन्थाः स वै निःश्रेयसस्य ते ।

भगवान् वासुदेवस्तं भज तत्प्रवणात्मना ॥ ४३ ॥

पदरत्नावली

प्राक् स्वोक्तमेव दृढीकर्तुमुक्तमन्यद् वा, सम्भवादुभयोरिति तत्राह– जनन्येति ॥ वा इत्येवार्थः । यो जनन्याऽभिहितः पन्थाः स एव ते निःश्रेयसस्य स्यान्नान्य इत्यन्वयः । कोऽसा-विति तत्राह– भगवानिति ॥ यो हरेर्विग्रहेषु वासुदेवनामा भगवांस्तं प्रवणात्मना भजेत्यन्वयः ॥४३॥

प्रकाशिका

‘‘तमेव वत्साश्रय भक्तवत्सलम्’’ इत्यादि यो जनन्याऽभिहितः पन्थाः स वै स एव ते तव निःश्रेयसस्याभिप्रेतार्थस्य सिद्धये । स्यादिति शेषः । ननु जनन्या हरिभजनं कार्यमित्येवोक्तं न तु तद्रूपविशेषभजनमतो मदभीष्टप्रदं भगवद्रूपं किं यन्मया भजनीयमित्यपेक्षायामाह ॥ भगवानिति । वासुदेवो वासुदेवरूपो यस्तं तत्प्रवणात्मना तन्निष्ठमनसा भज इत्यन्वयः ॥ ४३ ॥

धर्मार्थकाममोक्षाख्यं य इच्छेच्छ्रेय आत्मनः ।

एकमेव हरेस्तत्र कारणं पादसेवनम् ॥ ४४ ॥

पदरत्नावली

अस्मिन्नर्थेऽन्यः किं न स्यादिति तत्राह– धर्मार्थेति ॥ कारणमितरव्यावर्तकं साधनम् ॥ ४४ ॥

प्रकाशिका

स वै निःश्रेयसस्येत्युक्तमुपपादयति ॥ धर्मेति । कारणमितरव्यावर्तकसाधनम् ॥

तत् तात गच्छ भद्रं ते यमुनायास्तटं शुचि ।

पुण्यं मधुवनं यत्र सान्निध्यं नित्यदा हरेः ॥ ४५ ॥

पदरत्नावली

अभीष्टसिद्धिसाधनं क्षेत्रं चोपदिशति– तत् तातेति ॥ यस्माद्धरेरेव प्रधान-साधनत्वं तत् तस्मान्मधोः पूर्णानन्दस्य हरेर् वनं भजनं यस्माद् भवति तन्मधुवनम् । नाम्ना सूचितमर्थं प्रकाशयति– यत्रेति ॥ ४५ ॥

प्रकाशिका

तद्भजनाय क्षेत्रमुपदिशति ॥ तत्तातेति । तत्तस्माद्धरिपादसेवनस्यैव सकल-पुरुषार्थहेतुत्वात् । मधोः पूर्णानन्दस्य हरेर्वननं भजनं यस्माद्भवति तन्मधुवनम् ॥ ४५ ॥

स्नात्वानुसवनं तस्मिन् कालिन्द्या सलिले शिवे ।

कृत्वोचितानि निवसन्नात्मनः कल्पितासने ॥ ४६ ॥

पदरत्नावली

तत्र किं कर्तव्यमिति तत्राह– स्नात्वेति ॥ उचितानि तर्पणादीनि ॥ ४६ ॥

प्रकाशिका

अनुसवनं त्रिषवणमात्मन उचितानि संध्याद्यभावेऽपि स्वयोग्यानि नमस्कारादीनि । कल्पितासनः । कुशादिभिरिति शेषः ॥ ४६ ॥

प्राणायामेन त्रिवृता प्राणेन्द्रियमनोमलम् ।

शनैर्व्युदस्याभिध्यायेन्मनसा गुरुणां गुरुम् ॥ ४७ ॥

पदरत्नावली

त्रिवृता रेचकादित्रित्वसंख्योपेतेन, यद्वा य र व इति त्र्यक्षरयुक्तेन, यद्वा प्रणव-युक्तेन प्राणानामवशत्वमिन्द्रियाणां विषयाभिमुखत्वं मनसोऽनवस्थितित्वमिति मलत्रयम् । गुरुणां गुरुमुपदेष्टारम् ॥ ४७ ॥

प्रकाशिका

त्रिवृता त्रीन् रेचकादीन्वृणोतीति त्रिवृत् । तेन प्राणानामवशत्वरूपमिन्द्रियाणां विषयगमनरूपं मनश्चांचल्यरूपं मलं व्युदस्य निरस्य गुरुणां गुरुं हरिम् । ह्रस्वश्छान्दसः, अनेनादौ गुरुपरंपरा स्मर्तव्येति सूचयति ॥ ४७ ॥

प्रसादाभिमुखं शश्वत्प्रसन्नवदनेक्षणम् ।

सुनासं सुभ्रुवं चारुकपोलं सुन्दरं हरिम् ॥ ४८ ॥

पदरत्नावली

पुरुषायुषशतेनाप्रसन्नतादिगुणवांश्चेत् किमनेनेत्यतोऽश्रद्धा न कर्तव्येति ध्येय-स्वरूपमुपदिशति– प्रसादाभिमुखमित्यादिना ॥ ४८ ॥

प्रकाशिका

पुरुषायुषशतेनाप्रसन्नतादिगुणवांश्चेत्किमनेनेत्यतोऽश्रद्धा न कर्तव्येति ध्येय-स्वरूपमुपदिशति ॥ प्रसादाभिमुखमित्यादिना ॥ ४८ ॥

तरुणं रमणीयाङ्गमरुणाब्जेक्षणाधरम् ।

प्रयताश्रयणं कृष्णं शरण्यं करुणार्णवम् ॥ ४९ ॥

पदरत्नावली

अरुणत्वलक्षणज्ञापनाय पुनरीक्षणम् । क्वचिद्धरिं पीतवर्णं क्वचित् कृष्णम् ॥४९॥

प्रकाशिका

अरुणत्वलक्षणज्ञापनाय पुनरीक्षणमुक्तम् ॥ ४९ ॥

श्रीवत्साङ्कं घनश्यामं पुरुषं वनमालिनम् ।

शङ्खचक्रगदापद्मैरभिव्यक्तचतुर्भुजम् ॥ ५० ॥

पदरत्नावली

क्वचिद् घनश्यामं नीलम् । पुरुषलक्षणसामग्रीग्रहणाय पुरुषग्रहणम् ॥ ५० ॥

प्रकाशिका

घनवच्छ््यामं नीलम् । पुरुषं पूर्णषड्गुणम् ॥ ५० ॥

किरीटिनं कुण्डलिनं केयूरवलयान्वितम् ।

कौस्तुभाभरणग्रीवं पीतकौशेयवाससम् ॥ ५१ ॥

प्रकाशिका

कौस्तुभस्याभरणभूता ग्रीवा यस्य तम् ॥ ५१ ॥

काञ्चीकलापपर्यस्तं लसत्काञ्चननूपुरम् ।

दर्शनीयतमं शान्तं मनोनयनवर्धनम् ॥ ५२ ॥

पदरत्नावली

‘कलापो भूषणे बर्हे’ इति वचनात् काञ्चीकलापेन पर्यस्तं संवेष्टितम् ॥ ५२ ॥

प्रकाशिका

काञ्चीकलापेन पर्यस्तं परिवेष्टितम् ॥ ५२ ॥

पद्भ्यां नखमणिश्रेण्या विलसद्भ्यां समर्चताम् ।

हृत्पद्मकर्णिकाधिष्ण्यमाक्रम्यात्मन्यवस्थितम् ॥ ५३ ॥

पदरत्नावली

नखमणिश्रेण्या विलसद्भ्यां पादाभ्यां समर्चतां भक्तानामात्मनि मध्यदेहे हृदयपद्मकर्णिकाधिष्ण्यमाक्रम्यावस्थितम् ॥ ५३ ॥

प्रकाशिका

नखमणिश्रेण्या विलसद्भ्यां पद्भ्यां समर्चतां भक्तानामात्मनि देहे हृत्पद्म-कर्णिकाधिष्ण्यमाक्रम्यावस्थितम् ॥ ५३ ॥

स्मयमानमभिध्यायेत् सानुरागावलोकनम् ।

नियमेनैकभूतेन मनसा वरदर्षभम् ॥ ५४ ॥

तात्पर्यम्

एकस्मिन्नेव भूतेन ॥ ५४ ॥

पदरत्नावली

मनसैवंविधं भगवतो रूपं ध्यायेदित्यन्वयः । किंविशिष्टेन मनसा ? नियमेन परिणततया अभ्यस्ततया प्राप्तपरिपाकत्वेनैकस्मिन् ध्येये वस्तुनि भूतेन बाह्यविषयाभिनिवेशरहितेन

॥ ५४ ॥

प्रकाशिका

भूतेन मनसा । नियमेनैकभूतेनेत्यस्य प्रकृतसङ्गतमर्थं दर्शयति ॥ एकस्मिन्नेवेति । तथा च नियमेनाव्यभिचारेणैकस्मिन्नेव ध्येयवस्तुनि भूतेन स्थितेन । सदा बाह्यविषयाभिनिवेशरहितेनेति यावदिति मूलार्थ इति भावः ॥ ५४ ॥

एवं भगवतो रूपं सुभद्रं ध्यायतो मनः ।

निर्वृत्त्या परया तूर्णं (पूर्णं) सम्पन्नं न निवर्तते ॥ ५५ ॥

पदरत्नावली

निर्वृत्त्योद्रिक्तानन्देन संपन्नं पूर्णं, ध्येयादितरत्र न निवर्तते न गच्छति ॥ ५५ ॥

प्रकाशिका

निर्वृत्या परमानन्देन तूर्णं शीघ्रं संपन्नं सद् ध्येयादितरत्र न निवर्तते न गच्छति

॥ ५५ ॥

जाप्यश्च१ परमो गुह्यः श्रूयतां मे नृपात्मज ।

यं सप्तरात्रं प्रपठन् पुमान् पश्यति खेचरान् ॥ ५६ ॥

पदरत्नावली

जप्यो मन्त्रः ॥ ५६ ॥

प्रकाशिका

जाप्यो मन्त्रः ॥ ५६ ॥

ओं नमो भगवते वासुदेवाय

मन्त्रेणानेन देवस्य कुर्याद् द्रव्यमयीं बुधः ।

सपर्यां विविधैर्द्रव्यैर्देशकालविभागवित् ॥ ५७ ॥

पदरत्नावली

द्रव्यमयीं द्रव्यप्रधानाम् । ‘अर्चा पूजा सपर्या स्यात्’ इत्यभिधानम् ॥ ५७ ॥

प्रकाशिका

द्रव्यमयीं शिलादिनिर्मितां प्रतिमाम् । द्वितीया सप्तम्यर्थे । तस्यां देवस्य वासुदेवस्य सपर्यां कुर्यादित्यन्वयः ॥ ५७ ॥

सलिलैः शुचिभिर्माल्यैर्वन्यैर्मूलफलादिभिः ।

शस्ताङ्कुरैः कुशैश्चार्चेत् तुलस्या प्रियया प्रभुम् ॥ ५८ ॥

पदरत्नावली

द्रव्याण्याह– सलिलैरिति ॥ वन्यैर्वनभवैः ॥ ५८ ॥

प्रकाशिका

द्रव्याण्येवाह– सलिलैरिति ॥ वन्यैर्वनभवैः ॥ ५८ ॥

लब्ध्वा द्रव्यमयीमर्चां क्षित्यम्ब्वादिषु चार्चयेत् ।

आहृतात्मा मुनिः शान्तो यतवाङ् मितवन्यभुक् ॥ ५९ ॥

पदरत्नावली

द्रव्यमयीमर्चां शिलादिप्रतिमाम् । ‘अर्चा तु प्रतिमा प्रोक्ता’ इत्यभिधानम् । क्षितौ स्थण्डिले, आदिशब्दादादित्यमण्डलेऽग्नौ वा । आहृतात्मा विषयेभ्य आकृष्य वशीकृतमनाः । मितं नियतादर्धं फलमूलादिवन्यं भुङ्क्त इति मितवन्यभुक् ॥ ५९ ॥

प्रकाशिका

द्रव्यमयीमर्चां शिलादिप्रतिमां लब्ध्वा संपाद्य । क्षितौ स्थण्डिले । आदि-शब्दादादित्यमण्डले हृदये वा । शास्त्रे क्षित्यंब्वादिषु यदचर्नं विहितं तद्द्रव्यमयीमर्चां लब्ध्वा स्थितस्यैव न त्वादितो मनसस्तत्रानवस्थानादिति ज्ञातव्यम् । आहृतात्मा विषयेभ्य आकृष्य वशीकृतमनः मितं नियतादर्धं फलमूलादि वन्यं भुंक्त इति मितवन्यभुक् ॥ ५९ ॥

स्वेच्छावतारचरितै रचितं१ निजमायया ।

करिष्यत्युत्तमश्लोकस्तान् ध्यायेद् हृदयङ्गमान् ॥ ६० ॥

पदरत्नावली

निजमायया स्वरूपभूतमहिम्ना स्वेच्छया कृतावतारस्तस्य चरितैः कंसवधादि-लक्षणैश्चरितं गुणसमूहं हृदयङ्गमान् । अन्यान् विभुर्विक्रमान् करिष्यति । तान् ध्यायेदित्यन्वयः ॥६०॥

प्रकाशिका

स्वेच्छावतारचरितैः स्वेच्छया गृहीता येऽवतारा मत्स्यादयस्तेषां चरितैः कंस-वधादिलक्षणै रचितं व्यक्तीकृतम् । ईश्वरत्वोपपादकगुणसमूहमिति शेषः । निजमायया स्वरूपसामर्थ्ये-नोत्तमश्लोको रामकृष्णादिरूपो यान्हृदयङ्गमान्पराक्रमान्करिष्यति तांश्च ध्यायेदित्यन्वयः ॥ ६० ॥

परिचर्या भगवतो यावतीः पूर्वकल्पिताः ।

ता मन्त्रहृदयेनैव प्रयुज्यान्मन्त्रमूर्तये ॥ ६१ ॥

तात्पर्यम्

मन्त्रहृदयेन मन्त्रेण च नमःशब्देन च ॥ ६१ ॥

पदरत्नावली

परिचर्यादि संक्षिप्य तत्करणप्रकारं वक्ति– परिचर्या इति ॥ यावती यावत्यः पूर्वाचार्यैः कल्पितास्ता मन्त्रहृदयेन मन्त्रेण नमःशब्देन च, ओं नमो भगवते वासुदेवायेत्यनेन मन्त्रमूर्तये मन्त्राक्षरप्रतिपाद्यवासुदेवाय प्रयुञ्ज्यात् कल्पयेदित्यन्वयः ॥ ६१ ॥

प्रकाशिका

परिचर्याः पूजासाधनानि यावतीर्यावत्यः पूर्वकल्पिताः पूर्वाचार्यैर्विहिताः । पूर्व-सेविता इति पाठे पूर्वाचार्यैः सेवनं कारिताः समर्पिता इति यावदिति व्याख्येयम् । मन्त्रहृदये-नेत्यस्यार्थाप्रतीतेस्तदर्थमाह ॥ मन्त्रहृदयेनेति । हृदयशब्दस्य मन्त्रशास्त्रे नमःशब्दवाच्यतया प्रसिद्धत्वा-द्धृदयेनेत्यस्य नमःशब्देनेति व्याख्यानमित्यवगन्तव्यम् । तथा च मन्त्रश्च हृदयं च मन्त्रहृदयं तेनेत्यर्थः । सर्वो द्वन्द्वो विभाषयैकवद्भवतीत्येकवद्भावः । मन्त्रहृदयेन मन्त्रेण नमःशब्देन ॐ नमो भगवते वासुदेवायेति द्वादशाक्षरमन्त्रमुच्चार्य पश्चान्नम इत्युक्त्वा पूजासाधनं गन्धादिकं दद्यादित्यर्थः । दानसमये स्वधादिशब्दवन्नमःशब्दप्रयोगस्यापि प्रसिद्धत्वादित्याशयः । मन्त्रमूर्तये मन्त्रप्रतिपाद्यविग्रहाय ॥ ६१ ॥

एवं कायेन मनसा वचसा च मनोगतः ।

परिचर्यमाणो भगवान् भक्तिमत्परिचर्यया ॥ ६२ ॥

पुंसाममायिनां सम्यग् भजतां भाववर्धनः ।

श्रेयो दिशत्यभिमतं यद् धर्मादिषु देहिनाम् ॥ ६३ ॥

पदरत्नावली

एवंविधोपासनाफलमाह– एवमिति ॥ भक्तिमन्तः सन्तः । तेषां परिचर्यया शुश्रूषया देहिनां धर्मादिषु यदभिमतं श्रेयस् तद् दिशतीत्यन्वयः ॥ ६२,६३ ॥

प्रकाशिका

भक्तिमन्तः सन्तस्तेषां परिचर्यया शुश्रूषया ॥ भाववर्धनो भक्तिवृद्धिकरः । देहिनां धर्मादिषु यच्छ्रेयोऽभिमतं तद्दिशति ॥ ६२,६३ ॥

विरक्तश्चेन्द्रियरतौ भक्तियोगेन भूयसा ।

तन्निरन्तरभावेन भजेताद्धा विमुक्तये ॥ ६४ ॥

मैत्रेय उवाच–

इत्युक्तस्तं परिक्रम्य प्रणम्य च नृपार्भकः ।

ययौ मधुवनं पुण्यं हरेश्चरणचर्चितम् ॥ ६५ ॥

पदरत्नावली

सर्वस्मात् साधनाद् विरक्तिभक्ती मुक्तिसाधने इत्याशयेनाह– विरक्तश्चेति ॥ तयोरवश्यं कर्तव्यत्वे चशब्दः । इन्द्रियरतोै विषयभोगे विरक्तः ॥ उत्तरकथाप्रसङ्गमाह– इत्युक्त इति

॥ ६४,६५ ॥

प्रकाशिका

इन्द्रियरतौ विषयभोगे विरक्तः ॥ ६४,६५ ॥

तपोवनं गते तस्मिन् प्रविष्टोऽन्तःपुरं मुनिः ।

अर्हितोऽर्हणया राज्ञा सुखासीन उवाच तम् ॥ ६६ ॥

पदरत्नावली

नन्वस्त्वियं कथा । पुनर्नारदः कुत्रायासीद् । अत्राह– तपोवनमिति ॥ अर्हणया पूजासाधनेनार्हितः पूजितः ॥ ६६ ॥

प्रकाशिका

अर्हणया पूजासाधनेन ॥ ६६ ॥

नारद उवाच–

राजन् किं ध्यायसे दीर्घं मुखेन परिशुष्यता ।

किं वा न रिष्यते कामो धर्मो वार्थेन संयुतः ॥ ६७ ॥

पदरत्नावली

न रिष्यते न हिंस्यते ॥ ६७ ॥

प्रकाशिका

किं वा न रिष्यते न हिंस्यते । न नश्यतीति यावत् सवितर्कप्रश्नः ॥ ६७ ॥

राजोवाच–

सुतो मे बालको ब्रह्मन् स्त्रैणेनाकरुणात्मना ।

निर्वासितः पञ्चवर्षः सह मात्रा महान् कविः ॥ ६८ ॥

पदरत्नावली

नारदेन पृष्टो राजोत्तरमाह– सुतो म इति ॥ निर्वासितः निष्कासितः । कविरित्यनेन ज्ञानित्वं द्योतयति ॥ ६८ ॥

प्रकाशिका

निर्वासितो विवासितः । कविरित्यनेन ज्ञानित्वं द्योतयति । मात्रा सहेत्युक्तिस् तस्या अप्यनादृतत्वाभिप्रायेण ॥ ६८ ॥

अप्यनाथं वने ब्रह्मन् मा खादन्त्यर्भकं वृकाः ।

श्रान्तं शयानं क्षुधितं परिम्लानमुखाम्बुजम् ॥ ६९ ॥

अहो मे बत दौरात्म्यं स्त्रीजितस्योपधारय ।

योऽङ्कं प्रेम्णाऽऽरुरुक्षन्तं नाभ्यनन्दमसत्तमः ॥ ७० ॥

पदरत्नावली

यतोऽसौ सिंहासनपदादत्युत्तमपदं साधयामीति निरूप्य मात्रादीन् विहाय पुरान्निरगमदित्येवमनुमिमानोऽपि राजा तद्गतं दुःखमुद्गलयति– अप्यनाथमिति ॥ एवमनुतप्य स्वदौ-रात्म्यं मुनिमपि सम्बोधयति– अहो इति ॥ त्वया किमकारीति तत्राह– योऽङ्कमिति ॥ ६९,७० ॥

प्रकाशिका

मा खादन्ति न खादन्ति किं नु ॥ ६९,७० ॥

नारद उवाच–

मा मा शुचः स्वतनयं देवगुप्तं विशांपते ।

तत्प्रभावमविज्ञाय प्रावृङ्क्ते यद्यशो जगत् ॥ ७१ ॥

पदरत्नावली

प्रवक्ता नारदस्तु मदाज्ञाभिमानस्य गतत्वाद् हरिरेव रक्षक इति कृत्वा पुत्रं तं माऽनुतपेत्याह– मा मेति ॥ ततोऽप्यनुतापो न गच्छतीत्यत अज्ञानमूलोऽसावित्याह– तत्प्रभावमिति ॥ प्रावृङ्क्ते व्याप्नोति ॥ ७१ ॥

प्रकाशिका

यस्य यशो जगत्प्रावृंक्ते व्याप्नोति ॥ ७१ ॥

सुदुष्करं कर्म कृत्वा लोकपालैरपि प्रभुः ।

एष एष्यत्यचिरतो यशो विपुलयंस्तव ॥ ७२ ॥

तात्पर्यम्

तस्यैव योग्यत्वाल्लोकपालानां दुष्करम् । ‘नाशक्यं देवतानां तु यदन्यैः शङ्कितं क्वचित् । शक्ता अपि न कुर्वन्ति यदन्यविहितं बुधाः’ ॥ इति ब्राह्मे ॥ ७२ ॥

पदरत्नावली

अस्मन्निमित्तवैराग्येण गतः पुत्रो न पुनरेष्यतीति खेदो मा भूदित्याह– सुदुष्कर-मिति ॥ तत् कर्म तस्य ध्रुवस्यैव योग्यत्वाद् लोकपालानां दुष्करम्, न तु तेषामशक्यत्वात् ‘नाशक्यं देवतानां तु यदन्यैः शङ्कितं क्वचित् । शक्ता अपि न कुर्वन्ति यदन्यविहितं बुधाः ॥’ इति वचनादपिपदेन सूचितात् ॥ ७२ ॥

प्रकाशिका

लोकपालैरपि दुष्करं कर्म कृत्वेत्युक्त्या देवानां ध्रुवकृतकर्मण्यशक्तिरिति भात्यतोऽत्र विवक्षितमभिप्रायमाह ॥ तस्यैवेति । योग्यत्वाद्विहितत्वात् । तथा च ध्रुवकृतकर्मणि देवानां शक्तिसद्भावेऽपि देवास्तन्न कुर्वन्ति तान्प्रति तस्याविहितत्वात् । अविहितकरणे च प्रत्यवायप्रसङ्गात् । अतो लोकपालानां दुष्करमिति वचनं सम्भवतीत्यर्थः । अत्र प्रमाणसंवादमाह ॥ नाशक्यमिति । तुशब्दोऽवधारणे । नैवेति सम्बन्धः । अन्यैः शकितमन्येषां शक्यम् अन्यविहितमन्यान्प्रति विहितम् । मूले विपुलयन्विस्तारयन् ॥ ७२ ॥

मैत्रेय उवाच–

इति देवर्षिणा प्रोक्तं विस्रभ्य जगतीपतिः ।

राज्यलक्ष्मीमनादृत्य पुत्रमेवान्वचिन्तयत् ॥ ७३ ॥

पदरत्नावली

एवं विस्रब्धस्यापि राज्ञोऽनुतापपरम्परामाह– इतीति ॥ अनेन संसारस्य दुस्तरत्वमसूचि ॥ ७३ ॥

प्रकाशिका

विस्रभ्य विश्वस्य ॥ ७३ ॥

तत्राभिषिक्तः प्रयतस्तामुपोष्य विभावरीम् ।

समाहितः पर्यचरद् दृष्ट्याऽऽदेशेन१ पूरुषम् ॥ ७४ ॥

तात्पर्यम्

दृष्ट्या निरूपणया । आदेशेन उपदेशेन ॥ ७४ ॥

पदरत्नावली

ध्रुवो मधुवनं प्राप्य किमकार्षीद् ? अत्राह– तत्रेति ॥ आदेशेनोपदेशेन नारदोक्तमार्गेण कृतया दृष्ट्या निरूपणया पुरुषं वासुदेवं पर्यचरदित्यन्वयः ॥ ७४ ॥

प्रकाशिका

ध्रुवो मधुवनं प्राप्य किमकरोदित्यपेक्षायामाह ॥ तत्रेति । अभिषिक्तः स्नातः । यस्यां प्राप्तस्ताम् । पर्यचरत् सेवितवान् । दृष्ट्याऽऽदेशेनेत्यस्याप्रतीत्या प्रकृतोपयुक्तमर्थमाह ॥ दृष्ट्येति । अनेन दृश्यतेऽनयेति दृष्टिरिति निरूपणा दृष्टिशब्दार्थ उक्तो भवति । भावार्थे प्रत्यय इत्याशये-नोपदेशेनेत्युक्तिः । तथा च दृष्ट्या शमादिनिरूपणया सहितेनादेशेन मन्त्राद्युपदेशेन तदनुसारेणेति मूलं व्याख्येयमिति भावः । दिष्ट्या दिष्टेनेति क्वचित्पाठः । तत्र दिष्ट्या योग्यतया दिष्टेनोपदिष्टेन प्रकारेणेति मूलार्थ इति ज्ञातव्यम् ॥ ७४ ॥

त्रिरात्रान्ते त्रिरात्रान्ते कपित्थबदराशनः ।

आत्मवृत्त्यनुसारेण मासं निन्येऽर्चयन् हरिम् ॥ ७५ ॥

द्वितीयं च तथा मासं षष्ठे षष्ठेऽर्भको दिने ।

तृणपर्णादिभिः शीर्णैः कृतान्नोऽभ्यर्चयद् विभुम् ॥ ७६ ॥

पदरत्नावली

तस्य तप आतिष्ठमानस्याशनप्रकारमाह– त्रिरात्रान्त इति ॥ कपित्थबदरयोः फलमशनं यस्य तथोक्तः । फलभुगशननियतिं कथयति– आत्मवृत्तीति ॥ यावद् आत्मनः शरीरस्य वृत्तिस्तदनुसारेण ॥ ७५ ॥

प्रकाशिका

तस्य देहधारणप्रकारमाह ॥ त्रिरात्रान्ते इति । कपित्थानि बदराणि चाशनं यस्य । अनशननियतिं कथयति ॥ आत्मवृत्तीति । यावताऽत्मनः शरीरस्य वृत्तिः स्थितिस्तदनु-सारेणेत्यर्थः ॥ ७५,७६ ॥

तृतीयं चानयन्मासं नवमे नवमेऽहनि ।

अब्भक्ष उत्तमश्लोकमुपाधावत् समाधिना ॥ ७७ ॥

पदरत्नावली

उपाधावद् उपास्त ॥ ७७ ॥

प्रकाशिका

उपधावद्ध्यातवान् । समाधिना चित्तैकाग्य्रेण ॥ ७७ ॥

चतुर्थमपि वै मासं द्वादशे द्वादशेऽहनि ।

वायुभक्षो जितश्वासो ध्यायन् देवमपारयत् ॥ ७८ ॥

पदरत्नावली

अपारयदतिक्रान्तवान् ॥ ७८ ॥

प्रकाशिका

अपारयदतिक्रान्तवान् ॥ ७८ ॥

पञ्चमे मास्यनुप्राप्ते जितश्वासो नृपात्मजः ।

ध्यायन् ब्रह्म पदैकेन तस्थौ स्थाणुरिवाचलः ॥ ७९ ॥

पदरत्नावली

अचलः स्थिरः ॥ ७९ ॥

प्रकाशिका

अचलः स्थिरः ॥ ७९ ॥

देवाश्चक्रुस्तपोविघ्नं त्रासयन्तः स्वमायया ।

सर्पेभसिंहकूष्माण्डैस्तान् नापश्यत् परं गतः ॥ ८० ॥

तात्पर्यम्

‘यत्र देवैः कृते विघ्ने खण्डितो न पुमान् भवेत् । तत्र तद्यशसे विघ्नं कुर्युर्न तु विघातने । यत्र खण्डितता तत्र खण्डनायैव केवलम् । सत्यकामा यतो देवास्ते चित्ताद्यभि-मानिनः । अतो विमोहनायैव प्राप्नुयुस्ते पराजयम् । तेषामशक्तितोक्तिश्च विमोहाय सुर-द्विषाम्’ ॥ इति ब्रह्माण्डे ॥ ८० ॥

पदरत्नावली

देवा ध्रुवस्य यशोविस्तृत्यर्थं तत्तपोविघ्नं चक्रुरित्याह– देवा इति ॥ स्वस्वसिद्ध-मायया इन्द्रजालेन । कूष्माण्डाः पिशाचविशेषाः । तान् नापश्यदित्यनेन ध्रुवस्य देवेभ्योऽधिक-शक्तिमत्वं नाभिप्रेतम् । किन्तु परमभागवतत्वेन यशोविस्तृत्यै विघ्नकरणं, न तु तत्तपः खण्डनाय । तदुक्तम्– ‘यत्र देवैः कृते विघ्ने खण्डितो न पुमान् भवेत् । तत्र तद्यशसे विघ्नं कुर्युर्न तु विघातने ॥ यत्र खण्डितता तत्र खण्डनायैव केवलम् । सत्यकामा यतो देवास्ते चित्ताद्यभिमानिनः ॥ अतो विमोहनायैव प्राप्नुयुस्ते पराजयम् । तेषामशक्तितोक्तिश्च विमोहाय सुरद्विषाम् ॥’ इति ॥ ८० ॥

प्रकाशिका

स्वमायया स्वसामर्थ्येन कल्पितैः सर्पादिभिः कूष्माण्डाः पिशाचविशेषाः । तान्नापश्यत् । यतः परं परमात्मानं मनसा गतस्तद्ध्यानपर इत्यर्थः । अत्र ध्रुवे देवानां प्रयत्नस्य वैयर्थ्योक्त्या तेषामसत्यकामत्वमशक्तिश्चोच्यते इत्यतोऽत्र विवक्षितं तात्पर्यं प्रमाणेनैवाह ॥ यत्रेति । खण्डितः खण्डिततपा विघातने तपोविघाताय न तु नैव खण्डितता । तपस इति शेषः । केवलमत्यन्तं खण्डनायैव विघ्नं कुर्युः । कुतः सत्यकामत्वमित्यत उक्तम् ॥ त इति । पराजयमशक्तताम् । तथा च देवा हरिभक्तस्य ध्रुवस्य यशसे विघ्नकरानुत्पाद्य स्वयमेव परिहृतवन्तो न त्वशक्ताः । मूले तथा प्रतीतिश्चासुरमोहनायेत्याशयः ॥ ८० ॥

सर्वतो मन आकृष्य हृदि भूतेन्द्रियाश्रयम् ।

ध्यायन् भगवतो रूपं नाद्राक्षीत् किञ्चनापरम् ॥ ८१ ॥

तात्पर्यम्

भूतेन्द्रियाश्रयं भगवद्रूपम् ॥ ८१ ॥

पदरत्नावली

आकाशादिभूतानां तदुत्पन्नानां प्राणिनां चेन्द्रियाणामाश्रयं भगवतो रूपं ध्यायन् न अपरं जगत् किञ्चनाल्पमस्वतन्त्रमद्राक्षीत् स्वतन्त्रं नाद्राक्षीदित्यन्वयः ॥ ८१ ॥

प्रकाशिका

भूतेन्द्रियाश्रयमित्यस्य मन इत्यनेनान्वयभ्रान्तिपरिहारायान्वयं दर्शयति ॥ भूतेति

॥ ८१ ॥

आधारं महदादीनां प्रधानपुरुषेश्वरम् ।

ब्रह्म धारयमाणस्य तु त्रयो लोकाश्चकम्पिरे ॥ ८२ ॥

पदरत्नावली

एकाग्रमनसा तस्य वासुदेवं ध्यायतः सत इदमेकमाश्चर्यमभूदित्याह– आधारमिति

॥ ८२ ॥

प्रकाशिका

धारयमाणस्य सतश्चकंपिरे कंपिताः । तत्तेजः सोढुं न समर्था जाता इत्याशयः

॥ ८२ ॥

यदैकपादेन स पार्थिवार्भकस्तस्थौ तदङ्गुष्ठनिपीडिता मही ।

ननाम तत्रार्धमिभेन्द्रधिष्ठिता तरीव सव्येतरतः पदे पदे ॥ ८३ ॥

पदरत्नावली

सर्वाधारं ब्रह्म धारयमाणे ध्रुवे स्थिरत्वेन भाव्यम् । तत्र तस्मिन् भागे तयोर्मध्ये इभेन्द्रेण गजेन गरिम्णाऽधिष्ठिता तरीव । यथा नौर्नता भवति तथा । तदेव विशिनष्ठि– सव्येतरत इति ॥ सव्येतरयोर्वामदक्षिणयोः पादयोः पदे पदे नुन्ना नता भवति ॥ ८३ ॥

प्रकाशिका

तस्याङ्गुष्ठेन पीडिता सती मही तत्र तदाऽर्धमर्धयोरन्यतरभागेन ननाम । इभेन्द्रेण गजश्रेष्ठेनाधिष्ठिता तरी र्नौर्यथा पदे पदे सव्यतो दक्षिणतश्च नमति तद्वत् ॥ ८३ ॥

तस्मिन्नभिध्यायति विश्वमात्मनो

द्वारं निरुध्यासुमनन्यया धिया ।

लोका निरुच्छ्वासनिपीडिता भृशं

सलोकपालाः शरणं ययुर्हरिम् ॥ ८४ ॥

तात्पर्यम्

विश्वं भगवन्तम् । आत्मनो द्वारं सर्वजीवोत्पत्त्यादिद्वारम् । लोकानामेव निरुच्छ्वासः लोकपालास्तदर्थमेव शरणं ययुः । ‘ध्यातुर्ध्रुवस्य कीर्त्यर्थं हरिणा सह देवताः । लोकोच्छ्वासं निरुध्याथ श्वासार्थं च हरिं ययुः । अन्यप्रवृत्तयस्तेभ्यो न तेषामन्यतः क्वचित् । स्वोत्तमेभ्यस्तु देवेभ्यस्तेषां स्युः १स्वप्रवृत्तयः ॥’ इति तत्त्वनिर्णये ॥ ८४ ॥

पदरत्नावली

न केवलं चलनमेव लोकानामभूत् किन्तु श्वासोच्छ्वासयोः प्रवृत्तिस्तभ्भेन मरणाधिकक्लेशोऽभूदित्याह– तस्मिन्निति ॥ तस्मिन् ध्रुवेऽनन्यया ध्येयैकविषयतां गतया धिया श्वासप्रवृत्तिकारणमसुं प्राणं निरुध्य कुम्भकीकृत्य आत्मनो जीवराशेरुत्पत्त्यादेर्द्वारं कारणं विश्वं विष्णुमभितः परित इन्द्रियाभिमानिदेवैः सह ध्यायति सति, निरुच्छासेन निरुद्धप्राणवृत्त्या निपीडिताः सलोकपाला लोका हरिं शरणं ययुरित्यन्वयः । अत्र भृशमित्यनेन क्षिप्रवाचिना लोकानामेव निरुच्छ्वासो न लोकपालानां देवतानामन्यप्रवृत्तिहेतूनां स्वोत्तमानुग्रहेण स्वावरानधीनप्रवृत्तीनाम् । तास्तु लोकश्वासार्थं कृपालवो हरिं शरणं ययुरिति ध्वनयति । उक्तं च ‘ध्यातुर् ध्रुवस्य कीर्त्यर्थं हरिणा सह देवताः । लोकोच्छ्वासं निरुध्याथ श्वासार्थं च हरिं ययुः ॥ अन्यप्रवृत्तयस्तेभ्यो न तेषामन्यतः क्वचित् । स्वोत्तमेभ्यस्तु देवेभ्यस्तेषां स्युश्च प्रवृत्तयः ॥’ इति ॥ ८४ ॥

प्रकाशिका

अन्यदप्याश्चर्यं जातमित्याह ॥ तस्मिन्निति । अत्र विश्वमित्यस्य योग्यमर्थं दर्शयति ॥ विश्वमिति । विश्वं विष्णुरिति तन्नामसु पाठादित्याशयः । आत्मनो द्वारमित्यस्य आत्मनः सकाशादनन्यया धियाऽऽत्माभेददृष्ट्याऽसुं प्राणं तद्वारं निरुद्ध्येति व्याख्याननिरासाय योग्यमर्थं दर्शयति ॥ आत्मन इति । समुदायापेक्षयैकवचनम् । उत्पत्त्यादीति योग्यतालब्धमिति ज्ञातव्यम् । सलोकपाला लोका निरुच्छ्वासनिपीडिता इत्युक्त्या लोकपालानामपि निरुच्छ्वासनिपीडितत्वं प्रतीयतेऽतोऽत्र विवक्षितं तात्पर्यं दर्शयति ॥ लोकानामेवेति । तर्हि लोकपालानां लोकैः सह हरिं प्रति गमनं किमर्थमित्यतस्तत्प्रयोजनमाह ॥ लोकपाला इति । तदर्थमेवेत्यत्रार्थशब्द आवर्तनीयः । आद्यो निवृत्तिवचनः । तथा च तदर्थार्थमेव तन्निवृत्त्यर्थमेवेत्यर्थः । ध्रुवेण हरिध्याने कृते लोकपालानां श्वासनिरोधः किमर्थं जात इत्याशङ्कापरिहारायोक्तार्थस्थापनाय च प्रमाणं पठति ॥ ध्यातुरिति । परिवारतयेति शेषः । ननु ध्रुवयत्नेनैव लोकपालानामपि श्वासनिरोधः किं न स्यादित्यत आह ॥ अन्यप्रवृत्तय इति । अन्यप्रवृत्तयः ध्रुवादिप्रवृत्तयः । तेभ्यः देवेभ्यो भवन्तीति प्रमाणप्रसिद्धा इति शेषः । तेषां देवानामन्यतः प्रवृत्तिर्नास्ति । ननु अन्यतस्तेषां प्रवृत्त्यभावेऽधमानां देवानां प्रवृत्तयो ब्रह्मादि-स्वोत्तमाधीना इति प्रमाणप्रसिद्धिविरोध इत्यत आह ॥ स्वोत्तमेभ्य इति । तुशब्दोऽवधारणे । स्युरेवेति सम्बन्धः । तथा चान्यतो नीचतो नेति व्याख्येयमिति भावः ॥ ततश्चायं श्लोकार्थः ॥ तस्मिन्ध्रुवेऽनन्यया अन्याविषयकया धिया श्वासप्रवृत्तिकारणमसुं प्राणं निरुद्ध्य कुम्भकीकृत्यात्मनो जीवराशेरुत्पत्त्यादेर्द्वारं कारणं विश्वं भगवन्तमभि अभितः परितः स्थितैर् देवैरिन्द्रियाभिमानिभिः सह ध्यायति सति ध्रुवस्य कीर्त्यर्थं देवैर्लोकानां श्वासनिरोधे कृते सतीति पूरणीयम् । लोका निरुच्छ्वासनिपीडिता निरुद्ध-प्राणवृत्त्या निपीडिताः सन्तो लोकपालान् शरणं ययुः । अथ तेषां श्वासदाने सामर्थ्याभावात्सलोकपाला लोका हरिं शरणं रक्षितारं ययुः ॥ ८४ ॥

देवा ऊचुः–

नैवं विदामो भगवन् प्राणरोधं चराचरस्याखिलसत्वधाम्नः ।

विधेहि तन्नो वृजिनाद् विमोक्षं प्राप्ता वयं त्वां शरणं शरण्यम् ॥ ८५ ॥

तात्पर्यम्

अखिलसत्वसमूहस्य । ‘तेजः शक्तिः समूहश्च गृहं धामेति कथ्यते’ इति तत्त्वनिर्णये ॥ ८५ ॥

पदरत्नावली

किमर्थं शरणं गता इति तत्राह– नैवमिति ॥ अखिलानां सत्वानां प्राणिनां धाम समूहो यत्र तत् तथोक्तं तस्य । ‘तेजः शक्तिः समूहश्च गृहं धामेति कथ्यते’ इत्यभिधानात् । वृजिनाद् दुःखात् ॥ ८५ ॥

प्रकाशिका

अखिलसत्त्वधाम्न इत्यत्र धामशब्दस्य प्रकृतसङ्गतमर्थं दर्शयति ॥ अखिल-सत्त्वसमूहस्येति । तथा च धामशब्दः समूहपर इत्याशयः । अत्र प्रमाणं दर्शयति ॥ तेज इति । धामेतिशब्देन तेजआदिकं कथ्यत इत्यर्थः ॥ ततश्चायं श्लोकार्थः ॥ हे भगवन् । वयं चराचर-लक्षणस्याखिलसत्त्वधाम्नः सर्वप्राणिसमूहस्य एवं प्राणविरोधं कदाचिदपि न विदामो विद्मः । तत्तस्माद्वृजिनाच्छ्वासनिरोधजनितदुःखात् ॥ ८५ ॥

श्रीभगवानुवाच–

मा भैष्ट बालं तपसो दुरत्ययान्निवर्तयिष्ये प्रतियात स्वधाम ।

यतो हि वः प्राणनिरोध आसीदौत्तानपादिर्मयि सङ्गतात्मा ॥ ८६ ॥

पदरत्नावली

हरेश् चरणं गतानां देवानां भयव्यावर्तकप्रतिवचनप्रकारमाह– मा भैष्टेति ॥ यतो यस्माद् वो युष्माकं सकाशात् प्राप्तप्रवृत्तीनां, लोकानां प्राणनिरोध आसीत् तं तपसो निवर्तयिष्य इत्यन्वयः । कोऽसाविति तत्राह– औत्तानापादिरिति ॥ मयि सम्यग् गत आत्मा मनो यस्य स तथा । ध्रुव इत्युक्ते कस्य पुत्रः किं जातिरयमिति शङ्का स्यादित्यत औत्तानपादिरिति ॥ ८६ ॥

॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुकृतायां चतुर्थस्कन्धे नवमोऽध्यायः ॥

प्रकाशिका

कोऽसौ बाल इत्यपेक्षायामाह ॥ यत इति । यतो बालात् । मयि सम्यग्गत आत्मा मनो यस्य स तथा ॥ ८६ ॥

**॥ इति श्रीमद्वेदेशपूज्यपादशिष्येण यदुपतिना विरचितायां **

श्रीमद्भागवतटिप्पण्यां चतुर्थस्कन्धे नवमोऽध्यायः ॥ ४-९ ॥