०८ अष्टमोऽध्यायः

इत्यजेनानुनीतेन भवेन परितुष्यता

अथ अष्टमोऽध्यायः

मैत्रेय उवाच–

इत्यजेनानुनीतेन भवेन परितुष्यता ।

अभ्यधायि महाबाहो प्रहस्य श्रूयतामिति ॥ १ ॥

पदरत्नावली

अत्र भगवज्ज्ञानोपचितं कर्म हरेः साक्षात्कारसाधनं भवतीति तात्पर्यतो निरूप्यते । तत्र ब्रह्मोक्तमाकर्ण्य तुष्टेन रुद्रेणोच्यमानं प्रतिवचनप्रकारं वक्ति– इतीति ॥ धर्मपरिपन्थिनो बाधत इति बाहुः, महान् बाहुर्यस्य स तथा, तस्य संबोधनं महाबाहो । ‘अर्जिदृशिकम्यमिपसिबाधा-मृजिपशितुक्बुग्दीर्घहकाराश्च’, अर्जि अर्जने, दृशिर् प्रेक्षणे, कमु कान्तौ, अमू रोगे, पसि नाशने, बाधृ लोडने, एभ्यो धातुभ्यः कुप्रत्ययो भवति । एषां धातूनां यथासंख्यं तृजिपसितचकबुक्-दीर्घहकारश्चेत्येते आगमादेशश्च भवन्ति । ऋजुरवक्रो ऽव्युत्पन्नो वा पशुर्मन्त्रहीनश्चतुष्पाच्च । कमेस्तुगा-गमः कन्तुः कन्दर्पः । अमेर्बुगागमो ऽम्बु जलम् । पंसिः पंसेर्दीर्घः पांसुः, रजः । बाधेर्हकारादेशः बाहुः प्राण्यङ्गम् ॥ १ ॥

प्रकाशिका

अनुनीतेन सांत्वितेन । महाबाहो विदुर ॥ १ ॥

रुद्र उवाच–

नाघं प्रजेश बालानां वर्णये नानुचिन्तये ।

देवमायाभिभूतानां दण्डस्तत्र धृतो मया ॥ २ ॥

पदरत्नावली

किमभ्यधायीति तत्राह– नाघमिति ॥ हे प्रजेश सर्वजीवराश्युत्तम, अघमपराधं न वर्णये अनेकत्वादप्राप्तकालत्वादिति शेषः । तर्हि पश्चात्तापोऽस्ति किम् ? नेत्याह– नानुचिन्तय इति ॥ पश्चात्तापं न करोमीत्यर्थः । पश्चात्तापाकरणे कारणमाह– दण्ड इति ॥ अपराधानुसारिदण्डाकरणे अनुतापः स्यात्, तदनुसारिणी शिक्षा मया कृतेत्यर्थः ॥ २ ॥

प्रकाशिका

हे प्रजेश अस्मदाद्युत्तमेश । अघमपराधम् । वर्णनानुचिन्तनयोरभावे हेतुः ॥ दण्ड इति । यतस्तत्राघकारिषु मया दण्डः शिक्षा धृतः । अपराधानुसारिदण्डाकरणे वर्णनादिकं कार्यं स च मया कृतः । अतो न वर्णयामीति भावः ॥ २ ॥

प्रजापतेर्दग्धशीर्ष्णो भवत्वजमुखं शिरः ।

मित्रस्य चक्षुषेक्षेत भागं स्वं बर्हिषो भगः ॥ ३ ॥

पदरत्नावली

पुत्रच्छात्रादिभिर्गुरुवाक्यं सबहुमानं ग्राह्यमिति भावं दर्शयन् वक्ति– प्रजापते-रिति ॥ अजस्य छागस्य मुखं यस्य तत् तथोक्तम् । पूर्वशिरोऽनुसन्धानाकरणे कारणम्– दग्घशीर्ष्ण इति ॥ स्वपौरुषजयस्तम्भस्थापनायाज्ञजनशिक्षणाय च भगादीनामप्यन्यावयवैरेव स्वनिर्वाहः स्यादिति भावेनाह– मित्रस्येत्यादिना ॥ बर्हिषो यज्ञस्य ॥ ३ ॥

प्रकाशिका

एवं स्वापराधं परिहृत्यानुगृह्णाति ॥ प्रजापतेरिति । दग्धं शीर्षं यस्य तस्य प्रजापते- र्दक्षस्याजस्य मुखं यस्मिंस्तत् । बर्हिषो यज्ञस्य सम्बन्धि स्वं स्वीयं भागं भगो मित्रस्य चक्षुषेक्षेत ॥ ३ ॥

पूषा तु यजमानस्य दद्भिर्जक्षतु पिष्टभुक् ।

देवाः प्रकृतसर्वाङ्गा ये म उच्छेषणं ददुः ॥ ४ ॥

पदरत्नावली

दद्भिर्दन्तैः । तत्र देवानां विशेषानुग्रहं करोति– देवा इति ॥ प्रकृतसर्वाङ्गाः पूर्वावस्थाप्राप्तसर्वावयवाः । ‘उच्छेषभागो वै रुद्रः’ इति श्रुतेः । ये म उच्छेषणं ददुरिति विशेषानुग्रहे हेतुः ॥ ४ ॥

प्रकाशिका

पूषा कठिणं यजमानस्य दक्षस्य दद्भिदन्तैर्जक्षतु पिष्टभुग्भवतु । तस्मै दीयमानं हविः प्रायः पिष्टरूपमेव भवत्वित्यर्थः । प्रकर्षेण कृतानि भग्नानि सर्वाण्यंगानि येषां ते पूर्वावस्था-प्राप्तसर्वावयवा भवन्तु । ‘‘उच्छेषणोभागो वै रुद्र’’ इति श्रुतेः । उच्छेषणं यज्ञावशिष्टम् । ददुरिति विशेषानुग्रहे हेतुः ॥ ४ ॥

बाहुभ्यामश्विनोः पूष्णो हस्ताभ्यां कृतबाहवः ।

भवन्त्वध्वर्यवश्चान्ये बस्तश्मश्रुर्भृगुर्भवेत् ॥ ५ ॥

पदरत्नावली

ऋत्विजां नैवमित्याह– बाहुभ्यामित्यादि ॥ अध्वर्यव ऋत्विजः,तेषां मध्ये केचिच्छिन्नबाहवः । केचिच्छिन्नहस्तास्तेषु छिन्नबाहवोऽश्विनोर्बाहुभ्यां कृतबाहवः पूर्वबाहुप्रयोजना भवन्तु । अन्ये च पूष्णो हस्ताभ्यां कृतहस्ता भवन्तु । कूर्परस्योपरिदेशो बाहुस्तदधो हस्तः । ‘देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्याम्’ इति श्रुतेः । हस दानादानयोरिति धातुः । बस्तस्य श्मश्रूणि यस्य बस्तश्मश्रुः ॥ ५ ॥

प्रकाशिका

ऋत्विजां नैवमित्याह ॥ बाहुभ्यामिति । अध्वर्यव ऋत्विजस्तेषां मध्ये केचिच् छिन्नबाहवः केचन छिन्नहस्तास्तेषु ये छिन्नबाहवोऽश्विनोर्बाहुभ्यां कृतबाहुप्रयोजना भवन्तु । ये छिन्नहस्तास्ते पूष्णो हस्ताभ्यां कृतहस्तप्रयोजना भवन्तु । कूर्परस्योपरिभागो बाहुस् तदधो हस्तः । अन्ये देवाश् छिन्नबाहुहस्ता एव भवन्त्वित्यर्थः । बस्तस्य श्मश्रूणि यस्य स बस्तश्मश्रुः ॥ ५ ॥

मैत्रेय उवाच–

तदा सर्वाणि भूतानि श्रुत्वा मीढुष्टमोदितम् ।

परितुष्टात्मभिस्तात१ साधु साध्वित्यथाब्रुवन् ॥ ६ ॥

पदरत्नावली

कोऽसावुत्तरकथाप्रसङ्ग इति तत्राह– तदेति ॥ मिह सेचन इति धातोः प्रणत-जनस्याभीष्टं वर्षन्तो मीढ्वंसः, तेषामतिशयेन मीढ्वान् मीढुष्टमस्तेन कथितम् । अनेन तदानीमे-तन्नामोपलब्धमिति रहस्यं ज्ञायते ॥ ६ ॥

प्रकाशिका

मिह सेचन इति धातोः । भक्ताभीष्टसेचका मीढ्वांसस्तेष्वतिशयेन मीढ्वान् भक्ताभीष्टसेचको मीढुष्टमो रुद्रस्तेन कथितम् । हे तात विदुर ॥ ६ ॥

ततो मीढ्वांसमामन्त्र्य शुनासीराः सहर्षिभिः ।

भूयस्तद् देवयजनं समीढ्वद्वेधसो ययुः ॥ ७ ॥

पदरत्नावली

शुनासीरा देवाः । सहिता मीढ्वद्वेधोभ्यां रुद्रब्रह्मभ्यां ये तथोक्ताः ॥ ७ ॥

प्रकाशिका

मीढ्वांसं रुद्रमामन्त्र्य त्वयाऽऽगत्य सर्वं कार्यमिति संप्रार्थ्य शुनासीरा देवाः । मी्हुषा रुद्रेण वेधसा ब्रह्मणा सह वर्तमानाः समीढ्वद्वेधसः ॥ ७ ॥

विधाय कार्त्स्न्येन च तद् यदाह भगवान् भवः ।

सन्दधुः कस्य कायेन सवनीयपशोः शिरः ॥ ८ ॥

पदरत्नावली

कस्य दक्षस्य । सवनीयपशोर्याज्ञीयपशोः ॥ ८ ॥

प्रकाशिका

कस्य दक्षस्य । सवनीयपशोर्याज्ञीयपशोरजस्य ॥ ८ ॥

सन्धीयमाने शीर्षणि दक्षो रुद्राभिवीक्षितः ।

सद्यः सुप्त इवोत्तस्थौ ददृशे चाग्रतो मृडम् ॥ ९ ॥

पदरत्नावली

शीर्षणि शिरसि ॥ ९ ॥

प्रकाशिका

शीर्षणि शिरसि ॥ ९ ॥

तदा वृषध्वजद्वेषकलिलात्मा प्रजापतिः ।

शिवावलोकादभवच्छरदभ्र इवामलः ॥ १० ॥

पदरत्नावली

शिवस्यावनतपुंस्यनुग्रहसामर्थ्यं व्यनक्ति– तदेति ॥ ‘अभ्रं सलिलदे व्योमि्न शस्त्रं कोदण्ड आयुधे’ इति यादवः ॥ शरन्मेघवत् ॥ १० ॥

प्रकाशिका

पूर्वं वृषध्वजद्वेषेण कलिलः कलुषीकृत आत्मा मनो यस्य सः शिवावलोका-च्छरदभ्रवच्छरत्कालीनमेघ इवाभवत् ॥ १० ॥

भवस्तवाय कृतधीर्नाशक्नोदनुरागतः ।

औत्कण्ठ्यबाष्पकलया सम्परेतां सुतां स्मरन् ॥ ११ ॥

कृच्छ्रात् संस्तभ्य च मनः प्रेमविह्ललितः सुधीः ।

शशंस निर्व्यलीकेन भावेनेशं प्रजापतिः ॥ १२ ॥

पदरत्नावली

बाह्यस्वच्छत्वमेव तस्य नत्वान्तरं तल्लक्षणाभावादिति तत्राह– भवस्तवायेति ॥ औत्कण्ठ्यादुत्पन्नबाष्पकलया । आन्तरनैर्मल्याभावे रुद्रस्तव एव न युक्तः । स चानेन कर्तुं प्रयत्यते । तस्मादान्तरी शुद्धिरप्यनुमीयत इति ॥ कायिक एव प्रयत्नो न तु वाचिक इति शङ्का मा भूदित्याह– कृच्छ्रादिति ॥ भावेन स्नेहेन ॥ ११,१२ ॥

प्रकाशिका

औत्कण्ठ्यादुत्पन्नबाष्पकलया ॥ ११,१२ ॥

दक्ष उवाच–

भूयाननुग्रह अहो भवता कृतो मे

दण्डस्त्वया मयि धृतो यदपि प्रसह्य ।

न ब्रह्मबन्धुषु च वां भगवन्नवज्ञा

तुभ्यं हरेश्च कुत एव धृतव्रतेषु ॥ १३ ॥

पदरत्नावली

दक्षस्य शिवे त्वान्तरद्वेषो नास्तीति ज्ञापयितुं तदनुगुणगणैः स्तुतिं करोति– भूयानिति ॥ त्वया प्रसह्यापि मदपराधानुगणो दण्डो धृत इति यद् यस्माद् भूयाननुग्रहः कृतः, अहो मे महतां पुंसामनुकम्पा । शिरच्छेदादिलक्षणोऽनुग्रहो न स्यात्, किन्तु अत्यन्तापकार एवायमामरणमेव लोके कोपदर्शनात्, अतो न युक्त इत्याशङ्क्यापराधाधिक्ये नायं नियम इति भावेनाह– न ब्रह्मेति ॥ ब्रह्मबन्धुषु ब्राह्मणजातिमात्रेषु तुभ्यं तव हरेश्च वां युवयोरवज्ञा नास्ति, धृतव्रतेषु दीक्षितेषु कुत एवावज्ञा ? अतः कृतावज्ञत्वान्मयि दण्डकरणं युक्तम्, अन्यथा युष्मदवज्ञानेनानुत्थानतमःप्राप्तिः स्यादिति ॥ १३ ॥

प्रकाशिका

त्वया प्रसह्यापि मयि दण्डो धृतः कृत इति यद्यस्मात्तस्माद्भूयाननुग्रहः कृतः । न तूपेक्षितोऽस्मि । अन्यथैतादृशदण्डाभावे भवद्द्वेषिणो मम तमः प्राप्तिः स्यादिति भावः । मादृशेषु तव हरेश्चोपेक्षाभावः कैमुत्यसिद्ध इत्याह ॥ न ब्रह्मेति । ब्रह्मबन्धुषु ब्राह्मणाभासेष्वपि तुभ्यं तव हरेश्च वां युवयोरवज्ञोपेक्षा नास्ति । धृतव्रतेषु दीक्षितेषु कुत एवावज्ञा ॥ १३ ॥

विद्यातपोव्रतधरान् मुखतः स्म विप्रान्

ब्रह्मात्मतां प्रथयितुं प्रथमं त्वमस्राः ।

तद् ब्राह्मणान् परम १सर्वविपत्सु पासि

पालः पशूनिव विभो प्रगृहीतदण्डः ॥ १४ ॥

पदरत्नावली

अवज्ञाभावे निमित्तमाह– विद्यातप इति ॥ ब्रह्मात्मतां वेदरक्षकतां, ब्रह्मणः पूर्णगुणस्य हरेरात्मतां विशेषसन्निधानदेहतां वा प्रथयितुं प्रख्यापयितुं, अस्रा अस्राक्षीः स्म यस्मात् तस्मात् त्वत्सन्निधानपात्रभूतान् ब्राह्मणान् विपत्सु पासीत्यन्वयः ॥ १४ ॥

प्रकाशिका

निमित्तप्रदर्शनपूर्वकमेव पूर्वोक्तमेवोपपादयति ॥ विद्येति । ब्रह्मात्मतां परब्रह्मणः स्वामित्वं प्रथयितुं संप्रदायप्रवर्तकत्वेन विस्तारयितुमस्रा अस्राक्षीद्यस्मात् तत्तस्मात् । हे परम ब्राह्मणान् परब्रह्मस्वामित्वविषये संप्रदायप्रवर्तकान् सर्वासु विपत्सु प्राप्तासु । शर्वेति पाठे सम्बुद्धिः । पासि तेषूपेक्षां न करोषि ॥ १४ ॥

योऽसौ मयाऽविदिततत्त्वदृशा सभायां

क्षिप्तो दुरुक्तिविशिखैरगणय्य तन्माम् ।

अर्वाक् पतन्तमर्हत्तमनिन्दयैक्षद्

दृष्ट्याऽऽर्द्रया स भगवान् स्वकृतेन तुष्येत् ॥ १५ ॥

पदरत्नावली

भवान् कृपासमुद्रोऽहं निर्घृणो दुष्ट इत्यत्र विवेकयुक्तिमाह– योऽसाविति ॥ न विदिता तत्वदृग् यस्य स तथा तेनालब्धतत्वज्ञानेन । ऐक्षदद्राक्षीत् । नास्माकं पुरुषायुषशतेन त्वत्कृत-प्रतिनिधिकरणं शक्यते, अतः स्वकर्मणा स्वयमेव च तुष्टो भवेत्याह– स भगवानिति ॥ १५ ॥

प्रकाशिका

अत्र प्रत्युपकारो नास्तीत्याह ॥ सोऽसाविति । अविदिततत्त्वदृशाऽप्राप्त-तत्त्व-ज्ञानेन तदगणय्य विस्मृत्यार्हत्तमस्यातिशयेन पूज्यतमस्य तव निन्दयाऽर्वागधः पतंतमार्द्रया कृपायुक्तया दृष्ट्यैक्षदद्राक्षीत् । स्वकृतेन स्वकृतास्मदनुग्रहेण तुष्येत्स्वयमेव तुष्टो भवेत् । न मया प्रतिकर्तुं शक्य-मित्यर्थः ॥ १५ ॥

मैत्रेय उवाच–

क्षमाप्यैवं समीढ्वांसं ब्रह्मणा चानुमन्त्रितः ।

कर्म सन्तानयामास सोपाध्यायर्त्विगग्निभिः ॥ १६ ॥

पदरत्नावली

प्रकृतमनुसरति– क्षमाप्येति ॥ सन्तानयामास अनुसंहितं चकार ॥ १६ ॥

प्रकाशिका

अनुमन्त्रितोऽनुज्ञातः । सन्तानयामासानुवर्तयामास । उपाध्यायसहितैर् ऋत्विगग्निभिः ॥ १६ ॥

वैष्णवं यज्ञसन्तत्यै त्रिकपालं द्विजोत्तमाः ।

पुरोडाशं निरवपन् वीरसंसर्गशुद्धये ॥ १७ ॥

पदरत्नावली

दुष्टस्य यज्ञस्य प्रायश्चित्तमन्तरेण कथमनुसन्धानं घटत इति तत्राह– वैष्णव-मिति ॥ वैष्णवं विष्णुदैवत्यम् । त्रीणि कपालन्यासनानि यस्य स त्रिकपालस्तम् । वीरो वीरभद्रस् तस्य संसर्ग उपद्रवस्तस्य शुद्धये परिहाराय । निर्वापणं समन्त्रपचनम् ॥ १७ ॥

प्रकाशिका

भग्नस्य यज्ञस्य प्रायश्चित्तमन्तरेण कथं प्रवृत्तिरित्यत आह ॥ वैष्णवमिति । विष्णुदेवताकं यज्ञसन्तत्यै यज्ञप्रवृत्तये त्रीणि कपालान्यासनानि यस्य स त्रिकपालपुरोडाशस्तम् । वीराणां रुद्रभृत्यानां प्रमथादीनां यः संसर्गस्तत्कृतयज्ञभङ्गदोषस्तस्य शुद्धये परिहाराय । प्रायश्चित्तार्थ-मिति यावत् । निरवपन् समन्त्रपचनं कृतवन्तः ॥ १७ ॥

अध्वर्युणाऽऽत्तहविषा १यजमानो यजुष्पतिम् ।

यथा विशुद्धया दध्यौ तथा प्रादुरभूद्धरिः ॥ १८ ॥

पदरत्नावली

अध्वर्योः प्रतिपत्तिफलमाह– अध्वर्युणेति ॥ यजुष्पतिं मन्त्रदेवताम् ॥ १८ ॥

प्रकाशिका

आत्तहविषाऽध्वर्युणा सह यजमानः यजुष्पतिं मन्त्रदेवताम् ॥ १८ ॥

तदा स्वप्रभया तेषां द्योतयन्त्या दिशो दश ।

मुष्णंस्तेज उपानीतस्तार्क्ष्येण स्तोत्रनिर्जितः ॥ १९ ॥

पदरत्नावली

तदा प्रत्यक्षस्य हरेः कर्मविशेषं स्वरूपविशेषं चाह– तदेति ॥ तार्क्ष्येण गरुडेन । स्तोत्रेण सामरूपेण, निर्जितो वशीकृतः ॥ १९ ॥

प्रकाशिका

दशदिशो द्योतयन्त्या स्वप्रभया तेषां तेजो मुष्णंस्तिरस्कुर्वंस्तार्क्ष्येण गरुडेनोपानीतः समीपं प्रापितः । स्तोत्रेण सामरूपेण निर्जितो वशीकृतः ॥ १९ ॥

श्यामो हिरण्यरशनोऽर्ककिरीटजुष्टो

नीलालकभ्रमरकुण्डलमण्डितास्यः ।

कम्ब्वब्जचक्रशरचापगदासिचर्म-

व्यग्रैर्हिरण्मयभुजैरिव कर्णिकारः ॥ २० ॥

पदरत्नावली

हिरण्मया रशना काञ्ची यस्य स तथा । हिरण्यवत् पीतमम्बरं यस्य स तथेति वा । अर्कवज् ज्वलता किरीटेन जुष्टः । नीलाश्च ते अलकाश्च नीलालकाः, त एव भ्रमराश्च कुण्डले च नीलालक भ्रमरकुण्डलानि, एतैर्मण्डितमास्यं यस्य स तथा । कम्ब्वादिभिर्व्यग्रैर् विवशैः शिक्षाभ्यासदर्शकैरिव अङ्गदादिभूषणायितत्वात् हिरण्मयैरिव स्थितैर् भुजैर्लक्षितः पुष्पित कर्णिकारो वृक्षविशेषः ॥ २० ॥

प्रकाशिका

हिरण्मयरशना काञ्ची यस्य स तथा । अथवा । रशनाशब्दो वस्त्रलक्षकः । तथा च हिरण्यवत्पीतं वस्त्रं यस्येत्यर्थः । अर्कवज्ज्वलता किरीटेन जुष्टः । नीलालका एव भ्रमरास् ते च ते कुण्डले च तैर्मण्डितमास्यं यस्य । कम्ब्वादिभिरायुधैर्विशिष्टानि विलक्षणानि वाऽग्राणि येषां तैर्हिरण्मयाङ्गदादिभूषणयुतभुजैः पुष्पितं कर्णिकारवृक्ष इव शोभमानः ॥ २० ॥

वक्षस्यधिश्रितवधूर्वनमाल्युदार-

हासावलोककलया रमयंश्च विश्वम् ।

पार्श्वभ्रमद्व्यजनचामरराजहंस-

श्वेतातपत्रशशिनोपरि लक्ष्यमाणः ॥ २१ ॥

पदरत्नावली

वक्षस्याधिश्रिता वधूर्भार्या यस्य स तथा । पुत्रभार्यावत् प्रेमास्पदत्वद्योत-नायाधि-श्रितरम इति वक्तव्ये वधूरित्युक्तम् । वहेश्च वहेर्ध्दातोरुप्रत्ययो भवति पुत्रभार्यायां गम्यमानायां, चकारात् कनीयभ्रातृभार्यायां धकारश्चान्तादेशः । स्वभार्या च वधूः । सापि सेवार्थमत्र वसति नत्वलिङ्गनादि-सुखावाप्त्यर्थमतः– श्रितेति ॥ उदारहासावलोकयोः कलया चन्द्रकलावदाह्लादिकया, पार्श्वे भ्रमद्व्यजन-चामराख्यराजहंसाभ्यामुपरि शुभ्रातपत्रशशिना लक्ष्यमाणो दृश्यमानः । एवंविधस्तार्क्ष्येणोपानीत इति पूर्वेणान्वयः ॥ २१ ॥

प्रकाशिका

वक्षस्यधिश्रिता वधूर्भार्या लक्ष्मीर्यस्य । उदार उत्कृष्टो हासोऽवलोकश्च तयोः कलया लेशेन विश्वं रमयन्पार्श्वयोर्भ्रमती व्यजनचामरे तल्लक्षणाभ्यां राजहंसाभ्यां श्वेतातपत्रलक्षणशशिना चोपरि लक्ष्यमाणो दृश्यमानः । एवंविधस्तार्क्ष्येनोपानीत इति पूर्वेणान्वयः॥ २१ ॥

तमुपागतमालक्ष्य सर्वे सुरगणादयः ।

प्रणेमुः सहसोत्थाय ब्रह्मेन्द्रत्र्यक्षनायकाः ॥ २२ ॥

पदरत्नावली

ब्रह्मरुद्रौ विष्णुसमानविति लोकप्रवादं परिहरन् तत्पूर्वदेवतानां श्रीनारायणप्रणामं वक्ति– तमुपागतमिति ॥ ब्रह्मा चतुर्मुखः, इन्द्रो वायुः, त्र्यक्षो रुद्रः, एते नायका येषां ते तथोक्ताः

॥ २२ ॥

प्रकाशिका

ब्रह्मा चतुर्मुखः, इन्द्रो वायुस्त्र्यक्षो रुद्र एते नायका येषां ते तथोक्ताः ॥ २२ ॥

तत्तेजसा हतरुचः सन्नजिह्वाः ससाध्वसाः ।

मूधर्ि्न कृताञ्जलिपुटा उपतस्थुरधोक्षजम् ॥ २३ ॥

पदरत्नावली

ननु न प्रणाममात्रमुत्तमत्वादिनिश्चयात्मकं समानानामपि मिथो दर्शनादिति तत्राह– तत्तेजसेति ॥ सन्नजिह्वा जिह्वाशक्तिरहिताः, गद्गदवाच इत्यर्थः । अत्र निमित्तम्– ससाध्वसा इति ॥ ननु सन्नजिह्वत्वेन किं पश्चाज्जग्मुरिति तत्राह– मूर्ध्नीति ॥ २३ ॥

प्रकाशिका

सन्नजिह्वा गद्गदवाचः ससाध्वसाः सभयाः । उपतस्थुस्तुष्टुवुः ॥ २३ ॥

अप्यर्वाग्वृत्तयो यस्य महित्वे स्वभुवादयः ।

यथामति गृणन्ति स्म कृतानुग्रहविग्रहम् ॥ २४ ॥

तात्पर्यम्

‘उत्पत्तिर्हरिरूपाणां व्यक्तिरेव न संशयः । उत्पत्तिरेव जीवानां देहोत्पत्ति१-रुदीर्यते’ इति तत्त्वनिर्णये ॥ २४ ॥

पदरत्नावली

स्तुतिलक्षणवागिन्द्रियादिव्यापाराभावेन केवलोपस्थाने किं प्रयोजनम् ? अत्राह– अप्यर्वागिति ॥ यस्य महित्वे माहात्म्यविषयेऽनन्तत्वादर्वाग्वृत्तयोऽपि अप्राप्तवाङ्मनसव्यापारा अपि, स्वभूर्ब्रह्मा तदादयः कृतानुग्रहविग्रहं भक्तानुग्रहार्थं कृतो विग्रहो येन स तथा तं श्रीनारायणं यथामति गृणन्ति स्मेत्यन्वयः ॥ २४ ॥

प्रकाशिका

किं साकल्येनोपतस्थुर्नेत्याह ॥ अप्यर्वाग्वृत्तय इति । यद्यपि स्वयम्भुवादयो ब्रह्मादयो यस्य महित्वे विषयेऽर्वाग्वृत्तयः साकल्याविषयकमनोव्यापारास्तथाऽपि तं यथामति गृणन्ति स्म । कथम्भूतम् । कृतानुग्रहविग्रहम् । अत्र भगवद्विग्रहस्य जीवशरीरवदुत्पन्नत्वं नेति प्रमाणेनैवाह ॥ उत्पत्तिरिति । हरिरूपाणां यत्रोत्पत्तिरुदीर्यते । कृतादिशब्दैस् तत्र व्यक्तिरेव व्याख्येया । न मुख्योत्पत्तिः । जीवानामुत्पत्तिर्यत्रोदीर्यते तत्र देहोत्पत्तिखे व्याख्येया । न व्यक्तिरित्यर्थः । तथा च मूले कृतः प्रकटीकृतोऽनुग्रहाय विग्रहो यस्येति व्याख्येयमिति भावः ॥ २४ ॥

दक्षो गृहीतार्हणसाधनोत्तमं२ यज्ञेश्वरं विश्वसृजं परं गुरुम् ।

सुनन्दनन्दाद्यनुगैर्वृतं मुदा गृणन् प्रपेदे प्रयतः कृताञ्जलिः ॥ २५ ॥

पदरत्नावली

स्तुतिप्रबन्धकथने ग्रन्थाधिक्यं स्यादिति मत्वा यदर्थं हरेराविर्भावस् तस्य दक्षस्य भगवत्प्रतिपत्तिप्रकारं वक्ति– दक्ष इति ॥ २५ ॥

प्रकाशिका

गृहीतं स्वीकृतमर्हणसाधनोत्तमं येन सस् तम् । गृणन् स्तुवन् । प्रपेदे शरणम् प्राप्तवान् ॥ २५ ॥

दक्ष उवाच–

शुद्धं स्वधाम््नयुपरताखिलबुद्ध्यवस्थं

चिन्मात्रमेकमभयं प्रतिषिध्य मायाम् ।

तिष्ठंस्तयैव पुरुषत्वमुपेत्य तस्या-

मास्ते भवानपरिशुद्धमिवामनन्ति ॥ २६ ॥

तात्पर्यम्

‘जडमाया न तस्यास्ति शरीरत्वेन कुत्रचित् । सृष्ट्वा तया शरीराणि तत्स्थितेः पुरुषः स्मृतः । माययामशरीरायामपि विष्णुः स्वयं स्थितः । तस्मात्प्राकृत इत्येव जीववत्तं वदन्ति हि । अस्पृष्टत्वेऽपि तद्धर्मैस्तद्गत्वादेव कारणात्’ इति तत्त्वविवेके ॥ २६ ॥

पदरत्नावली

प्रतिपत्तिर्नाम निर्गुणत्वेन निराकरत्वेन चेत् प्रतिपद्यमानविषयानुसारिणी स्यात् ‘केवलो निर्गुणश्च’, ‘आकाशं ब्रह्म’, ‘अनादिर्वाऽयमाकाशः शून्योऽलौकिक’ इति श्रुतेरन्यथा-प्रतिपत्तिदोषेणानर्थापत्तिः स्यादिति तत्राह– शुद्धमिति ॥ यद्रूपं शुद्धं निर्दोषत्वेन शोधितम् । कथं शोधितम् ? अत्राह– स्वधाम्नीति ॥ स्वधाम्नी स्वस्वरूपे उपरता नित्यनिवृत्ता अखिला बुद्धेरवस्था जाग्रदादिजीवावस्था यस्य तत् तथा । तर्हि तन्निराकारं किम् ? नेत्याह– चिन्मात्रमिति ॥ केवलं ज्ञानात्मकस्य जीवस्याप्येतादृक्त्वात् किं विशिष्योच्यत इति तत्राह– एकमिति ॥ एकं प्रधानं सर्वोत्तमम् । न हीदृशमन्यदस्तीत्याह– अभयमिति ॥ ‘द्वितीयाद् वै भयं भवति’ इति श्रुतेरे-तादृशस्यान्यस्याभावात् कालत्रयेऽपि निरस्तभयम् । कुत एतत् सर्वमित्यत आह– प्रतिषिध्येति ॥ मायां जडात्मिकां प्रतिषिध्य दूरीकृत्य तिष्ठंस्तादृग्रूपो भवांस्तया माययोपादानत्वेन महदादि सृष्ट्वा, तदन्तःस्थितिमत्तया पुरुषत्वं पुरुषशब्दवाच्यत्वमुपेत्य, तदन्तर्यामिरूपेण व्यक्तो भूत्वा तस्यां कार्यकारणलक्षणायां प्रकृतावास्ते । ‘तुच्छेनाश्वपिहितम्’ इति श्रुतेः । तत्राज्ञा मायावादिनोऽ-परिशुद्धमुपहितं जीवमिवामनन्ति । तस्मै तुभ्यं नम इति वाक्यशेषः । व्यक्तिलक्षणमेव पुरुषत्वं न तु जीवलक्षणमित्यस्मिन्नर्थे इवशब्दः । ‘उत्पत्तिर्हरिरूपाणां व्यक्तिरेव न संशयः । उत्पत्तिरेव जीवानां देहोत्पत्तिरुदीर्यते’ इति वचनात् । जडमाया न तस्यास्ति शरीरत्वेन कुत्रचित् । सृष्ट्वा तया शरीराणि तत्स्थितेः पुरुषः स्मृतः । मायायामशरीरायामपि विष्णुः स्वयं स्थितः । तस्मात् प्राकृत इत्येव जीववत् तं वदन्ति हि । अस्पृष्टत्वेऽपि तद्धर्मैस्तद्गत्वादेव कारणात्’ इति वचनान् नेन्द्रजाललक्षणमायाऽत्रोच्यते किन्तु जडा जगदुपादानभूता प्रकृतिरेव ॥ २६ ॥

प्रकाशिका

गृणन्नित्युक्तां स्तुतिं दर्शयति ॥ शुद्धमिति । अत्र मायामनिर्वाच्याविद्यां प्रतिषिध्य कालत्रयेऽपि परिहृत्य तिष्ठन् भगवानेव तयैव पुरुषत्वं जीवत्वमुपेत्य तस्यामास्त इत्यन्यथाप्रतीति-वारणायात्र प्रमाणैः श्लोकतात्पर्यमाह ॥ जडमायेति । तथा च मायाशब्दो जडप्रकृतिपर इति भावः । शरीरत्वेन शरीररूपेण परिणाम्य । नास्तीत्यनेन मायां प्रतिषिद्ध्येतदुक्ततात्पर्यम् । तयैव पुरुषत्वमुपेत्य तस्यामित्यस्य तात्पर्यम् ॥ सृष्ट्वेति । तस्यामास्ते भगवानित्यस्य तात्पर्यम् ॥ मायायामिति । वस्तुतो भगवच्छरीररूपत्वाभावादशरीरायामित्युक्तम् । अपरिशुद्धमिवामनन्तीत्यस्य हेतुत्वेनोपयोग इत्यभिप्रेत्य तदर्थमाह ॥ तस्मादिति । अपरिशुद्ध इत्यस्यार्थः ॥ प्राकृत इति । प्रकृतिकार्यधर्मयुतः । तं विष्णुम् । जीववदित्यनेनापरिशुद्धशब्दो जीवपर इत्यपि दर्शयति । इवशब्दार्थमुपपादयति ॥ अस्पृष्टत्वेऽपीति । तद्धर्मैः प्रकृतिकार्यदुःखादिधर्मैः ॥ ततश्चायं श्लोकार्थः ॥ शुद्धं निर्दुष्टं च स्वधामि्न स्वस्वरूपे उपरता नित्यनिवृत्ता अखिला बुद्धेरवस्था जाग्रदादिजीवावस्था यस्य तत्तथा । चिन्मात्रं जडामिश्रमेकं सर्वोत्तममत एवाभयम् । अन्यस्य तादृशस्य भयप्रदस्याभावात् । जीवस्वरूपवैलक्षण्योपपादनायैतानि विशेषणानि । एतादृशं यस्य तव रूपमामनन्ति श्रुतयः । भगवान्मायां जडप्रकृतिं तत्कार्यं शरीरं प्रतिषिद्ध्य दूरीकृत्य सर्वदा तिष्ठन् सृष्टिकाले तयैव मायोपादानरूपया महदादिसृष्टिद्वारा पुराणि शरीराणि सृष्ट्वा तेषु स्थितिमत्तया पुरुषत्वं पुरुषशब्दवाच्यत्वमुपेत्य तदन्तर्यामिरूपेण व्यक्तोभूत्वा तस्यां मायायां तत्कार्यशरीरे नियामकतयाऽऽस्ते । तस्माद्भवन्तं दुरागमा अपरिशुद्धमिव प्रकृतिबद्धं जीवमिवामनन्ति । वस्तुतो न त्वं जीववत्प्राकृत इति भावः ॥ २६ ॥

ऋत्विज ऊचुः–

तत्त्वं न ते वयमनञ्जन रुद्रशापात्

कर्मण्यवग्रहधियो भगवन् विदामः ।

धर्मोपलक्षणमिदं त्रिवृदध्वराख्यं

ज्ञातं यदर्थमधिदैवमदस्त्वमास्थाः ॥ २७ ॥

तात्पर्यम्

अधिदैवम् उत्तमदैवम् । यद्यज्ञभागार्थं यज्ञभुग्देवताशरीरे आस्थाः । ‘भुङ्क्ते यज्ञभुजो देवानाविश्य पुरुषोत्तम’ इति च ॥ २७ ॥

पदरत्नावली

ऋत्विगादिवैदिकैः श्रीनारायण एव स्तुत्यो वन्द्यश्चेति भावेन तत्प्रतिपत्तिप्रकारं वक्ति– तत्त्वं न त इति ॥ अनञ्जन पुण्यपापलेपरहित, ऋत्विजो वयं ते तव तत्त्वं न विदामः । कस्मादज्ञानम् ? अत्राहुः– रुद्रशापादिति ॥ यज्ञादिकर्मण्यवग्रहधियः, दुराग्रहबुद्धित्वादित्यर्थः । नन्वेवं तर्हि एतस्मिन् कर्मणि भवत आविर्भावः कथं धटत इति शङ्का मा भूदित्याह– धर्मेति ॥ सदाशिवस्य प्रसन्नदृष्ट्यवलोकनोत्फुल्लतत्वज्ञानैरस्माभिः क्रियमाणमिदमध्वराख्यं कर्म ज्ञातं, त्वत्पूजात्वेनेति शेषः । कथमेतदवगतमित्यत उक्तम्– धर्मेति ॥ भक्त्यादिधर्माणामुपलक्षकत्वादित्यर्थः । किमत्र प्रमाणमित्यतस्तद् ध्वनयति– त्रिवृदिति ॥ त्रीन् प्रत्यक्षानुमानागमानावृणोतीति तदानींतनैः पुरुषैर्दृश्यमानत्वात् प्रत्यक्षं प्रथमं प्रमाणम् । द्वितीयं हरेराविर्भावलिङ्गम् । तृतीयं ‘एष मे सर्वधर्माणां धर्मोऽधिकतमो मतः । यद्भक्त्या पुण्डरीकाक्षं स्तवैरर्चेन्नरः सदा ॥’ इत्यागमः । प्रत्यक्षस्य तु लोकविडम्बनार्थत्वोपपत्तेर्लिङ्गस्य च विनोददर्शनाय सम्भवादागमस्य च स्तुतिरूपत्वेनार्थवादत्वोपपत्तेः, अतो निर्णायकाभावात् सिकतावनिगृहनिर्माणवत् सर्वं शिथिलमभूदिति तत्राह– यदर्थमिति ॥ त्वं यस्याध्वरस्य भागस्वीकारार्थमदोऽधिदैवमुत्तमदैवं ब्रह्मादिदेवताशरीरे आस्था इति यदत इदं निर्णायक-प्रमाणमित्यर्थः । ‘भुङ्क्ते यज्ञभुजो देवानाविश्य पुरुषोत्तमः’ इति वचनं चास्मिन्नर्थे मानम् । यद्वा कुतो न विदाम इति तत्राह– धर्मेति ॥ धर्ममदृष्टमुपलक्षयतीति तथोक्तम् । ज्ञानिभिरिदमध्वराख्यं कर्म यदर्थं यस्त्वमर्थो विषयो तत् तथा ज्ञातम् । कुतः कर्मणस्त्वद्विषयत्वम् ? अत्राह– अधिदैवमिति ॥ स त्वमधिदैवमास्थाः ‘अहं हि सर्वयज्ञानां भोक्ता’ इति यदतस् त्वद्विषयो यज्ञ इति तद् यजनमस्माभि-रिन्द्रादिविषयत्वेन ज्ञातमतो न विदाम इति ॥ २७ ॥

प्रकाशिका

ऋत्विजोऽपि स्वापराधं परिहरन्तः स्तुवन्ति ॥ तत्त्वमिति । हे अनंजन पुण्यपापलेपरहित । ते तव तत्त्वं यथावत्स्थितं रूपं न विदामो यतः कर्मणि कर्ममार्ग एव रुद्र-शापाद्रुद्रभक्तनन्दीश्वरशापादवग्रहधियो दुराग्रहबुद्धयः । प्रसिद्धेन्द्रादिदेवा एव यज्ञभागभोक्तार इति बुद्धय इति यावत् । किं मदीयं तत्वं यदयं न वेदेत्यपेक्षायां तत्तत्वमाहुः । धर्मेति । अत्राधि-देवमित्यत्राधीत्यस्यार्थमाह । अधिदैवमुत्तमदैवमिति । तथा चात्राधिशब्द उत्तमार्थो विवक्षित इति भावः । देवानधिकृत्येत्यर्थको नेति सूचनाय दैवमित्यनुवादः । तथात्वे अधिदेवमित्येव स्यादिति भावः । एवं चोत्तमदेवानां ब्रह्मादीनामिदं शरीरमधिदैवमित्युक्तं भवति । एतदेव विवृण्वन्यदर्थमित्यादि-मूलवाक्ययोजनां दर्शयति ॥ यद्यज्ञेति । यदर्थमित्यस्यार्थः ॥ यद्यज्ञभागार्थमिति । भागार्थं भोगार्थ-मित्यर्थः । अधिदैवमित्यस्यार्थः ॥ यज्ञभागभुग्देवताशरीर इति । तथा च देवशब्दो यज्ञभागभुग्देवतापर इति भावः । आस्था इत्यनुवादः । अधि शीङ्स्थासां कर्मेत्यादिना द्वितीयेति सूचनाय भगवतो यज्ञभुग्देवताशरीरप्रवेशेन यज्ञभोक्तृत्वे प्रमाणमाह ॥ भुङ्क्त इति । देवान्देवशरीराणि ॥ ततश्चायमर्थः ॥ यदर्थं यस्य यज्ञस्य भागार्थं भोगार्थमदो वेदप्रसिद्धमधिदेवमुत्तमयज्ञभुग्देवतासम्बन्धिशरीरं त्वमास्था-स्तदिदं यज्ञरूपं कर्माध्वराख्यमध्वनि शुद्धमार्गे रमत इत्यध्वराख्यं, त्रीन्वेदान् प्रतिपादकतया वृणोतीति त्रिवृत् त्रयीतात्पर्यविषयभूतमिति धर्मस्य हरिप्रीतिजनकादृष्टस्योपलक्षणं ज्ञापकमिति सूरिभिर्ज्ञातमन्यथा न । इतीदं तत्त्वं न विदाम इत्यन्वयः ॥ २७ ॥

सदस्या ऊचुः–

उत्पत्त्यध्वन्यशरण उरुक्लेशदुर्गान्तकोग्र-

व्यालाकृष्टे विषयमृगतृष्णात्मगेहोरुभारः ।

द्वन्द्वश्वभ्रे खलमृगभये शोकदावेऽज्ञसार्थः

पादौ शस्तौ शरणद कदा याति कामोपसृष्टः ॥ २८ ॥

पदरत्नावली

हे शरणद मोक्षलक्षणगृहप्रद अशरणे रक्षितृपुरुषरहिते, उरवो बहवो ऽविद्याऽ-स्मितारागद्वेषाभिनिवेशाः पञ्चक्लेशास्तैर् दुर्गैः, अन्तकाख्येनोग्रेण व्यालेनाजगरेण सर्पेणाकृष्टे, द्वन्द्वानि सुखदुःखान्येव श्वभ्राणि गर्तानि यस्मिन् स तथा तस्मिन् । खलाः पिशुनास्त एव मृगास्तैर्भयं यस्मिन् । शोको मनःपीडा स एव वनवह्निर्यस्मिन् एवंविधे उत्पत्त्यध्वनि जननमरणादिमार्गे । अज्ञसार्थो ऽज्ञानिपरिषत् । तव शस्तौ पादौ कदा याति ? न कदापीति मन्यामहे । कुत इति तत्राह– कामेति ॥ कामेनोपहृतत्वात् । कामोपहृतत्वं स्फुटयति– विषयेति ॥ विषयमृगतृष्णा शब्दादिविषयाख्य-मरीचिकाजलम्, उद्दिश्यात्मा यत्नः गृहम् एतद् द्वयमुरुभारो यस्य स तथा । ‘आत्मा देहे धृतौ जीवे स्वभावे परमात्मनि । यत्नेऽर्केऽग्नौ मतौ वाते’ इति यादवः । यद्वा विषयमृगतृष्णैवात्मगेहं स्वनिवासस्थानं तदेवोरुभारो यस्य स तथा ॥ २८ ॥

प्रकाशिका

हे शरणद मोक्षलक्षणगृहप्रद । उत्पत्त्यध्वनि संसारमार्गे वर्तमानोऽज्ञसार्थोऽ-ज्ञानिनां सार्थः समूहस्ते शस्तौ प्रशस्तौ पादौ कदा याति न कदाऽपि यास्यतीत्यन्वयः । कथम्भूते । अशरणे रक्षितृपुरुषशून्ये । उरवो बहवो क्लेशा अविद्याऽस्मितारागद्वेषाभिनिवेशास्तैर्दुर्गे । गन्तुम-शक्येऽन्तकाख्येनोग्रेण व्यालेनाजगरेणाकृष्टे । द्वन्द्वानि सुखदुःखान्येव श्वभ्राणि गर्तानि यस्मिन् । खलाः पिशुना एव मृगा व्याघ्रादयस्तेभ्यो भयं यस्मिन् । शोको मनःपीडा स एव दावो वनवह्नि-र्यस्मिन् । कथम्भूतोऽज्ञसार्थः । विषया एव मृगतृष्णा मरीचिकाजलं तामुद्दिश्यात्माऽहङ्कारस्पदो देहो गेहं गृहं ममत्वास्पदं स एवोरुभारो यस्य । अत एव कामेनोपसृष्टः पीडितः ॥ २८ ॥

रुद्र उवाच–

तव वरद वराड्घ्रावाशिषा चानभिध्ये

ह्यपि मुनिभिरसक्तैरादरेणार्हणीये ।

यदि रचितधियं मां विद्धि लोकापविद्धं

जगति न गणयेयं त्वत्परानुग्रहेण ॥ २९ ॥

तात्पर्यम्

आशिषोऽपि तत एव भवन्तीत्यतश्चशब्दः ॥ २९ ॥

पदरत्नावली

रुद्रस्तुत्या सर्वलोकस्य हरेः सर्वोत्तमत्वे संशयमुन्मूलयति– तवेति ॥ हे वरद तव आशिषा कारणेनानभिध्ये अभिध्यानाविषये, आशीरर्थं ध्यातुमयोग्ये । असक्तैर्निःसङ्गैर्मुनिभिर्ब्रह्मादि-ज्ञानिभिरप्यादरेणार्हणीये पूज्ये वराङ्घ्रौ वरणीयगुणे श्रीपादे यदि रचितधियं कृतबुद्धिं मां विद्धि जानासि । लडर्थे लोट् । कथं भूतं माम् ? लोकापविद्धं लोकबाह्यम् । अनेन रुद्रस्य ज्ञान्युत्तमत्वं द्योतयति । तर्हि जगति त्वत्परानुग्रहेण न गणयेयं कंचन पुरुषं न प्रार्थय इत्यर्थः । फलेच्छया ध्यानाभावेऽपि निष्कामत्वेन ध्यानादन्याशिषोऽपि तत एव भवन्तीत्यस्मिन्नर्थे चशब्दः । हिशब्देन गतिमण्वीं प्रयुञ्ज इति वाक्यं सूचयति ॥ २९ ॥

प्रकाशिका

हे वरद । असक्तैर्विरक्तैर्मुनिभिराशिषा निमित्तभूतयाऽनभिध्ये ध्यानाविषये आशीरर्थम् । ध्यातुमयोग्य इति यावत् । ब्रह्मादिज्ञानिभिरप्यादरेणार्हणीये पूज्ये तव वराङ्घ्रौ उत्तमपादे यदि रचितधियं कृतबुद्धिं मां विद्धि जानासि । लडर्थे लोट् । कथं भूतं माम् । लोकापविद्धं लोकबाह्यम् । अनेन स्वस्य ज्ञान्युत्तमत्वं सूचयति । तर्हि जगति त्वत्परानुग्रहेणान्यं पुरुषं न गणये न प्रार्थये । लोकैर्दक्षादिभिरपविद्धं निन्दितं मामिति वा । अत्र चशब्देन विषयासक्तैराशिषाभिध्ये चेत्यर्थस्य प्राप्तत्वादपिशब्दो व्यर्थ इत्यतस्तात्पर्यमाह ॥ आशिषोऽपीति । आसक्तानामप्याशिषस्तेनैव निष्कामध्यानेनैव भवन्तीति सूचयितुमपिशब्द इत्यर्थः ॥ २९ ॥

भृगुरुवाच–

यन्मायया गहनयाऽपहृतात्मबोधा

ब्रह्मादयस्तनुभृतस्तमसि स्वपन्तः ।

नात्माश्रितं तव विदन्त्यधुनाऽपि तत्त्वं

सोयं प्रसीदतु भवान् प्रणतात्मबन्धुः ॥ ३० ॥

पदरत्नावली

ब्रह्मादीनामपि श्रीनारायणतत्वज्ञानं दुर्लभं किमुतास्माकम् ? ततो रुद्रे द्वेषस्तत्वाज्ञानहेतुक इति भावं ध्वनयन् भृगुस्तं भगवन्तं स्तौति– यन्माययेतिश्लोकद्वयेन ॥ गहनया गन्भीरया यस्य तव माययाऽपहृत आत्मबोधः स्वरूपज्ञानं येषां ते तथा । अत एव तमस्यविद्यायां स्वपन्तः शयानाः, ब्रह्मा आदिर्येषां ते ब्रह्मादयस्तनुभृतः शरीरिणः । अनेन देहवत एव ज्ञान-ग्रहणयोग्यतां सूचयति । आत्मसु जीवेषु प्रेरकत्वेनाश्रितं तव तत्वमधुनापीत्यनेनोत्पाद्यदीर्घकालगतिं सूचयति, न विदन्ति सोऽयं प्रणतानामत्मनां जीवानां बन्धुर्भवान् प्रसीदतु इत्यन्वयः । यद्वा ब्रह्म आदिः कारणं येषां ते ब्रह्मादयस्तनुभृतो जीवाः । आत्मानं हृदयमाश्रितम् । अन्यत् समम् ॥ ३० ॥

प्रकाशिका

स्वप्रभृतिजीवानामस्वातन्त्र्यं प्रकटयन् भृगुः स्तौति ॥ यन्माययेति श्लोकद्वयेन । गहनया गम्भीरया यस्य तव माययाऽपहृत आच्छादित आत्मनः परमात्मन आत्मनां स्वेषां बोधो येषाम् । ब्रह्मा आदिः कारणं येषाम् । तमसि अज्ञाने स्वपन्तो मग्नाः । अनेनावरकान्तरमुक्तमिति ज्ञातव्यम् । आत्माश्रितं स्वात्मविषयकं तत्वं कर्मानुसारेण प्रेरणादिरूपम् ॥ ३० ॥

नैतत् स्वरूपं भवतोऽसौ पदार्थ-

भेदग्रहः पुरुषो यावदीक्षेत् ।

ज्ञानस्य चार्थस्य गुणस्य चाश्रया१-

न्मायामयाद् व्यतिरिक्तो यतस्त्वम्२ ॥ ३१ ॥

तात्पर्यम्

‘अव्यक्तादिपदार्थानां विशेषज्ञानिनाऽपि तु । न देहो वैष्णवो ज्ञेय आनन्दः प्राकृतो न हि’ इति तन्त्रसारे । पदार्थभेदग्रहः पदार्थविशेषज्ञः । ‘भेदोऽन्तरं विशेषश्च सूक्ष्मेक्षा३ चाभिधीयते’ इति तत्त्वनिर्णये ॥ ३१ ॥

पदरत्नावली

सर्वस्य हरेस्तत्वविषयाज्ञानमुक्त्वेदानीं तत्सत्वप्रमाणाभावेन शून्यप्रायं तत् स्यादित्यतोऽव्यक्तादिविशेषज्ञानिप्रत्यक्षं प्रमाणमिति भावेनाह– नैतदिति ॥ एतदव्यक्तादि, भवतः स्वरूपं सच्चिदानन्दात्मकं न भवति । इह जगति यो वैराग्यभक्त्यादिसाधनसामग्रीमान् असौ पदार्थ-भेदग्रहोऽव्यक्तादिपदार्थविशेषज्ञानी ब्रह्माद्यन्यतमः पुरुषो यावत् पदार्थजातं तावत् पृथगीक्षेत् पश्यतीति यस्मात् तस्मादित्यर्थः । ‘भेदोऽन्तरं विशेषश्च सूक्ष्मेक्ष्यश्चाभिधीयते’ इति वचनादत्र भेदो विशेषः । नन्वव्यक्तादिर्व्यतिरिक्तं चेत् तत्तद्दर्शनं प्रमाणं स्यात्, तदेव कुत इति तत्राह– ज्ञानस्येति ॥ ज्ञानस्येत्युपलक्षणम् । जातावेकवचनं, ज्ञानेन्द्रियाणां कर्मेन्द्रियाणामर्थस्य शब्दादितन्मात्राणां चाकाशादिभूतानां च गुणस्य सत्त्वादेश्च चशब्दात् तत्कार्ययोर्महदहंकारयोश्चाश्रयान् मायामयात् प्रकृतिविकारात् प्रपञ्चाद् व्यतिरिक्तोऽत्यन्तविलक्षणः, केवलचिदानन्दात्मकनित्यदेहस्त्वमिति यतोऽत इति । तदुक्तम् ‘अव्यक्तादिपदार्थानां विशेषज्ञानिनाऽपि तु । न देहो वैष्णवो ज्ञेय आनन्दः प्राकृतो न हि ॥’ इति । अव्यक्तादिपदार्थानां विशेषज्ञानिना वैष्णवो देहोऽव्यक्तादिपदार्थानां सम्बन्धेन निर्मितो न ज्ञेयः । तत्र हेतुमाह– आनन्द इति१ ॥ यद्वाऽसौ पदार्थभेदग्रहः पुरुषो यावदीक्षेत् तावदेतदव्यक्तादि भवतः स्वरूपं न भवतीति प्रत्येति, ज्ञानिदर्शनस्य यथार्थत्वनियमात् । अनेनाज्ञानिपक्ष एवाव्यक्तादि स्वरूपं न ज्ञानिपक्ष इत्युक्तम् । अन्यत् समम् । असत इति पाठे अमांगल्यादित्यर्थः ॥ ३१ ॥

प्रकाशिका

चिदानन्दात्मकदेहस्त्वम् । त्वदनुग्रहमन्तरेण पदार्थविशेषज्ञानिनाऽपि तत्ज्ञातु-मशक्यमित्याशयेनाह ॥ नैतदिति । अप्रतिपत्त्या श्लोकतात्पर्यं प्रमाणेनैव दर्शयति ॥ अव्यक्तादीति । अनेन पदार्थभेदग्रह इत्येतदुक्ततात्पर्यम् । तुशब्दोऽवधारणे । त्वदनुग्रहमन्तरेण नैव ज्ञेयः । आनन्द इत्युपलक्षणम् । आनन्दादिरूपो वैष्णवो देह इत्यन्वयः । अनेन पूर्वार्धतात्पर्यमुक्तमिति ज्ञातव्यम् । न ज्ञेय इत्यनेनातस्त्वं न ज्ञेय इति तत्र पूरणीयमिति सूचयति । ननु यो दृश्यते प्राकृतार्थः स एव तद्देहः किं न स्यादित्यत उक्तम् ॥ प्राकृतो न हीति । प्राकृतः पदार्थो वैष्णवो देहो न किन्तु तदतिरिक्त एवेति प्रमाणसिद्धमित्यर्थः । अनेन द्वितीयार्धतात्पर्यमुक्तमिति ध्येयम् । एवं श्लोकतात्पर्यं प्रमाणे-नोक्त्वेदानीं पदार्थभेदग्रह इत्यस्य प्रकृतसंगतमर्थं दर्शयति ॥ पदार्थेति । तथा च भेदशब्दो विशेषपरः । गृह्णातीति ग्रहो ज्ञ इत्युक्तं भवति । भेदशब्दस्य विशेषवाचित्वे प्रमाणं पठति ॥ भेदोऽन्तरमिति ॥ ततश्चायं श्लोकार्थः ॥ पदार्थानामव्यक्तादीनां भेदं विशेषं गृह्णातीति पदार्थभेदग्रहोऽव्यक्तादि-पदार्थविशेषज्ञानी असौ पुरुषो यावत्प्राकृतं पदार्थजातमीक्षेत्पश्यति । एतद्भवतः स्वरूपं स्वरूपभूतो देहो न भवति किन्तु तदतिरिक्त एवानन्दाद्यात्मको यो देहो वर्तत स पदार्थविशेषज्ञानिनाऽपि न ज्ञातुं शक्य इति शेषः । ननु दृश्यः प्राकृत एव देहः किं न स्यादित्यत आह ॥ ज्ञानस्येति । ज्ञानस्यार्थस्य विषयस्य शब्दादिगुणस्य सत्वादेश्च ज्ञानादीन्द्रियादेश्चाश्रयान्मायामयात् प्राकृताद्देहाद् व्यतिरिक्त आनन्दादिदेहो प्रमाणप्रसिद्धो यत इत्यर्थः । असत इति पाठेऽमङ्गलान्मायामयादिति व्याख्येयम् ॥ ३१ ॥

इन्द्र उवाच –

इदमच्युत विश्वभावनं वपुरानन्दकरं मनोदृशम् ।

सुरविद्विट्क्षपणैरुदायुधैर्भुजदण्डैरुपपन्नमष्टभिः ॥ ३२ ॥

पदरत्नावली

अनन्तरातीते श्लोके प्रत्यक्षमेतद् भवतः स्वरूपं न भवतीत्यन्यथाप्रतीतिमिन्द्र-स्तुतिव्याजेन निरस्यति– इदमिति ॥ अच्युत हेयोपादेयरहित हरे, इदं दृश्यमानं तव वपुर्विश्वभावनं जगदुत्पादकं ब्रह्मैवेत्यन्वयः । वपुःशब्दस्यार्थान्तरमाह– आनन्दकरमिति ॥ शुभाकरे तनौ वपुर् इत्यभिधानम् । यावद्गुणानुपसंहृत्योपास्ते तदनुसारिफलं च स्वस्यापि स्यादित्याशयेनाह– सुरविद्वि-डिति ॥ सुरविद्विषोऽसुरास्तान् क्षपयन्तीति सुरविद्विट्क्षपणास्तैः ॥ ३२ ॥

प्रकाशिका

भगवद्देहस्य भगवदात्मकत्वाच्च न प्राकृतत्वमित्याशयेन तद्देहस्य भगवदात्मकत्व-मिन्द्रस्तुतिव्याजेनानुमानेन साधयति ॥ इदमिति । हे अच्युत हेयोपादेयरहित । इदं प्रत्यक्षसिद्धं वपुर्विश्वभावनं जगदुत्पादकं ब्रह्मैवेत्यन्वयः । अनेन जगज्जन्मादिकारणत्वरूपभगवल्लक्षणयुक्तत्वात् तद्वपुस्तदात्मकमित्यनुमानमुक्तमिति ज्ञातव्यम् । सुरद्विषोऽसुरास्तान्क्षपयन्तीति सुरद्विट्क्षपणास्तैः । अनेन भुजानां चोपकारित्वस्तुतिप्रयोजनत्वमुक्तमिति ज्ञातव्यम् ॥ ३२ ॥

यज्ञपत्न्नय ऊचुः –

यज्ञोऽयं तव यजनाय केन सृष्टो

विध्वस्तः पशुपतिनाऽद्य दक्षकोपात् ।

तन्नस्त्वं १कुशेशयनाभ शान्तमेधं

यज्ञात्मन्नलिनरुचा२ दृशा पुनीहि ॥ ३३ ॥

पदरत्नावली

अन्तरायितस्य कर्मणः पूर्णफलत्वसिद्धिः श्रीनारायणकटाक्षेणैवेत्यभिप्रायेण पत्न््नयः स्तुवन्तीत्याह– यज्ञोऽयमिति ॥ शवं जलं तस्मिन् शेत इति शवशयः । अधिकरणे शेतेरिति कर्तर्यच्प्रत्ययः । कमलं नाभौ यस्य स तथोक्तः । तस्य सम्बुद्धिः । शवशयनाभ । शान्तमेधमुपरत-यज्ञम् । एकपदपक्षे शवाः प्रेताः शेरतेऽस्मिन्निति शवशयः । ‘पुंसि संज्ञायां घः प्रायेण’ इत्यधिकरणे घप्रत्ययः श्मशानम् । तस्य आभेव आभा यस्य सः । श्मशानकान्तिश्चासौ उपरतश्चासावध्वरश्चेति स तथोक्तः । तं पुनीहि शुद्धं कृत्वा पूर्णफलं कुर्वीत्यर्थः ॥ ३३ ॥

प्रकाशिका

केन दक्षेण । नोऽस्माकं यज्ञम् । हे कुशेशयनाभ पद्मनाभ । शान्तमेधशब्देन यज्ञोत्सवो लक्ष्यते । हे यज्ञात्मन्यज्ञस्वामिन् । नलिनरुचा पद्मकांत्या दृशा नेत्रेण पुनीहि शुद्धं कृत्वा पूर्णफलं कुरु ॥ ३३ ॥

ऋषय ऊचुः–

अनन्वितं ते भगवन् विचेष्टितं

यदात्मना चरसि हि कर्म नाज्यसे ।

विभूतयो यत उपसेदुरीश्वरा-

न्न मन्यते स्वयमनुवर्तिनीं भवान् ॥ ३४ ॥

तात्पर्यम्

ईश्वरान् ॥ ३४ ॥

पदरत्नावली

इतोऽपीदं रूपमुपनिषदेकवेद्यं, न मायामयमिति भावेन ऋषयः स्तुवन्तीत्याह– अनन्वितमिति ॥ भगवंस्तव विचेष्टितमनन्वितं लोककर्मविलक्षणम् । कुतः ? त्वमात्मनाऽन्यसहाय-मन्तरेण यत् कर्म चरसि करोषि तेन कर्मणा नाज्यसे न लिप्यसे हि यस्मात् । ‘स यत् तत्र किंचित् पश्यत्यनन्वागतस्तेन भवत्यसङ्गो ह्ययं पुरुषः’ इति श्रुतेः । असङ्गित्वं तवैवोचितमित्याहुः– विभूतय इति ॥ यतो यस्याः श्रियः प्रसादाद् विभूतय ईश्वरान् ब्रह्मादीनुपसेदुः प्रापुस्तां श्रियं स्वयमनुवर्तिनीं स्वत एव निषेवमाणां भवान् न मन्यते । मन ज्ञान इति धातोः । अप्राप्तफलार्थं सेवते इति न जानाति किन्तु ऋतुधर्मवज् जलस्यन्दनवद् भक्तिकरणमस्याः स्वभाव इत्येव जानातीत्यर्थः ॥ ३४ ॥

प्रकाशिका

ते विचेष्टितमनन्वितमसम्बद्धम् । लोकविलक्षणमिति यावत् । हि यस्मादात्मना स्वयमेव यत्कर्म चरसि तेन नाज्यसे न लिप्यसे । याश्च विभूतय मन्यते स्त्रीकामनया नाद्रियते । किन्तु भक्तिमत्तयैव तस्मादनन्वितमित्यन्वयः । अत्रेश्वरादिति छेदभ्रान्तिवारणाय प्रकृतसङ्गतं छेदं दर्शयति ॥ ईश्वरानिति । योजना तूक्तैव ॥ ३४ ॥

सिद्धा ऊचुः –

अयं ते कथामृष्टपीयूषनद्यां मनोवारणः क्लेशदावाग्निदग्धः ।

तृषार्तोऽवगाढो न सस्मार दावं न निष्क्रामति ब्रह्मसंपन्नवन्नः१ ॥ ३५ ॥

पदरत्नावली

ते तव कथामृष्टपीयूषनद्यामवगाढो मग्नोऽयं मनोवारणः संसाराख्यं दावं न सस्मार । स्मरणाभावे निमित्तमाह– ब्रह्मेति ॥ ब्रह्मसम्पन्नस्यापि निर्गमने स्मृतिः सम्भवतीत्यत उक्तम्– न निष्क्रामतीति ॥ कथानद्यवगाहे हेतुमाह– क्लेशेत्यादिना ॥ अनेनाप्यस्य रूपस्य ब्रह्मत्वं निरणायीति ज्ञायते ॥ ३५ ॥

प्रकाशिका

सिद्धास्तत्कथासुखमभिनन्दन्तः स्तुवन्ति ॥ अयमिति । नोऽस्माकं मनोलक्षणो वारणो गजस्ते तव कथैव मृष्टं शुद्धं पीयूषं तन्मय्यां नद्यामवगाढः प्रविष्टः कुतो यतः क्लेशलक्षण-दावाग्निना दग्धः । यतश्च तृषार्तो विषयतृष्णया दुःखितः । दावं दावाग्नितुल्यं संसारक्लेशं न सस्मार न स्मरति । स्मरणाभावे निमित्तमाह ॥ ब्रह्मेति । ब्रह्मसंपन्नवन्मुक्तवन्न निष्क्रामति न पुनरावर्तते ॥ ३५ ॥

यजमान उवाच –

स्वागतं ते प्रसीदेश तुभ्यं नमः श्रीनिवास श्रिया कान्तया त्राहि नः ।

त्वामृतेऽधीश नाङ्गैर्मखः शोभते शीर्षहीनः कबन्धो यथा पूरुषः ॥ ३६ ॥

पदरत्नावली

पूर्वत्र यजमानेन यथातत्वं स्तुतम् । अत्र लोकसंस्कारपूर्वकमौत्सुक्याच्च स्वाभीष्ट-सिद्धये यजमान्या प्रसूत्या स्तूयते– स्वागतमित्यादिना ॥ श्रिया कान्तया सह त्राहि रक्ष । कबन्ध इत्यनेन शिरोराहित्ये सिद्धेऽपि स्पष्टत्वाय शीर्षहीन इत्युक्तम् । और्ऋत्विजादिभिः, अन्यत्र करचरणादिभिः सहितोऽपि । अनेन सर्वोत्तमत्वं हरेर्द्योतितम् ॥ ३६ ॥

प्रकाशिका

पुनर्यजमानः स्तौति ॥ स्वागतमिति । यजमान्युवाचेति क्वचित्पाठः । तत्र यजमानी दक्षपत्नीति व्याख्येयम् । श्रिया कान्तया सह नोऽस्मान् । हे अधीश । यथा शीर्षेण हीनः कबन्धः कबन्धस्थः पुरुषोंऽगैः करचरणाद्यैर्न शोभते तथा त्वां विना प्रयाजाद्यङ्गैर्मखो न शोभते । अतो नस्त्राहीत्यन्वयः ॥ ३६ ॥

लोकपाला ऊचुः–

दृष्टः किं नो दृग्भिरसद्ग्रहैस्त्वं प्रत्यग्दृष्ट्या दृश्यते येन विश्वम् ।

माया ह्येषा भवदीया हि भूमन् यस्त्वं षष्ठः पञ्चभिर्भासि भूतैः ॥ ३७ ॥

तात्पर्यम्

माया ह्येषा भवदीया । भगवत्सामर्थ्यमेव । ‘भगवन्महिमैवासौ यद्दृश्यो भगवान् स्वयम्’ । इति च ॥ ३७ ॥

पदरत्नावली

लोकपालस्तुत्याऽपि हरेरिदं रूपमनारोपितमिति ज्ञायत इत्याह– दृष्टः किमिति ॥ येन त्वया विश्वं सर्वं दृश्यते ज्ञातं भवति स प्रत्यग्दृष्ट्या ज्ञानदृष्ट्या च दृश्यस् त्वं नोऽस्माकम् असद्ग्रहैः शब्दाद्यमङ्गलविषयग्राहिर्भिदृग्भिः किं प्रयोजनमुद्विश्य दृष्टः, अनुग्रहमन्तरेणेति शेषः । षष्ठः पञ्चभूत-व्यतिरिक्तशरीरस्त्वं पञ्चभिर्भूतैर्निर्मित्तशरीरवद्भिर् दृष्टो भासीति यदेषा भवदीया माया हि भवत्सामर्थ्यमेव । न ह्यमांसदृष्टिगोचरस्वभावस्य तद्गोचरत्वं सामर्थ्यं विना युज्यते । ‘भगवन्महिमैवासौ यद् दृश्यो भगवान् स्वयम्’ इति वाक्यं हिशब्दगृहीतम् । भूमन्नित्यनेन पूर्णस्यायं स्वभाव इति दर्शयति । यद्वा प्रत्यग्दृष्ट्या दृष्टस्त्वमस्माकं दृग्भिर्दृष्टः किम् ? अहोऽस्मद्भाग्यं दिव्यदृष्टिगोचरस्यान्यदृष्टि-गोचरत्वमिति यत्, पञ्चभिर्भूतैः सह षष्ठो भासीति यच्च सेयं भवदीया माया हीति ॥ ३७ ॥

प्रकाशिका

लोकपाला अपि हरिमाहात्म्यं व्यञ्जयन्तः स्तुवन्ति ॥ दृष्ट इति । अत्र माया शब्दस्यानिर्वाच्याविद्यापरत्वप्रतीतिवारणाय प्रकृतोपयुक्तमर्थमाह ॥ माया हीति । तथा च मूलमाया-शब्दः सामर्थ्यार्थः । हिशब्दोऽवधारणार्थ इति भावः । समग्रश्लोकतात्पर्यं प्रमाणेन दर्शयति ॥ भगवदिति । भगवान्स्वयमदृश्यस्वभावोऽपि दृश्यो दृग्विषय इति यत् । असौ भगवन्महिमैवाघटित-घटकसमर्थभगवत्सामर्थ्यमेव । कथमन्यथा दिव्यदृष्टिगोचरस्वभावस्य अज्ञ-दृष्टिगोचरता । न हि साधनशतेनापि नरो वानरी भवितुमर्हतीत्याशयः ॥ ततश्चायं श्लोकार्थः ॥ येन त्वया विश्वं दृश्यते यश्च त्वं पृथग्दृष्ट्याऽऽन्तरदृष्ट्या । दिव्यदृष्ट्येति यावत् । दृष्टः । ज्ञानिभिरिति शेषः । स त्वमसद्ग्रहै-रसतोऽभद्रान्विषयान्गृह्णातीत्यसद्ग्रहा वयं तैः कर्तृभिर्नोऽस्माकं दृग्भिर्मांसदृष्टिभिः किं प्रयोजनमुद्दिश्य दृष्टो न दृष्टः । अनुग्रहमन्तरेण न किमपीति शेषः । किन्तु । हे भूमन्परिपूर्ण । पञ्चभिर्भूतैस्तदुपचित-मांसमयैरिन्द्रियैः षष्ठोऽभौतिकशरीरस्त्वं भासीति यदेषा भवदीया माया ह्यघटितघटकभगवन्महिमैव तत्साध्यमेव । न ह्यमांसदृष्टिगोचरस्वभावस्य मांसदृष्टिगोचरस्वभावत्वं सामर्थ्यं विना साधनशतेनापि युज्यते । हि प्रमाणप्रसिद्धमेतत् ॥ ३७ ॥

योगेश्वरा ऊचुः–

प्रेयान्न तेऽन्योऽस्त्यमृतप्रिय प्रभो

विश्वात्मनीक्षेन्न पृथग्ग् य आत्मनः ।

अथापि भृत्येश तयोपधावता-

मनन्यवृत्त्याऽनुगृहाण वत्सल ॥ ३८ ॥

तात्पर्यम्

न पृथग् य आत्मनः । अन्यथा यो न पश्यति । ‘पृथग्ज्ञानं तदित्याहुर्यत्किञ्चि-द्वीक्ष्यतेऽन्यथा । ज्ञानज्ञेयाविरोधेन त्वपृथग्वस्तुनो दृशिः । केचिद्भेदं विनिन्दन्ति ह्यासुर-ज्ञानवृत्तयः । निराकुर्वन्त्यथो मन्दा भेदस्य परमार्थताम् । ये तु तत्त्वविदो मुख्या भेदं ब्रह्मान्य-वस्तुनोः । परमार्थमिति ज्ञात्वा नित्यं विष्णुमुपासत’ इति गारुडे । हे भृत्येश । तयाऽनन्य-वृत्त्योपधावतामस्माकमनुग्रहोऽस्त्येव । तथापि पुनरनुगृहाण । ‘यथार्थज्ञानिनो नान्यः प्रियो विष्णोस्तु कश्चन । तथाप्यधिकसन्तुष्ट्यै प्रसीदेत्यर्थनं पुनरि’ति च ॥ ३८ ॥

पदरत्नावली

योगेश्वरस्तुत्या प्रतीतं पञ्चभूतात्मकत्वं निवारयति– प्रेयानिति ॥ अमृतप्रिय मुक्तप्रिय प्रभो समर्थ विष्णो यो जीवो विश्वात्मनि जगदन्तर्यामिणि त्वयि पृथक्त्वमन्यथात्वं नेक्षेन्नपश्येत् सुरनरतिर्यगादिषु जीवराशिषु प्रेरकत्वेन स्थितानां तव रूपाणां गुणादीनां चाणुमात्रं भेदं न पश्यती-त्यर्थः । तस्मादात्मनो जीवादन्यः प्रेयांस्तव नास्ति । हे भृत्येश भृत्यानां दासानामस्माकमीश भक्तवत्सल या ‘भक्त्या त्वनन्यया शक्य अहमेवं विधोऽर्जुन’ इति प्रसिद्धा तयाऽनन्यवृत्त्या उपधावतां सेवमानानामस्माकमनुग्रहोऽस्त्येव, अथापि पुनरनुगृहाणेत्यन्वयः । ‘यथार्थज्ञानिनो नान्यः प्रियो विष्णोस्तु कश्चन । तथाप्यधिकसंतुष्ट्यै प्रसीदेत्यर्थनं पुनः ॥’ इति वचनादुपपन्ना प्रार्थनेति । अत्राभेदज्ञानिनो हरेरधिकप्रियत्वमुच्यत इत्ययमर्थः ‘पृथग्ज्ञानं तदित्याहुर्यत् किञ्चिद् वीक्ष्यतेऽन्यथा । ज्ञानं ज्ञेयाविरोधेन त्वपृथग् वस्तुनो दृशिः ॥ केचिद् भेदं विनिन्दन्ति ह्यासुरज्ञानवृत्तयः । निराकुर्वन्त्यथो मन्दा भेदस्य परमार्थताम् ॥ ये तु तत्वविदो मुख्या भेदं ब्रह्मान्यवस्तुनोः । परमार्थमिति ज्ञात्वा नित्यं विष्णुमुपासते ॥’ इत्यादिप्रमाणविरुद्ध इति ज्ञातव्यम् । आचार्येणापि ‘न पृथग् य आत्मनः । अन्यथा यो न पश्यति’ इति पृथगित्येतदन्यथेति व्याख्यातं न भेदमिति ॥ ३८ ॥

प्रकाशिका

योगेश्वरास्तु यद्यपि त्वं यथार्थज्ञानिनां प्रियस्तथाऽप्यधिकसौख्याय पुनः प्रार्थयाम इत्याशयेन स्तुवन्ति ॥ प्रेयानिति द्वाभ्याम् । अत्रात्मनो जीवान्पृथक् भेदेन नेक्षेन्न पश्येत् । तस्मादभेदज्ञानिनोऽन्यस्ते प्रेयान्नास्तीत्यन्यथाप्रतीतिवारणाय पृथगित्यस्यान्यार्थं नेक्षेदित्यनेनान्वयं लिङः लडर्थत्वं च दर्शयति ॥ न पृथगिति । अन्यथा ज्ञेयवस्तुविरुद्धप्रकारेण । अत्रात्मन इत्यनुवादः । आत्मन इति बहुवचनेन य आत्मन इति कर्तृकर्मभावेन च भेदस्यैव प्राप्त्याऽभेदज्ञानिविवक्षायां ज्ञानज्ञेयविरोधप्रसङ्ग इति बाधकप्रदर्शनाय ज्ञेयविरुद्धप्रकारेण ज्ञानमन्यथाज्ञानमित्यत्र प्रमाणं पठति ॥ पृथगिति । अन्यथा ज्ञेयविरुद्धप्रकारेण वस्तुनो दृशिर्यथार्थज्ञानमित्यर्थः । अनेन नपृथक् नान्यथा किन्तु वस्तुतत्त्वानुसारेण यः पश्यतीत्यपि मूलं व्याख्येयमिति सूचयति । अभेदज्ञानिरूपप्रतीतार्थस्य निन्दि-तत्वान्नासावात्राभिप्रेत इत्याशयेन तं निन्दन्ति ॥ केचिदिति । विनिन्दन्ति नास्तीति वदन्ति । ते आसुरज्ञानवृत्तयोऽसुरसम्बन्धिज्ञानस्वभावाः । हीति तत्र प्रमाणप्रसिद्धिं दर्शयति । अथो मन्दास्तेभ्योऽपि नीचा इत्यर्थः । पारमार्थिकभेदज्ञानपरत्वमेवास्येत्याशयेन स्तौति ॥ ये त्विति ॥ ये तत्त्वविदः ब्रह्मान्यवस्तुनोः परमार्थभेदं ज्ञात्वा विष्णुं सर्वभिन्नत्वेनोपासते । ते मुख्या इत्यन्वयः । मूले द्वितीयार्धेऽथाऽपि भेदाभावेऽपि भृत्येशतया स्वामिभृत्यभावेनोपधावतामिति प्रतीतिवारणाय स्वाभिमतं छेदं दर्शयति ॥ भृत्येशेति । नन्वेवमथाऽपीत्यस्य कोऽर्थ इत्यतस्तदर्थं वदन् अनुगृहाणेत्यस्य तात्पर्यमाह ॥ तयेति । तया पूर्वोक्तयानन्यवृत्त्याऽनन्यथाज्ञानेन । यथार्थज्ञानेनेति यावत् । उपधावतां सेवमानानाम् । पुनरनुग्रहणं व्यर्थमित्याशङ्कापरिहाराय समग्रश्लोकतात्पर्यं प्रमाणेनैव दर्शयति ॥ यथार्थज्ञानिन इति । अनेन प्रथमार्धतात्पर्यमुक्तमिति ज्ञातव्यम् । तथाऽपीत्यनेन द्वितीयार्धस्येति ज्ञातव्यम् ॥ ततश्चायमर्थः ॥ हे अमृतप्रिय मुक्तप्रिय, प्रभो परमसमर्थविष्णो, विश्वात्मनि सर्वस्वामिनि त्वयि स्थितान् आत्मनः जीवान् वस्तुगत्या आश्रयाश्रितभावादिना त्वत्तः परस्परं च । भिन्नानिति यावत् । योऽधिकारी पृथगन्यथाऽभिन्नत्वेन । स्वरूपापेक्षयेति शेषः । नेक्षेन्न पश्यति । किन्तु न पृथगन्यथा भेदेनैवेक्षेत् पश्यति । तस्मादन्यस्ते तव प्रेयान् अतिशयेन प्रियो नास्ति । अथाऽप्येवं ज्ञानिनामस्माकं त्वत्प्रियत्वेऽपि हे भृत्येश भृत्यानां स्वामिन् । तया पूर्वोक्तयाऽनन्यवृत्त्या यथार्थ-ज्ञानेनोपधावतां सेवमानानामस्माकमधिकसौख्याय पुनरनुग्रहाण । हे वत्सल भक्तप्रिय ॥ ३८ ॥

जगदुद्भवस्थितिलयेषु लीलया

प्रविभज्यमानगुणयाऽऽत्ममायया ।

रचितात्मभेदमतये स्वसंस्थया

ह्यतिवर्तितभ्रमगुणात्मने नमः ॥ ३९ ॥

तात्पर्यम्

‘प्रकृत्या जडया मिथ्याज्ञानं जनयतीश्वरः । तस्य भ्रमश्च सत्वाद्या न सन्ति परमेशितुरि’ति च ॥ ३९ ॥

पदरत्नावली

विश्वान्तर्यामित्वं तत्स्वामित्वं च हरेरेव मुख्यमित्याशयेनाहुः– जगदिति ॥ जगदुद्भवस्थितिलयेषु जगदुत्पत्तिस्थितिसंहारेषु लीलया, प्रविभज्यमानगुणया सृष्टौ रजः स्थितौ सत्वं संहारे तम इति प्रकारेण विभज्यमानः पृथक्क्रियमाणाः सत्वादिगुणा यस्याः सा तया, आत्माधीनया मायया । ‘प्रकृत्या जडया मिथ्याज्ञानं जनयतीश्वरः । तस्य भ्रमश्च सत्त्वाद्या न सन्ति परमेशितुः ॥’ इति वचनात्, प्रकृत्या रचिता कृता आत्मनां जीवानां भेदमतिर्मिथ्याज्ञानं येन स तथा तस्मै । स्वसंस्थया, एवार्थे हिशब्दः, स्वरूपस्थित्यैव महिमलक्षणया अतिवर्तिता निरस्ता भ्रमो गुणाश्च सत्त्वाद्या यस्मात् स तथा, स चासौ आत्मा चेत्यतिवर्तितभ्रमगुणात्मा, तस्मै । हे अतिवर्तितभ्रम ज्ञानानन्दादिगुणात्मन् इति भिन्नं वा पदम् । हिशब्दो ज्ञानानन्दात्मनो हरेरुपाधिना भ्रमयोग्यत्वं निवारयति ॥ ३९ ॥

प्रकाशिका

पूर्वोक्तं विश्वस्वामित्वं प्रकटयत आहुः ॥ जगदिति । सृष्टौ रजः स्थितौ सत्त्वं लये तम इत्येवं प्रविभज्यमाना गुणाः सत्त्वादयो यस्याः सा प्रविभज्यमाना गुणा तयाऽऽत्माधीनया मायया जडप्रकृतिरूपया रचितोत्पादिताऽऽत्मनां जीवानां भेदमतिः पृथग्दृष्टिः । उक्तरीत्या मिथ्याज्ञानमिति यावत् । येन स तथोक्तस्तस्मै स्वसंस्थयैव स्वमहिम्नैवातिवर्तिता दूरीकृता भ्रमो मिथ्याज्ञानं गुणाः सत्त्वाद्याश्च यस्मात्स तथोक्तः । स चासावात्मा स्वामी च तस्मै । अस्य श्लोकस्यैवमेव व्याख्यानं कार्यमित्याशयेन समाख्याप्रमाणं पठति ॥ प्रकृत्येति । माययेत्यस्यार्थः ॥ प्रकृत्येति । प्रविभज्यमान-गुणयेत्यस्य तात्पर्यम् ॥ जडयेति । मिथ्याज्ञानं जनयतीत्यनेन रचितात्मभेदमतये इत्येतदुक्ततात्पर्यम् । तस्य भ्रमश्च सत्त्वाद्या न सन्तीत्यनेनातिवर्तितगुणे भ्रम इत्येतदुक्ततात्पर्यम् । आत्मपदतात्पर्यम् ॥ परमेशितुरिति ॥ ३९ ॥

ब्रह्मोवाच–

नमस्तेऽमिततत्त्वाय धर्मादीनां च सूतये ।

निर्गुणाय च यत्काष्ठां नाहं वेदापरे कुतः ॥ ४० ॥

पदरत्नावली

हे अमित अनन्त ते तुभ्यं नमस् तत्वायाऽद्वयज्ञानाय, अमितानारोपितरूपायेति वा । धर्मादीनामस्माकं च सूतय उत्पत्तिकारणाय । चशब्देनास्मत्कारणत्वं निवारयति । कारणस्य रजआदिगुणसंसर्गो नास्तीत्याह– निर्गुणायेति ॥ सृष्टौ प्रवर्तमानस्य तद्गुणास्पर्शो महात्म्यातिशयाद् युज्यत इतीममर्थं चशब्देन वक्ति । अत्र प्रमितिः सम्यक् स्वरूपज्ञानाभावेऽपि सामान्यज्ञानेन घटत इति भावेनाह– यत्काष्ठामिति ॥ ‘काष्ठोत्कर्षे सीमि्न दिशि’ इति यादवः । अपरे मदर्वाचीनाः कुतो विदुः ? न कुतोऽपीत्यर्थः । अनेनास्य परमात्मत्वे न कोऽपि संदेह इति दर्शितम् ॥ ४० ॥

प्रकाशिका

अमिततत्त्वायापरिमितस्वरूपाय । हे अमित अनन्त । तुभ्यं नमः । तत्त्वाया-नारोपितरूपाय । धर्मादीनामस्माकं च सूतये उत्पादकाय । चशब्देनास्मत्कारणत्वं निवारयति । कारणस्य रजआदिसंसर्गो नास्तीत्याह ॥ निर्गुणायेति । सत्त्वादिगुणाबद्धाय । चशब्दो विशेषण-समुच्चयार्थः । यत्काष्ठां यस्योत्कर्षम् । काष्ठोत्कर्षे सामि्न दिशीत्यभिधानात् । अपरे मदर्वाचीनाः कुतो विदुर्न कुतोऽपीत्यर्थः । अनेनामितरूपत्वमुपपादितमिति ज्ञातव्यम् ॥ ४० ॥

अग्निरुवाच–

यत्तेजसाऽहं सुसमिद्धतेजा हव्यं वहाम्यध्वर आज्यसिक्तम् ।

तं यज्ञियं पञ्चविधं च पञ्चभिः स्विष्टं यजुर्भिः प्रणतोऽस्मि यज्ञम् ॥ ४१ ॥

तात्पर्यम्

‘यज्ञो यज्ञपुमांश्चैव यज्ञेशो यज्ञभावनः । यज्ञभुक् चेति पञ्चात्मा यज्ञेष्विज्यो हरिः स्वयम् । १आ श्रावयास्तु श्रौषड्यजाथो ये यजामहे । वषट्कारान्तकैर्नित्यं यजुर्भिः पञ्चभिर्विभुरि’ति तन्त्रसारे ॥ ४१ ॥

पदरत्नावली

अनेनापि मन्दाशङ्कामुन्मूलयति– यत्तेजसेति ॥ यस्य हरेस्तेजसा ‘यच्चन्द्रमसि यच्चाग्नौ तत् तेजो विद्धि मामकम्’ इति वचनात् । सुसमिद्धतेजाः पूज्यत्वेन सम्यक् प्रवृद्धं तेजो बलं यस्य स तथा अहं जातवेदा अध्वरे यज्ञे आज्यसिक्तमाज्येन युतं हव्यं वहामि देवान् प्राप्य विभज्यार्पयामीत्यर्थः । ओ श्रावय, अस्तु श्रौषट्, यत्र ये यजामहे, वौषडिति यजुर्वेदगतैर्यजुर्भिः पञ्चमन्त्रैः । स्विष्टं सुष्टु पूजितम् । तं पञ्चविधं पञ्चधा विभक्तविग्रहं यज्ञं, यज्ञपुरुषं, यज्ञेशं, यज्ञभावनं, यज्ञभुजमित्येवं विधं भगवन्तं प्रणतोऽस्मीत्यन्वयः । यज्ञं यज्ञेशमित्यादिपञ्चविधमिति वा योज्यम् । उक्तं च ‘यज्ञो यज्ञपुमांश्चैव यज्ञेशो यज्ञभावनः । यज्ञभुक् चेति पञ्चात्मा यज्ञेष्विज्यो हरिः स्वयम् ॥ ओ श्रावयास्तु श्रौषड् यजाथो ये यजामहे । वषट्कारान्तकैर्नित्यं यजुर्भिः पञ्चभिर्विभुः ॥’ इति ॥ ४१ ॥

प्रकाशिका

अग्निरहं त्वदधीनव्यापार इति विज्ञापयन्स्तौति ॥ यत्तेजसेति । अत्र पञ्चविध-मित्युक्तं भगवतः पञ्चविधत्वं प्रमाणेनैव दर्शयति ॥ यज्ञ इति । एवकारस्येत्येवान्वयः । स्विष्टमित्यस्य तात्पर्यम् ॥ यज्ञेष्विज्य इति । स्वयं स्वातन्त्र्येण । पञ्चभिर्यजुर्भिरुक्तानि पञ्चयजूंषि दर्शयति ॥ अश्रावयेति । पञ्चभिर्यजुर्भिरिज्य इत्यन्वयः । आश्रावय इत्येकोऽस्तुश्रौषडिति द्वितीयो यजेति तृतीयो ये यजामह इति चतुर्थो वषडिति पञ्चमः । तथा च वषट्कारो वषडिति मन्त्रोऽन्ते येषां तैर्यजुर्भिरित्यर्थः । तथा च श्रुतिः । आश्रावयेति चतुरक्षरमस्तु श्रौषडिति चतुरक्षरं यजेति द्व्यक्षरं ये यजामह इति पञ्चाक्षरं द्व्यक्षरो वषट्कारः । स्मृतिश्च । चतुर्भिश्च चतुर्भिश्च द्वाभ्यां पञ्चभिरेव च । हूयते च पुनर्द्वाभ्याम् । इत्येवंरूपा ॥ ततश्चायं श्लोकार्थः ॥ यस्य हरेस्ते तव तेजसा कान्त्या सामर्थ्येन वा सुसमिद्धं सु पूज्यत्वेन सु सम्यक् प्रवृद्धं तेजो बलं यस्य स तथाऽहं जातवेदा अध्वरे यज्ञे दीयमानमाज्यसिक्तमाज्येन सिक्तं युतं हव्यं हविर्वहामि देवान्प्राप्य विभज्यार्पयामीत्यर्थः । यजुर्वेदगतैर्यजुर्भिः पञ्चमन्त्रैः स्विष्टं सुष्टु पूजितं तं पञ्चविधं पञ्चधा विभक्तविग्रहं तं यज्ञेशं यज्ञप्रवर्तकं भगवन्तं प्रणतोऽस्मीत्यन्वयः ॥ ४१ ॥

देवा ऊचुः–

पुरा कल्पापाये स्वकृतमुदरीकृत्य विकृतं

त्वमेवाद्यस्तस्मिन् सलिल उरगेन्द्राधिशयने ।

पुमाञ्छेषे सिर्द्धैहृदि विमृशिताध्यात्मपदविः

स एवाद्याक्ष्णोर्नः पथि चरसि भृत्यानवसि च ॥ ४२ ॥

पदरत्नावली

कल्पापाये प्रलये स्वेन कृतं विकृतं कार्यरूपं जगदुदरीकृत्य उदरे निधाय यज्जले सृष्टिकाले त्वया पीतं तस्मिन् सलिले, उरगेन्द्र एवाधिकं शयनमुरगेन्द्राधिशयनं तस्मिन्नाद्यः पुमांस्त्वं शेषे । अत्र प्रमाणं चाहुः– सिद्धैरिति ॥ सिद्धैर्मुक्तैर्वेदैर्वा विमृशिता विचारिता अध्यात्मनः परमात्मनः पदवी यस्य स विमृशिताध्यात्मपदविः । य एवंविधः श्रीनारायणः । स एव नान्यो ऽद्य नोऽक्ष्णोश् चक्षुर्विषये चरसि भृत्यानस्मानवसि । चशब्देन भृत्यरक्षणमेव प्रयोजनं नान्यादित्यर्थं निर्धारयति । ‘‘नैतत् स्वरूपं भवतः’’ इत्यादिना यदुक्तं तन्निर्धारितमनेनेति ॥ ४२ ॥

प्रकाशिका

कल्पापाये प्रलये स्वेन कृतं विकृतं कार्यम् । विमृशिता विचारिताऽध्यात्मनः परमात्मनः पदवी यस्य सः विमृशिताध्यात्मपदविः ॥ ४२ ॥

गन्धर्वा ऊचुः–

आशासाना देव मरीच्यादय एते ब्रह्मेन्द्राद्या देवगणा रुद्रपुरोगाः ।

क्रीडाभाण्डं विश्वमिदं यस्य विभूम्नस्तस्मै नित्यं नाथ नमस्ते करवामः ॥

पदरत्नावली

हे देव आशासानाः फलमाकाङ्क्षमाणा य एते मरिच्यादयः, य एते ब्रह्मेन्द्राद्या देवगणाः, य एते रुद्रपुरोगा भूतगणा इति । इदं विश्वं विभूम्नो यस्य तव क्रीडाभाण्डं क्रीडोपकरणं वर्तत इत्यन्वयः । हे नाथ तस्मै ते तुभ्यं नमः करवाम इत्यनेनापि सर्वशङ्कोन्मूलिता ॥ ४३ ॥

प्रकाशिका

हे देव । आशासानाः फलमाकांक्षमाणा य एते मरीच्यादयो य एते ब्रह्मेन्द्राद्या देवा रुद्रपुरोगा भूतगणा इतीदं विश्वं भूम्नो यस्य तव क्रीडाभाण्डं क्रीडोपकरणम् ॥ ४३ ॥

विद्याधरा ऊचुः–

त्वन्माययाऽर्थमभिपद्य कलेवरेऽस्मिन्

कृत्वा ममाहमिति दुर्मतिरुत्पथैः स्वैः ।

क्षिप्तोऽप्यसद्विषयलालस आत्ममोहं

युष्मत्कथामृतनिषेवक उद्व्युदस्येत् ॥ ४४ ॥

पदरत्नावली

अव्यक्तादेस्त्वद्रूपकल्पनायास् त्वदिच्छाधीनत्वात् तत्प्रसादेनैव निरासः स्यादित्याशयेन विद्याधराः स्तुवन्तीत्याह– त्वन्माययेति ॥ त्वन्मायया त्वदिच्छया त्वदधीनया प्रकृत्या च रचितमर्थं देहकलत्रादिलक्षणमभिपद्य दुर्मतिर्दुःखितमतिर् अस्मिन् कलेवरे ममाहमिति मतिं कृत्वाऽत एव उत्पथैर्दुर्मार्गवर्तिभिः स्वैरिन्द्रियैः क्षिप्तोऽसत्स्वमङ्गलेषु विषयेषु लालस उत्कण्ठावानपि पुमान् युष्मत्कथारसनिषेवकः, आत्मा मुह्यत्यनेनेत्यात्ममोहः संसारस्तमुद्व्युदस्येन् निरस्यतीत्यन्वयः ॥ ४४ ॥

प्रकाशिका

त्वन्मायया त्वदिच्छया त्वदधीनया प्रकृत्या चार्थं (ऐहिकं पुरुषार्थं) देहकलत्रादि-लक्षणम् । अभिपद्य प्राप्य ममाहमिति दुर्मतिप्रापकमुक्तमिति ज्ञातव्यम् । उत्पथैर्दुर्मार्गवर्तिभिः स्वैरिन्द्रियैः क्षिप्तोऽपि भग्नमानविषयलोभेन दुःखितोऽपि । असत्स्वमङ्गलेषु विषयेषु लालसा तृष्णा यस्य सः पुमान्युष्मत्कथारसं निषेवक आत्माऽऽत्ममोहमहंकारममकारादिरूपं मिथ्याज्ञानमुद्व्युदस्येदुच्चैः परित्यजेत् । अतो युष्मत्कथानिषेवणमेवास्माकं सदा देहीत्याशयः ॥ ४४ ॥

ब्राह्मणा ऊचुः–

त्वं क्रतुस्त्वं हविस्त्वं हुताशः स्वयं

त्वं हि मन्त्राः समिद् दर्भपात्राणि च ।

त्वं सदस्यर्त्विजो दम्पती देवता

अग्निहोत्रं स्वधा सोम आज्यं पशुः ॥ ४५ ॥

तात्पर्यम्

‘‘सर्वशब्दाभिधेयत्वं सर्वान्तर्यामिकत्वतः । न तु सर्वस्वरूपत्वात्सर्वभिन्नो यतो हरिः ।’’ इति मात्स्ये ॥ ४५ ॥

पदरत्नावली

ब्राह्मणस्तुतिव्याजेन हरेः सर्वस्वातन्त्र्यं द्रढयति– त्वं क्रतुरिति ॥ त्वं क्रतुरित्याद्यभेदेनोक्तिरन्तर्यामिविषयेति ज्ञातव्यम् । तदुक्तम्– ‘सर्वशब्दाभिधेयत्वं सर्वान्तर्यामिकत्वतः । न तु सर्वस्वरूपत्वात् सर्वभिन्नो यतो हरिः ॥’ इति । अपभ्रष्टचेतनैक्याभावेऽपि ब्रह्मरुद्रादिविशिष्ट-चेतनैक्यं किं न स्यादिति चेन्न । प्रमाणविरुद्धत्वात् । तदुक्तम्– ‘अन्तर्यामिस्वरूपेण ब्रह्मरुद्रा-द्यभिन्नता । न तु जीवस्वरूपेण जीवा भिन्ना यतो हरेः । विशेषाभेदवचनं सन्निधानविशेषतः । सन्निधानं तु तत् प्रोक्तं सामर्थ्यव्यञ्जनं हरेः ॥’ इति ॥ ४५ ॥

प्रकाशिका

पूर्वोक्तयज्ञेशत्वमुपपादयन्तो ब्राह्मणाः स्तुवन्ति ॥ त्वं क्रतुरिति श्लोकत्रयेण । अत्र हरेः क्रत्त्वादिशब्दवाच्यत्वं क्रत्त्वाद्यभेदेनेति प्रतीतिवारणाय श्लोकतात्पर्यं प्रमाणेनैव दर्शयति ॥ सर्वेति । क्रतुत्वादिसर्वशब्दाभिधेयत्वमन्तर्यामिकत्वतः नियामकत्वतः । सर्वभिन्नः सर्वक्रत्त्वादि-सर्वभिन्नत्वेन प्रमितः । अनेन प्रतीतार्थे बाधकमुक्तमिति ज्ञातव्यम् । ततश्च त्वं क्रतुः क्रत्वन्त-र्नियामकतया तच्छब्दवाच्यः । एवं त्वं हविरित्यादौ योजना द्रष्टव्या । सदस्याश्च ऋत्विजश्च ॥ ४५ ॥

त्वं पुरा गां रसाया महान् सूकरो

दंष्ट्रया पद्मिनीं वारणेन्द्रो यथा ।

स्तूयमानो नदल्लीलया योगिभि-

र्व्युज्जहर्थ त्रयीगात्र यज्ञक्रतुः ॥ ४६ ॥

सामगा ऊचुः–

संप्रसीद त्वमस्माकमाकाङ्क्षतां दर्शनं ते परिभ्रष्टसत्कर्मणाम् ।

कीर्त्यमाना नृभिः सामगीरीश ते यज्ञविघ्नाः क्षयं यान्ति तस्मै नमः ॥ ४७ ॥

पदरत्नावली

रसाया रसातलात् । योगिभिः सनकादिभिः । यज्ञक्रतुर्यज्ञसङ्कल्पः ॥ सामगीः सामगायनध्वनिः । परिभ्रष्टानि विस्रस्तानि सत्कर्माणि येषां ते तथोक्तास्तेषाम् । यज्ञविघ्ना राक्षसाः

॥ ४६,४७ ॥

प्रकाशिका

गां भूमिं रसाया रसातलाद्योगिभिः सनकादिभिः स्तूयमानो व्युज्जहर्थ विशेषेणो-द्धृतवानसि । हे त्रयीगात्र वेदप्रतिपाद्यदेह । तुशब्दोऽवधारणे । यज्ञं करोतीति यज्ञक्रतुर्यज्ञजनका-वयवः । त्रयीगात्रेण यज्ञक्रतुरित्येकं वा पदम् । परिभ्रष्टानि विभ्रंशितानि सत्कर्माणि येषां ते । यज्ञविघ्ना राक्षसाः ॥ ४६,४७ ॥

मैत्रेय उवाच–

इति दक्षः कविर्यज्ञं भद्ररुद्रावमर्शितम् ।

कीर्त्यमाने हृषीकेशे उन्निन्ये यज्ञभावने ॥ ४८ ॥

पदरत्नावली

भद्ररुद्रो वीरभद्रः । उन्निन्ये ऊर्ध्वं नीतवान्, समासं कृतवानित्यर्थः ॥ ४८ ॥

प्रकाशिका

रुद्रावमर्शितं रुद्रेण नाशितम् । नामि्न कीर्त्यमाने । सर्वैरिति शेषः । उन्निन्ये ऊर्ध्वं नीतवान् । समाप्तं कृतवानिति यावत् । हे भद्र विदुर । यज्ञं भावयत्युत्पादयतीति यज्ञभावनस् तस्मिन्

॥ ४८ ॥

भगवान् स्वेन भागेन सर्वात्मा सर्वभागभुक् ।

दक्षं बभाष आभाष्य प्रीयमाण इवानघ ॥ ४९ ॥

पदरत्नावली

सर्वात्मेति हेतुगर्भविशेषणम् । सर्वभूतान्तर्यामित्वेन । सर्वभागभुक् स्वेन भागेन हेतुना सर्वभागं भुङ्क्त इति सर्वभागभुक् । पूर्वम् अप्रीयमाण इदानीं प्रीयमाण इत्युभयार्थाभिप्रायेणेवशब्दः । ‘इवोभये च सादृश्ये’ इत्यभिधानात् । यथा प्रीयमाणः प्रियं वक्ति तथेति वा ॥ ४९ ॥

प्रकाशिका

सर्वात्मेन्द्रादिसर्वान्तर्यामी सन् सर्वभागभुगपि स्वेन भागेन त्रिकपालपुरोडाशेन प्रीयमाण इव । तदभावेऽपि बभाषे । पूर्णत्वादिवशब्दः । दक्षं बभाषे दक्षं प्रति स्वरूपमुपदिदेश ॥४९॥

श्रीभगवानुवाच–

अहं ब्रह्मा च शर्वश्च जगतः कारणं परम् ।

आत्मेश्वर उपद्रष्टा स्वयंदृगविशेषणः ॥ ५० ॥

तात्पर्यम्

१‘अन्तर्यामिस्वरूपेण ब्रह्मरुद्राद्यभिन्नता । न तु जीवस्वरूपेण जीवा भिन्ना यतो हरेः । विशेषाभेदवचनं सन्निधानविशेषतः । सन्निधानं तु तत्प्रोक्तं सामर्थ्यव्यञ्जनं हरेः’ इति भविष्यत्पर्वणि ॥ ५० ॥

पदरत्नावली

ननु भगवान् स्वागतं बभाष इति न युक्तम् । दक्षस्य प्रागेव तत्र स्थितत्वात् । अन्यद् वक्तव्यं न प्रतीयत इत्याशङ्क्य स्वात्मानं दक्षायोपदिशतीत्याह– अहमिति ॥ आत्मेश्वर आत्मनां जीववतामीश्वर ईशनशीलः । उपद्रष्टा सर्वस्मादधिको द्रष्टा । स्वयंदृक् स्वयंप्रकाशः । अविशेषणः सर्वोत्तमोऽहं विष्णुर्जगतः परं, पृ पालनपूरणयोरिति धातुः, पालकं कारणम् । ब्रह्मा ब्रह्मसंज्ञोऽहं परं सृष्ट्या पूरकं कारणं, शर्वः शर्वसंज्ञोऽहं जगतः परमुत्कृष्टं कारणं विक्षेपकं संहारकम् । कृ विक्षेप इति धातुः । मामेवंविधं जानीहीति शेषः ॥ ५० ॥

प्रकाशिका

तमेवोपदेशमाह ॥ अहमिति । अत्र हरेर्ब्रह्मरुद्राभेदः प्रतीयते तथा जगत आत्मेति सर्वाभेदोऽतोऽत्र विवक्षितं तात्पर्यं प्रमाणेनैवाह ॥ अन्तर्यामीति । तुशब्दोऽवधारणे । ब्रह्माद्यन्तर्यामि-हरिस्वरूपेणैव ब्रह्मादिनामकेन ब्रह्मरुद्राद्यभिन्नता हरेरुच्यत इत्यर्थः । अवधारणव्यावर्त्यमाह ॥ न तु जीवस्वरूपेणेति । ब्रह्मरुद्रादिजीवस्वरूपेण नेत्यर्थः । इदमुपलक्षणम् । न जडस्वरूपेणेत्यपि ग्राह्यम् । एवमग्रेऽपि जीवपदं जडोपलक्षकम् । कुत इत्यत उक्तम् ॥ जीवा इति । भिन्ना भिन्नत्वेन प्रमिताः । नन्वेवं ब्रह्मा च रुद्रश्चेति विशिष्य हरेर्ब्रह्मरुद्राभेदवचने किं निमित्तमित्यत आह ॥ विशेषेति । विशेषेणाभेदवचनमित्यर्थः । हरेस्तत्र सन्निधानविशेषतः सन्निधानविशेषमपेक्ष्य । उपपद्यत इति शेषः । नन्वन्तर्यामित्वातिरिक्तं कीदृशं सन्निधानमित्यपेक्षायामाह ॥ सन्निधानमिति । हरेर्यत्सामर्थ्यव्यञ्जनं तदेव सन्निधानं सम्यगवस्थानम् । अन्यत्र तु निधानमात्रमित्यर्थः । तथा च ब्रह्मरुद्राख्यजीवस्थितस्य हरेः सृष्टिसंहारसामर्थ्यव्यञ्जकत्वादितरजीवस्थितहरिस्वरूपापेक्षया तयोर्विशेषेणाभेदवचनमिति भावः । तथा चाहं विष्णुनामा ब्रह्मा ब्रह्मान्तर्यामी ब्रह्मनामा च शर्वो रुद्रान्तर्यामी हरनामा चेत्येवं त्रिरूपो जगतः सृष्ट्यादौ परं कारणमुत्तमकारणमात्माऽन्तर्यामीश्वरः स्वामी । उपद्रष्टोत्तमद्रष्टा । सर्वसाक्षीति यावत् । स्वयंदृक् स्वप्रकाशः । विशिष्यत इति विशेषणं न विद्यते विशेषणं यस्मात्सोऽविशेषणः । तारतम्यानन्तर्गत इति यावदिति मूलार्थ इति भावः ॥ ५० ॥

स आत्ममायामाविश्य योऽहं गुणमयीं द्विज ।

सृजन् रक्षन् हरन् विश्वं दध्रे संज्ञाः क्रियोचिताः ॥ ५१ ॥

पदरत्नावली

एतदेव स्पष्टयति– स इति ॥ हे द्विज दक्ष । योऽहमेवं त्रिरूपः स एवाहं सत्त्वादिगणमयीमात्ममायां मदधीनजडप्रकृतिमाविश्य रजोगुणोपादानत्वेन ब्रह्माणं सृष्ट्वा, ब्रह्माख्य-मद्रूपेण तं प्रविश्य जगत् सृजन्, सत्वगुणप्रवर्तकत्वेन विष्णुरूपेण विश्वं रक्षन्, तमोगुणोपादानत्वेन शिवं सृष्ट्वा, शिवाख्यमद्रूपेण तं प्रविश्य विश्वं हरन् संहरन्, तत्तत्क्रियोचिताः संज्ञा अभिवृद्धिहेतुत्वाद् ब्रह्मनाम, सविलासव्याप्तिहेतुत्वाद् विष्णुनाम, संहारहेतुत्वात् हरनामेति दध्र इत्यन्वयः । अनेन ब्रह्मरुद्रस्थमद्रूपाभ्यां विष्णुरूपेण चाहमेव जगत्सृष्ट्यादित्रयकृदित्यतो ब्रह्मशिवयोः प्रसिद्धयोः सृष्टि-संहारकर्तृत्ववचनं भ्रान्तिमूलमित्युक्तं भवति ॥ ५१ ॥

प्रकाशिका

उक्तमेव प्रपञ्चयति ॥ स आत्ममायामाविश्येति । हे द्विज । योऽहं त्रिरूपः सोऽहं सत्त्वादिगुणमयीमात्ममायां स्वाधीनां जडप्रकृतिमाविश्य रजोगुणोपादानत्वेन ब्रह्माणं सृष्ट्वा ब्रह्माख्यमद्रूपेण तं प्रविश्य जगत्सृजन् सत्त्वगुणप्रवर्तकेन विष्णुरूपेण विश्वं रक्षन् तमोगुणोपादानत्वेन शिवं सृष्ट्वा शिवाख्यमद्रूपेण तं प्रविश्य हरन्संहरन् तत्तत्क्रियोचिताः सर्जनादिक्रियोचिता ब्रह्माविष्णु-हरेति संज्ञा दध्रे धारयामि । बृंहणात्सर्जनाद्ब्रह्मा वेशनाद्रक्षणाद्विष्णुर्हरणात्संहरणाद्धर इति संज्ञानां सर्जनादि क्रियावाचित्वं ज्ञातव्यम् । तथा च ब्रह्मरुद्रयोर्मत्सन्निधानविशेषाधिष्ठानत्वात्तत्सृष्टिसंहारवचनं नोचितमित्याशयः ॥ ५१ ॥

तस्मिन् ब्रह्मण्यद्वितीये केवले परमात्मनि ।

देहात्मबुद्धिर्भूतानि भेदेनाज्ञोऽनुपश्यति ॥ ५२ ॥

तात्पर्यम्

‘हरेर्वशत्वदृष्टिस्तु भूतानामपृथग्दृशिः । प्रियत्वदृष्टिरथवा ब्रह्मादीनां विशेषतः ॥’ इति गारुडे ॥ ५२ ॥

पदरत्नावली

एतदेव स्पष्टयति– तस्मिन्निति ॥ योऽहं विश्वस्य मुख्यकारणं तस्मिन्मयि । केवले प्रकृतिसम्बन्धरहिते । ब्रह्मणि गुणपूर्णेऽद्वितीये समानाधिकरहिते । परमात्मनि स्थिते सति, देहात्मबुद्धिर्देहोऽहमिति बुद्धिर्यस्य स तथा जीवः, भूतानि ब्रह्मादीनि भेदेन स्वातन्त्र्येण स्वत एव सृष्ट्यादिप्रवृत्तिमन्ति न केनचिन्नियतानीत्यनुपश्यतीत्यन्वयः । अज्ञ इति हेतुगर्भविशेषणम् । यद्वा भेदेन स्थितानि ब्रह्मादिभूतानि परमात्मन्यनुपश्यतीति, अभेदेनेति शेषः ॥ ५२ ॥

प्रकाशिका

नन्वेवं ब्रह्मादिभूतानि न विष्णोरधीनानीति कथं केचिज्जानन्तीत्यतस्तान्निन्दति ॥ तस्मिन्निति । अत्र भूतानि भेदेन यः पश्यति सोऽज्ञ इति भेदज्ञानिनिन्दापरत्वप्रतीतिवारणाय तात्पर्यं प्रमाणेनैवाह ॥ हरेरिति । प्रियत्वदृष्टिः स्वकीयत्वदृष्टिः । अथवेति व्यवस्थितो विकल्पः । तथा च भूतानां यत्र हरेरपृथग्दृशिरभेददर्शनमुच्यते । तत्र भूतानां हरेर्वशत्वदृष्टिरेव व्याख्येया । ‘‘यदधीना यस्य सत्ता’’ इति वचनात् । यत्र च स्वस्मादपृथग्दृशिर्भूतानामुच्यते तत्र स्वप्रियत्वदृष्टिरेव व्याख्येया । ममात्माभद्रसेन इत्यादौ प्रियेऽप्यभेदवाचकशब्दप्रयोगदर्शनात् । ब्रह्मादीनामुत्तमानां भूतानां स्वस्मादपृथग्दृशिश्चोच्यते तर्हि तत्र विशेषत इतरापेक्षया विशेषेण प्रियत्वदृष्टिर्व्याख्येयेत्यर्थः । अनेन ‘‘यथा पुमान्’’ इति श्लोकतात्पर्यमप्युक्तमित्यवगन्तव्यम् ॥ ततश्चायं श्लोकार्थः ॥ योऽहमेवं विश्वस्य सृष्ट्यादिकर्ता तस्मिन् ब्रह्मणि गुणपूर्णेऽद्वितीये समाधिकरहिते केवले जडामिश्रे परमात्मनि सकलजीवोत्तमे मयि स्थितानि मदधीनानि यानि भूतानि ब्रह्मादीनि तानि भेदेन पृथक्त्वेन । मदनधीन-सत्तयेति यावत् । योऽनुपश्यति स्वशास्त्रमनुसृत्य जानाति । जातावेकवचनम् । स देहात्मबुद्धि-र्देहादावहमेव कर्तेति ज्ञानवान् । भ्रान्त इति यावत् । कुतो यतोऽज्ञो मम भूतानां च स्वरूपज्ञानशून्यः । तथा च हरेर्जगज्जन्मादिकर्तृत्वाद्गुणपूर्णत्वादद्वितीयत्वादियुक्तत्वाच्च ब्रह्मादिभूतानि हर्यधीनानीत्येव दृष्टिः कार्येति भावः ॥ ५२ ॥

यथा पुमान् न स्वाङ्गेषु शिरःपाण्यादिषु क्वचित् ।

पारक्यबुद्धिं कुरुत एवं भूतेषु मत्परः ॥ ५३ ॥

पदरत्नावली

अज्ञानिदर्शनमुक्त्वा ज्ञानिदर्शनप्रकारमाह– यथेति ॥ पुमान् जीवः शिरः-पाण्यादिषु स्वाङ्गेषु क्वचिदपि पारक्यबुद्धिं यथा न कुरुते किन्तु स्वकीयबुद्धिमेव करोति,एवं मत्परो ब्रह्मादिभूतेषु मामकत्वबुद्धिं करोति न स्वातन्त्र्यबुद्धिम् ॥ ५३ ॥

प्रकाशिका

एवं रुद्रद्रोहस्तव नोचित इत्युक्त्वेदानीं स्वोत्तमेषु रुद्रादिषु प्रत्युताधिकारिणा विशेषाकारेण प्रियत्वदृष्टिरेव कार्येत्याशयेनाधिकारिबुद्धिं सदृष्टान्तमाह ॥ यथेति । क्वचित् कदाचित् पारक्यबुद्धिम् अस्वकीयत्वबुद्धिमिति यावत् । न कुरुते । किन्तु स्वकीयत्वबुद्धिमेव करोति । एवं तथा मत्परो ऽहमेव पर इति ज्ञानी भूतेषु प्राणिषु पारक्यबुद्धिं न कुरुते । किन्तु स्वकीयत्वबुद्धिमेव करोति । स्वोत्तमेषु विशेषाकारेणेत्यपि पूरणीयम् । तथा च तवापि मत्परत्वाद्रुद्रादिस्वोत्तमेषु स्वकीयबुद्धि-रावश्यकीत्याशयः ॥ ५३ ॥

त्रयाणामेकभावानां यो न पश्यति वै भिदाम् ।

सर्वभूतात्मना ब्रह्मन् स शान्तिमधिगच्छति ॥ ५४ ॥

तात्पर्यम्

सर्वभूतात्मना सर्वभूतान्तर्यामित्वेन ॥ ५४ ॥

पदरत्नावली

अतः फलितमाह– त्रयाणामिति ॥ हे ब्रह्मन् एवमुक्तप्रकारेण ममैव स्वातन्त्र्या-दन्येषामस्वातन्त्र्याद् ब्रह्मशिवस्थत्वेन ब्रह्मशिवाख्ययोर्मद्रूपयोः पृथक् स्थितस्य विष्ण्वाख्यस्य मद्रूपस्य चेति त्रयाणां त्रित्वसंख्योपेतानामेकभावानामेकरूपाणामेकैश्वर्याणां सर्वभूतात्मना सर्वभूतान्तर्यामित्वेन यो जीवो भिदां न पश्यति स शान्तिं मोक्षं गच्छतीत्यन्वयः । यद्वा त्रयाणां ब्रह्मविष्णुशिवाख्यानां सर्वभूतस्वामिनामेकचित्तानां भिदां मिथो विरोधबुद्धिविषयत्वं न पश्यति, स शान्तिं स्वस्थबुद्धितया भगवन्निष्ठामाप्नोति । ब्रह्मादिजीवानां हरिणाऽभेदवचनस्य का गतिरिति चेन्न । तद्वशत्वतत्प्रियत्व-दृष्टिविषयत्वात् । तदुक्तम्– ‘हरेर्वशत्वदृष्टिस्तु भूतानामपृथग् दृशिः । प्रियत्वदृष्टिरथ वा ब्रह्मादीनां विशेषतः’ इति ॥ ५४ ॥

प्रकाशिका

एवं ‘‘अहं ब्रह्मा च शर्वश्च’’ इत्यादिनोक्तरीत्या त्रिमूर्तैक्यमुपपाद्येदानीं जगत आत्मेत्युक्तसर्वान्तर्यामित्वेन हेतुना प्राप्तभेदशङ्कामपाकुर्वन् तत्र तात्पर्यद्योतनाय तद्वेत्तुः फलमाह ॥ त्रयाणामिति । तत्र सर्वभूतात्मनेत्यस्य प्रकृतसङ्गतमर्थं दर्शयति ॥ सर्वभूतात्मनेति । तथा च भावप्रधानो निर्देश इति भावः । ततश्चायं श्लोकार्थः । एकभावानामेकधर्माणां सर्वत्र ज्ञानानन्दादि-गुणपूर्णत्वेन प्रमितानामिति यावत् । अनेन सर्वान्तर्यामित्वेन भेदानुमानं बाधितमिति सूचयति । त्रयाणां ब्रह्मविष्णुहरसंज्ञानां मद्रूपाणां सर्वात्मना सर्वात्मत्वेन सर्वान्तर्यामित्वेन हेतुना प्राप्तां भिदां न जानाति न पश्यति । ब्रह्मन् दक्ष । स शान्तिं मोक्षं गच्छतीत्यन्वयः ॥ ५४ ॥

मैत्रेय उवाच–

एवं भगवताऽऽदिष्टः प्रजापतिपतिर्हरिम् ।

अर्चित्वा क्रतुना स्वेन देवानुभयतोऽयजत् ॥ ५५ ॥

तात्पर्यम्

उभयतः सोमतो हविषश्च ॥ ५५ ॥

पदरत्नावली

शान्तिमधिगच्छतीत्यनेन हरेः स्वात्मोपदेशश्चेत् समाप्तः परं दक्षेण किमकारीति तत्राह– एवमिति ॥ आदिष्ट उपादिष्टः, प्रजापतिर् दक्षः, स्वेन क्रतुना स्वयज्ञेन स्वेच्छया वा १भागवतः भगवद्भक्तः स्वांशवतो वा देवानयजत् पूजयामास । उभयत इति पाठे, कथमुभयतः ? सोमतो हविषादिभिश्च ॥ ५५ ॥

प्रकाशिका

आदिष्ट उपदिष्टः । देवान् अयजत्पूजयामास । अत्रोभयत इत्यस्याप्रतीत्या प्रकृतसङ्गतमर्थं दर्शयति ॥ सोमत इति । हविषः पुरोडाशादिरूपात् ॥ ५५ ॥

रुद्रं च स्वेन भागेन ह्युपाधावत् समाहितः ।

कर्मणोदवसानेन सोमपानितरानपि ॥ ५६ ॥

उदवस्य सहर्त्विग्भिः सस्नाववभृथं ततः

तस्मा अप्यनुभावेन स्वेनैवावाप्तराधसे ।

धर्म एव मतिं दत्वा त्रिदशास्ते दिवं ययुः ॥ ५७ ॥

पदरत्नावली

उपाधावदुपास्त । ततो निरपराधत्वेन शुद्धश्चाभूत् । धाव गतिशुद्ध्योरिति धातुः । उदवसानेन समाप्तीष्टिलक्षणेन कर्मणा । ‘आग्नेयं पञ्चकपालमुदवसानीयं निर्वपेत्’ इति श्रुतेः । सोम-पानिति पाणिनेरपि सर्वज्ञेन व्यासेन प्रयुक्तत्वाद् विच्प्रत्ययः प्रायिक इति ज्ञातव्यम् । इतरानसोम-पानित्यर्थः । उदवस्य समाप्तीष्टिं कृत्वा । स्वेनानुभावेन भगवन्महिम्नैवावाप्तराधसे प्राप्तयज्ञसिद्धये

॥ ५६,५७ ॥

प्रकाशिका

स्वेन भागेन यज्ञावशिष्टेनोपधावदुपासितवान् । उदवसानेनोदवस्यते समाप्यतेऽ-नेनेत्युदवसानं समाप्तीष्टिलक्षणं कर्म तेन । ‘‘आग्नेयं पञ्चकपालमुदवसानीयं निर्वपेत्’’ इति श्रुतेः । सोमपानिति प्रयोगश्छान्दस इति ज्ञातव्यम् । इतरान् असोमपान् उपधावदित्यनुवर्तते ॥ ततोऽनन्तर-मुदवस्य समाप्तीष्टिं कृत्वाऽवभृथं यथा भवति तथा सस्नौ स्नातवान् । स्वेनैवानुभावेन भगवन्महिम्नैव (स्वसामर्थ्येनैव) अवाप्तराधसेऽवाप्तसर्वसिद्धयेऽपि तस्मै पुनर्धर्म एव मतिं दत्वेत्यर्थः ॥ ५६,५७ ॥

एवं दाक्षायणी हित्वा सती पूर्वकलेवरम् ।

जज्ञे हिमवतः क्षेत्रे मेनायामिति शुश्रुमः ॥ ५८ ॥

पदरत्नावली

ननु दक्षकोपेन योगमुक्तदेहया दक्षपुत्र्या सत्या देव्या निवृत्तिलक्षणमुक्तिरवापीति न युज्यते । भर्तुः शिवस्यामुक्तदेहत्वात्, सतीनामङ्गनानां भर्तृभिः सह मुक्तिश्रवणात् । अतोऽनया किमकारीत्याशङ्कां हृद्गतां परिहरति– एवमिति ॥ क्षेत्रे भार्यायाम् ॥ ५८ ॥

प्रकाशिका

एवमिति । क्षेत्रे भार्यायाम् ॥ ५८ ॥

**तमेव दयितं १भूय आवृणोत् पतिमम्बिका **

अनन्यभावैकगतिः शक्तिः सुप्तेव पूरुषम् ॥ ५९ ॥

तात्पर्यम्

‘शक्तित्वाद्विष्णुशक्तिस्तु शक्तिशब्देन चोच्यते । शक्यत्वात्प्रकृतिश्चापि स्वापः सृष्टिं विना हरौ । रतिस्तस्यास्तु कथितो न ह्यन्यः स्वाप २उच्यत’ इति तन्त्रसारे ॥ ५९ ॥

पदरत्नावली

अत्र निमित्तमाह– अनन्यभावेति ॥ एकः शकंरो गतिर्यस्याः सा तथा । अनन्यभावत्वाद् अन्यभक्तिरहितत्वात् । अस्मिन्नर्थे दृष्टान्तमाह– शक्तिरिति ॥ प्रलये सुप्ता हरावेव रता सृष्टिव्यापारं विना स्थिता शक्तिर्भार्या लक्ष्मीः पुरुषं विष्णुमिव यथा भजति तथेत्यर्थः । तदुक्तम्– ‘शक्तित्वाद् विष्णुशक्तिस्तु शक्तिशब्देन चोच्यते । शक्यत्वात् प्रकृतिश्चापि स्वापः सृष्टिं विना हरौ । रतिस्तस्यास्तु कथितो न ह्यन्यः स्वाप इष्यते’ इति ॥ ५९ ॥

प्रकाशिका

दयितं प्रियमावृणोत्सम्यक् स्वीकृतवती । अनन्यभावेनान्यभक्त्यभावेनैकः शंकर एव गतिर्गम्यो यस्याः सा तथोक्ता । अत्र दृष्टान्तमाह ॥ शक्तिरिति । प्रलये सुप्ता हरावेव रता सृष्टिव्यापारं विना स्थिता शक्तिर्भार्या लक्ष्मीः पुरुषं विष्णुमिव यथा भजति तथेत्यर्थः । अत्र का शक्तिः का च तस्याः सुप्तिरित्यतः प्रमाणेनैव सन्दर्शयति ॥ शक्तित्वादिति । शक्तिरूपत्वादित्यर्थः । तुशब्दः परममुख्यवृत्त्येति विशेषार्थः । चशब्दः पर्यायान्तरसङ्ग्रहार्थः । प्रकृतिश्चेतना । अचेतनप्रकृतिसङ्ग्रहायापि-शब्दः । स्वापः सुप्तिवाचकशब्दार्थः । रतिरित्युपलक्षणम् । अचेतनायाः स्थितिरित्यपि ग्राह्यम् । तुशब्दोऽवधारणे । हि यस्मादन्यः प्रसिद्धः स्वाप उभयविधायास्तस्या नेष्यते । तस्माद्रतिरेवेत्यन्वयः

॥ ५९ ॥

एतद् भगवतः शम्भोः कर्म दक्षाध्वरद्रुहः ।

श्रुतं भागवताच्छिष्यादुद्धवान्मे बृहस्पतेः ॥ ६० ॥

इदं रहस्यं परमीशचेष्टितं यशस्यमायुष्यमघौघमर्षणम् ।

यो नित्यदाऽऽकर्ण्य तु कीर्तयेद् बुधो धुनोत्यघं कौरव भक्तिभावितः ॥ ६१ ॥

पदरत्नावली

भवतेदं कस्माच्छ्रुतमिति तत्राह– एतदिति ॥ बृहस्पतेः शिष्यादवताराच्च । दक्षस्याध्वरं यज्ञं द्रोहितवान् हिंसितवान् नाशितवानिति दक्षाध्वरध्रुक् यस्य ॥ ६०,६१ ॥

प्रकाशिका

दक्षाध्वरद्रुहो दक्षयज्ञनाशकस्येत्यर्थः । बृहस्पतेः शिष्यादवताराच्च मे मया श्रुतम् । हे कौरव विदुर । भक्त्या भावितः शोधितः ॥ ६०,६१ ॥

सतीं मेनात्मजां तात प्राप्य जायां भवः पुनः ।

तया मैथुनमारभ्य रेमे देवः समाः शतम् ॥ ६२ ॥

स्ववीर्यधारणेऽकल्पां ज्ञात्वा जायां स धूर्जटिः ।

उत्ससर्जाम्बरे रेतो गङ्गा जग्राह तन्नदी ॥ ६३ ॥

पदरत्नावली

संप्रदायवचनमुक्त्वा तच्छ्रवणादिफलमाह– इदमिति ॥ शकंरः स्वां सतीमवाप्य किमकार्षीदिति तत्राह– सतीमिति ॥ अनेन रेतउत्सर्जनावधिः सूचितः । तत्र कुत्रेदमुत्ससर्ज तस्यां देव्यामुतान्यत्र ? न प्रथमः, प्राप्तपरित्यागे कारणाभावात् । न द्वितीयः, अनुपपत्तेरिति तत्राह– स्ववीर्येति ॥ अकल्पामसमर्थाम् । अनेनासामर्थ्यं कारणमुक्तं भवति इयमेवोपपत्तिः । आकाशस्य नीरूपत्वेन तद्वारणायोगाद् अधःपतत् तद्रेत आकाशनदी गङ्गा जग्राहेत्याह– गङ्गेति ॥ ६२,६३ ॥

प्रकाशिका

गङ्गा गङ्गाख्यानदी ॥ ६२,६३ ॥

पीत्वाऽन्तरजरं वह्निश्चच्छर्द शरकानने ।

कुमारोऽभूत् ततस्तस्मै स्तनं षट् कृत्तिका ददुः ॥ ६४ ॥

पदरत्नावली

गङ्गाया अप्यशक्तिं निरीक्ष्य वह्निस्तत्पीत्वा स्वान्तरजीर्णं स्वाहाद्वारेण नदीतीरे शरकानने चच्छर्देत्याह– पीत्वेति ॥ स्वाहाद्वारेणेति कस्मात् कल्प्यत इत्यत आचार्यैर्भारतोक्ते-रित्युक्तेः । भारतस्य निर्णायकग्रन्थत्वात् । अमोघरेतसो हरस्य वीर्यं निष्फलं भवितुं नार्हत्यत्र तूपगमादि निष्फलमिव प्रतीयत इति तत्राह– कुमार इति । ततो रेतसः । मातृरहितस्य कुमारस्य स्तनपानं कथम् ? अत्राह– तस्मा इति ॥ ६४ ॥

प्रकाशिका

वह्निरन्तरजरं तद्रेतः पीत्वा शरकानने चच्छर्द । ततो रेतसः । कुमारस्य षण्मुखत्वे निमित्तमाह ॥ तस्मा इति ॥ ६४ ॥

षड्भिर्मुखैः स्तनं पीत्वा स बालः षण्मुखोऽभवत् ।

ततश्चक्रुः सैन्यपालं सर्वासुरभयंकरम् ॥ ६५ ॥

तात्पर्यम्

‘स्वाहाद्वारेण नदीतीरे शरकानने चच्छर्द ।’ इति भारतोक्तेः ॥ ६५ ॥

पदरत्नावली

एकेन मुखेन षट्कृतिकास्तनपानं कथं घटत इति तत्राह– षड्भिरिति ॥ किमधिकारः कुमार इति तत्राह– तत इति ॥ सुरा इति शेषः । सर्वासुराणां भयं स्वस्थानच्युतिं च करोतीति ॥ ६५ ॥

॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुकृतायां

चतुर्थस्कन्धे अष्टमोऽध्यायः ॥

प्रकाशिका

सर्वासुरभयङ्करं षण्मुखम् । देवा इति शेषः । अत्र पुराणान्तरानुसारेण पार्वत्या रमणसमये देवैर्वह्निः प्रेषितस्तत्समक्षं पार्वती लज्जया वीर्यधारणे न समर्था जाता तां ज्ञात्वाऽम्बरे रेत उत्ससर्ज । तद्गङ्गाजलेऽपतत् । तत्पुनर्गृहीत्वा वह्निमुखे हरः कोपात्स्थापितवान् वह्निस्तद्दुर्जरं धर्तुमशक्यं शरकानने चर्च्छदेति कथा ज्ञातव्या । अत्र वह्निरेव साक्षाच्छरकानने चच्छर्देति प्रतीतिवारणायाह ॥ स्वाहाद्वारेणेति । स्वाहा वह्निभार्या तद्वारेणेत्यर्थः । कुत इत्यत आह ॥ भारतोक्तेरिति । भारते तथोक्तत्वादित्यर्थः । तथा च वह्निः स्वभार्यायां तद्रेतः स्थापितवान् साऽपि तद्धारणेऽसमर्था शरकानने चच्छर्देति मूलार्थ इति भावः ॥ ६५ ॥

**॥ इति श्रीमद्वेदेशपूज्यपादशिष्येण यदुपतिना विरचितायां **

श्रीमद्भागवतटिप्पण्यां चतुर्थस्कन्धेऽष्टमोध्यायः ॥ ४-८ ॥