अथ देवगणाः सर्वे रुद्रानीकैः पराजिताः
अथ सप्तमोऽध्यायः
मैत्रेय उवाच—
अथ देवगणाः सर्वे रुद्रानीकैः पराजिताः ।
शूलपट्टिशनिस्त्रिंशगदापरिघमुद्गरैः ॥ १ ॥
पदरत्नावली
भगवदपरोक्षीकरणाय तत्प्रसादवत् स्वोत्तमभक्त्युत्कर्षतारतम्येन तदनुग्रहोऽप्यापाद्य इत्यभिप्रायो वर्ण्यतेऽस्मिन्नध्याये । तत्र सर्वभक्तोत्तममहादेवप्रसादापादनाय देवानां ब्रह्माणं प्राप्य स्व-संकटविज्ञापनप्रकारः कथ्यते– अथ देवगणा इत्यादिना ॥ रुद्रस्यानीकैः सैन्यैः पार्षदैरित्यर्थः ॥ १ ॥
प्रकाशिका
अथ देवगणाः स्वयंभुवे न्यवेदयन्नित्यन्वयः । रुद्रस्यानीकैः सैन्यैः पार्षदैरित्यर्थः
॥ १ ॥
संच्छिन्नभिन्नसर्वाङ्गाः सर्त्विक्सभ्याः समाकुलाः ।
स्वयंभुवे नमस्कृत्य कार्त्स्न्येनैतन्न्यवेदयन् ॥ २ ॥
पदरत्नावली
एतद् वृत्तम् ॥ २ ॥
प्रकाशिका
शूलादिभिः सञ्छिन्नानि द्विधाकृतानि भिन्नानि विदारितानि भङ्गानि येषा-मृत्विग्भिः सभ्यैश्च सह वर्तमाना सर्त्विक्सभ्या एतद्वृत्तम् ॥ २ ॥
उपलभ्य पुरैवैतद् भगवानब्जसम्भवः ।
नारायणश्च विश्वात्मा न कस्याध्वरमीयतुः ॥ ३ ॥
तात्पर्यम्
त्रिमूर्तिगेन रूपेण नारायणो नाययौ ॥
पदरत्नावली
ननु विष्णुब्रह्मणोर्यज्ञागतेरावश्यकत्वेन तत्स्थितौ यज्ञविनाशो ब्रह्माणं गत्वा देवविज्ञापनं च कथं युक्तम् ? ‘अग्नावैष्णवपुरोडाशं निर्वपति’ ‘प्रजापते न त्वदेतान्यन्यः’ इत्यादि श्रुतेरित्यत आह– उपलभ्येति ॥ एतद् भाविकार्यं पुरैवोपलभ्य ज्ञात्वा अब्जसम्भवो ब्रह्मा विश्वात्मा विश्वान्तर्यामी त्रिमूर्तिगेन रूपेण नारायणश्च कस्य दक्षस्याध्वरं नेयतुर् न जग्मतुरित्यन्वयः । अतो विष्णुब्रह्मणोस्तत्रानवस्थानाद् यज्ञविनाशो, देवानां ब्रह्माणं गत्वा विज्ञापनं च युज्यत इति भावः ॥३॥
प्रकाशिका
एतद्भाविकार्यं पुरैवोपलभ्य ज्ञात्वाऽब्जसम्भवो ब्रह्मा नारायणश्च कस्य दक्षस्याध्वरं नेयतुर्न जग्मतुः । अत्र नारायणस्य दक्षाध्वरं प्रत्यगमनमुदाहृतब्राह्मवचनविरुद्धम् । तत्र धर्मसूनो-र्नारायणस्य दक्षाध्वरगतत्वस्योक्तत्वाद्यज्ञनाशो न सम्भवतीत्यतोऽत्र विवक्षिततात्पर्यं दर्शयति ॥ त्रिमूर्तिगेनेति । त्रिमूर्तिगेन रूपेण विष्णुनाम्ना । नारायणो मूलरूपी विश्वात्मा विश्वव्यापी विष्णुरूपी सन्निति व्याख्येयमिति भावः ॥ ३ ॥
तदाकर्ण्य विभुः प्राह तेजीयसि कृतागसाम् ।
क्षेमाय भूयसे भूयान्न प्रायेण बुभूषताम् ॥ ४ ॥
पदरत्नावली
विज्ञापितं संकटं श्रुत्वा ब्रह्मणा शिक्षाकरं वाक्यमवादीत्याह– तदेति ॥ तेजीयसि बलिष्ठे पुंसि । विष्णुवायू विना इत्यतः प्रायेणेत्युक्तम् ॥ ४ ॥
प्रकाशिका
विभुर्ब्रह्मा तेजीयसि वरिष्ठे पुरुषे कृतागसां कृतापराधानां प्राणिनाम् । तद् आगो भूयसे क्षेमाय मोक्षाय च न भूयात्प्रायेण । दुर्योधनादिव्यावृत्त्यर्थं प्रायेणेति । बुभूषतां मुमुक्षूणां तु नैव भूयादित्यर्थः ॥ ४ ॥
अथापि यूयं कृतकिल्बिषा भवे ये बर्हिषो भागभाजं परादुः ।
प्रसादयध्वं परिशुद्धचेतसा क्षिप्रप्रसादं प्रगृहीताङ्घ्रिपद्माः ॥ ५ ॥
पदरत्नावली
तर्हि तूष्णींभावोऽस्माकं किम् ? उपायान्तरं ज्ञापयसि ? इति तत्राह– अथापीति ॥ बर्हिषो यज्ञस्य भागं स्वविहितांशं भजतीति भाजभाक् तं पराकृत्यान्यस्मा अदुरित्यर्थः । अथ कृतापराधानामपि युष्माकं शिवप्रसादनमेवोपाय इत्युक्तं भवति । प्रसादने किं साधनमित्यत उक्तम्– परिशुद्धेति ॥ राहुग्रस्तचन्द्रमण्डलवच् चेतस एकस्मिन्नर्थे विकल्मषत्वं न स्यादिति परीत्युक्तम् । न केवलं चेतोनैर्मल्यमलं किन्तु कर्म चापेक्षितमित्याह– प्रगृहीतेति ॥ प्रगृहीते अङ्घ्रिपद्मे यैस्ते तथोक्ताः ॥ ५ ॥
प्रकाशिका
यूयं भवे यद्यपि कृतकिल्बिषाः । अथापि प्रसादयध्वं क्षमापयत । कथं कृत-किल्बिषा इत्यत उक्तं – ये भवन्तः बर्हिषो यज्ञस्य भागभाजं स्वविहितांशं भजन्तं परादुर्दूरादेव खण्डितवन्तः । प्रगृहीतांघ्रिपद्मास्तदीये पादपद्मे प्रगृह्येत्यर्थः ॥ ५ ॥
आशासाना जीवितमध्वरस्य लोकः सपालः कुपिते न यस्मिन् ।
तमाशु देवं प्रियया विहीनं क्षमापयध्वं हृदि विद्धं दुरुक्तैः ॥ ६ ॥
पदरत्नावली
न केवलं कालान्तरभाविनः श्रेयसः साधनं तत्प्रसादनं किन्तु अद्यतनस्यापीति भावेनाह– आशासाना इति ॥ अध्वरस्य जीवनं पुनरनुसन्धानलक्षणं जीवनमाशासाना आकाङ्क्षमाणा यूयम् । दक्षदुर्वचनमेव न कारणमीश्वरकोपस्य । कारणान्तरमप्यस्तीति भावेनोक्तम्– प्रिययेति । न तत्कोपेन परमध्वरस्य विनाशोऽपि तु सपालस्य लोकस्यापीत्यतस्तदकरणाद् भवः प्रसादनेन क्षान्तो भवति क्षिप्रसादमेति तत्स्वभावादिति भावेनोक्तम्– लोक इति ॥ ६ ॥
प्रकाशिका
न केवलं यज्ञभागाप्रदानं तदीयकोपकारणं किन्तु निमित्तान्तरमप्यस्तीति वदन्प्रस्तुतयज्ञोज्जीवनाय तत्क्षमापनमावश्यकमित्याशयेन पुनस्तत्क्षमापनं विधत्ते ॥ आशासाना इति । अध्वरस्य जीवितं पुनःसंधानलक्षणजीवनमाशासाना यूयम् । किं तदीयकोपेनेत्यत उक्तम् ॥ लोक इति । यस्मिन् रुद्रे कुपिते सपाललोको न भवेन्नश्येद्भवतां तु का कथेत्याशयः । प्रियया विहीनमित्येकं कोपकारणम् । दुरुक्तैर्दक्षप्रोक्तैर्हृदि विद्धमित्यपरम् ॥ ६ ॥
नाहं न यज्ञो न च यूयमन्ये ये देहभाजो मुनयश्च तत्त्वम् ।
विदुः प्रमाणं बलवीर्ययोर्वा तस्यात्मतन्त्रस्य क उद्विधित्सेत् ॥ ७ ॥
तात्पर्यम्
यज्ञ इन्द्रः । ‘यज्ञो यज्ञपतिस्त्विन्द्रः पुरुहूतः पुरुष्टुत’ इत्यभिधानम् । तस्याऽत्मतन्त्रस्य । तस्य विष्णोर्मनोवशस्य । ‘नाहं नेन्द्रो१ न चैवान्ये यत्तत्त्वं न विदुः परम् । तस्य विष्णोर्वशे रुद्रो मम वायोरथापि वा । नान्यस्य कस्यचित्पुंसस्तस्येत्थं वः कुतः कृतम्’ । इति ब्रह्मवैवर्ते ॥ ७ ॥
पदरत्नावली
बुभूषुणा विष्णुद्वेषवत् तस्य हरेर्मनोऽनुसारितया वर्तमानस्य श्रीकण्ठस्य द्वेषः कर्तुं न योग्य इत्याशयेनाह– नाहमिति ॥ अहं ब्रह्मशर्मा यस्य विष्णोस्तत्वम् । बलवीर्ययोरित्युपलक्षणं ज्ञानादिगुणानां च प्रमाणं परिमाणं न वेद्मि, तथा यज्ञ इन्द्रोऽपि न वेत्ति, तथा यूयं न वित्थ, तथाऽन्ये प्रजापत्यादयो ये च देहभाजः शरीरिणो मुनयः सनकादयश्च न विदुरित्यन्वयः । तस्य विष्णोरात्मनो मनसस्तन्त्रस्य वशस्य रुद्रस्य कः पुमानपराधमुच्चैर् विधित्सेत् कर्तुमिच्छेत् ? न कोऽपि बुभूषुरित्यर्थः । यज्ञो यज्ञपत्यादयश्च न विदुरित्यन्वयः । ‘यज्ञो यज्ञपतिस्त्विन्द्रः पुरुहूतः पुरुष्टुतः’ इत्यभिधानादिन्द्र एवात्र यज्ञशब्दार्थः । ‘नाहं नेन्द्रो न चैवान्ये यत्तत्वं न विदुः परम् । तस्य विष्णोर्वशो रुद्रो मम वायोरथापि वा । नान्यस्य कस्यचित् पुंसस्तस्येत्थं वः कुतः कृतम् ॥’ इति वचनात्, स्मृति-समाख्यानाच्च न यज्ञो विष्णुः । मम वायोरथापि वेत्यनेनात्मनो ब्रह्मणो वायोश्च तन्त्रस्येत्ययमर्थोऽपि ध्वनित इति ज्ञायते । उदित्यनेन संसारनदीमुत्तर्तुकामैः शिवद्वेषो न कर्तव्य इति सूचयति । मोक्षस्य शिवाद्युपदिष्टज्ञानापेक्षितत्वात् । तदुक्तम्– ‘मुमुक्षवो ब्रह्मणश्च शिवादिन्द्रादिभिस्तथा । श्रुत्वा ज्ञानं परं गुह्यं मुच्यन्ते ब्रह्मणा सह ॥’ इति ॥ ७ ॥
प्रकाशिका
इतोऽपि शिवो मुमुक्षुभिर्नापराध्य इत्याह ॥ नाहमिति । अत्र यज्ञशब्दो विष्णुपर इति प्रतीतिवारणाय विवक्षितमर्थं दर्शयति ॥ यज्ञ इति । तत्राभिधानं पठति ॥ यज्ञ इति । इन्द्रो यज्ञादिशब्दैरुच्यत इत्यर्थः । ननु तथाऽप्यहं तस्य तत्त्वं न वेद्मीति ब्रह्मणा कथमुच्यत इत्यत आह ॥ तस्येति । तच्छब्दो न रुद्रपरः किन्तु विष्णुपर इत्यभिप्रेत्यात्मतन्त्रस्येत्यस्य प्रकृतोपयुक्तमर्थमाह ॥ तस्येति । रुद्रस्येत्यनेन तस्येति पदमावृत्त्य रुद्रपरत्वेनापि व्याख्येयमिति सूचयति । कुत इत्थं व्याख्येयमित्यतोऽत्र प्रमाणं पठति ॥ नाहमिति । तस्य विष्णोर्वशे रुद्र इत्यनेन तस्यात्मतन्त्रस्येत्ये-तदुक्ततात्पर्यम् । मम वायोरित्यनेनात्मशब्दो ब्रह्मवायुपरत्वेनापि व्याख्यात इति ज्ञातव्यम् । नान्यस्य कस्यचिदित्यनेनात्मतन्त्रस्येत्येतदनन्याधीनस्येत्यपि व्याख्येयमिति सूचयति । तस्येत्यनेन मूले तस्येत्ये-तदावर्तनीयमिति सूचयति । वो युष्माभिरित्थं यज्ञभागाप्रदानादिकम् ॥ ततश्चायं श्लोकार्थः ॥ तथा च यस्य विष्णोस्तत्त्वं यथास्थितस्वरूपं बलवीर्ययोः शरीरबलपराक्रमयोः । वाशब्दश्चशब्दार्थः । प्रमाणं मर्यादां चाहं न वेद्मि । यज्ञ इन्द्रोऽपि न वेद । युष्मदादयो न विदुः । तस्य विष्णोरात्मतन्त्रस्य मनोवशस्यात्मा ब्रह्मा वायुश्च तत्तन्त्रस्येति वा । आत्मतन्त्रस्य स्वतन्त्रस्योक्तान्विनाऽनन्याधीनस्य रुद्रस्य क उद्विधित्सेद् उद् उच्चमपराधं कर्तुमिच्छेत् । न कोऽपि । अतो युष्माभिः । कुत इत्थं कृतमिति शेषः ॥ ७ ॥
स इत्थमादिश्य सुरानजस्तु तैः समन्वितः पितृभिः सप्रजेशैः ।
ययौ स्वधिष्ण्यान्निलयं पुरद्विषः कैलासमद्रिप्रवरं प्रियं प्रभोः ॥ ८ ॥
पदरत्नावली
मया सह गतं चेदेतेषां देवानामेष शिवः क्षिप्रप्रसादो भविष्यतीति महादयालो-र्ब्रह्मणः कैलासं प्रति यात्रां वक्ति– स इत्थमिति ॥ अजो ब्रह्मा । पुरद्विषः प्रियम् । ‘कैलासो गिरिशो मृडः’इत्यभिधानात् तस्य निवास इति विग्रहे यथाविहिताण्प्रत्ययेन कैलास इति रूपं सिद्ध्यति ॥ ८ ॥
प्रकाशिका
अजो ब्रह्मा । पुरद्विषो रुद्रस्य ॥ ८ ॥
जन्मौषधतपोमन्त्रयोगसिद्धैर्नरेतरैः ।
जुष्टं किन्नरगन्धर्वैरप्सरोभिर्वृतं सदा ॥ ९ ॥
पदरत्नावली
कण्टकगुल्मखण्डैरप्रवेशस्य गण्डशैलादिपाषाणैरनारोहस्याचलस्य किंमाहात्म्याद् रुद्रप्रियत्वमित्यतस्तं पर्वतं चतुर्दशभिः श्लोकैर्वर्णयति– जन्मेत्यादिना ॥ नरेतरैर्नरत्वजातिरहितैर् जन्मना विशिष्टकुलोत्पत्या, कृष्णचित्रकाद्यौषधेन, कृच्छ्रचान्द्रायणादितपसा, अष्टाङ्गलक्षणयोगेन, मृत्युञ्जयादि-मन्त्रेण, एतैः सिद्धैरमरत्वादिसिद्धिं गतैः । जुष्टमित्यनेन सुखसाधनत्वं ध्वनयति । नरेतरैः किन्नर-गन्धर्वैः, जुष्टमप्सरोभिर्वृतमिति वा ॥ ९ ॥
प्रकाशिका
कैलासं वर्णयति ॥ जन्मौषधिरित्यादिचतुर्दशभिः । जन्मना विशिष्टकुलोत्पत्त्या कृष्णचित्रकाद्यौषधेन, कृच्छ्रचान्द्रायणादितपसाऽष्टाङ्गयोगेन मृत्युंजयादिमन्त्रेण सिद्धैः सिद्धिं गतैः । नरेतरैर्मनुष्यजातिरहितैः ॥ ९ ॥
नानामणिमयैः शृृङ्गैर्नानाधातुविचित्रितैः ।
नानाद्रुमलतागुल्मैर्नानामृगगणावृतैः ॥ १० ॥
पदरत्नावली
मनःशिलादिनानाविधधातुभिर्विचित्रितैश् चित्राकारं गमितैरिति शृङ्गविशेषणम् । नानामृगगणावृतैर् नानाद्रुमादिभिश्च वृतम् ॥ १० ॥
प्रकाशिका
शृृङ्गै रमणं रतिप्रदमित्युत्तरेणान्वयः । कथंभूतैः । नानाविधगैरिकादि-धातुभि-र्विचित्रितैः । नानाद्रुमलता गुल्मा येषु ॥ १० ॥
नानाऽमलप्रस्रवणैर्नानाकन्दरसानुभिः ।
रमणं विहरन्तीनां रमणैः सिद्धयोषिताम् ॥ ११ ॥
पदरत्नावली
निर्झरः प्रस्रवोऽम्भसामिति हलः । जलस्य नानात्वं मरकतादिस्थलसम्पर्कात् । कर्दमराहित्येनामलत्वम् । न तु शौक्ल्येन । तथात्वे नानात्वं विरुद्धम् । कन्दरा गुहाः । सानूनि तटाकानि । रमणैः सह विहरन्तीनां सिद्धयोषितां रमणं रतिप्रदम् ॥ ११ ॥
प्रकाशिका
नानाऽमलानि प्रस्रवणानि येषु नानाकन्दराः सानवश्चोपशृृङ्गा येषु रमणैः सह विहरन्तीनां सिद्धयोषितां रमणम् ॥ ११ ॥
मयूरकेकाभिरुतं मदान्धालिविमूर्च्छितम् ।
प्लावितै रक्तकण्ठानां कूजितैश्च पतत्रिणाम् ॥ १२ ॥
पदरत्नावली
मयूरकेकाभिरुतं शब्दितम् । विमूर्छितं विविधं गीतम् । रक्तकण्ठानां कोकिलानां प्लावितैस् तारस्वरितैरन्येषां पतत्रिणां च कूजितै रुतैः ॥ १२ ॥
प्रकाशिका
मयूराणां केकाभिः स्वनैः रुतं शब्दितम् । मदान्धैरलिभिर्विमूर्छितं विविधरागव्याप्तं कृतम् । रक्तकण्ठानां कोकिलानां प्लावितैः प्लुतत्वं नीतैः स्वरैरन्यैश्च पतत्त्रिणां कूजितैः शब्दितम्
॥ १२ ॥
आह्वयन्तमिवोद्धस्तैर्द्विजान् कामदुघैर्द्रुमैः ।
व्रजन्तमिव मातङ्गैर्गृणन्तमिव निर्झरैः१ ॥ १३ ॥
मन्दारैः पारिजातैश्च सरलैश्चोपशोभितम् ।
तमालैः सालतालैश्च कोविदारासनार्जुनैः ॥ १४ ॥
पदरत्नावली
किं च पक्षिग्राहकैः पुरुषैरुद्धस्तैरुद्वृत्तैर्द्विजैः करणैः कामं दुहद्भिर्द्रुमैराह्वयन्तमिव स्थितम् ॥ पारिजातैः पारिभद्रकैः, सरलैर्देवदारुभिः, सालतालैः सर्ज्जतृणराजैः, कोविदारैः काञ्चनारकैः, असनैः पिशङ्गपुष्पैः, अर्जुनैः ककुभैः ॥ १३,१४ ॥
प्रकाशिका
उद्धस्तैरुन्नतशाखैर्द्रुमैर्द्विजैः पक्षिभिराह्वयन्तमिव स्थितम् । लोके हस्तमुत्क्षिप्योच्चैः स्वरेणाव्हानमर्थिनः कुर्वन्ति । अद्रिश्चोपक्षिप्तहस्तस्थानीयैर्द्रुमैः पक्षिस्वनैश्च तथा लक्ष्यत इति भावः । व्रजद्भिर्मातंगैर्व्रजन्तमिव निर्झरैर्निर्झरध्वनिभिर्गृणन्तमिव भाषमाणमिव ॥ १३,१४ ॥
चूतैः कदम्बनीपैश्च नागपुन्नागचम्पकैः ।
पाटलाशोकबकुलैः कुन्दैः कुरबकैरपि ॥ १५ ॥
पदरत्नावली
नागैर्नागकेसरैः, पुन्नागैः सुरवल्लभैः, कुरबकैस्तिलकैः ॥ १५ ॥
प्रकाशिका
कदम्बनीपयोरवान्तरभेदमाश्रित्य पृथगुक्तिः । यथा वेणुकीचकयोर्नीरन्ध्रत्व-सरन्ध्रत्वभेदेन पृथगुक्तिः । नागैर्नागकेसरैः पुन्नागैर्देववल्लभैः । कुरबकैस्तिलकैः ॥ १५ ॥
सुवर्णशतपत्रैश्च वीररेणुकजातिभिः ।
कुब्जकैर्मल्लिकाभिश्च माधवीभिश्च मण्डितम् ॥ १६ ॥
पदरत्नावली
सुवर्णः कुतमालः, वीरः करवीरम् । रेणुकं केतकी, कुब्जकैः कुङ्कुमतरुभिः, माधवी वासन्ती । अत्र संस्कृताधिकारित्वात् पर्यायान्तरमेव लिख्यते, नानात्वेनापभ्रंशानां तैर्बोधनं न शक्यते ॥ १६ ॥
प्रकाशिका
सुवर्णः कृतमालो वीरः करवीरं रेणुकं केतकी जातिपुष्पं मल्लिकाविशेषः । कुब्जकैः कुङ्कुमपुष्पैः । माधवीभिर्वासन्तीभिः ॥ १६ ॥
पनसोदुम्बराश्वत्थप्लक्षन्यग्रोधहिङ्गुभिः ।
भूर्जैरोषधिभिः पूगैः राजपूगैश्च जम्बुभिः ॥ १७ ॥
पदरत्नावली
हिङ्गु रामठः, भूर्जैर्भूर्जपत्रैः, ओषधिभिर्जनवृक्षैः ॥ १७ ॥
प्रकाशिका
हिङ्गु रामठः । भूर्जैर्भूर्जपत्रैरोषधीभिर्जनवृक्षैः ॥ १७ ॥
खर्जूराम्रातकाम्राद्यैः प्रियालमधुकेङ्गुदैः ।
द्रुमजातिभिरन्यैश्च राजितं वेणुकीचकैः ॥ १८ ॥
पदरत्नावली
काश्मरी कृष्णवृन्तिका, आम्रातको विडुलः, आम्रो जिह्वारसकरः, प्रियालो लवङ्गः, मधुको मधुकरसः, इङ्गुदः किङ्गुदकस् तापसतरुर्वा ॥ १८ ॥
प्रकाशिका
आम्रातको विडुलः । प्रियालो लवङ्गः । इङ्गुदस्तापसतरुः ॥ १८ ॥
कुमुदोत्पलकह्लारशतपत्रवनर्द्धिभिः ।
नलिनीषु कलं कूजत्खगवृन्दोपशोभितम् ॥ १९ ॥
प्रकाशिका
कुमुदादिसमृद्धिभिर्हेतुभूताभिर्नलिनीषु सरस्सु कलं मधुरं यथा भवति तथा । कूजन्ति यानि खगवृन्दानि पक्षिसमूहस्तैरुपशोभितम् ॥ १९ ॥
मृगैः शाखामृगैः क्रोडैर्मृगेन्द्रैर्ऋक्षशल्यकैः ।
गवयैः शरभैर्व्याघ्रै रुरुभिर्महिषादिभिः ॥ २० ॥
पदरत्नावली
शाखामृगैर्वानरैः, क्रोडैर्वराहैः, ऋक्षैर्भल्लूकैः । शल्यकः कण्टकवराहः, गवया वनगावः, शरभोऽष्टापदः, रुरुर्हरिणेषु महान् ॥ २० ॥
प्रकाशिका
शाखामृगैर्वानरैः । ऋक्षैर्भल्लूकैः शल्यकः कण्टकवराहः । गवया वनगावः शरभोऽष्टपादो रुरुर्हरिणः ॥ २० ॥
कर्णौर्णैकपदाश्वास्यैर्निर्जुष्टं मृगनाभिभिः ।
कदलीखण्डसंरुद्धनलिनीपुलिनश्रियम् ॥ २१ ॥
पदरत्नावली
कर्णो गोकर्णः, कर्णविहीनो वा । ‘कर्णः कर्णविहीनः स्यादण्डस्तु च्छिन्न-पुच्छकः’ इति यादवः । कर्णाश्च और्णाश्च एकपादाश्चाश्वास्याश्च कर्णौर्णैकपदाश्वास्यास्तैः । और्णा-दयोऽपि मृगविशेषाः । मृगनाभिभिः कस्तूरिकामृगैः । कदलीखण्डेन संरुद्धस्य संवृतस्य नलिनीपुलिनस्य पद्माकरसिकतामयोच्चस्थलस्य श्रीर्यस्मिन् स तथा तम् ॥ २१ ॥
प्रकाशिका
कर्णः कर्णविहीनः ‘‘कर्णं कर्णविहीनः स्यादि’’त्यभिधानात् । और्णादयोऽपि मृगविशेषाः । कर्णाश्चौर्णाश्चैकपादाश्चाश्वास्याश्च कर्णौर्णैकपदाश्वास्यास्तैः । मृगनाभिभिः कस्तूरिका-मृगैः । कदलीषण्डैः संरुद्धान्यावृतानि नलिनीपुलिनानि पद्माकरसिकतामयोच्चस्थलानि तेषां श्रीर् यस्मिन्स तथा तम् ॥ २१ ॥
पर्यस्तं नन्दया सत्याः स्नानपुण्यतमोदया ।
विलोक्य भूतेशगिरिं विबुधा विस्मयं ययुः ॥ २२ ॥
पदरत्नावली
नन्दया गङ्गाशाखया नद्या पर्यस्तं परिवृतम् । भूतेशगिरिं श्रीकैलासम् ॥ २२ ॥
प्रकाशिका
नन्दया तन्नाम्नया गङ्गाशाखया । पर्यस्तं परिवेष्टितम् । कथम्भूतया । सत्या भवान्याः स्नानेन पुण्यतममुदमुदकं यस्यां सा तथा तया । भूतेशगिरिं कैलासम् ॥ २२ ॥
ददृशुस्तत्र ते रम्यामलकां नाम वै पुरीम् ।
वनं सौगन्धिकं चापि तत्र तन्नाम पङ्कजम् ॥ २३ ॥
पदरत्नावली
तत्र कैलासे पुनः किं चित्रमपश्यन्निति तत्राह– ददृशुरिति ॥ तन्नाम सौगन्धिकं नाम ॥ २३ ॥
प्रकाशिका
तन्नाम सौगन्धिकं नाम ॥ २३ ॥
नन्दा चालकनन्दा च सरितौ बाह्यतः पुरः ।
तीर्थपादपदाम्भोजरजसाऽतीवपावने ॥ २४ ॥
पदरत्नावली
अलकाया बाह्यतो बहिर्भागे । तीर्थपादः श्रीनारायणः । तत्पादपद्मरजसा मिश्रितत्वादतीवपावने शुद्धे ॥ २४ ॥
प्रकाशिका
पुरीं वर्णयन्ति ॥ नन्दा चेति चतुर्भिःश्लोकैः । सरितौ पुरः पुरादलकाया बाह्यतो भवतः । तीर्थपादो हरिः । तत्पादरजसा मिश्रितत्वादतीवपावने शुद्धे ॥ २४ ॥
ययोः सुरस्त्रियः क्षत्तरवरुह्य स्वधिष्ण्यतः ।
क्रीडन्ति पुंसः सिञ्चन्त्यो विगाह्य रतिकर्शिताः ॥ २५ ॥
पदरत्नावली
स्वधिष्ण्यतः स्वविमानात् ॥ २५ ॥
प्रकाशिका
ययोर्विगाह्य प्रविश्य क्रीडन्ति । स्वधिष्ण्यतः स्वविमानात् ॥ २५ ॥
ययोस्तत्स्नानविभ्रष्टकुचकुङ्कुमपिञ्जरम् ।
वितृषोऽपि पिबन्त्यम्भः पाययन्तो गजा गजीः ॥ २६ ॥
पदरत्नावली
तासां स्नानेन विभ्रष्टं सङ्क्रान्तं कुचकुङ्कुमं तेन पिञ्जरं पीतरक्तम् ॥ २६ ॥
प्रकाशिका
पयोऽम्भसो वितृषो विगततृषोऽपि गजाः पिबन्ति तत्र हेतुः ॥ तत्स्नानेति । तासां सुरस्त्रीणां स्नानेन विभ्रष्टं गलितं मलिनयुक्तकुचकुङ्कुमं तेन पिञ्जरं पीतवर्णम् । गजीः करिणीः ॥ २६ ॥
तारहेममहारत्नविमानशतसङ्कुलाम् ।
जुष्टां पुण्यजनस्त्रीर्भियथा खं सतडिद्घनम् ॥ २७ ॥
पदरत्नावली
तारै रजतैर्मौक्तिकैर्वा, हेमभिः सुवर्णैर्महारत्नैर्माणिक्यादिभिरलङ्कृतानां विमानानां शतैः सङ्कुलां निबिडाम् । कथमिव स्थिताम् ? तडिता घनेन च सहवर्तमानं खम् आकाशं यथा तथा
॥ २७ ॥
प्रकाशिका
तारं रूप्यम् । तारादिमयविमानानां शतैः सङ्कुलां निबिडाम् । तटिद्भिः स्त्रीणां घनैर्विमानानां खेनपुर्याः साम्यं ज्ञातव्यम् ॥ २७ ॥
हित्वा यक्षेश्वरपुरीं वनं सौगन्धिकं च तत् ।
द्रुमैः कामदुघैर्हृद्यं चित्रमाल्यफलच्छदैः ॥ २८ ॥
पदरत्नावली
अलकान्तःप्रवेशे तद्वैचित्र्यदर्शनेन तत्स्थजनसल्लापेन कालक्षेपेण च्छिन्नदक्षदेहेन यज्ञानुसन्धानं दुष्करं स्यादिति धिया तां पुरीं तद् वनं च दृष्ट्वा हित्वा बहिरेवागच्छन्तस्ते देवा आराद् वटं ददृशुरित्यन्वयः । यक्षेश्वरपुरीं हित्वा तत्सौगन्धिकं च वनं दृष्ट्वा समीपे वटं ददृशुरिति वा । तद्वनं विशिनष्टि– द्रुमैरित्यादिना ॥ चित्राणि माल्यानि पुष्पाणि फलानि च्छदाः पत्राणि येषु ते तथा तैः
॥ २८ ॥
प्रकाशिका
यक्षेश्वरपुरीमलकां हित्वाऽतिक्रम्य तद्वनं च दृष्ट्वा । ते देवाः । आराद्दूराद्वटं ददृशुरिति वक्ष्यमाणेनान्वयः । तद्वनं विशिनष्टि ॥ द्रुमैरित्यादिना । चित्राणि माल्यानि पुष्पाणि फलानि छदाः पत्राणि येषु तैर्द्रुमैर्हृद्यं मनोहरम् ॥ २८ ॥
रक्तकण्ठखगानीकस्वरमण्डितषट्पदम् ।
कलहंसकुलप्रेष्ठखरदण्डजलाशयम् ॥ २९ ॥
पदरत्नावली
खरो दण्डो येषां तानि तथा । कलहंसकुलस्य प्रेष्ठानि प्रियतमानि खरदण्डानि पद्मानि येषु ते तथोक्ताः । ते च जलाशया जलाधाराः कासाराः । यस्मिंस्तत् तथोक्तम् ॥ २९ ॥
प्रकाशिका
रक्तकण्ठखगानामनीकस्य स्वरैर्मण्डिताः षट्पदो यस्मिंस्तत्तथा । कलहंसकुलस्य राजहंससमूहस्य प्रेष्ठानि प्रियतमानि खरदण्डानि पद्मानि येषु ते तथोक्तास्ते च जलाशया जलाधारा हृदा यस्मिन् ॥ २९ ॥
वनकुञ्जरसङ्घृष्टहरिचन्दनवायुना ।
अधिपुण्यजनस्त्रीणां मुहुरुन्मथयन्मनः ॥ ३० ॥
पदरत्नावली
वनकुञ्चरैर्वनगजैः कण्डूतिनिरासार्थं संघृष्टानां निष्पिष्टानां हरिजन्दनानां रजोगन्धमिश्रवायुना अधिकपुण्यजनस्त्रीणाम् । मनो मुहुरुन्मथयद् विलोलयत् ॥ ३० ॥
प्रकाशिका
वनकुञ्जरैर्वनस्थकुञ्जरैः कण्डूतिनिरासार्थं सङ्घृष्टा ये हरिचन्दनद्रुमास्तत्सम्बन्धिना वायुना पुण्यजनस्त्रीणां मनोऽधि अधिकमुन्मथयद्विलोलयत् ॥ ३० ॥
वैडूर्यकृतसोपाना वाप्य उत्पलमालिनीः ।
व्याप्तं किंपुरुषैर्दृष्ट्वा त आराद् ददृशुर्वटम् ॥ ३१ ॥
पदरत्नावली
उत्पलानां माला यासु विद्यन्त इत्युत्पलमालिनीरुत्पलमालिन्यः । वैडूर्यैः कृतानि सोपानानि कृत्रिमावतारस्थलानि यासु तास्तथा । एवंविधा वाप्यो यत्र सन्तीति शेषः । तत् किंपुरुषैर्विलासार्थं व्याप्तम् ॥ ३१ ॥
प्रकाशिका
उत्पलानां माला आसु सन्तीत्युत्पलमालिनीरुत्पलमालिन्यो वैडूर्यैः कृतानि सोपानानि यासु तास्तथा । एवंविधा वाप्यो यत्र सन्तीति शेषः । तत्किंपुरुषैर्विलासार्थं व्याप्तम् ॥३१॥
स योजनशतोत्सेधः पादोनविटपायतः ।
पर्यग्गतामलच्छायो निर्नीडस्तापवर्जितः ॥ ३२ ॥
पदरत्नावली
वटं विशिनष्टि– स योजनेति ॥ स वटो योजनानां शतमुत्सेध उन्नतिर्यस्य स तथोक्तः । चतुर्धा विभक्ता शतस्य पादश्चतुर्थांशः पञ्चविंशतिसङ्ख्या, तयोना रहिता सङ्ख्या पञ्चसप्ततिः, तावद्दीर्धैर्विटपैरायतो विस्तृतः । पर्यक् परितो गता कृता पूर्णा अमला च्छाया यस्य स तथा । निर्गतानि नीडानि पक्षिमन्दिराणि यस्मात् स तथा । तापवर्जितः शीतोष्णरहितः ॥ ३२ ॥
प्रकाशिका
वटं वर्णयति ॥ स इति । स वटो योजनानां शतमुच्छेद उन्नतिर्यस्य । पादोनैः पञ्चसप्ततियोजनप्रमाणैर्विटपैः शाखाभिरायतो विस्तृतः पर्यक् सर्वतो गता कृता पूर्णाऽमला छाया येन । निर्गतानि नीडानि पक्षिमन्दिराणि यस्मात् । तापवर्जितः शीतोष्णरहितः ॥ ३२ ॥
तस्मिन् महायोगमये मुमुक्षुशरणे सुराः ।
ददृशुः शिवमासीनं त्यक्तामर्षमिवान्तकम् ॥ ३३ ॥
तात्पर्यम्
‘मुमुक्षवो ब्रह्मणश्च शिवादिन्द्रादिभिस्तथा । श्रुत्वा ज्ञानं परं गुह्यं मुच्यन्ते ब्रह्मणा सहे’ति कौर्मे ॥ ३३ ॥
पदरत्नावली
सुरा महायोगमये अष्टैश्वर्यस्वरूपे मुमुक्षूणां शरणे निवासभूते तस्मिन् वटमूल आसीनं शिवं ददृशुरित्यन्वयः ॥ ३३ ॥
प्रकाशिका
महान्योगो येषां तन्मये तत्प्रचुरे । एतदेव विशदयति ॥ मुमुक्ष्विति । मुमुक्षूणां लिङ्गशरीरान् मोक्षमिच्छतां शरणे आश्रय इति । त्यक्तामर्षो योऽन्तकस्तद्वत्स्थितम् । अत्र शिवस्य मोक्षप्रदत्वे किं मानमित्यतस्तत्र प्रमाणं पठति ॥ मुमुक्षव इति । तथा चापरोक्षज्ञानार्थं१ ब्रह्मोपदेश-वच्छिवाद्युपदेशोऽपि मुमुक्षूणामावश्यकः । अतः शिवोऽपि मोक्षप्रद इत्यायातमित्याशयः ॥ ३३ ॥
सनन्दनादिभिः सिद्धैः शान्तैः संशान्तविग्रहम् ।
उपास्यमानं सख्या च भर्त्रा गुह्यकरक्षसाम् ॥ ३४ ॥
पदरत्नावली
सख्या वैश्रवणेन ॥ ३४ ॥
प्रकाशिका
सख्या वैश्रवणेन ॥ ३४ ॥
विद्यातपोयोगपथमास्थितं तदधीश्वरम् ।
ध्यायन्तं विश्वसुहृदं वात्सल्याल्लोकमङ्गलम् ॥ ३५ ॥
पदरत्नावली
विद्या च तपश्च योगश्च ते तथा, तेषां पन्था मार्गस्तमास्थितमनुतिष्टन्तम्, तदधीश्वरं तेषां विद्यादीनामधीश्वरं विषयमुपदेष्टारं स्वामिनं च । लोकं मङ्गलयतीति लोकमङ्गलम् । विश्वस्य सुहृदमनिमित्तबन्धुं श्रीनारायणम् । वात्सल्याद् भक्त्युद्रेकाद् ध्यायन्तम् ॥ ३५ ॥
प्रकाशिका
विद्यातपोयोगानां पंथा मार्गस्तमास्थितमनुतिष्ठन्तम् । तदधीश्वरं तेषामुपदेष्टारं स्वामिनं च लोकानां मङ्गलं यस्मादत एव विश्वसुहृदं विश्वस्य सुहृदमनिमित्तबन्धुं हरिं वात्सल्या-द्भक्त्युद्रेकाद्ध्यायन्तम् ॥ ३५ ॥
लिङ्गं च तापसाभीष्टं भस्मदण्डजटाजिनम् ।
ओन सन्ध्याभ्ररुचा चन्द्रलेखां च विभ्रतम् ॥ ३६ ॥
पदरत्नावली
सन्ध्याभ्ररुचा गौर्यालिङ्गनेन संक्रान्ततत्कुचकुङ्कुमेन रक्तत्वात् स्वतो धवलत्वात् सन्ध्याकालभवमेघवर्णेनाङ्गेन, तापसाभीष्टं भस्म च दण्डश्च जटा चाजिनं च यस्मिन् तत् तथा तल्लिङ्गविशेषं, ‘लिङ्गं शेफसि वेषे च चिन्हे बुद्ध्यादिसंहतौ’ इति यादवः, चन्द्रस्य लेखां कलां च विभ्रतम् । भस्मोद्वर्तनेन नेत्राद्यवयवानां रक्तत्वाद् वा– सन्ध्याभ्ररुचेति ॥ ३६ ॥
प्रकाशिका
सन्ध्याभ्ररुचेषद्रक्तपाण्डुरवर्णेनांगेन भस्म च दण्डश्च जटा चाजिनं च यस्मिंस्तत्तथा भस्मादिरूपं तापसाभीष्टं लिङ्गं वेषं चन्द्रलेखां च चन्द्रकलां च बिभ्रतम् ॥ ३६ ॥
उपविष्टं दर्भमय्यां बृस्यां ब्रह्म सनातनम् ।
नारदाय प्रवोचन्तं पृच्छते शृृण्वतां सताम् ॥ ३७ ॥
कृत्वोरौ दक्षिणे सव्यं पादपद्मं च जानुनि ।
बाहुं प्रकोष्ठेऽक्षमालामासीनं तर्कमुद्रया ॥ ३८ ॥
पदरत्नावली
बृस्यां यतियोग्यासने । यतीनामासनं बृसीति हलः । सनातनं नित्यं ब्रह्म वेदतत्वम् ॥ दक्षिणे ऊरौ सव्यं पादपद्मं कृत्वा, सव्ये जानुनि च सव्यबाहुं दक्षिणे जानुनि च दक्षिण-बाहुं कृत्वा । प्रकोष्ठे कराग्रेऽक्षमाला यस्य स तथा तम् । तर्कमुद्रया ज्ञानमुद्रया आसीनम् ॥३७,३८॥
प्रकाशिका
बृस्यां यतीनामासने । यतीनामासनं बृसीति हलः । सव्यं पादपद्मं दक्षिणे ऊरौ कृत्वा विन्यस्य सव्ये जानुनि बाहुं कृत्वा दक्षिणप्रकोष्टे मणिबन्धनस्थानेऽक्षमालां कृत्वा दक्षिणहस्त-कृतया तर्कमुद्रया ज्ञानमुद्रया युक्तमासीनमित्यर्थः ॥ ३८ ॥
तं ब्रह्मनिर्वाणसमाधिमास्थितं व्यपाश्रितं गिरिशं योगकक्ष्याम् ।
सलोकपाला मुनयो मनूनामाद्यं मनुं प्राञ्जलयः प्रणेमुः ॥ ३९ ॥
पदरत्नावली
एवं विधं शिवं दृष्ट्वा किं चक्रुरिति तत्राह– तं ब्रह्मेति ॥ मनूनां मननशीला-नामुपासकानामाद्यं मनुं ब्रह्मविषये यो निर्वाणसमाधिः शरीराभिमानत्यागलक्षणा चित्तैकाग्रता, तादृशीमवस्थामाश्रितम् । योगकक्ष्यां योगपट्टिकाम् ॥ ३९ ॥
प्रकाशिका
ब्रह्मविषये निर्वाणं शरीराभिमानशून्यो यः समाधिश्चित्तैकाग्रतारूपस्तेन स्थितं युतम् । योगकक्ष्यां योगपट्टिकां वामजानुदृढीकरणाय व्यपाश्रितं विशेषेणाश्रितवन्तं मनूनां मनन-शीलानामाद्यं मुख्यं मनुं मननशीलम् ॥ ३९ ॥
स तूपलभ्यागतमात्मयोनिं सुरासुरेशैरभिवन्दिताङ्घ्रिः ।
उत्थाय चक्रे शिरसाऽभिवन्दनं महत्तमोऽर्कस्य यथैव विष्णोः ॥ ४० ॥
तात्पर्यम्
महत्तमस्तेजस्वितमोऽर्कस्य सकाशादपि । ‘तेजोऽर्थ उत्तमार्थे च पूज्यार्थे च प्रयुज्यते । महच्छब्दो महःशब्दो मान्यशब्दस्तथैव चे’ति शब्दनिर्णये ॥ ४० ॥
पदरत्नावली
सर्वेषु प्रणमत्सु सत्सु ब्रह्मा किमकार्षीदित्याशङ्क्य पितृत्वाद् गुणज्येष्ठत्वाद् गुरुत्वाद्धरेः प्रेष्ठत्वाच्चाभ्येत्य शिवशर्माऽहमभिवादयामीत्यभिवाद्य शिवो ब्रह्माणमनमदित्याह– स तूपलभ्येति ॥ शिरसेत्यनेनाष्टाङ्गविशिष्टं नतिं ध्वनयति । नतिं विशिनष्टि– यथेति ॥ यथा विष्णो-रष्टाङ्गविशिष्टत्वेन नमनं करोति तथेत्यर्थः । सर्ववन्द्यसूर्यादपि तेजिष्ठेन रुद्रेण प्रणतस्य विरिञ्चस्य माहात्म्यातिशयोऽस्तीति किं वक्तव्यमिति भावेन तं शिवं विशिनष्टि– महत्तम इति ॥ अर्कस्य सकाशादपि महत्तमस्तेजस्वितम इत्यर्थः । गुणगुणिनोरभेदाभिप्रायेणायं प्रयोगः । ‘तेजोऽर्थ उत्तमार्थे च पूज्यार्थे च प्रयुज्यते । महच्छब्दो महःशब्दो मान्यशब्दस्तथैव च’ इति वचनात् तेजोर्थो महच्छब्द इति सिद्धम् ॥ ४० ॥
प्रकाशिका
आत्मयोनिं स्वकारणमात्मा परमात्मा योनिः कारणं यस्येति वा । शिवमाहात्म्यं वक्तुमर्कस्य महत्तम इत्युक्तम् । तत्र महच्छब्दो यदि श्रैष्ठ्यवाची तर्ह्येकोत्तमत्वस्य बृहस्पत्यादि-साधारणत्वान्नैतच्छिवमाहात्म्यवाचकं स्यात् । अतोऽत्र विवक्षितं महच्छब्दार्थं दर्शयन् अपेक्षितमध्याहृत्य योजयति ॥ महत्तम इति । तथा च महच्छब्दो नात्र श्रैष्ट्यपरः किन्तु तेजस्विपरः । एवं चार्कादप्यति-शयेन तेजस्वीत्यर्थलाभाच्छिवमाहात्म्यमनेनोक्तं भवतीति ज्ञातव्यम् । महच्छब्दस्य तेजस्विवाचकत्वे प्रमाणं पठति ॥ तेजोऽर्थ इति । अत्र तेजःशब्दस्तेजस्विपरः । अग्रे उत्तमपूज्यरूपार्थयोर्धर्मिरूपयोरेवो-पपादनात् । अतः प्रकृतसङ्गतिरिति ज्ञातव्यम् । ततश्चार्कस्य सकाशादपि महत्तमोऽतिशयेन तेजस्वी रुद्रो यथा शिरसा विष्णोरभिवन्दनं भक्तिपूर्वकं साष्टाङ्गप्रणामं करोत्येवमेव चक्रे । इति मूलार्थ इति भावः । अनेनैवंविधेनापि शिवेन ब्रह्मा प्रणत इति तन्माहात्म्यातिशय उक्त इति ज्ञातव्यम् ॥ ४० ॥
तथाऽपरे सिद्धगणा महर्षिभिर्ये वै समन्तादनु नीललोहितम् ।
नमस्कृतः प्राह शशाङ्कशेखरं कृतप्रणामं प्रहसन्निवात्मभूः ॥ ४१ ॥
पदरत्नावली
तत्र ब्रह्मा स्वगुरुत्वमभिनयन् भवं वक्तीत्याह– तथेति ॥ तथा रुद्रस्य समन्तात् स्थिता अपरे ये सिद्धगणास् तैर्महर्षिभिः सह नीललोहितम् अनु नमस्कृतः प्रहसन्निवात्मभूर् ब्रह्मा आत्मने कृतप्रणामं शशाङ्कशेखरं प्राहेत्यन्वयः ॥ ४१ ॥
प्रकाशिका
महर्षिभिः सहिता ये वै नीललोहितमनुवर्तन्ते समन्तात्स्थिता अपरे सिद्ध-गणास्तेऽपि तथाऽभिवन्दनं चक्रुः । एवं सर्वैर् नमस्कृत आत्मभूर्ब्रह्मा शशाङ्कः शेखरे शिरोऽग्रभागे यस्य तं रुद्रं प्रत्याह ॥ ४१ ॥
ब्रह्मोवाच —
जाने त्वामीश विश्वस्य जगतो योनिबीजयोः ।
शक्तेः शिवस्य च परं यत् तद् ब्रह्म निरन्तरम् ॥ ४२ ॥
तात्पर्यम्
अन्तर्याम्यपेक्षया शक्तेः शिवस्य च परमिति । ‘क्रियन्ते स्तुतयोऽन्यत्र तदन्तर्याम्यपेक्षया । न जीवेषु गुणाः पूर्णा यथायोग्या हि तद्गता’ इति ब्राह्मे ॥ ४२ ॥
पदरत्नावली
भक्तद्वेषमसहमानेन शिवान्तर्यामिणा हरिणा दक्षयज्ञविनाशनमकारीति ध्वनयन् तद्यज्ञसन्धिकामस्तस्मिन् तुष्टे शिवोऽपि तुष्टः स्यात् तस्य भक्तलक्षणत्वात् शिवस्यासम्भाव्यैर्गुणैः शिवान्तर्यामिणं नरसिंहं स्तौति– जाने त्वामिति ॥ हे ईश अखण्डैश्वर्य, विश्वस्याखिलस्य जगतो योनिबीजयोर्मातृस्थानीयायाः शक्तेः प्रकृतेरुमायाः, पितृस्थानीयस्य पुरुषशब्दवाच्यस्य शिवस्य च सकाशात्, यत् परमुत्तमं निरन्तरं स्वगतभेदरहितं शिवशक्त्योः स्थित्वा मातृत्वपितृत्वलक्षणशब्दप्रवृत्ति-निमित्तापादकं त्वां जान इत्यन्वयः ॥ ४२ ॥
प्रकाशिका
ब्रह्मा दक्षाध्वरध्वंसिनं शिवांतर्यामिणं महेश्वरनामानं हरिमपरोक्षीकृत्य स्तौति ॥ जाने त्वामिति । अत्रास्य शिवस्य स्तुतित्वे शिवं प्रति शिवस्य च परमिति वचनमनुपपन्नमतोऽत्र विवक्षितं तात्पर्यं दर्शयति ॥ अन्तर्याम्यपेक्षयेति । अन्तर्यामिहर्यपेक्षयेत्यर्थः । परमिति वचनमिति शेषः । अत्र शक्तेः परमित्यनुवादः शिवशक्त्योः स्वरूपयोरिति वक्ष्यमाणेऽभेदरूपप्रतीतार्थग्रहणे बाधकप्रदर्शनायेति ज्ञातव्यम् । अन्तर्यामिपरत्वं कुत इत्यतोऽत्र प्रमाणं पठति ॥ क्रियन्त इति । अन्यत्र रुद्रादौ विषये स्तुतय उत्कृष्टगुणवाचकाः । कुत इत्यत उक्तम् । न जीवेष्विति । गुणाः स्तुति-प्रतिपाद्याः पूर्णाः सम्यगुत्कृष्टाः । न सन्तीति शेषः । किं सर्वथा न जीवेषु तात्पर्यमित्यत उक्तम् ॥ यथायोग्या इति । तद्गता जीवगताः । स्तुतय इति वर्तते । हीति प्रमाणप्रसिद्धिं द्योतयति । तथा च ये गुणा जीवेष्वसम्भाव्यमानाः सर्वोत्कृष्टाः स्तुतिषूच्यन्ते । तत्र तदंतर्यामिमात्रपरत्वम् । यत्र जीवेषु सम्भाविता गुणा उच्यन्ते तत्रोभयपरत्वमिति भावः ॥ तथा चायमर्थः ॥ हे ईश । रुद्रान्तर्गत शक्तेरुमायाः शिवस्य चेत्यनयोर्विश्वस्य सर्वस्य जगतो योनिबीजयोर्मातापितृभूतयोः सकाशात्परमुत्तमं यद्ब्रह्म गुणपूर्णं निरन्तरं स्थानभेदेन भेदशून्यं तं त्वां जाने । प्रमाणैरपरोक्षतश्चेति शेषः ॥ ४२ ॥
त्वमेव भगवन्नेतच्छिवशक्त्योः स्वरूपयोः ।
विश्वं सृजसि पास्यत्सि क्रीडयोर्णपदो१ यथा ॥ ४३ ॥
तात्पर्यम्
‘तद्वशत्वात्स्वरूपं तु विष्णोः सर्वमुदीर्यते । स्वरूपं स च सर्व(स्य)त्र बिम्बत्वादेव तूच्यते । साक्षात्स्वरूपं मत्स्याद्या विष्णोर्नान्ये कथञ्चन । तस्मादन्यगता दोषा न तस्मिन्पुरुषोत्तमे’ इति तत्त्वनिर्णये ॥ ४३ ॥
पदरत्नावली
शिवशक्त्योर्याेनिबीजत्वमौपचारिकं मुख्यं तु तदन्तर्यामिणो हरेरेवेत्यभिप्रेत्याह– त्वमेवेति ॥ क्रीडयोर्णपद ऊर्णनाभिर्यथा सृजति तन्मध्ये क्रीडते च तां हरति तथा त्वं प्रतिमावत् स्वरूपयोः साक्षादरूपयोः शिवशक्त्योः स्थित्वा ताभ्यां करणभूताभ्यां भगवंस्त्वमेवैतद् विश्वं सृजसि पासि रक्षस्यत्सि संहरसीत्यन्वयः । प्रसिद्धं परित्यज्याप्रसिद्धान्तर्यामिकल्पनायां किं कारणमित्यत उक्तम्– शक्तेः शिवस्य च परमिति ॥ न हि शिवशक्त्योः परः शिव इति वक्तुं युक्तम्, प्रतीति-विरोधात् । तर्हि त्वमित्यादिप्रयोगप्रतीतेः का गतिरिति चेन्न अन्तर्याम्यपेक्षया चरितार्थत्वात् । तदुक्तम्– ‘क्रियन्ते स्तुतयोऽन्यत्र तदन्तर्याम्यपेक्षया । न जीवेषु गुणाः पूर्णा यथाय•ेग्या हि तद्गताः ॥’ इति । ‘तद्वशत्वात् स्वरूपं तु विष्णोः सर्वमुदीर्यते । स्वरूपं स च सर्वस्य बिम्बत्वादेव तूच्यते ॥ साक्षात्स्वरूपं मत्स्याद्या विष्णोर्नान्ये कथंचन । तस्मादन्यगता दोषा न तस्मिन् पुरुषोत्तमे ॥’ इति वचनात् शिवादीनामस्वरूपत्वं मत्स्यादीनां साक्षात्स्वरूपत्वं च सिद्धं नापलपनीयमिति भावः ॥ ४३ ॥
प्रकाशिका
कुतो मम परब्रह्मत्वमित्यतस्तल्लक्षणत्वादित्याह ॥ त्वमेवेति । त्वमेवैतत्सर्वं ब्रह्मादिचेतनस्वरूपं स्वरूपयोः शिवशक्त्योर्द्वारभूतयोः सकाशाद्विश्वं सृजसि पासि रक्षस्यत्सि संहरसीत्यन्वयः । ऊर्णपद ऊर्णनाभिर्यथोर्णां सृजति तन्मध्ये क्रीडति तामत्ति च तथेत्यर्थः । अत्र शिवशक्त्योः स्वरूपयोरित्यनेन हरिस्वरूपत्वं तयोरुच्यत इति भाति । तथा त्वमेवेतदिति तत्तच्छब्द-वाच्यसर्वस्वरूपत्वं तच्च शक्तेः शिवस्य च परमित्यनेन प्रमाणान्तरेण च विरुद्धं सर्वभिन्ने हरौ सर्वगतदोषप्रसक्तिश्चेत्यतोऽत्र विवक्षिततात्पर्यं प्रमाणेनैव दर्शयति ॥ तद्वशत्वादिति । सर्वं ब्रह्मशिवादिकं विष्णोः स्वरूपमित्युदीर्यते श्रुत्यादौ । कुतः । तुशब्दोऽवधारणे । तद्वशत्वादेव । ‘‘यदधीना यस्य सत्ता तत्तदित्येव भण्यत’’ इति वचनादिति भावः । स च विष्णुरपि सर्वस्य ब्रह्मरुद्रादेः स्वरूपमिति चोच्यते । तत्र हेतुः ॥ बिम्बत्वादेवेति । बिम्बे च प्रतिबिम्बैक्यव्यवहार आदित्यं वारिस्थं नैक्षतेत्यादि-स्मृतिषु प्रसिद्धः । तर्हि साक्षात्स्वरूपं कुत्र ज्ञेयमित्यपेक्षायामाह ॥ साक्षात्स्वरूपमिति । अन्ये ब्रह्मरुद्राद्यास्तस्मात्साक्षात्स्वरूपत्वस्याभावात् । न तस्मिन्प्रसज्यंत इति शेषः । तथा च त्वमेतद्ब्रह्मादि-चेतनबिम्बभूतः स्वरूपयोः स्वाधीनयोः शिवशक्त्योर्द्वारभूतयोरिति मूलार्थ इति भावः ॥ ४३ ॥
त्वमेव धर्मार्थदुघाऽभिपत्तये दक्षेण सूत्रेण विसर्जिताध्वरः ।
त्वयैव लोकेऽवसिताश्च सेतवो यान् ब्राह्मणाः श्रद्दधते धृतव्रताः ॥ ४४ ॥
तात्पर्यम्
अभिपत्तये प्रतीकाराय । सूत्रेण दोषसूचकेन ॥ ४४ ॥
पदरत्नावली
दक्षयज्ञविनाशनं तदन्तर्यामिणा हरिणा कृतमिति प्रमाणेन ध्वनितं स्फुटयति– त्वमेवेति ॥ त्वमेव नान्यो धर्मार्थौ दोग्धीति धर्मार्थधुक् तेन दक्षेण हेतुना विसर्जिताध्वरः विनाशित-यज्ञः, भवसीति शेषः । सोऽपि गुण एवाभूदित्याशयेनाह– अभिपत्तय इति ॥ तस्य दोषस्याभिपत्तये प्रतीकाराय परिहाराय । पाणिं मर्कटलोचन इत्यादिदोषसूचकेन दक्षेण यो यज्ञ उपक्रान्तस्तं त्वद्भक्त-त्वेऽपि त्वद्भक्तद्वेषित्वात् तद्दोषपरिहाराय भक्तवत्सलस्त्वमेव नाशितवानित्यर्थः । दक्षोऽपि त्वद्भक्तश्चेत् तद्यागविनाशं किमकार्षीरित्यत आह– त्वयैवेति ॥ तत्तत्कर्मसु यानि यानि व्रतानि त्वया विहितानि तानि धारयन्तो ये ब्राह्मणा वेदशास्त्रपारगास्ते यान् सेतून् श्रद्दधते, मद्भक्तोऽपि स्वोत्तमभक्तद्वेषादिकं न कुर्यादित्यादिलक्षणा धर्मसेतवो लोके वेदे च त्वयैवावसिता निश्चित्य निर्णीता इत्यर्थः ॥ ४४ ॥
प्रकाशिका
दक्षयज्ञनाशनं दक्षानुग्रहायैव त्वया कृतमित्याशयेनाह ॥ त्वमेवेति । अत्राभिपत्तये सूत्रेणेति पदद्वयस्य प्रकृतोपयुक्तमर्थं क्रमेणाह ॥ अभिपत्तय इत्यादिना । प्रतीकाराय तदीयगर्व-परिहाराय । तदनुग्रहायेति यावत् । सूत्रशब्दस्य सूचकाद्यर्थत्वेऽपि दोषेत्यस्य योग्यतया लाभः । ततश्चायं श्लोकार्थः ॥ धर्ममर्थं च दोग्धीति धर्मार्थधुक् तेन धर्मार्थदुघा । मोक्षेतरपुरुषार्थासक्तेनेति यावत् । सूत्रेण स्वयज्ञभागाप्रदानादिरूपदोषसूचकेन । तत्कर्त्रेति यावत् । हेतुगर्भविशेषणमिदम् । दक्षेण विसर्जिता-ध्वरस्त्याजिताध्वरो भवसि । दक्षेण स्वापराधरूपदोषस्य कृतत्वात्तदीययज्ञनाशनं त्वया कृतमित्यर्थः । किमर्थमित्यत उक्तम् ॥ अभिपत्तय इति । दक्षो हि स्वभक्तः । तस्य स्वापराधे प्राप्ते तदीययज्ञनाशादिकं तद्गर्वपरिहाराय पुनः स्वस्मिन् भक्त्युत्पादनाय च त्वया कृतमिति भावः । कुत एवं भक्तशिक्षा कार्येत्यत उक्तम् । त्वयैवेति । भक्तैः स्वोत्तमद्रोहादिकं नकार्यमित्येवंरूपा धर्मसेतवस्ते त्वयैवावसिता निश्चित्य निर्णिताः । चशब्दो यस्मादित्यर्थे । कथम्भूताः सेतवः । यान् ब्राह्मणा ब्रह्मज्ञानिनः श्रद्दधते श्रद्धयाऽनुतिष्ठन्ति ॥ ४४ ॥
त्वं कर्मणां मङ्गल मङ्गलानां कर्तासि लोके तनुषे स्वयं फलम् ।
अमङ्गलानां च तमिस्रमुल्बणं विपर्ययः केनचिदेव कस्यचित् ॥ ४५ ॥
पदरत्नावली
एवकारेण मन्वादिषु स्थित्वा वर्णाश्रमादिसंहितां विधत्स इति ध्वनितं स्पष्टयति– त्वं कर्मणामिति ॥ ‘मगेरलच्’, अगिवगिमगिरगिलगि गत्यर्था मगेरलच् प्रत्ययो भवति संज्ञाविषये नुमागमः । चकारः स्वरार्थः । तेन मङ्गलमिति रूपम् । तस्य संबुद्धिर् हे मङ्गलेति । हे मङ्गल विष्णो त्वं जीवलोके स्थित्वा मङ्गलानां पुण्यानाममङ्गलानामशुभानां च कर्मणां कर्तासि । स्वयमन्यानपेक्षितस् तेषामुभयेषां कर्मणां फलं स्वर्गादिकमुल्बणं तमिस्रं नरकादिकं तनुषे स्वस्वयोग्यतानुसारेण विस्तृत्य ददासीत्यान्वयः । ननु नायं नियमो द्रढीयान् विपर्ययदर्शनादित्यत आह– विपर्यय इति ॥ केनाचिद् भक्तद्वेषादिहेतुना कस्यचिदेव धर्मादेः फलविपर्ययः । न तु सर्वस्येत्यज्ञानां धर्मसूक्ष्मज्ञानं दुर्लभमिति भावः ॥ ४५ ॥
प्रकाशिका
न केवलं त्वमपराधकारिणां शिक्षकः किन्तु सर्वप्राणिषु स्थित्वा त्वमेव योग्यतानुसारेण कर्मकारयिता फलदाता चेत्याह ॥ त्वं कर्मणामिति । हे मङ्गल विष्णो । लोके प्राणिनां देहे स्थित्वा मङ्गलानां पुण्यानाममङ्गलानां च पापानां कर्मणां कर्ता कारयिताऽसि । तेषां फलं स्वर्गादिरूपमुल्बणं नरकादिरूपं तमिस्रं तमोरूपं च स्वयमेवान्यानपेक्षया तनुषे तत्तद्योग्यतानुसारेण विस्तृत्य ददासीत्यर्थः । ननु नायं नियमः विपर्ययस्यापि दर्शनादित्यत उक्तम् ॥ विपर्यय इति । व्यत्यास इत्यर्थः । केनचिदेव स्वोत्तमापराधादिना हेतुना कस्यचिद्धर्मादेः फलविपर्ययो न तु सर्वस्येत्यज्ञानां धर्मसूक्ष्मज्ञानं दुर्लभमिति भावः ॥ ४५ ॥
न वै सतां त्वच्चरणार्पितात्मनां भूतेषु सर्वेष्वभिपश्यतां तव ।
भूतानि चात्मन्यपृथग् दिदृक्षतां प्रायेण रोषोऽभिभवेद् यथा पशोः ॥ ४६ ॥
तात्पर्यम्
तव त्वाम् । ‘चतुर्षु षष्ठी’ति सूत्रात् ॥ ‘विष्ण्वधीना जगत्सत्ता प्रतीतिश्चेष्टितं गतिः । इति यन्नियतं१ ज्ञानमपृथग्दर्शनं स्मृतम् । मिथ्याज्ञानं पृथग्ज्ञानमिति वेदविदो विदुः । यथैवार्थस्तथा ज्ञानमपृथग्दृष्टिरुच्यते’ इति गारुडे ॥ ४६ ॥
पदरत्नावली
नन्वेवं तर्हि ब्रह्मणा हरौ रोषलक्षणदोषारोपः कृत इत्यागतमित्याशङ्क्य त्वद्भक्तानामप्यनुचितो रोषो नास्ति, किमुत तवेति भावेनाह– न वा इति ॥ त्वच्चरणार्पितात्मनां सर्वेषु भूतेष्वपि स्थितं तव त्वां पश्यताम् आत्मन्याधारतया भूतानि च पश्यतामेव अपृथग्दिदृक्षतां यथार्थ-ज्ञानेच्छूनां सतां प्रायेण तथा रोषो नाभिभवेद् यथा पशोरज्ञानिनोऽभिभवेदित्यन्वयः । अनेन रोषविषयेषु रोषः कर्तव्यो नान्यत्रातो न हरौ दोषारोपो ब्रह्मणा कृत इत्युक्तं भवति । चतुर्षु षष्ठीति सूत्राद् द्वितीयादिचतुर्षु षष्ठी वर्तत इति विधानात् तवेत्यस्य द्वितीयार्थो युज्यते । ‘विष्ण्वधीना जगत्सत्ता प्रतीतिश्चेष्टितं गतिः । इति यन्निश्चितं ज्ञानमपृथग्दर्शनं स्मृतम् ॥ मिथ्याज्ञानं पृथग्ज्ञानमिति वेदविदो विदुः । यथैवार्थस्तथा ज्ञानमपृथग्दृष्टिरुच्यते ॥’ इति वचनाद् अपृथग्दर्शनं नाभेदज्ञानं किन्तु यथावस्तुविज्ञानमिति ज्ञायते ॥ ४६ ॥
प्रकाशिका
नन्वभिपत्तय इत्यनेन दक्षाध्वरध्वंसनं दक्षानुग्रहहेतुरिति सूचितम् । तदयुक्तम् । तद्विषयकरोषस्यैव तत्र हेतुत्वसम्भवादित्याशङ्कायां रोषो हरौ न सम्भावित इति कैमुत्येनाह ॥ न वा इति । अत्र तवेति षष्ठ्या अन्वयाभावमालोच्य द्वितीयार्थतया व्याख्याति ॥ तवेति । एवं च त्वामभिपश्यतामित्यन्वयोपपत्तिरिति भावः । षष्ठ्या द्वितीयार्थत्वे नियामकं महाव्याकरणसूत्रं पठति ॥ चतुर्ष्विति । द्वितीयादिचतुर्षु विभक्त्यर्थेषु षष्ठी भवतीति सूत्रार्थः । अपृथग्दिदृक्षतामित्येतदभिन्नतया द्रष्टुमिच्छतामित्यन्यथाप्रतीतिवारणाय प्रमाणेनैव व्याख्याति ॥ विष्ण्वधीनेति । चेष्टितं प्रयत्नो गतिर्गमनादिरूपम् । तथा च जगतः सत्ताप्रतीत्यादिकं पृथक् हरिं विना स्वत एव भवतीति दर्शनं पृथग्दर्शनम् । हरिणैव भवति न पृथगिति दर्शनमपृथग्दर्शनमित्यर्थः। एवमुत्तरश्लोकेषु पृथग्धिय इत्येतद्भिन्नज्ञानिन इत्यन्यथाप्रतीतिवारणायोदाहृतप्रमाणशेषेणैव व्याख्याति ॥ मिथ्याज्ञानमिति । ननु पृथग्ज्ञानशब्देन कथं मिथ्याज्ञानलाभ इत्यतस्तदुपपादयति ॥ यथैवेति । यत इति शेषः । अर्थो यथा येन प्रकारेणोपेतस्तथैव तेन प्रकारेण ज्ञानं नान्येन प्रकारेणेत्यर्थः । तथा च पृथगर्थे विद्यमानं प्रकारं विहाय यदन्येन प्रकारेण ज्ञानं तन्मिथ्याज्ञानमेवेति लभ्यत इति भावः ॥ ततश्चायं श्लोकार्थः ॥ त्वच्चरणार्पितात्मनां सर्वेषु भूतेषु स्थितं तव त्वामभिपश्यतां भूतानि चात्मनि परमात्मविषये अपृथग्दिदृक्षतां परमात्मनैव प्राप्तसत्तादिकानि न पृथगित्येवं द्रष्टुमिच्छतामित्यर्थः । सतां, प्रायेण तथा रोषो नाभिभवेद्यथापशोर पशुं यथाऽभिभवेत् । तदा त्वां नाभिभवेदिति किं वाच्यमिति भावः ॥ ४६ ॥
पृथग्धियः कर्मदृशो दुराशयाः परोदयेनार्पितहृद्रुजोऽनिशम् ।
परान् दुरुक्तैर्वितुदन्त्यरुंतुदास्तान् मा वधीर्देव भवान् पृथग्विधान् ॥ ४७ ॥
पदरत्नावली
हननयोग्यापराधपुरुषविषये यो रोषः स कथं महतोऽपि नाभिभवेदित्याशङ्क्य सत्यं स्वदोषेण हन्यमानान् नावधीरिति प्रार्थयामह इति ज्ञापयति– पृथग्दृश इति ॥ ये पृथग्दृक्त्वादि-दोषाकरा दुरुक्तैः परान् वितुदन्ति हे देव भवान् तान् मा वधीरित्यन्वयः । पृथग्विधान् भिन्नप्रकारान् ज्ञानिलोकविलक्षणानित्यर्थः ॥ ४७ ॥
प्रकाशिका
ननु ये मिथ्याज्ञानिनो हननयोग्यापराधास्तेषु रोषादिकं युक्तमेवेत्याशङ्क्य सत्यं स्वदोषेणैव हतेषु तेषु रोषस्तत्कार्र्य हननं च व्यर्थमेवेत्याशयेनाह ॥ पृथग्धिय इति । मिथ्याज्ञानिन इत्यर्थः । कर्मदृशः कर्मैव महापुरुषार्थप्रदमिति जानतः । परोदयेन परेषां सम्पदाताऽर्पिता हृदि रुग्येषाम् । अरुन्तुदा मर्मभेत्तारो ये दुरुक्तैः परान्वितुदन्ति उपद्रवन्ति । हे देव । भवान् तान्मा वधीरित्यन्वयः । स्वदोषेणैव तेषां हतत्वादिति भावः । पृथग्विधान्ज्ञानविलक्षणान् ॥ ४७ ॥
येऽस्मिन् यदा पुष्करनाभमायया दुर्लङ्ध्यया स्पृष्टधियः पृथग्दृशः ।
कुर्वन्ति तत्र ह्यनुकम्पया कृपां न साधवो दैवबलात्कृताः कथम् ॥ ४८ ॥
तात्पर्यम्
यदा यस्मात् । ‘हृदयस्य द्रवीभावस्त्वनुकम्पेति कथ्यते । उपकारं कर्तुमिच्छा कृपेत्याहुर्मनीषिणः’ इति शब्दनिर्णये ॥ ४८ ॥
पदरत्नावली
यद्यपि ब्रह्मविज्ञापनेन प्रसन्नस्य रुद्रान्तर्यामिणो हरेः क्षान्त्या रुद्रोऽपि क्षान्तो भवति । तथाऽपि रुद्रोऽपि पृथग्वाच्य इति धियाऽधुना दक्षाय कोपो न कर्तव्य इति रुद्रं वक्ति– येऽस्मिन्निति ॥ अस्मिन् लोके ये दक्षविधा जना दुर्लङ्घ्या पुष्करनाभस्य मायया बन्धकशक्त्या स्पृष्टधियो अथ एव पृथग्दृशोऽस्मिन् जने द्वेषादिकं कुर्वन्तीति यदा यस्मात् तस्मात् तत्र तेषु जनेषु भवादृशाः साधवोऽनुकम्पया हृदयद्रवीभावेन कृपां क्षमालक्षणोपकारं कर्तुमिच्छां कथं न कुर्वन्ती-त्यन्वयः । ‘हृदयस्य द्रवीभावस्त्वनुकम्पेति कथ्यते । उपकारं कर्तुमिच्छा कृपेत्याहुर्मनीषिणः’ ॥ तेऽपि साधुष्वेव केचित् कुत एवं कुर्वन्तीति तत्राह– दैवेति ॥ तादृग्विधपूर्वकर्मप्रबोधकस्य देवस्य हरेर्बन्धक-शक्तिबलात् तथा कृता इति हेतुगर्भविशेषणम् । हिशब्देन योग्यताविशेषं कथयति ॥ ४८ ॥
प्रकाशिका
इदानीं रुद्रं प्रत्येव दक्षेऽनुग्रहः कार्य इति वक्ति ॥ येऽस्मिन्निति द्वाभ्याम् । अत्र यदाशब्दस्य कालवाचित्वेऽन्वयाभावमालोच्य हेत्वर्थमाह ॥ यदेति । यदाशब्दश्च कालार्थे हेत्वर्थे चापि भण्यत इति वचनादिति भावः । अनुकंपाकृपाशब्दयोरपौनरुक्त्याय अर्थभेदं प्रमाणेनैवाह ॥ हृदय-स्येति । अनेनास्मिन् लोके ये दक्षादयः सन्तो यदा यस्मात्पुष्करनाभस्य पद्मनाभस्य मायया बन्धक-शक्त्या स्पृष्टधियोऽत एव पृथग्दृशो ऽहमेव कर्तेत्यादिमिथ्याज्ञानिनस् तत्र तेषु दैवबलात्कृतास् तदीय-कर्मप्रेरकेणेश्वरेण प्रेरिता भवादृशाः साधवोऽनुकम्पया हृदयस्य द्रवीभावेन कृपाम् उपकारं कर्तुमिच्छां कथं न कुर्वन्ति कुर्वन्त्येवेत्यर्थः ॥ ४८ ॥
भवान् हि पुंसः परमस्य मायया दुरन्तयाऽस्पृष्टमतिः समस्तदृक् ।
तया हतात्मस्वनुकर्मचेतस्स्वनुग्रहं कर्तुमिहार्हति प्रभो ॥ ४९ ॥
तात्पर्यम्
मायया विष्ण्वधीनया बन्धकशक्त्या । ‘विष्णुमाया हरेरिच्छा बन्धशक्तिश्च तद्वशा । सर्वत्रगा हरेरिच्छा बन्धशक्तिर्ज्ञवर्जिता’ इति शब्दनिर्णये ॥ ४९ ॥
पदरत्नावली
‘विष्णुमाया हरेरिच्छा बन्धशक्तिश्च तद्वशा । सर्वत्रगा हरेरिच्छा बन्धशक्ति-र्ज्ञवर्जिता’ ॥ इति वचनाद् भवान् सर्वज्ञत्वेन बन्धशक्तिस्पर्शाभावात् तेष्वेको न स्यात् । अतोऽस्मिन्न-ज्ञानिजनेऽनुग्रहं कर्तुमर्हतीत्याह– भवान् हीति ॥ हिशब्दो हेत्वर्थः । तया बन्धकशक्त्या हतात्मसु नष्टबुद्धिगुणेषु । अत एवानुकर्मचेतस्सु हिंसालक्षणकर्मानुविष्टचित्तेषु, दक्षादिष्विति शेषः । अस्पृष्टमतिः ॥
प्रकाशिका
अहमपि हरेर्बंधकशक्त्या स्पृष्टमतिश्चेत्कथं तेष्वनुग्रहं कुर्यामित्यतस्त्वं न तादृशः सर्वज्ञत्वादित्याह ॥ भवान्हीति । अत्र माययेच्छयाऽस्पृष्टमतिरिति भगवदिच्छासम्बन्धोऽपि शिवे नास्तीति भाति । अतोऽत्र विवक्षितं मायाशब्दार्थमाह ॥ माययेति । ननु तर्हि बन्धकशक्तेः कथं परमस्य पुंस इति षष्ठ्या भगवत्सम्बन्ध उच्यत इत्यत उक्तम् ॥ विष्ण्वधीनयेति । तथा च स्वस्वामिभावरूप एव सम्बन्धः षष्ठ्यर्थो न विषयविषयिभाव इत्यर्थः । बन्धकशक्तिर्मायाशब्दवाच्या विष्ण्वधीना इत्यत्र तथा विष्ण्विच्छारूपया विष्णुमायया हरः स्पृष्टो न तदीयबन्धकशक्त्येत्यत्र हिशब्दसूचितं प्रमाणं दर्शयति ॥ विष्णुमायेति । तद्वशा विष्ण्वधीना । सर्वत्रगा सर्वविषया । ज्ञवर्जिता सर्वज्ञान्विहायान्यविषयेत्यर्थः ॥ ततश्चायं श्लोकार्थः ॥ परमस्य पुंसो हरेरधीनतया दुरन्तया दुःसाध्यया मायया बन्धकशक्त्या हतात्मसु स्पृष्टबुद्धिष्वत एवानुकर्मचेतस्सु कर्मानुसारिचेतस्सु दक्षादिषु साधुष्विहाधिकार्यनधिकारिवर्गे ॥ ४९ ॥
कुर्वध्वरस्योद्धरणं हतस्य भो त्वयाऽसमाप्तस्य मनोः प्रजापतेः ।
न यत्र भागं तव भागिनो ददुः कुस्पर्धिनो येन मखो निनीयते ॥ ५० ॥
जीवताद् यजमानोऽयं प्रपद्येताक्षिणी भगः ।
भृगोः श्मश्रूणि रोहन्तु पूष्णो दन्ताश्च पूर्ववत् ॥ ५१ ॥
पदरत्नावली
स्वबोधनेन अन्तर्यामिहरिप्रसादेन च प्रसादाभिमुखं रुद्रं प्रत्येतादृशोऽनुग्रहः कार्य इति वक्ति– कुर्वध्वरस्येति ॥ हतस्य, त्वया कृतान्तरायेणेति शेषः । अत एवासमाप्तस्य, अकृताव-भृथस्नानादिनेति शेषः । मनोर्दक्षस्य । कोऽयमध्वर इति तत्राह– न यत्रेति ॥ येन त्वया मखो नि न्यग्भावेन नीचत्वेन नीयते तस्य भागिनो यज्ञभागार्हस्य तव कुत्सिता स्पर्धा एषामस्तीति कुस्पर्धिन ऋत्विजो देवा यत्र यज्ञे भागं विहितहविर्भागं न ददुः, तस्याध्वरस्य । यद्वा येन यज्ञभागयोग्येन त्वया मखो नि निकामं नीयते तस्य भागिनो देवा भागं यत्र न ददुस्तस्येति । निन्यग्भावनिकामयोरिति यादवः ॥ यजमानसद्भावे यागोद्धारः सम्भवति तस्य मया हतत्वात् कथं नष्टाक्षाद्यवयवादीनां स्वभाग-निरीक्षणम् ? कथं चायुधाश्मभिर्भग्नगात्राणामृत्विजां होमङ्गत्वमित्याशङ्क्य त्वदनुग्रहसुधासमुद्रमग्नाः सर्वे संपन्ना भवन्तीत्याह– जीवतादित्यादिना ॥ ५०, ५१ ॥
प्रकाशिका
एवं सामान्यत उक्त्वेदानीं प्रकृतमाह ॥ कुर्वध्वरस्येति त्रिभिः । उद्धरण-मुज्जीवनम् । समापनमिति यावत् । त्वया तस्य हतस्य विघि्नतस्यात एवासमाप्तस्य मनोर्ज्ञानिनः प्रजा-पतेर्दक्षस्य । यत्राध्वरे भागिनो भागार्हस्यापि तव भागं न ददुः । यतः कुत्सिता स्पर्धैषामस्तीति कुस्पर्धिनो देवादयः । भागार्हत्वमाह ॥ येनेति । येन त्वया मखो निनीयते नितरां नीयते । फलं प्राप्यत इति यावत् ॥ ५०,५१ ॥
देवानां भग्नगात्राणामृत्विजां चायुधाष्मभिः ।
भवताऽनुगृहीतानामाशु मन्यो त्वनातुरम् ॥ ५२ ॥
पदरत्नावली
अनातुरमारोग्यम् ॥ ५२ ॥
प्रकाशिका
हे मन्यो । अनातुरमारोग्यमाश्वस्तु ॥ ५२ ॥
एष ते रुद्र भागोऽस्तु यदुच्छिष्टोऽध्वरस्य वै ।
यज्ञस्ते रुद्र भागेन कल्पतामद्य यज्ञहन् ॥ ५३ ॥
पदरत्नावली
सर्वं निरवद्यं स्याद् यदि मम भागोऽस्ति चेदित्याशङ्क्य तवायमनुशोको मा भूदित्याह– एष त इति ॥ उच्छिष्टः स्विष्टकृद्भागः । ‘यदग्नये स्विष्टकृते समवद्यति भागधेयेनैव तद्रुद्रं समर्द्धयति सकृत् सकृदवद्यति सकृदिव हि रुद्र उत्तरार्धादवद्यत्येषा वै रुद्रस्य दिक् स्वायामेव दिशि रुद्रं निरवद्यते’ इति श्रुतेः ॥ ५३ ॥
॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुकृतायां चतुर्थस्कन्धे सप्तमोऽध्यायः ॥
प्रकाशिका
भागश्च तवास्त्वित्याह ॥ एष इति । हे रुद्र । यद्योऽध्वरस्योच्छिष्टः । यज्ञे कृतावशिष्टः । वा इति श्रौतप्रसिद्धिं दर्शयति । हे रुद्र । ते भागेनाद्य यज्ञः कल्प्यतां संपद्यताम् ॥ ५३ ॥
**॥ इति श्रीमद्वेदेशपूज्यपादशिष्येण यदुपतिना विरचितायां **
श्रीमद्भागवतटिप्पण्यां चतुर्थस्कन्धे सप्तमोऽध्यायः ॥ ४-७ ॥