भवो भवान्या निधनं प्रजापतेरसत्कृताया ह्यवगम्य नारदात्
अथ षष्ठोऽध्यायः
मैत्रेय उवाच —
भवो भवान्या निधनं प्रजापतेरसत्कृताया ह्यवगम्य नारदात् ।
स्वपार्षदसैन्यं च तदध्वरेशैर्विद्रावितं क्रोधमपारमादधे ॥ १ ॥
पदरत्नावली
विष्णुद्वेषवत् तद्भक्तद्वेषस्याप्यनर्थहेतुत्वान् मुमुक्षुणा स न कर्तव्य इति ज्ञाप्यतेऽस्मिन्नध्याये । तत्रादौ नारदश्रुतभवानीमरणाद् भवाद् वीरभद्रोत्पत्तिं वक्तुमाह– भव इति ॥ प्रजापतेरवमानेनासत्कृताया धिक्कृतायाः । तस्य दक्षस्याध्वरस्येशत इति तदध्वरेशा भृग्वादयस्तैः । तदध्वरं यजन्त इति तदध्वरेजस् तैस्तदध्वरेड्भिरिति वा पाठः, क्किप् संप्रसारणं च ॥ १ ॥
प्रकाशिका
प्रजापतेः प्रजापतिना दक्षेणासत्कृताया अवमानितायास्तस्य दक्षस्याध्वरस्येशत इति तदध्वरेशा भृग्वादयस्तैः ॥ १ ॥
क्रुद्धः सुदष्टोष्ठपुटः स धूर्जटिर्जटां तटिद्वह्निसटोग्ररोचिषम् ।
उत्कृत्य रौद्रः सहसोत्थितो हसन् गम्भीरनादो विससर्ज तां भुवि ॥ २ ॥
पदरत्नावली
क्रोधफलमाह– क्रुद्ध इति ॥ सुदष्टे ओष्ठपुरे यस्य स तथा । धूता जटा अस्य सन्तीति धूर्जटिर् मत्वर्थे क्विप् प्रत्ययः । तडिद्वह्नि सटा वैद्युताग्निज्वालातद्वदुग्रं रोचिर्यस्याः सा तथा ताम् । रौद्रो मध्याह्नातप इव तीक्ष्णः । ‘‘आतपः कथ्यते रोद्रः’’ इति हलायुधः ॥ २ ॥
प्रकाशिका
सुदष्टे ओष्ठपुटे यस्य स तथा । सः धूर्जटिर् धूता जटा अस्य सन्तीति धूर्जटी रुद्रो रौद्रः क्रूरः सन् । जटामुत्कृत्योत्पाट्योत्थितः सन् तां भुवि विससर्ज । हसन् अपहासं कुर्वन् । कथंभूतां जटाम् । तटिद्वह्निसटा वैद्युताग्निज्वाला तद्वदुग्रं रोचिर्यस्याः सा तथोक्ता ताम् ॥ २ ॥
ततोऽतिकायस्तनुवा स्पृशन् दिवं सहस्रबाहुर्घनरक्तसूर्यदृक् ।
करालदंष्ट्रो ज्वलदग्निमूर्धजः कपालमाली विविधोद्यतायुधः ॥ ३ ॥
पदरत्नावली
सा जटा किमभूदिति तत्राह– तत इति ॥ ततो जटायाः कश्चित् पुरुषोऽभूदिति शेषः । तनुवा तन्वा शरीरेण घनरक्तः सान्द्रारुणः सूर्यस्तद्वद् रक्ता दृशो यस्य स तथा । कपालानां माला समूहोऽस्यास्तीति कपालमाली ॥ ३ ॥
प्रकाशिका
ततो जटायाः सकाशादतिकायः । वीरभद्रो जात इति शेषः । तनुवा तन्वा शरीरेण घनरक्तः सान्द्रारुणः स चासौ सूर्यश्च घनरक्तसूर्यस्तद्वद्दृशो यस्य स तथा । ज्वलदग्निरिव मूर्धजाः केशा यस्य । कपालसमूहनिर्मितमालायुक्तः । विविधान्युद्यतान्यायुधानि यस्य ॥ ३ ॥
तं किं करोमीति गृणन्तमाह बद्धाञ्जलिं भगवान् भूतनाथः ।
दक्षं सयज्ञं जहि मद्भटानां त्वमग्रणी रुद्र जटांशको मे ॥ ४ ॥
पदरत्नावली
यदर्थमसावुत्पन्नस् तत्कृत्यमाह– तं किमिति ॥ हे रुद्र । मद्भटानामग्रणीत्वे हेतुः– जटांशक इति ॥ अनेन जटाया आत्मत्वं सूचयति ॥ ४ ॥
प्रकाशिका
हे रुद्र । जटा जनिका यस्य रुद्रजटासम्भूतमद्भटाग्रणीत्वे हेतुर्यतो मे जटांशको मदंशावतारः ॥ ४ ॥
आज्ञप्त एवं कुपितेन मन्युना स देवदेवं परिचक्रमे विभुम् ।
मेने तदाऽऽत्मानमसङ्गरंहसं सहीयसां तात सहः सहिष्णुम् ॥ ५ ॥
पदरत्नावली
नमस्ते रुद्र मन्यव इति श्रुतेर्मन्युना महादेवेन । युयुत्सूनां योधानां वीरस्वभावं वक्ति– मेन इति ॥ यदा अन्यासाध्यकर्मसाधनार्थमुपदिष्टस्तदा आत्मानं स्वमसङ्गरंहसं क्काप्यसक्तवेगं सहीयसां सहनशक्तिमत्तराणां सहः सहनशक्तिस्तां सहिष्णुं सहनशीलं मेन इत्यन्वयः ॥ ५ ॥
प्रकाशिका
मन्युना रुद्रेण । नमस्ते रुद्रमन्यव इति श्रुतेः । परिचक्रमे प्रदक्षिणं चकार । असङ्गरंहसं क्वाप्यसक्तवेगम् । हे तात विदुर । सहीयसां सहनशक्तिमतां सहः सहनशक्तिं सहिष्णुं सोढुमात्मानं मेने । भृग्वादिऋत्विक्सामर्थ्यमप्यकिञ्चित्करमिति ज्ञातवानित्याशयः ॥ ५ ॥
अन्वीयमानः स तु रुद्रपार्षदैर्भृशं नदद्भिर्व्यनदत् सुभैरवम् ।
उद्यम्य शूलं जगदन्तकान्तकं सम्प्राद्रवद् घोषणभूषणाङ्घ्रिः ॥ ६ ॥
प्रकाशिका
सुभैरवं भयङ्करं यथा भवति तथा व्यनदत् । जगदन्तको यमस्तस्याप्यन्तकम् । घोषणं शब्दनशीलं भूषणं नूपुरलक्षणमन्ध्य्रोर्यस्य ॥ ६ ॥
अथर्त्विजो यजमानः सदस्याः ककुभ्युदीच्यां प्रसमीक्ष्य रेणुम् ।
तमः किमेतत् कुत एतद् रजोऽभूदिति द्विजा द्विजपत्न््नयश्च दध्युः ॥ ७ ॥
पदरत्नावली
असौ वीरभद्रो यज्ञवाटनिकटमायादिति वार्तां पुरोगामिनी तत्सेनाधूलिरेव व्यनक्तीति भावेन ऋत्विगादीनां धूलिदर्शनेन जिज्ञासाप्रकारं वक्ति– अथेति ॥ उदीच्यां ककुभि दिशि । ऋत्विजो यज्ञप्रवर्तकाः । यजमानो यज्ञे दीक्षितः । सभास्थाने स्थित्वा मन्त्रतन्त्रकर्महविर्देवताग्निसंबन्धं विवेचयन्तः सदस्याः ॥ ७ ॥
प्रकाशिका
उदीच्यां ककुभि दिशि । किंशब्द आक्षेपार्थः । एतत्तमः किं नैव किन्तु रज एवेति निश्चित्यैतद्रजः कुतोऽभूदिति दध्युश्चिन्तयामासुः ॥ ७ ॥
वाता न वान्ति न हि सन्ति दस्यवः प्राचीनबर्हिर्जीवति होग्रदण्डः ।
गावो न काल्यन्त इदं कुतो रजो लोकोऽधुना किं प्रलयाय कल्पते ॥ ८ ॥
पदरत्नावली
न केवलं दध्युरभिदध्युश्चेत्याह– वाता इति ॥ चोराणामभावे निमित्तमाह– प्राचीनबर्हिरिति ॥ उग्रो दण्डो यस्य । उग्रेषु दण्डो यस्येति वा स उग्रदण्डः प्राचीनबर्हिर्नाम तत्काल-भवो राजा । जीवति सप्राणो वर्तत इत्यन्वयः । हेत्यनेन तज्जीवनं सर्वेषां सिद्धमिति व्यनक्ति ॥ ८ ॥
प्रकाशिका
चिन्ताप्रकारमेवाह ॥ वाता इति । दस्यूनामभावे निमित्तमाह ॥ प्राचीनबर्हिरिति । उग्रो दण्डो यस्य स प्राचीनबर्हिर्नाम तदानीन्तनो राजा जिवति सप्राणो वर्तते यतः । हेति खेदे । न काल्यन्ते न शीघ्रं नीयन्ते ॥ ८ ॥
प्रसूतिमिश्राः स्त्रिय उद्विग्नचित्ता ऊचुर्विपाको वृजिनस्यैव तस्य ।
यत्पश्यतीनां दुहितॄणां प्रजेशः सुतां सतीमवदध्यावनागसाम् ॥ ९ ॥
पदरत्नावली
तत्र केचिद् दक्षभयाज् जानन्तोऽपि तूष्णीमासन् । तद्भयहीनाः प्रसूतिमुख्यास् तत्कारणमूचुश्चेत्याह– प्रसूतिमिश्रा इति ॥ मिश्रशब्दो मुख्यार्थे वर्तते । प्रजेशो दक्षो दुहितॄणां प्रपश्य-तीनां सतीनामनागसामनपराधां नाम्ना सतीं सुतामवदध्यौ अवज्ञातवानिति यद् यस्मात् तस्माद् वृजिनस्य विपाकफलमेवेत्यन्वयः ॥ ९ ॥
प्रकाशिका
मिश्रशब्दो मुख्यार्थे वर्तते । प्रसूतिर्दक्षभार्या सामिश्रा मुख्या यासां ताः । विपाकः फलम् । पश्यतीनामिति तस्या दुःखाधिक्योपपादनायोक्तम् । अवदध्यावज्ञातवानिति यद्वृजिनं तस्ये-त्यन्वयः ॥ ९ ॥
यस्त्वन्तकाले व्युप्तजटाकलापः स्वशूलसूच्यर्पितदिग्गजेन्द्रः ।
वितत्य नृत्यत्युदितास्त्रदोर्ध्वजो रूक्षाट्टाहासः स्तनयित्नुभिन्नदिक्१ ॥ १० ॥
पदरत्नावली
सत्यवज्ञानोत्पन्नपरमेश्वरकोपादियमनर्थद्योतिनो धूलिरिति भावेन सदाशिव-माहात्म्यं वदन्तीत्याह– यस्त्विति ॥ व्युप्तजटाकलापः प्रसारितजटासमूहः । वितत्य विस्तृत्य, बाहूनिति शेष उदितान्यस्त्राणि धनुरादीनि येषु ते उदितास्त्रा दोषो भुजा एव ध्वजा दोर्ध्वजा यस्य स तथोक्तः, रूक्षाट्टहासः कठोरसिंहनादः, स एव स्तनयित्नुः प्रलयकालीनमेघनादः, तेन भिन्ना विद्राविता दिशो यस्य स तथोक्तः । भिन्नदृगिति पाठे स्तनयित्नुवन्मेघवद् भिन्ना व्यक्ता दृग् यस्य स तथेत्यर्थः ॥ १० ॥
प्रकाशिका
न केवलमिदं रुद्रसैन्यागमनं सत्यवज्ञाजनितवृजिनफलं किन्तु रुद्रावज्ञानिमित्त-मपीत्याशयेन रुद्रमाहात्म्यं वर्णयन्त्य आहुः ॥ यस्त्विति द्वाभ्यां श्लोकाभ्याम् । व्युप्तजटाकलापः प्रसारितजटासमूहः स्वशूलसूची स्वशूलाग्रं तत्रार्पिताः प्रोता दिग्गजेन्द्रा यस्य । उदिता-न्युद्युक्तान्यस्त्राण्यायुधानि येषु ते उदितास्त्रास्ते च ते दोषो भुजास्त एव ध्वजो दोर्ध्वजो यस्य स तथोक्तः । बाहून्वितत्य विस्तृत्य नृत्यति । रूक्षाट्टहासः कठोरसिंहनादः स एव स्तनयित्नुः प्रलयकालीनमेघनादस्तेन भिन्ना विदारिता दिशो येन स तथोक्तः । भिन्नदृगिति पाठे भिन्ना विलक्षणा दृग्यस्येति व्याख्येयम् ॥ १० ॥
अमर्षयित्वा तमसह्यतेजसं मन्युप्लुतं दुर्विषहं भ्रकुट्या ।
करालदंष्ट्राभिरुदस्तभागणं स्यात् स्वस्ति किं कोपयतो विधातुः ॥ ११ ॥
पदरत्नावली
अनेन प्रकृते किम् ? तत्राह– अमर्षयित्वेति ॥ एवं विधं तं शिवममर्षयित्वा । विधातुर्दक्षस्य स्वस्ति किं स्यात् ? न स्यादेवेत्यन्वयः । दंष्ट्राप्रभाभिरुदस्तो निरस्तो भागणो नक्षत्रगणो यस्य स तथोक्तस्तम् ॥ ११ ॥
प्रकाशिका
अमर्षयित्वाऽसहनयुक्तं कृत्वा मन्युप्लुतं क्रोधव्याप्तं दंष्ट्राभिरुदस्तः निरस्तो भागणः सूर्यादिप्रभासमूहो यस्य । एतादृशं कोपयतो विधातुः प्रजापतेर्दक्षस्य स्वस्ति स्यात्किं न स्यादेव ॥११॥
बह्वेवमुद्विग्नदृशोच्यमाने जनेन दक्षस्य मखे महात्मनः ।
उत्पेतुरुत्पाततमाः सहस्रशो भयावहा दिवि भूमौ च पर्यक् ॥ १२ ॥
पदरत्नावली
न केवलं तर्कतो दक्षस्यैष्यदरिष्टं ज्ञायते किन्तु दुर्निमित्तैरपीत्याह– बह्वेवमिति ॥ किं बहुना ? सर्वतो दिक्षु ॥ १२ ॥
प्रकाशिका
बहु यथा भवति तथोद्विग्नदृशा प्रचलितनेत्रेण जनेनोच्यमाने सति महात्मनोऽपि दक्षस्य मखे उत्पाततमा महोत्पाताः पर्यक् सर्वतो दिक्षु ॥ १२ ॥
तावत् स रुद्रानुचरैर्मखो महान् नानाविधैर्वामनकैरुदायुधैः ।
पिङ्गैः पिशङ्गैर्मकरोदराननैः पर्याप्लुवद्भिर्विदुरान्वरुध्यत ॥ १३ ॥
पदरत्नावली
उत्पातानां क्षिप्रं प्रत्यक्षफलमभूदित्याह– तावदिति ॥ यावदुत्पाता उत्पन्नास्तावत् कालक्षेपमन्तरेण स महान् मखो रुद्रानुचरैरन्वरुध्यत इत्यन्वयः । नानाविधत्वमेव स्पष्टीक्रियते– वामनकैरित्यादिना ॥ वामनकैर्ह्रस्वैःह्रस्वशिरोभिश्च, पिङ्गैः कपिलैः पिशङ्गैर्हरिद्रावर्णैः, मकर-वदुदरमाननं च येषां ते तथोक्तास्तैः, पर्याप्लुवद्भिरितस्तत उत्पतद्भिः ॥ १३ ॥
प्रकाशिका
तावत्तदेव । अविलम्बेनेति यावत् । वामनकैर्ह्रस्वैर्हृस्वशिरोभिरिति वा । पिङ्गैः कपिलैः पिशङ्गैः पीतैर्मकरस्यैवोदरमाननं च येषां तैः पर्याप्लुवद्भिः परितो धावद्भिरन्वरुद्ध्यतावरुद्धः
॥ १३ ॥
केचिद् बभञ्जुः प्राग्वंशं पत्नीशालां तथाऽपरे ।
सद आग्नीध्रशालां च तद्विहारं महानसम् ॥ १४ ॥
पदरत्नावली
तत्र तत्र स्वस्वानुकूलं रोधं चक्रुरित्युक्तं विशिनष्टि– केचिदिति ॥ प्राग्वंश-मग्निहोत्रस्थानम् । यज्ञशालायाः पूर्वपश्चिमस्तम्भयोरुपर्यवान्तरवंशालम्बनं, पूर्वपश्चिमायतं दारु वा प्राग्वंशस्तम् । यज्ञशालायाः पश्चिमतः पत्नीशाला । यज्ञशालायाः पुरतो मण्डपः सदः । मण्डपतः पुरतो हविर्धानी । तस्योत्तरतः शाला अग्नीध्रशाला पशुविशसनस्थानम् । तस्याग्नीध्रस्याग्निस्थानं विहारः । महानसः पचनस्थानम् ॥ १४ ॥
प्रकाशिका
यज्ञशालायाः पूर्वपश्चिमस्तम्भयोरुपर्यवान्तरवंशावलम्बनं पूर्वपश्चिमायतं दारु प्राग्वंशस्तम् । यज्ञशालयाः पश्चिमतः पत्नीशाला । यज्ञशालायाः पुरतः स्थितं मण्टपं सदः । सदसः पुरतो हविर्धानी । तस्योत्तरतोऽग्नीध्रशाला पशुविशसनस्थानम् । तद्विहारं यजमानस्य गृहं, महानसः पाकस्थानम् ॥ १४ ॥
रुरुजुर्यज्ञपात्राणि तथैकेऽग्नीननाशयन् ।
कुण्डेष्वमूत्रयन् केचिद् बिभिदुर्वेदिमेखलाः ॥ १५ ॥
अबाधन्त मुनीनन्य एके पत्नीरतर्जयन् ।
अपरे जगृहुर्देवान् प्रत्यासन्नान् पलायितान् ॥ १६ ॥
पदरत्नावली
रुरुजुः रुज भङ्ग इति धातुः । वेदिमेखला उत्तरवेदिसीमासूत्राणि ॥ १५ ॥
प्रकाशिका
रुरुजुर्बभञ्जुः । रुज भंग इति धातुः । उत्तरवेद्या मेखलाः सीमासूत्राणि
॥ १५,१६ ॥
भृगुं बबन्ध मणिमान् वीरभद्रः प्रजापतिम् ।
चण्डीशः पूषणं देवं भगं नन्दीश्वरोऽग्रहीत् ॥ १७ ॥
पदरत्नावली
मणिमान् कश्चिद्गणनाथः प्रजापतिं दक्षम् । चण्डीशश्चण्डेश्वरः ॥ १७ ॥
प्रकाशिका
मणिमान् कश्चिद्गणनाथः प्रजापतिं दक्षं चण्डीशश्चण्डेश्वरः ॥ १७ ॥
सर्व एवर्त्विजो दृष्ट्वा सदस्याः सदिवौकसः ।
तैरर्द्यमानाः सुभृशं ग्रावभिर्नैकधाऽद्रवन् ॥ १८ ॥
पदरत्नावली
सर्वेऽप्येवमेव निगृहीताः किम् ? नेत्याह– सर्व एवेति ॥ १८ ॥
प्रकाशिका
ऋत्विजो दृष्ट्वा सर्वे एव सदस्या ग्रावभिरर्द्यमाना नैकधाऽद्रवन् दुद्रुवुः ॥ १८ ॥
जुह्वतः स्रुवहस्तस्य श्मश्रूणि भगवान् भवः ।
भृगोर्लुलुञ्चे सदसि योऽहसत् श्मश्रु दर्शयन् ॥ १९ ॥
पदरत्नावली
भावो वीरभद्रः । लुलुञ्चे उत्पाटयामास । लुञ्च छेदन इति धातुः । अनेन कोऽपराधः कृत इति तत्राह– सदसीति ॥ विश्वसृजां सदसि ॥ १९ ॥
प्रकाशिका
स्नुवो हस्ते यस्य । भवो वीरभद्रो लुलुञ्चे उत्पाटयामास । लुञ्च छदेन इति धातुः । विश्वसृजां सदसि ॥ १९ ॥
भगस्य नेत्रे भगवान् पतितस्य रुषा भुवि ।
उज्जहार सदस्थोऽक्ष्णा यः शपन्तमसूचयत् ॥ २० ॥
पदरत्नावली
अत्र वीरभद्रः स्वापराधानुकूलं दण्डं करोति सर्वेषामित्याह– भगस्येति ॥२०॥
प्रकाशिका
उज्जहारोद्धृतवान् । सदस्थः सभायां स्थितः सन् । शपन्तं शिवनिन्दां कुर्वन्तं दक्षमक्ष्णाऽक्षिव्यापारविशेषेणासूचयत्प्रेरितवान् ॥ २० ॥
पूष्णश्चापातयद् दन्तान् कलिङ्गस्य यथा बलः ।
शप्यमाने गरिमणि योऽहसद् दर्शयन् दतः ॥ २१ ॥
पदरत्नावली
कलिङ्गस्य दन्तवक्त्रस्य द्यूते बलो बलभद्रः भृगुणा गरिमणि ज्ञानोपदेष्टृत्वेन गुरुतमे शिवे शप्यमाने सति यः पूषा दतः दन्तान् दर्शयन्नहसत् तस्य ॥ २१ ॥
प्रकाशिका
कलिङ्गस्य दन्तवक्त्रस्य बलो बलभद्रो भृगुणा गरिमणि गुरुतमे रुद्रे शप्यमाने निंद्यमाने सति यः पूषा दतो दन्तान्दर्शयन् अहसत्तस्य ॥ २१ ॥
आक्रम्योरसि दक्षस्य शितधारेण हेतिना ।
छिन्दन्नपि तदुद्धर्तुं नाशक्नोत् त्र्यम्बकस्तदा ॥ २२ ॥
पदरत्नावली
वीरभद्रो दक्षं बद्ध्वा किमकरोदिति तत्राह– आक्रम्येति ॥ शितधारेण तीक्ष्णा-ग्रेण । त्रीणि अम्बकानि नेत्राणि यस्य ॥ २२ ॥
प्रकाशिका
आकम्य पादं संस्थाप्य शितधारेण तीक्ष्णाग्रेण हेतिना खड्गरूपेण । शिर इति शेषः । छिन्दन्नपि तच्छिर उद्धर्तुं छेत्तुम् । त्रीणि अम्बकानि नेत्राणि यस्य स तथा । स वीरभद्रः ॥२२॥
शस्त्रैरस्त्रान्वितैरेनमनिर्भिण्णत्वचं हरः ।
विस्मयं परमापन्नो दध्यौ पशुपतिश्चिरम् ॥ २३ ॥
प्रकाशिका
अस्त्रान्वितैर्मन्त्रसहितैर्न निर्भिण्णा त्वक् यस्य तं तथाभूतम् । दृष्ट्वेति शेषः । पशुपतिर्वीरभद्रो दध्यौ स्वमूलरूपं स्मृतवान् । अनन्तरं स मूलरूपी पशुपतिरत्रागत्य दध्यौ युद्धं यज्ञं यथा स्यात्तथा मनसा चिन्तितवान् ॥ २३ ॥
दृष्ट्वा सञ्ज्ञपने योगं पशूनां स पतिर्मखे ।
यजमानपशोः कस्य कायात् तेनाहरच्छिरः ॥ २४ ॥
पदरत्नावली
ज्ञानफलमाह– दृष्ट्वेति ॥ मखे पशूनां सञ्ज्ञपने हिंसने योगं मन्त्रपूर्वकोपायम् । यजमान एव पशुस्तस्य तेन योगेन ॥ २४ ॥
प्रकाशिका
तत्र दक्षं पशुतया संकल्प्य तत्सज्ज्ञपने हिंसने योगं मन्त्रपूर्वककण्ठनिष्पीडनादि-रूपमुपायं दृष्ट्वा मखे यज्ञे यजमानपशोः पशुत्वेन कल्पितस्य यजमानस्य कस्य दक्षस्य । तेन योगेन
॥ २४ ॥
साधुवादस्तदा तेषां कर्म तत् तस्य शंसताम् ।
भूतप्रेतपिशाचानामन्येषां तद्विपर्ययः ॥ २५ ॥
पदरत्नावली
अयं हि विक्रय उभयेषामुभयथाऽन्तःकरणवृत्तिमकार्षदित्याह– साधुवाद इति ॥ अन्येषां दक्षपक्षिणाम् ॥ २५ ॥
प्रकाशिका
अन्येषां दक्षपक्षिणां तद्विपर्ययोऽसाधुवादः । अभूदिति शेषः ॥ २५ ॥
जुहावैतच्छिरस्तस्य दक्षिणाग्नावमर्षितः ।
तद् देवयजनं दग्ध्वा प्रातिष्ठद् गुह्यकालयम् ॥ २६ ॥
तात्पर्यम्
‘वीरभद्राख्यरूपेण स्वेन पूर्वं ययौ हरः । मूलरूपेण पश्चात्तु गत्वा दक्षमथावधीत् । तत्रोपेन्द्रेण हरिणा जितो धर्मात्मजेन च । अन्याञ्जिगाय प्रययौ कैलासं १स्वं निकेतनम्’ । इति ब्राह्मे ॥ २६ ॥
पदरत्नावली
मन्त्रादिशक्त्यैतच्छिरःसन्धानमपि न कार्यमिति भावेन शिरश्छेदोत्तरक्रियां वक्ति– जुहावेति ॥ ततः परं किमकारीति तत्राह– तद् देवयजनमिति ॥ देवयजनं यज्ञं दग्ध्वा विनाश्य गुह्यकालयं कैलासं प्रातिष्ठत् प्रायादिति । अत्र त्र्यम्बको हरः पशुपतिरिति विशेषनामनिर्देशात् किञ्चन तात्पर्यमस्तीति ध्वनयति । पूर्वं वीरभद्रेण स्वेन रूपेण गत्वा यज्ञशालादिकं भङ्क्तवा पश्चान्मूलरूपेण गत्वा दक्षमवधीत् तत्राप्युपेन्द्रेण हरिणा धर्मपुत्रेण हरिणा च जितः शिवोऽन्यान् तत्र स्थितान् जित्वा कैलासमगमदिति । तदुक्तम् ‘वीरभद्राख्यरूपेण स्वेन पूर्वं ययौ हरः । मूलरूपेण पश्चात् तु गत्वा दक्षमथावधीत् ॥ तत्रोपेन्द्रेण हरिणा जितो धर्मात्मजेन च । अन्यान् जिगाय प्रययौ कैलासं स्वनिकेतनम् ॥’ इति ॥ २६ ॥
॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुकृतायां
चतुर्थस्कन्धे षष्ठोऽध्यायः ॥
प्रकाशिका
मन्त्रादिबन्धात्पुनरेवं तच्छिरःसन्धानं करिष्यतीत्याशयेनैतच्छिरो दग्धमित्याह ॥ जुहावेति । देवयजनं यज्ञं विनाश्य दग्ध्वा तत्रत्यान्सर्वान् । जित्वेति यावत् । गुह्यकालयं कैलासम् । अत्र दृष्ट्वा संज्ञपने योगं पशूनां पतिरित्येतदुक्तरीत्या रुद्रमूलरूपपरतयैव योज्यम् । न वीरभद्र-परतयेत्याशयेनात्र प्रमाणसंवादमाह ॥ वीरभद्रेति । ययौ दक्षाध्वरदेशमिति शेषः । तुशब्दोऽवधारणे । मूलरूपेणैव । तद्देवयजनं दग्ध्वेत्यनेन तत्रत्यसर्वजयः प्रतीयते । तत्रोपेन्द्रस्य धर्मपुत्रस्य नारायणस्य च सत्त्वात्तदुभयजयो बाधितोऽतस्तदतिरिक्तसर्वजय एव व्याख्येय इत्याशयेन प्रमाणशेषं पठति ॥ तत्रेति । धर्मात्मजेन नरसखेन नारायणेन जितः पराजितः । गुह्यकालयमित्यस्य तात्पर्यम् ॥ कैलासमिति । तत्रापि प्रदेशविशेषसूचनाय ॥ स्वं निकेतनमिति ॥ २६ ॥
**॥ इति श्रीमद्वेदेशपूज्यपादशिष्येण यदुपतिना विरचितायां **
श्रीमद्भागवतटिप्पण्यां चतुर्थस्कन्धे षष्ठोऽध्यायः ॥ ३ ॥