०५ पञ्चमोऽध्यायः

इत्यध्वरे दक्षमनूद्य शत्रुहन्

अथ पञ्चमोऽध्यायः

मैत्रेय उवाच—

इत्यध्वरे दक्षमनूद्य शत्रुहन्

क्षितावुदीचीं निषसाद शान्तवाक्

स्पृष्ट्वा जलं पीतदुकूलसंवृता

निमील्य दृग् योगपथं समाविशत् ॥ १ ॥

पदरत्नावली

एवं देहत्यागस्यायत्नसाध्यत्वेऽपीतिकर्तव्यतायाः फलाधिक्यं स्यादिति सूचनाय योगिजनशिक्षणाय च देहत्याग इतिकर्तव्यतां दर्शयत्यस्मिन्नध्याये– इतीति ॥ उदीचीं दिशमुद्दिश्य क्षितौ निषसादेत्यन्वयः । धूमाद्यध्वनि रमयतीति अध्वरस्तस्मिन् यज्ञे, स्पृष्ट्वा आचम्य, पीतं च तद् दुकूलं च तेन संवृता छन्ना । दृग् दृशौ निमील्य निमीलनयुक्तदृग् वा योगपथं देहोत्क्रमणयोगमार्गम् ॥ १ ॥

प्रकाशिका

अध्वरे यज्ञसदसि दक्षं प्रत्यनूद्य । तदीयदोषानिति शेषः । उदीचीं दिशमुद्दिश्य । उदङ्मुखीति यावत् । क्षितौ निषसादेत्यन्वयः । हे शत्रुहन् बाह्यान्तरशत्रुघातिन् । शान्तवाग्गृहीतमौना । जलं स्पृष्ट्वाऽऽचम्य पीतदुकूलेन संवृता छन्ना सती । दृक् दृशौ निमील्य निमीलनयुक्तदृग्वा योगपथं देहोत्क्रमणमार्गम् ॥ १ ॥

कृत्वा समानावनिलौ जितासना

सोदानमुत्थाप्य च नाभिचक्रतः ।

शनैर्हृदि स्थाप्य धियोरसि स्थितं

कण्ठाद् भ्रुवोर्मध्यमनिन्दिताऽनयत् ॥ २ ॥

पदरत्नावली

तं विवृणोति– कृत्वेति ॥ जितासना प्राणादिसंचारवेगेन देहसंचलनरहिता, अत एवानिन्दिताऽकुत्सिता सा सती प्रथमं रेचकपूरके कृत्वाऽनिलौ प्राणापानौ समानौ ऊर्ध्वाधोवृत्तिरहितौ कृत्वा एकविषयगती विधाय, मूलाधारादुत्क्रमणकर्तारं सुषुम्नासंचारिणमुदानमुत्थाप्योर्ध्वमुखं कृत्वा नाभिचक्रमानीय, ततो नाभिमण्डलाद् धिया निश्चलबुद्ध्या, शनैरुद्वेगं विना हृदि स्थाप्य, उरःस्थितं वायुं कण्ठं नीत्वा, कण्ठाद् भ्रुवोर्मध्यमनयदित्यन्वयः । यद्वा सर्वसंधिसंचारिणं वायुं व्यानमूर्ध्वाधो-गतिनिमित्तौ प्राणापानौ समानवायुनैकीकृत्य तं समानं वायुं सोदानमुदानगत्या सहितमुदानेनैकी-कृत्योपर्युपरि स्थानं जीवेन सहानयदिति । अत्र द्रव्यनयनशक्तिमता वायुना जीवद्रव्यनयनं, न तु तन्मात्रं, तस्य योगिनो नित्याभ्यस्तत्वात् ॥ २ ॥

प्रकाशिका

तमेव विशदयति ॥ कृत्वेति । जितासना देहचलनरहिता सती । अनिलौ प्राणापानावूर्ध्वाधोवृत्तिकरौ । समानौ तद्रहितावेकरूपौ नाभिचक्रे कृत्वा तत उदानं सुषुम्ना-संचारिणमुत्थाप्य शनैर् उद्वेगं विना धिया योगमार्गज्ञानेन हरिबुद्ध्या वा उरसि स्थाप्य ह्रदिस्थितं कण्ठात् कण्ठमार्गेण भ्रुवोर्मध्यमनयत् ॥ २ ॥

एवं स्वदेहं महतां महीयसा

मुहुः समारोपितमङ्कमादरात् ।

जिहासती दक्षरुषा मनस्विनी

दधार गात्रेष्वनिलाग्निधारणम् ॥ ३ ॥

पदरत्नावली

एवं भ्रुवोर्मध्यमनिलमानीय स्वयमपि भ्रुवोर्मध्ये स्थिता किं चकारेति तत्राह– एवमिति ॥ एवमुक्तप्रकारेण वायुं भ्रूमध्यं नीत्वा स्वयं च तत्र स्थिता मनस्विनी वशीकृतमना महतामिन्द्रादीनां महीयसा महत्तमेन रुद्रेण आदरान् मुहुः शश्वदङ्कमारोपितं स्वदेहं जिहासती त्यक्तुमिच्छती सा उमा गात्रेषु करचरणाद्यवयवेषु अनिलाग्निधारणं देहभस्मीकरणाय वाय्वग्न्युत्पत्तिलक्षणं ध्यानं दधार चकार । अनेकार्थत्वाद् धातूनाम् । दक्षरुषेत्यनेनात्महत्यादोषं मार्ष्टि ॥ ३ ॥

प्रकाशिका

महतामिन्द्रादीनां महीयसा महत्तमेन रुद्रेणादरान्मुहुः शश्वदंकमारोपितं स्वदेहम् । अनेन तद्देहस्य त्यागायोग्यत्वं दर्शयति । जिहासती त्यक्तुमिच्छती सा सती दक्षरुषा दक्षविषयककोपेन मदीयदेहसंस्कारायापि तदीययत्नो मास्त्विति बुद्ध्या गात्रेषु करचरणाद्यवयवेषु स्वदेहभस्मीकरणाया-निलाग्निधारणं वाय्वग्निस्थतन्नामकहरिध्यानं दधार चकार ॥ ३ ॥

ततः स्वभर्तुश्चरणाम्बुजासवं

जगद्गुरोश्चिन्तयती न चापरम् ।

ददर्श देहे हतकल्मषा सती सद्यः

प्रजज्वाल समाधिजाग्निना ॥ ४ ॥

तात्पर्यम्

न चापरं तस्मादवरं न चिन्तयती । परन्तु विष्ण्वादिकं चिन्तयती चशब्दात् । ‘रुद्रं च ब्रह्मवायू च विष्णुं चैव श्रियं गिरम् । उमा चिन्तयती देहं तत्याजान्यं न चास्मरदि’ति तत्त्वनिर्णये ॥ ४ ॥

पदरत्नावली

ननु वाय्वग्निध्यानं देहत्यागानन्तरं चेदुत्क्रान्तस्य वायोरनावृत्तेरग्निसंयोगा-भावेनाभीष्टकार्यानुत्पत्तिः । पूर्वं चेदात्मनोऽपि नाशसम्भवात् स चानुपपन्नश् चेतनस्य नित्यत्वेना-नाशादित्याशङ्क्य समसमयत्वेनोपपत्तेरिति भावेनाह– तत इति ॥ वाय्वग्निधारणानन्तरं सा सती ज्ञानोपदेष्टृत्वेन जगतां गुरोराचार्यस्य स्वभर्तुः शिवस्य चरणयोर्ध्यानेनोत्पन्नमानन्दलक्षणमासवं मधु चिन्तयत्यास्वादयन्ती, अपरं तस्मादन्यं न चिन्तयती, चशब्दात् परं विष्ण्वादिकं चिन्तयती, स्वदेहे विष्ण्वादिकं ददर्श, देहं च तत्याजेति वाक्यशेषः । देहत्यागस्यान्यथानुपपत्त्या सिद्धत्वादध्या-हृत्यान्वीयत इत्यदोषः । ‘रुद्रं च ब्रह्मवायू च विष्णुं चैव श्रियं गिरम् । उमा चिन्तयती देहं तत्याजान्यं न चास्मरन् ॥’ इति वचनाच्चाध्याहारः प्रामाणिक इति प्रतीयते । तत इत्यनुवर्तते । ततो देहत्यागानन्तरं सद्यस्तत्क्षण एव पादादिक्रमेणैव समाधिजाताग्निना देहः प्रजज्वाल । अनेन मृतदेहसंस्कारोऽपि न पित्रादिना कार्य इति ध्वनयति । हतकल्मषेत्यनेन विष्ण्वादिदर्शनानन्तरं पितृकोपनिमित्तकिल्बिषमपि नष्टमिति सूचयति । यद्वा दर्शनस्य अन्यथात्वं द्योत्यते । दोषादन्यथाज्ञानं जायते, न चास्याः सोऽस्तीत्यर्थः ॥ ४ ॥

प्रकाशिका

ततो वाय्वग्निधारणानन्तरं सती ज्ञानोपदेष्टृत्वेन जगत इन्द्रादेर्गुरोराचार्यस्य स्वभर्तुः शिवस्य चरणांबुजासवं तद्ध्यानजनितानन्दरूपं मकरन्दं चिन्तयत्यास्वादयती देहे स्वमनस्यपरमवरं न ददर्श । ततो हतकल्मषा ध्यानपूर्वकदेहत्यागलक्षणप्रायश्चित्तेनापगतगुरुनिन्दाश्रवणजनितदोषा । जातेति शेषः । देहं तत्याजेति वाक्यशेषः । देहश्च सद्यस्त्यागानन्तरमेव वाय्वग्निध्यानरूपसमाधिना जातो योऽग्निस्तेन प्रजज्वाल प्रज्वलितोऽभूत् । शिवादपरं न चिन्तयतीत्युक्त्या विष्ण्वादिचिन्तनमपि तस्या निषिद्ध्यत इति भाति । अतोऽत्र विवक्षितमर्थं दर्शयति ॥ न चेति । तथा चापरशब्दोऽवरपरोऽत्र विवक्षितो न त्वन्यपर्याय इत्यर्थः । कुत इत्यतोऽत्र चशब्दसूचितमर्थं दर्शयति ॥ परं त्विति । उत्तम-मित्यर्थः । चशब्दादुत्तमं चिन्तयतीति अवगम्यत इति शेषः । अन्यथा चशब्दो व्यर्थः स्यादिति बाधक-मनेनोक्तमिति ज्ञातव्यम् । अत्र प्रमाणसंवादमपि दर्शयति ॥ रुद्रं चेति । अत्र रुद्रशब्देन शेषगरुडा-वप्युपलक्षणीयौ । गिरं सरस्वतीं चेत्येतानेव चिन्तयती । अन्यं नीचं न चास्मरत् । स्वामित्वेन नैव ध्यातवतीत्यर्थः । ततश्च मूले चशब्दोऽनुक्तसमुच्चायकः । तेन विष्ण्वादिचरणांबुजमपि चिन्तयती । अपरं नीचमिन्द्रादिकं स्वस्वामित्वेन न चिन्तितवती । विष्ण्वादीन्देहे मनसि ददर्शेति व्याख्यानं सूचयति

॥ ४ ॥

तत् पश्यतां खे भुवि चाद्भुतं महत्

हाहेति वादः सुमहानजायत ।

हन्त प्रिया देवतमस्य देवी

जहावसून् केन सती प्रकोपिता ॥ ५ ॥

पदरत्नावली

एवं जगत्सुन्दरदेहत्यागे कस्याप्यन्तःकरणे खेदो नाभूत् किम् ? तत्राह– तत् पश्यतामिति ॥ ५ ॥

प्रकाशिका

तद्देहत्यागमद्भुतं पश्यतामभवत् । खे भुवि च विद्यमानानां पश्यतां जनानाम् । तमेवाह ॥ हन्तेति । हन्तेति विषादे । देवतमस्य पूज्यतमस्य प्रिया । केन दक्षेण ॥ ५ ॥

अहो त्वनार्यं१ महदस्य पश्यत

प्रजापतेर्यस्य चराचराः प्रजाः ।

जहावसून् यद्विमताऽऽत्मजा सती

मनस्विनी मानमभीक्ष्णमर्हती ॥ ६ ॥

पदरत्नावली

किमनेन सिद्धानुवादेन एकत्र दोषानारोपणेनेति तत्राह– अहो इति ॥ अनात्म्यं मूर्खकर्म । अहो त्वनार्यमिति पाठे अन्याय्यमित्यर्थः । चराचाराः प्रजा यस्य वशे, यस्य सन्ततिप्रसूता इति वा ॥ ६ ॥

प्रकाशिका

अनार्यं मूर्खकर्म । अनात्म्यमिति पाठे जाड्यमित्यर्थः । प्रजापतेर्दक्षस्य । चराचराः प्रजा यस्य वशे यस्य सन्ततिप्रसूता इति वा । यद्विमता येनावज्ञाता ॥ ६ ॥

सोऽयं दुर्मर्षहृदयो ब्रह्मबन्धु-

र्लोकेऽपकीर्तिं महतीमवाप्स्यति२ ।

यदङ्गजां स्वां पुरुषद्विडुद्यतां

न प्रत्यषेधन्मृतयेऽपराधतः ॥ ७ ॥

पदरत्नावली

ननु कथमेतदनार्यमभूदित्याशङ्क्य तस्य लोकविद्विष्टफलदर्शनादित्याह– सोऽयमिति ॥ य एतादृशमनार्यमकार्षीत् सोऽयं दुर्मर्षहृदयो दुःसहहृदयः, अत एव ब्रह्मबन्धु-र्द्विजाधमः, ब्राह्मणानां मृदुहृदयत्वात् । अथ अद्यप्रभृति । तस्मादिति हेत्वर्थो वा, यद् यस्मादित्यनेन सम्बध्यते । पुरुषं शिवं द्वेष्ठीति पुरुषद्विट् । तत्पुरुषायेति श्रुतेः । अनेन विष्णुद्वेषमपि ध्वनयति, पुरुषो विष्णुरुच्यत इति श्रुतेः । मृतये मरणायोद्यतां प्रयतमानाम् ॥ ७ ॥

प्रकाशिका

य एतादृशमनार्यमकार्षीत्सोऽयं दुर्मर्षहृदयो दुःसहचित्तोऽत एव ब्रह्मबन्धुर्द्विजाधमः पुरुषं शिवं द्वेष्टीति पुरुषद्विट् स्वां स्वीयामङ्गजां सुतामपराधतः स्वकर्तृकावज्ञानरूपान्मृतये मरणायोद्यतां प्रयतमानां न प्रत्यषेधन्न निवारितवान् ॥ ७ ॥

दक्षस्तु दृष्ट्वा दुहितुः स्वनिमित्तं विनाशनम् ।

बह्वतप्यत घोरेण मयाऽसाधु कृतं बत ॥ ८ ॥

पदरत्नावली

शिवद्वेषग्रहग्रस्तो दक्षो पुत्रीमरणं दृष्ट्वा किमकृतेति तत्राह– दक्षस्त्विति ॥ ८ ॥

प्रकाशिका

घोरेण क्रोधाविष्टेन ॥ ८ ॥

धिङ् मामविजितात्मानं निर्गुणं निरपत्रपम् ।

योऽहं स्वीकृत्य मृतकं व्यर्थमेनो महीयसि ॥ ९ ॥

पदरत्नावली

निर्गुणं शमादिगुणहीनम् । मृतकं देहम् । महीयसि महादेवे । एनोऽपराध-मकार्षमित्यन्वयः ॥ ९ ॥

प्रकाशिका

निर्गुणं शमादिगुणरहितम् । मृतकं मरणस्वभावं देहम् । महीयसि रुद्रे एनोऽपराधमकार्षम् ॥ ९ ॥

वदत्येवमजे सत्या दृष्ट्वाऽसुत्यागमद्भुतम् ।

दक्षं सुपार्षदा हन्तुमुदतिष्ठन्नुदायुधाः ॥ १० ॥

तेषामापततां वेगं निशाम्य भगवान् भृगुः ।

यज्ञघ्नघ्नेन यजुषा दक्षिणाग्नौ जुहाव ह ॥ ११ ॥

पदरत्नावली

सहमरणयोग्या भूतगणास्तदा किमकार्षुरिति तत्राह– वदतीति ॥ अजे दक्षे । सत्या देव्या असुत्यागं प्राणवियोगलक्षणम् ॥ दक्षादपि भृगोः शिवद्वेषो महानिति भावेन भूतगण-शक्तिह्रासोपायं होमं वक्ति– तेषामिति ॥ यज्ञघ्ना ये यज्ञविनाशकास्तान् हन्तीति यज्ञघ्नघ्नस् तेन यजुषा ‘येनोरसिं दुस्तरितासो हृन्मतासो अनृतं वयन्तः । तेषां वपूंष्यर्चिषा जातवेद शुष्कं न वृक्षमुत संदहस्व ॥’ इत्यादि यजुर्मन्त्रेण ॥ १०, ११ ॥

प्रकाशिका

यज्ञघ्ना यज्ञविनाशकास्तान्हन्तीति यज्ञघ्नघ्नस्तेन यजुषा अपहता रक्षांसि इत्यादिना

॥ ११ ॥

अध्वर्युणा हूयमाने देवा उत्पेतुरोजसा ।

ऋभवो नाम तपसा सोमं प्राप्ताः सहस्रशः ॥ १२ ॥

तैरलातायुधैः सर्वे प्रमथाः सहगुह्यकाः ।

हन्यमाना दिशो भेजुरुशद्भिर्ब्रह्मतेजसा ॥ १३ ॥

पदरत्नावली

ततः किमभूद् ? अत्राह– अध्वर्युणेति ॥ सोमं सोमभागम् ॥ अत्र ब्राह्मण-शक्तिरेव बलीयसीति ध्वनयन्नेतैर्देवैर्भूतगणानां पराभवं वक्ति– तैरिति ॥ अलातानि उल्मुकान्येवायुधानि येषां ते तथोक्तास्तैः । ब्रह्मतेजसा भृगुमन्त्रप्रभावेन । उशद्भिर्भृगोः संकल्पं कर्तुमिच्छद्भिरित्यर्थः

॥ १२, १३ ॥

॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुकृतायां

चतुर्थस्कन्धे पञ्चमोऽध्यायः ॥

प्रकाशिका

ये तपसा सोमं प्राप्ता ऋभवो नाम देवास्ते ओजसा सामर्थ्येन । ब्रह्मतेजसा ब्राह्मणसामर्थ्येनोशद्भिर्भृगोरिष्टं कर्तुमिच्छद्भिर्देदीप्यमानैरिति वा ॥ १३ ॥

**॥ इति श्रीमद्वेदेशपूज्यपादशिष्येण यदुपतिना विरचितायां **

श्रीमद्भागवतटिप्पण्यां चतुर्थस्कन्धे पञ्चमोऽध्यायः ॥ ४-५ ॥