एतावदुक्त्वा विरराम शङ्करः
अथ चतुर्थोऽध्यायः
मैत्रेय उवाच—
एतावदुक्त्वा विरराम शङ्करः
पत्न््नयङ्गनाशं ह्युभयत्र चिन्तयन् ।
सुहृद्दिदृक्षुः परिशङ्किता भवान्नि-
ष्क्रामती निर्विशती द्विधा च सा ॥ १ ॥
पदरत्नावली
हरौ भक्तिविधानार्थं गुर्वादावापि भक्तिरवश्यं कर्तव्येत्यभिप्रेयतेऽस्मिन्नध्याये । तत्र देवीमेवं बाधकं ब्रुवन् शङ्करः किं चकारेति तत्राह– एतावदिति ॥ शं सुखं करे यस्य सः, शं करोतीति वा शङ्करः । उभयत्र प्रस्थापने निवारणे च पत्न््नया अङ्गनाशं शरीरनाशं हि यस्माद् विरराम । ततस्तु देवी किमकरोदिति तत्राह– सुहृद्दिदृक्षुरिति ॥ सा देवी सुहृद्दिदृक्षुः स्वधाम्नो निष्क्रामती भवात् परिशङ्किता स्वधाम निर्विशती चाभूदित्यन्वयः ॥ १ ॥
प्रकाशिका
उभयत्रानुज्ञादाने बलान्निवारणे च । सुहृद्दिदृक्षुः स्वधाम्नो निष्क्रामतीति भवात्परि-शङ्किता स्वधाम पुनर्निर्विशतीति वाऽभूदित्यन्वयः ॥ १ ॥
सुहृद्दिदृक्षाप्रतिघातदुर्मनाः
स्नेहाद्रुदन्त्यश्रुकलातिविह्वला ।
भवं भवान्यप्रतिपूरुषं रुषा
प्रधक्षतीवैक्षत जातवेपथुः ॥ २ ॥
पदरत्नावली
अन्तःकरणवृत्तिभेदाद् द्विधा प्रवृत्तिमती भवानी किमकृतेत्याशङ्क्य तस्या भर्तुः कामजनकमन्त्रौषधैः स्त्रीस्वभावं वक्ति– सुहृद्दिदृक्षेति ॥ सुहृद्दिदृक्षायाः प्रतिघातो भङ्गस्तेन दुर्मना दुःखितमना अप्रतिपूरुषं प्रतिपक्षपुरुषरहितम् । अनेन कोपरोदनाभ्यां वशीकरणमन्त्राभ्यां शिवोऽभिमतानुमतिप्रदः स्यादिति भावो दर्शितः ॥ २ ॥
प्रकाशिका
सुहृदां दिदृक्षायाः प्रतिघातेन निवारणेन दुर्मनाः । अश्रूणां कलाभिर्लेशैरति-विह्वला व्याकुलाऽप्रतिपूरुषमिन्द्रादिषु स्वस्वसमपुरुषरहितं प्रधक्षतीव भस्मीकरिष्यतीव रुषा जातो वेपथुः कंपा यस्याः सा । अनेन स्त्रियः पुरुषवशीकरणसाधनाभ्यां कोपरोदनाभ्यां शिवो गमनेऽनुज्ञां दास्यतीति तस्या भावः सूचित इति ज्ञातव्यम् ॥ २ ॥
ततो विनिःश्वस्य सती विहाय तं
शोकेन रोषेण च दूयता हृदा ।
पित्रोरगात् स्त्रैणविमूढधीर्गृहान्
प्रेम्णाऽऽत्मनो योऽर्धमरासत प्रियः ॥ ३ ॥
पदरत्नावली
अनेनापि भावेन स्तिमितसमुद्रवत् स्थितं शिवं दृष्ट्वा तद्गमनप्रकारं वक्ति– तत इति ॥ दूयता तापवता सर्वेश्वर्या एवंभावः कथमित्यत उक्तम्– स्त्रैणेति ॥ स्त्रीणां स्वभावः स्त्रैणं, तेन विमूढा धीर्यस्याः सा तथा । अज्ञस्त्रियाः स्वभाव एवायं न तु देवस्त्रिया इति भावेनाह– प्रेम्णेति ॥ आत्मन इति पदं द्विरावर्तनीयं स्वस्य शरीरस्यार्धमरासत अदत्त । रासृ दान इति धातुः ॥ ३ ॥
प्रकाशिका
दूयता दुःखवता । कथंभूतम् । यः प्रीत्याऽऽत्मनः स्वस्यात्मनो देहस्यार्धं तस्यै अरासतादात् । आत्मन इति द्विरावर्तनीयम् । त्यागे हेतुः स्त्रीणां स्वभावः स्त्रैणं तेन विमूढा धीर्यस्याः सा ॥ ३ ॥
तामन्वगच्छन् द्रुतविक्रमां सती-
मेकां त्रिनेत्रानुचराः सहस्रशः ।
सपार्षदमुख्या मणिमन्मदादयः
पुरोवृषेन्द्रास्तरसाऽऽगतव्यथाः ॥ ४ ॥
पदरत्नावली
स्वशरीरार्धदो हरस्तस्या एकस्या गमनं कथमसहतेत्याशङ्क्य तद्भाव-विदामनुचराणां गमनप्रकारं वक्ति– तामन्विति ॥ द्रुतं विक्रमः पादविक्षेपो यस्याः सा तथा ताम् । केचनानुचरा अन्वगच्छन् न तु मुख्या इत्यत उक्तम्– मणिमन्मदादय इति ॥ पार्षदेषु मुख्यैः सह वर्तमानाः सपार्षदमुख्याः । आगतव्यथाः स्वस्ति स्यादस्वस्ति वेति प्राप्तमनोदुःखाः ॥ ४ ॥
प्रकाशिका
द्रुतविक्रमां द्रुतं शीघ्रं विक्रमः पादविक्षेपो यस्यास्ताम् । पार्षदमुख्यैः सह वर्तमानाः सपार्षदमुख्याः । मणिमान्मदश्चादिर्येषां ते । पुरः पुरतो वृषेंद्रो येषाम् । रुद्रातिक्रमणेन गमनादागतव्यथाः । गतव्यथा निर्भया इति वा ॥ ४ ॥
तां सारिकामण्डुकदर्पणाम्बुजैः
श्वेतातपत्रव्यजनस्रगादिभिः ।
गीतायनैर्दुन्दुभिशङ्खवेणुभि-
र्वृषेन्द्रमारोप्य विलम्बिता१ ययुः ॥ ५ ॥
पदरत्नावली
शीघ्रतरं गच्छन्त्या रुद्राण्याः पाशाकृष्टैरिव गच्छद्भिरनुचरैः किमभूदित्याशङ्क्य राज्ञीगमनवदन्वितयात्राऽभूदित्याह– तां सारिकेति ॥ सारिका क्रीडाशुकी । मण्डुकं जलक्रीडावाद्यम् । विलम्बिता यथा सम्भूय गमनं स्यात् तथा शनैश्चरन्तः । विटंकिता इति पाठे शृङ्गारिता इत्यर्थः ॥५॥
प्रकाशिका
सारिका क्रीडाशुकी मण्डुकं जलक्रीडावाद्यं गीतायनैर्गीताश्रयैः । विलम्बिता यथा सर्वेषां सम्भूय गमनं यथा तथा शनैश्चरन्तः । विटंकिता इति पाठे शोभिता इत्यर्थः ॥ ५ ॥
आब्रह्मघोषोर्जितयज्ञवैशसं विप्रर्षिजुष्टं विबुधैश्च सर्वशः ।
मृद्दार्वयःकाञ्चनदर्भचर्मभिर्निसृष्टभाण्डं यजनं समाविशत् ॥ ६ ॥
पदरत्नावली
एवं भर्तृप्रेषितानुचरसूचितस्नेहात् शान्तमनस्कत्वेन पश्चान्नागता, किन्तु पुरत एव गत्वा सा यज्ञवाटमाविशदित्याह– आब्रह्मेति ॥ आ समन्ताद् ब्रह्मघोषेण वेदध्वनिना ब्रह्मलोकपर्यन्त-गामिना ध्वनिना वा ऊर्जितं संकुलं यज्ञार्थं वैशसं पशुसंज्ञपनं पशुहिंसनं यस्मिन् तत् तथा । मृच्च दारु च अयश्च काञ्चनं च दर्भाश्च चर्माणि च तैर्निसृष्टानि निर्मितानि भाण्डानि यस्मिंस्तत् तथा ॥ ६ ॥
प्रकाशिका
आसमन्ताद्ब्रह्मघोषेण वेदध्वनिनोर्जितम् । जुष्टं संकुलमिति यावत् । यज्ञार्थं वैशसं पशुविशसनं यस्मिंस्तत् । मृच्च दारुचायश्च काञ्चनं च दर्भाश्च चर्माणि च मृद्दार्वयः काञ्चनदर्भचर्माणि तैर्निसृष्टानि निर्मितानि भाण्डानि पात्राणि यस्मिंस्तत्तथा । यजनं यज्ञस्थानम् ॥ ६ ॥
तामागतां तत्र न कश्चनाद्रियद्
विमानितां यज्ञकृतो भयाज्जनः ।
ऋते स्वसारो जननीं च सादराः
प्रेमाश्रुकण्ठ्यः परिसस्वजुर्मुदा ॥ ७ ॥
पदरत्नावली
तस्या अवज्ञाकरणप्रकारमाह– तामागतामिति ॥ यज्ञकृतो दक्षस्य । कश्चनेत्यस्य व्यावृत्तिमाह– ऋत इति ॥ स्वसारः स्वसृः । तत्स्नेहः कुतोऽवगत इति तत्राह– सादरा इति ॥ सानुरागाः ॥ ७ ॥
प्रकाशिका
नाद्रियन्नादृतवान् । यज्ञकृतो दक्षस्य भयात् । तत्र हेतुस्तेन विमानिताम् । स्वसॄर्जननीं च ऋते विना । तास्तु सादराः परिषस्वजुरालिङ्गितवत्यः । प्रेमाश्रुभिर्निरुद्धः कण्ठो यासाम्
॥ ७ ॥
सौन्दर्यसम्प्रश्नसमर्थवार्तया
मात्रा च मातृष्वसृभिश्च सादरम् ।
दत्तां सपर्यां वरमासनं च सा
नादत्त पित्राऽप्रतिनन्दिता सती ॥ ८ ॥
पदरत्नावली
सती प्रत्यालिङ्गनादिकं किं कृतवती ? नेति भावेनाह– सौन्दर्येति ॥ प्रधानावज्ञा दुःसहेति भावेनाह– पित्रेति ॥ अप्रतिनन्दिता अकृतमनःसन्तोषा ॥ ८ ॥
प्रकाशिका
सौन्दर्यमङ्गकौशल्यं तद्विषयको यः प्रश्नः । सौदर्येति पाठे सोदर्यविषयकोऽयं संप्रश्न इति व्याख्येयम् । तत्र समर्था योग्या या वार्ता तया सह सपर्यां सा सती नादत्त न गृहीतवती वार्तां च नाशृृणोदित्यर्थः । यतः पित्राऽप्रतिनिन्दिताऽनादृता ॥ ८ ॥
अरुद्रभागं तमवेक्ष्य चाध्वरं
पित्रा च देवे कृतहेलनं विभौ ।
अनादृता यज्ञसदस्यधीश्वरी
चुकोप लोकानिव धक्ष्यती रुषा ॥ ९ ॥
पदरत्नावली
ततः किमकरोदिति तत्राह– अरुद्रभागमिति ॥ न रुद्रस्य भागो यस्मिन् स तथा तम् । कृतहेलनं कृतावज्ञम् ॥ ९ ॥
प्रकाशिका
न विद्यते रुद्रस्य भागो यस्मिंस्तम् । देवे रुद्रे कृतहेलनमवज्ञानं चावेक्ष्य तदाज्ञाद्यकरणात्स्वयं चानादृता ॥ ९ ॥
जगर्ह सामर्षविपन्नया गिरा
शिवद्विषं धूमपथश्रमस्मयम् ।
स्वतेजसा भूतगणान् समुत्थितान्
निगृह्य देवी जगतोऽभिशृण्वतः ॥ १० ॥
पदरत्नावली
अधीश्वर्या कुपितमित्यत्र किं लिङ्गम् ? अत्राह– जगर्हेति । अमर्षेण विपन्नया गद्गदभावं प्राप्तया । धूमपथः कर्ममार्गस् तद्विषये श्रमः शिक्षा स्मयो गर्वो यस्य स तथा तं कर्ममार्गेऽति-निष्णातमित्यर्थः । स्वतेजसा स्वप्रभावेन निगृह्य निवार्य ॥ १० ॥
प्रकाशिका
जगर्ह निन्दितवती । अमर्षेण कोपेन विपन्ना सम्यगव्यक्ता तया । गद्गदयेति यावत् । धूमपथः कर्ममार्गस्तद्विषये श्रमोऽभ्यासो यस्य स तथा तम् । स्वतेजसा स्वसामर्थ्येन कोपेन निगृह्य निवार्य ॥ १० ॥
देव्युवाच —
न यस्य लोकेऽस्त्यतिशायनः प्रिय-
स्तथाऽप्रियो देहभृतां प्रियात्मनः ।
तस्मिन् समस्तात्मनि मुक्तवैरके
ऋते भवन्तं कतमः प्रतीपकः ॥ ११ ॥
पदरत्नावली
स्त्रीत्वेऽपि प्रमाणवद्युक्त्या निनिन्देत्याह– न यस्येति ॥ लोके भुवने विद्यमानानां देहभृतां शरीरिणां प्रियात्मनो मनोऽभीष्टरूपस्य यस्य रुद्रस्य योग्यतातिरेकेणातिशायनः प्रियोऽति-प्रियस्तथा अप्रियो द्वेष्यश्च नास्ति । तस्मिन् रुद्रे भवन्तमृते पुरुषाणां कतमः पुरुषः प्रतीपकः, न कोऽपीत्यर्थः । प्रतीपाकरणे हेत्वन्तरं चाह– समस्तात्मनीति ॥ विष्ण्वादीन् षड् ऋते इन्द्रादि-समस्तस्वामिनि न हि कश्चिद् विरोध्य तिष्ठति । स्वाम्यपि वैरकृच्चेत् तस्मिन् द्वेषः सम्भावित इत्यत उक्तमेव हेतुं स्मारयति– मुक्तवैरक इति ॥ वैरेत्युपलक्षणम्, प्रेमापि । विमुक्तप्रिय इत्यर्थः ॥ ११ ॥
प्रकाशिका
निन्दामेवाह ॥ न यस्येति । लोके विद्यमानानां देहभृतां शरीरिणां प्रियात्मनोऽ-भीष्टरूपस्य रुद्रस्यातिशायनो योग्यतातिरेकेणातिशायनः प्रियो द्वेष्यश्च नास्ति तस्मिन्समस्तात्मनि सर्वमनोभिमानिनि भवन्तमृते कतमः पुरुषः प्रतीपको द्वेषी न कोऽपीत्यर्थः ॥ ११ ॥
दोषान् परेषां हि गुणेष्वसाधवो
गृह्णन्ति केचिन्न भवादृशा द्विजाः ।
गुणांश्च फल्गून् बहुलीकरिष्णवो
महत्तमास्तेष्वविदद् भवानघम् ॥ १२ ॥
पदरत्नावली
तत्त्वतो भवानपि भवद्वेषं कर्तुं न योग्य इत्याह– दोषानिति ॥ केचिदसाधवो दुर्जनाः परेषामुत्तमानां गुणेषु दोषानेव गृह्णन्ति, न गुणान् । तदुक्तम् ‘दोषोऽप्येको यदि गुणगणे तत्र मुक्त्वा गुणौघान् दोषग्राही भवति हि खलः सल्लिकातुल्यधर्मा’ इति । भवादृशा महत्तमा द्विजाः फल्गून् अल्पान् गुणान् बहुलीकरिष्णवो न दोषान् गृह्णन्ति किन्तु गुणानेव । ‘दोषान् मुक्त्वा गुणमनुभवन् स्वल्पमप्येति तृप्तिं साधुर्लोके सलिलमिलितक्षीरपायीव हंसः’ इति । तत्रैवं शास्त्रे स्थिते महत्तमेषु गणितो भवान् भवद्वेषादघमविदद् लब्धवान् हि, अहो कष्टमिति शेषः । द्विजा इत्यनेन दक्षस्य शास्त्रविचारयोग्यतातिशयं सूचयति ॥ १२ ॥
प्रकाशिका
साधुस्वभावविरुद्धत्वादसाधुस्वभावत्वाच्च न त्वं साधुरित्याशयेन तदुभयस्वभावं दर्शयत्याह ॥ दोषानिति । केचिदसाधवो दुर्जनाः परेषामुत्तमानां गुणेषु सत्सु दोषानेव गृह्णन्ति । न गुणान् । भवादृशा महत्तमा द्विजाः फल्गूनल्पान्गुणान् बहुलीकरिष्णव एव न दोषान् गृह्णन्ति । तेषु महत्तमेषु गणितो भवान् गुणपूर्णे शिवेऽघमविदज्ज्ञातवान् । अतस्त्वं न साधुरित्याशयः ॥ १२ ॥
नाश्चर्यमेतद् यदसत्सु सर्वदा
महद्विनिन्दा कुणपात्मवादिषु ।
सेर्ष्या महापूरुषपादपांसुभि-
र्निरस्ततेजस्सु तदेव शोभनम् ॥ १३ ॥
पदरत्नावली
असतां योग्यो, महत्तमेष्वेकस्य तव, शिवद्वेषो ममाश्चर्यबुद्धिं जनयतीति भावेनाह– नाश्चर्यमिति ॥ कुणं कर्मफलं पिबतीति कुणपो देहः स एवात्मेति वादिनस्तेषु । असत्सु ईर्ष्यया सह वर्तमाना महतां विनिन्दाऽस्तीति यद् नैतदाश्चर्यं किन्तु तदेव महद्विनिन्दनमेव शोभन-मित्यन्वयः । कुणपात्मवादित्वं च विद्वज्जननिषेवाया अभावादित्याह– महापुरुषेति ॥ क्वचिद् विद्वज्जनसेवयाऽऽप्तशास्त्रज्ञानेन हि तत्त्वज्ञानं स्यात् । तद् द्वेषान्नास्ति । अतो युक्तं कुणपात्मवादित्वेन महद्विनिन्दनम् । भवान् नैतादृशोऽतो ममाश्चर्यबुद्धिरिति ॥ १३ ॥
प्रकाशिका
एवमसाधुत्वमुपपाद्य तत्र महद्विनिन्दनं युक्तमेवेत्याह ॥ नाश्चर्यमिति । कुणं कर्मफलं पिबतीति कुणपो देहः स एवात्मेति वादिनस्तेषु । ईर्ष्यया सह वर्तमानाः सेर्ष्या महतां विनिन्दाऽस्तीति यन्नैतदाश्चर्यं किन्तु तदेव महन्निन्दनमेव शोभनं तद्योग्यगतिसाधनम् । कथं भूतेष्व-सत्सु । महापूरुषपादपांसुभिर्निरस्ततेजस्सु । पांसुभिरित्यनन्तरमपि निन्दितैरिति शेषः । तथा च महापुरुषपादपांसवोऽपि निन्दितास्तेजो निरस्यन्ति तदा महापुरुषा निन्दिताश्चेत्किमु वाच्यमिति कैमुत्यमनेनोक्तमिति ज्ञातव्यम् ॥ १३ ॥
यद् द्व्यक्षरं नाम गिरेरितं नृणां
सकृत् प्रसङ्गादघमाशु हन्ति तत् ।
पवित्रकीर्तिं तमलङ्ध्यशासनं
भवानहो द्वेष्टि शिवं शिवेतरः ॥ १४ ॥
पदरत्नावली
महद्विनिन्दनं मया न कृतमिति वक्तुं न शक्यत इत्याह– यद् द्व्यक्षरमिति ॥ शिव इति द्वे अक्षरे यस्मिंस्तद् द्व्यक्षरम् । यस्य भगवतो यद् द्व्यक्षरं नाम तत् । सकृद् कथाप्रसङ्गाद् गिरा वागिन्द्रियेणेरितमुच्चरितं नृणामघम् अन्येन हन्तुमशक्यं दुःखम् । आशु हन्ति नाशयति । भवान् तं शिवं द्वेष्टि अहो । लुप्तक्रियायाशुचये मानिने भिन्नसेतव इत्यतो भवान् शिवेतरो लुप्तक्रियोऽशुचिः । शिवस्त्वशुचीनां पुंसामशुचिहेतुदुःखनाशनान् नित्यं शुचिरिति भावेनाह– पवित्रेति ॥ शिवनाम-कीर्तनादेकदा नष्टं दुःखं पुनर्न रोहतीति भावेनाह– अलङ्ध्येति ॥ न लङ्ख्यमन्यथाकर्तुमशक्यं तन्नामकीर्तनादुत्पन्नं शुभं प्रणष्टमशुभं चेति शासनं शास्त्रं यस्य स तथा तम् ॥ १४ ॥
प्रकाशिका
ननु रुद्रस्य महापुरुषत्वमेव कुतो येन तन्निन्दकोऽहं महापुरुषद्वेषी स्यामित्य-तस्तस्य महापुरुषत्वमुपपादयन्त्याह ॥ यद्व्यक्षरमिति द्वाभ्यां श्लोकाभ्याम् । यच्छिव इति द्वेऽक्षरे यस्मिंस्तद्व्यक्षरं नाम । तत्प्रसङ्गादन्यकथाप्रसङ्गात्सकृदेव गिरा वागिन्द्रियेणेरितमुच्चारितं नृणामघं पापमाशु हन्ति । अलङ्घ्यमन्यथाकर्तुमशक्यं शासनमाज्ञा यस्य तम् । भवान्द्वेष्टि । अतस्त्वं शिवेतरोऽ-शिवः । अनेन पापहरनामवाच्यत्वात्पवित्रकीर्तित्वादलंघ्यशासनत्वाच्च रुद्रो महापुरुष इत्युपपादितमिति ज्ञातव्यम् ॥ १४ ॥
यत्पादपद्मं महतां मनोऽलिभि-
र्निषेवितं ब्रह्मरसासवार्थिभिः ।
लोकस्य यद् वर्षति चाशिषोऽर्थिनः
तस्मै भवान् द्रुह्यति विश्वबन्धवे ॥ १५ ॥
तात्पर्यम्
ब्रह्मरसासवार्थिभिः शिष्याणां मनोऽलिभिः । ‘सनकादयो रुद्रशिष्या-स्तेषामन्ये तु योगिनः । ब्रह्मशिष्यस्तथा रुद्रो ब्रह्मा नारायणस्य चे’ति ब्राह्मे ॥ १५ ॥
पदरत्नावली
प्रेतावासेषु यो घोरैश्चिताभस्मकृतस्नान इत्यादेः श्लोकद्वयेनोत्तरं ध्वनयति– यत्पादपद्यमिति ॥ ब्रह्मरसः ब्रह्मज्ञानजन्य आनन्दः स एवासव इन्द्रियतृप्तिकरं मधु तस्यार्थना शीलं येषां ते तथोक्तास् तैर्महतां सनकादीनां मनांस्येवालयः भृङ्गास्तैर् यस्य पादपद्मं नितरां सेवितं यत् । तद् देवदत्तपादवन् निष्फलं नेत्याह– लोकस्येति ॥ आशिष अभ्युदयलक्षणाः । अनेन गुरुद्रोहित्वं तव प्राप्तमित्युक्तं भवति । ‘सनकादयो रुद्रशिष्यास्तेषामन्ये तु योगिनः । ब्रह्मशिष्यस्तथा रुद्रो ब्रह्मा नारायणस्य च’ इति विशेषवचनान् महतामित्यनेन सनकादयो गृह्यन्ते ॥ १५ ॥
प्रकाशिका
भक्तानामैहिकामुष्मिकसकलपुरुषार्थप्रदत्वाच्चायं महापुरुष इत्याशयेनाह ॥ यत्पाद-पद्ममिति । अत्र महतामित्यस्य ब्रह्मादीनामित्यर्थकत्वप्रतीतिं वारयन् ब्रह्मरसा-सवार्थिभिरित्यस्यान्वयं दर्शयति ॥ ब्रह्मरसेति । महतामित्यस्यार्थः ॥ शिष्याणामिति । ननु के ते रुद्रशिष्याः कुतश्च महतामित्यस्य संकोच इत्यपेक्षायामत्र प्रमाणं पठति ॥ सनकादय इति । रुद्रो ब्रह्मशिष्य इत्यनेन संकोचकरणमावश्यकमिति सूचयति ॥ ततश्चायं श्लोकार्थः ॥ यस्य रुद्रस्य पादपद्मं महतामितरयोगि-पूज्यानां रुद्रशिष्याणां सनकादीनां ब्रह्मरसासवार्थिभिर्ब्रह्मरसो ब्रह्मज्ञानजन्यानन्दः स एवासवो मकरंद इन्द्रियतृप्तिकरं मधु तदर्थिभिस्तस्यार्थनं शीलं येषां मनोलक्षणालिभिर्नितरां सेवितम् । अनेन मोक्ष-प्रदत्वमिति ज्ञातव्यम् । यच्चार्थिनः सकामस्य लोकस्याशिषो मनोरथान् । अत एव विश्वबन्धवे ॥१५॥
किं वा शिवाख्यमशिवं न विदुस्त्वदन्ये
ब्रह्मादयस्तमवकीर्य जटाः श्मशाने ।
तन्माल्यभस्मनृकपाल्यवसत्पिशाचै-
र्ये मूर्धभिर्दधति तच्चरणावसृष्टम् ॥ १६ ॥
तात्पर्यम्
ब्रह्मादयो ब्रह्मपुत्राः । ‘सुपर्णशेषप्राणेशब्रह्मविष्णून् गिरं श्रियम्१ । ऋते नमति नो रुद्रं क एव पुरुषार्थभागि’ति गारुडे ॥ १६ ॥
पदरत्नावली
त्वदन्ये ब्रह्मा आदिः पिता येषां ते ब्रह्मादयः सनकादयः । यो रुद्रस् तन्माल्य-भस्मनृकपाली तस्मिन् श्मशाने विद्यमानप्रेतालङ्कारमालायोग्यास्थिभस्मनरकपालवान्, जटा अवकीर्य प्रसार्य पिशाचैः सह श्मशानेऽवसदिति तं शिवाख्यमशिवं विदुः किम् ? न विदुरेव । नित्यशुद्ध इत्येव विदुः । कुत इति तत्राह– ये मूर्धभिरिति ॥ ये सनकादयस् तच्चरणावसृष्टं रजआदिकं मूर्धभिर्दधति । अनेन शिवस्याशिवत्वे ज्ञानपूर्वकं तच्चरणरजोधारणासम्भवः, तत्करणाच्च नित्यशुद्ध इति तर्कः सूचितः । मूर्धभिर्दधतीत्यनेन पुरुषार्थापेक्षया पादपांसुधारणं न त्वन्यथेति ध्वनयति । तदुक्तम्– ‘सुपर्णशेषप्राणेशब्रह्मविष्णून् श्रियं गिरम् । ऋते नमति नो रुद्रं क एव पुषार्थभाग् ॥’ इति ॥ १६ ॥
प्रकाशिका
शिवापदेशो ह्यशिवः । ननु शिवश्चिताभस्मकृतस्नानः प्रेतावासेषु यो घोरै-रित्याद्युक्तरीत्याऽयमसाधुरेव किं न स्यादित्यतस्तदाक्षिपती पुनर्महत्त्वमुपपादयति ॥ किं वेति । अत्र ब्रह्मादय इत्यस्याबाधितमर्थं दर्शयति ॥ ब्रह्मादय इति । ब्रह्मपुत्राः सनकादयः । पुत्रा इत्यन्य-पदार्थदर्शनम् । विग्रहस्तु ब्रह्माऽऽदिः कारणं पिता येषामिति द्रष्टव्यः । ननु ब्रह्मपुत्राणां सनकादीनां तच्चरणावसृष्टनिर्माल्यधारणं न पुरुषार्थभाक्त्वेन किन्तु लोकसङ्ग्रहायेति किं न स्यादित्यतोऽत्र प्रमाणं पठति । सुपर्णेति । प्राणेशो मुख्यप्राणो गिरं सरस्वतीं भारतीं चेत्येतानेव ऋते कः पुरुषार्थभाक् नो नमति । सर्वोऽप्युमादिचेतनः पुरुषार्थभाक् नमतीत्युक्त्या न सनकादीनां नमनं लोकसङ्ग्रहायेत्युक्तं भवति ॥ ततश्चायं श्लोकार्थः ॥ ये त्वदन्ये ब्रह्मादयो ब्रह्माऽऽदिर्येषामिति विग्रहेण ब्रह्मपुत्राः सनकादयः । जटा अवकीर्य श्मशाने पिशाचैः सहावसद्वसति स्म । कथम्भूतः । तन्माल्यभस्मनृकपाली तस्मिन् श्मशाने विद्यमानप्रेतालङ्कारमालाभस्मानि नृकपालानि च भूषणत्वेनास्य सन्तीति स तथोक्तः । तमशिवं शिवाख्यं शिवापदेशं न विदुः किम् । ओमिति चेत्तत्राह । ये मूर्धभिस्तच्चरणारविंदविसृष्टं विगलितमाल्यं दधति धारयन्तीति । अनेन तथात्वे भक्तिपूर्वकतद्वन्दनं तेषां न स्यादिति तर्कः सूचित इति ज्ञातव्यम् । श्मशानभस्मधारणादिकं च हर्याज्ञया क्रियमाणं तस्य शुद्धिसंपादकमित्याशयः ॥१६॥
कर्णौ पिधाय निरयाद्१ यदकल्प ईशे
धर्मावितर्यघृणिभिर्नृभिरस्यमाने ।
छिन्द्यात् प्रसह्य रुशतीमसतां प्रभुश्चेत्
जिह्वामसूनपि ततो विसृजेत् स धर्मः ॥ १७ ॥
पदरत्नावली
सभायां धर्मसङ्कटे प्राप्ते सभ्यैः कर्तव्यधर्ममाह– कर्णाविति ॥ धर्मस्यावितरि ईशे स्वामिनि अघृणिभिर्दयागुणरहितैर् नृभिरस्यामानेऽधिक्षिप्यमाणे सति सभ्यो यद्यकल्पः शिक्षितुम-समर्थस्तर्हि स्वकर्णौ पिधाय निरियात् तस्माद् देशान्निर्गच्छेत् । प्रभुश्चेदसतां रुशतीं परुषभाषिणीं जिह्वां प्रसह्य छिन्द्यात् । तत्रोभयत्र प्रभुत्वासम्भवेऽसून् वा विसृजेत् । स धर्म इत्यन्वयः ॥ १७ ॥
प्रकाशिका
महद्विनिन्दने प्राप्ते तच्छ्रोतृभिः सज्जनैरनुष्ठेयं धर्मं दर्शयति ॥ कर्णाविति । धर्मावितरि धर्मरक्षके ईशे स्वामिनि । अघृणिभिः कृपाशून्यैर्नृभिरस्यमानेऽधिक्षिप्यमाणे सति श्रोता यद्यकल्पस्तच्छिक्षणाय न समर्थस्तर्हि स्वकर्णौ पिधायाच्छाद्य तस्माद्देशान्निरयान्निर्गच्छेत् । प्रभुश्चे-च्छक्तश्चेत् । असतां निन्दकानामुशतीं परुषभाषिणीं जिह्वां प्रसह्य छिन्द्यात् । उभयाभावे तत्रासून्प्राणा-न्विसृजेदिति यत् स धर्मः । अपिशब्दो दुस्त्यजानपीत्यर्थकः ॥ १७ ॥
अतस्तवोत्पन्नमिदं कलेवरं
न धारयिष्ये शितिकण्ठगर्हिणः ।
जग्धस्य मोहाद्धि विशुद्धिमन्धसो
जुगुप्सितस्योद्धरणं प्रचक्षते ॥ १८ ॥
पदरत्नावली
अपिशब्देनेदमेव सम्भावितमिति ध्वनितं स्पष्टयति– अतस्तवेति ॥ तव वीर्यादुत्पन्नं शितिकण्ठगर्हिणो नीलकण्ठद्वेषिणः । अस्मिन्नर्थे न्यायमाह– जग्घस्येति ॥ जग्घस्य भुक्तस्यान्धसोऽन्नस्योद्धरणं वमनं प्रचक्षते वदन्ति, विद्वांस इति शेषः ॥ १८ ॥
प्रकाशिका
अतः शिवनिन्दाश्रवणवत्याः स्त्रियश्च ममान्यत्र गमनजिह्वाच्छेदनयोरसम्भवा-च्छितिकण्ठगर्हिणो नीलकण्ठनिन्दकस्य । तव वीर्यादुत्पन्नम् । अपवित्रशरीरमिति यावत् । प्रमादा-त्प्राप्तस्यापवित्रस्य त्यागं विना न स्वात्मनः शुद्धिरित्येतद्दृष्टान्तमुखेनोपपादयति ॥ जग्धस्येति । मोहादज्ञानाज्जग्धस्य भक्षितस्य जुगुप्सितस्यांधसोऽन्नस्योद्धरणं वमनमेव भक्षितुर्विशुद्धिं शुद्धिकरं प्रचक्षते विद्वांसः ॥ १८ ॥
न वेदवादाननुवर्तते मतिः
स्व एव लोके रमतो महामुनेः ।
यथा गतिर्देवमनुष्ययोः पृथक्
स्व एव धर्मे न परं क्षिपेत् स्थितः ॥ १९ ॥
पदरत्नावली
ननु ममापराधमेव वदसि, श्वशुरत्वेन गुरुं मां दृष्ट्वाऽभ्युत्थानादिकमकुर्वतस्त-स्यापराधं किं न स्मरसीति तत्राह– न वेदवादानिति ॥ ज्ञानित्वेन स्वेच्छावृत्तिविधेर्महामुनेः सर्वज्ञतमस्य शिवस्य स्व एव लोके स्वविम्बभूते प्रकाशमाने हरौ रमतो रममाणस्य तद्दर्शनसुधापानेन नित्यतृप्तस्य मतिर् वेदवादान् वर्णाश्रमप्रयुक्तान् अभ्युत्थानादिवेदविधीन् नानुवर्तते नानुसरति लौकिकविलक्षणत्वात् । तत्र दृष्टान्तमाह– यथेति ॥ यथा देवमनुष्ययोर्गतिर्मार्गः पृथक् भिन्नः । तस्मात् स्व एव धर्मे स्वविहिते धर्मे स्थितः परमन्यं न क्षिपेन् न दूषयेत् । अतस्तवैवानर्गलोऽपराध इति भावः ॥ १९ ॥
प्रकाशिका
यदुक्तं लुप्तक्रियायेति तत्प्रत्याह ॥ नेति । स्वे स्वीये स्वबिंबभूते लोके प्रकाशमाने हरावेव रमतो रममाणस्य महामुनेर्महामननशीलस्य शिवस्य मतिर्बुद्धिर्वेदवादान्विधिनिषेधरूपान्नानु-वर्तते । तस्य लोकविलक्षणधर्माधिकारित्वात् । अत्र दृष्टान्तमाह ॥ यथेति । यथा देवमनुष्य-योर्गतिर्गमनप्रकारः पृथग्भिन्नः । उपसंहरति ॥ स्व एवेति । अतः स्वीय एव स्वधर्मे स्थितः पुमान् परं स्वयोग्यधर्मानुष्ठातारं न क्षिपेन्न दूषयेत् । त्वं प्रकृते वेदवादनिरतः कथं जीवन्मुक्तधर्मपरं हरं लुप्तक्रियायेति निन्दितवानिति भावः ॥ १९ ॥
कर्म प्रवृत्तं च निवृत्तमप्युत वेदे
विविच्योभयलिङ्गमाश्रितम् ।
विरोधि तद् यौगपदेककर्तरि
द्वयं यथाऽऽब्रह्मणि कर्म नर्च्छति ॥ २० ॥
तात्पर्यम्
आब्रह्मणि ब्रह्मग्ज्ञानिनि१ । २‘आब्रह्मस्थितधीर्जीवन्मुक्तश्चेत्यभिधीयते । यस्तस्य न निवृत्तं च प्रवृत्तं कर्म चेष्यते । यत्तु देवाः प्रकुर्वन्ति स महानियमः स्मृतः । स्वर्गाद्यर्थं प्रवृत्तं स्यान्निवृत्तं मुक्तये तु यत् । स महानियमो नाम कर्म यत्त्वाधिकारिकम् । महतो नियमाद्विष्णोः प्रीत्या मुक्तौ सुखोन्नतिः । केचिन्निवृत्तमित्याहुर्महानियममप्युत ।’ इति भविष्यत्पुराणे ॥ २० ॥
पदरत्नावली
ननु ज्ञानिनः प्रवृत्तिकर्मासम्भवेऽपि निवृत्तिकर्म सम्भवतीति तत्राह– कर्मेति ॥ वेदे प्रवृत्तं निवृत्तमित्युभयलिङ्गमुभयविधलक्षणं कर्म विविच्याश्रितं प्रतिपादितम् । स्वर्गाद्यर्थं प्रवृत्तं स्यान्निवृत्तं मुक्तये तु यत्’ इति विवेकं कृत्वा कथितमित्यर्थः । ततः किम् ? तत्राह– विरोधीति ॥ तद् द्वयं यौगपद् युगपदेककालमेककर्तरि विरोधि प्रकाशतमसोरेकावस्थानवद् विरुद्धं स्यादित्यर्थः । ततश्च प्रकृते किम् ? तत्राह– तथेति ॥ द्वयमित्यनुवर्तते । यथा द्वयमेकस्मिन् कर्तरि विरुद्धत्वादुपरतं तथा आब्रह्मणि सम्यज्ज्ञानिनि जीवन्मुक्तेऽपि द्वयं कर्म नर्च्छति न प्राप्नोति । ‘‘आब्रह्मा स्थितधीर्जीव-न्मुक्तश्चेत्यभिधीयते । यस्तस्य न निवृत्तं च प्रवृत्तं कर्म चेष्यते ॥’ इति वचनात् । ब्रह्मण्यद्वितीये सद्वितीयकर्त्राश्रयं कर्म न घटत इत्यस्यानुपपत्तेरुक्त एवार्थः । नन्वबध्नन् पुरुषं पशुमित्यादिश्रुतेर्देवानामपि कर्म प्रतीते रुद्रस्यापि देवान्तर्भावात् तस्य कथं तदनर्हत्वमुच्यत इति चेदुच्यते । नास्माभिर्देवस्य कर्ममात्राभाव उच्यते । किन्तु विष्णोराज्ञया नियताधिकारिकं नियमनामकं कर्मास्त्येव, मुक्तौ सुखोद्रेकहेतुत्वात् । तदुक्तम्– ‘यत् तु देवाः प्रकुर्वन्ति स महानियमः स्मृतः । स महानियमो नाम कर्म यत् त्वाधिकारिकम् ॥ महतो नियमाद् विष्णोः प्रीत्या मुक्तौ सुखोन्नतिः । केचिन्निवृत्त-मित्याहुर्महानियममप्युत ॥’ इति । एतदपि उत वेदे विविच्येति ध्वनितम् । तस्मान् महानियमाख्य-कर्माधिकृतस्य स्थितप्रज्ञस्य त्वन्निन्दया गुणहीनत्वं नाशङ्कनीयम् । ‘यदि देवाश्च ऋष्याद्या निन्द्यन्ते यत्र कुत्रचित् । न तावता गुणैर्हीनाः स्थितप्रज्ञा हि ते मताः ॥ यथायोग्यं तु तात्पर्यं निन्दया अन्यदेव तु ॥’ इति वचनात् ॥ २० ॥
प्रकाशिका
एतदेव सम्यग्विशदयति ॥ कर्मेति । अत्र ब्रह्मणि कर्म न गच्छतीत्यसङ्गतः प्रतीयतेऽतोऽत्र विवक्षितं पदच्छेदमर्थं च दर्शयति ॥ आब्रह्मणीति । ब्रह्मज्ञानिनीत्यनेन आ सम्यग्विज्ञातं ब्रह्म येनेति मध्यमपदलोपी बहुव्रीहिरिति सूचयति । देव इति शेषः । अप्रतिपत्ति-विप्रतिपत्तिनिरासाय समग्रश्लोकतात्पर्यं प्रमाणेनैव दर्शयति ॥ आब्रह्मेति । अभिधीयते मुख्यया वृत्त्योच्यते । यो देव इति शेषः । तथा च देवेतरज्ञानिष्वाब्रह्मशब्दो न मुख्य इत्याशयः । ननु देवानामपि ‘‘यज्ञेन यज्ञमयजन्त देवा’’ इति वेदे कर्मोच्यत इत्यतस्तदुभयभिन्नं तृतीयमित्याह ॥ यत्त्विति । देवास्तु यत्कर्म कुर्वन्ति स महानियमो महानियमसंज्ञस्तृतीय इत्यर्थः । त्रयाणां कर्मणां लक्षणान्याह ॥ स्वर्गाद्यर्थमिति । स्वर्गादिकामनया क्रियमाणमित्यर्थः । कर्मेति शेषः । मुक्तये मुक्त्युद्देशेन क्रियमाणमित्यर्थः । तुशब्दोऽवधारणे । यत्त्वाधिकारिकमाधिकारिकदेवैः क्रियमाणम् । तत्र महानियमशब्दनिर्वचनं सूचयंस्तत्साध्यं फलं दर्शयति ॥ महत इति । महत इतरैः कर्तुमशक्यत्वा-न्नियमाद्विहिताचरणात् । तथा च महान् इतरैः कर्तुमशक्यो नियमो यस्मिन्निति निर्वचनं सूचयति । सुखोन्नतिर् मुक्तौ तारतम्योपेतसुखाभिव्यक्तिर्भवतीति शेषः । नन्वेवं देवानां निवृत्तकर्मकर्तृत्व-प्रसिद्धिविरोधः कथमित्यत उक्तम् ॥ केचिदिति । उतशब्दोऽवधारणे । निवृत्तमित्येवाहुरित्यन्वयः । अस्मिन्पक्षे ‘‘निष्कामं ज्ञानपूर्वं तु निवृत्त’’मिति स्मृत्युक्तं निवृत्तलक्षणं बोध्यम् । न तु मोक्षोद्देशेन क्रियमाणमिति ॥ ततश्चायं श्लोकार्थः ॥ अपि यद्यपि वेदे प्रवृत्तं निवृत्तमित्युभयलिङ्गमुभयविधलक्षणं कर्म । विविच्याश्रितं प्रतिपादितमिति ऋतं सत्यम् । ऋतं सत्यं यथा स्यात्तथाऽऽश्रितं प्रतिपादितमिति वा । स्वर्गादिमोक्षेतरकामनया क्रियमाणं कर्म प्रवृत्तं मुक्तीच्छया क्रियमाणं तु निवृत्तमिति । तथाऽपि यथा तद्वयं प्रवृत्तनिवृत्तरूपं द्वयं कर्म युगपद्भावो यौगपद्यं यौगपद्येनैकस्मिन्कर्तरि विरोध्यसम्भावितम् । किन्तु भिन्नाधिकारिकम् । एकाधिकारिणि नास्तीति यावत् । तथाऽऽब्रह्मणि आ सम्यग्विज्ञातं ब्रह्म येन स आब्रह्मा ब्रह्मज्ञानी देवस्तस्मिन्द्वयमुक्तलक्षणं प्रवृत्तं निवृत्तं च कर्म नर्च्छति न गच्छति । तस्य तदुभयभिन्नमहानियमाख्यैककर्माधिकारित्वात् । हरश्च देवोत्तमस्तत्रैवाधिकृतोऽतो लुप्तक्रियायेत्यादिकं त्वदीयनिन्दनादिकमज्ञानमूलकमित्याशयः ॥ २० ॥
मा वः पदव्यः पितरस्मदास्थिता
या यज्ञशालासनधूमवर्त्मनाम् ।
कदन्नतृप्तैरसुभृद्भिरीडिता
अव्यक्तलिङ्गा अवधूतसेविताः ॥ २१ ॥
पदरत्नावली
अनन्तरातीतग्रन्थेन रुद्रदक्षयोः पृथङ्मार्गत्वं ध्वनितं कण्ठोक्तीकरोति– मा व इति ॥ हे पितरस्मदास्थिता अस्माभिराश्रिताः, अवधूतसेविताः सनकादियोगीन्द्रैरभ्यस्ताः, अव्यक्त-लिङ्गा अन्यैरज्ञातलक्षणा अर्चिरादिमार्गलक्षणा याः पदव्यस्ता वो युष्माकं मा नैव भवन्ति । यज्ञशालायामासनेन दीक्षालक्षणेन धूमवर्त्म धूमादिमार्गाे येषां ते तथोक्ताः, तेषां युष्माकं कदन्नतृप्तैः पशुमांसलक्षणेनान्नेन अलंबुद्धिं गतैरसुहृद्भिः पशुप्राणहारिभिः पुरुषैरीडिता या धूमादिलक्षणपदव्यस्ता अस्माकं नैवेति यदतः पृथङ् मार्गत्वात् त्वन्निन्दया न रुद्रस्य गुणहीनत्वम् । अतो न तस्य दूषणमुचितमिति भावः ॥ २१ ॥
प्रकाशिका
एवं वेदोक्तोभयकर्माधिकारो देवानामस्माकं नास्तीत्युक्त्वेदानीं भवतोऽस्मदधि-कृतकर्माधिकारो नास्तीत्याह ॥ मा व इति । हे पितः । अस्मदास्थिता अस्मदधिकृता अवधूतै-रेकान्तभक्तैः सेविता अव्यक्तलिङ्गा अन्यैरज्ञातलक्षणा याः पदव्यः कर्ममार्गास्ता वो युष्माकं मा नैव योग्याः । तर्हि कीदृश्यो योग्या इत्यत आह ॥ यज्ञशालेति । यज्ञशालायामासनेन दीक्षालक्षणेन धूमवर्त्मनां धूमादिमार्गो येषां ते तथोक्तास्तेषां वो युष्माकं कदन्नेन पशुमांसभक्षणेन तृप्तैरसुभृद्भिः प्राणिभिरीडिता यास्ता एव पदव्यो वो युष्माकं योग्याः । यद्यपि दक्षो देवस्तथाऽपि प्रारब्धकर्मवशा-त्प्रवृत्तकर्मनिष्ठ इत्यभिप्रायेणेदमिति ज्ञातव्यम् ॥ २१ ॥
एतेन देहेन हरे कृतागसो
देहोद्भवेनालमलं कुजन्मना ।
व्रीडा ममाभूत् कुजनप्रसङ्गतः
तज्जन्मधिग् यन्महतामवद्यकृत् ॥ २२ ॥
पदरत्नावली
किं बहुनोक्तेनेति स्ववैराग्यमाश्रावयति– एतेनेति ॥ हरे रुद्रे कृतागसः कृतापराधस्य तव देहोद्भवेन देहाज्जातेन अत एव कुजन्मना लोके निन्दितोत्पत्तिना । कस्मादीदृशं वैराग्यं तवेत्यत आह– व्रीडेति ॥ कुत्सितश्चासौ जनश्च कुजनो भवादृशस्तस्य प्रसङ्गतो जन्यजनक-सम्बन्धकथालक्षणस्तस्मात् । कारणान्तरं चाह– तज्जन्मेति ॥ यन्महतामवद्यकृत् । मनोविप्रियकारि तज्जन्म धिक् निन्दितमित्यर्थः ॥ २२ ॥
प्रकाशिका
किं बहुनोक्तेनेमं देहं सर्वथा त्यज्याम्येवेत्याह ॥ एतेनेति द्वाभ्याम् । हरे रुद्रे कृतागसः कृतापराधस्य तव देहोद्भवेन देहाज्जातेन कुजन्मना कुत्सितोत्पत्तिना । एतेन देहेनालमलमिति द्विरुक्तिर्वैराग्योत्कर्षात् । कुत एवं तव वैराग्यमित्यत आह ॥ व्रीडेति । कुजनप्रसङ्गात् कुत्सितश्चासौ जनश्च कुजनो भवादृशस्तस्य प्रसङ्गतो जन्यजनकसम्बन्धकथालक्षणस्तस्मात् । निमित्तान्तरं चाह ॥ तज्जन्मेति । यन्महतामवद्यकृद्दुःखकारि तज्जन्म धिगित्यर्थः ॥ २२ ॥
गोत्रं त्वदीयं भगवान् वृषध्वजो
दाक्षायणीत्याह यदा सुदुर्मनाः ।
व्यपेतनर्मस्मितमाशु ताव-
दुत्स्रक्ष्य एतत्कुणपं त्वदङ्गजम् ॥ २३ ॥
तात्पर्यम्
‘यदि देवाश्च ऋष्याद्या निन्द्यन्ते यत्र कुत्रचित् । न तावता गुणैर्हीनाः स्थितप्रज्ञा हि ते मताः । यथायोग्यं तु तात्पर्यं निन्दाया अन्यदेव तु’ ॥ इति गारुडे ॥ २३ ॥
पदरत्नावली
ततः किं फलितम् ? तत्राह– गोत्रमिति ॥ वृषध्वजो भगवान् दाक्षायणी दक्षपुत्रीति त्वदीयं गोत्रं त्वन्नाम्नोपेतं नामविशेषं यदा यावत् सुदुर्मनास्त्वन्नामस्मरणमात्रेण सुतरां निषण्णमनाः । अत एव, व्यपेतनर्मस्मितमिति क्रियाविशेषणं, अपगतनर्मवचनयुक्तमन्दहासो यथा भवति तथा मां प्रत्याह वक्ष्यति, हे तात तावत् ततः पूर्वमेव त्वदङ्गजं तव शरीरादुत्पन्नं कुणपं कुत्सितशरीरमुत्स्रक्ष्य इत्यन्वयः । वृषध्वजः स्नेहवशाद् यदा दाक्षायणीति त्वदीयं गोत्रमाह तावत् तदा आशु त्वदीयद्वेषस्मरणाद् व्यपेतनर्मस्मितं सुदुर्मना भवति । अत इतःपरं तथा मा भूदिति कुणपमुत्स्रक्ष्य इति वा । मम देहत्यागस्तृणत्यागतुल्य इति द्योतनायात्मनेपदप्रयोगः ॥ २३ ॥
॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुकृतायां
चतुर्थस्कन्धे चतुर्थोऽध्यायः ॥
प्रकाशिका
स्वजन्मनो महद्दुःखकारित्वं दर्शयंत्याह ॥ गोत्रमिति । भगवान्वृषध्वजो यदाह हे दाक्षायणीति त्वदीयं गोत्रं त्वत्सम्बन्धवाचकं नामाह गृह्णाति । तदा व्यपेतनर्मस्मितमपगतनर्मवचन-युक्तमन्दहासो यथा भवति सुदुर्मना अतिदुःखितचित्तो भवति । तत्तस्मादहं त्वदङ्गजं तव शरीरा-दुत्पन्नमेतत्कुणपं कुत्सितशरीरमुत्स्रक्ष्ये ॥ अस्मिन्प्रकरणे दक्षेण रुद्रनिन्दा कृता तथा सत्या दक्षनिन्दा नन्दीश्वरेण च भृग्वादिनिन्दाकृता ते चामोघवचनाः । अतो निन्द्यानां रुद्रादीनां गुणहानिः प्राप्तेत्यतोऽत्राभिप्रायं प्रमाणेनैव दर्शयति ॥ यदीति । आदिपदेन रुद्रपार्षदानां ग्रहणम् । यत्रकुत्र-चिद्ग्रन्थे । हि यस्मात्स्थितप्रज्ञाः क्लृप्तज्ञानादिमन्तः । तर्हि निन्दायाः क्व तात्पर्यमित्यत उक्तम् ॥ यथायोग्यमिति । तात्पर्यं कल्प्यमिति शेषः । निन्दाया दोषवचनस्यान्यदेव तु । आपाततः प्रतीतार्था-दिति शेषः । यत्रोत्तमेनाधमनिन्दा क्रियते तत्राधमशिक्षायामेव तात्पर्यम् । न प्रतीतार्थे । यत्र वाऽधमेन देवाद्युत्तमनिन्दा क्रियते तत्र निन्दारूपवचनस्य तदाविष्टासुरकर्तृत्वेनामोघत्वम् । अतो न तेन निन्द्यानां गुणहानिरित्यादिरूपतात्पर्यं यथायोग्यं कल्प्यमित्यर्थः ॥ २३ ॥
**॥ इति श्रीमद्वेदेशपूज्यपादशिष्येण यदुपतिना विरचितायां **
श्रीमद्भागवतटिप्पण्यां चतुर्थस्कन्धे चतुर्थोऽध्यायः ॥ ४-४ ॥