सदा विद्विषतोरेवं कालो विवदमानयोः
अथ तृतीयोऽध्यायः
मैत्रेय उवाच—
सदा विद्विषतोरेवं कालो विवदमानयोः ।
जामातुः श्वशुरस्यापि सुमहानतिचक्रमे ॥ १ ॥
यदाऽभिषिक्तो दक्षस्तु ब्रह्मणा परमेष्ठिना ।
प्रजापतीनां सर्वेषामाधिपत्ये स्मयोऽभवत् ॥ २ ॥
पदरत्नावली
अत्र शङ्करदक्षयोर्विवादकथनव्याजेन शङ्करस्य वासुदेवचरणारविन्दस्मरणकथनेन हरेरमितमाहात्म्यमेव प्रकाश्यतेऽस्मिन्नध्याये । तत्रादावस्य वैरस्य दीर्घकालीनत्वं दक्षस्य गर्वाधिक्यं च वक्ति– सदा विद्विषतोरिति ॥ यदा दक्षः परमेष्ठिना ब्रह्मणा सर्वेषां प्रजापतीनामाधिपत्येऽभिषिक्तस्तदा तस्य स्मयो मदविशेषोऽभूदित्यन्वयः ॥ १,२ ॥
प्रकाशिका
तस्य स्मयो गर्वोऽभवत् ॥ २ ॥
इष्ट्वा स वाजपेयेन ब्रह्मिष्ठो भूय एव च ।
बृहस्पतिसवं नाम समारेभे क्रतूत्तमम् ॥ ३ ॥
पदरत्नावली
अरुद्रभागयज्ञकरणादस्य स्मयो लक्ष्यत इत्याशयेनाह– इष्ट्वेति ॥ स दक्षो नाम्ना वाजपेयेन यज्ञेन हरिमिष्ट्वा ब्रह्मिष्ठः कर्मप्रतिपादकवेदनिष्णातोऽभूदित्यन्वयः । एतच्च कुतो ज्ञातम् ? अत्राह– भूय इति ॥ यज्ञान्तरकरणात् सिद्धमित्यर्थः ॥ ३ ॥
प्रकाशिका
ब्रह्मिष्ठः कर्मप्रतिपादकवेदनिष्ठः । वाजपेयेनेष्ट्वा बृहस्पतिसवेन यजेतेति श्रुतेर् वाजपेयेन यज्ञेनेष्ट्वा बृहस्पतिसवं समारेभे ॥ ३ ॥
तस्मिन् ब्रह्मर्षयः सर्वे देवर्षिपितृदेवताः ।
आसन् कृतस्वस्त्ययनास्तप्तत्न््नयश्च सभर्तृकाः ॥ ४ ॥
पदरत्नावली
तस्मिन् यज्ञे त्रिलोक्याः संमेलनेन दक्षस्य स्मयातिशयो लक्ष्यत इत्याशयेनाह– तस्मिन्निति ॥ ४ ॥
प्रकाशिका
कृतस्वस्त्ययनाः कृतमङ्गलाः । सभर्तृका इति दक्षिणादिभिः प्रथममर्चितानामपि फलाहरणकाले पुनरर्हणमभिप्रेत्योक्तम् ॥ ४ ॥
तदुपश्रुत्य नभसि खेचराणां प्रजल्पताम् ।
सती दाक्षायणी देवी पितुर्यज्ञमहोत्सवम् ॥ ५ ॥
पदरत्नावली
ननु किमनेन प्रकृत इति तत्राह– तदुपश्रुत्येति ॥ दाक्षायणी सती देवी मिथः प्रजल्पतां खेचराणां यत् पितृयज्ञविषयवचनं तदुपश्रुत्य ॥ ५ ॥
प्रकाशिका
खेचराणां मिथः प्रजल्पतां सतां पितुर्यज्ञमहोत्सवो यस्मिंस्तद्वचनमुपश्रुत्य ॥ ५ ॥
व्रजतीः सर्वतो दिग्भ्य उपदेववरस्त्रियः ।
विमानयाना सप्रेष्ठा निष्ककण्ठ्यः सुवाससः ॥ ६ ॥
दृष्ट्वा स्वनिलयाभ्याशे लोलाक्षीर्मृष्टकुण्डलाः ।
पतिं भूतपतिं देवमौत्सुक्यादभ्यभाषत ॥ ७ ॥
पदरत्नावली
अन्तःपुरान्निर्गत्य स्वनिलयसमीपे उपदेववरस्त्रियो दृष्ट्वाऽन्तःपुरं प्रविश्य पतिमभ्यभाषतेत्यन्वयः ॥ ६,७ ॥
प्रकाशिका
तत्र व्रजतीरुपदेवानां गन्धर्वादीनां वरस्त्रियश्च ॥ स्वस्य निलयाभ्याशे गृहसमीपे दृष्ट्वौत्सुक्यात्पतिमभ्यभाषतेति त्रयाणामन्वयः । कथम्भूतास्त्रियः । विमानानि यानानि यासां ताः । प्रेष्ठैः पतिभिः सहिताः । निष्कानि पदकानि कण्ठेषु यासाम् । शोभनानि वासांसि यासाम् । लोलानि चञ्चलान्यक्षीणि यासाम् । मृष्टान्युज्वलानि कुण्डलानि यासां ताः ॥ ६,७ ॥
सत्युवाच —
प्रजापतेस्ते श्वशुरस्य सांप्रतं निर्यापितो यज्ञमहोत्सवः किल ।
वयं च तत्राभिसराम वाम ते यद्यर्थिताऽमी विबुधा व्रजन्ति हि ॥ ८ ॥
पदरत्नावली
किमभाषतेति तत्राह– प्रजापतेरिति ॥ निर्यापितः प्रवर्तितः किल किंवदन्ती । हे वाम श्रेष्ठ यदि तवार्थिताऽस्ति तत्र तर्हि । गमने हेतुमाह– अमी इति ॥ हि यस्मात् तस्मात् ॥ ८ ॥
प्रकाशिका
निर्यापितः प्रवर्तितः । हे वाम परममङ्गल । ते यद्यर्थिता इच्छाऽस्ति तर्हि तत्र वयमभिसराम गच्छाम । अत्र हेतुमाह ॥ हि यस्मादमी व्रजन्तीति ॥ ८ ॥
तस्मिन् भगिन्यो मम भर्तृभिः
स्वकैर्ध्रुवं गमिष्यन्ति सुहृद्दिदृक्षवः ।
अहं च तस्मिन् भवताऽभिकामये
सहोपनीतं परिबर्हमर्हितुम् ॥ ९ ॥
पदरत्नावली
गमने निमित्तान्तरमप्याह– तस्मिन्निति ॥ मयि गतायां तस्माज्जनात् पूजा-विशेषोऽपि भविष्यतीत्याह– अहं चेति ॥ परिबर्हं च वरवध्वोर्दीयमानम् ॥ ९ ॥
प्रकाशिका
औत्सुक्यं प्रकटयन्ती गमने निमित्तान्तराण्यप्याह ॥ तस्मिन्निति षड्भिः श्लोकैः । तर्हि त्वयैव गन्तव्यमिति न वाच्यमित्याह ॥ अहं चेति । पितृभ्यामुपनीतं दत्तं परिबर्हं वस्त्रालङ्कारादि-रूपं भवता सहार्हितुं स्वीकर्तुं कामये । अतस्त्वया सह गन्तव्यमिति भावः ॥ ९ ॥
तत्र स्वसॄर्मे ननु भर्तृसंमिता
मातृष्वसॄः क्लिन्नधियं च मातरम् ।
द्रक्ष्ये चिरोत्कण्ठमना महर्षिभि-
रुन्नीयमानं च मृडाध्वरध्वजम् ॥ १० ॥
पदरत्नावली
न केवलमुक्तमेव प्रयोजनमर्थान्तरमप्यस्तीत्याह– तत्रेति ॥ अध्वरध्वजं यज्ञश्रेष्ठं द्रक्ष्य इत्यन्वयः । ‘ध्वजः शेफसि केतौ च श्रेष्ठे चैत्योन्नतद्रुमे’ इत्यभिधानम् । ‘स्वस्तिमेढ्राङ्कयोर्ध्वजः’ इति, ‘अङ्कश्चिह्नेऽन्तिकोरसोः’ इति, ‘उरस्तु वक्षसि श्रेष्ठे’ इति यादवः ॥ १० ॥
प्रकाशिका
क्लिन्नधियं स्नेहार्द्रचित्ताम् । चिरमुत्कण्ठमुत्सुकं मनो यस्याः सा । उन्नीयमानं प्रवर्त्यमानम् । हे मृड । अध्वरध्वजं यज्ञश्रेष्ठम् । ‘‘ध्वजः शफसि केतौ च श्रेष्ठे’’ इत्यभिधानात् । द्रक्ष्य इत्यन्वयः ॥ १० ॥
त्वय्येतदाश्चर्यमनात्ममायया
विनिर्मितं भाति गुणत्रयात्मकम् ।
अथाप्यहं योषिदतत्त्वविच्च ते
दीना दिदृक्षे भव मे भवक्षितिम् ॥ ११ ॥
पदरत्नावली
एवं बहुविधालापैरप्यविकृतेन्द्रियं पतिं दृष्ट्वा तन्माहात्म्यविज्ञापनपूर्वकं स्वाभीष्ट-मुद्गलयति– त्वयीति ॥ हे अज रुद्र ‘अजो विष्णुर्हरश्छागः’ इति यादवः । आत्मनो हरेर्माययेच्छया विनिर्मितं गुणत्रयात्मकं रजआदिगुणत्रयोपादानकर्माश्चर्यं नानावैचित्र्योपेतमेतद्विश्वं त्वयि भाति नित्यापरोक्षितान्तःस्थनारायणस्वरूपत्वात् तत्प्रसादेन करतलामलकवदेतद्विश्वं तव ज्ञानकोष्ठे वर्तते । अथापि तव द्रष्टव्यांशाभावेऽपि हे भव मङ्गल हर अहं मे भवक्षितिं जन्मभूमिं दिदृक्ष इत्यन्वयः । अत्र हेतुगर्भविशेषणं योषिदिति । युष शब्दादिसेवायां, शब्दादिविषयसेवाशीलत्वादित्यर्थः । अत एव ते तव अतत्त्वविद् यथास्थितत्वत्स्वरूपाज्ञानित्वाद् दीना क्षीणा ज्ञानदुर्बला ॥ ११ ॥
प्रकाशिका
किं तत्रास्मदनवगतपूर्वं येन तवैतादृशमौत्सुक्यमित्याशंकायां सत्यम् । न किमपि तवानवगतं तथाऽपि मम त्वनवगतमस्तीत्याह ॥ त्वयीति । त्वयि त्वदीये ज्ञाने । भो अज रुद्र । आत्ममायया परमात्मेच्छया विनिर्मितं गुणत्रयोपादानकमाश्चर्यं नानावैचित्र्योपेतं तज्जगद्यद्यपि भाति । तथाऽपि द्रष्टव्यांशाभावेऽप्यहं योषित् । उत्सुकस्वभावात्तव तत्त्वं न जानाम्यतो दीना कृपणा । हे भव । भवक्षितिं जन्मभूमिम् ॥ ११ ॥
पश्य प्रयान्तीश्च भवान्ययोषितः
स्वलंकृताः कान्तसखा वरूथशः ।
यासां व्रजद्भिः शितिकण्ठ मण्डितं
नभो विमानैः कलहंसपाण्डुभिः ॥ १२ ॥
पदरत्नावली
इतोऽपि गन्तव्यमिति भावेनाह– पश्येति ॥ अन्यस्त्रियोऽपि प्रयान्ति किं मयेत्यतो गन्तव्यमित्यर्थः । शितिकण्ठ । कलहंसवत् पाण्डुभिर्धवलैः ॥ १२ ॥
प्रकाशिका
अन्ययोषितः शरीरसम्बन्धरहिताः । शितिकण्ठ नीलकण्ठ । कलहंसवत्पाण्डुभि-र्धवलैः ॥ १२ ॥
कथं सुतायाः पितृगेहकौतुकं
निशम्य देहः सुरवर्य नेङ्गते ।
अनाहुता अप्यभियान्ति सौहृदाद्
भर्तुर्गुरोर्देहकृतश्च केतनम् ॥ १३ ॥
पदरत्नावली
युक्त्याऽपि गन्तव्यत्वं वक्ति– कथमिति ॥ नेङ्गते न चलति । आह्वानाभावे कथं गमनं स्यादित्याशङ्क्यानाह्वानेऽप्येषां गृहगमनमुचितं भवतीत्याह– अनाहुता इति ॥ देहकृतः पितुः
॥ १३ ॥
प्रकाशिका
एवमन्ययोषितोऽपि यदा यान्ति तदा । हे सुरश्रेष्ठ । पितृगेहे उत्सवं निशम्य सुताया मे देहः कथं नेङ्गते द्रष्टुं न प्रचलति । आह्वानाभावे कथं गमनमित्यत आह ॥ अनाहुता अपीति । ह्रस्वश्छान्दसः । भर्तुः स्वामिनो देहकृतः पितुः केतनं गृहम् ॥ १३ ॥
तन्मे प्रसीदेदममर्त्य वाञ्छितं
कर्तुं भवान् कारुणिको बतार्हसि ।
त्वयाऽपि पूर्णोऽयमदभ्रचक्षुषा
निरूपिता(तो)ऽतोऽनुगृहाण१ याचितः ॥ १४ ॥
पदरत्नावली
उपसंहरति– तन्म इति ॥ यत एवं गन्तव्ये बहवो हेतवः सन्ति तत् तस्माद् भवान् पूज्यस्त्वं मम प्रसीद । हे अमर्त्य देव, इदं वाञ्छितं कर्तुमर्हसीति । अस्मिन्नर्थे बत कृपा कर्तव्या, कारुणिकत्वादित्यर्थः । त्वमेव कारुणिको नान्य इत्याशयेनाह– त्वयेति ॥ अदभ्रचक्षुषा सर्वज्ञेन त्वया सहायं धर्मः पूर्णः गरीयान् निरूपित इति यदतः कारुणिकत्वात् प्रार्थितस् त्वमनुगृहाण, वाञ्छितमिति शेष इत्यर्थः ॥ १४ ॥
प्रकाशिका
उपसंहरति ॥ तन्म इति । यत एवं गमने बहवो हेतवः सन्ति । तत्तस्माद्भवान्पूज्यस्त्वं प्रसीद । हे अमर्त्य देव । इदं वाञ्छितं कर्तुमर्हसि । यतस्त्वं कारुणिकः । बतेत्यास्वादने । कारुणिकत्वमेव दर्शयति ॥ त्वयेति । अदभ्रचक्षुषाऽनल्पज्ञानेन त्वयाऽऽत्मनो देहस्यार्धेऽहं निरूपिता धृता तेनार्धनारीश्वर इति तव प्रसिद्धिः । अतो मामनुगृहाण याचितः सन् । ‘‘त्वयाऽपि पूर्णोऽयमदभ्रचक्षुषा निरूपितः सोऽनुग्रहाण याचित’’ इति पाठे न केवलमनाहुता अप्यभियान्तीत्यादिनोक्तोऽयं धर्मो मयैवोच्यते किन्तु त्वयाऽपि पूर्णो गरीयान्निरूपितोऽतः स त्वमनुगृहाणेति व्याख्येयम् ॥ १४ ॥
ऋषिरुवाच—
एवं गिरित्रः प्रिययाऽभिभाषितः
प्रत्यभ्यधत्त प्रहसन् सुरप्रियः ।
संस्मारितो मर्मभिदः कुवागिषून्
यानाह को विश्वसृजां समक्षतः ॥ १५ ॥
पदरत्नावली
तथापि प्रियया प्रार्थितः शङ्करः किमभ्यधादिति विदुरस्य मानसीं शङ्कां परिहर्तुमाह– एवमिति ॥ गिरित्रो गिरिशः । कुत्सिता वाच एव इषवः शराः कुवागिषवस् तान् । को दक्षः ॥ १५ ॥
प्रकाशिका
अभिभाषितोऽभियाचितः को दक्षो यानाह । मर्माणि भिन्दन्तीति मर्मभिदः कुवागिषून्दुरुक्तिबाणान्संस्मारितः सन् ॥ १५ ॥
शम्भुरुवाच—
त्वयोदितं शोभनमेव शोभने
अनाहुता अप्यभियान्ति बन्धुषु ।
ते यद्यनुत्पादितदोषदृष्टयो
बलीयसाऽनात्म्यमदेन१ मन्युना ॥ १६ ॥
पदरत्नावली
किं वा बहुना प्रलापेन? अनाहुता अप्यभियान्तीति यदुक्तं तस्योत्तरं शृृण्विति भावेनाह– त्वयोदितमिति । किं तदुदितमित्यत उक्तम्– अनाहुता इति । तर्ह्यनभियाने किं कारणम् ? अत्राह– यदीति । ते बान्धवाः । अनात्ममदेन देहाभिमाननिभिन्नदर्पेण जातेन, मन्युना क्रोधेन ॥१६॥
प्रकाशिका
अभियान्ति बन्धुष्विति यत्त्वयोदितं तच्छोभनम् । किंत्वनात्म्यं देहादावभि-मानस्तत्कृतेन मदेन दर्पेण मन्युना च ते बन्धवो यद्यनुत्पादितदोषदृष्टयोऽनुत्पादितेऽनारोपिते दोषदृष्टि-र्येषां ते तथा । अविद्यमानदोषदृष्टयो न भवन्ति चेत्तर्ह्येव त्वयोदितं शोभनमित्यन्वयः । प्रकृते दक्षस्त्वस्मास्वारोपितदृष्टिरिति भावः ॥ १६ ॥
विद्यातपोवित्तवपुर्वयःकुलैः
सतां गुणैः षड्भिरसत्तमा मदैः ।
स्मृतौ हतायामभिमानदुर्दृश-
स्तप्ता न पश्यन्ति हि धाम भूयसाम् ॥ १७ ॥
पदरत्नावली
असतां विद्यादिकमपि मदविषजनकत्वेन अप्रयोजकमहेः पयःपानमिवेति भावेनाह– विद्या तप इति ॥ असत्तया विद्यादिभिः षड्भिः सतां योग्यैर्गुगैरुत्पन्नैर्मदैः । स्मृतौ हतायां शास्त्रश्रवणोत्पन्नज्ञाने नष्टे । भूयसां महात्मनां धाम प्रभावं न पश्यन्ति । हि यस्मात् तस्मादित्यन्वयः । अदर्शने कारणमाह– अभिमानदुर्दृश इति ॥ विद्यामदो धनमदस्तृतीयोऽभिजनो मद इति मदलक्षणम् । कामादिदोषदुष्टेन्द्रियत्वादित्यर्थः । अत एव तप्ताः, अन्तरिति शेषः ॥ १७ ॥
प्रकाशिका
ननु विद्यादिगुणयुतो दक्षस्त्वादृशेषु महत्सु कथमारोपितदोषदृष्टिरित्यत आह ॥ विद्येति । असत्तमा विद्यादिभिः षड्भिरुत्पन्नैर्मदैः स्मृतौ हतायां शास्त्रजनितज्ञाने नष्टे सति भूयसां महात्मनां धाम प्रभावं न पश्यन्ति हि प्रसिद्धम् । अभिमानेन दुर्दृशो यतोऽतोंऽतरेव तप्ताः । ननु कथं गुणैरेतादृशोऽनर्थ इत्यत उक्तम् ॥ सतां गुणैरिति । तथा च विद्यादिकं सतामेव हितकारि नासतां प्रत्युत तेषामपकार्येवेति भावः ॥ १७ ॥
नैतादृशानां स्वजनव्यपेक्षया
गृहान् प्रतीयादनवस्थितात्मनाम्
येऽभ्यागतान् वक्रधियाऽभिचक्षते
आरोपितभ्रूभिरमर्षणाक्षिभिः ॥ १८ ॥
पदरत्नावली
किमत इति तत्राह– नैतादृशानामिति ॥ आरोपितभ्रूभिरिति ह्रस्वत्वा-भावश्छान्दसः । उन्नमितभ्रूभङ्गैः, अमर्षणाक्षिभिरसहमानलक्षणोपेतनेत्रैः ॥ १८ ॥
प्रकाशिका
किमत इत्यत आह ॥ नैतादृशानामिति । स्वजनव्यपेक्षया बन्धुजना इति बुद्ध्वा । अनवस्थितचित्तत्त्वमेवाह ॥ य इति । आरोपितभ्रूभिः सहितैरमर्षणाक्षिभिः ॥ १८ ॥
तथाऽरिभिर्न प्रधने शिलीमुखैः
शेतेऽर्दिताङ्गो हृदयेन दूयता ।
स्वानां यथा वक्रधियां दुरुक्तिभि-
र्दिवानिशं तप्यति मर्मताडितः ॥ १९ ॥
पदरत्नावली
दक्षाध्वरागमने कारणान्तरं चाह– तथाऽरिभिरिति ॥ प्रधने युद्धे शिलीमुखैः शरैः ॥ १९ ॥
प्रकाशिका
ननु स्वजनानां गृहमवश्यं गन्तव्यं तदीयदुर्वचनादिकं च सोढव्यमित्याशङ्कायां नैतच्छक्यमित्याशयेनाह ॥ तथाऽरिभिरिति । स्वानां दुरुक्तिभिर्मर्मसु ताडितो यथा दूयता व्यथमानेन (खिद्यमानेन) हृदयेन दिवानिशं तप्यति । तथाऽरिभिः शिलीमुखैर्बाणैः क्षतांगः खण्डितगात्रोऽपि न व्यथते । यतः शेते स्वपिति ॥ १९ ॥
व्यक्तं त्वमुत्कृष्टगतेः प्रजापतेः
प्रियाऽऽत्मजानामसि सुभ्रु संमता ।
अथाऽपि मानं न पितुः प्रपत्स्यसे
मदाश्रयात् कः परितप्यते यतः ॥ २० ॥
पदरत्नावली
किं बहुनानुलप्य ? त्वं दक्षस्य प्रियपुत्रीत्वेऽपि मदाश्रयत्वेन तप्यमानात् पितुः पूजां न प्राप्नोषीत्याह– व्यक्तमिति ॥ उत्कृष्टगतेः प्राप्तसर्वाधिपत्यस्य ॥ २० ॥
प्रकाशिका
मम दक्षप्रियपुत्रीत्वान्मयि तत्र गतायां तदीयमस्मदरित्वं गमिष्यतीत्यत आह ॥ व्यक्तमिति । व्यक्तं निश्चितमुत्कृष्टा गतिः स्थितिर्यस्य तस्यात्मजानां कन्यानां मध्ये त्वं प्रियेति । हे सुभ्रु । संमताऽसि । पितुः सकाशान्मानं सन्मानं न प्रपत्स्यसे न लप्स्यसे । मदाश्रयात्तव मत्सम्बन्धात् । को दक्षः ॥ २० ॥
तातप्यमानेन हृदाऽऽतुरेन्द्रियः
समृद्धिभिः पूरुषबुद्धिसाक्षिणाम् ।
अकल्प एषामधिरोढुमञ्जसा
पदं परं द्वेष्टि यथाऽसुरा हरिम् ॥ २१ ॥
पदरत्नावली
मत्पितुर्ज्ञानाधिकारिष्वेकत्वेन सत्त्वात् कुतो भवति द्वेष इत्याशङ्क्य साम्राज्यमद-लक्षणासुरावेशान् मत्पदाधिपत्यं न प्राप्तमतो द्वेष इति भावेनाह– तातप्यमानेनेति ॥ पुरुषबुद्धिसाक्षिणां पुरुषेन्द्रियप्रेरकाणामस्मत्सदृशानां समृद्धिभिः । एषां पूरुषबुद्धिसाक्षिणां परं पदमञ्चसा सत्वेनाधिरोढुम-कल्पोऽसमर्थो यतो यस्मात् ततो द्वेष्टि । इदमसुरलक्षणमिति भावेनोक्तम्– यथेति ॥ २१ ॥
प्रकाशिका
ननु दक्षस्य ज्ञानित्वात्कुतो देवोत्तमे भवति तस्यातिद्वेष इत्यतोऽसुरावेशाच्चास्म-त्समृद्ध्यसहनाच्च द्वेष्टीत्याह ॥ तातप्यमानेनेति । पूरुषबुद्धिसाक्षिणां सर्वपुरुषमनोभिमानिनामस्माकं समृद्धिभिरसुरावेशाच्च तातप्यमानहृदाऽऽतुरेन्द्रियो व्याकुलितबाह्येन्द्रियः सन् येषामस्माकं परं पदमंजसा सामस्त्येनारोढुं प्राप्तुमकल्पोऽसमर्थो यतोऽतो द्वेष्टि ॥ यथाऽसुरा हरिमिति । यथाऽसुरा हरिं तदैश्वर्यालाभेन विद्विषन्ति तथाऽयमपि तदाऽवेशेन द्वेष्टीत्यर्थः ॥ २१ ॥
प्रत्युद्गमप्रश्रयणाभिवादनं विधीयते साधु मिथः सुमध्यमे ।
प्राज्ञैः परस्मै पुरुषाय चेतसा गुहाशयायैव न देहमानिने ॥ २२ ॥
पदरत्नावली
अभ्युत्थानाभिवादार्हो भवता न संमानितोऽतो द्वेष इति किं न स्यादिति तत्राह– प्रत्युद्गमेति ॥ प्राज्ञैस्तत्ववेदिभिः पुरुषैः, वैष्णवेष्वागच्छत्सु मिथः प्रत्युद्गमादिकं चेतसा गुहाशयाय हृदये स्थिताय परस्मै पुरुषायैव विधीयते क्रियते । देहाभिमानिने जीवाय न क्रियते । इदं तूभयोः समत्वे बन्धुता गुरुत्वनिमित्तेन गुरुत्वेनोक्तम् । अतो दक्षायाज्ञाय ज्ञानाभावात् तन्निमित्तद्वेषो न सम्भाव्य इति
॥ २२ ॥
प्रकाशिका
नन्वभ्युत्थानाभिवादार्हो दक्षो भवता न संमानितोऽतो द्वेष इति किं न स्यादित्यत उत्तमेन नीचं प्रत्युद्गमनादिकं नैव कार्यम् । मर्यादार्थं कार्यं चेत्तदन्तर्यामिणं प्रति मनसैव कार्यम् । तच्च मया कृतमित्याशयेनाह ॥ प्रत्युद्गमेति । विधीयते क्रियते । समे नीचे वा । मर्यादार्थमिति शेषः । गुहाशयायान्तर्यामिणे परमपुरुषायैव न देहमानिने जीवाय । यतः श्वशुरोऽपि दक्षो मदपेक्षया नीचोऽतस्तदन्तर्यामिणे मर्यादार्थं चेतसैव मया प्रत्युद्गमनादिकं कृतमिति वाक्यशेषः ॥ २२ ॥
सत्त्वं विशुद्धं वसुदेवशब्दितं
यदीयते तत्र पुमानपावृतः ।
सत्त्वं च यस्मिन् भगवान् वासुदेवो
त्वधोक्षजो मे मनसा विधीयते ॥ २३ ॥
तात्पर्यम्
विशेषेण धीयते चिन्त्यते । ‘रुद्रेण धीयते विष्णुर्विष्णोर्ध्येयो न कश्चन ।’ इति ब्रह्मवैवर्ते ॥ २३ ॥
पदरत्नावली
किं च मया प्रत्युत्थानादिना मुख्यतः पूज्यस्तु ब्रह्मादिशरीरान्तस्थितो हरिरित्याह– सत्त्वमिति ॥ विशुद्धं सत्त्वं ब्रह्मादिशरीरम्, वसुदेवशब्दितं पृथिव्यादिपदार्थेषु स्थित्वा विद्योतने तत्कृतमललेपाभावादिति तच्छब्देन शब्दितमित्यर्थः । तच्छब्दवाच्यत्वे निमित्तमाह– यदीयत इति ॥ व्याप्तिक्रीडादिगुणाकरः पुमान् नारायणोऽपावृतो मायालक्षणावरणरहितः, ईयते ज्ञायत इति यद् तस्मात् । निमित्तान्तरं चाह– सत्त्वं चेति ॥ तत् सत्त्वं च यस्मिन् हरौ, यदधीनतया वर्तते, तत्संबन्धात् तच्छब्दवाच्यमित्यर्थः । एवं च वसुदेवे निवासलक्षणसंबन्धाद् वासुदेवः, सोऽधोक्षजोऽतीन्द्रियज्ञानी भगवान् मम मनसा विशेषेण धीयते चिन्त्यते । तदुक्तम्– ‘रुद्रेण धीयते विष्णुर्विष्णोर्ध्येयो न कश्चन’ इति । अनेन पुरःस्थितचतुर्मुखब्रह्मणि प्रकाशमानश्रीविष्णुगुणगणोप-संहारलक्षणोपसनैकाग्रचित्तत्त्वेन स्थितेन मया कार्यान्तरप्रारम्भस्यानुचितत्वाद् दक्षान्तःस्थहरिस्मरण-सत्कारेण तत्सत्कारेऽपि कृत इति द्वेषे कारणं न पश्यामीत्युक्तं भवति । यद्वा यद् विशुद्धं तमआदिगुणानुपरक्तं सत्त्वं तद् वसुदेवशब्दितम् । चशब्द एवार्थे । तत् सत्त्वं गुणो यस्मिन् पुंस्येवास्ति पुमान् श्रीहरिस्तत्र तस्मिन्नेव पुंस्यपावृत ईयत इति यस्मात् तस्मात् स वासुदेवः सात्विकप्रियोऽधोक्षजो भगवान् मे मनसा प्रत्युत्थानादिना विशेषेण चिन्त्यत इत्यतो नास्मद्गुरुरित्यभिमानमुग्धत्वेन रजोगुणाभिभूतचित्तत्वेन चात्र हरेर्विशेषेण सन्निधानाभावात् तव पिता न सत्कारयोग्य इति कृत्वा प्रत्युत्थानादिना न मानित इति । अनेन तमआदिगुणाभिभूतत्वेन तत्त्वाज्ञानाद् द्वेषोद्रेक इत्युक्तं भवति
॥ २३ ॥
प्रकाशिका
मर्यादार्थं कायिकमपि प्रत्युद्गमनादिकं कस्मान्न कृतमित्याशंकायां पुरःस्थिता-स्मद्गुरुभूतचतुर्मुखोत्तमाधिष्ठानगतवासुदेवनामकभगवद्ध्यानपरस्य मम तत्समीपे नीचाधिष्ठानगतं हरिं प्रति कायिकं प्रत्युद्गमनादिरूपं व्यापारान्तरं नोचितं किन्तु मानसिकमेवातस्तदेव तस्मिन्समये मया कृतमित्याशयेनाह ॥ सत्त्वमिति । विशुद्धं सत्त्वं ब्रह्मशरीरं वसुदेवशब्दितं वसुभिर्देवैर्ज्ञानिभिरान्तर-द्रव्यैर्वा दीव्यति प्रकाशत इति निर्वचनात् । तत्र ब्रह्मशरीरेऽपावृतोऽपगतमायालक्षणावरणः पुमान्परम-पुरुषो भगवान्यद्यस्मादीयते ज्ञायतेऽतो वासुदेवो वासुदेवशब्दवाच्यः । अनेन वसुदेवशब्दार्थभूते ब्रह्मणि भगवान् प्रतीयत इति वासुदेवशब्दनिर्वचनं कृतमिति ज्ञातव्यम् । प्रकारान्तरेणापि तत्र तच्छब्दं निर्वक्ति ॥ सत्त्वं च यस्मिन्निति । सत्त्वं वसुदेवशब्दवाच्यं ब्रह्मशरीरं यस्मिन्निति प्रत्ययार्थकथनं वर्तते । तथा च वसुदेवोऽस्मिन्नस्तीति वासुदेव इति निरुक्तिरुक्ता भवति । ब्रह्मशरीररूपाधिष्ठानं विहाय पृथग्दृश्यमानत्वादधोक्षज इत्युक्तम् । तथा चाधोक्षजः पृथग्विष्ण्वादिरूपवददृश्यो भगवान् ब्रह्मशरीर एव दृश्यमानत्वाद्वा ब्रह्मशरीराश्रयत्वाद्वा वासुदेवशब्दवाच्यः । सः मे मया मनसा विधीयत इत्यर्थः ।
अत्र विधीयत इत्येतत्क्रियत इत्यन्यथाप्रतीतिवारणाय व्याख्याति ॥ विशेषेणेति । धीयते धार्यते । मनसा धारणं चिन्तनमेवेत्याशयेन चिन्त्यत इत्युक्तम् । विष्णो रुद्रध्येयत्वे प्रमाणं पठति ॥ रुद्रेणेति । धीयते । मनसेति शेषः ॥ २३ ॥
त्वया निरीक्ष्यो न पिताऽपि
देहकृद् दक्षो मम द्विट् तदनुव्रताश्च ये ।
यो विश्वसृग्यज्ञगतं वरोरु मा-
मनागसं दुर्वचसाऽकरोत् तिरः ॥ २४ ॥
पदरत्नावली
मम त्वत्पूज्यत्वान् मम द्वेषी जनकोऽपि त्वया द्रष्टुमेवायोग्यः, गुरुध्रुग्दर्शने दोषोक्तेरित्याह– त्वयेति ॥ देहकृदपि । न केवलमान्तरद्वेषोऽपि तु बाह्योऽपीति भावेनाह– तदनुव्रता इति ॥ स्थानं निर्दिशति– य इति ॥ २४ ॥
प्रकाशिका
मत्पिता मया कथं न निरीक्ष्यत इत्याशङ्कायां मम त्वद्गुरुत्वाद्गुरुद्वेषिदर्शनं तव नोचितमित्याशयेनाह ॥ त्वयेति । पोषकत्वादिरूपौपचारिकपितृव्यावृत्त्यर्थं देहकृदित्युक्तम् । यतो मम द्विट् । तदनुव्रताश्च ये मम द्वेषिणस्तेऽपि न निरीक्ष्याः । द्वेषित्वं कथमवगतमित्यतस्तदीयतिरस्कारे-णेत्याह ॥ य इति । हे वरोरु । यो दक्षो विश्वसृजां यज्ञगतं मामनागसं निरपराधिनं तिरस्करो-त्तिरस्कृतवान् ॥ २४ ॥
यदि व्रजिष्यस्यतिहाय मद्वचो
भद्रं भवत्या न ततो भविष्यति ।
सम्भावितस्य स्वजनात् पराभवो
यदा स सद्यो मरणाय कल्पते ॥ २५ ॥
पदरत्नावली
बाधकं चाह– यदीति ॥ मरणं नाम देहवियोगलक्षणं न त्वपकीर्तिलक्षणम् ॥२५॥
॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुकृतायां चतुर्थस्कन्धे तृतीयोऽध्यायः ॥
प्रकाशिका
गमने बाधकमप्याह ॥ यदीति । अतिहायोल्लङ्घ्य । ततो गमनात्सम्भावितस्य प्रतिष्ठितस्य यदा पराभवो भवति । तदा सः पराभवस्तस्य मरणाय कल्पते मरणापादको भवति ॥२५॥
॥ इति श्रीमद्वेदेशपूज्यपादशिष्येण यदुपतिना विरचितायां
श्रीमद्भागवतटिप्पण्यां चतुर्थस्कन्धे तृतीयोऽध्यायः ॥ ४-३ ॥