भवे शीलवतां श्रेष्ठे दक्षो दुहितृवत्सलः
अथ द्वितीयोऽध्यायः
विदुर उवाच —
भवे शीलवतां श्रेष्ठे दक्षो दुहितृवत्सलः ।
विद्वेषमकरोत् कस्मादनादृत्यात्मजां सतीम् ॥ १ ॥
पदरत्नावली
अत्र कतिपयैरध्यायैर् हरौ भक्तिविधानार्थं तन्माहात्म्यातिशयज्ञापनाय तन्माहा-त्म्यातिशयाविनाभूतं दक्षाध्वरध्वंसलक्षणं रुद्रस्य माहात्म्यं कथयति । तत्रादौ विदुरः सती आत्मानम-जहादिति श्रुतसतीदेहवियोगविशेषं जिज्ञासुर् मैत्रेयं पृच्छति– भवे शीलवतामिति ॥ विद्वेषाकरणे हेतवः१ शीलवत्त्वादिना ज्ञापनायोक्ताः ॥ १ ॥
प्रकाशिका
भवे रुद्रे शीलवतां सदाचारवताम् । नाम्ना सतीम् ॥ १ ॥
कस्तं चराचरगुरुं निर्वैरं शान्तविग्रहम् ।
आत्मारामं कथं द्वेष्टि जगतो दैवतं महत् ॥ २ ॥
पदरत्नावली
स्वस्य गुरुत्वेऽपि स्वकर्म निन्दितमिति भावेनाह– कस्तमिति ॥ आत्मनि परमात्मन्येव आरामो रतिर्यस्य स तथा तम् ॥ २ ॥
प्रकाशिका
को दक्षः । आत्मनि परमात्मन्येवारामो रतिर्यस्य ॥ २ ॥
एतदाख्याहि मे ब्रह्मन् जामातुः श्वशुरस्य च ।
विद्वेषस्तु यतः प्राणानत्यजद् दुस्त्यजान् सती ॥ ३ ॥
पदरत्नावली
तथा च किमिति तत्राह– एतदिति ॥ विद्वेषो विद्वेषकारणम् ॥ ३ ॥
प्रकाशिका
यतो हेतोर्विद्वेषो यतो द्वेषात्प्राणांस्तत्याज एतदाख्याहि ॥ ३ ॥
मैत्रेय उवाच—
पुरा विश्वसृजां सत्रे समेताः परमर्षयः ।
तथाऽमरगणाः सर्वे सानुगा मुनयोऽग्नयः ॥ ४ ॥
पदरत्नावली
विद्वेषनिमित्तं वक्तुमुपोद्घातं रचयति– पुरेति ॥ न केवलं महर्षय एव किन्तु मुनिमात्रमप्यत्र समवेतमित्यतो मुनय इति पुनर्वचनम् ॥ ४ ॥
प्रकाशिका
एतदाख्यातुमितिहासं प्रस्तौति ॥ पुरेति । समेता आसन् मुनयः परमर्षिभिन्नाः
॥ ४ ॥
तत्र प्रविष्टं मुनयो दृष्ट्वाऽर्कमिव रोचिषा ।
भ्राजमानं वितिमिरं कुर्वन्तं तन्महत् सदः ॥ ५ ॥
पदरत्नावली
किमनेन प्रकृत इति तत्राह– तत्रेति ॥ प्रविष्टं, दक्षमिति शेषः ॥ ५ ॥
प्रकाशिका
प्रविष्टम् । दक्षमिति शेषः । सदः सभाम् ॥ ५ ॥
उदतिष्ठन् सदस्यास्ते स्वधिष्ण्येभ्यः सहाग्नयः ।
ऋते विरिञ्चिं शर्वं च तद्भासा क्षिप्तचेतसः ॥ ६ ॥
सदसस्पतिभिर्दक्षो भगवान् साधु सत्कृतः ।
अजं लोकगुरुं नत्वा निषसाद तदाज्ञया ॥ ७ ॥
पदरत्नावली
ब्रह्मपुत्रत्वाद्, रुद्रस्य श्वशुरत्वाच्च नायं प्राकृतः पुरुष इति भावेनास्मिन् सभाबहुमानं वक्ति– उदतिष्ठन्निति ॥ तस्य दक्षस्य भासा ॥ सर्वोत्थानलक्षणसत्काराभावादतो निर्गमन-मितरजनबहुमानेनोपवेशनं च सम्भावितम्, अनयोर्दक्षेण किमकारीति तत्राह– सदसस्पतिभिरिति
॥ ६,७ ॥
प्रकाशिका
स्वधिष्ण्येभ्यः स्वीयासनेभ्यः ॥ ६,७ ॥
प्राङ् निषण्णं मृडं दृष्ट्वा नामृष्यत् तदनादृतः ।
उवाच वाचं चक्षुर्भ्यामभिवीक्ष्य दहन्निव ॥ ८ ॥
पदरत्नावली
उपविष्टश्चेद् रुद्रविषये कोपोऽप्युपविष्टः किम् ? तत्राह– प्राङ् निषण्णमिति ॥ नामृष्यदित्यस्य किं लिङ्गम् ? तत्राह– उवाचेति ॥ ८ ॥
प्रकाशिका
प्राक् स्वागमनकाले । निषण्णमुपविष्टम् । अप्रत्युत्थायिनमिति यावत् । मृडं शिवं तदनादृतस्तेन प्रत्युत्थानादिभिरकृतादरः । नामृष्यन्नासहत । नामृष्यदित्यस्य किं लिङ्गमित्यत आह ॥ उवाचेति ॥ ८ ॥
दक्ष उवाच —
श्रूयतां ब्रह्मर्षयो मे सहसभ्याः सहाग्नयः ।
साधूनां ब्रुवतो वृत्तं नाज्ञानान्न च मत्सरात् ॥ ९ ॥
पदरत्नावली
वृत्तं सदाचारम् ॥ ९ ॥
प्रकाशिका
वृत्तं सदाचारम् ॥ ९ ॥
अयं तु लोकपालानां यशोघ्नो निरपत्रपः ।
सद्भिराचरितः पन्था येन स्तब्धेन दूषितः ॥ १० ॥
पदरत्नावली
किमिदानीं वृत्तं वक्तुं प्राप्तम् ? अत्राह– अयंत्विति ॥ १० ॥
प्रकाशिका
निरपत्रपो नितरामपगतलज्जः । स्तब्धेन विहितक्रियाशून्येन ॥ १० ॥
एष मे शिष्यतां प्राप्तो यन्मे दुहितुरग्रहीत् ।
पाणिं विप्राग्निमुखतः सावित्र्या इव साधुवत् ॥ ११ ॥
पदरत्नावली
स्वत उत्तमस्य शिवस्य दक्षावमानविषयत्वं कथम् ? अत्राह– एष इति ॥ गायत्रीविषये, ‘‘पण व्यवहार’’ इति धातोः पाणिं व्याहरणमुच्चारणमित्यर्थः । साधुवद् योग्यवत्
॥ ११ ॥
प्रकाशिका
तदेवाह ॥ एष इति । सावित्र्या इव गायत्र्या इव । गायत्रीपक्षे पाणिं व्यावहरणं ‘‘पण व्यवहार’’ इति धातोरुच्चारणमिति व्याख्येयम् । साधुवद्योग्यवत् ॥ ११ ॥
गृहीत्वा मृगशावाक्ष्याः पाणिं मर्कटलोचनः ।
प्रत्युत्थानाभिवादार्हे वाचाऽप्यकृत नोचितम् ॥ १२ ॥
पदरत्नावली
मृगशावो मृगपोतः । मर्कटलोचने इव लोचने यस्य स तथा, केकराक्ष (क्रूरासः) इत्यर्थः ॥ १२ ॥
प्रकाशिका
मृगशावस्य हरिणपोतस्याक्षिणीवाक्षिणी यस्याः । प्रत्युत्थानाभिवादार्हे मय्युचितं सन्मानं वाचाऽपि नोऽकृत नाकरोत् ॥ १२ ॥
लुप्तक्रियायाशुचये मानिने भिन्नसेतवे ।
अनिच्छन्नप्यदां बालां शूद्रायेवोशतीं गिरम् ॥ १३ ॥
पदरत्नावली
भिन्नसेतवे लङ्घ्रितमर्यादाय । उशतीं गिरं पौरुषेयत्वादिदोषरहितां वेदवाणीम् ॥१३॥
प्रकाशिका
भिन्नसेतवे उल्लङ्घितमर्यादाय । उशतीं निर्दोषां गिरं वेदलक्षणाम् ॥ १३ ॥
प्रेतावासेषु घोरेषु घोरैर्भूतगणैर्वृतः ।
अटत्युन्मत्तवन्नग्नो व्युप्तकेशो हसन् रुदन् ॥ १४ ॥
पदरत्नावली
अशुचिकर्मकरणादशुचित्वमुक्तं न तु द्वेषादित्याह– प्रेतावासेष्विति ॥ व्युप्तकेशो मुक्तकेशः ॥ १४ ॥
प्रकाशिका
प्रेतावासेषु स्मशानेषु । व्युप्तकेशो मुक्तकेशः ॥ १४ ॥
चिताभस्मकृतस्नानः प्रेतास्थिग्रन्थिभूषणः ।
शिवापदेशो ह्यशिवो मत्तो मत्तजनप्रियः ॥ १५ ॥
पदरत्नावली
चिताभस्मना श्मशानभस्मना कृतं स्नानं येन स तथा, प्रेतानामस्थि-ग्रन्थयोऽस्थिभिर्ग्रथितमालाः, ता एव भूषणानि यस्य स तथा । शिव इति अपदेशो नाम यस्य स तथा । स्वयमपि अशिवोऽशुद्धो हि ॥ १५ ॥
प्रकाशिका
शवदाहार्थं कल्पितमिंधनं चितेत्युच्यते तद्भस्मना कृतं स्नानं येन । प्रेतानामस्थि-ग्रन्थयोऽस्थिभिर्ग्रथिता मालास्ता एव भूषणानि यस्य । शिव इत्यपदेशो नाममात्रं यस्य वस्तुतः स्वयमशिवः ॥ १५ ॥
पतिः प्रमथभूतानां तमोमात्रात्मिकात्मनाम् ।
तस्मा उन्मादनाथाय नष्टशौचाय दुर्हृदे ॥ १६ ॥
पदरत्नावली
उन्मत्तत्वं स्पष्टयति– पतिरिति ॥ केवलं तमोगुणस्वरूपं मनो येषां ते तथा, तेषाम् । अतः किमनुशोककारणम् ? । अत्राह– तस्मा इति ॥ १६ ॥
प्रकाशिका
तमोमात्रात्मकाः केवलं तामस आत्मा स्वभावो मनो वा येषाम् । नन्वेतादृशाय त्वया कस्मात्कन्या दत्तेत्यत आह ॥ तस्मा इति । उन्मादा भूतविशेषास्तेषां नाथाय । दुर्हृदे दुष्टचित्ताय
॥ १६ ॥
दत्ता बत मया साध्वी चोदिते परमेष्ठिना ॥ १७ ॥
प्रकाशिका
बतेति खेदे । चोदिते सति ॥ १७ ॥
मैत्रेय उवाच —
विनिन्द्यैवं स गिरिशमप्रतीपमवस्थितम् ।
दक्षो ह्यप उपस्पृश्य क्रुद्धः शप्तुं प्रचक्रमे ॥ १८ ॥
पदरत्नावली
न केवलं दक्षेण दोषा एव गणिताः, किन्तु स्वानर्थहेतुः शापोऽपि दत्त इत्याह– विनिन्द्यैवमिति ॥ अप्रतीपमप्रतिपक्षम् ॥ १८ ॥
प्रकाशिका
अप्रतीपं केनापि विरोधशून्यम् ॥ १८ ॥
अयं तु देवयजन इन्द्रोपेन्द्रादिभिर्भवः ।
यज्ञभागं न लभतां देवैर्देवगणाधमः ॥ १९ ॥
पदरत्नावली
इन्द्रोपेन्द्रादिभिर्देवैः सह देवयजने यज्ञभागं न लभतामित्यन्वयः ॥ १९ ॥
प्रकाशिका
इन्द्रोपेन्द्रादिभिर्देवैः सह । देवयजने यज्ञे यज्ञभागं न लभतामित्यन्वयः ॥ १९ ॥
निषिध्यमानः स सदस्यमुख्यैर्दक्षो गिरित्राय विसृज्य शापम् ।
तस्माद् विनिष्क्रम्य विवृद्धमन्युर्जगाम कौरव्य निजं निकेतनम् ॥ २० ॥
पदरत्नावली
ततः किमकारि दक्षेणेति तत्राह– निषिध्यमान इति ॥ २० ॥
प्रकाशिका
स दक्षस्तस्मात्स्थानात् । हे कौरव्य विदुर ॥ २० ॥
विज्ञाय शापं गिरिशानुगाग्रणीर्नन्दीश्वरो रोषकषायदूषितः ।
दक्षाय शापं विससर्ज दारुणं ये चान्वमोदंस्तदवाच्यतां द्विजाः ॥ २१ ॥
पदरत्नावली
एवं दक्षेण शापे दीयमाने सति कोऽपि शिवभक्तस् तमसहमानोऽभूत् किम् ? तत्राह– विज्ञायेति ॥ रोषनाम्ना कषायेण वह्निना दूषितः, तस्य शिवस्य अवाच्यतां दोषलक्षणम् ॥ २१ ॥
प्रकाशिका
गिरिशस्यानुगानामग्रणीर्मुख्यः । रोष एव कषायः क्वाथस्तेन दूषितः । तस्य शिवस्यावाच्यतां वचनानर्हताम् । निन्द्यतामिति यावत् । तेभ्योऽपि शापं विससर्ज ॥ २१ ॥
नन्दिरुवाच —
य एतन्मर्त्यमुद्दिश्य भगवत्यप्रतिद्रुहि ।
द्रुह्यत्यज्ञः पृथग्दृष्टिस्तत्त्वतो विमुखो भवेत् ॥ २२ ॥
पदरत्नावली
कोऽयं शापो दत्त इति तत्राह– य एतदिति ॥ एतन् मर्त्यं शरीरमद्य श्वो वा नश्वरमुद्दिश्य, अप्रतिद्रुहि द्रोग्धारं प्रत्यद्रोहकर्तरि भगवति भक्त्यादिसौभाग्यवति द्रुह्यति, वचनादिनेति शेषः । तत्त्वतो यथार्थज्ञानाद् विमुखो भूयादित्यन्वयः ॥ २२ ॥
प्रकाशिका
दक्षं शपति ॥ य एतदिति सार्धत्रिभिः श्लोकैः । यो दक्ष एतन्मर्त्यं नश्वरं शरीरं तत्कृतसम्बन्धमुद्दिश्य पृथग्दृष्टिरहं पूज्य इति मिथ्याज्ञानी । अप्रतिद्रुहि द्रोग्धारं प्रत्यद्रोहकर्तरि भगवति पूज्ये द्रुह्यति । दुर्वचनादिनेति शेषः । स तत्त्वतो यथार्थज्ञानाद्विमुखो बहिर्मुखो भवेद्भूयात् । तत्त्वज्ञानशून्यो भवेदिति यावत् ॥ २२ ॥
गृहेषु कूटधर्मेषु सक्तो ग्राम्यसुखेच्छया ।
कर्मतन्त्रं वितनुताद् वेदवादविपन्नधीः ॥ २३ ॥
तात्पर्यम्
‘ये ज्ञानविषयाः शापा मुक्तिगास्ते१ऽधिकारिणाम् । कादाचित्कास्ते भवन्ति नैव ते सार्वकालिकाः । तेषां ज्ञानस्य मुक्तेश्च तारतम्यस्य चैव हि । भगवन्नियतत्वात्तु शापादिर्नात्र कारणमि’ति वाराहे ॥ २३ ॥
पदरत्नावली
न केवलं बहिष्कृततत्त्वज्ञानः किन्तु श्रीनारायणाविषयकर्मव्यापारेषु मग्नः स्यादित्यह– गृहेष्विति ॥ वेदवादेन स्वर्गादिषु पुष्पवादिवेदवाक्येन विपन्ना नष्टा धीर्यस्य स तथा । अत्र तत्त्वज्ञानविषयः शापस्तात्कालिक एव न तु चिरकालीनः विष्णुवाक्यस्यैव चिरकालीनत्वात् । तदुक्तम्– ‘ये ज्ञानविषयाः शापा मुक्तिगाश्चधिकारिणाम् । कादाचित्कास्ते भवन्ति नैव ते सार्वकालिकाः । तेषां ज्ञानस्य मुक्तेश्च तारतम्यस्य चैव हि । भगवन्नियतत्त्वात्तु शापादिर्नात्र कारणम् ’ इति ॥ २३ ॥
प्रकाशिका
न केवलं तत्त्वज्ञानशून्यः किन्तु काम्यकर्मानुष्ठानरतश्च स्यादित्याह ॥ गृहेष्विति । गृहाश्रमोचितकर्तव्येषु कूटधर्मेषु हर्यनुसंधानशून्यतया धर्माभासेषु कर्मतन्त्रं कर्मविस्तारं वेदवादेन ज्योतिष्टोमेन स्वर्गकामो यजेतेत्यादिवेदगतमुखतो वचनेन विपन्ना विनष्टा धीर्यस्य । वस्तुतोऽत्र स्वर्गशब्दो मोक्षपर इति बुद्धिर्नास्तीति भावः । अत्र तत्त्वज्ञानशून्यः स्यादिति शापः सार्वकालिक इति प्रतीयते । न चासौ सम्भवति । दक्षस्याधिकारिकत्वात् । अतोऽत्र विवक्षिततात्पर्यं प्रमाणेनैवाह ॥ ये ज्ञानविषया इति । मुक्तिगाश्चेत्यनेन ‘‘संसरंत्विह ये चामुम्’’ इति वक्ष्यमाणतात्पर्यमप्युक्त-मित्यवगन्तव्यम् । अधिकारिणां निश्चितमोक्षाणां ये ज्ञानविषया मुक्तिविषयाश्च शापाः । उपलक्षण-मेतत् । तारतम्यविषयाश्चायं ज्ञानशून्यो भवत्वयं मुक्तिशून्यो भवतूत्कृष्टं प्रत्ययं नीचो भवत्वित्येवं रूपास्ते कादाचित्का एव न सार्वकालिकाः । कुत इत्यत उक्तम् ॥ तेषामिति । भगवन्नियतत्त्वादेवेति सम्बन्धः । भगवता सत्यसङ्कल्पेन तेषां तदनपायितया नित्यतया कल्पितत्वादित्यर्थः । अत्र कादाचित्कज्ञानराहित्येऽपि शापादिर्न कारणम् । आदिशब्दादुत्तमापराधः । किन्तु प्रारब्धकर्मैव तत्सूचक एव शापादिरिति विशेषसूचनाय तुशब्दः ॥ २३ ॥
बुद्ध्या पराभिध्यायिन्या विस्मृतात्मगतिः पशुः ।
स्त्रीकामः सोऽस्तु नितरां दक्षो बस्तमुखोऽचिरात् ॥ २४ ॥
पदरत्नावली
इतोऽपि तात्कालिक एव शाप इति भावेन दक्षस्य शापविशेषं मुञ्चति– बुद्ध्येति ॥ पराभिध्यायिन्या निरन्तरशब्दादिविषयचिंताकातरया बुद्ध्या विस्मृतात्मगतिर् विस्मृत-परमात्मगतिर् विस्मृतपरमात्मज्ञानः पशुर्विवेकशून्यो ऽतितरां स्त्रीकामः स दक्षोऽचिराद् बस्त-मुखोऽस्त्वित्यन्वयः ॥ २४ ॥
प्रकाशिका
मूले परशब्दादिरूपो विषयस्तमेवाभिध्यातुं शीलं यस्यास्तया बुद्ध्या विस्मृतात्म-गतिर्विस्मृतपरमात्मस्थितिरत एव पशुः पशुतुल्यः । अयं शापस्तारतम्यविषय इति ज्ञातव्यम् । अत एवास्यापि तात्पर्यं प्रमाण उक्तम् । नितरां स्त्रीकामः स दक्षोऽस्तु । अचिरादविलंबेन बस्तमुख-श्चास्वित्यन्वयः ॥ २४ ॥
विद्याबुद्धिरविद्यायां कर्ममय्यामसावजः ।
संसरन्त्विह ये चामुमनुशर्वावमानिनम् ॥ २५ ॥
पदरत्नावली
शापान्तरं चाह– विद्याबुद्धिरिति ॥ अजो दक्षो ऽविद्यायां विद्याबुद्धिरस्त्विति शेषः । शङ्करद्वेषिणां च शापविशेषमाह– संसरन्त्विति ॥ २५ ॥
प्रकाशिका
शापान्तरं चाह ॥ विद्याबुद्धिरिति । अजो दक्षोऽविद्यायां विद्याविरुद्धाया-मापतति । अविद्याशब्दवाच्यायां कर्ममात्रपरायां विद्याबुद्धिरियमेव तत्त्वविद्येति बुद्धिर्यस्य । तदनुयायिनो द्विजानपि शपति ॥ संसरंत्विति सार्धश्लोकद्वयेन । संसरन्तु मुक्तिरहिता भवन्तु ॥ २५ ॥
गिरेः सुतायाः पुष्पिण्या मधुगन्धेन भूरिणा ।
मथ्ना चोन्मथितात्मानः संमुह्यन्तु हरद्विषः ॥ २६ ॥
तात्पर्यम्
**‘गिरिः प्राणः समुद्दिष्टस्तत्सुता वेदवाक्स्मृता । पुष्पं स्वर्गादयः प्रोक्ताः फलं मोक्ष उदाहृतः’ इति वामने ॥ ‘अनङ्गो मन्मथो मन्था कामोऽङ्गज उदाहृत’ इति शब्दनिर्णये ॥ **
पदरत्नावली
संसारे कारणमाह– गिरेरिति ॥ पुष्पिण्याः स्वर्गादिपुष्पप्रतिपादिकाया गर्भीकृतमुक्तिफलायाः । कालकूटनिगरणाद् दैत्याख्यपापनिगरणाच्च गिरिर्मुख्यप्राणस्तेन शिष्यप्रशिष्या-दिषु प्रणीतत्त्वेन व्याख्यातत्वेन च तस्य सुताया वेदवाचो भूरिणा बहुलेन मधुगन्धेन विषयसुखलक्षण-मकरन्दपरिमलेन, मथ्ना कामेनोन्मथितो विलोडित आत्मा मनो येषां ते तथोक्तास्ते हरद्विषः संमुह्यन्तु । मोक्षफलप्रतिपादकवेदतात्पर्यापरिज्ञानेन आत्मनः स्वर्गादिरेव परमश्रेयोऽस्त्विति विपरीतज्ञानं गच्छन्त्वित्यन्वयः । ‘‘मुह वैचित्त्य’’ इति धातोर्वैचित्त्यं विपरीतज्ञानम् । ‘गिरिः प्राणः समुद्दिष्ट-स्तत्सुता वेदवाक् स्मृता । पुष्पं स्वर्गादयः प्रोक्ताः फलं मोक्ष उदाहृतः ॥’ इति वचनाद् उक्त एवार्थो नान्य इति । ‘अनङ्गो मन्मथो मन्था कामोऽङ्गज उदाहृतः’ इत्यभिधानात् ॥ २६ ॥
प्रकाशिका
अत्र कारणीभूतं शापान्तरमप्याह ॥ गिरेरिति । अत्र गिरेः सुतायाःपुष्णिण्या इत्येतद्रजस्वलायाः पार्वत्या इत्यन्यथाप्रतीतिनिरासाय प्रमाणेनैव व्याख्याति ॥ गिरिः प्राण इति । पुष्पं पुष्पस्थानीया आपाततः प्रोक्ताः । स्वार्गादय इत्यत्रादिशब्दो दैहिकैश्वर्यादिसङ्ग्रहः । तर्हि किं फलमित्यत उक्तम् ॥ फलमिति । उदाहृतः । स्वर्गादिशब्दैरिति शेषः । तथा च वस्तुतो मोक्षरूप-मुख्यफलतात्पर्यकैः स्वर्गादिशब्दैरापाततो रुच्युत्पादनायात्र रमणीयतया पुष्पसमाः स्वर्गादयो वेदेषूच्यन्ते । एतदभिप्रायेण पुष्पिण्या इत्युक्तमिति भावः । मथ्नेत्यस्य दधिमथनसाधनेनेत्यन्यथाप्रतीति-वारणाय प्रकृतोपयुक्तमर्थं प्रमाणेनैवाह ॥ अनङ्ग इति । कामोऽनङ्ग इत्यादिशब्दैरुदाहृत इत्यर्थः । तथा च मथ्नेत्यस्य कामेनेत्यर्थ इति भावः ॥ ततश्चायं श्लोकार्थः ॥ गिरेर्मुख्यप्राणस्य सुताया रक्ष्यतया सुतावद्विद्यमानायाः पुष्पिण्या आपाततो रुच्युत्पादनायापातरमणीयतया पुष्पसमस्वर्गादिप्रतिपादिकाया वेदवाचो बहुलेन मधुगन्धेन विषयसुखलक्षणेन मकरन्दपरिमलेन । तदनुभवेनेति यावत् । मथ्ना कामेन चोन्मथितात्मन उन्मथित उत्कृष्टतया चञ्चलीकृत आत्मा मनो येषां ते तथा । संमुह्यन्तु मोक्षपर-वेदतात्पर्यापरिज्ञानेन स्वर्गादिरेव परमश्रेय इति बुद्ध्या कर्मस्वासक्ता भवंत्वित्यर्थः ॥ २६ ॥
सर्वभक्षा द्विजा वृत्त्यै धृतविद्यातपोव्रताः ।
वित्तदेहेन्द्रियारामा याचका विचरन्त्विह ॥ २७ ॥
पदरत्नावली
हरद्विषां शापान्तरमपि विसृजति– सर्वभक्षा इति ॥ पलाण्ड्वादिसर्वभक्षाः । वृत्त्यै जीवनाय । न धर्मायेति शेषः ॥ २७ ॥
प्रकाशिका
अपरं च शापमाह ॥ सर्वभक्षा इति । अभक्षसर्वभक्षा इत्यर्थः । वृत्त्यै जीवनाय, नधर्मायेत्यर्थः । वित्तादावारामो रतिर्येषाम् । याचकाः सन्तः ॥ २७ ॥
तस्यैवं वदतः शापं श्रुत्वा द्विजकुलाय वै ।
भृगुः प्रत्यसृजच्छापं ब्रह्मदण्डं दुरत्ययम् ॥ २८ ॥
पदरत्नावली
ब्राह्मणकुलाय दीयमानं शापं श्रुत्वापि भीत्या कश्चित् प्रतिशापदानसमर्थो नाभूद् ? इति तत्राह– तस्यैवमिति ॥ ब्राह्मणानामिदमेवायुधं नान्यदिति द्योतनाय ब्रह्मदण्डमित्युक्तम् ॥ २८ ॥
प्रकाशिका
ब्रह्मदण्डं ब्राह्मणानामायुधरूपं शापं प्रत्यसृजत् प्रत्यदात् ॥ २८ ॥
भृगुरुवाच—
भवव्रतधरा ये च य एतान् समनुव्रताः ।
पाखण्डिनस्ते भवन्तु सच्छास्त्रपरिपन्थिनः ॥ २९ ॥
प्रकाशिका
सच्छास्त्रपरिपंथिनः प्रतिकूलाः ॥ २९ ॥
नष्टशौचा मूढधियो जटाभस्मास्थिधारिणः ।
विशन्तु शिवदीक्षायां यत्र दैवं सुरासवम् ॥ ३० ॥
पदरत्नावली
शिवदीक्षायां चाण्डालादिजन्मनां विप्रत्वकरणलक्षणायाम् । सुरयाऽसूनां तर्पणं यस्मिंस्तत् तथोक्तम् । यद्वा सुरा नाम नारिकेलादिपुष्पसम्भवं मधूकपुष्पादिसम्भवमासवं वा ॥ ३० ॥
प्रकाशिका
शिवदीक्षायां चण्डालादिजन्मनां मण्डलान्तः प्रवेशेन विप्रत्वकरणलक्षणायां ‘‘दीक्षाप्रवेशमात्रेण ब्राह्मणो भवति क्षणात्’’ इति तदीयवचनात् । सुरा गौडी पैष्टी माध्वी च । आसवं तालादिसम्भवं मद्यम् । द्वन्दैकवद्भावान्नपुंसकत्वम् । यत्र दीक्षायां सुरासवं दैवं पूज्यम् । घटादि-पूर्णमुक्तरूपं मद्यमेव यत्र पूज्यं तन्मतमिति भावः ॥ ३० ॥
ब्रह्म च ब्राह्मणांश्चैव ये यूयं परिनिन्दथ ।
सेतुं विधारणं पुंसामतः पाखण्डमाश्रिताः ॥ ३१ ॥
पदरत्नावली
तीव्रशापप्रदाने निमित्तं वक्ति– ब्रह्मेति ॥ विशेषेण धारयत्याश्रितानिति विधारणम् ॥ ३१ ॥
प्रकाशिका
एवंविधशापदाने निमित्तमाह ॥ ब्रह्मेति । ब्रह्म वेदः परब्रह्म वा । विशेषेण धारणमिति सेतुत्वोपपादनम् ॥ ३१ ॥
एष एव हि लोकानां शिवः पन्थाः सनातनः ।
यं पूर्वे चानुसंतस्थुर्यत्प्रमाणं जनार्दनः ॥ ३२ ॥
पदरत्नावली
सेतुं विशिनष्टि– एष इति ॥ यस्य प्रमाणं सम्यक् वक्ता । ‘प्रमाणं बोधनेयत्ता मर्यादाशास्त्रहेतुषु । सम्यग्वक्तरि वा यः स्यात् प्रमाणं मरणे गतौ’ इति यादवः ॥ ३२ ॥
प्रकाशिका
सेतुत्वमेव प्रपञ्चयति ॥ एष इति द्वाभ्यां श्लोकाभ्याम् । एष वेदरूपः पुरुषो जनार्दनो यत्प्रमाणं यस्य वक्ता ‘‘प्रमाणं बोधनेयत्ता मर्यादाशास्त्रहेतुषु । सम्यग्वक्तरि वा यः स्यात्प्रमाणं मरणे गताविति यादवः ॥ ३२ ॥
तद् ब्रह्म परमं शुद्धं सतां वर्त्म सनातनम् ।
विगर्ह्य यात पाखण्डं दैवं वो भूतराट् सदा ॥ ३३ ॥
पदरत्नावली
ब्रह्म वेदः । भूतराट् भैरवः ॥ ३३ ॥
प्रकाशिका
ब्रह्म वेदः । भूतराट् भूतपतिः शिवः ॥ ३३ ॥
मैत्रेय उवाच —
तस्यैवं वदतः शापं भृगोः स भगवान् भवः ।
निश्चक्राम ततः किंचिद् विमना इव सानुगः ॥ ३४ ॥
पदरत्नावली
स्वापमानं श्रुत्वाऽपि महतां महत्त्वविरोधिविकारो न युक्त इति भावेन तस्य हरस्य ततो निर्गमनं च वक्ति– तस्यैवमिति ॥ ३४ ॥
प्रकाशिका
वदतः सतः ॥ ३४ ॥
तेऽपि विश्वसृजः सत्रं सहस्रपरिवत्सरान् ।
संविधाय महेश्वासा१ यत्रेज्यर्षभो हरिः ॥ ३५ ॥
पदरत्नावली
एवं विवादेऽपि सत्रस्यान्तरायो नाभूदित्याह– तेऽपीति ॥ अन्तरायानुत्पादे निमित्तमाह– यत्रेति ॥ ३५ ॥
प्रकाशिका
यत्र सत्रे ईज्यर्षभ ईज्येषु श्रेष्ठो हरिस्तत्सत्रं सम्यग्विधाय महेष्वासा धनुर्बाणवन्तः
॥ ३५ ॥
आप्लुत्यावभृथं यत्र गङ्गा यमुनयाऽन्विता ।
विरजेनात्मना सर्वे स्वं स्वं धाम ययुस्ततः ॥ ३६ ॥
पदरत्नावली
यत्र गङ्गा भागीरथी यमुनयाऽन्विता, तत्र प्रयाग इति शेषः । अस्यैव कर्मणः स्वाभीष्टफलप्राप्तिहेतुत्वादिदं समाप्य न कर्मान्तरं प्रारब्धं तैः किन्तु स्वगृहगमनमेवानुष्ठितमित्याह– विरजेनेति ॥ कर्मणा निर्मलेनान्तःकरणेन, युक्ता इति शेषः ॥ ३६ ॥
॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुकृतायां चतुर्थस्कन्धे द्वितीयोऽध्यायः ॥
प्रकाशिका
यत्र प्रयागे गङ्गा यमुनयाऽन्विता तत्रावभृथं यथा स्यात्तथाऽप्लुत्य स्नात्वा तत्स्थानाद्ययुः ॥ ३६ ॥
**॥ इति श्रीमद्वेदेशपूज्यपादशिष्येण यदुपतिना विरचितायां **
श्रीमद्भागवतटिप्पण्यां चतुर्थस्कन्धे द्वितीयोऽध्यायः ॥ ४-२ ॥