०१ प्रथमोऽध्यायः

मनोस्तु शतरूपायां तिस्रः कन्याश्च जज्ञिरे

श्रीमद् भगवद्बादरायणप्रणीतम्

श्रीमद्भागवतम्

चतुर्थस्कन्धः

अथ प्रथमोऽध्यायः

ॐ नमो भगवते वासुदेवाय

मैत्रेय उवाच—

मनोस्तु शतरूपायां तिस्रः कन्याश्च जज्ञिरे ।

आकूतिर्देवहूतिश्च प्रसूतिरिति विश्रुताः ॥ १ ॥

श्रीमद् आनन्दतीर्थभगवत्पादाचार्यविरचितः श्रीमद्भागवततात्पर्यनिर्णयः

॥ श्रीवेदव्यासाय नमः ॥

‘पुनःपुनः कथां प्राहुरभ्यासादुत्तमं फलम् ।

विज्ञापयितुकामास्तु विद्वांसस्तत्र तत्र तु’ ॥ इत्याग्नेये ॥ १ ॥

॥ हरिः ॐ ॥ श्रीमद्धनुमद्भीममध्वान्तर्गतरामकृष्णवेदव्यासात्मकलक्ष्मीहयग्रीवाय नमः ॥

श्रीमद्विजयध्वजतीर्थविरचिता पदरत्नावली

श्रीमध्ववल्लभश्रीहयग्रीवाय नमः

पदरत्नावली

पशुपतिरपि प्रेक्षादक्षो यतोऽगमदुन्नतिं सकलजनतावन्द्यं स्थानं ध्रुवो यदनुग्रहात् ।

पृथुरथ महीदोहात् कीर्तिं शुभां समपीपलत्तमिममजितं वन्दारूणाममन्दमुदं नुमः ॥ १ ॥

अभिनवरविप्रद्योतालीविभासिवपुःश्रियं हरिहयहरब्रह्मश्लाध्यप्रभूतसदाशिषम् ।

कमलनयनस्वातन्त्र्येक्षादयादरसत्क्रियां शरणमनिशं विश्वस्यास्योदयां श्रियमीमहे ॥ २ ॥

तृतीयस्कन्धजलधेरुन्मग्नोऽहं कथञ्चन । चतुर्थस्कन्धसरसीमवगाढुं पुनर्यते ॥ ३ ॥

मानेतिहाससङ्घातैरच्युताङ्घ्रिसरोरुहे । आत्मप्रद्योतनी भक्तिः पुनश्च प्रतिपाद्यते ॥ ४ ॥

अत्रादौ हरौ निरतिशयप्रेमलक्षणभक्तिविधानाय पशुपतेर् दक्षाध्वरध्वंसलक्षणचरित्रं वक्तुं स्वायम्भुवमनुचरितमनुवदति– मनोस्त्विति ॥ ‘पुनः पुनः कथां प्राहुरभ्यासादुत्तमं फलम् । विज्ञापयितु-कामास्तु विद्वांसस्तत्र तत्र तु ॥’ इति वचनात् पुन उक्तकथानुवादो न दोषायेति ज्ञातव्यम् । विशेषवाचिना तुशब्देनापि फलाधिक्यं विशिनष्टि । द्वौ पुत्रौ चेति पुत्रानुवर्णनार्थश्चकारः ॥ १ ॥

**श्री यादवार्यविरचिता **

भागवतप्रकाशिका

सत्यवत्यालवालोत्थं वेदशाखोपबृंहितम् ।

शुकादिद्विजसन्नादं व्यासकल्पद्रुमं भजे ॥ १ ॥

अत्र तिसॄणां कन्यानां जननादिकं पूर्वोक्तमेव कस्मादुच्यत इत्याशङ्कायां प्रमाणेनैव परिहरति ॥ पुनः पुनरिति । उत्तमं फलं भवतीति ज्ञापयितुकामाः । आद्यस्तुशब्दोऽवधारणेंऽत्यो ऽप्यर्थः । विद्वांस इत्यनेन सम्बध्यते । उक्तं पुनर्न वक्तव्यमिति जानन्तोऽपीत्यर्थः । मूले तुशब्दो मनोः स्वायंभुवादिविशेषसूचकः । द्वौ पुत्रौ चेत्युक्तसङ्ग्रहार्थश्चकारः ॥ १ ॥

आकूतिं रुचये प्रादादपि भ्रातृमतीं नृपः ।

पुत्रिकाधर्ममाश्रित्य शतरूपानुमोदितः ॥ २ ॥

पदरत्नावली

भ्रातृमतीमप्याकूतिं पुत्रिकाधर्ममाश्रित्य रुचये प्रादादित्यन्वयः । अस्या यः पुत्रो भवेत् स मत्पुत्र एवेति प्रतिज्ञाय प्रदानं पुत्रिकापुत्रधर्मः । राज्यार्थं न पुत्राभावान्मनुना दौहित्रः पुत्रत्वेन वृतः किन्तु स साक्षाद् विष्णुरिति जानता तत्पितृत्वे ज्ञानातिशयवान् मुक्तौ सुखातिशयवान् स्यामिति । भ्रातृमतीत्यनेन पुत्रवत्त्वप्रतीतेः, प्रियव्रतोत्तानपादाविति वक्ष्यमाणत्वाच्च ॥ २ ॥

प्रकाशिका

भातृमतीमप्याकूतिं पुत्रिकाधर्ममाश्रित्य रुचये प्रादादित्यन्वयः । ‘‘अभ्रातृकां प्रदास्यामि तुभ्यं कन्यामलङ्कृताम् । अस्यां यो जायते पुत्रः स मे पुत्रो भवेदिति’’ प्रतिज्ञाय कन्याप्रदानं पुत्रिकाधर्मः । स कथमस्या भ्रातृमत्या युक्त इत्यत उक्तम् ॥ भ्रातृमतीमपीति । अपिशब्दो विरोधाभासालङ्कारार्थः । सत्यमयं धर्मोऽत्रायुक्त इति तथाऽपि यज्ञनामकभगवत्सदृशभ्रातृमत्वाभावादिमं धर्ममाश्रितवान्मनुरित्याशयः ॥ २ ॥

प्रजापतिः स भगवान् रुचिस्तस्यामजीजनत् ।

मिथुनं ब्रह्मवर्चस्वी परमेण समाधिना ॥ ३ ॥

पदरत्नावली

प्रजापतिशब्दस्यानेकाभिधेयवृत्तित्वेन कोऽत्र विवक्षित इत्यत उक्तम्– रुचिरिति ॥ राजपुत्रीत्वेन परिचर्यादावहंकारसम्भवेन प्रेमाभावेन तत्त्यागसम्भवेनापत्यानुत्पत्त्या मनोराशा निष्फलाऽ-भूदिति लोकापवादः परिहृतोऽनेन, अत एव– भगवानिति ॥ ३ ॥

प्रकाशिका

मिथुनं पुरुषं स्त्रियं च । समाधिना हरिध्यानजनितपुण्यप्रभावेन ॥ ३ ॥

यस्तयोः पुरुषः साक्षाद् विष्णुर्यज्ञस्वरूपधृक्१ ।

या स्त्री सा दक्षिणा भूतेरंशभूताऽनपायिनी ॥ ४ ॥

आनिन्ये स्वगृहं पुत्र्याः पुत्रं विततरोचिषम् ।

स्वायंभुवो मुदा युक्तो रुचिर्जग्राह दक्षिणाम् ॥ ५ ॥

पदरत्नावली

मिथुनं विवेचयति– यस्तयोरिति ॥ नाम्ना यज्ञ इति । स्वरूपधृक् औत्पत्तिक-सौन्दर्यधारी । यज्ञस्वरूपधृगित्येकं वा पदं, ‘यज्ञो विष्णुर्देवता’ इति श्रुतेः । अनेन विष्णुनामानं यजमानं व्यावर्तयति । भूतेर्लक्ष्म्याः । ‘भूतिः श्रीभस्मजन्मसु’ इत्यभिधानम् । अनपायिनी जन्ममरण-रहितेत्यनेनास्या अपि श्रीनारायणवदाविर्भाव एवेति ध्वनयति । स्वायम्भुवेन विवाहकाले यदुक्तं तत् सत्यं कर्तुं कार्यान्तरासक्त्या न विस्मृतं तेनेति भावेनाह– आनिन्य इति ॥ ४,५ ॥

प्रकाशिका

मिथुनं विवेचयति ॥ यस्तयोरिति । यज्ञस्वरूपधृक् । यज्ञनामकावतारधृक् । दक्षिणा नामतः । भूतेर्महालक्ष्म्याः । अनपायिन्यवियोगिनी यत इत्यर्थः ॥ ४,५ ॥

तां कामयानां भगवानुवाह यजुषां पतिः ।

तुष्टायां तोषमापन्नोऽजनयद् द्वादशात्मजान् ॥ ६ ॥

पदरत्नावली

यजुषां पतिः सकलवेदप्रतिपाद्यत्वेन तदनुसारिहेतुत्वेन तत्प्रवर्तकत्वेन वेदपति-रित्यर्थः । हरिणा यदर्थमवतीर्णं तत्प्रयोजनमाह– तुष्टायामिति ॥ तुष्टायां दक्षिणयाम् ॥ ६ ॥

प्रकाशिका

यजुषां यज्ञानां वेदानां वा पतिर्यज्ञनामा यज्ञभार्यात्वेन तुष्टायां दक्षिणायाम् ॥६॥

तोषः प्रतोषः सन्तोषो भद्रः शान्तिरिडस्पतिः ।

इन्द्रः कविर्भुवः स्वाहः सुदेवो रोचनो द्विषट् ॥ ७ ॥

पदरत्नावली

द्विषट् द्वादश ॥ ७ ॥

प्रकाशिका

द्विषट् द्वादश ॥ ७ ॥

तुषिता नाम ते देवा आसन् स्वायम्भुवान्तरे ।

मरीचिमिश्रा ऋषयो यज्ञः सुरगणेश्वरः ॥ ८ ॥

पदरत्नावली

तोषादीनां समुदितं नामाह– तुषिता इति ॥ अदित्यामुत्पन्नत्वाद् यथा आदित्या नाम देवास्तथा तुष्टयामुत्पन्नत्वात् तुषितानाम देवाः । मरीचिमिश्रा मरीचिमुख्याः । सुरगणेश्वर इन्द्रः । यज्ञः स्वयमिन्द्रोऽभूत् ॥ ८ ॥

प्रकाशिका

‘‘मन्वन्तरं मनुर्देवा मनुपुत्राः सुरेश्वराः । ऋषयोंऽशावताराश्च हरेः षड्विध-मुच्यत’’ इति वचनादेतन्मन्वन्तरापेक्षितं षट्कं दर्शयति ॥ तुषिता इति श्लोकद्वयेन । तथा च स्वायम्भुवोमनुस्तुषितानामका देवाः । मरीचिप्रमुखाः सप्तर्षयः । यज्ञो हरेरंशावतारः । स एव सुरगणेश्वर इन्द्रः ॥ ८ ॥

प्रियव्रतोत्तानपादौ मनुपुत्रौ महौजसौ ।

तत्पुत्रपौत्रनप्तॄणामनुवृत्तं तदन्तरम् ॥ ९ ॥

पदरत्नावली

स्वायम्भुवमन्वन्तरं कैरनुवृत्तमिति तत्राह– प्रियव्रतेति ॥ नप्तारः पुत्रपौत्राः ॥ ९ ॥

प्रकाशिका

प्रियव्रतोत्तानपादौ मनुपुत्रौ । यज्ञस्य द्वैरूप्येण षट्कत्वमत्रोक्तमिति ज्ञातव्यम् । नप्तारः पौत्रपुत्रास्तेषां सकाशादनुवृत्तं प्रवृत्तम् । तदन्तरं स्वायम्भुवमन्वन्तरम् ॥ ९ ॥

देवहूतिमदात् तात कर्दमायात्मजां मनुः ।

तत्सम्बन्धि श्रुतप्रायं भवता गदतो मम ॥ १० ॥

दक्षाय ब्रह्मपुत्राय प्रसूतिं भगवान् मनुः ।

प्रायच्छद् यत्कृतः सर्गस्त्रिलोक्यां विततो महान् ॥ ११ ॥

पदरत्नावली

देवहूतिकथामनुवदति– देवहूतिमिति ॥ तत्सम्बन्धिचरितं श्रुतप्रायं प्राचुर्येण श्रुतं, किंचिदेवावशिष्टमस्तीत्यर्थः ॥ प्रसूतिं कस्मा अदादिति तत्राह– दक्षायेति ॥ १०,११ ॥

प्रकाशिका

श्रुतप्रायं बाहुल्येन श्रुतम् ॥ १०,११ ॥

याः कर्दमसुताः प्रोक्ता नव ब्रह्मर्षिपत्नयः ।

तासां प्रसूतिप्रसरं प्रोच्यमानं निबोध मे ॥ १२ ॥

पदरत्नावली

एवमनूद्य वक्तव्यांशमाह– याः कर्दमेति ॥ पत्नयः पत्न््नयः । प्रसूतिप्रसरं प्रसूति-प्रपञ्चम् ॥ १२ ॥

प्रकाशिका

प्रायग्रहणकृत्यं दर्शयति ॥ याः कर्दमसुता इति । पत्नयः पत्न््नयः । प्रसूतिप्रसरं सन्तानविस्तृतिम् ॥ १२ ॥

पत्नी मरीचेस्तु कला सुषुवे कर्दमात्मजा ।

कश्यपं पूर्णिमानं च ययोरापूरितं जगत् ॥ १३ ॥

पदरत्नावली

चन्द्रकलाव्यावृत्त्यर्थं कर्दमात्मजेति । ययोः सन्तत्या ॥ १३ ॥

प्रकाशिका

ययोः सन्तत्योः ॥ १३ ॥

पूर्णिमाऽसूत विरजं विश्वगां च परंतप ।

देवकुल्या हरेः पादशौचाद् याऽभूत् सरिद् दिवः ॥ १४ ॥

पदरत्नावली

विश्वगां विशिनष्टि– देवकुल्येति ॥ दिवः सरित् स्वर्गनदी, देवकुल्या देवकुलप्रिया ॥ १४ ॥

प्रकाशिका

विश्वगां नाम कन्याम् । तां विशिनष्टि ॥ देवकुल्येति । देवकुलप्रिया । या रूपांतरेण दिवः सरिद् गङ्गाऽभूत्तामित्यर्थः ॥ १४ ॥

अत्रेः पत्न््नयनसूया त्रीन् जज्ञे सुयशसः सुतान् ।

दत्तं दुर्वाससं सोममात्मेशब्रह्मसम्भवान् ॥ १५ ॥

पदरत्नावली

जज्ञे जनयामास । आत्मा विष्णुरीशो रुद्रः ब्रह्मा चतुर्मुखः । ब्रह्मणः सोमे विशेषावेश एव न तु पृथग् जननम् ॥ १५ ॥

प्रकाशिका

जज्ञे जनयामास । आत्मा विष्णुरीशो रुद्रो ब्रह्मा चतुर्मुख एतैः सम्भवः सहभावो येषां तान् । अत्र यद्यपि सोमस्यैव ब्रह्मणा सहभावो दत्तदूर्वाससोस्तु विष्णुरुद्र-स्वरूपत्वमेव तथाऽपि त्रिषु सहभाववचनं छत्रिन्यायेनेति ज्ञातव्यम् ॥ १५ ॥

विदुर उवाच —

अत्रेर्गृहे सुरश्रेष्ठाः स्थित्यन्तोत्पत्तिहेतवः ।

किंस्विच्चिकीर्षवो जाता एतदाख्याहि मे गुरो ॥ १६ ॥

पदरत्नावली

विदुरः श्रुतदत्ताद्यवतारो विशेषजिज्ञासया पृच्छतीत्याह– अत्रेरिति ॥ गृहे भार्यायाम् । स्थित्यन्तोत्पत्तिहेतवः पालनसंहारसृष्टीनां कारणभूताः ॥ १६ ॥

प्रकाशिका

गृहे भार्यायां किंस्विच्चिकीर्षवो किं किं चिकीर्षवः ॥ १६ ॥

मैत्रेय उवाच —

ब्रह्मणा चोदितः सृष्टावत्रिर्ब्रह्मविदां वरः ।

सह पत्न्नया ययौ ऋक्षं कुलाद्रिं तपसि स्थितः ॥ १७ ॥

पदरत्नावली

परमभागवतस्यात्रेः प्रियचिकीर्षैव प्रथमं प्रयोजनं, द्वितीयं योगप्रवर्तनाय अवतार इति भावेन मैत्रेयः प्रश्नं वक्तीत्याह– ब्रह्मणेति ॥ ऋक्षमृक्षनामानम् । किमर्थं यात इति तत्राह– तपसीति ॥ गत्वा तपसि स्थितोऽभूदित्यन्वयः ॥ १७ ॥

प्रकाशिका

ऋक्षम् ऋक्षनामकं, कुलाद्रिम् । तस्मिन्पर्वते तपसि स्थितोऽभूदित्यन्वयः ॥ १७ ॥

तस्मिन् प्रसूनस्तबकपलाशाशोककानने ।

वार्भिः स्रवद्भिरुद्घुष्टे निर्विन्ध्यायाः समन्ततः ॥ १८ ॥

पदरत्नावली

तस्मिन् ऋक्षनामि्न प्रसूनानां स्तबको येषां ते प्रसूनस्तबकास्तेषां पलाशाशोकानां काननं यस्मिन् स तथा तस्मिन् । नाम्ना निर्विन्ध्याया नद्याः स्रवद्भिः स्यन्दमानैर्वार्भिर्जलैः समन्ततोऽप्युद्घुष्टे गर्जिते ॥ १८ ॥

प्रकाशिका

कथम्भूते तस्मिन् । प्रसूनानां स्तबका येषां तेषां पलाशाशोकानां काननानि वनानि च यस्मिन् । पुनः कथम्भूते । विन्ध्याया नद्याः स्रवद्भिर्वार्भिर्जलैः समन्तत उद्घुष्टे नादिते ॥ १८ ॥

प्राणायामेन संयम्य मनोर्वर्षशतं मुनिः ।

अतिष्ठदेकपादेन निर्द्वन्द्वोऽनिलभोजनः ॥ १९ ॥

पदरत्नावली

वर्षशतमिति द्वितीयया एकस्मिन् क्षणेऽपि पादद्वयेन नातिष्ठदिति द्योतयति ॥१९॥

प्रकाशिका

वर्षशतमिति अत्यन्तसंयोगे विहितद्वितीयाप्रयोगेनैकक्षणमपि पादद्वयेन नातिष्ठदिति सूचयति । निर्द्वन्द्वो निर्गतशीतोष्णादिव्यथः ॥ १९ ॥

शरणं तं प्रपद्येऽहं य एव जगदीश्वरः ।

प्रजामात्मसमां मह्यं प्रयच्छत्विति चिन्तयन् ॥ २० ॥

तप्यमानं त्रिभुवनं प्राणायामैधिताग्निना ।

निर्गतेन मुनेर्मूध्नः समीक्ष्य प्रभवस्त्रयः ॥ २१ ॥

पदरत्नावली

तपोविषयमाह– शरणमिति ॥ किं मनोगतं तवेति तत्राह– प्रजामिति

॥ २०,२१ ॥

प्रकाशिका

तपस उद्देश्यमाह ॥ शरणमिति ॥ २०,२१ ॥

अप्सरोमुनिगन्धर्वसिद्धविद्याधरोरगैः ।

वितायमानयशसो मुदाऽऽश्रमपदं ययुः ॥ २२ ॥

पदरत्नावली

अत्रेस्तपोमाहात्म्यं तेन प्रसन्नानां त्रयाणां देवानां तदाश्रमागमनं च वक्ति– तप्यमानमिति ॥ अप्सरआदिभिर्वितायमानं प्रपञ्चीक्रियमाणं यशो येषां ते तथा ॥ २२ ॥

प्रकाशिका

वितायमानं विस्तार्यमाणं यशो येषां ते तथा ॥ २२ ॥

तत्प्रादुर्भावसंयोगविद्योतितमना मुनिः ।

उत्तिष्ठन्नेकपादेन ददृशे विबुधर्षभान् ॥ २३ ॥

पदरत्नावली

तत्प्रादुर्भावस्तेषां प्रकाशस्तस्य संयोगः सम्बन्धस्तेन विद्योतितमतिप्रकाशितं मनो यस्य स तथा ॥ २३ ॥

प्रकाशिका

तेषां प्रादुर्भावः प्राकट्यम् । तस्य संयोगः सन्निधिस्तेन विद्योतितं मनो यस्य । उत्तिष्ठन् उत्कर्षतया तिष्ठन् ॥ २३ ॥

प्रणम्य दण्डवद् भूमावुपतस्थेऽर्हणाञ्जलिः ।

वृषहंससुपर्णस्थान् स्वैः स्वैश्चिह्नैश्च चिह्नितान् ॥ २४ ॥

पदरत्नावली

अर्हणमर्घ्यादिसाधनमञ्चलिश्च यस्य स तथा । शूलकमण्डलुचक्रादि– भिश्चिह्नितानङ्कितान् ॥ २४ ॥

प्रकाशिका

अर्हणं पुष्पादिकं पूजासाधनमञ्जलौ यस्य स तथा । उपतस्थे पूजयामास । स्वैः स्वैश्चिन्हैस्त्रिशूलकमण्डलुचक्रादिभिः ॥ २४ ॥

कृपावलोकेन लसद्वदनेनोपलम्भितान् ।

तच्छोचिषा प्रतिहते निमील्य मुनिरक्षिणी ॥ २५ ॥

पदरत्नावली

कृपया प्रयुक्तेनावलोकितेन लसता वदनेनोपलम्भितानुपलक्षितान् । तच्छोचिषा तेषां वपुस्तेजसा प्रतिहते प्रतिबद्धदर्शनशक्तिनी ॥ २५ ॥

प्रकाशिका

उपलंभितान्ज्ञापितान् । तच्छोशिषा तेषां स्वरूपकांत्या ॥ २५ ॥

चेतस्तत्प्रवणं युञ्जन्नस्तावीत् संहताञ्जलिः ।

श्लक्ष्णया सूक्तया वाचा सर्वलोकगरीयसः ॥ २६ ॥

पदरत्नावली

तत्प्रवणं तेषु मग्नम् । संहताञ्जलिः । श्लक्ष्णया मधुरया । सूक्तया वैदिक्या ॥ २६ ॥

प्रकाशिका

संहताजलिर्बद्धांजलिः । श्लक्ष्णया मधुरया सूक्तया वैदिक्या ॥ २६ ॥

अत्रिरुवाच —

विश्वोद्भवस्थितिलयेषु विभज्यमानै-

र्मायागुणैरनुगुणं प्रगृहीतदेहाः ।

हे ब्रह्मविष्णुगिरिशाः प्रणतोऽस्म्यहं व-

स्तेभ्यः क एव भवतां म इहोपहूतः ॥ २७ ॥

पदरत्नावली

कान् गुणानुपसंहृत्य तुष्टावेति तत्राह– विश्वेति ॥ विश्वस्योद्भवस्थितिलयेषु विभज्यमानैः पृथक् पृथक् क्रियमाणैर् मायायाः प्रकृतेर् गुणैः रजःसत्त्वतमस्संज्ञैर् अनुगुणं कार्यानुकूलं, सृष्टये रजोगुणप्रवर्तकत्वेन, रक्षणाय सत्त्वगुणप्रवर्तकत्वेन, संहाराय तमोगुणप्रवर्तकत्वेन, प्रगृहीतो देहो यैस्ते प्रगृहीतदेहाः स्वीकृतावताराः, हे ब्रह्मविष्णुगिरीशा अहं वः प्रणतोऽस्ति । ‘प्रजापते न त्वदेतान्यन्यो विश्वा जातानि परि ता बभूव’ ‘आस्य जानन्तो नाम चिद् विवक्तन महस्ते विष्णो सुमतिं भजामहे’ ‘इमा रुद्राय स्थिरधन्वने गिरः क्षिप्रेषवे देवाय स्वधाव्ने’ इत्यादि यूयं, तेभ्यो वो युष्मभ्यं भूयोभूयः प्रणतोऽस्मीत्यन्वयः । भक्तिरोमाश्लिष्टमना ब्रह्मस्थो रुद्रस्थः पृथक् स्थितः स्वयमपि विष्णुस्त्रिपुरुषसमाः प्रजाः प्रयच्छन्त्विति यः पूर्वसंकल्पस्तं विस्मरन्निवात्रिर् दुष्टमोहनार्थं विज्ञापयति– क एवेति ॥ भवतां मध्ये मयेह क एव स्वित् को नु उपहूत इत्यन्वयः ॥ २७ ॥

प्रकाशिका

विश्वोद्भवस्थितिलयेषु तदर्थं विभज्यमानैः पृथक्क्रियमाणैर्मायागुणैः प्रकृतिगुणैः सत्त्वादिभिः । अनुगुणं कार्यानुकूलम् । सृष्ट्यै रजोगुणप्रवर्तकतया स्थित्यै सत्त्वगुणप्रवर्तकतया लयाय तमोगुणप्रवर्तकतयेति यावत् । प्रगृहीतो देहो यैस्ते प्रगृहीतदेहाः । हे ब्रह्मविष्णुगिरिशाः । अहं तेभ्यो वो युष्मभ्यं प्रणतोऽस्मि । भवतां मध्ये कश्चिदेव त्रिरूपो विष्णुरेव मयेहोपहूतः । तत्र विष्णुनामकमेव भगवद्रूपं दृश्यते न ब्रह्मरुद्रनामकं विष्णुरूपद्वयम् । इमौ दृश्यमानौ ब्रह्मरुद्रौ विष्ण्वन्यावेव मया नाहूतौ कस्मादागतावित्याशयः ॥ २७ ॥

एको मयेह भगवान् विबुधप्रधान-

श्चित्तीकृतः प्रजननाय कथं नु यूयम् ।

अत्रागतास्तनुभृतां मनसोऽपि दूरा

ब्रूत प्रसीदत महानतिविस्मयो मे ॥ २८ ॥

पदरत्नावली

एतदेव विवृणोति– एको मयेति ॥ इह वने तपः कुर्वतो मया विवुधप्रधानः सर्वदेवोत्तमो ब्रह्मस्थो रुद्रस्थः स्वयं विष्णुरेको भगवानेव प्रजननाय पुत्रतयोत्पत्तये त्रिपुरुषसमानान् पुत्रान् मह्यं ददात्विति चित्तीकृतो ध्यात इत्येवं स्थिते तनुभृतां देहिनां मनसोऽपि दूरविषया यूयं कथन्न्वत्रागताः ? ततः सम्भाषणेन प्रसीदत । मे इहास्मिन्नर्थे एकस्मिन् ध्याते त्रयाणामागमनलक्षणे महान् विस्मय इति । ‘ब्रह्मस्थश्चैव रुद्रस्थः स्वयं चापि हरिः प्रभुः । प्रजां त्रिपुरुषसमां यच्छत्वित्य-त्रिरैच्छत । तस्मात् स ब्रह्मरुद्राभ्यां सह विष्णुर्जगत्पतिः । आगत्य तु त्रिमूर्त्यंशान् प्रादात् पुत्रान् जनार्दनः । भावित्वाच्चैव कार्यस्य लोकानां मोहनाय च ॥’ इति वचनात् ॥ २८ ॥

प्रकाशिका

एतदेव विवृणोति ॥ एको मयेति । इह वने मया विबुधप्रधानः सर्वदेवोत्तम-स्त्रिरूपो विष्णुरेव प्रजननाय पुत्रतयोत्पत्तये चित्तीकृतो ध्यातः । एवं स्थिते तनुभृतां प्राणिनां मनसोऽपि दूरा अविषया यूयं कथं न्विदानीमत्रागतास्त्रिरूपेण विष्णुनैवात्रागन्तव्यं तद्भिन्नयोर्ब्रह्मरुद्रयोरत्रागमनं किमर्थमित्याशयः । ब्रूत । अत्र कारणमिति शेषः ॥ २८ ॥

मैत्रेय उवाच —

इति तस्य वचः श्रुत्वा त्रयस्ते विबुधर्षभाः ।

प्रत्यूचुः श्लक्ष्णया वाचा प्रहसन्तो मुनिं प्रभो ॥ २९ ॥

पदरत्नावली

लोकमोहनार्थमत्रिणा विकल्पितं न तु तत्त्वार्थेन तत्त्वं त्विदं कार्यस्य भावित्वात् सङ्कल्पोपेत्वाद् यथा सङ्कल्पस् तथा कार्यमपि भविष्यति, सङ्कल्पस्त्वेक एव, एतस्माज्झटिति प्रत्यवमर्शनेन तं जानन्तस् त्रिलोकमोहनार्थमुक्तविकल्पाभिप्रायं जानन्तस्तत्त्वगूहनं विज्ञाय प्रहसन्तस्त्रयो देवा आहुरित्याह– इतीति ॥ २९ ॥

प्रकाशिका

प्रहसन्त इति । ब्रह्मरुद्रनामकयोर्विष्णुरूपयोः पृथक् स्थितिर्नास्तीत्ययं न जानातीत्याशयेन प्रहसन्तः ॥ २९ ॥

देवा ऊचुः —

यथा कृतस्ते सङ्कल्पो भाव्यं तेनैव नान्यथा ।

तत्सङ्कल्पस्य ते ब्रह्मन् यद् वै ध्यायसि ते वयम् ॥ ३० ॥

तात्पर्यम्

‘ब्रह्मस्थश्चैव रुद्रस्थः स्वयं चापि हरिः प्रभुः । प्रजां त्रिपुरुषसमां यच्छत्वित्य-त्रिरैच्छत । तस्मात्स ब्रह्मरुद्राभ्यां सह विष्णुर्जगत्पतिः । आगत्य तु त्रिमूर्त्यंशान् पुत्रान्प्रादा-ज्जनार्दनः । भावित्वाच्चैव कार्यस्य लोकानां मोहनाय च’ ॥ इति ब्रह्मवैवर्ते । तत्स्थविष्ण्व-पेक्षया ते वयमिति ॥ ३० ॥

पदरत्नावली

कर्माप्रतीतेः किमाहुरिति तत्राह– यथेति ॥ तपश्चरता त्वया यथा सङ्कल्पः कृतस्तेन सङ्कल्पेन तथैव भाव्यम् । कर्तुमकर्तुमन्यथाकर्तुं समर्थानां भवतां मनीषितं मम दुरवगाहमिति तत्राह– नान्यथेति ॥ स चासौ सङ्कल्पस् तत्सङ्कल्पः, तत्सङ्कल्पस्यान्यथा भावो नैव, त्वत्सङ्कल्पानु-सारेणास्मत्सङ्कल्पोऽपि व्याख्यात इति भावेनाहुः– यद् वा इति ॥ ब्रह्मस्थो रुद्रस्थस्तथा विष्णुः स्वयं च त्रिपूरुषसमानान् पुत्रान् प्रयच्छत्विति यत्सङ्कल्पं ध्यायसि ते वयं ब्रह्मविष्णुरुद्रा इति त्रयस्तुभ्यं, पुत्रान् दास्याम इति सङ्कल्प्यात्रागता इति शेषः । निपातद्वयेन प्रमाणान्तरप्रसिद्धिं द्योतयति ॥ ३० ॥

प्रकाशिका

त्वया यथा कृतः सङ्कल्पस्तेन तथैव भाव्यं नान्यथा । यतः सङ्कल्पस्य ते सङ्कल्पोऽन्यथा नैव । तर्हि कथमेकस्मिन्ध्यायमाने त्रयाणामागमनमित्यत आह ॥ यद्वै ध्यायसि ते वयमिति । अत्र यज्जगदीश्वराख्यं तत्त्वं ध्यायसि ते वयमित्युक्त्या नास्माकं भेदोऽस्तीति दृश्यमानत्रिमूर्त्यैक्यमुच्यत इति प्रतीयतेऽतस्ते वयमित्येतत्सम्यग्व्याख्यातुमेकस्य ध्यानेन त्रयाणामागमनं किमर्थमुच्यत इत्याशङ्कां च परिहर्तुमादौ तावत्प्रमाणं पठति ॥ ब्रह्मस्थ इति । ब्रह्मस्थश्च रुद्रस्थश्च हरिरेवेति सम्बन्धः । न तस्य दृश्यमानब्रह्मरुद्राविति तदर्थः । अत्र रुद्रस्थश्चेति द्वितीयचशब्दान्वयः । स्वयं साक्षाद्धरिरपि । अनेन ब्रह्मरुद्रनामकयोर्हरिरूपयोर्विष्णुरूपवन्न पृथक्स्थितिरिति सूचयति । त्रिपुरुषसमां दृश्यमानत्रिपुरुषसमाम् । अनेन शरणं ते प्रपद्येऽहमित्येतदुक्ततात्पर्यम् । तथा च तत्र मूले आत्मसमामित्येतत्स्वसमं स्वदेहस्थानीयब्रह्मरुद्रसमं चेति व्याख्येयमित्याशयः । तस्माद्ब्रह्मरुद्रनामकयो-र्हरिरूपयोः पृथक् स्थित्यभावादधिष्ठानभूताभ्यां दृश्यमानब्रह्मरुद्राभ्यां सहेत्यर्थः । तत्त्यागेनागमना-सम्भवादिति भावः । तुशब्दस्त्रिमूर्तीनां दृश्यमानत्वरूपविशेषसूचकः । जनार्दनस्त्रिरूपो हरिः । सहागमने पुनर्निमित्तद्वयमाह ॥ भावित्वादिति । दृश्यमानत्रिमूर्तिसमपुत्रलक्षणकार्यस्य भावित्वा-दित्यर्थः ॥ मोहनायेति । सहागमने ते वयमित्युक्त्या दुष्टानां तदभेदस्यैवापाततः प्रतीतेरित्याशयः । एवं प्रमाणमुदाहृत्येदानीं ते वयमित्येतद्व्याख्याति ॥ तत्स्थेति । तत्स्थौ च विष्णुश्च तत्स्थविष्णवस्तेषा-मपेक्षया वयमिति बहुवचनम् । न तु दृश्यमानमूर्त्रित्रयापेक्षयेति मूलोऽर्थ इत्याशयः । तथा च यत्त्रिमूर्त्यात्मकं परमात्मतत्त्वं ध्यायसि ते ब्रह्मरुद्रविष्णुनामानो वयमागताः परन्तु विष्णुरूपवद्ब्रह्म-रुद्रनामकपरमात्मरूपद्वयं न पृथगवस्थितमतोऽधिष्ठानभूताभ्यां दृश्यमानब्रह्मरुद्राभ्यां सहैवागता इति मूलाभिप्रायो ज्ञातव्यः ॥ ३० ॥

अथास्मदंशभूतास्ते आत्मजा लोकविश्रुताः ।

भवितारोऽङ्ग भद्रं ते वितरिष्यन्ति ते यशः ॥ ३१ ॥

पदरत्नावली

तर्हि प्रसन्नाश्चेत् प्रजा ददत इत्यत्रेर्जिह्वाग्रसञ्चलनावकाशमददाना आहुः– अथास्मदिति ॥ अथ ब्रह्मरुद्रस्थो विष्णुः स्वयमित्येते वयमित्युक्त्यनन्तरं व्यवहारान्तरं विरम्य ते तवात्मजा भवितारो भविष्यन्तीति वरं ददुरित्यर्थः । यद्वा यत एवं च संकल्प अथ तस्मादिति । लोके ते यशो विस्तृत्य तुभ्यं कल्याणं सुखं वितरिष्यन्तीत्यन्वयः ॥ ३१ ॥

प्रकाशिका

अथ तस्मात् । अंशेन देहान्तरोत्पत्तिः । अस्मदंशभूता इति । अत्रांशशब्दः स्वरूपांशपरो भिन्नांशपरश्चाभिप्रेतः । तथा च स्वरूपांशपर एको भिन्नांशभूतौ द्वावित्येवं त्रय आत्मजाः पुत्रा भवितारो भविष्यन्ति । ते पुत्रास्ते तव भद्रं यशो वितरिष्यन्ति विस्तारयिष्यन्ति ॥ ३१ ॥

एवं कामवरं दत्वा प्रतिजग्मुः सुरेश्वराः ।

सभाजितास्तयोः सम्यग् दम्पत्योर्मिषतोस्ततः ॥ ३२ ॥

पदरत्नावली

किमन्यद् ददुरिति तत्राह– एवमिति ॥ कामवरं कामितपुत्रवरं, नान्यमिति शेषः । मिषतोः पश्यतोः सतोः । ततोऽत्रेराश्रमात् ॥ ३२ ॥

प्रकाशिका

मिषतोः पश्यतोः सतोस्ततोऽत्रेराश्रमात् ॥ ३२ ॥

सोमोऽभूद् ब्रह्मणोंऽशेन दत्तो विष्णोस्तु योगवित् ।

दुर्वासाः शङ्करस्यांशो निबोधाङ्गिरसः प्रजाः ॥ ३३ ॥

तात्पर्यम्

‘ब्रह्मणो नावतारोऽस्ति सन्निधानं तु केवलम् । ऋते विष्णोरात्मनश्च तदंशोक्तिः प्रवेशतः ॥’ इति च । ‘सृष्टिभेदाद्विरूपं तु कथापञ्चोत्तरं शतम् । वैरूप्यमन्यद्विज्ञेयं तात्पर्यान्मोहनाय च ॥’ इति स्कान्दे । ‘ऋते तु पाण्डवकथां कार्ष्ण्यं रामायणं तथा । विष्णोर्ब्रह्मादिनां चैव क्रमाद्व्यत्यस्तशक्तिताम् । एतदापादकं चान्यदृते कल्पादिभेदतः । कथा-भेदस्तु विज्ञेयो मोहायैतेषु भिन्नते’ इति वाराहे ॥ ३३ ॥

पदरत्नावली

अंशेनेति तृतीयया सोमः साक्षाद् ब्रह्मणोंऽशो न भवति । किन्तु तेन विशेषेण सन्निहित एव । तथात्वे विष्णोरंशो दत्तः शङ्करस्यांशो दुर्वासा इतीव प्रयोगः स्यात् । ‘ब्रह्मणो नावतारोऽस्ति सन्निधानं तु केवलम् । ऋते विष्णोरात्मनस्तु तदंशोक्तिः प्रवेशतः ॥’ इति वचनाद् आत्मनो जीवस्य तदंशोक्तिर् विष्ण्वंशत्ववचनं प्रवेशत इति ज्ञेयमित्यर्थः । कथं तर्हि ब्रह्मसम्भवानिति प्रत्यक्षोक्तिरिति चेन्न । सृष्टिविशेषान् मानान्तरविरुद्धवदुक्तेः । तथा चोक्तं– सृष्टिभेदाद् विरूपं तु कथापञ्चोत्तरं शतम् । वैरूप्यमन्यद् विज्ञेयं तात्पर्यान्मोहनाय च इति । अत्र ग्रन्थे कथापञ्चोत्तरं शतं सृष्टिभेदाद् विरूपं विपरीतमिव, प्रतीयत इति शेषः । अन्यद् वैरूप्यं तात्पर्यज्ञानान्मोहानायोक्तमिति ज्ञेयमित्यर्थः । कल्पादिभेदादपि, कथाभेदो भवतीति इतोऽपि विरोधोऽपि । ऋते तु पाण्डवकथां कार्ष्ण्यं रामायणं तथा । विष्णोर्ब्र्रह्मादिता चैव क्रमाद् व्यत्यस्तशक्तिताम् । एतदापादकं चान्यद् ऋते कल्पादिभेदतः । कथाभेदस्तु विज्ञेयो मोहायैतेषु भिन्नता ॥ इति वचनात् । ‘‘विदि कृतौ’’ इति धातोर्योगविद् योगशस्त्रकृत्, अणिमादियोगज्ञो वा । बोधतेः शब्विकरणे पठितत्वात् परस्मैपदं, प्रजाः सन्ततीः ॥ ३३ ॥

प्रकाशिका

अस्मदंशभूता इत्युक्तम् । तत्र कः कस्यांशभूत इत्यपेक्षायामाह ॥ सोम इति । अत्र दत्तदूर्वाससोः साक्षाद्विष्णुरुद्रांशत्ववत्सोमस्यापि साक्षाद्ब्रह्मांशत्वमुच्यत इति भाति । अतोऽत्रांश-शब्दोक्तेरभिप्रायं प्रमाणेनैव दर्शयति ॥ ब्रह्मण इति । अवतारो अंशेन देहान्तरोत्पत्तिः । तुशब्दः किं त्वित्यर्थः । केवलं सन्निधानमावेशमात्रमस्तीति शेषः । नन्वेवं विराट्रूपेण चतुर्मुखरूपेण वाऽऽद्य-ब्रह्मणो विष्णोः सकाशात्तथांऽडाद्बहिर् गायत्री चैव सावित्री तथैव च सरस्वती । एवं त्रिरूपा प्रकृतिरेका सत्त्वादिभेदतः । तासु वीर्यं समुत्सृष्टं ब्रह्मणैकत्वमागतम् । स सूत्रात्मा समुद्दिष्टो वायुर्लोक-प्रणायकः । सूत्रात्मना महांश्चापि सहजातश्चतुर्मुखः ॥’’ इत्यादौ स्वात्मनश्च सकाशादवतरणमुच्यमानं विरुद्ध्येतेत्यत आह ॥ ऋत इति । विष्णोरात्मनः स्वात्मनश्च ऋते विष्णुं स्वात्मानं च विनाऽन्यस्माद्ब्रह्मणोऽवतारो नास्तीत्यर्थः । तर्हि कथं पुराणेषु सोमादेर्ब्रह्मांशत्वोक्तिरित्यत उक्तम् ॥ तदंशोक्तिरिति । सोमादेस्तदंशोक्तिरित्यर्थः । प्रवेशतः प्रवेशमावेशमपेक्ष्य । व्याख्येयेति शेषः । अतो न कुतोऽपि विरोध इति भावः । अत एव मूले सोमोऽभूद्ब्रह्मणोंऽशेनेति । दूर्वासाः शंकरस्यांश इति वैलक्षण्येनोक्तिरिति ध्येयम् । ननु यदि सोमस्य न ब्रह्मावतारत्वं किन्तु तदाविष्टत्वमेव तर्हि कथं मूले आत्मेशब्रह्मसम्भवानिति साक्षादवतारत्ववचनमित्याशंकायामेतादृशविरुद्धवचनव्याख्यानप्रकारं प्रमाणेनैव दर्शयति ॥ सृष्टिभेदादिति । सृष्टिविषयकथापञ्चोत्तरं शतं विरूपं यथास्थितविरुद्धवचनं चेत् । सृष्टिभेदात्सृष्टीनामवतारभेदविवक्षयैव योज्यम् । सृष्टिविषये कथापञ्चोत्तरं शतं विना यदन्यद्वैरूप्यं सिद्धान्तविरुद्धवचनजातं तद्दैत्यमोहनायोच्यत इति ज्ञेयम् । कुतोऽन्यत्र सिद्धान्ताविरुद्धेऽर्थे तस्य तात्पर्यादित्यर्थः । अन्यद्वैरूप्यं मोहनायेत्युक्तं तदन्यत्किमित्यपेक्षायां तद्विशिष्य दर्शयदुक्तार्थप्रतिपादकं प्रमाणान्तरं पठति ॥ ऋत इति । पाण्डवकथां पाण्डवचरित्रप्रतिपादकं वाक्यप्रबन्धम् । कार्ष्ण्यं कृष्ण-चरित्रप्रतिपादकम् । रामायणं रामचरित्रप्रतिपादकम् । विष्णोः सकाशाद्ब्रह्मादीनां क्रमाद्व्यत्यस्तशक्तितां तारतम्येन शक्त्यादिगुणवत्त्वप्रतिपादकं वचनजातमृते एतदापादकं तारम्यादिरूपसिद्धान्तोपपादकं चान्यद्वचनजातं तच्च ऋते यः कथाभेदः सृष्टिविषयः पञ्चोत्तरशतसंख्याकः सः कल्पादिभेदतः । आदिपदेन सन्निधानं गृह्यते । कल्पभेदमपेक्ष्य सन्निधानमपेक्ष्य च विज्ञेयः । एतेषु पाण्डवकथादिरूपेषु भिन्नता सिद्धान्तविरुद्धार्थप्रतीतिर्मोहायैवेत्यर्थः । तथा च पाण्डवकथामित्याद्यारभ्यान्यदित्यंतपूर्व-प्रमाणोक्तान्यच्छब्दार्थतयाऽत्र विवक्षितमिति दर्शितं भवति ॥ ततश्चायं श्लोकार्थः ॥ सोमो ब्रह्मणोंऽशेन सहाभूत् । तदाविष्टोऽभूदित्यर्थः । योगविद्योगशास्त्रवित् । दत्तो विष्णुरंश इत्यन्वयः । निबोध बुद्ध्यस्व

॥ ३३ ॥

श्रद्धा त्वङ्गिरसः पत्नी चतस्रोऽसूत कन्यकाः ।

सिनीवाली कुहू राका चतुर्थ्यनुमतिस्तथा ॥ ३४ ॥

पदरत्नावली

कन्यकानामान्याह– सिनीवालीति ॥ कृष्णचतुर्दश्यभिमानिनी सिनीवाली, तत्पञ्चदश्यभिमानीनी कुहूः, शुक्लचतुर्दश्यभिमानिनी अनुमतिः, तत्पञ्चदश्यभिमानिनी राका ॥ ३४ ॥

प्रकाशिका

कन्यकानामान्याह ॥ सिनीवालीति । कृष्ण चतुर्दश्यभिमानिनी सिनीवाली, तत्पञ्चदश्यभिमानिनी कुहूः । शुक्लचतुर्दश्यभिमानिन्यनुमतिस्तत्पञ्चदश्यभिमानिनी राका ॥ ३४ ॥

तत्पुत्रावपरावास्तां ख्यातौ स्वारोचिषान्तरे ।

उचथ्यो भगवान् साक्षाद् ब्रह्मिष्ठश्च बृहस्पतिः ॥ ३५ ॥

पदरत्नावली

तत्पुत्रौ तस्याः श्रद्धायाः पुत्रौ । स्वारोचिषनाममनोः । पुत्रयोर्नामाह– उचथ्य इति ॥ उचितुं स्थापयितुमस्येत्युचथ्यः साक्षाद्धगवान् प्रत्यक्षपूज्यः । बृहत्या वाचः पालकत्वात् स्वामित्वाद् वा बृहस्पतिः, तद्बृहतोः करपत्योश्चोरदेवतयोः सुट्तलोपश्चेति सूत्रात् तकारलोपः सुडागमश्चेति ब्रह्मिष्ठः वैदिकतमः । ‘बृहस्पते न परः साम्नो विदुः’ इति श्रुतेः ॥ ३५ ॥

प्रकाशिका

स्वारोचिषस्य मनोरन्तरे । साक्षाद्भगवान्प्रत्यक्षपूज्यो मुख्यभगवदंशयुक्त इति वा । ब्रह्मिष्ठो वैदिकतमः ॥ ३५ ॥

पुलस्त्योऽजनयत् पत्न््नयामगस्त्यं च हविर्भुजि ।

सोऽन्यजन्मनि दभ्रोऽग्निर्विश्रवाश्च महातपाः ॥ ३६ ॥

पदरत्नावली

त्यक्त्वागादगस्त्यः, ‘‘स्त्यै ष्ट्यै शब्दसन्धात’’ इत्यतः शब्दादिविषयजातं प्रति गतो न भवतीति वा । सोऽगस्त्योऽन्यजन्मनि अग्निषु दभ्रो नामाग्निः । दभ्रोऽग्निरल्पाग्निरित्यर्थेऽन्य-जन्मनीति विशेषणं व्यर्थम् । अत्र पूर्णाग्निः पूर्वत्राल्पाग्निरिति विवेकस्तु गवेषणीय इति ॥ ३६ ॥

प्रकाशिका

पुलस्त्यश्च हविर्भुजि पत्न््नयामित्यन्वयः । सोऽगस्त्यो दभ्रोऽग्निरग्निषु दभ्रनामकः कश्चिदग्निरित्यर्थः । विश्रवाश्च पुलस्त्यसुत इति शेषः ॥ ३६ ॥

तस्य यक्षपतिर्देवः कुबेरस्त्विडिबिलासुतः ।

रावणः कुम्भकर्णश्च तथान्यस्यां विभीषणः ॥ ३७ ॥

पुलहस्य गतिर्भार्या त्रीनसूत सती सुतान् ।

कर्मश्रेष्ठं वरीयांसं सहिष्णुं च महामते ॥ ३८ ॥

पदरत्नावली

तस्य विश्रवसः । कोऽयं यक्षपतिरित्यत उक्तम्– देवः कुबेर इति ॥ ‘‘कुबि आच्छादन’’ इति धातोर्धनदानेन दारिद्र्यं कुम्बति आच्छादयतीति कुबेरः । अयमर्थः कस्मिंश्चि-द्यक्षेऽप्यतिव्याप्तः स्यादित्यत उक्तम्– इडिबिलासुत इति ॥ अन्यस्यां पत्न््नयाम् ॥ ३७ ॥

प्रकाशिका

तस्य विश्रवसोऽन्यस्यां केशिनीनामिकायां भार्यायां रावणादयस्त्रयो जाता इत्यर्थः

॥ ३७,३८ ॥

क्रतोरपि क्रिया भार्या वालखिल्यानसूयत ।

ऋषीन् षष्ठिसहस्राणि ज्वलतो ब्रह्मतेजसा ॥ ३९ ॥

ऊर्जायां जज्ञिरे पुत्रा वसिष्ठस्य परन्तप ।

चित्रकेतुप्रधानास्ते सप्त ब्रह्मर्षयोऽमलाः ॥ ४० ॥

पदरत्नावली

वालखिल्या अल्पा येषां ते तथा सन्ततिविधुरा ऊर्ध्वरेतस इत्यर्थः । तान् । ब्रह्मतेजसा ब्रह्मनिमित्ततेजसा ॥ ३९ ॥

प्रकाशिका

ज्वलतः प्रकाशमानान् ॥ ३९,४० ॥

चित्रकेतुः सुरोचिश्च विरजो मित्र एव च ।

उल्बणो वसुभृद्यानो द्युमान् शक्त्यादयोऽपरे ॥ ४१ ॥

शान्तिस्त्वथर्वणः पत्नी लेभे पुत्रं धृतव्रतम् ।

दध्यञ्चमश्वशिरसं भृगोर्वंशं निबोध मे ॥ ४२ ॥

पदरत्नावली

अन्येषां नामान्यप्रसिद्धत्वात् किमिति नोक्तानीति शङ्का मा भूदित्याह– चित्रकेतुरिति ॥ अपरे सप्तभ्योऽन्ये । ते के ? शक्त्यादयः शक्तिमुनिप्रमुखाः ॥ ४१ ॥

प्रकाशिका

तानेवाह ॥ चित्रकेतुरिति । वसुभृद्याननामैकः । शक्तिमुन्यादयोऽपरेऽन्यस्याः पुत्राः ॥ ४१,४२ ॥

भृगुः ख्यात्यां महाभागः पत्न््नयां पुत्रानजीजनत् ।

धातारं च विधातारं श्रियं च भगवत्प्रियाम् ॥ ४३ ॥

प्रकाशिका

ख्यात्यां पत्न्नयाम् ॥ ४३ ॥

आयतिं नियतिं चैव सुते मेरुस्तयोरदात् ।

ताभ्यां तयोरभवतां मृकण्डुः प्राण एव च ॥ ४४ ॥

पदरत्नावली

तयोरायतिनियत्योः ॥ ४४ ॥

प्रकाशिका

तयोरायतिनियत्योः ॥ ४४ ॥

मार्कण्डेयो मृकण्डोस्तु प्राणाद् वेदशिरा मुनिः ।

कविश्च भार्गवो यस्य भगवानुशना सुतः ॥ ४५ ॥

पदरत्नावली

यस्य कवेः ॥ ४५ ॥

प्रकाशिका

यस्य कवेः ॥ ४५ ॥

सर्वे ते मुनयः क्षत्तर्लोकान् सर्गैरभावयन् ।

एष कर्दमदौहित्रसंतानः कथितस्तव ॥ ४६ ॥

पदरत्नावली

अभावयन् अवर्धयन् ॥ ४६ ॥

प्रकाशिका

अभावयन् अवर्धयन् ॥ ४६ ॥

शृण्वतः श्रद्धधानस्य सद्यः पापहरः परः ।

प्रसूतिं मानवीं दक्ष उपयेमे ह्यजात्मजः ॥ ४७ ॥

तस्यां ससर्ज दुहितॄः षोडशामललोचनाः ।

त्रयोदशादाद् धर्माय तथैकामग्नये विभुः ॥ ४८ ॥

पदरत्नावली

कर्दमदौहित्रकथाश्रवणफलमाह– शृृण्वत इति ॥ अजात्मजो दक्षः ॥ ४७ ॥

प्रकाशिका

अजात्मजो ब्रह्मपुत्रो दक्षः ॥ ४७,४८ ॥

पितृभ्य एकां युक्तेभ्यो भवायैकां भवच्छिदे ।

श्रद्धा मैत्री दया शान्तिस्तुष्टिः पुष्टिः क्रियोन्नतिः ॥ ४९ ॥

बुद्धिर्मेधा तितिक्षा ह्रीर्मूर्तिर्धर्मस्य पत्नयः ।

श्रद्धाऽसूत शुभं मैत्री प्रसादमभयं दया ॥ ५० ॥

शान्तिः सुखं मुदं तुष्टिः स्मयं पुष्टिरसूयत ।

योगं क्रियोन्नतिर्दर्प्पमर्थं बुद्धिरसूयत ॥ ५१ ॥

पदरत्नावली

युक्तेभ्यो योगेभ्यो हरौ मनोयोगसहितेभ्य इति वा । भवच्छिदे ज्ञानोपदेशेन संसारनिर्मूलनाय ॥ तासां संततिं स्वनामानुगुणमाह– श्रद्धेत्यादिना ॥ ४९,५० ॥

प्रकाशिका

युक्तेभ्यो योगेभ्यः । हरौ मनोयोगयुक्तेभ्य इति वा ॥ ४९-५१ ॥

मेधा स्मृतिं तितिक्षा तु क्षेमं ह्रीः प्रश्रयं सुतम् ।

मूर्तिः सर्वगुणोत्पत्ती नरनारायणावृषी ॥ ५२ ॥

पदरत्नावली

शमादमादिसर्वगुणानामुत्पत्तिर्ययोस्तौ तथा ॥ ५२ ॥

प्रकाशिका

सर्वगुणोत्पत्ती शमदमादिसर्वगुणानामुत्पत्तिर्ययोस्तौ तथा ॥ ५२ ॥

ययोर्जन्मन्यदो विश्वमभ्यनन्दत् सुनिर्वृतम् ।

मनांसि ककुभो वाताः प्रसेदुः सरितोऽग्नयः ॥ ५३ ॥

दिव्यवाद्यन्त तूर्याणि पेतुः कुसुमवृष्टयः ।

मुनयस्तुष्टुवुस्तुष्टा चतुर्गन्धर्वकिन्नराः ॥ ५४ ॥

प्रकाशिका

सुनिर्वृतमानन्दपूर्णं सदभ्यनन्ददुच्चत्वं प्राप्तवत् ॥ ५३,५४ ॥

नृत्यन्ति स्म स्त्रियो देव्य आसीत् परममङ्गलम् ।

देवा ब्रह्मादयः सर्वे उपतस्थुरभिष्टवैः ॥ ५५ ॥

तात्पर्यम्

‘नरे विष्णुः समाविष्टः स्वयं नारायणो हरिः । अर्जुने च नरावेशः कृष्णो नारायणः स्वयम्’ ॥ इति तत्त्वविवेके ॥ ५५ ॥

पदरत्नावली

अभिष्टवैः स्तोत्रैः ॥ ५५ ॥

प्रकाशिका

उपतस्थुर्भेजुः । अभिष्टवैः स्तोत्रैः । अत्र नारायणस्येव नरस्यापि ब्रह्मादिदेवैः स्तुत्यत्वादिना साक्षाद्विष्ण्ववतारत्वं प्रतीयते । अतोऽत्र विवक्षिततात्पर्यं प्रमाणेनैवाह ॥ नरे विष्णुरिति । नारायणः स्वयं साक्षाद्धरिः । शेषावतारे नरे विष्णोरावेशमात्रमित्यर्थः । प्रसङ्गात् ‘‘ताविमौ वै भगवतो हरेरंशाविहागतौ । भारव्ययाय च भुवः कृष्णौ यदुकुरूद्वहौ ॥’’ इति वक्ष्यमाणश्लोकस्यापि तात्पर्यं द्वितीयार्धेनाह ॥ अर्जुने चेति । तथा चार्जुनस्येन्द्रांशत्वेऽपि तस्य हर्याविष्टनरावेशमपेक्ष्य ‘‘ताविमौ वै भगवतो हरेरंशाविहागतौ’’ इत्याद्युक्तिरुपपन्नेति भावः ॥ ५५ ॥

देवा ऊचुः—

यो मायया विरचितं निजयात्मनीदं

खे रूपभेदमिव तत्प्रतिचक्षणाय ।

एतेन धर्मसदने ऋषिमूर्तिनाऽद्य

प्रादुश्चकार पुरुषाय नमः परस्मै ॥ ५६ ॥

तात्पर्यम्

खे रूपभेदो(वाय्वादिकः)ऽभ्रादिः । ‘यथाकाशस्थितो नित्यमि’त्यादि च । ‘यथाऽऽकाशे विमानादिरूपभेदः प्रतीयते । तथा हरौ जगदिदं तत्सामर्थ्यात्प्रतीयते ॥’ इति ब्राह्मे ॥ ५६ ॥

पदरत्नावली

यो विष्णुर्निजमायया स्वेच्छया । खे रूपभेदमिव यथा आकाशे वाय्वादिरूपभेद आकाशाधारतया प्रतीयते तथा आत्मनि स्वाधारतया विरचितमिदं विश्वम् । तत्प्रतिचक्षणाय तस्य जगतः स्वस्य चाधाराधेयभावज्ञापनाय अद्य धर्मसदने मूर्त्याख्यधर्मभार्यायाम्, एतेनास्मद्दृष्टिगोचरेण ऋषिमूर्तिना, ऋषिवेषधारिणी मूर्तिर्यस्य तत् तथा, तेन रूपेण । प्रादुश्चकार तस्मै परस्मै पुरुषाय नम इत्यन्वयः । ‘यथाऽऽकाशस्थितो नित्यं वायुः सर्वत्रगो महान्’ । यथाऽऽकाशे विमानादिरूपभेदः प्रतीयते । तथा हरौ जगदिदं तत्सामर्थ्यात् प्रतीयते’ इत्यादेः ॥ ५६ ॥

प्रकाशिका

स्तोत्रप्रकारं दर्शयति ॥ यो माययेति । यो विष्णुर्निजमाययेच्छया यस्मिन्नात्मनि खे गगने रूपभेदमिवेदं विश्वं विरचितं विविधरूपमाश्रितं तस्यात्मनः प्रतिचक्षणाय प्रकाशनायात्मानमद्य प्रादुश्चकार प्रकटितवान् । तस्मै परस्मै पुरुषाय नम इत्यन्वयः। कुत्र केन रूपेण प्रादुश्चकारेत्यत उक्तम् ॥ एतेनेत्यादिना । धर्मसदने मूर्त्याख्यधर्मभार्यायामेतेनास्मद्दृष्टिगोचरेण ऋषेर्मूर्तिराकारो यस्मिंस्तेन रूपेण । अत्र रूपभेदमित्येतदप्रतीत्या व्याख्याति ॥ ख इति । आदिशब्देन वायोर्विमानादेश्च ग्रहणम् । अभ्रादेर्गगनाश्रितत्वं प्रसिद्धमिति सूचनाय ख इत्यस्यानुवादः । आदिशब्दगृहीतवायोर्गगनाश्रितत्ववदिदं विष्ण्वाश्रितमित्यत्र प्रमाणं पठति ॥ यथेति । ‘‘यथाऽऽकाशस्थितो नित्यं वायुः सर्वत्रगो महान् । तथा सर्वाणि भूतानि मत्स्थानीत्युपधारय ॥’’ इति समग्रवाक्यग्रहणायादिशब्दः । विमानादेर्गगनाश्रितत्व-वज्जगतो भगवदाश्रितत्वमित्यत्र प्रमाणं पठति ॥ यथाऽऽकाश इति । अत्रादिशब्देनाभ्रादेर्ग्रहणम् । विमानाद्याकारादिरूपभेद इति वाऽर्थः । तस्मात्सामर्थ्यात्तदाश्रितमिति प्रतीयते । वियदादाविवेत्यर्थः । तथा च खे रूपाणां विमानाद्याकाराणां भेदो वैचित्र्यं यस्मिन्नभ्रादिके तदिवेति मूलं योज्यमिति भावः

॥ ५६ ॥

सोऽयं स्थितिव्यतिकरोपशमाय सृष्टान् ।

सत्त्वेन नः सुरगणाननुमेयतत्त्वः ।

दृश्याददभ्रकरुणेन विलोकनेन

यच्छ्रीनिकेतममलं क्षिपताऽरविन्दम् ॥ ५७ ॥

पदरत्नावली

किमिदानीं विशेषाभीष्टमित्यतस्तत् प्रार्थयन्ते– सोऽयमिति ॥ यो भगवान् भक्ताभीष्टैकचिन्तामणिः सोऽयमवलोकनेन कटाक्षनिरीक्षणेन सुरगणान् नो दृश्यादवलोकयत्वित्यन्वयः । द्रष्टव्यत्वे स्वगुणान् लक्षयन्ति– स्थितीति ॥ स्थितिव्यतिकरोपशमाय स्थितिविध्नपरिहाराय सत्त्वेन गुणेन सृष्टान् । अस्माभिरपि न साकल्येन ज्ञातुं शक्यत इति भावेनाहुः– अनुमेयतत्त्व इति ॥ प्रत्यक्षागमानुगृहीतव्याप्तिकेन लिङ्गज्ञानेन ज्ञेयं तत्त्वमनारोपितज्ञानस्वरूपं यस्य स तथा । अवलोकनस्य विषये जने गुणार्पकगुणोऽस्ति चेत् प्रार्थनीयतामर्हति, तत् कथम् ? अत्राहुः– अदभ्रेति ॥ अदभ्रा अनल्पा पूर्णा करुणा यस्य तत् तथा, तेन । न केवलमनुग्रहगुणः किन्तु कान्तिगुणोऽप्यस्तीत्याहुः– क्षिपतेति ॥ अरविन्दं क्षिपता स्वकान्तिगुणेन पद्मकान्तिं निरस्यतेत्यर्थः । पद्मस्य कोऽयं माहात्म्यातिशय इति तत्राहुः– यच्छ्रीनिकेतमिति ॥ यदरविन्दं श्रियो निकेतं निवासस्थानम् । श्रियो निवासस्थानीयत्वे केनचिद् गुणेन भाव्यम्, स क इति तत्राहुः– अमलमिति ॥ ५७ ॥

प्रकाशिका

सोऽयं नोऽस्मान्सुरगणान् अदभ्राऽनल्पा करुणा यस्य स तथा तेन विलोकनेन नेत्रेण दृश्यात्पश्यतु । कथम्भूतेन । यच्छ्रीनिकेतममलमरविन्दम् । तत्क्षिपता तिरस्कुर्वता । कथं भूतः । अनुमेयं शास्त्रानुसार्यनुष्ठानगम्यं तत्त्वमनारोपितं रूपं यस्य । कथम्भूतानस्मान् । स्थितेर्जगन्मर्यादाया व्यतिकरोऽन्यथात्वं तस्योपशमाय परिहाराय सत्त्वेन गुणेन सृष्टान् ॥ ५७ ॥

एवं सुरगणैस्तात भगवन्तावभिष्टुतौ ।

लब्धावलोकैर्ययतुरर्चितौ गन्धमादनम् ॥ ५८ ॥

पदरत्नावली

ततः किं भगवन्तावकार्ष्टामिति तत्राह– एवमिति ॥ ५८ ॥

प्रकाशिका

लब्धोऽवलोको यैः सुरगणैरभिष्टुतावर्चितौ सन्तौ ययतुः ॥ ५८ ॥

ताविमौ वै भगवतो हरेरंशाविहागतौ ।

भारव्ययाय च भुवः कृष्णौ यदुकुरूद्वहौ ॥ ५९ ॥

पदरत्नावली

तौ करतलामलकवज् ज्ञापयति– ताविमाविति ॥ यदूद्वहो यादवेश्वरः कृष्णः । कुरूद्वहोऽर्जुनः । अस्मिन्नरस्य विशेषावेशाद्धरेरंशत्वम् । न तु साक्षात् । तदुक्तम्– ‘नरे विष्णुः समाविष्टः स्वयं नारायणो हरिः । अर्जुने च नरावेशः कृष्णो नारायणः स्वयम् ॥’ इति ॥ ५९ ॥

प्रकाशिका

तौ कावित्यतस्तौ दर्शयति ॥ ताविमाविति । हरेरंशौ । अर्जुनो नराविष्टेन्द्रांशः । कृष्णस्तु साक्षादेव हरेरंश इति ज्ञेयम् । भुवो भारस्य व्ययाय नाशाय । चशब्दोऽवधारणे तेन स्वप्रयोजनान्तरं व्यावर्तयति । यदूद्वहः कृष्णः कूरुद्वहोऽर्जुनः । अर्जुनस्यापि कृष्णेति नाम प्रसिद्धमतोऽत्र कृष्णावित्युक्तम् ॥ ५९ ॥

स्वाहाभिमानिनश्चाग्नेरात्मजांस्त्रीनजीजनत् ।

पावकं पवमानं च शुचिं च हुतभोजनम् ॥ ६० ॥

पदरत्नावली

अग्न्यभिमानिनो देवान् । अग्नेः स्वाहानाम्नी । हुतभोजनमिति त्रयाणां विशेषणम्

॥ ६० ॥

प्रकाशिका

अग्नेर्जडाग्नेरभिमानिनः प्रधानाग्नेः सकाशात्स्वाहानाम्नी तस्य भार्या त्रीनग्नीन-जीजनत् । हुतभोजनमिति त्रयाणां विशेषणम् ॥ ६० ॥

तेभ्योऽग्नयः समभवंश्चत्वारिंशच्च पञ्च च ।

त एवैकोनपञ्चाशत् साकं पितृपितामहैः ॥ ६१ ॥

पदरत्नावली

तेभ्यस्त्रिभ्यः, पितरः पावकादयः, पितामहः स्वाहापतिरग्निः ॥ ६१ ॥

प्रकाशिका

तेभ्यस् त्रीभ्यः पितरः पावकादयस्त्रयः पितामहः प्रधानाग्निरेकस्तैः साकं सह

॥ ६१ ॥

वैतानिके कर्मणि यन्नामभिर्ब्रह्मवादिभिः ।

आग्नेय्या इष्टयो यज्ञे निरूप्यन्तेऽग्नयस्तु ते ॥ ६२ ॥

पदरत्नावली

वैतानिके कर्मणि यज्ञकर्मणि ब्रह्मवादिभिर्येषामग्नीनां नामभिराग्नेय्या अग्निदैवत्या इष्टयो निरूप्यन्ते तेऽग्नय एतादृशमहिमान इत्यर्थः ॥ ६२ ॥

प्रकाशिका

ननु किमेतैः कृत्यमित्यत आह ॥ वैतानिक इति । वैतानिके वैदिके कर्मणि यज्ञे येषां नामभिराग्नेय्या अग्निदेवताका इष्टयो निरूप्यन्ते क्रियन्ते त एतेऽग्नयोऽतो नैतेषां वैय्यर्थ्यमिति भावः

॥ ६२ ॥

अग्निष्वात्ता बर्हिषदः सोम्याः पितर आज्यपाः ।

साग्नयोऽनग्नयस्तेषां पत्नी दाक्षायणी स्वधा ॥ ६३ ॥

पदरत्नावली

तेषां जातिनामान्याह– अग्निष्वात्ता इति ॥ तेषामग्नीनाम् ॥ ६३ ॥

प्रकाशिका

पितृभ्य एकमित्युक्तं तत्र के पितर इत्यपेक्षायां तेषां जातिनामान्याह ॥ अग्निष्वात्ता इति । सौम्याः सोमपाः । येषामग्नौकरणमस्ति ते साग्नयः । तद्रहितास्त्वनग्नयः ॥ ६३ ॥

तेभ्यो दधार कन्ये द्वे मेनां वैतरणीं स्वधा ।

उभे ते ब्रह्मवादिन्यौ ज्ञानविज्ञानपारगे ॥ ६४ ॥

भवस्य पत्नी तु सती भवं देवमनुव्रता ।

आत्मनः सदृशं पुत्रं न लेभे गुणशालिनम् ॥ ६५ ॥

पदरत्नावली

ब्रह्मवादिन्यौ वेदविचारविचक्षणे ॥ ६४ ॥

प्रकाशिका

गुणशीलत आत्मनः सदृशम् । देवमनुव्रताऽपि सती पुत्रं न लेभे ॥ ६४,६५ ॥

पितर्यप्रतिरूपे स्वे भवायानागसे रुषा ।

अप्रौढेवात्मनात्मानमजहाद् योगसंयुता ॥ ६६ ॥

॥ इति श्रीमद्भागवते चतुर्थस्कन्धे प्रथमोऽध्यायः ॥

तात्पर्यम्

अप्रौढेव अस्वीकृतेव ॥ ६६ ॥

॥ इति चतुर्थस्कन्धतात्पर्ये प्रथमोऽध्यायः ॥

पदरत्नावली

भवपत्न्नयाः सत्याः कत्यपत्यानीत्याशङ्कां परिहरति– भवस्येति ॥ पितरि दक्षे अनागसे भवाय अप्रतिरूपेऽननुकूले विरोधिनि सति अप्तौढेवाऽस्वीकृतेव । योगसंयुता प्राणोत्क्रमण-निमित्तयोगनिरतात्मना मनसा आत्मानं हरिं ध्यायन्ती आत्मानं देहमजहाद् अत्याक्षीदित्यन्वयः ॥६६॥

॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुकृतायां

चतुर्थस्कन्धे प्रथमोऽध्यायः ॥

प्रकाशिका

तत्र हेतुः ॥ पितरीति । पितरि दक्षे । अनागसे भवाय प्रतिरूपेऽसदृशे विरोधिनि सतीति यावत् । अप्रौढेव योगसंयुता प्राणोत्क्रमणनिमित्तयोगयुक्ता । आत्मना स्वयमेवात्मानं देहमजहात् त्यक्तवती । अत्राप्रौढेवेत्यस्य प्रकृतोपयुक्तमर्थं दर्शयति ॥ अप्रौढेवेति । अस्वीकृतेव पाणिग्रहणमप्राप्तेव । अनेन प्रकर्षेणोढा स्वीकृतेति विग्रहं सूचयति । स्वीकृतकृत्यस्य पूर्णभोगादेरभावादिवशब्दः ॥ ६६ ॥

**॥ इति श्रीमद्वेदेशपूज्यपादशिष्येण यदुपतिना विरचितायां **

श्रीमद्भागवतटिप्पण्यां चतुर्थस्कन्धे प्रथमोऽध्यायः ॥ ४-१ ॥