एवं निशम्य कपिलस्य वचो जनित्री
अथ चतुस्त्रिंशोऽध्यायः
मैत्रेय उवाच–
एवं निशम्य कपिलस्य वचो जनित्री
सा कर्दमस्य दयिता किल देवहूतिः ।
विस्रस्तमोहपटला तमभिप्रणम्य
तुष्टाव तत्त्वविषयाखिलसिद्धभूमिम् ॥ १ ॥
पदरत्नावली
कपिलावतारेणोपदिष्टं तत्त्वज्ञानं देवहूत्याः सिद्धमभूदिति तत्स्तुतिव्याजेन विज्ञायत इति तदेतत् प्रतिपाद्यतेऽस्मिन्नध्याये । पूर्वं कर्दमस्य शुश्रूषया कर्शिता तत्प्रीतिकरत्वाद् अस्य दयिता प्रेष्ठाऽभूत्, सा देवहूतिरेवं तदुक्तं निशम्य तमभिप्रणम्य कपिलस्य विष्णुत्वं सूचयन्ती तं तुष्टावेत्यन्वयः । कीदृशी ? विस्रस्तमुन्मीलितं मोहपटलमज्ञानाख्यं तिमिरं यस्यास् तथा । कीदृशम् ? तत्त्वं विष्णुस्तद्विषयाश्च ते अखिला अनल्पाश्च सिद्धा ब्रह्मादयस्तेषां भूमिमाश्रयम् । यद्वा तत्त्वस्थितमज्ञानलक्षणं विषं यापयतीति तत्त्वविषया, भगवत्तत्त्वाज्ञानरहितेत्यर्थः ॥ १ ॥
प्रकाशिका
विस्त्रस्तमुन्मूलितं मोहरूपमज्ञानमिथ्याज्ञानाख्यं पटलमावरणं यस्याः सा तथा । तत्त्वविषये येऽखिलाः सिद्धा ज्ञानिनः साङ्ख्याचार्यास्तेषां भूमिमाश्रयम् ॥ १ ॥
देवहूतिरुवाच–
अथाप्ययान्ते सलिले शयानं भूतेन्द्रियार्थात्ममयं वपुस्ते ।
गुणप्रवाहं सदशेषबीजं दध्यौ स्वयं यज्जठराब्जजातः ॥ २ ॥
स एव विश्वस्य भवान् विधत्ते गुणप्रवाहेषु विभक्तवीर्यः ।
सर्गाद्यनीहोऽवितथाभिसन्धिरात्मेश्वरोऽतर्क्यसहस्रशक्तिः ॥ ३ ॥
तात्पर्यम्
भूतेन्द्रियार्थात्ममयं तेभ्यः प्रधानम् । ‘त्वं प्रधानमयो देव प्रधानादधिको यत’ इति वाराहे ॥ २ ॥
पदरत्नावली
तत्त्वाज्ञानं नास्तीति ध्वनितं स्पष्टयति– अथेति ॥ अथ मङ्गलमस्तु । भगवंस्ते तव जठराब्जजात उदरनाभिपद्मसम्भूतो ब्रह्मा स्वयं यद् वपुर्दध्यौ । किंक्रियाविशिष्टम् ? अत्राह– अप्ययान्त इति ॥ अप्ययान्ते सलिले प्रलयजलमध्ये शयानम् । प्रलयावसाने दध्याविति वा । किंगुणविशिष्टम् ? अत्राह– भूतेति ॥ आकाशादीनि भूतानि, श्रोत्रादीनीन्द्रियाणि, अर्थाः शब्दादयः, आत्मा मनः, एतेभ्यो मयं प्रधानम् । ‘मयं प्रधानमुद्दिष्टम्’ इति वचनात् । अत्र प्रधानकार्यभूतादिभ्यः प्राधान्यकथनेन प्रधानादप्युत्तममिति ज्ञातव्यम् । ‘त्वं प्रधानमयो देवः प्रधानादधिको यतः’ इति वचनात् । अत्र प्रधानादिशब्देन तदभिमानिनो लक्ष्म्यादयो ग्राह्याः । ततस् तदुत्तमत्वगुणविशिष्ट-मित्यर्थः । स्वतन्त्रमपीति भावेनाह– गुणप्रवाहमिति ॥ सृष्ट्यादौ सत्त्वादिगुणान् प्रवाहयति प्रवर्त-यतीति । ज्ञानादिगुणा अस्य सन्तीत्यतो वाह– गुणप्रवाहमिति ॥ ज्ञानादिगुणानां प्रवाहो यस्मिंस्तथा । नन्विदं सगुणं किं न स्यादित्यत उक्तम्– सदिति ॥ सत् सत्यम् ‘सत् सत्येऽभ्यर्हिते श्रेष्ठे साधीयति भवत्यपि’ इति यादवः । ‘सदेव सोम्येदमग्र आसीत्’ इति श्रुतेर् न शबलं किन्तु निर्गुणम् । इदं निर्गुणं चेज्जगत्स्रष्टृ अन्यत् स्यादित्यत उक्तम्– अशेषबीजमिति ॥ जगद्व्यञ्जकं निर्गुणमेव स्रष्टृ इत्यर्थः ॥
जगद्व्यञ्जकत्वं स्पष्टयन्ती भवानपि स एवेत्याह– स एवेति ॥ स एव तादृग्वपुष्मानेवाणु-मात्रभेदरहितो भवान् विश्वस्य सर्गादि विधत्त इत्यन्वयः । युगपन्नेत्याह– गुणप्रवाहेष्विति ॥ गुणप्रवाहेषु गुणैः सृष्ट्यादिपरम्परासु ब्रह्मादिरूपेण विभक्तं राजससात्त्विकतामसप्रवर्तकत्वभेदेन पृथक्कृतं वीर्यं माहात्म्यं यस्य स तथा । कार्येषु प्रवर्तमानो देवदत्तवत् क्लिष्टकारी किम् ? नेत्याह– अनीह इति ॥ अत्र हेतुगर्भविशेषणमाह– अवितथाभिसन्धिरिति ॥ सत्यसङ्कल्पत्वादित्यर्थः । एवंविधो ऽन्यो नास्तीति भावेनाह– आत्मेश्वर इति ॥ अविशेषेणात्मनां जीवानाम् ईश्वरस्त्वदन्यो नास्तीत्यर्थः । एकस्यापि चित्रशक्तिस्वभावादीश्वरत्वं कथमुपपद्यत इति तत्राह– अतर्क्येति ॥ ‘विचित्रशक्तिः पुरुषः पुराणः’ इति श्रुतेः ॥ २,३ ॥
प्रकाशिका
अथशब्दो मङ्गलार्थः । स्तोत्रारम्भार्थो वा । भूतेन्द्रियार्थात्ममयमित्येतद्भूताद्यात्मक-मिति प्रतीतिवारणाय व्याख्याति ॥ भूतेति । तथा च भूतान्याकाशादीनीन्द्रियाणि श्रोत्रादीनि । अर्थाः शब्दादयः । आत्मा मनः । अत्र भूतादिशब्देन तदभिमानिनो देवा ग्राह्याः । एतेभ्यो मयं प्रधान-मित्यर्थः । मयं प्रधानमुद्दिष्टमिति वचनादिति भावः । अत्र प्रमाणसंवादमाह ॥ त्वमिति । अत्र प्रधान-शब्दद्वयं तत्कार्यभूताद्युपलक्षकमतो न प्रकृतासङ्गतिरिति ध्येयम् । मूले यज्जठराब्जजातो यन्नाभिस्थ-कमलजातो ब्रह्मा स्वयं साक्षाद्यस्य ते तव वपुर्दध्यौ स एव तादृशवपुष्मानेव । यो भवान् विश्वस्य सर्गादि विधत्ते न तु तव सर्गादिकर्ता कश्चिदन्योऽस्ति । स त्वं मे जठरेण कथंभृत इति त्रयाणामन्वयः । कथम्भूतं वपुः । अप्ययान्ते प्रलयान्ते सलिले शयानं, भूतेन्द्रियार्थात्ममयं भूताद्यभिमानिसर्वदेवोत्तमम् । गुणानां कार्याणां प्रवाहो यस्मिन्सन्निर्दुष्टमशेषबीजं सर्वजगद्व्यञ्जकम् । स एवेत्येवकारेण भगवद्देहानां भेदो नास्तीति सूचयति ।
गुणप्रवाहेषु रजोगुणादिकार्येषु सृष्ट्यादिप्रवाहेषु विभक्तं ब्रह्मादिरूपेण पृथक्क्कृतं वीर्यं जगत्सर्जनादिरूपं माहात्म्यं यस्य स तथा । सर्गादि सृष्ट्याद्यष्टकम् । अनीहः प्रयोजनेच्छारहितः क्लिष्ट-चेष्टारहित इति वा । अवितथाभिसन्धिः सत्यसङ्कल्पः, आत्मेश्वरः सकलचेतनस्वामी, अतर्क्यसहस्र-शक्तिरचिन्त्यानन्तशक्तिः । अनेन विचित्रानेककार्यकर्तुर्न श्रमचिन्तादिदोषप्रसक्तिरिति सूचयति ॥२,३॥
स त्वं भृतो मे जठरेण नाथ कथं नु यस्योदर एतदासीत् ।
विश्वं युगान्ते वटपत्र एकः शेते स्म मायाशिशुरङ्घ्रिपानः ॥ ४ ॥
पदरत्नावली
अतर्क्यशक्तिसहस्रत्वमनुमापयति– स त्वमिति ॥ नाथ यस्य तव जठरे एतद् विश्वमासीद् युगान्ते माययेच्छया शिशुर् अङ्घ्रेरङ्गुष्ठस्य पानं यस्य सोऽङ्घ्रिपानो भूत्वा एक एव सन् वटपत्रे शेते, स त्वं मे जठरेण कथं नु भृतः स्म । अहो तवातर्क्यसहस्रशक्तिमनुमिनोमि यतोऽहं सर्षपमात्रभारमपि वोढुमशक्ता त्रैलोक्यधरं त्वामवहमिति ॥ ४ ॥
प्रकाशिका
हे नाथ । यस्य तवोदरे एतद्विश्वमासीद् आस्ते स त्वं नु इदानीं कथं मे मया जठरेण भृतः । अल्पमात्रमपि भारं वोढुमसमर्थाऽहं सर्वजगदाधारं त्वां कथमवहमतस्त्वमतर्क्यसहस्र-शक्तिरसीत्याशयः । यस्त्वं युगान्ते प्रलयेऽङ्घ्रिं पदाङ्गुष्ठं पिबतीत्यङ्घ्रिपानः माययेच्छया शिशुः सन् एक एव वटपत्रे शेते । स्मेति प्रमाणप्रसिद्धिमत्राह । स त्वं कथं मे जठरेण भृतो न कथमपि । यथा प्रलये इच्छयैव शिशुरूपं धृतमेवमिदानीमपीच्छयैव शिशुस्वरूपं मज्जठरे त्वया धृतमतो न मत्पुत्रस्त्व-मसीत्याशयः ॥ ४ ॥
त्वं देहतन्त्रः प्रशमाय पाप्मनां निदेशभाजां च विभो विभूतये ।
यथावतारास्तव सूकरादयस्तथाऽयमप्यात्मपथोपलब्धये ॥ ५ ॥
तात्पर्यम्
देहतन्त्रः देहप्रकाशः । ‘ततिः प्रकाशो विस्तारस्तन्त्रं चेत्यभिधीयत’ इति तन्त्रमालायाम् ॥ ५ ॥
पदरत्नावली
इदानीं कपिलस्य भगवतोऽतर्क्यसहस्रशक्तिना हरिणैकत्वं प्रकाश्य तदवतार-प्रयोजनं विज्ञापयति– त्वं देहतन्त्र इति ॥ विभो व्याप्त । देहेन तन्त्रं शोचिः प्रकाशो यस्य स तथा । स त्वं सच्चिदानन्दाद्यात्मकदेहेनैव प्रकाशितवानवतारवानसि, न तु जीववत् प्राकृतभौतिकदेहवत्त्वेन । देव यथा तव सूकरादयोऽवतारा हिरण्याक्षादिपाप्मनां प्रशमाय यथा निदेशभाजामाज्ञाकारिणां ब्रह्मादिदेवानां विभूतये कृताः स्युः, तथायमप्यवतारः कल्यादिना प्रलुप्तस्य सत्पथस्य ज्ञानमार्गस्योप-लब्धये प्रकाशनाय, त्वया कृत इति शेषः ॥ ५ ॥
प्रकाशिका
एतदेव पुनः स्पष्टयति ॥ त्वमिति । अत्र देहतन्त्र इत्यस्य देहाधीन इत्यन्यथा-प्रतीतिवारणायार्थमाह ॥ देहतन्त्र इति । तन्त्रशब्दस्य प्रकाशार्थत्वे प्रमाणमाह ॥ ततिरिति । प्रकाश-स्ततिरित्यादिशब्दैरुच्यत इत्यर्थः । त्वं देहतन्त्रः पूर्वं विद्यमानस्य देहस्य प्रकाशो व्यक्तिर्यस्य सोऽसि न तु जीववदविद्यमानदेहोत्पत्तिमांस्त्वमित्याशयः । परिपूर्णस्य तव किमर्थमवतार इत्याशङ्कायां पर-प्रयोजनार्थमिति दृष्टान्तमुखेनाह ॥ यथेति । यथा तव सूकरादयोऽवताराः पाप्मनां पापिष्ठानां हिरण्याक्षादीनां प्रशमाय नाशनाय निदेशभाजां स्वाज्ञाकारिणां ब्रह्मादीनां विभूतये च कृतास्तथाऽय-मप्यवतार आत्मपथोपलब्धये निदेशकारिणां परमात्मज्ञानमार्गप्रदर्शनाय कृत इति ॥ ५ ॥
यन्नामधेयश्रवणानुकीर्तनाद् यत्प्रह्वणाद् यत्स्मरणादपि क्वचित् ।
श्वादोऽपि सद्यः सवनाय कल्पते कुतः पुनस्ते भगवन् नु दर्शनात् ॥ ६ ॥
पदरत्नावली
स्त्रीत्वेऽपि वयं त्वद्दर्शनादिना कृतार्था इत्यत्र कैमुत्यन्यायमाह– यन्नामधेयेति ॥ श्वादः श्वभक्षकः । सवनाय सोमलतावहननाय, यज्ञकरणायेत्यर्थः । कल्पते समर्थो भवति ॥ ६ ॥
प्रकाशिका
त्वद्दर्शनादिनाऽहं कृतार्थाऽस्मीति कैमुत्येनाह ॥ यन्नामधेयेति । श्वानमत्तीति श्वादः श्वपचोऽपि । सवनाय सोमलतावहननाय यज्ञकरणायेत्यर्थः । कल्पते समर्थो भवति । पूज्यो भवतीति भावः ॥ ६ ॥
अहो बत श्वपचोऽतो गरीयान् यज्जिह्वाग्रे वर्तते नाम तुभ्यम् ।
तेपुस्तपस्ते जुहुवुः सस्नुरार्या ब्रह्मानूचुर्नाम गृणन्ति ये ते ॥ ७ ॥
पदरत्नावली
श्रीविष्णुभक्त्यभावे सोमयाजित्वमप्यप्रयोजकमिति भावेनाह– अहो बतेति ॥ अनन्तरातीतग्रन्थे सोमयाजी सामान्यतः प्रस्तुतः । तत्र द्वित्वं संभाव्यते वैष्णवश्चावैष्णवश्चेति । अतोऽ-नयोरवैष्णवसोमयाजिनः श्वपचो गरीयान् । अहो विष्णुभक्तेः सारस्यम् । साऽस्यास्तीत्याह– यज्जिह्वेति ॥ यस्य श्वपचस्य जिह्वाग्रे तुभ्यं तव नाम वर्तते । लटा क्रियासमभिव्याहारं सूचयति । तुभ्यमिति चतुर्थ्या नारायणाय नम इत्यादिना नाम चतुर्थ्यन्तं प्रयोक्तव्यमिति ध्वनयति । नन्विदं भक्तिमत एव सम्भाव्यते, भक्तिस्तु बहुजन्मसञ्चीर्णपुण्यवत एव, ‘बहूनां जन्मनामन्ते कृष्णे भक्तिः प्रजायते’ इति वचनात्, अतः कथं तामसयोनेः श्वपचस्येति, तत्राह– तेपुस्तप इति ॥ इदानीन्तननाम-सङ्कीर्तनेनानुमितपुरातनतपआदिनाऽन्तःकरणशुद्धिरस्तीति ज्ञायते ॥ ७ ॥
प्रकाशिका
तदेवोपपादयति ॥ अहो बतेति । अतोऽवैष्णवसोमयाजिनो यस्य त्वद्भक्तस्य श्वपचस्य जिह्वाग्रे तुभ्यं तव नाम यद्यस्माद्वर्ततेऽतो गरीयानिति वा । ननु तप आदिभिः शुद्धान्तः-करणानामेव भक्तानां नामसङ्कीर्तनादिकं भवति । अतः कथं तदनधिकारिणः श्वपचस्य नामसङ्कीर्त-नादिकमित्यत आह ॥ तेपुरिति । ये नाम गृणन्ति ते पूर्वजन्मनि तपआदि कृतवन्त इति ज्ञायत इत्यर्थः । यद्वा । गरीयस्त्वे तपआदिकं प्रयोजकम् । न च श्वपचस्य तदस्ति । अतः कथं तस्य नामसङ्कीर्तनमात्रेण गरीयस्त्वमित्यतस्तपआदिजनितपुण्यवन्तोऽपि त एवेत्याह ॥ तेपुरिति । ते त एव तपस्तेपुः कृतवन्तो जुहुवुर्होमं कृतवन्तः सस्नुस्तीर्थेषु स्नाता आर्यास्त एव सदाचारा ब्रह्म वेद-मनूचुरधीतवन्तस्त्वन्नामकीर्तनेनैव तत्फलं तैर्लब्धमित्याशयः ॥ ७ ॥
तं त्वाऽद्धाहं ब्रह्म परं पुमांसं प्रत्यक् स्रोतस्यात्मनि संविभाव्यम् ।
स्वतेजसा ध्वस्तगुणप्रवाहं वन्दे विष्णुं कपिलं वेदगर्भम् ॥ ८ ॥
पदरत्नावली
अवतारमूलरूपयोर्न कश्चिद्विशेषोऽस्तीति यदुक्तं तन्मया सम्यगवबुद्धमिति विज्ञापयन्ती स्तुतिमुपसंहरति– तं त्वेति ॥ अहं ज्ञानमेकमित्यादिना प्रतिपादितो यस्तं त्वा वन्द इत्यन्वयः । न केवलं वाचा किन्तु कायेनापीति भावेनोक्तम्– ओति ॥ अनेन मातृत्वाभिमानेन पूज्यत्वाभिमानमपहस्तयति । प्राकृताप्राकृतयोरैक्यं कथं स्यादित्यत उक्तम्– ब्रह्मेति ॥ ब्रह्मशब्दस्यानेकार्थे प्रवृत्तेः कथं निर्णय इत्युक्तम्– परं पुमांसमिति ॥ ‘अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः’ इति गीतोक्तत्वादित्यर्थः । तत्र ज्ञानिप्रत्यक्षं प्रमाणमिति भावेनाह– प्रत्यक् स्रोतस्यात्म-नीति ॥ विषयसञ्चारं मुक्त्वा प्रत्यगात्मनि हरौ नदीप्रवाहवत् स्यन्दमाने आत्मनि मनसि सम्भाव्यं प्रत्यक्षीकरणयोग्यम् । चक्षुरादीन्द्रियैः सह प्रत्यगञ्चति आत्मनि हृदये इति वा । कथमपरोक्षीकुर्वन्तीति तत्राह– स्वतेजसेति ॥ स्वतेजसा स्वरूपभूतसच्चिदानन्दलक्षणप्रभावेन । ध्वस्तगुणप्रवाहं नित्यनिरस्त-संसारम् । कथं निरूप्य वन्दनमिति तत्राह– विष्णुं कपिलमिति ॥ सकलजगद्व्यापी नारायणः कपिलनाम्नाऽवतीर्ण इति । बलानन्दस्वरूपत्वाद् विष्णुः, कं सुखं पिबतीत्यानन्दानुभवाद् लात् सर्वादानाच्च कपिल इत्येकार्थत्वाच्च । ला आदाने इति धातुः । अत्र प्रमाणं ध्वनयति– वेदगर्भमिति ॥ ‘णकारो बलम्’ ‘एष ह्यानन्दमादत्ते’ इत्यादिवेदेन गर्भो ग्रहणं ज्ञानं यस्य स तथा तम् । गृभ्णामि ते सौभगत्वाय हस्तमिति श्रुतेः । यद्वा वेदतात्पर्यमित्यर्थः । वेदो गर्भे यस्य स तथा तमिति वा । स्वगुणप्रतिपादकत्वेनातिप्रियत्वादिति वा । वेदं विस्तीर्य विभर्तीति वा । अनेन वेदस्य नित्यत्वं नित्यत्वस्य ग्राहकेष्विदमेव मुख्यं प्रमाणमिति ध्वनयति । अत्र हरेरन्यान्यपि यानि यानि नामानि तैस्तैर् विशिष्टं त्वां वन्द इति द्योतनाय ब्रह्मादिबहुनामग्रहणमित्यवगन्तव्यम् ॥ ८ ॥
प्रकाशिका
परब्रह्मरूपत्वं कपिलस्य स्पष्टयन्ती स्तुतिमुपसंहरति ॥ तं त्वेति । प्रत्यक् स्रोतसि विषयसञ्चरणमुक्त्वा प्रत्यक् अन्तः स्यन्दमाने आत्मनि मनसि संविभाव्यं सम्यग्ध्येयं स्वतेजसा स्वसामर्थ्येनैव ध्वस्तो नित्यं निरस्तो गुणप्रवाहः संसारो यस्य तं वेदगर्भं वेदमहातात्पर्यविषयं वन्दे स्तौमि नमामि च ॥ ८ ॥
मैत्रेय उवाच–
ईडितो भगवानेवं कपिलाख्यः परः पुमान् ।
वाचाऽविक्लवयेत्याह मातरं मातृवत्सलः ॥ ९ ॥
पदरत्नावली
नन्वनेन स्तोत्रेण कपिलस्य कश्चित् प्रसादविशेषो जातश्चेदुक्तं सर्वं सत्यं तत्त्वं स्यादिदं चाध्येतुः प्रयोजकं स्यादतोऽत्र तादृशं लिङ्गं किमित्याशङ्क्य भगवान् तादृग्लिङ्गगर्भितां वाचं वक्तीत्याह– ईडित इति ॥ अविक्लवया अदीनया । इदमेकं प्रसादलिङ्गमिति इतिशब्देन सूचितम् ॥९॥
प्रकाशिका
अविक्लवया गम्भीरया । मातृवत्सलो मातरि स्वभक्तिप्रयुक्तवात्सल्यवानित्यर्थः
॥ ९ ॥
भगवानुवाच–
मार्गेणानेन मातस्ते सुसेव्येनोदितेन मे ।
आस्थितेन परां काष्ठामचिरादवरोत्स्यसि ॥ १० ॥
पदरत्नावली
प्रसादविशेषं स्पष्टयति– मार्गेणेति ॥ काष्ठामानन्दोत्कर्षमवरोत्स्यसि नित्याभि-व्यक्तं करिष्यसि । अचिरादित्यनेन कपिलस्य मातरि प्रसादातिशयं सूचयति ॥ १० ॥
प्रकाशिका
आस्थितेनानुष्ठितेन । परां काष्ठां यावत्स्वानन्दस्याभिव्यक्तिमवरोत्स्यसि प्राप्स्यसि
॥ १० ॥
श्रद्धत्स्वैतन्मतं मह्यं जुष्टं यद् ब्रह्मवादिभिः ।
येन मामभयं यायान्मृत्युमृच्छन्त्यतद्विदः ॥ ११ ॥
पदरत्नावली
न मयैतद् गाथावदुक्तं, किन्तु मन्त्रोपदेशवदतोऽत्र त्वयाऽऽस्तिक्यबुद्धिः कर्तव्येत्याह– श्रद्धत्स्वैतदिति ॥ मह्यं मम, मामुद्दिश्येति वा । नैतत् तन्त्रज्ञानमुक्तं, किन्तु वैदिकमेवेति भावेनाह– जुष्टं यदिति ॥ तत्प्राप्तावहेतुश्चेद् वैदिकमप्यप्रयोजकमिति तत्राह– येनेति ॥ अनेन त्वं साक्षात् परंब्रह्मेति देवहूत्या यदुक्तं तत्सत्यमिति द्योतितम् । विपक्षे बाधकमाह– मृत्युमिति ॥ न तन्मतं विदन्तीत्यतद्विदः, मृत्युं संसारम्, तन्मतविरुद्धमैक्यमतं विदन्तीति वा, मृत्युं नित्यमरणरूपमन्धन्तमः, गच्छन्तीत्यर्थः ॥ ११ ॥
प्रकाशिका
मह्यं मम । तन्मतं न विदन्तीत्यतद्विदः । मृत्युं संसारमृच्छन्ति प्राप्नुवन्ति ॥११॥
मैत्रेय उवाच–
इति प्रदर्श्य भगवानुशतीमात्मनो गतिम् ।
स्वमात्रा ब्रह्मवादिन्या कपिलोऽनुमतो ययौ ॥ १२ ॥
पदरत्नावली
देवानां नृषु चिरवासो न धर्म इति विदुषा स्वयमपि तज्जातित्वात् पुनर्हरिणा किमकारीति तत्राह– इतीति ॥ इतिशब्देन गतेर्ज्ञानस्य समग्रानुग्रहहेतुत्वलक्षणत्वं वक्ति । उपदेशेन प्रदर्श्य । मातुर्विश्वासार्थं क्वचित् प्रसङ्गात् स्वात्मनो गतिं स्वरूपस्थितिं वा प्रदर्श्येत्यनेन द्योतयति । उषीमभीष्टवर्षिणीं स्वेच्छाज्ञानोपदेष्टृत्वेन गुरुत्वाद् आत्मपुत्रत्वेन सुहृत्वात् सा देवहूतिः पुत्रगमनं कथमनुजज्ञे निर्दयहृदयत्वेनेत्याशङ्क्यापरिहार्यत्वाद् ब्रह्मज्ञानित्वात् स्वात्मस्थत्वाच्च ॥ १२ ॥
प्रकाशिका
उशतीमभीष्टाम् । अनुमत आज्ञप्तः ॥ १२ ॥
सा चापि तनयोक्तेन योगादेशेन योगयुक् ।
तस्मिन्नाश्रम आसीना सरस्वत्याः समाहिता ॥ १३ ॥
पदरत्नावली
तथापि तस्या इतोऽधिकं दुःखं नाभूदिति लक्षयति– सा चापीति ॥ सा देव-हूतिश्च स्वगार्हस्थ्यं तृणवत् हित्वा ओशापि पुत्रविश्लेषणातुरा सती वदनं किञ्चिच्चकार, पुत्रविरहोत्पन्नदुःखानलशुष्कं कृतवतीत्यर्थः । अभिसम्भावितमेतद् लोकदृष्टत्वात्, किं ततोऽन्यत्र गतेत्यत उक्तम्– तस्मिन्निति ॥ सरस्वत्यास्तटे आसीनत्वात् समाहिता । समाधानस्य फलमाह– योगादेशेनेति ॥ योगादेशेन ज्ञानलक्षणोपायोपदेशेन कारणेन योगं भगवद्ध्यानं युङ्क्त इति योगयुक् तथाचानेनान्तरशुद्धिरस्याः ॥ १३ ॥
प्रकाशिका
योगादेशेन योगोपदेशेन निमित्तेन । योगयुक् भक्त्यादिरूपयोगयुक्ता सती । सरस्वत्याः सम्बन्धिनि तस्मिन्नाश्रमे आसीना समाहिताऽसंप्रज्ञातसमाधियुता बभूव ॥ १३ ॥
अभीक्ष्णावगाहकपिशान् जटिलान् कुटिलालकान् ।
आत्मानं चोग्रतपसा बिभ्रती चीरिणं कृशम् ॥ १४ ॥
पदरत्नावली
एवं बाह्यशुद्धिरप्यस्तीति भावेनाह– अभीक्ष्णेति ॥ अनेन नित्यस्नानेन स्त्रीणां तिथ्यादौ स्नानं व्यावर्तयति । आत्मानं देहं कृशं बिभ्रतीत्यनेन फलमूलाद्यशनमपि नास्तीति लक्ष्यते
॥ १४ ॥
प्रकाशिका
एतदेव स्नानतपोवैराग्यादिसाधनोक्तिपूर्वकं विशदयति ॥ अभीक्ष्णेत्यादि षोडशभिः । अभीक्ष्णं त्रिषवणमवगाहनं स्नानं तेन कपिशान्स्वत एव कुटिलान् अलकान्केशान् । आत्मानं देहं चीरिणं चीरधारिणं कृशं च बिभ्रती सती ॥ १४ ॥
प्रजापतेः कर्दमस्य तपोयोगविजृम्भितम् ।
स्वगार्हस्थ्यमनौपम्यं प्रार्थ्यं वैमानिकैरपि ॥ १५ ॥
पदरत्नावली
स्वगार्हस्थ्यत्यागे किं कारणं येन योगेन दुःखं स्यादिति तत्राह– अनौपम्य-मित्यादिना ॥ उपमाया अयोग्यं यस्य तदनौपम्यम् । वैमानिकैर्देवैः । एवंविधमाहात्म्ये निमित्तमाह– प्रजापतेरिति ॥ १५ ॥
प्रकाशिका
प्रजापतेः कर्दमस्य तपोयोगाभ्यां विजृंभितमतिशयितम् । स्वगार्हस्थ्यं हित्वा । अपत्यविरहातुरा सती वदनं किञ्चिच्चकारेत्युत्तरेणान्वयः । कथंभूतं गार्हस्थ्यम् । अनौपम्यम् उपमाया योग्यम् औपम्यं सदृशं, न विद्यते औपम्यं यस्य तत् तथा । वैमानिकैर्देवैः ॥ १५ ॥
पयःफेननिभाः शय्या दान्ता रुक्मपरिच्छदाः ।
आसनानि च हैमानि सुस्पर्शास्तरणानि च ॥ १६ ॥
पदरत्नावली
प्रार्थ्यत्वेऽपि निमित्तमाह– पयःफेननिभा इति ॥ यत्र गार्हस्थ्ये गोक्षीरफेन-मृदुशय्यादयः सन्तीति शेषः । दान्ता गजदन्तनिर्मिताः । रुक्मेण स्वर्णेन परिच्छदोऽलङ्कारो यासां ताः । सुस्पर्शानि स्पर्शसुखकराणि आस्तरणानि कटादयो येेषु तानि तथा ॥ १६ ॥
प्रकाशिका
पुनः कथम्भूतम् । यत्र गार्हस्थ्ये पयःफेननिभाः क्षीरफेननिभा मृदुशुभ्राः शय्याः । सन्तीति शेषः । दान्ता गजदन्तनिर्मिता रुक्मपरिच्छदाः स्वर्णपरिकरोपेता मञ्चकाः । आसनानि पीठादीनि सुस्पर्शानि सुखकरस्पर्शान्यास्तरणानि येषु ॥ १६ ॥
स्वच्छस्फटिककुड्येषु महामरकतेषु च ।
रत्नदीपार्चिषो भान्ति ललनारत्नसंयुताः ॥ १७ ॥
पदरत्नावली
ललनारत्नैः संयुता रत्नदीपार्चिषः । कुड्येषु न्यस्तस्त्रीरत्नहस्तन्यस्तरत्नदीपार्चिषः स्वच्छस्फटिकादिमणिमयकुड्येषु भान्तीत्यर्थः ॥ १७ ॥
प्रकाशिका
महामरकतेषु कुड्येषु रत्नरूपदीपार्चिष इत्यर्थः । ललनानां स्त्रीणामाभरणस्थानि यानि रत्नानि तैः संयुताः ॥ १७ ॥
गृहोद्यानं कुसुमितै रम्यं बह्वमरद्रुमैः ।
कूजद्विहङ्गमिथुनं गायन्मत्तमधुव्रतम् ॥ १८ ॥
पदरत्नावली
कुसुमितैर्बहुभिरमरद्रुमैः रम्यं गृहोद्यानं च भातीत्यर्थः ॥ १८ ॥
प्रकाशिका
बहुभिरमरद्रुमै रम्यमुद्यानं यत्र भाति ॥ १८ ॥
यत्र प्रविष्टमात्मानं विबुधानुचरा जगुः ।
वाप्यामुत्पलगन्धिन्यां कर्दमेनोपला(पा)लितम् ॥ १९ ॥
पदरत्नावली
यत्र गृहोद्याने उत्पलगन्धिन्यां वाप्यां प्रविष्टं कर्दमेनोपलालितमात्मानं विबुधानुचरा जगुरित्यन्वयः ॥ १९ ॥
प्रकाशिका
यत्र गृहोद्याने वाप्यां प्रविष्टं कर्दमेनोपलालितमात्मानं विबुधानुचरा जगुरित्यन्वयः ॥
हित्वा तदीप्सिततममप्याखण्डलयोषिताम् ।
किञ्चिच्चकार वदनं पुत्रविश्लेषणातुरा ॥ २० ॥
पदरत्नावली
पुनरपि कीदृशं स्वागार्हस्थ्यम् ? आखण्डलयोषितामिन्द्रस्त्रीणामीप्सिततममत्यर्थं कमनीयम् ॥ २० ॥
प्रकाशिका
पुनः कथं भूतं गार्हस्थ्यम् । आखण्डलयोषितामिन्द्रस्त्रीणामपीप्सिततमं, प्राप्तु-मिष्टतमं तद्धित्वा तत्राभिमानं त्यक्त्वा वदनं किञ्चिच्चकार ॥ २० ॥
वनं प्रव्रजिते पत्यावपत्यविरहातुरा ।
ज्ञाततत्त्वाऽप्यभून्नष्टवत्सा गौरिव वत्सला ॥ २१ ॥
पदरत्नावली
पतिविरहादपि पुत्रविरहो दुःसह इति भावेनोक्तमेव विवृणोति– वनमिति
॥ २१ ॥
प्रकाशिका
वत्से नष्टे वत्सला गौरिव विरहातुराऽभूदित्यन्वयः ॥ २१ ॥
तमेव ध्यायती देवमपत्यं कपिलं हरिम् ।
बभूवाविरतोत्साहा निःस्पृहा तादृशे गृहे ॥ २२ ॥
पदरत्नावली
नन्वेवं तर्हि पुत्रविरहोद्भूतदुःखार्तमना भगवदुपास्तिमप्यभाङ्क्षीत् किम् ? तत्राह– तमेवेति ॥ अनेन तस्या उपास्तिप्रकारो दर्शित इति । एवकारेण सूचितां विजातीयव्यावृत्तिं स्पष्टयति– निःस्पृहेति ॥ २२ ॥
ध्यायती भगवद्रूपं यदाह ध्यानगोचरम् ।
सुतं प्रसन्नवदनं समस्तव्यस्तचिन्तया ॥ २३ ॥
पदरत्नावली
ननु सुतोक्तमन्यद् अन्यदुपास्ते पुत्रवियोगभ्रान्तबुद्धित्वादित्याशङ्क्याह– ध्यायतीति ॥ समस्तचिन्ता सर्वावयवचिन्ता, व्यस्तचिन्ता एकैकावयवचिन्ता, तया ॥ २३ ॥
प्रकाशिका
समस्तचिन्ता सङ्कुचितचिन्ता व्यस्तचिन्ता विस्तृतचिन्ता । समग्रचिन्तेति यावत्
॥ २३ ॥
भक्तिप्रवाहयोगेन वैराग्येण बलीयसा ।
युक्तानुष्ठानजातेन ज्ञानेन ब्रह्महेतुना ॥ २४ ॥
पदरत्नावली
तस्या उपास्तेः फलमाह– भक्तिप्रवाहेति ॥ सा देवहूतिर्विष्णुः सर्वोत्तम इति ज्ञानसहितनिरतिशयप्रेमलक्षणभक्तिनदीप्रवाहयोगेन । बलीयसा स्वर्गादेः पुरुषार्थवादिशास्त्रार्थश्रुतिमुग्ध-बुद्धिराहित्येन बलिष्ठेन वैराग्येण युक्तं यदनुष्ठानमखण्डध्यानं तस्माज्जातेन ब्रह्महेतुना परब्रह्म-प्रसादजननकारणेन । ब्रह्महेतिनेति पाठे तु ब्रह्मवशीकरणायुधेनेत्यर्थः ॥ २४ ॥
प्रकाशिका
तथा भक्तिप्रवाहरूपयोगेन । बलीयसा दृढेन वैराग्येण च युक्ता श्रवणाद्यनुष्ठान-जातेन ब्रह्महेतुना ब्रह्मप्रसादजातेन । ब्रह्महेतिनेति पाठे ब्रह्मवशीकरणायुधरूपेण । ज्ञानेनेदमित्थमेवेति निश्चयरूपेण निमित्तेन ॥ २४ ॥
विशुद्धेन तदात्मानमात्मना विश्वतोमुखम् ।
स्वानुभूत्या तिरोभूतमायागुणविशेषणम् ॥ २५ ॥
पदरत्नावली
अत एव विशुद्धेनैकत्वसंशयलक्षणदोषरहितेनाविर्भूतेन ज्ञानेन आत्मना स्वस्वरूपमनसा आत्मानं स्वबिम्बभूतं विश्वतोमुखं सर्वज्ञं च । स्वत एव स्वानुभूत्या तिरोभूतं दूरतो निरस्तं मायागुणैः सत्त्वादिभिर् विशेेषणं देहबन्धलक्षणं कार्यं यस्य स तथा तम् । हरिं ददर्शेति शेषः
॥ २५ ॥
प्रकाशिका
विशुद्धेनैकाग्य्रेणात्मना मनसाऽऽत्मानं स्वबिम्बरूपं विश्वतोमुखं सर्वत्रव्याप्तं स्वानुभूत्या स्वरूपप्रज्ञया । तिरोभूतं दूरनिरस्तं मायागुणानां सत्त्वादीनां विशेषणं देहबन्धादिरूपकार्यं यस्य तं भगवद्रूपम् । सुतं ध्यायत्यापरोक्ष्येण पश्यन्ती ॥ २५ ॥
ब्रह्मण्यवस्थितमतिर्भगवत्यात्मसंश्रये ।
निवृत्तजीवोपाधित्वाद् वीतक्लेशाऽऽप्तनिर्वृतिः ॥ २६ ॥
नित्यरूढसमाधित्वात् परावृत्तगुणभ्रमा ।
न सस्मार तदात्मानं स्वप्नदृष्टमिवोत्थितः ॥ २७ ॥
तात्पर्यम्
‘जीवोपाधिप्रभृतय आमुक्तेः सर्वदेहिनाम् । नियमात्सन्त्यभावस्तु निष्फलत्वा-दुदीर्यत’ इति वाराहे ॥ २७ ॥
इति श्रीमद्भागवततृतीयस्कन्धतात्पर्ये श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते
चतुस्त्रिंशोऽध्यायः समाप्तः ॥ ३४ ॥
पदरत्नावली
साऽपरोक्षज्ञानोदयानन्तरमीदृशीमवस्थां प्रापेत्याह– ब्रह्मणीति ॥ सा यदा परमात्मानमद्राक्षीत् तदा आत्मानं स्वशरीरं न सस्मारेत्यन्वयः । कीदृशी ? आत्मसंश्रये स्वाधारे भगवति षड्गुणपूर्णे ब्रह्मणि कालतो देशतो गुणतो व्याप्ते हराववस्थितमतिरेकाग्रमनाः ॥ निवृत्त-जीवभावत्वान् मुक्तलिङ्गशरीराभिमानत्वाद् वीतक्लेशा निरस्तदुःखा । आप्तनिर्वृतिराप्तपरमानन्दा ॥
नित्यारूढसमाधित्वान्नित्यं हरावेव सन्निविष्टमनस्कत्वात् परावृत्तगुणभ्रमा परावृत्तः पराभूतः गुणेषु शब्दादिविषयेषु दुःखसाधनेषु सुखसाधनत्वबुद्धिभ्रमो यस्याः सा । कथमिव ? स्वप्नदृष्टमिवोत्थितः, स्वप्नादुत्थितः स्वप्ने दृष्टं यथा न स्मरति तथेति । नन्विदं निदर्शनं निवृत्तजीवभावत्वे कथमुपपद्यते, स्वप्नदृशो जीवत्वानिवृत्तेरितीयमाशङ्का, ‘जीवोपाधिप्रभृतय आ मुक्तेः सर्वदेहिनाम् । नियमात् सन्त्यभावस्तु निष्फलत्वादुदीर्यते ॥’ इत्यनेन परिहरणीया । एतत्स्मृत्यर्थद्योतनाय स्वप्नोत्थितनिदर्शनमिति तात्पर्यार्थो ज्ञातव्यः ॥ २६,२७ ॥
प्रकाशिका
आत्मसंश्रये स्वात्माधारे भगवति ब्रह्मणि अवस्थितमतिरचलचित्ता यदा तदाऽऽ-त्मानं देहं न सस्मार । असंप्रज्ञातसमाधिस्था बभूवेत्याशयः । उत्थितो जाग्रदवस्थां प्राप्तः स्वप्न-दृष्टमात्मानं देहं यथा न स्मरति तथेत्यर्थः । पुनः कथंभूतेत्यपेक्षायामुक्तम् ॥ निवृत्तजीवोपाधि-त्वादिति । अत्र जीवोपाधिर्लिङ्गशरीरप्रभृतिस्तस्य सर्वथानिवृत्तिरुच्यत इति प्रतीतिवारणाय विवक्षित-तात्पर्यं प्रमाणेनैवाह ॥ जीवोपाधिप्रभृतय इति । जीवस्य बाह्योपाधिर्लिङ्गशरीरम् । प्रभृतिशब्देन कामकर्मादिसङ्ग्रहः । आमुक्तेर्लिङ्गशरीरभङ्गरूपमोक्षपर्यन्तम् । तर्ह्यभाववचनानां का गतिरित्यत उक्तम् ॥ अभावस्त्विति । तुशब्दोऽवधारणे । निष्फलत्वादेव दग्धपटादिवदकिञ्चित्करत्वादेवाभाव उदीर्यत इत्यर्थः । ततश्च निवृत्तजीवोपाधित्वादकिञ्चित्करलिङ्गशरीररूपबाह्योपाधित्वात् । निवृत्तजीवभावत्वादिति पाठेऽपि जीवं भावयत्युत्पादयतीति व्युत्पत्त्या जीवभावशब्दो लिङ्गशरीराद्युपाधिपर इति ज्ञेयम् । वीतक्लेशा विगतदुःखा । आप्तनिर्वृतिः प्राप्तस्वरूपानन्दा । नित्यारूढो लब्धप्रतिष्ठः समाधिर्यस्याः सा तथा तस्या भावस्तत्वं तस्मात् । परावृत्तः शान्तो गुणेषु शब्दादिषु विषयेषु भ्रमः सुखसाधनत्वभ्रमो यस्याः सा तथा । एतादृश्यात्मानं न सस्मारेत्याशयः ॥ २६,२७ ॥
तद्देहः परतः पोष्यो(षो)ऽप्यकृशश्चाध्यसम्भवात् ।
बभौ मलैरवच्छन्नः सधूम इव पावकः ॥ २८ ॥
पदरत्नावली
इदमपरोक्षज्ञानोदयानन्तरं लक्षणमित्याह– तद्देहेति ॥ तस्य पोषोऽपगतः स तस्या देहो बभावित्यन्वयः । आध्यसम्भवात् शरीरकार्श्यहेतुमनोदुःखाभावादकृशत्वम् । अकृत इति पाठे विहितस्नानादिशून्य इत्यर्थः । ‘युगेऽक्षपाते पर्याप्ते कृतं क्लीबे हितेऽर्थवद्’ इति यादवः । यद्वा अपर्याप्तोऽसमाप्तप्रारब्धकर्मा ॥ २८ ॥
प्रकाशिका
तस्या देहस्तद्देहः परतः पराभिर् दासीभिराध्यसंभवान्मनोग्लान्यसंभवादकृशः । अकृत इति पाठेऽभ्यङ्गस्नानादिसंस्कारशून्य इत्यर्थः ॥ २८ ॥
स्वाङ्गं तपोयोगमयं मुक्तकेशं गताम्बरम् ।
दैवगुप्तं न बुबुधे वासुदेवप्रविष्टधीः ॥ २९ ॥
पदरत्नावली
शरीराभिमानाभावादाध्यसम्भवोऽनुमीयत इति भावेनाह– स्वाङ्गमिति ॥ गोप्त्रभावात् कथं तद्देहावस्थानम् ? अत्राह– दैवेति ॥ दैवेन हरिणा गुप्तं रक्षितम् । स्वरक्षणे निमित्त-माह– वासुदेवेति ॥ २९ ॥
प्रकाशिका
आत्मानं न सस्मारेत्युक्तमेव विवृणोति ॥ स्वाङ्गमिति । तपोयोगमयं तत्प्रचुरम् । न बुबुध इत्यत्र हेतुः ॥ वासुदेवेति ॥ २९ ॥
एवं सा कपिलोक्तेन मार्गेणाविरतं(हं) परम् ।
आत्मानं ब्रह्म निर्वाणं भगवन्तमवाप ह ॥ ३० ॥
पदरत्नावली
श्रवणसुखस्याप्यस्य प्रसङ्गस्य कदा नु समाप्तिरिति मन्दां शङ्कां परिहरंस्तद्देहस्य प्रारब्धकर्मनिर्वाणेन तस्याः श्रीनारायणप्राप्तिं वक्ति– एवं सेति ॥ अविरहं सर्वगतम् । निर्वाणं प्रकृतिप्राकृतशरीररहितं निर्वृतं वा । हेत्यनेनेतिहाससमाप्तिं सूचयति ॥ ३० ॥
प्रकाशिका
अविरतमपरिच्छिन्नं निर्वाणं प्राकृतशरीररहितम् । हेत्यास्वादने ॥ ३० ॥
तद् वीरासीत् पुण्यतमं क्षेत्रं त्रैलोक्यविश्रुतम् ।
नाम्ना सिद्धपदं यत्र सा संसिद्धिमुपेयुषी ॥ ३१ ॥
पदरत्नावली
पूर्वं शुक्लस्य हरेरश्रुबिन्दुनिपाताद् बिन्दुसरोनामाभूत्, इदानीमस्या देवहूत्याः सिद्धपदहेतुत्वात् सिद्धपदमिति नामान्तरं वक्ति– तद् वीरेति ॥ वीर विदुर ॥ ३१ ॥
प्रकाशिका
तद्बिन्दुसरोनामकम् । हे वीर विदुर । उपेयुषी प्राप्ता ॥ ३१ ॥
तस्यास्तद् योगविधुतमाशु मर्त्यमभूत् सरित् ।
स्रोतसां प्रवरा सौम्य सिद्धिदा सिद्धसेविता ॥ ३२ ॥
पदरत्नावली
तत्र तद्देहो दाहकाभावात् श्वसृगालगोचरश्चेद् लोकहितेषणक्षेत्रस्तुतिर्व्यर्था स्यादिति तत्राह– तस्या इति ॥ तन्मर्त्यं शरीरं स्रोतसां नदीनां प्रवरा सरित् ॥ ३२ ॥
प्रकाशिका
तस्या देवहूत्या योगविधुतं योगमार्गेण त्यक्तं तन्मर्त्यं शरीरं सरिन्नद्यभून्न-द्याकारेण परिणताऽभूदित्यर्थः । स्रोतसां नदीनां प्रवरा श्रेष्ठा सिद्धपदहेतुत्वात् सिद्धसेविता ॥ ३२ ॥
कपिलोऽपि महायोगी भगवान् पितुराश्रमात् ।
मातरं समनुज्ञाप्य प्रागुदीचीं दिशं ययौ ॥ ३३ ॥
पदरत्नावली
पूर्वं कपिलगमनस्य कर्म नोक्तमधुना तत्पूर्वं तद्गमनं वक्ति– कपिलोऽपीति ॥ महायोगी पूर्वज्ञानी प्रागुदीचीं दिशं शङ्कररक्षिताम् ॥ ३३ ॥
प्रकाशिका
पूर्वं कपिलो गत इत्युक्तम् । स कुत्र गत इत्यपेक्षायां तद्गमनं विशदयति ॥ कपिलोऽपीति । प्रागुदीचीमैशानीम् ॥ ३३ ॥
सिद्धचारणगन्धर्वैर्मुनिभिश्चाप्सरोगणैः ।
स्तूयमानः समुद्रेण दत्तार्हणनिकेतनः ॥ ३४ ॥
पदरत्नावली
दत्ते अर्हणनिकेतने पूजादिनिवासस्थाने यस्मै स तथा ॥ ३४ ॥
प्रकाशिका
दत्तेऽर्हणनिकेतने पूजानिवासस्थाने यस्मै स तथा ॥ ३४ ॥
आस्ते योगं समास्था(ख्या)य साङ्ख्याचार्यैरभिष्टुतः ।
सिद्धगन्धर्वमुख्यैश्च देवैश्चापि प्रपूजितः
त्रयाणामपि लोकानामुपशान्त्यै समाहितः ॥ ३५ ॥
पदरत्नावली
योगं ध्यानलक्षणं प्राणायामलक्षणं वा । साङ्ख्याचार्यैर् यथार्थज्ञानोपदेष्टृभिः सनकादिभिः । नायं योगः स्वप्रयोजनोपदेशार्थः । किन्तु लोकसुखार्थ इत्याह– त्रयाणामिति ॥ उपशान्त्यै मङ्गलाय ॥ ३५ ॥
प्रकाशिका
योगं स्वध्यानरूपमुपशान्त्यै मङ्गलाय समाहितः स्वस्थचित्तः ॥ ३५ ॥
मैत्रेय उवाच–
एतन्निगदितं तात यत् पृष्टोऽहं त्वयाऽनघ ।
कपिलस्य च संवादो देवहूत्याश्च पावनः ॥ ३६ ॥
पदरत्नावली
मैत्रेयो विदुरं सम्बोधयंस्तत्प्रश्नपरिहारकथनमुपसंहरति– एतन्निगदितमिति ॥ न केवलं देवहूत्या एव सिद्धिहेतुः, किन्तु लोकस्य चेति चार्थः ॥ ३६ ॥
प्रकाशिका
मैत्रेय आख्यायिकाकथनमुपसंहरति ॥ एतदिति ॥ ३६ ॥
य इदमनुश्रुणोति योऽभिधत्ते कपिलमुनेर्मतमात्मयोगगुह्यम् ।
भगवति कृतधीः सुपर्णकेतावुपलभते भगवत्पदारविन्दम् ॥ ३७ ॥
इति श्रीमद्भागवते तृतीयस्कन्धे चतुस्त्रिंशोऽध्यायः ।
पदरत्नावली
श्रोत्रादीनां क्षिप्रप्रवृत्त्यर्थं श्रवणादिफलमाह– य इदमिति ॥ आत्मयोगगुह्यं परमात्मप्राप्तिसाधनोपायानां मध्ये रहस्यम् । यः सुपर्णकेतौ गरुडध्वजे भगवति कृतधीः श्रवणादिनेदं मतम् अभिधत्ते अभ्यस्यति, स च भगवत्पदारविन्दमुपलभतेऽपरोक्षीकरोति ॥ ३७ ॥
सुनीलनीरदश्यामं सच्चिदानन्दविग्रहम् ।
रमारमणमीशेशं विठ्ठलं समुपास्महे ॥ १ ॥
पदरत्नावली नाम तृतीयस्कन्धकाशिनी ।
वनमालेव देवेश तव कण्ठे विराजताम् ॥ २ ॥
तृतीयस्कन्धमारूह्य गिरीन्द्रमिव गह्वरम् ।
अवरूढे मयि स्निग्धाः कृपां कुर्वन्तु साधवः ॥ ३ ॥
॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुकृतायां तृतीयस्कन्धे चतुस्त्रिंशोऽध्यायः ॥
प्रकाशिका
उक्तार्थे तात्पर्यद्योतनायैतच्छ्रवणादिमात्रेणापि फलं भवतीत्याह ॥ य इदमिति । आत्मयोगगुह्यं परमात्मज्ञानोपायरहस्यं कृतधीः संपादितापरोक्षज्ञानः । सुपर्णकेतौ गरुडध्वजे भगवति विषये । उपलभते प्राप्नोति ॥ ३७ ॥
॥ इति श्रीमद्वेदेशपूज्यपादशिष्येण यदुपतिना विरचितायां
श्रीमद्भागवतटिप्पण्यां चतुस्त्रिंशोऽध्यायः ॥ ३-३४ ॥
तृतीयस्कन्धतात्पर्यफक्किकार्थप्रकाशिनी ।
कृतिर्यदुपतेर्भूयात्प्रीत्यै माधवमध्वयोः ॥ १ ॥
इति श्रीमद्भागवतटिप्पण्यां श्रीमद्वेदेशतीर्थपूज्यपादशिष्येण
यदुपतिना विरचितायां तृतीयः स्कन्धः समाप्तः ॥ ३ ॥
**॥ इति तृतीयस्कन्धः ॥ **
॥ श्रीकृष्णार्पणमस्तु ॥