अथ यो गृहमेधीयान् धर्मानेवावसन् गृहे
अथ त्रयस्त्रिंशोऽध्यायः
भगवानुवाच–
अथ यो गृहमेधीयान् धर्मानेवावसन् गृहे ।
काममर्थं च धर्मं च दोग्धि भूयः पिपर्ति तान् ॥ १ ॥
पदरत्नावली
अर्चिरादिमार्ग एवानावृत्तिमोक्षसाधनम्, स च भक्त्यैकलभ्य इत्यर्थमस्मिन्नध्याये वक्ति । तत्रादौ धूमादिमार्गः कर्मिणां स्वर्गप्राप्तिसाधनं, सोऽपीषद्भगवद्भक्तिमत एवेत्यतः प्रधानसाधनं भक्तिरेवेति दर्शयितुमाह– अथेति ॥ अथ प्रवृत्तिमार्गस्थस्य फलमुच्यते । किं तदिति ? यो गृहमेधीयान् गृहस्थयोग्यान् धर्मानेवावसन् तेष्वेव वर्तमानो धर्ममर्थं च कामं च दोग्धि । तत्फलमिति शेषः । भूय-स्तानेव पिपर्ति, पृ पालनपूरणयोरिति धातोः पुत्रादिषूपदेशेन रक्षति, स्वयं कृत्वा वर्धयतीत्यर्थः ॥१॥
प्रकाशिका
अत्र निवृत्तकर्मिणां भक्त्यतिशयवतामपुनरावृत्तिलोकप्राप्तिफलं वक्तुं तत्र श्रद्धो-त्पादनाय प्रवृत्तकर्मिणां पुनरावृत्तिमल्लोकप्राप्तिरूपं फलं तावद्दर्शयितुमाह ॥ अथेति । अथशब्दः प्रकरणान्तरारम्भसूचकः । यो गृह एवावसन् गृहमेधीयान् गृहस्थाश्रमयोग्यान् धर्मान्दोग्धि । दोह्यमाह ॥ काममर्थं च धर्मं चेति ॥ तान्दुग्धान्धर्मान् भूयः पिपर्ति पूरयति । पृ पालनपूरणयोरिति धातोः । पुत्रादिषूपदिश्य स्वयमनुतिष्ठतीति यावत् ॥ १ ॥
स चापि भगवद्धर्मात् काममूढः पराङ्मुखः ।
यजते क्रतुभिर्देवान् पितॄंश्च श्रद्धयाऽन्वितः ॥ २ ॥
पदरत्नावली
तद्वर्धनप्रकारमाह– स चापीति ॥ चशब्दो हेत्वर्थः । दुःखनिवृत्तिसुखप्राप्ति-साधनभगवद्धर्माद् भक्तिलक्षणात् पराङ्मुखोऽपि काममूढश्च स्रक्चन्दनवनितादिकाममूढत्वेन स गृही क्रतुभिर्देवान् यजते, श्राद्धादिना पितृंश्चेत्यन्वयः ॥ २ ॥
प्रकाशिका
तदनुष्ठानं विशदयंस्तान्निन्दति ॥ स चापीति ॥ चशब्दो हेत्वर्थः । अपिशब्दः पूर्वाध्यायोक्तसमुच्चयार्थः । न केवलं पूर्वोक्तयाऽपि भक्त्या भगवदाराधनरूपाद्भगवद्धर्मात्पराङ्मुखः किंतु यस्तान्पिपर्ति सोऽपि कुतो यतः काममूढः सन् क्रतुभिर्देवान्यजते श्राद्धादिभिश्च पितॄन् ॥ २ ॥
तच्छ्रद्धयाक्रान्तमतिः पितृदेवव्रतः पुमान् ।
गत्वा चान्द्रमसं लोकं सोमपाः पुनरेष्यति ॥ ३ ॥
तात्पर्यम्
‘ईषद्भक्तो भगवति सुकर्मा स्वर्गमेष्यति । अभक्तो निरयं याति सुकर्माऽपि न संशय’ इति वामने ॥ ३ ॥
पदरत्नावली
तत्पूजाफलमाह– तच्छ्रद्धयेति ॥ तेषां देवादीनां यजनकर्तव्यताश्रद्धया । पितृणां देवानां सन्तुष्टियोग्यं व्रतं यस्य स तथा । धूमादिमार्गेण चन्द्रमसं चन्द्रेणाधिकृतं लोकं स्वर्गैकदेशं गत्वा भगवद्धर्मात् पराङ्मुखः पुमान् पुण्यफलं भुक्त्वा पुनः पापफलं भोक्तुं निरयमेष्यति । भगवतीषद्भक्तः स्वर्गकाममूढः पुमान् स्वर्गं गत्वा भुक्तपुण्यशेषेण पुनर्भूलोकमुपैष्यति । इत्येतत् तात्पर्यार्थः, ‘ईशद्भक्तो भगवति सुकर्मा स्वर्गमेष्यति । अभक्तो निरयं याति सुकर्मापि न संशयः’ इत्यनेनावगम्यते ॥ ३ ॥
प्रकाशिका
ततः किमित्यत आह ॥ तच्छ्रद्धयेति ॥ तच्छ्रद्धया तेषां पितॄणां देवानां श्रद्धयाऽऽक्रान्ता व्याप्ता मतिर्यस्य । पितॄणां देवानां च तुष्ट्यर्थं व्रतं यस्य स पितृदेवव्रतः । चान्द्रमसं चन्द्रेणाधिकृतं लोकं स्वर्गैकदेशम् । सोमपाः सोमयाजी । उपलक्षणमेतत् । श्राद्धादिकर्मकर्ता पितृलोकं गत्वा पुनरेष्यतीत्यपि ग्राह्यम् । तथा च पुनरावृत्तिमल्लोकप्राप्तिसाधनकर्मकर्तृत्वादपुनरावृत्तिमल्लोक-साधनभगवद्धर्मात्सोऽपि पराङ्मुख इत्याशयः । अत्र सर्वथा भगवद्भक्तिशून्यस्यापि यजमानस्य स्वर्ग-प्राप्तिरुच्यत इति भाति । न च तत्सम्भवति । पापं भवति धर्मोऽपि यो न भक्तैः कृतो हरेरिति वचनात् । अतोऽत्र विवक्षितं तात्पर्यं प्रमाणेनैव दर्शयति ॥ ईषद्भक्त इति । स्वर्गसाधनीभूताधम-प्रसादजनकभक्तिमानित्यर्थः । सुकर्मा वेदविहितयज्ञादिकर्मकर्ता । अभक्तः सर्वथा भक्तिशून्यः । तथा च गत्वा चान्द्रमसं लोकमित्येतदीषद्भक्तमभिप्रेत्यैवोक्तमित्याशयः ॥ ३ ॥
यदा चाहीन्द्रशय्यायां शेतेऽनन्तासनो हरिः ।
तदा लोका लयं यान्ति त एते गृहमेधिनाम् ॥ ४ ॥
पदरत्नावली
प्रवृत्तिधर्मिणां लोकानामन्तवत्त्वेन तच्छ्रद्धा न कार्येतिभावेन तन्नाशावधिमाह– यदेति ॥ चशब्देन लोकनाशस्यावश्यंभावित्वमाह ॥ ४ ॥
प्रकाशिका
लोकेषु सत्स्वपि पुण्यक्षयात्तत आवृत्तिमुक्त्वेदानीं तल्लोकानामपि लयावधिमाह ॥ यदा चेति । दैनन्दिनप्रलय इत्यर्थः । तस्मान्न प्रवृत्तकर्मनिरतो भूयादित्याशयः ॥ ४ ॥
ये स्वकर्म न दुह्यन्ति धीराः कामार्थहेतवे ।
निःसङ्गा न्यस्तकर्माणः प्रशान्ताः शुद्धचेतसः ॥ ५ ॥
प्रकाशिका
इदानीं निवृत्तकर्मिणां भगवल्लोकप्राप्तिं दर्शयति ॥ य इति । दुह्यन्ति दुहन्ति न्यस्तकर्माणो भगवत्येव समर्पितकर्माणः ॥ ५ ॥
निवृत्तिधर्मनिरता निर्ममा निरहङ्कृताः ।
स्वधर्माख्येन सत्त्वेन परिशुद्धेन चेतसा ॥ ६ ॥
सूर्यद्वारेण ते यान्ति पुरुषं विश्वतोमुखम् ।
परावरेशं प्रकृतिमस्योत्पत्त्यन्तभावनम् ॥ ७ ॥
पदरत्नावली
निवृत्तधर्मिणां मार्गं गम्यं तत्साधनं च संक्षिप्याह– निवृत्तीति ॥ पुरुषस्य स्वरूपधर्मः सत्त्वगुणस्तेन । यद्वा सत्वेनात्मभावेन परमात्मभक्त्या सूर्यद्वारेणार्चिरादिमार्गेण मानवनामानं पुरुषं यान्ति । किं तत्रैवावस्थानमुतान्यत्रापीति तत्राह– विश्वतोमुखमिति ॥ विभक्तिविपरिणामेन पुरुषेणेत्यनुवर्तनीयम् । मानवपुरुषेणाप्रतीकालम्बना अपि विश्वतोमुखं सर्वज्ञं, परावरेशं मुक्तामुक्त-प्रपञ्चेश्वरं, प्रकृतिं मूलकारणम्, अस्य जगत उत्पत्त्यन्तभावनं सृष्टिसंहारकारणं, विष्णुं यान्तीत्यन्वयः । इदमुक्तं भवति । प्रतीकालम्बना अप्रतीकालम्बना उभयेऽपि ज्ञानिनो विष्णुं प्राप्यापि मानवपुरुषेण कार्यब्रह्मप्रापितास् तत्समीपे वसन्तीति ॥ ६-७ ॥
प्रकाशिका
निवृत्तिर्विषयवैराग्यं तल्लक्षणे धर्मे नितरां रताः । स्वधर्माख्येन स्वस्वरूप-भूतधर्मरूपेण सत्वेन सतो भावः सत्वं मोक्षयोग्यत्वं तेनाप्रतीकालम्बनत्वादिरूपेण ॥ परावरेशं मुक्तामुक्तेशम् । प्रकृतिं प्रकृष्टकृतिमन्तम् उत्पत्त्यन्तौ भावयति करोतीत्युत्पत्त्यन्तभावनस्तम् । अत्र सूर्यद्वारेण पुरुषं यान्तीत्युपलक्षणम् । ब्रह्मनाड्युत्क्रान्ता अर्चिरादिना मुख्यवाय्वन्तेन मार्गेण स्वस्वयोग्यतानुसारेण कार्यं परं वा ब्रह्म यान्ति । नाड्यन्तरोत्क्रान्तास्तु महरादिलोकस्थं ब्रह्मेत्यपि ग्राह्यम् । एतत्सूचनायैव स्वधर्माख्येन सत्त्वेनेत्युक्तम् ॥ ६-७ ॥
द्विपरार्धावसाने यः प्रलयो ब्रह्मणस्तु ते ।
तावदध्यासते लोके परस्य परिचिन्तकाः ॥ ८ ॥
पदरत्नावली
प्रतीकालम्बनानामप्रतीकालम्बनानां च कियन्तं कालं तत्र वास इति तत्राह– द्विपरर्धेति ॥ द्विपरार्धस्यावसानं समाप्तिर्यस्मिन् काले स तथोक्तः । स ब्रह्मणः प्रलयः यावता कालेन भवति तावन्तं कालं परस्य परिचिन्तकाः परमात्मोपासकास्ते उभयेऽपि कार्यब्रह्मणो लोके सत्याख्ये अध्यासते मुक्तवत् तिष्ठन्तीत्यन्वयः । नात्राधिकः कर्मापेक्षी किं त्वधिकारस्येति ज्ञातव्यम् ॥ ८ ॥
प्रकाशिका
कियत्पर्यन्तं तेषां तेषु लोकेष्ववस्थानमित्यपेक्षायामाह ॥ द्विपरार्धावसान इति । लोके वैकुण्ठादिषु ॥ ८ ॥
क्ष्माम्भोनलानिलवियन्मनइन्द्रियार्थ-
भूतादिभिः परिवृतः प्रतिसञ्जिहीर्षुः ।
अव्याकृतं विशति यर्हि गुणत्रयात्मा
कालं परं स्वमनुभूय परः स्वयम्भूः ॥ ९ ॥
पदरत्नावली
ब्रह्मप्रलये विमुक्तिः कीदृशीति तत्राह– क्ष्माम्भ इति ॥ गुणत्रयात्मा सत्वादि-गुणत्रयादानकर्ता परः सर्वजीवोत्तमः स्वयम्भूर् ब्रह्मा परं द्विपरार्धाख्यं स्वं कालमनुभूय प्रतिसंजिहीर्षुः स्वसृष्टं जगत् संहर्तुकामः क्ष्माम्भोनलानिलवियन्मनइन्द्रियार्थभूतादिभिः पृथिव्यादिपञ्चभूताभिमानिदेवैर् मनोभिमानिभिर् अर्थाः शब्दादयस् तदभिमानिभिश्च । भूरादिभिरहङ्कारतदभिमानिभिश्च देवैः स्वबिम्ब-द्वारेण गरुडशेषमार्गद्वयेनात्मानं प्रविष्टैः परिवृत अव्याकृतं लक्ष्मीतत्त्वं यर्हि तदा विशति लक्ष्मीद्वारा परब्रह्म विशतीत्यर्थः ॥ ९ ॥
प्रकाशिका
नन्वेषां परममुक्तिः कदेत्यपेक्षायां ब्रह्मणा सहैवेत्याह ॥ क्ष्माम्भ इत्यादिना । अर्थाः शब्दादयो भूतादिस्तामसोऽहङ्कारः । अत्र क्ष्मादिपदैः पञ्चानां महाभूतानां, मनसो, दशानामिन्द्रियाणां, पञ्चानां विषयाणां भूतादिपदोपलक्षितस्य त्रिविधस्याप्यहङ्कारस्याभिमानिनो देवा उच्यन्ते । प्रतिसञ्जिहीर्षुः स्वसृष्टं जगत्संहर्तुकामः । अव्याकृतं परमेश्वरम् । यर्हि यदा गुणत्रय-स्यात्माऽभिमानी । परं परसंख्योपेतं परः क्ष्मादिभ्यः ॥ ९ ॥
एवं परेत्य भगवन्तमनुप्रविष्टा
ये योगिनो जितमरुन्मनसो विरागाः ।
तेनैव साकममृतं पुरुषं पुराणं
ब्रह्म प्रधानमुपयान्त्यगताभिमानाः ॥ १० ॥
पदरत्नावली
तदा परेत्य देहाद् योगेन विसृज्य एवमुक्तप्रकारेण देवयानेन गत्वा भगवन्तं विकुण्ठनाथं ब्रह्माणं चानुप्रविष्टा जितमरुन्मनसः प्राप्तवायुमनोजसा अत एव विरागा विषयतृष्णारहिता ये योगिनो ज्ञानिनस्ते स्वबिम्बद्वारेण प्रविष्टब्रह्माणस्तेन ब्रह्मणा साकममृतं नित्यमुक्तं प्रधानं सर्वोत्तमं पुरुषं पूर्णषड्गुणं ब्रह्मोपयान्ति लिङ्गशरीरत्यागलक्षणां मुक्तिं प्राप्नुवन्तीत्यर्थः । ननु शरीराभावे जीवत्वमपि नष्टं स्यादित्यत उक्तम्– अगताभिमाना इति ॥ अत्यक्तजीवत्वाभिमानाः ॥ १० ॥
प्रकाशिका
एवं तदा परेत्य देहत्यागेन भगवन्तं तदीयं लोकं तेनैव ब्रह्मणैव पुरुषं वासुदेव-मगताभिमाना अमुक्तजीवभावाः । अनेन जीवभावात्यागकथनेन लिङ्गशरीरादेस्त्यागः सूचितः ॥ १० ॥
आद्यः स्थिरचराणां यो वेदगर्भः सहर्षिभिः ।
योगेश्वरैः कुमाराद्यैः सिद्धैर्योगप्रवर्तकैः ॥ ११ ॥
भेददृष्ट्याभिमानेन निःसङ्गेनापि कर्मणा ।
कर्तृत्वात् सगुणं ब्रह्म पुरुषं पुरुषर्षभम् ॥ १२ ॥
स सङ्गत्य पुनः काले कालेनेश्वरमूर्तिना ।
जातेऽगुणव्यतिकरे यथापूर्वं प्रजायते ॥ १३ ॥
तात्पर्यम्
‘अभिमानेन पूर्णज्ञानेन । सङ्गत्य लये परमेश्वरं प्रविश्य । यथापूर्वं प्रजायते उच्चनीचादिभावेन जायते । अगुणव्यतिकरे बहिः श्वेतद्वीपे निर्गच्छति । ‘गुणव्यतिकराभावेऽ-प्युच्चनीचादिपूर्ववत् । विष्णोश्चैव विमुक्तानां न कदाचन गच्छती’ति गारुडे ॥ ११-१३ ॥
पदरत्नावली
एतदेव मुक्तिस्वरूपं विविच्य दर्शयति– आद्य इति ॥ यो वेदागर्भो ब्रह्मा स्थिरचराणां स्थावरजङ्गमानामाद्य आदौ भूतः सहर्षिभिर्मनुष्योत्तममारभ्य गरुडशेषान्तैर्ज्ञानिभिः सिद्धैः साधनसामग्रीमद्भिर्योगेश्वरैः कुमाराद्यैः सनकाद्यैर्योगाचार्यैश्च सह ॥
भेददृष्ट्या जीवेश्वरादिविषयपञ्चविधभेदज्ञानेन । भेदज्ञानस्य शुक्तिरजतज्ञानवत् हेयत्वेन न तेन मुक्तिनिश्चय इत्यत उक्तम्– अभिमानेनेति ॥ अभिमानेन पूर्णज्ञानेन यावता मुक्तिः स्यात् तावता ज्ञानेनेत्यर्थः । निःसङ्गेन फलाभिसन्धिरहितेन ज्ञानोत्तरकालीनेन कर्मणापि । जगत्सृष्ट्यादिकर्तृत्वात् सगुणं ज्ञानैश्वर्याद्यनन्तगुणोपेतम् । नेदं शबलमित्याह– ब्रह्मेति ॥ अथ कस्मादुच्यते ब्रह्मेति बृहन्तो ह्यस्मिन् गुणा इति श्रुतेः स्वत एव सर्वगुणपूर्णमित्यर्थः । नाकाशवन्नीरूपमित्याह– पुरुषमिति ॥ भक्तानुकम्पया गृहीतपुरुषाकारम् । अनेन गुणश्चैश्वर्यादयः न तु सत्त्वादय इति ध्वनयति । ऐश्वर्यस्य समग्रस्य वीर्यस्य यशसः श्रिय इत्यादेः । इतोऽपि न शबलमित्याह– पुरुषर्षभमिति ॥ क्षराक्षर-पुरुषातीतत्वात् पुरुषोत्तमम् । सङ्गः प्रविष्टो भवति । सायुज्यादिलक्षणां मुक्तिमाप्नोतीत्यर्थः ॥
स ब्रह्मादिजीवसङ्घः सृष्टावपि सायुज्यमेव भुङ्क्ते, किं ततो निर्गच्छतीति तत्राह– स सङ्गत्येति ॥ स ब्रह्मादिजीवराशिः सङ्गत्य प्रलये प्रविश्य परमेश्वरं, पुनः कालेन कालान्तर्यामिणेश्वरमूर्तिना हरिणा काले गुणव्यतिकरे सृष्टिलक्षणे जाते प्राप्ते अगुणव्यतिकरे त्रिगुणव्यतिकररहिते बहिः श्वेतद्वीपे, यथापूर्व-मुच्चनीचादिभावेन यथा संसारदशायामत्यन्तान्योन्यभेदेन स्थितस्तथा प्रजायते प्रादुर्भूतानन्दो वर्तते । यो वेदगर्भः स प्रलये प्राप्ते परमेश्वरं सङ्गत्य पुनः सृष्टिकाले प्राप्ते यथापूर्वं प्रजायत इति वा । तदुक्तम्– ‘ब्रह्मा देवैः परिवृतः प्रलये परमेश्वरम् । प्रविश्य सर्गे तु पुनः श्वेतद्वीपे प्रमोदते ॥’ इति ॥११-१३॥
प्रकाशिका
एवं ज्ञानिभिः सह परमपुरुषं प्रविष्टस्य ब्रह्मणः पूर्ववत्तरतमभावेनैवावस्थितिं सृष्टिकाले पुनर्बहिर्निर्गमनं च दर्शयति ॥ आद्य इत्यादिना । अत्राभिमानेनेत्यस्य प्रकृतोपयुक्तमर्थं दर्शयति ॥ अभिमानेन पूर्णज्ञानेनेति । स्वयोग्यमुक्तिजनने इति शेषः । तथाच स्वस्वरूपाभि-व्यक्तिमभिविद्यमानं ज्ञानमभिमानमिति निरुक्तिरत्राभिप्रेतेति ज्ञातव्यम् । पुरुषं सङ्गत्येत्यस्यापि प्रकृतोपयुक्तमर्थं दर्शयति ॥ सङ्गत्येति । अगुणव्यतिकर इत्येतदत्रापि सम्बध्यत इत्यभिप्रेत्य तदर्थमाह ॥ लय इति । परमेश्वरमित्यनेन पुरुषर्षभमित्येतदुक्तार्थम् । यथापूर्वं प्रजायत इत्यस्य यथापूर्वं जन्मोच्यत इति प्रतीतिवारणातात्पर्यमाह ॥ यथापूर्वमिति ॥ पूर्वं संसारदशायां यथा यत्प्रतियोगिकनीचोच्च-भाववान्स्थितस्तथैव तत्प्रतियोगिकनीचोच्चभाववानेव प्रजायते प्रादुर्भूतो भवतीत्यर्थः । पुरुषं प्रविश्य किं तत्र तिष्ठतीत्यपेक्षायां जाते गुणव्यतिकर इत्युक्तं तत्रापेक्षितं छेदमध्याहारं च दर्शयन् व्याख्याति ॥ अगुणव्यतिकर इति । गुणानां व्यतिकरो विकारस्तच्छून्य इत्यर्थः । स क इत्यपेक्षायामुक्तम् । बहिरिति । भगवदुदराद्बहिः स्थिते श्वेतद्वीप इत्यर्थः । निर्गच्छतीत्यध्याहारः । यथापूर्वं प्रजायत इत्येतदनन्तरमस्य व्याख्यानं त्वाकाङ्क्षाक्रममनुसृत्येति ज्ञातव्यम् । यथा पूर्वं प्रजायत इत्यस्योक्तार्थत्वे प्रमाणसंवादमाह ॥ गुणव्यतिकराभाव इति । प्रलय इत्यर्थः । मुक्त्यवस्थायामपीति यावत् । अनेनागुणव्यतिकर इत्येतद्यथापूर्वमित्यत्रापि सम्बध्यत इति सूचयति ॥ ततश्चायं श्लोकत्रयार्थः । यो वेदगर्भो ब्रह्मा । स्थिरचराणां स्थावरजङ्गमानामाद्य आदौ भवः स ऋषिर्भिर्मनुष्योत्तममारभ्य सरस्वत्यन्तैर्ज्ञानिभिः सिद्धैः स्वयोग्यसाधनसम्पूर्णैः सह ॥
भेददृष्ट्या पञ्चविधभेददर्शनेनाभिमानेन स्वयोग्यमुक्तिसाधनज्ञानेन सगुणं ज्ञानानन्दादिसर्वगुणपूर्णमत एव ब्रह्मशब्दवाच्यम् । तस्य सर्वगुणपूर्णत्वं कुत इत्यत उक्तम् ॥ कर्तृत्वादिति । जन्मादिकर्तृत्वा-दित्यर्थः । यथोक्तम् । जन्माद्यस्येति सूत्रेण गुणसर्वस्वसिद्धये ब्रह्मणो लक्षणं प्रोक्तमिति । पुरुषं वासुदेवं पुरुषर्षभं परमेश्वरम् ॥ अगुणव्यतिकरे प्रलये सङ्गत्य प्रविश्येश्वरस्य मूर्तिनियामको यस्य तेन कालेन काल परिवर्तनेन । काले सृष्टिकाले प्राप्ते सति पुनरगुणव्यतिकरे गुणविकारशून्येऽप्राकृते श्वेतद्वीपे बहिर्जाते प्रादुर्भूते सति तत्र पुनर्निर्गच्छति ॥ ११-१३ ॥
ऐश्वर्यं पारमेष्ठ्यं यत् तेऽपि धर्मविनिर्मितम् ।
निषेव्य पुनरायान्ति गुणव्यतिकरे सति ॥ १४ ॥
तात्पर्यम्
गुणव्यतिकरे असति । प्रलये प्राप्ते । पुनः परमेश्वरमायान्ति । ‘ब्रह्मा देवैः परिवृतः प्रलये परमेश्वरम् । प्रविश्य सर्गे तु पुनः श्वेतद्वीपे प्रमोदते ॥ ज्ञानधर्मफलांस्तत्र भोगान्भुक्त्वा लये पुनः । नारायणं समाविश्य ज्ञानव्यक्तं निजं सुखम् । भुञ्जते त्वेवमेवैषां काले संसर्गनिर्गमौ । नित्यौ नित्यसुखं चैव सृष्टौ भोगास्तथोत्तमाः । यथापूर्वं हरेः सर्वगुणैर्नीचोच्चता तथा । ब्रह्मणश्च तथान्येषामन्येषां च यथापदमि’ति स्कान्दे ॥ १४ ॥
पदरत्नावली
एषां मुक्तानां प्रतिसर्गं निर्गमः प्रतिलयं भगवत्प्रवेशश्च नित्य इति भावेनाह– ऐश्वर्यमिति ॥ ते मुक्ता अपि, सम्भाविता हरिणेति शेषः, सृष्टिकाले प्राप्ते हरेर्निर्गताः श्वेतद्वीपे यत् पारमेष्ठ्यं परमेष्ठिनः सर्वोत्तमस्य हरेः प्रासादादुत्पन्नं, धर्मविनिर्मितं ज्ञानधर्मफलम्, ऐश्वर्यमणिमादि-भोगजातं तन्निषेव्य भुक्त्वा, पुनः गुणव्यतिकरे असति प्रलये प्राप्ते स्वोत्तमप्रवेशपूर्वकं परमेश्वर-मायान्तीत्येवं मुक्तगुणस्य सृष्टौ संहारे च संसर्गनिर्गमौ स्वरूपानन्दभोगो बहुविधविषयभोगाश्च सन्तीति । तदुक्तम्– ‘ज्ञानधर्मफलांस्तत्र भोगान् भुक्त्वा लये पुनः । नारायणं समाविश्य ज्ञानव्यक्तं निजं सुखम् ॥ भुञ्जते त्वेवमेवैषां काले संसर्गनिर्गमौ । नित्यौ नित्यसुखं चैव सृष्टौ भोगास्तथोत्तमाः ॥ गुणव्यतिकरा-भावेऽप्युच्चनीचादिपूर्ववत् । विष्णोश्चैव विमुक्तानां न कदाचन गच्छति ॥’ इति । सर्वेऽस्मै देवा बलिमावहन्ति’ इति श्रुतेः सर्वजीवोत्तमस्य ब्रह्मणो नीचत्वं हरेरेव नान्यस्मात् । तदुक्तम्– ‘यथापूर्वं हरेः सर्वगुणैर्नीचात्मता सदा । ब्रह्मणश्च तथान्येषामन्येषां च यथापदम् ॥’ इति ॥ १४ ॥
प्रकाशिका
तत्र तेषामपेक्षितविषयभोगानन्तरं पुनः प्रलये परमेश्वरप्रवेशमाह । ऐश्वर्यमिति । अत्र गुणव्यतिकरे सति इत्यस्य विवक्षितं छेदमर्थं च दर्शयन् पुनरायान्तीत्यत्रापेक्षितं कर्म पूरयति ॥ गुणव्यतिकर इति । गुणव्यतिकरेऽसतीति पदद्वयलब्धार्थप्रदर्शनम् ॥ प्रलये प्राप्त इति । ततश्चायं श्लोकार्थः ॥ ये श्वेतद्वीपे तिष्ठन्ति ते ब्रह्मादयो मुक्ताः । धर्मविनिर्मितं ज्ञानोत्तरकृतकर्मजनितं यत्पारमेष्ठ्यं परमेष्ठी सर्वोत्तमो भगवान् तत्प्रसादप्राप्तमैश्वर्यमपेक्षितनानाविषयाधिपत्यं तदपि निषेव्य भुक्त्वा । ज्ञानमात्रलब्धस्वरूपसुखसमुच्चयार्थोऽपिशब्दः पुनर्गुणव्यतिकरे प्रपञ्चेऽसति नश्यति सति प्रलये प्राप्ते परमेश्वरमायान्ति प्रविष्टा भवन्ति । तत्र च स्वरूपसुखादिमात्रं भुञ्जत इत्यपि द्रष्टव्यम् । एवं प्रतिसर्गं श्वेतद्वीपादौ निर्गत्य तत्र स्थित्वा ज्ञानधर्मार्जितान्विषयाननुभूय पुनः प्रतिप्रलयं परमेश्वरं प्रविश्य तद् ज्ञानफलं स्वरूपसुखं भुञ्जत इत्याशयः ।
आद्यः स्थिरचराणां य इति चतुःश्लोकाद्युक्तार्थे प्रमाणान्तरसंवादं दर्शयति ॥ ब्रह्मेति । ब्रह्मा देवैः परिवृत इत्यनेनाद्यश्लोकतात्पर्यकथनम् । प्रलये परमेश्वरं प्रविश्येत्यनेन ससङ्गत्येत्यस्य, सर्गे तु पुनः श्वेतद्वीपे प्रमोदत इत्यनेन जातेऽगुणव्यतिकर इत्यस्य, ज्ञानधर्मफलानित्यादिना भुञ्जत इत्यन्तेनैश्वर्यं पारमेष्ठ्यमित्यादेर्निषेव्येत्यन्तस्य, एवमेवैषां काल इत्यादिनोत्तमा इत्यन्तेन पुनरायान्ति गुणव्यतिकरे सतीत्यस्य, यथापूर्वं हरेः सर्वगुणैरित्यादिना यथापदमित्यन्तेन यथा पूर्वं प्रजायत इत्यस्य विवरणं कृतमिति ज्ञातव्यम् । ज्ञानधर्मफलानित्युक्त्या ज्ञानधर्मयोः समुच्चयेन भोगजनकत्वमिति सूचयति । ज्ञानव्यक्तमित्यनेन प्रलयकालीनस्वरूपसुखाभिव्यक्तौ ज्ञानमात्रं कारणं न भोगाभिव्यक्तसुख इव धर्मोऽपीति सूचयति । काले संसर्गनिर्गमौ प्रलयकाले संसर्गः प्रवेशरूपः सृष्टिकाले निर्गम इत्यर्थः । नित्यौ । प्रवाहत इति शेषः । नित्यसुखमेव प्रलये । चशब्दस्तुशब्दार्थः । सृष्टौ तु तथा भोगा भोगा अपि ॥ यथा पूर्वं हरेरित्यादेरयमर्थः ॥ ब्रह्मणः यथा पूर्वं हरेः सकाशात्सर्वगुणैर्नीचताऽन्येषां सरस्वत्यादीनां सकाशादुच्चता यथा चान्येषां शेषादीनाम् । पूर्वं यथापदं तरतमभावोपेतस्वपदमनतिक्रम्य सर्वगुणैर्नीचोच्चता । तथैव मुक्त्यनन्तरमपि नीचोच्चता । अस्तीति शेषः ॥ १४ ॥
अथ तं सर्वभूतानां हृत्पद्मेषु कृतालयम् ।
श्रुतानुभावं शरणं व्रज भावेन भामिनि ॥ १५ ॥
पदरत्नावली
पुंसां तेषां परमात्मप्रसादेन परमानन्दावाप्तिरस्तु, स्त्रिया मम कथं स्यादित्या-शङ्क्य सर्वेषामपि स्वस्वयोग्यतानुसारेण सेवासामग्य्रां सत्यां सा स्यादित्युपसंहारमुखेन तां सेवां विधत्ते– अथेति ॥ यतो भगवदुपासकानां नित्यानन्दलक्षणमुक्तिप्राप्तिर् अथ तस्मात् तत्प्राप्त्यर्थं यो ब्रह्मादि-मुक्तिदस्तं नारायणं शरणं व्रजेत्यन्वयः । केन साधनेनेत्यत उक्तम्– भावेनेति ॥ मम स्वामी भगवानहं तत्किङ्कर इति भावेन भक्तिक्रियया । ‘भावो लीला क्रिया चेष्टा’ इति यादवः । कं गुणमुपसंहृत्येत्यत उक्तम्– श्रुतानुभावमिति ॥ कुत्र स्थितमहं शरणं यामीत्यत उक्तम्– सर्वभूतानामिति ॥ अनेनाङ्गुष्ठ-मात्रः पुरुषो मध्ये आत्मनि तिष्ठति इति श्रुत्युक्तभगवद्रूपं शरणं व्रजेत्युक्तं भवति । भामिनि भद्रे, भगवति भक्तिगुणत्वेनेति शेषः ॥ १५ ॥
प्रकाशिका
उपसंहरति ॥ अथेति । अथ तस्मात्तं स्वशरणागतानां मुक्तिप्रदं, भावेन भक्त्या
॥ १५ ॥
ये त्विहासक्तमनसः कर्मसु श्रद्धयान्विताः ।
कुर्वन्त्यप्रतिषिद्धानि नित्यान्यपि च कृत्स्नशः ॥ १६ ॥
रजसा कुण्ठमनसः कामात्मानोऽजितेन्द्रियाः ।
पितॄन् यजन्त्यनुदिनं गृहेष्वभिरताशयाः ॥ १७ ॥
त्रैवर्गिकास्ते पुरुषा विमुखा हरिमेधसः ।
कथायां कथनीयोरुविक्रमस्य मधुद्विषः ॥ १८ ॥
नूनं दैवेन विहता ये त्वच्युतकथासुधाम् ।
हित्वा शृृण्वन्त्यसद्गाथाः पुरीषमिव विड्भुजः ॥ १९ ॥
दक्षिणेन पथाऽर्यम्णः पितृलोकं व्रजन्ति ते ।
प्रजायां तु प्रजायन्ते श्मशानान्तक्रियाकृतः ॥ २० ॥
ततस्ते क्षीणसुकृताः पुनर्लोकमिमं सति ।
पतन्ति विवशा देवैः सद्यो विभ्रंशितोदयाः ॥ २१ ॥
तात्पर्यम्
‘अत्यल्पभक्ता विष्णौ च सदा श्राद्धादिकारिणः । पितृलोकं समाविश्य स्वसन्ताने पुनःपुनः । क्षिप्रमेव प्रजायन्ते ये तु भक्तिविवर्जिताः । अन्यसामान्यवेत्तार-स्तदन्योत्तमवेदिनः । तद्भक्तनिन्दकाश्चैव यान्त्येव निरयं ध्रुवम् । अपि धर्मैकनि(यमा)लया नात्र कार्या विचारणे’ति च ॥ मुक्तियोग्यास्तु देवाद्या मानुषा यज्ञभोगिनः । मनुष्यभेदाः श्राद्धादिकृतो विद्वेषिणोऽसुराः’ इति च ॥ १६-२१ ॥
पदरत्नावली
एवं मुक्तिस्वरूपं निरूप्याधुना तदयोग्यानाह– ये त्विति ॥ तुशब्दोऽत्यन्त-वैलक्षण्यद्योतकः । इह मनुष्यादौ ये स्वर्गादावेवासक्तमनसो यज्ञादिकर्मस्वेव श्रद्धया युक्ता अप्रति-षिद्धानि अग्निषोमीयं पशुमालभेतेत्यादिविहितानि यागादिकर्माणि, नित्यानि सन्द्यावन्दनादीनि च कृत्स्नश एकाविलोपेन कुर्वन्ति ॥
किञ्च रजसा रजोगुणेन कुण्ठमनस उपरञ्जितमनसोऽत एव कामात्मानो विषयलोलस्वभावा अत एवाजितेन्द्रिया अत एव गृहेष्वभिरताशया नित्यविषक्तमनोरथा अनुदिनं पितृन् यजन्ति ॥
हरावनर्पितश्राद्धादिकर्तारस्ते पुरुषा त्रैवर्गिका धर्मार्थकामयोग्या एव न तु मोक्षयोग्याः । अत्र कारणमाह– विमुखा इति ॥ कथनीयः प्रबन्धीकर्तुं योग्य उरुर्महान् विक्रमो यस्य स तथा तस्य हरिमेधसः मनोहरप्रज्ञस्य मधुद्विषो हरेः कथायां विमुखा इति यतोऽतो न मुक्तियोग्या इति ॥
भगवद्भक्तिवर्जितैः पुंभिः प्राप्यफलमाह– नूनमिति ॥ ये चाच्युतकथासुधां हित्वा असद्गाथाः काव्यनाटकादिविषयाः श्रुण्वन्ति, दैवेन हरिणा विहता देहवियोगं प्रापिताः, विड्भुजः विड्वराहादय इव पुरीषममेध्यतुल्यं निरयं यान्तीति शेषः । तदुक्तम्– ‘ये तु तद्भक्तिवर्जिताः । अन्यसामान्य-वेत्तारस्तदन्योत्तमवेदिनः । तद्भक्तनिन्दकाश्चैव यान्त्येव निरयं ध्रुवम् । अपि धर्मैकनिलया नात्र कार्या विचारणा ॥’ इति ॥
नित्यसंसारिणां त्रैवर्गिकानां किं फलमित्याह– दक्षिणेति ॥ ये त्विहाप्रतिषिद्धानि नित्यानि च कर्माणि कुर्वाणा हरावत्यल्पभक्तास्ते दक्षिणेन पथा दक्षिणायनमार्गेणार्यम्णो यमस्य पितृणामधिपस्य लोकं व्रजन्ति । किं तत्रैव तेषां नित्यो निवास इति तत्राह– प्रजायामिति ॥ स्वर्गमनुष्यलोकावाप्तिस्तेषां सनातनेत्याशयेनाह– श्मशानान्तक्रियाकृत इति ॥ त्रैवर्गिकाः स्वसन्तानेषु पुत्ररूपेण भूत्वा गर्भाधानादिश्मशानान्ताः क्रियाः कृत्वा ततो मृत्वा स्वर्गं गत्वा ॥
ततः स्वर्गात् क्षीणसुकृता भुक्तपुण्यशेषाः, देवैः सद्यो विभ्रंशितोदयाः, अत एव विवशा इमं मनुष्यलोकं पतन्तीति । पुनःशब्दः क्रियासमभिव्याहारार्थः । तदुक्तम्– ‘अत्यल्पभक्ता विष्णौ च सदा श्राद्धादिकारिणः । पितृलोकं समाविश्य स्वसन्ताने पुनः पुनः ॥ क्षिप्रमेव प्रजायन्ते’ इति । देवादिमनुष्योत्तमान्तानां मुक्तियोग्यत्वं, हरावल्पभक्तानां मध्यममनुष्याणां श्राद्धादियज्ञादिकृतां स्वर्ग-विशेषयोग्यत्वं हरौ द्वेषयुक्तानामसुराणां तमोयोग्यत्वमित्ययं विशेषः । ‘मुक्तियोग्यास्तु देवाद्या मानुषा यज्ञभागिनः । मनुष्यभेदाः श्राद्धादिकृतो विद्वेषिणो हरौ ॥’ इति वाक्येनावगन्तव्य इति ॥ १६-२१ ॥
प्रकाशिका
एतदेव विधातुं पुनः पुनः काम्यकर्मिणो निन्दति ॥ ये त्विहेति षड्भिः । तुशब्दो मोक्षमार्गनिरतेभ्योऽत्यन्तवैलक्षण्यसूचकः । अत्र पितृलोकं व्रजन्ति त इति सर्वथा हरिभक्तिशून्यानामपि पितृलोकप्राप्तिरुच्यत इति भाति । अतोऽत्र विवक्षितं तात्पर्यं प्रमाणेनैवाह ॥ अत्यल्पभक्ता इति । अधमप्रसादजनकभक्तिमन्त इत्यर्थः । मधुद्विषः कथायां ये विमुखास्ते दैवेन विहता इत्यस्य तात्पर्यम् ॥ भक्तिवर्जिता निरयं यान्तीति । नूनमित्यस्यार्थः ध्रुवमिति । ये चासद्ग्रन्थान् शृृण्वन्ति ते नूनं दैवेन विहता इत्यस्य तात्पर्यमाह ॥ अन्यसामान्येत्यादिना । विष्णोरन्यसाम्यवेत्तार इत्यर्थः ॥ तदन्येति । विष्ण्वन्योत्तमवेदिन इत्यर्थः । ध्रुवमेव निरयं स्थिरमेव नरकम् । तम इति यावत् । अपि धर्मेति । केवलविहितानुष्ठातारोऽपीत्यर्थः । अनेन कुर्वन्त्यप्रतिषिद्धानीत्यादेस्तात्पर्यमुक्तमित्यवगन्तव्यम् । एवं त्रैवर्गिकाणां त्रैविध्ये प्रमाणान्तरमप्याह ॥ मुक्तियोग्या इति । अधमप्रसादजनकभक्तिमन्त इत्यर्थे तुशब्दः । देवपदमतात्त्विकदेवपरम् । तथा च ये वस्तुतो मुक्तियोग्या अतात्विकदेवाद्याः सादियोगिनस्ते पूर्वं यदा मानुषा अभूवंस्तदाऽत्यल्पभक्तिमन्तः सन्तो यज्ञभोगिनो यज्ञादिकं कृत्वा तत्फलस्वर्गादिभोगिनो भवन्तीत्यर्थः । अनेन पितृलोकं व्रजन्तीत्येतत्प्रमापितम् । ये श्राद्धादिकृतः श्राद्धादिमात्रकृतः । हरिभक्तिवर्जिता इति यावत् । ते मनुष्यभेदा नरकगन्तृमनुष्यप्रभेदा इत्यर्थः । ये तु हरिद्वेषिणः श्राद्धादिकृतस्तेऽसुरास्तमोयोग्या इत्यर्थः । अनेन विमुखा हरिमेधस इत्यादेस्तात्पर्यमुक्तमित्यवगन्तव्यम् ॥ ततश्चायं श्लोकषट्कार्थः ॥ इह स्वर्गादावप्रतिषिद्धानि विहितानि ज्योतिष्टोमादीनि, नित्यानि संध्यावन्दनादीनि ॥
रजसा रजोगुणेन कुण्ठमनसो मोक्षविषये प्रतिबद्धमनसोऽत एव कामात्मानो विषयासक्तमनसोऽत एवाजितेन्द्रियाः । पितॄनित्युपलक्षणम् । देवादीनित्यपि द्रष्टव्यम् ॥
ते त्रैवर्गिका मोक्षव्यतिरिक्तपुरुषार्थसाधनशीला अल्पभक्तिकाः । मोक्षयोग्याश्चेदर्यम्णः सूर्यस्य दक्षिणेन पथा दक्षिणायनसंज्ञेन मार्गेण पितृलोकम् । उपलक्षणमेतत् । चान्द्रमसं च लोकं व्रजन्ति । ततस्ते क्षीणसुकृताः सन्तः । भो सति मातः । पुनरिमं लोकं प्रति पतन्ति आयान्ति । देवैर्देवदूतै-र्विभ्रंशिता उदया भोगसाधनानि येषां ते तथा । ततः प्रजायान्तु प्रजायन्ते स्वसन्ताने पुनः क्षिप्रमेव प्रजायन्ते । तत्र श्मशानान्तक्रियाकृतो गर्भाधानमारभ्यान्त्यकर्मपर्यन्तं सर्वविहितकर्मकृत इत्यर्थः । ततः पितृलोकं व्रजन्ति । ततस्ते क्षीणसुकृता इमं लोकं प्रति पतन्ति । तत्र च प्रजायान्तु प्रजायन्त इत्यावृत्या योज्यम् । अत एव प्रमाणे स्वसन्ताने पुनः पुनरित्युक्तम् ।
ये त्विहासक्तमनस इत्यादिविशेषणोपेतास् त्रैवर्गिका नित्यसंसारिणो, हरिमेधसः सूर्यवर्चसः । कथनीया उरवो विक्रमाः पराक्रमा यस्य तस्य मधुद्विषः कथायां विमुखा हरिभक्तिवर्जिताश्चेत्ते नूनं दैवेनादृष्टप्रेरकेण हरिणा विहता नरकभागिनो भवन्तीत्यर्थः । अत्यल्पहरिभक्तियुक्ताश्चेत्तेऽपि पितृलोकं व्रजन्तीत्यपि ग्राह्यम् । ये त्विहासक्तमनस इत्यादिविशेषणविशिष्टा अपि ये त्रैवर्गिकाः पुरुषा अच्युत-कथासुधां हित्वा विड्भुजो विड्वराहाद्याः पुरीषमिवासद्गाथा असच्छास्त्राणि शृृण्वन्ति सेवन्ते तेऽसुरजीवा नूनं दैवेन विहता हरिकोपेन तमोगन्तारो भवन्तीति ॥ १६-२१ ॥
तस्मात् त्वं सर्वभावेन भ(व्र)जस्व परमेष्ठिनम् ।
तद्गुणाश्रयया भक्त्या भजनीयपदाम्बुजम् ॥ २२ ॥
पदरत्नावली
पूर्णगुणोपास्तिरेव मुक्तिसाधनं, न निर्गुणोपासनेतिभावेनोक्तार्थमुपसंहरति– तस्मात् त्वमिति ॥ सर्वभावेन स्वयोग्यगुणपूर्णशक्त्या । यस्माद् भक्तिमन्तरेणापेक्षितपुरुषार्थाभावस् तस्माद् ब्रह्मणः सर्वत्र सत्ताबुद्ध्येति वा । ब्रह्मादिजीवराशेर्विलक्षणो मम स्वामीति भक्त्या ॥ २२ ॥
प्रकाशिका
एवमितरपुरुषार्थकामिनां मोक्षाभावाद्भगवद्भजनमेव मोक्षाय त्वया कार्यमित्याह ॥ तस्मादिति । सर्वभावेन सर्वप्रकारेण तद्गुणाश्रयया तद्गुणश्रवणजातया ॥ २२ ॥
वासुदेवे भगवति भक्तियोगः प्रचोदितः ।
जनयत्याशु वैराग्यं ज्ञानं यद् ब्रह्मदर्शनम् ॥ २३ ॥
पदरत्नावली
भजने किं फलमिति तत्राह– वासुदेव इति ॥ ब्रह्म दृश्यतेऽनेनेति ब्रह्मदर्शनं यज्ज्ञानं तज्जनयति । वैराग्यस्य भक्तेः पूर्वभावित्वेऽपि कार्यकारणभावो न दूषणं, भक्तेः प्रागुत्पन्नं वैराग्यं प्रचिनोतीति ॥ २३ ॥
प्रकाशिका
भक्तियोगस्य मोक्षसाधनत्वं किं साक्षान्नेत्याह ॥ वासुदेव इति । वैराग्यम् । अतिशयितमिति शेषः । तदनन्तरं ज्ञानं ध्यानं जनयति । ब्रह्म दृश्यतेऽनेनेति ब्रह्मदर्शनं ब्रह्मापरोक्ष-ज्ञानसाधनमित्यर्थः ॥ २३ ॥
यदाऽस्य चित्तमर्थेषु समेष्विन्द्रियवृत्तिभिः ।
न विगृह्णाति वैषम्यं प्रियमप्रियमप्युत ॥ २४ ॥
पदरत्नावली
वैराग्यादिसाधनसम्पन्नस्यास्योपासकस्यापरोक्षज्ञानोत्पत्तिसमयमाह– यदाऽस्येति ॥ यदा अस्योपासकस्य चित्तं बन्धकत्वेन समेषु शब्दाद्यर्थेषु ममेदं प्रियमप्रियमुत इन्द्रियवृत्तिभिर् वैषम्यं न विगृह्णाति, किन्तु शब्दाद्यर्थाः सर्वे बन्धकत्वेन ममाप्रिया एव, सर्वस्माद् भगवानेव प्रेष्ठ इति निश्चिनोति
॥ २४ ॥
प्रकाशिका
एतदेवोपपादयति ॥ यदाऽस्येति । अस्य वैराग्यादिसाधनसंपन्नस्योपासकस्य चित्तं, बन्धकत्वादिना समेष्वर्थेषु शब्दादिषु इन्द्रियवृत्तिभिरिदं मम प्रियमिदं ममाप्रियम् । उतशब्द इतिशब्दार्थे । इति वैषम्यं यदा न गृह्वाति किन्तु शब्दाद्यर्थाः सर्वे बन्धकत्वेन ममाप्रिया एव । भगवानेव परमप्रिय इति गृह्णातीति यावत् ॥ २४ ॥
स तदैवात्मनाऽऽत्मानं निःसङ्गं समदर्शिनम् ।
हेयोपादेयरहितमारूढपदमीक्षते ॥ २५ ॥
पदरत्नावली
स तदा बाह्यान्तःकरणे विनष्टशक्तिके सत्यात्मना स्वरूपचिन्मनसा आत्मानं स्वबिम्बपरमात्मानमीक्षते । आत्मा संसार्येवात्रोच्यत इत्यन्यथाप्रतीतिं निवारयति– निःसङ्गमित्यादिना ॥ असङ्गो ह्ययं पुरुष’ इति श्रुतेः । समदर्शिनं यथार्थज्ञानिनं, निर्दोषं हि समं ब्रह्मेति श्रुतेः । नित्यनिर्दोषज्ञानरूपत्वाद् हेयोपादेयरहितमत एवारूढपदं सर्वोत्कृष्टस्थानम् ॥ २५ ॥
प्रकाशिका
स तदैवात्मना स्वरूपचित्तमिश्रितेन जडचित्तेनात्मानं स्वबिंबरूपं परमात्मानं निःसङ्गमसङ्गं समदर्शिनम् ईक्षते । यथार्थज्ञानिनं हेयोपादेयरहितं हेयत्वसहितोपादेयत्वरहितम् । अत्युपादेयमिति यावत् । आरूढपदं स्वचित्तारूढस्वरूपम् । स्वध्यानविषयीभूतस्वरूपमिति यावत् । आत्मानमित्युक्तो न जीव इत्युपपादनाय निःसङ्गमित्यादिविशेषणानि ॥ २५ ॥
ज्ञानमात्रं परंब्रह्म परमात्मेश्वरः पुमान् ।
दृश्यादिभिः पृथग्भावैर्भगवानेक ईयते ॥ २६ ॥
पदरत्नावली
तच्छब्दादिसिद्धनामधेयोप्ययमेव न पृथगिति भावेन विशिनष्टि– ज्ञानमात्रमिति ॥ तत्र ज्ञानमिति सङ्गिरन्ते सौगताः । ब्रह्मेति परंब्रह्मेति वेदान्तिनः । परमात्मेति योगिनः । ईश्वर इति वैशेषिकाः पाशुपताश्च । पुमानिति साङ्खाः । भगवानिति पौराणिकाः । इत्येतैः शब्दैरेक एवेयते । कैर्लिङ्गैरित्यत उक्तम्– दृश्यादिभिरिति ॥ ज्ञानमेव मात्रा परिमाणं यस्य तत् तथोक्तं ब्रह्मसूत्रतत्त्वेषु परमुत्तमं परंब्रह्म, आत्मभ्यो जीवेभ्यः परमतत्त्वात् परमात्मा, ईशनशक्तिमत्त्वादीश्वरः । अव्याहत-पुंशक्तिमत्त्वात् पुमानिति । ऐश्वर्यादिगुणाकरत्वाद् भगवान् । एवंविधगुणो दृश्यस्पृश्यादिभिः पृथग्भावै-र्लिङ्गैर्घटादयो जडत्वेन मूर्तत्वेन दृश्याः स्पृश्या न तथेत्यादिरूपैः ॥ २६ ॥
प्रकाशिका
ननु दृश्यस्पृश्यादिनानाविधवस्त्वंतर्गतस्य भगवतोऽपि नानात्वादनेकेषां च परमैश्वर्यासम्भवान्न तत्र निरतिशयभक्तियोगः सम्भवतीत्याशङ्कायां सर्वत्रावस्थितो भगवानेक एवेति सोपपत्तिकमाह ॥ ज्ञानमात्रमिति । एक एव भगवान्दृश्यादिभिर्भावैरधिष्ठानभूतैः पृथगीयते पृथक्त्वेन भ्रान्त्यैव ज्ञायत इत्यर्थः । कुतः । यतो भगवान्ज्ञानमात्रं परं ब्रह्मेत्यादिवैदिकशब्दवाच्यः । ज्ञानपद-मानन्दादेरप्युपलक्षकम् । एवं च सर्वोत्तमज्ञानान्दादिमात्रशब्दवाच्यत्वं परम्ब्रह्मपरमात्मपरमेश्वर-परमपुरुषादिशब्दवाच्यत्वं च नानेकेषु सम्भवतीत्याशयः ॥ २६ ॥
एतावानेव योगेन समग्रेणेह योगिनः ।
युज्यतेऽभिमतो ह्यर्थो यदसङ्गस्तु कृत्स्नशः ॥ २७ ॥
पदरत्नावली
इदानीमुक्तार्थनिगमनमुखेन मुक्तेरन्तरङ्गभक्तियोगस्य मुख्यफलमाह– एता-वानिति ॥ इहोपासकानां मध्ये स्थितस्य भक्तियोगिनः समग्रेणाष्टाङ्गोपेतेन भक्तियोगेन साध्योऽभि-मतोऽर्थः पुरुषार्थ एतावानेव युज्यते युक्तोऽनुभूयते । क इत्यत उक्तम्– यदसङ्ग इति ॥ यत् कृत्स्नशः साकल्येनासङ्गः लिङ्गशरीरसम्बन्धो न भवति ॥ २७ ॥
प्रकाशिका
उक्तभक्तियोगस्य सर्वतो वैराग्यमेव साक्षात्फलमित्येतत्प्रमाणप्रसिद्ध्योपपादयति ॥ एतावानेवेति । इहाधिकारिणां मध्ये योगिनो मोक्षोपायमनुतिष्ठतः समग्रेणाधिकेन योगेनाभिमतोऽर्थः साक्षात्फलमेतावानेव युज्यते युक्तो भवति । कुत एतदित्यत उक्तम् ॥ यदसङ्ग इति । कृत्स्नशः साकल्येन । सर्वत्रेति यावत् । असङ्ग आसक्तिशून्यः । पुरुषो भवतीति यत् । एतावानित्यर्थः । हीति प्रमाणप्रसिद्धिमत्र दर्शयति ॥ २७ ॥
ज्ञानमेकं पराचीनैरिन्द्रियैर्ब्रह्म निर्गुणम् ।
अवभात्यर्थरूपेण भ्रान्त्या शब्दादिधर्मिणाम् ॥ २८ ॥
तात्पर्यम्
‘मत्स्यकूर्मादिरूपं च विष्णोर्ज्ञानैकमात्रकम् । तन्मन्यन्ते भौतिकं तु ये गच्छन्त्यधरं तमः’ इति ब्राह्मे ॥ २८ ॥
पदरत्नावली
इदानीं मत्स्याद्यवताररूपं ब्रह्माप्यप्राकृतदेहत्वेन मुमुक्षुणा ज्ञातव्यम् अन्यथादर्शने अन्धन्तम एवेत्याशयेनाह– ज्ञानमेकमिति ॥ एकं सर्वोत्तमं स्वगतभेदवर्जितं वा, ज्ञानं सच्चिदानन्द-लक्षणं, ब्रह्म बहुत्वसंख्याविशेषविषयं पूर्णं मत्स्यादिरूपं, निर्गुणं प्रकृतिगुणनिर्मितदेहरहितं, परब्रह्म-शब्दादिधर्मिणां शब्दस्पर्शादिविषयधर्मवतामज्ञानां पराचीनैर् बहिर्विषयेषु प्रवृत्तैश् चक्षुरादीन्द्रियैरर्थरूपेण भौतिकशरीरेण भ्रान्त्या मिथ्याज्ञानेनावभाति । पूर्णमदः पूर्णमिदमिति श्रुतेः । तस्मात् तथाप्रतिभानवा-नन्धन्तमो यातीति शेष इत्यर्थः । तदुक्तम्– ‘मत्स्यकूर्मादिरूपं च विष्णोर्ज्ञानैकमात्रकम् । तन्मन्यन्ते भौतिकं तु ये गच्छन्त्यधरं तमः ॥’ इति ॥ २८ ॥
प्रकाशिका
यदुक्तं ज्ञानमात्रमिति ज्ञानानन्दादिरूपत्वं भगवतस्तदयुक्तम् । यतो भगवदंशानां मत्स्यादीनां भौतिकं रूपं दृश्यत इत्यत आह ॥ ज्ञानमेकमिति । अस्य श्लोकस्यार्थाप्रतीत्या तात्पर्यं प्रमाणेनैवाह ॥ मत्स्येति । चशब्दोऽप्यर्थः । ज्ञानैकमात्रात्मकमपि वस्तुतो मुख्यज्ञानानन्दादि-मात्रात्मकमपीत्यर्थः । यन् मत्स्यकूर्मादिरूपं तद् ये भौतिकं तु भौतिकमेव मन्यन्ते तेऽधरं तमो गच्छन्ति । अतस्तज्ज्ञानं भ्रमरूपमेवेत्याशयः ॥ ततश्चायं श्लोकार्थः ॥ यदेकं ज्ञानं केवलं ज्ञानानन्दात्मकं निर्गुणं सत्त्वादिगुणविकारशून्यं ब्रह्म गुणपूर्णं मत्स्यकूर्मादिरूपं तच्छब्दादिधर्मिणां शब्दादिविषयासक्तानां पुंसां पराचीनैर्बहिर्मुखैरिन्द्रियैरर्थरूपेण भौतिकत्वेन भ्रान्त्याऽवभाति न वस्तुतोऽतो ज्ञानमात्रमित्युक्तं युक्तमिति भावः ॥ २८ ॥
यथा महानहङ्कारस्त्रिवृत् पञ्चविधः स्वराट् ।
एकादशविधस्तस्य वपुरण्डं जगद् यतः ॥ २९ ॥
तात्पर्यम्
‘एकादशेन्द्रियात्मा च पञ्चभूतात्मकस्तथा । सर्वाभिमानी भगवान् स्वराडिन्द्रः पुरन्दरः । इदमण्डं जगत्सर्वं शक्रदेहं विदुर्बुधाः । तत्पतिस्त्रिगुणो रुद्रस्तस्य ब्रह्मा ततो हरिः’ इति वामने ॥ यथैतान्पश्यन्ति तद्वदेव ज्ञानात्मकं मत्स्यादिरूपं गुणमयं पश्यन्त्यज्ञाः ॥ २९ ॥
पदरत्नावली
स्त्रीत्वादिममर्थं कथं जानामीत्यत उदाहरति– यथा महानिति ॥ महान् महत्तत्वाभिमानी ब्रह्मा, वैकारिकाद्यत्मना त्रिवृत् त्रिविधोऽहङ्काराभिमानी रुद्रः, आकाशादि-पञ्चभूताभिमानित्वेन पञ्चविधः मनआद्येकादशेन्द्रियाभिमानित्वेन एकादशविधः स्वराडिन्द्रश्चेते अज्ञानिनां भौतिकशरीरत्वेनापि यथा प्रतीयन्ते तथा मत्स्यादिरूपं परं ब्रह्मेत्यर्थः । अभिमानित्वमात्रेण अभिमन्य-मानदेहत्वं कथमित्येतत् स्पष्टयति– तस्येति ॥ इदमण्डं सर्वजगच्च तस्येन्द्रस्य वपुरिति यतोऽत इति । अनेन ब्रह्मरुद्रयोरपि भौतिकदेहत्वं स्पष्टमित्युक्तं भवति । अत्र यथा प्रतीतार्थो दार्ष्टान्तिकेऽनुपयुक्तः स्यादित्येवं व्याख्यातमिति ज्ञातव्यम् । ‘एकादशेन्द्रियात्मा च पञ्चभूतात्मकस्तथा । सर्वाभिमानी भगवान् स्वराडिन्द्रः पुरन्दरः । इदमण्डं जगत् सर्वं शक्रदेहं विदुर्बुधाः । तत्पतिस्त्रिगुणो रुद्रस्तस्य ब्रह्मा ततो हरिः ॥’ इति वचनात् ॥ २९ ॥
प्रकाशिका
ननु कथमेवं विधा भ्रान्तिः पुरुषाणामित्यतो दृष्टान्तमुखेन तदुपपादयति ॥ यथेति । अस्याप्रतीत्या तात्पर्यं वक्तुं तावत्प्रमाणं पठति । एकादशेति । एकादशविध इत्यस्य तात्पर्यम् ॥ एकादशेन्द्रियात्मेति । पञ्चविध इत्यस्य व्याख्यानम् ॥ पञ्चभूतात्मक इति । तथा-शब्दोऽनुक्तसमुच्चायकः । अण्डात्मकस्तत्स्थजगदात्मकश्चेत्यर्थः । अज्ञैर्भ्रान्त्या । ज्ञायत इति शेषः । भ्रान्तित्वोपपादनायोक्तं सर्वेषामिन्द्रियाणां पञ्चभूतानां चाभिमानीति । तथा च तेभ्यो भिन्न इति भावः । स्वराडित्यस्येन्द्र इति व्याख्यानम् । इतरेन्द्रव्यावृत्त्यर्थं पुरन्दर इति । अण्डात्मकजगदात्मकश्चेत्यनयोरपि भ्रान्तित्वोपपादनायाह । इदमण्डं सर्वं तत्स्थं जगच्च शक्रदेहं शक्राभिमन्यमानं विदुरिति । तथा च ताभ्यामपि स भिन्न इत्याशयः । अनेन तस्य वपुरण्डं जगद्यत इत्येतदुक्तार्थम् । स्वराडित्यस्य महानित्यादिनाऽपि सामानाधिकरण्याय तस्याभिधेयान्तरमभिप्रेत्याह ॥ तत्पतिरिति । तस्येन्द्रस्य पतिरित्यर्थः । त्रिवृदित्यस्यार्थः ॥ त्रिगुण इति । सत्त्वाद्यात्मकवैकारिकादिरूपेण त्रिविध इत्यर्थः । तस्य रुद्रस्य च ब्रह्मा । पतिरित्यनुवर्तते । तथा च स्वराट्शब्दवाच्येन्द्राधिपतित्वाद्रुद्रब्रह्मणोरपि स्वराट्शब्द-वाच्यत्वमस्तीति भावः । एवं दार्ष्टान्तिकभूतो हरिरपि स्वराट्शब्दवाच्य इत्याशयेनाह ॥ तत इति । ततस्तस्य ब्रह्मणो हरिः पतिरित्यर्थः । तथा च हरिरपि स्वराट्शब्दवाच्य इत्याशयः । एवं प्रमाणमुदाहृत्य तत्र दृष्टान्तदार्ष्टान्तिकभावस्यास्फुटत्वादिदानीं स्ववाक्येन श्लोकतात्पर्यं दर्शयति ॥ यथैतानिति । एतान् ब्रह्मरुद्रेन्द्रान् स्वाभिमन्यमानमहदादिभिन्नानपि तदात्मकत्वेन पश्यन्ति तद्वदेव तथैव ज्ञानात्मकम् । वस्तुतोऽप्राकृतमिति यावत् । गुणमयं प्राकृतम् ॥
ततश्चायं श्लोकार्थः ॥ यथा स्वराट् ब्रह्मा महान्महत्तत्त्वात्मक इति यथा वा स्वराट् रुद्रस्त्रि-वृत्त्रिविधोऽहंरूपस्त्रिविधाहङ्कारात्मक इति । यथा च स्वराडिन्द्रः पञ्चविधः पञ्चभूतात्मक एकादशविध एकादशेन्द्रियात्मकोऽण्डात्मको जगदात्मकश्चेति भ्रान्त्या शब्दादिधर्मिणामज्ञानामवभाति । कुत एतेषां ज्ञानानां भ्रान्तित्वमित्यत उक्तम् ॥ तस्येति तस्येन्द्रस्याण्डं तत्स्थं जगच्च यतो वपुरभिमन्यमानम् । ततो भिन्नमिति प्रमाणप्रसिद्धमिति यावत् । इदमुपलक्षणम् । तस्य ब्रह्मणो महान्यतो वपुस्तस्य रुद्रस्याहङ्कारो यतो वपुस्तस्येन्द्रस्येन्द्रियादिकमपि यतो वपुरित्यपि ग्राह्यम् । तथा स्वराट् मत्स्यादिरूपी हरिर्यतः केवलं ज्ञानरूपं निर्गुणं ब्रह्म तदात्मकत्वेन पूर्णमद इत्यादिश्रुत्याऽपि सिद्धः । अत भ्रान्त्यैवार्थरूपेण जडदेहात्मनाऽज्ञानामवभातीति ॥ २९ ॥
एतद् वै श्रद्धया भक्त्या योगाभ्यासेन नित्यशः ।
समाहितात्मा निःसङ्गो विरक्तः परिपश्यति ॥ ३० ॥
पदरत्नावली
तर्हि तद् ब्रह्म यथावज्ज्ञातुं कथं शक्यत इति तत्राह– एतदिति ॥ एतैः साधनैर् अधिकार्येऽतन्मत्स्याद्यवताररूपं ब्रह्म परिपश्यति प्राकृतदेहादिदोषपरित्यागेन ज्ञानानन्दाद्यनन्तगुण-पूर्णत्वेनापरोक्षीकरोतीत्यन्वयः । कैरित्यत उक्तम्– श्रद्धयेत्यादि ॥ नित्यशोऽनुक्षणं यमादियोगाभ्यासेन । कीदृशोऽधिकारी ? समाहितात्मा हरावेव सम्यगर्पितमनाः, निःसङ्गो दुष्टसङ्गरहितः निर्णीतसज्जनसङ्गो वा । निर्निर्णयनिषेधयोरिति यादवः । विरक्तः सर्वमसारमनित्यं चेति ज्ञानवान् वा इत्यनेनैतैरेव साधनैर् नापरैरैक्यज्ञानादिभिर् ब्रह्मदर्शनं स्यादिति सूचयति । ज्ञानरूपमेकं निर्गुणं ब्रह्म भ्रान्त्यार्थरूपेण पञ्चात्मनावभातीत्याद्यपव्याख्याननिरासाय च मत्स्यकूर्मादिरूपं च विष्णोर्ज्ञानैकमात्रकमित्याद्युदाहृत-माचार्यैरिति ज्ञातव्यम् ॥ ३० ॥
प्रकाशिका
मत्स्यादिरूपं परं ब्रह्म शब्दादिधर्मिणां चेदन्यथा भाति तर्हि कस्तत्सम्यक् पश्यतीत्यपेक्षायामाह ॥ एतद्वा इति । एतन्मत्स्यादिरूपं परं ब्रह्म श्रद्धादिसाधनसंपन्न एवाधिकारी परिपश्यति ज्ञानानन्दात्मकमेवेदं न प्राकृतमिति पश्यतीत्यर्थः ॥ ३० ॥
इत्येतत् कथितं गुर्वि ज्ञानं तद् ब्रह्मदर्शनम् ।
येनैव बुध्यते तत्त्वं प्रकृतेः पुरुषस्य च ॥ ३१ ॥
पदरत्नावली
तत्त्वोपदेशमुपसंहरति– इतीति ॥ ब्रह्म दर्शयतीति ब्रह्मदर्शनम् । तात्पर्यातिशय-जननाय ज्ञानं विशिनष्टि– येनेति ॥ प्रकृतिशब्दवाच्यस्य लक्ष्म्यादेः पुरुषशब्दवाच्यस्य विष्ण्वादेस् तत्त्वमनारोपितरूपं येन ज्ञानेनावबुध्यत इत्यन्वयः ॥ ३१ ॥
प्रकाशिका
उपसंहरति ॥ इत्येतदिति । हे गुर्वि पूज्ये मातः । एतत् श्रुत्यादिप्रसिद्धम् । ब्रह्म दर्शयतीति ब्रह्मदर्शनं परतत्त्वविषयकम् । प्रकृतेश्चेतनाया अचेतनायाश्च पुरुषस्य ब्रह्मादिजीवसमूहस्य च तत्त्वम् । अनेन परतत्त्वविषयकत्वमुक्तमिति ज्ञातव्यम् । तथा च परापरतत्त्वविषयकं ज्ञानं कथित-मित्युक्तं भवति ॥ ३१ ॥
ज्ञानं योगश्च मन्निष्ठो नैर्गुण्यो भक्तिलक्षणः ।
द्वयोरप्येक एवार्थो भगवच्छब्दलक्षणः ॥ ३२ ॥
तात्पर्यम्
‘ज्ञानभक्ती विना नैव मुक्तिः कस्यापि विद्यते । तयोरेकतरेणापि विष्णुगेनोभयं विना । एवमप्येतयोरेकभावेऽन्यनियतेर्ध्रुवम् । एकेनापि भवेन्मुक्तिस्तदर्थं त्वन्यसाधनमि’ति हरिवंशेषु ॥ ३२ ॥ इति तृतीयतात्पर्ये त्रयस्त्रिंशोऽध्यायः ॥ ३३ ॥
पदरत्नावली
अवश्यानुष्ठानार्थं येन विना मुक्तिमात्रं न स्यात् तत् साधनं निर्दिशति– ज्ञान-मिति ॥ यो नैर्गुण्यो भक्तिलक्षणो योगो यच्च ज्ञानं ज्ञानयोगस्तयोर्द्वयोरप्येक एवार्थो विषयः यस्य स । स क इति तत्राह– भगवच्छब्देति ॥ भगवच्छब्दवाच्य इत्यर्थः । भक्तिज्ञानयोगयोरैश्वर्याद्यनन्तगुणपूर्ण-श्रीनारायणो विषय इति भक्तिज्ञाने मुक्तेरवश्यसाधने मयोपदिष्टे इति । ‘ज्ञानभक्ती विना नैव मुक्तिः कस्यापि विद्यते । तयोरेकतरेणापि विष्णुगेनोभयं विना ॥ एवमप्येतयोरेकभावेऽन्यनियतेर्ध्रुवम् । एकेनापि भवेन्मुक्तिस्तदर्थं त्वन्यसाधनम् ॥’ इति वाक्यार्थज्ञानाय लक्षण इत्युक्तम् । लक्ष दर्शनाङ्कनयोरिति धातोः सूचितोऽयमर्थ इति ॥ ३२ ॥
प्रकाशिका
अपरतत्त्वविषयमपि ज्ञानमन्ततो मद्विषयकं चेन्मुक्तिसाधनमित्याह ॥ ज्ञानमिति । ज्ञानं ज्ञानरूपयोगोऽपि मन्निष्ठो मद्विषयको नैर्गुण्यो निर्गुणमुक्तिसम्बन्धी । तत्साधक इति यावत् । नन्वेवं मुक्त्युपदेशो व्यर्थ इत्यत उक्तम् ॥ भक्तिलक्षण इति । भक्तिरूपो योगश्च नैर्गुण्यो, भक्ति-सहितमेव ज्ञानं मुक्तिसाधनं न केवलमतो नोक्तदोष इत्याशयः । ननु निर्विशेषब्रह्मज्ञानमेव परमुक्ति-साधनं भक्तिस्तु भगवच्छब्दवाच्यसगुणविषया न तत्साधनमिति केचिदास्थितास्तान्प्रत्याह ॥ द्वयोरपीति । माहात्म्यज्ञानसुदृढसर्वतोऽधिकस्नेहयोरित्यर्थः । अर्थो विषय एक एव । स क इत्यत उक्तम् ॥ भगवच्छब्देति । भगवच्छब्दो लक्षणं ज्ञापको यस्य सः भगवच्छब्दवाच्य इत्यर्थः । तथा च निर्विशेषज्ञानं परमुक्तिसाधनमित्येतदप्रामाणिकमित्याशयः ।
नन्वेवं ‘‘तमेवं विद्वानमृत’’ इत्यादौ केवलज्ञानस्य, ‘‘भक्त्या त्वनन्यये’’त्यादौ केवलभक्तेश्च कथं मोक्षसाधनत्वमुच्यते । कथं चोभयं विना ‘‘अपामसोमममृता अभूमे’’त्यादौ कर्मादेरित्याशङ्कां प्रमाणेनैव परिहरति ॥ ज्ञानभक्तीति । ज्ञानभक्ती विना तयोर्ज्ञानभक्त्योर्मध्ये विष्णुगेनैकतरेणैव कस्यापि मुक्तिर्नैव विद्यत इत्यन्वयः । तथोभयं विना कर्मादिनाऽपि मुक्तिः कस्यापि न विद्यत इत्यर्थः । नन्वेवं तयोरेक-तरेणापि मुक्तिर्भवतीत्युदाहृतवचनानां का गतिरित्यत आह ॥ एवमपीति । उभयोरावश्यकत्वेऽपीत्यर्थः । एतयोर्ज्ञानभक्त्योर्मध्ये एकस्य भावेऽन्यस्यान्यसत्वस्य नियतेर्नियमाद् एकेनापि मुक्तिर्भवतीति वचनम् उपपद्यत इति शेषः । अपरोक्षज्ञानाभावे मोक्षजनकभक्तेरसम्भवात् । भक्त्यभावेऽपरोक्षज्ञाना-सम्भवाच्चैकतरस्यान्याविनाभावो ध्रुव इति द्रष्टव्यम् । अपाम सोममित्यादिश्रुतिविरोधं परिहरति ॥ तदर्थमिति । भक्तिज्ञानरूपोभयार्थमित्यर्थः । अन्यसाधनं कर्मादिकम् । उच्यत इति शेषः । तथा च तद्वचनं ज्ञानादिद्वारा कर्मणां मोक्षसाधनत्वपरं न साक्षादतो न विरोध इत्याशयः ॥ ३२ ॥
यथेन्द्रियैः पृथक्चारैरर्थो बहुगुणाश्रयः ।
एको नानेयते तद्वद् भगवाञ्छास्त्रवर्त्मभिः ॥ ३३ ॥
पदरत्नावली
एकस्यानेकगुणविषयत्वं कुत्र दृष्टमिति तत्राह– यथेति ॥ यथा बहूनां शब्दस्पर्श-रूपरसगन्धगुरुत्वादीनां गुणानामाश्रयो बहुगुणाश्रय एकोऽर्थः पदार्थो नानेयते । कैः ? पृथक्कारैः पृथक् कारश्चरणं वर्तनं येषां तानि तया तैर्भिन्नमार्गैरिन्द्रियैः । श्रोत्रेण शब्दवान् त्वचा स्पर्शवांश्चक्षुषा शुक्लादिरूपवान् जिह्वया रसवान् घ्राणेन गन्धवान् पाणिना गुरुरिति ज्ञायते, एवं स भगवानेको ज्ञानानन्दादिबहुगुणाश्रयः शास्त्रवर्त्मभिर्वेदान्तादिसच्छास्त्रमार्गैरानन्दवान् ज्ञानवानित्यादिबहुगुणविषयत्वेन ज्ञायत इत्यन्वयः ॥ ३३ ॥
प्रकाशिका
ननु शास्त्रेषु मुक्तिगतनानाविधफलसाधनतयाऽनेके विलक्षणगुणा उपास्या उक्ताः । तथाविधफलसंपादकविलक्षणानेकगुणवत्त्वं च नैकस्य भगवतः संभवति । तथा च कथं भगवज्ज्ञानमेव मोक्षसाधनमित्युक्तमित्यत एकस्यापि तथाविधगुणवत्वमुपपद्यत इति दृष्टान्तमुखेनोपपादयति ॥ यथेति । पृथक्चारैः पृथक् चारश्चरणं वर्तनं येषां तानि तथा तैर्भिन्नमार्गैरिन्द्रियैर्बहूनां रूपरसादीनामाश्रयो गुडादिरेक एवार्थश्चक्षुषा रक्त इति त्वचाऽनुष्णाशीत इति रसनेन मधुर इत्यादिरूपेण नानेयते ज्ञायते तद्वद्भगवानपि शास्त्रवर्त्मभिर्मौक्तनानाविधफलसंपादकगुणविधायकशास्त्रमार्गैरेक एव नाना तत्तद्गुणविशिष्ट-तयेयत इति न कोऽपि विरोधः ॥ ३३ ॥
क्रियया क्रतुभिर्दानैस्तपःस्वाध्यायदर्शनैः ।
आत्मेन्द्रियजयेनापि संन्यासेन च कर्मणाम् ॥ ३४ ॥
योगेन विविधांशेन भक्तियोगेन चैव हि ।
धर्मेणोभयचिह्नेन यः प्रवृत्तिनिवृत्तिमान् ॥ ३५ ॥
आत्मतत्त्वावबोधेन वैराग्येण दृढेन च ।
ईयते भगवानेभिः सगुणो निर्गुणः स्वदृक् ॥ ३६ ॥
पदरत्नावली
भक्तिज्ञानविषयवत् साधनक्रियादीनामपि भगवानेव विषय इत्याह– क्रिययेत्यादि-श्लोकत्रयेण ॥ क्रियया सन्ध्यावन्दनादिलक्षणया, भगवल्लिङ्गानां दर्शनेन आत्मनो मनसश्चक्षुरादीन्द्रियाणां जयेत, कर्मणामशास्त्रविहितानां संन्यासेन त्यागेन ॥
एकस्य धर्मस्योभयजिह्नत्वं कथमिति तत्राह– य इति ॥ मतुप्प्रत्येकमभिसम्बध्यते प्रवृत्तिमान् निवृत्तिमानिति । भगवदुपासनादिप्रवृत्तिर्हिंसादिनिवृत्तिस्तद्वानित्यर्थः ॥ ३४,३६ ॥
प्रकाशिका
यदुक्तं भगवज्ज्ञानार्थमेव कर्मादिकमुच्यत इति तत्प्रपञ्चयन् अपरोक्षज्ञानसाधनानि दर्शयति ॥ क्रिययेति त्रिभिः । क्रियया नित्यनैमित्तिकादिरूपया । दर्शनं भगवत्प्रतिमानाम् । आत्मा मनः । कर्मणां काम्यानां निषिद्धानां च संन्यासेन त्यागेन ।
योगेन ध्यानरूपेण । एवशब्दस्य य एवेति सम्बन्धः । धर्मेणादृष्टविशेषेण पूर्वोक्तक्रियाजनितेन । तस्योभयचिन्हवत्त्वमेव दर्शयति ॥ य इति । प्रवृत्तिमान्मोक्षमार्गे प्रवृत्तिजनको निवृत्तिमान्संसारे वैराग्यजनकः ।
आत्मतत्त्वं परमात्मनो याथात्म्यं तस्यावबोधेन श्रवणमननरूपेणेयतेऽपरोक्षेण ज्ञायते सगुणोऽधि-कार्यपेक्षितफलसंपादकगुणपूर्णो निर्गुणः सत्त्वादिगुणशून्यः । स्वं स्वीयं भक्तं कृपया पश्यतीति स्वदृक्
॥ ३४-३६ ॥
प्रावोचं भक्तियोगस्य स्वरूपं ते चतुर्विधम् ।
कालस्य चाव्यक्तगतेर्योऽन्तर्धावति जन्तुषु ॥ ३७ ॥
पदरत्नावली
इदानीमुक्तपरमप्रमेयमुपसंहरति– प्रावोचमिति ॥ ३७ ॥
प्रकाशिका
ज्ञानयोगमुपसंहृत्य तस्य भक्तिसाहित्यादिकं तत्साधनानि चोक्त्वेदानीं भक्ति-योगादिकमुपसंहरति ॥ प्रावोचमित्यादि द्वाभ्याम् । स्वरूपं चतुर्विधं त्रिगुणनिर्गुणभेदेन । अन्तर्धावति उत्पत्तिमरणादिकं करोति ॥ ३७ ॥
जीवस्य संसृतीर्बह्वीरविद्याकर्मनिर्मिताः ।
याः स्वयं प्रविशन्नात्मा न वेद गतिमात्मनः ॥ ३८ ॥
पदरत्नावली
संसृतीर् गतिर् यासु संसृतीषु प्रविशन्नयं जीव आत्मनः स्वस्य गतिं शरणमात्मानं न वेद ॥ ३८ ॥
प्रकाशिका
आत्मा जीव आत्मनः परमात्मनो गतिं स्थितिमात्मनः स्वस्य गतिं गम्यमिति वा
॥ ३८ ॥
नैतत् खलायोपदिशेन्नाविनीताय कर्हिचित् ।
न स्तब्धाय न भिन्नाय नैव धर्मध्वजाय च ॥ ३९ ॥
पदरत्नावली
उपदिष्टतत्त्वज्ञानानधिकारिण आह– नैतदिति ॥ खल इन्द्रियारामो दुर्जन इत्यर्थः । स्तब्धो गुरुनियोगमकुर्वाणः । भिन्नो वैष्णवसमयेतरसमयनिष्ठः । धर्मध्वजो दम्भवान् ॥३९॥
प्रकाशिका
एतदुपदेशानधिकारिण आह ॥ नैतदिति । खलः परोपद्रवकर्ता । स्तब्धो गुरुनियोगमकुर्वाणः । भिन्नोऽवैष्णवसमयनिष्ठो, धर्मध्वजो डाम्भिकः ॥ ३९ ॥
न लोलुपायोपदिशेन्न गृहारूढचेतसे ।
नाभक्ताय च मे जातु न मद्भक्तद्विषामपि ॥ ४० ॥
पदरत्नावली
लोलुपो विषयाभिलाषी । खलत्वादिदोषरहितोऽपि ममाभक्तश्चेन्नैवोपदेशयोग्यः प्रसंगेनापीत्याशयेनोक्तम्– जात्विति ॥ नैतावता पूर्यत इत्याह– न मद्भक्तद्विषामिति ॥ ४० ॥
प्रकाशिका
लोलुपो विषयाभिलाषी ॥ ४० ॥
श्रद्दधानाय भक्ताय विनीतायानसूयवे ।
भूतेषु कृतमैत्राय शुश्रूषाभिरताय च ॥ ४१ ॥
बहिर्जातविरागाय शान्तचित्ताय दीयते ।
निर्मत्सराय शुचये यस्याहं प्रेयसां प्रियः ॥ ४२ ॥
पदरत्नावली
तर्ह्यनधिकारित्वेनैतदुत्सादनं स्यादिति तत्राह– श्रद्दधानायेति ॥ अनुसूयुर्गुणेषु दोषाविष्करणबुद्धिरहितः ॥ बहिः स्वर्गादौ । प्रेयसां प्रियतमानां पुत्रादीनां सकाशात् । तदेतत् प्रेय इति श्रुतेः ॥ ४१,४२ ॥
प्रकाशिका
अधिकारिण आह ॥ श्रद्दधानायेति द्वाभ्याम् ॥ ४१ ॥
य इदं श्रुणुयादम्ब श्रद्धया पुरुषः सुकृत् ।
यो वाऽभिधत्ते मच्चित्तः स ह्येति पदवीं च मे ॥ ४३ ॥
इति श्रीमद्भागवते तृतीयस्कन्धे त्रयस्त्रिंशोऽध्यायः ।
पदरत्नावली
अधिकारिणः फलज्ञानात् क्षिप्रप्रवृत्तिः स्यादित्यतस् तत्फलमाह– य इदमिति ॥ अम्ब हिताहितवेदने इति धातोस्तस्य टापि कृतेंऽबेति, तत्सम्बुद्धिरम्ब मातः । अभिधत्ते वक्ति । ‘हि हेताववधारणे’ इत्यभिधानादुभयमपि ग्राह्यम् । एत्येव मम पदवीमिति हि यस्मात् तस्मात् श्रवणादिकं कर्तव्यमिति ॥ ४३ ॥
॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुकृतायां तृतीयस्कन्धे त्रयस्त्रिंशोऽध्यायः ॥
प्रकाशिका
एतच्छ्रवणकीर्तनपरस्यापि मत्पदप्राप्तिः किम्वनुष्ठातुरित्यभिप्रेत्याह ॥ य इदमिति
॥ ४३ ॥
॥ इति श्रीमद्वेदेशपूज्यपादशिष्येण यदुपतिना विरचितायां
श्रीमद्भागवतटिप्पण्यां त्रयस्त्रिंशोऽध्यायः ॥ ३-३३ ॥