३२ द्वात्रिंशोऽध्यायः

कर्मणा दैवतन्त्रैण जन्तुर्देहोपपत्तये

अथ द्वात्रिंशोऽध्यायः

भगवानुवाच–

कर्मणा दैवतन्त्रैण जन्तुर्देहोपपत्तये ।

स्त्रियः प्रविष्ट उदरं पुंसो रेतःकणाश्रयः ॥ १ ॥

कलिलं त्वेकरात्रेण पञ्चरात्रेण बुद्बुदम् ।

दशाहेन तु कर्कन्धुः पेश्यण्डं वा ततः परम् ॥ २ ॥

तात्पर्यम्

‘नानाविधा गर्भवृद्धिः कर्मभेदाद्भविष्यति । अतो नानाविधं ग्रन्थे गर्भसंस्थान-मुच्यत’ इति षाड्गुण्ये ॥ २ ॥

पदरत्नावली

अस्मिन्नध्याये संसारसारलक्षणवैराग्याय गर्भवासादिदुःखानुभवः प्रतिपाद्यते । तस्माद् विरक्तो भक्तिसाध्यब्रह्मज्ञानाय प्रयतेत इति । तत्र नरके कर्मफलं भुक्त्वा वृष्टिरूपेण नरलोकं प्राप्तो व्रीह्यादीतरजीवदेहगतो दैवाधीनेन कर्मणा शरीरस्वीकाराय पुरुषभुक्तान्नपरिणतरेतोबिन्धुप्रवेशरूपेण ऋतुकाले योनिद्वारा स्त्रिया उदरं प्रविष्टो भवतीत्यन्वयः । ‘सूक्ष्मलेशलवश्लक्ष्णक्षुद्रदभ्रकणाणवः’ इति हलायुधः । ‘स्त्रियां मात्रा त्रुटिः पुंसि लवलेशकणाणवः’ इत्यमरः । कणति निमीलतीति कणः ॥

स्त्रिया उदरं प्रविष्टस्य रेतसः कालक्रमेण शरीराकारतया परिणामप्रकारं वक्ति– कलिलमिति ॥ तुशब्दाच्छोणितसम्पर्कमाह । कलिलं रक्तधातुरसमिश्रत्वान् निर्यासतुल्यं भवति । कर्कन्धुरीष-त्काठिन्योपेतमयःपिण्डतुल्यः पेशीमांसखण्डी तद्वान् भवति । मनुष्यादीनामयं विशेषः न पक्ष्यादीनाम् । अण्डं पिण्डाकारवत् । ‘नानाविधा गर्भवृद्धिः कर्मभेदाद् भविष्यति । अतो नानाविधं ग्रन्थे गर्भसंस्थान-मुच्यते’ इति वचनात्, अण्डं वेति विकल्प्योक्तम् ॥ १,२ ॥

प्रकाशिका

अत्र पुनर्वैराग्याय गर्भवासादिनिमित्तं दुःखं निरूपयितुं तावद्गर्भप्राप्तिप्रकारमाह ॥ कर्मणेति । दैवतन्त्रेण दैवाधीनेन पूर्वकर्मणा रेतःकणाश्रयो रेतोबिन्द्वन्तर्गतः सन् कलिलं रेतः शोणितेन मिश्रितं भवति । तुशब्दो वंध्याशोणितमिश्रीभावाद्विशेषसूचकः । बुद्बुदं वर्तुलाकारं, कर्कन्धुरिव कर्कन्धु-र्बदरीफलाकारं कठिणम् । ‘‘पेशो जरायुरुद्दिष्टः सुवर्णं पेश उच्यत’’ इति वचनात्पेशशब्दो जरायुवाची । तथा च पेशीत्यस्य जरायुणा वीतमित्यर्थः ॥ अण्डं वेति मनुष्यगर्भस्यैवात्र विकल्पेनाण्डत्वमुच्यत इति भाति । न च तद्युक्तम् । अण्डत्वस्य पक्ष्यादिगर्भधर्मत्वादतोऽण्डं वेति पक्षान्तरोक्तेरभिप्रायं प्रमाणेनैवाह ॥ नानाविधेति । मनुष्यपक्ष्यादिरूपेत्यर्थः । भविष्यति भवति । प्राणिनामिति शेषः । नानाविधं पेश्यण्डं वेत्येवंरूपं गर्भसंस्थानं गर्भवृद्धिः । तथा च पक्ष्यादिगर्भमभिप्रेत्याण्डं वेति पक्षान्तरमुक्तं न मनुष्यगर्भमपेक्ष्यैवातो न विरोध इत्याशयः ॥ १,२ ॥

मासेन तु शिरो द्वाभ्यां बाह्वङ्घ्र्याद्यङ्गविग्रहः ।

नखलोमास्थिचर्माणि लिङ्गच्छिद्रोद्भवस्त्रिभिः ॥ ३ ॥

पदरत्नावली

बाह्वङ्घ्य्रादिभिरङ्गैरवयवैर् युक्तो विग्रहो देहो भवति । लिङ्गस्य पुल्लिङ्गादि-लक्षणस्य छिद्रस्येन्द्रियद्वारस्य चोद्भव उत्पत्तिः ॥ ३ ॥

प्रकाशिका

बाह्वङ्घ्र्यादिभिरङ्गैरवयवैर्युक्तो विग्रहो देहो भवति । नखलोमास्थिचर्माणि भवन्ति । लिङ्गस्य पुल्लिङ्गादिलक्षणस्य । छिद्राणामिन्द्रियद्वाराणां चोद्भव उत्पत्तिस्त्रिभिर्मासैः ॥ ३ ॥

चतुर्भिर्धातवः सप्त पञ्चभिः क्षुत्तृडुद्भवः ।

षड्भिर्जरायुणा वीतः कुक्षौ भ्रमति दक्षिणे ॥ ४ ॥

पदरत्नावली

धातवस् त्वगादयः सप्त । आवीतः संवेष्टितः ॥ ४ ॥

प्रकाशिका

धातवस्त्वक्चर्मादयो जरायुणा गर्भवेष्टनेन वीत आवृतः ॥ ४ ॥

सप्तमे जन्मकर्माणि गतानि स्मरते ऋषिः ।

जगत्यां यानि देवस्य मायया बन्धमात्मनः ॥ ५ ॥

पदरत्नावली

सप्तमे मासे गर्भस्थस्य ज्ञानोत्पत्तिरित्याह– सप्तम इति ॥ जगत्यां कर्मभूमौ यानि गतानि जन्मानि कर्माणि च स्वकृतानि । तथा च देवस्य हरेर्माययेच्छया कटाक्षितमात्मनः स्वस्य बन्धं च ऋषिर्ज्ञानवान् स्मरते । क्वचित् स्मरति क्वचिद् विस्मरति, वेदनया ग्रस्तत्वादिति द्योतनाय आत्मनेपदं सन्धिकार्याभावश्च ॥ ५ ॥

प्रकाशिका

जगत्यां कर्मभूमौ यानि गतानि जन्मानि कर्माणि च स्वकृतानि तथा देवस्य हरेर्माययेच्छयाऽऽत्मनः स्वस्य बन्धनं सुखदुःखाद्यनुभवरूपं स्मरते स्मरति । ऋषिर्ज्ञानी । तथा च सप्तमे मासि तस्य सम्यग्ज्ञानमुत्पद्यत इत्याशयः ॥ ५ ॥

मातुर्जग्धान्नपानाद्यैरेधत्यातुरसम्मतः ।

आस्ते विण्मूत्रयोर्गर्ते सजन्तुर्जन्तुसम्भवे ॥ ६ ॥

पदरत्नावली

तत्र तस्य देहयात्राप्रकारं वक्ति– मातुरिति ॥ आतुरो रोगी, तस्य सम्मतः । यथासौ परतः स्वदेहयात्रामाप्नोति तथायमिति । अन्नादीनां प्रवेशस्तु, आप्यायिनी नाम नाडी नाभिमूलादुत्पन्ना जरायुमुल्बं च निर्भिद्यास्य द्वारसम्बद्धोष्ठपुटचुम्बिकमलदण्डनाडीवत्, तद्द्वारेत्यर्थः । तस्य निवासस्थानमाह– आस्त इति ॥ सजन्तुर् जन्तुभिः सह वर्तमानः । अनेनैवात्रैवेति विवृतम् । जन्तूनां सम्भवो यस्मिन् स तथा तस्मिन् । अनेन जन्तूनामनवसानभयपरंपरोत्पत्तिः सूचिता ॥ ६ ॥

प्रकाशिका

आतुरो रोगी तस्य संमतस्तद्वत्स्थितः । स यथा परतः स्वदेहयात्रामाप्नोति तथाऽयमपीति । जन्तूनां सम्भवो यस्मिन्गर्ते । सजन्तुः सजीवः ॥ ६ ॥

कृमिभिः क्षतकण्ड्वङ्गः सौकुमार्यात् प्रतिक्षणम् ।

मूर्च्छामाप्नोत्युरुक्लेशस्तत्रत्यैः क्षुधितैर्मुहुः ॥ ७ ॥

पदरत्नावली

इदानीं तस्य दुःखानुभवप्रकारमाह– कृमिभिरित्यादिना ॥ क्षतं च कण्डूश्चाङ्गेषु यस्य स क्षतकण्ड्वङ्गः ॥ ७ ॥

प्रकाशिका

तत्रत्यैः कृमिभिः खादद्भिः । क्षतं च कण्डु चाङ्गेषु यस्य सः क्षतकंड्वंगः ॥ ७ ॥

कटुतीक्ष्णोष्णलवणक्षाराम्लादिभिरुल्बणैः ।

मातृभुक्तैरुपस्पृष्टः सर्वाङ्गोत्थितवेदनः ॥ ८ ॥

पदरत्नावली

कटुर्मरीचिसंज्ञः द्रव्याश्रितधर्मो वा, तीक्ष्णः सर्षपः, उष्णमग्निमद् द्रव्यं, क्षारं दग्धमत्स्यास्थिचूर्णम्, आम्लश्चूतादिसंज्ञः, उल्बणैररिक्रूरैरेतैरुपस्पृष्ट उपतप्तः सर्वाङ्गेषूत्थितोत्पन्ना वेदना यस्य स तथा ॥ ८ ॥

प्रकाशिका

कटुर्मरीचिकादिः । तीक्ष्णः सर्षपादिः । क्षारं चूर्णादिराम्लं तिन्त्रिणी सर्वाङ्गेषू-त्थितोत्पन्ना वेदना यस्य स तथा ॥ ८ ॥

उल्बेन संवृतस्तस्मिन्नान्त्रैश्च बहिरावृतः ।

आस्ते कृत्वा शिरः कुक्षौ भुग्नपृष्ठशिरोधरः ॥ ९ ॥

पदरत्नावली

भुग्ने कुटिले पृष्ठशिरोधरे यस्य स तथा । मार्कण्डेये पितृपुत्रसंवादे कथितमेतत्– ‘नाडी चाप्यायिनी नाम नाभ्यां तस्य निबध्यते । स्त्रीणां तथात्र सुषिरे स निबद्धाथ जायते । क्रमन्ते भुक्तपीतानि स्त्रीणां गर्भोदरे तथा । तैराप्यायितदेहोऽसौ जन्तुर्वृद्धिमुपैति वै । नारिकेलफलं यद्वत् सकोशं वृद्धिमृच्छति । तद्वत् प्रयात्यसौ वृद्धिं सकोशोऽधोमुखःस्थितः । एवं वृद्धिं क्रमाद् याति जन्तुः स्त्रीगर्भसंस्थितः । तले तु जानुपार्श्वाभ्यां करयोर्न्यस्य वर्तते । अङ्गुष्ठौ चोपरि न्यस्य जान्वोरग्रे तथाङ्गुली । जानुपृष्टे तथा नेत्रे जानुमध्ये च नासिकाम् । स्फिचौ च पार्श्वद्वन्द्वस्थौ बाहुजङ्घा-बहिःस्थितौ ॥’ इति ॥ ९ ॥

प्रकाशिका

उल्बेन जरायुणा तस्मिन्गर्ते स्वशिरः कुक्षौ कृत्वा, भुग्नं कुण्डिलीकृतं पृष्ठं शिरोधरा ग्रीवा च यस्य ॥ ९ ॥

अकल्पः स्वाङ्गचेष्टायां शकुन्त इव पञ्जरे ।

तत्र लब्धस्मृतिर्दैवात् कर्म जन्मशतोद्भवम् ।

स्मरन् दीर्घमनुच्छ्वासं शर्म किं नाम विन्दते ॥ १० ॥

पदरत्नावली

शकुन्तोऽनुत्पन्नपक्षः पक्षी । शितस्तनूकृतो ऽर्धोत्पन्नः कुन्तः पक्षो यस्य स तथेति वा । एवं क्लिश्यमानस्य तस्य नाना जातिसंस्मृतिश्च लभ्यत इत्याह– तत्रेति ॥ तत्र गर्भे दैवाद् लब्धा स्मृतिर्येन स तथा । जन्मशतोद्भवं कर्म पुण्यपापलक्षणं स्मरन्, दीर्घमनुश्वासं कुर्वन्, देही तस्मिन् गर्भे किंनाम विन्दते ? स्वकर्मवशत्वान् नानाजातिगर्भस्थत्वाद् ब्राह्मणादिनानाजातिनाम लभते इत्यर्थः ॥ १० ॥

प्रकाशिका

शकुन्तोऽनुत्पन्नपक्षः पक्षी । दीर्घं चिरकालमनुच्छ्वासं कुर्वन् तत्र गर्भे किं नाम सुखं विन्दते न किमपीत्यर्थः ॥ १० ॥

आरभ्य सप्तमान्मासाल्लब्धबोधोऽपि वेपितः ।

नैकत्रास्ते सूतिवातैर्विष्ठाभूरिव सोदरः ॥ ११ ॥

पदरत्नावली

लब्धस्मृत्या च गर्भवासासारतां विजानतस् तस्य ततो निष्क्रमरप्रयत्नं वक्ति– आरभ्येति ॥ विष्ठाभूः कृमिः । सोदरः किं मे स्यादिति संशयोपेतः । ‘उदरं संशयः प्रोक्तः’ इत्यभिधानात् ॥ ११ ॥

प्रकाशिका

सूतिवातैः सूतिहेतुभिर्वातैर्वेपितः । सोदरः समानोदरः, विष्टाभूर्विष्टोत्पन्नः कृमिरिव

॥ ११ ॥

नाथमानो ऋषिर्भीतः सप्तवध्रिः कृताञ्जलिः ।

स्तुवीत तं विक्लवया वाचा येनोदरेऽर्पितः ॥ १२ ॥

तात्पर्यम्

‘वध्रयस्त्विन्द्रियाण्याहुर्हृषीकाणीति चोच्यत(चाप्युत)’ इति शब्दनिर्णये ॥१२॥

पदरत्नावली

इतोऽपि निर्गमनाय स्वप्रयत्नो निष्फलः, किन्तु हरेः प्रसाद एव प्रयोजक इति भावेन तं भगवन्तं स्तौति– नाथमान इति ॥ नाथृ नाधृ याञ्चायामिति धातुः । एवंविधगर्भवासो मा भूदिति नाथमानः याचमानः । विक्लवया श्रोतृमनोद्रवणहेतुभूतया । ऋषिरिति पदेन ‘तत्त्वज्ञानं तु देवानां गर्भस्थानां भविष्यति । उत्तमानाम् ऋषीणां वाप्यन्येषां बहुजन्मगम् ॥’ इति वाक्यं सूचयति । सप्त वध्रय इन्द्रियाणि यस्य स तथोक्तः । ‘वध्रयस्त्विन्द्रियाण्याहुर्हृषीकाणीति चाप्युत’ इति ॥ १२ ॥

प्रकाशिका

नाथमान ‘‘एवंविधो गर्भवासो मा भूदिति’’ याचमानः । नाथृ नाधृ याञ्चायामिति धातोः । भीतः पुनर्गर्भवासात् । अत्र वध्रिशब्दस्य विवक्षितमर्थं प्रमाणेनैव दर्शयति ॥ वध्रयस्त्विति । तुशब्द इतिशब्दार्थः । तथा च वध्रय इतीन्द्रियाण्याहुरित्यर्थः । चापिशब्दौ परस्परसमुच्चये । उतशब्द आहुरित्यस्यानुकर्षणार्थः । तथा च मनोबुद्धिसहितानि श्रोत्रादीनि पञ्चेति सप्त वध्रय इन्द्रियाणि यस्य स तथा । स्वव्यापारानुकूलज्ञानेन्द्रियवानित्यर्थः । स्तुवीत स्तवीति । क्वचित्तथैव पाठः । तं परमात्मानं विक्लवया व्याकुलया श्रोतॄणां कृपाजनकयेति वा ॥ १२ ॥

जीव उवाच–

तस्योपसन्नमवितुर्जगदिच्छयाऽत्त

लीलातनोर्भुवि लसच्चरणारविन्दम् ।

सोऽहं व्रजामि शरणं नकुतोभयं मे

येनेदृशी गतिरदर्श्यसतोऽनुरूपा ॥ १३ ॥

पदरत्नावली

स्तुतिस्तत्र सिद्धैर्गुणैः, उत मन्त्रगतैर्वा ? द्वावपि पक्षौ नोपपन्नौ । तस्य बुद्धे-र्जन्मशतोद्भवकर्मविषयत्वेन चरितार्थत्वात् । अनवगाहत्वेन गुणेष्वनारोहात् । अत इयं स्तुतिर्या काचिदित्याशङ्क्य हरिशक्तेरचिन्त्यमहिमत्वेन सर्वं युक्तमिति भावेन तदुचितैर्गुणैः स्तौति– तस्योपसन्न-मित्यादिना ॥ योऽसौ दैवाल्लब्धस्मृतिः सोऽहं येन हरिणाऽसतोऽशुभस्य ममेदृशी गर्भवासलक्षण-गतिरदर्शि तस्य हरेर्लसच्चरणारविन्दं शरणं व्रजामि । किंविशिष्टस्य ? तस्योपसन्नं शरणागतं जगदवितुः, अव रक्षण इति । इच्छया भक्तानुग्रहलक्षणया भुवि आत्तलीलातनोः स्वीकृतरामकृष्णादिलीलावतारस्य अप्राप्यस्य देवदत्तवत् सभयत्वे किं शरणव्रजनेन प्रयोजनमित्यत उक्तम्– नकुतोभयमिति ॥ ‘अभयं प्रतिष्ठां विन्दते’, ‘युक्ता ह्यस्य हरयः शता दश’ इत्यादिश्रुतिरत्र प्रमाणम् ॥ १३ ॥

प्रकाशिका

योऽसौ दैवाल्लब्धस्मृतिः सोऽहं येन हरिणाऽसतोऽशुभस्य मे ममेदृशी गर्भवास-लक्षणा गतिः स्थितिरदर्शि तस्य हरेर्लसच्चरणारविन्दं शरणं व्रजामि । कथंभूतस्य । तस्योपसन्नं शरणागतं जगदवितुः रक्षितुः । अव रक्षण इति धातोः । अवितुमित्यपि क्वचित्पाठः । इच्छया भक्तानु-ग्रहेच्छया भुव्यात्तलीलातनोः स्वीकृतलीलावतारस्य । अनेन स्ववत्तस्य गर्भवासदुःखं नास्तीति सूचयति । कथंभूतं चरणारविन्दम् । न विद्यते कुतोऽपि भयं यस्मात्तन्नकुतोभयम् ॥ १३ ॥

यस्त्वत्र बद्ध इव कर्मभिरावृतात्मा

भूतेन्द्रियाशयमयीमवलम्ब्य मायाम् ।

आस्ते विशुद्धमविकारमखण्डबोध-

मातप्यमानहृदयेऽवसितं तमेमि ॥ १४ ॥

पदरत्नावली

यो भूतेन्द्रियाशयमयीमाकाशादीनि पञ्चभूतानि, श्रोत्रादीनि दशेन्द्रियाणि आशयो मनः, एतदात्मना विकृतां मायां प्रकृतिमवलम्ब्य प्रवर्तकत्वेनाश्रित्य, पुण्यपापलक्षणैः कर्मभिर् आवृतात्मा सक्तः कर्मबद्धो जीव इव, अत्रास्मिन् शरीरे आस्ते । तुशब्देनात्यन्तवैलक्षण्यमनयोरस्तीति दर्शयति । ‘तुच्छेनाभ्वपिहितम्’ इति श्रुतिः । वैलक्षण्यं स्पष्टमाह– विशुद्धमिति ॥ अविकारमस्ति जायत इत्यादिविकाररहितम् । हेतुगर्भविशेषणमाह– अखण्डेति ॥ अनवच्छिन्नज्ञानम् । मम तापत्रयेण तप्यमानहृदये निरस्ततापतया अवसितं निश्चितं हरिं शरणमेमीत्यन्वयः । ‘सत्यं ज्ञानमनन्तं ब्रह्म’ ‘आत्मनि तिष्ठन्’ इत्यादिश्रुतिः ॥ १४ ॥

प्रकाशिका

दूरस्थं तं कथं शरणं व्रजिष्यसीत्यपेक्षायामाह ॥ यस्त्वत्र इति । तुशब्दो जीवाद्वैलक्षण्यसूचनार्थः । यो भूतेन्द्रियाशयमयीं भूतेन्द्रियान्तःकरणरूपेण परिणतां तां मायां प्रकृतिमवलम्ब्य प्रवर्तकत्वेनाश्रित्यात्र तदात्मके देहे कर्मभिः पुण्यपापलक्षणैरावृतात्माऽनाविर्भूतस्वरूपो बद्ध इव संसारीवास्ते । तथाऽपि विशुद्धं, अखण्डबोधम् अपरिच्छिन्नज्ञानम् । अत एवाविकारं सर्वथा विकाररहितम् । एतैर्विशेषणैस्तुशब्दसूचितं वैलक्षण्यं विवृतमिति ज्ञातव्यम् । आ सम्यक् तप्यमाने मदीये हृदयेऽवसितं प्रतीतमेमि । शरणमिति शेषः ॥ १४ ॥

यः पञ्चभूतरचितेऽवहितः शरीरे

छन्नो यथेन्द्रियगुणार्थविदात्मकोऽहम् ।

तेनाविकुण्ठमहिमानमृषिं तमेनं

वन्दे परं प्रकृतिपूरुषयोः पुमांसम् ॥ १५ ॥

पदरत्नावली

एतदेव विवृणोति– यः पञ्चेति ॥ आत्मक आत्माभासः, इन्द्रियाणि चक्षु-रादीन्द्रियाणि गुणान् सत्त्वादीनर्थान् शब्दादीनुपभोगतया वेत्ति मन्यत इति इन्द्रियगुणार्थवित्, अहं यथा पञ्चभूतरचिते शरीरे छन्नो वसामि तथायम् इन्द्रियगुणार्थत्तत्वज्ञो विष्णुः शरीरे छन्नो रहितोऽसङ्गत्वेन स्थितः । तेन हरिणा प्रेरितोऽहं तमविकुण्ठमाहिमानमृषिं सर्वज्ञं प्रकृतिपुरुषयोः श्रीब्रह्मणोः परं परममेनं पुमांसं वन्द इत्यन्वयः । स्वप्रत्यक्षविषयत्वादेनमित्युक्तम् । ‘त्वमग्ने प्रथमो अङ्गिरा ऋषिः’ ‘अक्षणमम्बरान्तधृतेः’ इत्याद्यत्र मानम् ॥ १५ ॥

प्रकाशिका

एतदेव विवृण्वन्प्रकृतिपुरुषौ विहायायमेव कुतः स्तूयत इत्याशङ्कामपाकरोति ॥ यः पञ्चेति । छन्नः सन् अवहितः प्रेरकतया स्थित इन्द्रियाणि गुणान् शब्दादीन्, अर्थं पुरुषार्थं वेत्ती-तीन्द्रियगुणार्थविदात्मकः परमात्मबिम्बोऽहं यथाऽवहितस्तथा । तेन एवं समीपस्थत्वेन कारणेन तमेनं हरिम् अविकुण्ठमहिमानमृषिं सर्वज्ञम् । अत एव प्रकृतिपूरुषयोः परमुत्तमं पुमांसं वन्दे स्तौमि ॥ १५ ॥

यन्माययोरुगुणकर्मनिबन्धनेऽस्मिन्

सांसारिके पथि चरंस्तदतिश्रमेण ।

नष्टस्मृतिः पुनरयं प्रवृणीत लोको

युक्त्या कया महदनुग्रहमन्तरेण ॥ १६ ॥

पदरत्नावली

तत्प्रेरणयैव तद्वन्दनमिति कटाक्षितं स्पष्टयति– यन्माययेति ॥ यस्य हरेर्माययेच्छया तदधीनया प्रकृत्या चोरुभिर्महद्भिः सत्त्वादिगुणैः कर्मभिश्च नितरां बन्धनं यस्मिन् स तथा तस्मिन् संसाराभिधाने पथि चरन् अयं लोकः पुनस् तदतिश्रमेण तापत्रयातपतापेन नष्टस्मृति-र्नष्टज्ञानो महतो हरेरनुग्रहं प्रेरणालक्षणमन्तरेण विना कया युक्त्या तं हरिं प्रवृणीत मम स्वामीति शरणं गच्छेदित्यन्वयः ॥ १६ ॥

प्रकाशिका

इदानीं गर्भाद्बहिर्निर्गतस्य सांसारिके मार्गे चरतो मम हरिस्मृतिर्नष्टा भविष्यति सा पुनर्मम महतामनुग्रहेणैव भविष्यति । अतो महतामनुग्रहोऽप्यस्त्वित्याशयेनाह ॥ यन्माययेति । यस्य हरेर्माययेच्छयोरुगुणाः सत्त्वादयः कर्माणि च निबन्धनानि निमित्तानि यस्य तस्मिन् । तदतिश्रमेण संसारमार्गप्राप्तातिक्लेशेन नष्टस्मृतिर्विनष्टहरिज्ञानोऽयं लोको मल्लक्षणो जनः पुनस्तां हरिस्मृतिं महदनुग्रह-मन्तरेण कया युक्त्या युक्तिर्योग उपायः केनोपायेन प्रवृणीत न कयाऽपि । अतो महदनुग्रहोऽप्य-स्त्वित्याशयः ॥ १६ ॥

ज्ञानं यदेतददधात् कतमः स देव-

स्त्रैकालिकं स्थिरचरेष्वनुवर्तितांशः ।

तं जीवकर्मपदवीमनुवर्तमाना-

स्तापत्रयोपशमनाय वयं भजेम ॥ १७ ॥

तात्पर्यम्

कतमः सुखतमः ॥ १७ ॥

पदरत्नावली

अतस्तदनुग्रहेणैव तज्ज्ञानमित्याह– ज्ञानमिति ॥ यः कतमः सुखतमः भूमा देवस्त्रैकालिकमतीतजन्मादिविषयमेतज्ज्ञानं मे अदधादिति यद् यस्मादतः प्रेष्ठत्वाद् वयं तं त्वां तापत्रयोपशमनाय भजेम इत्यन्वयः । न केवलं मय्येवावस्थितोऽन्यत्राप्येवमिति भावेनोक्तम्– स्थिरचरे-ष्विति ॥ अनुवर्तिता अन्तर्यामित्वेनानुगता अंशा अनन्तानि रूपाणि यस्य स तथा । अनुमित-जीवत्वलक्षणस्य ममानेन सहाभेदो नास्तीति भावेनोक्तम्– जीवेति ॥ जीवानां कर्मपदवीं संसारमार्गमनुवर्तमानाः ॥ १७ ॥

प्रकाशिका

सर्वपुरुषार्थसाधनमिदं ज्ञानं येन ममेदानीं दत्तं स एवेदानीं गर्भवासनिमित्तक-तापत्रयोपशमनं करिष्यतीत्याशयेनाह ॥ ज्ञानमिति । अत्र कतम इत्यस्य प्रकृतसङ्गतमर्थमाह ॥ कतम इति । तथा च कशब्दः सुखवाची । अतिशयार्थे तमबिति भावः ॥ ततश्चायमर्थः ॥ यः कतमः पूर्णसुखः । न केवलं मय्येव किन्तु स्थिरचरेष्वनुवर्तितांशस्तत्प्रेरणाय तदन्तःस्थापितरूपः स देवस्त्रैकालिकमतीतजन्मादिविषयमेतज्ज्ञानं मेऽदधादुत्पादितवांस्तं परमोपकारिणम् । ननु ज्ञानिनस्तव कुतस्तापत्रयप्रसक्तिरित्यत उक्तम् ॥ जीवकर्मेति । जीवबन्धकप्रारब्धकर्ममार्गेऽनुवर्तमाना इत्यर्थः । तथा च तापत्रयप्रसक्तिः प्रारब्धकर्मबलादेवेति भावः ॥ १७ ॥

देह्यन्यदेहविवरे जठराग्निनासृग्

विण्मूत्रकूपपतितो भृशतप्तदेहः ।

इच्छन्नितो विवसितुं गणयन् स्वमासान्

निर्वास्यते कृपणधीर्भगवन् (भवता)कदा नु ॥ १८ ॥

पदरत्नावली

इदानीमात्मनो गर्भादाशु निर्गमनाभिप्रायं विज्ञापयति– देहीति ॥ अन्यदेहविवरे मातृदेहोदरे वर्तमानोऽसृग्विण्मूत्रपूर्णकूपे पतितो, मातुर्जठराग्निना भृशतप्तदेहः, इतो देहाद् विवसितुं निर्गन्तुमिच्छन्, स्वमासान् कत्यवसिताः कत्यवशिष्टा इति स्वविषयान् मासान् गणयन्, कृपणधीर् देह्ययं भवता कदा नु निर्वास्यते निष्कास्यत इत्यन्वयः ॥ १८ ॥

प्रकाशिका

इदानीं गर्भवासस्य तापत्रयसाधनत्वं दर्शयन् गर्भाद्बहिर्निष्कासनं प्रार्थयते ॥ देहीति । मल्लक्षणो देही । अन्यदेहविवरे मातुरुदरे । वर्तमानोऽसृग्विण्मूत्रपूर्णकूपे पतितो मातुर्जठराग्निना भृशतप्तदेहोऽत एव कृपणधीरितो मातुर्देहाद्विवसितुं निर्गन्तुमिच्छन्स्वमासान्स्वविषयकदशमासान्कत्यतीताः कत्यवशिष्टा इति गणयन्कदा नु निर्वास्यते बहिर्निष्कास्यते शीघ्रं बहिर्निष्कासनं करोत्वित्याशयः ॥१८॥

येनेदृशीं मतिमसौ दशमास्य ईश

सङ्ग्राहितः पुरुदयेन भवादृशेन ।

स्वेनैव तुष्यतु कृतेन स दीननाथः

को नाम तत्प्रति विनाऽञ्जलिमस्य कुर्यात् ॥ १९ ॥

पदरत्नावली

यत ईदृशमप्रतिक्रियं ज्ञानं मह्यं येन दत्तमतोऽसौ सर्वस्मात् प्रेयानित्याशयेनाह– येनेति ॥ हे ईश असौ दशमास्योऽहं येन भवादृशेन पुरुषेणेदृशीं भगवद्विषयां मतिं संग्राहितः स दीननाथो भगवान् स्वेनैव कृतेन तुष्यतु । ‘न ऋते त्वत्क्रियते’ इत्यादिमन्त्रवर्णोऽत्र मानम् । को नाम तत्प्रति तस्य हरेः कृतस्य प्रतिनिधिं प्रत्युपकारमस्य हरेरञ्चलिं विना कुर्यात्, न कोऽपि कर्तुं समर्थ इत्यर्थः । करोति चेद् भवादृश एव नत्वितर इत्यतो भवादृशेनेत्युक्तम् ॥ १९ ॥

प्रकाशिका

इदानीं भगवत्कृतोपकारस्य न प्रतिक्रियेत्याशयेनाह ॥ येनेति । हे ईश । असौ दशमास्योऽहं येन भवादृशेन, भवतः सदृशो भवानेव नान्य इति सूचयितुमिदं, पुरुदयेनेदृशीं, भगव-द्विषयां मतिं सङ्ग्राहितः । स दीननाथो भगवान्स्वेनैव कृतेन स्वकृतेनैव स्वयं तुष्यतु ममास्वातन्त्र्येण कर्तृत्वाभावात् । स्वयमेव तुष्यत्वित्यस्याभिप्रायं स्वयमेवाह । अस्य हरेरञ्जलिं विना तत्प्रतिकृतस्य प्रत्युपकारं को नाम कुर्यात् । न कोऽपि कर्तुं समर्थ इति ॥ १९ ॥

पश्यत्ययं धिषणया ननु सप्तवध्रिः

शारीरभेदमशरीरवदस्य देहे ।

यत्सृष्टया (यद्दत्तया) स तमहं पुरुषं पुराणं

पश्ये बहिर्हृदि च चैत्त्यमिव प्रतीतम् ॥ २० ॥

तात्पर्यम्

अशरीरवत्परमात्मवत् । परमात्मन एव देहोऽपि, तद्वशत्वात् । तत्त्वज्ञानं तु देवानां गर्भस्थानां भविष्यति । उत्तमानामृषीणां वाऽप्यन्येषां बहुजन्मगमि’ति स्कान्दे ॥२०॥

पदरत्नावली

भगवदनुगृहीतज्ञानफलमाह– पश्यत्ययमिति ॥ सप्त वध्रयो ज्ञानेन्द्रियाणि यस्य स तथोक्तो ऽयं जीवोऽस्य हरेरधीने देहे, शारीराणां जीवानां भेदम्, उपलक्षणमेतत्, जडादीनामपि यद्दत्तया येन हरिणाऽनुगृहीतया धिषणया मत्या ज्ञानेन पश्यति । ‘श्रुतं मे अश्विनाहव सप्तवध्रिं च मुञ्चतम्’ इति श्रुतिः । अत्राधिकदृष्टान्तमाह– अशरीरवदिति ॥ अशरीरः परमात्मा, अशरीरं चेति श्रुतिः, यथा पञ्चविधं भेदं पश्यति तथेति । अनेन ज्ञानस्य नैर्मल्यं सूचितम् । नन्वित्यनेनोक्तार्थावधृतिं प्रमाणानुमतिं वा दर्शयति । सोऽहं तं पुराणं पुरुषं चैत्यं चित्ताभिमानिनं चतुर्मुखमिव हृदि बहिश्च प्रतीतं विज्ञातं पश्ये संपश्य इत्यन्वयः । एतादृशं ज्ञानं देवानामेव योग्यं, नत्वितरेषां, तेषां बहुजन्म-साध्यम् । तदुक्तम्– ‘तत्त्वज्ञानं तु देवानां गर्भस्थानां भविष्यति’ इति ॥ २० ॥

प्रकाशिका

इदानीं श्रीहरिणाऽनुगृहीतज्ञानफलं किं, येन तत्प्रतिक्रिया नास्तीत्युच्यत इत्यतस्तत्फलं स्फुटतरदेहात्मसाक्षात्कारः, सर्वगतश्रीहरिसाक्षात्कारश्चेत्याह ॥ पश्यत्ययमिति । अत्रा-शरीरवदित्यस्य योग्यमर्थं दर्शयति ॥ अशरीरवदिति । नन्वस्य देह इत्यत्रास्येत्यनेन न जीवपरामर्शः । तथात्वे स्वदेह इत्येव वक्तव्यत्वात् । अशरीरशब्दोक्तपरमात्मपरामर्शे च व्याघातः । अशरीरस्य देहाभावादतोऽत्रोपपत्तिमाह ॥ परमात्मन एवेति । अशरीरस्यैवेत्यर्थः । देहोऽप्युच्यत इति शेषः । अपिशब्द उक्तव्याघातस्याभासत्वप्रदर्शनार्थः । तदेवाह ॥ तद्वशत्वादिति । तथा चास्येति प्रकृताशरीरपरामर्शेऽपि न व्याघातः । अस्मदादिदेहस्य भगवदधीनत्वेन गौण्येव वृत्त्याऽस्य देह इत्युक्त-त्वादिति भावः ॥ ततश्चायं श्लोकार्थः ॥ सप्तवध्रिः स्वानुकूलव्यापारोन्मुखसप्तज्ञानेन्द्रियोऽयं जीवोऽस्या-शरीरस्य परमात्मनोऽधीने देहेऽशरीरवत्परमात्मन इव परमात्मप्रतियोगिकभेदमिव । एतदुपपादनायैवास्य देह इत्युक्तम् । शारीरभेदं जीवप्रतियोगिकभेदम् । यत्सृष्टया यद्दत्तया धिषणया पश्यति सोऽहं तं पुराणपुरुषं हृदि चैत्यमिव चित्ताभिमानिविरिञ्चमिव हृदि बहिश्च प्रतीतं विज्ञातं पश्ये इत्यन्वयः । देहे स्फुटतरात्मभेदसाक्षात्कारः सर्वगतहरिसाक्षात्कारश्च सर्वपुरुषार्थसाधक इति भावः । इदं सर्वगत-हरिदर्शनादिकं गर्भस्थान् देवानुत्तमानृषीन्वाऽभिप्रेत्योक्तं न सर्वानित्याशयेनात्र प्रमाणमाह ॥ तत्त्वज्ञानमिति । तुशब्दस्तस्योक्तापरोक्षत्वादिरूपविशेषद्योतकः ॥ उत्तमानामिति । अप्रतीकालम्ब-नानामित्यर्थः । अन्येषां गर्भस्थानां बहुजन्मगमतीतबहुजन्मविषयकमेव ज्ञानं भवति न तत्त्वविषयक-मित्यर्थः ॥ २० ॥

सोऽहं वसन्नपि विभो बहुदुःखवासं

गर्भान्न निर्जिगमिषे बहिरन्धकूपे ।

यत्रोपयातमुपसर्पति देवमाया-

मिथ्यामतिर्यदनु संसृतिचक्रमेतत् ॥ २१ ॥

पदरत्नावली

न केवलमेतज्ज्ञानं वर्तमानविषयं किंत्वेष्यविषयमपीति भावेनाह– सोऽहमिति ॥ भो विभो बहुदुःखवासं वसन्ननुभवन्नपि सोऽहं गर्भाद् बहिर्विषयं न निर्जिगमिषे निर्गन्तुं नेच्छामि । किं कारणम् ? अत्राह– यत्रेति ॥ यत्र बहिरन्धकूपे अज्ञानलक्षणगर्ते उपयातं पतितं मां देवस्य मायया प्रकृत्या निर्मिता मिथ्यामतिर् देहेऽहं ममेत्यादिलक्षणा उपसर्पति प्राप्नोति । ततश्च किम् ? अत्राह– यदन्विति ॥ यदनु यस्या मिथ्यामतेर् उत्पत्त्यनन्तरमेतत् संसृतिचक्रं जननमरणादिलक्षणं संसारमण्डलं भवत्यत इत्यर्थः ॥ २१ ॥

प्रकाशिका

इदानीं बहिर्निर्गमने ज्ञाननाशादिकं पश्यन् अत्रैव स्थास्यामीत्याशास्ते ॥ सोऽहमिति । हे विभो । बहुदुःखवासं वसन्ननुभवन्नपि सोऽहं गर्भाद्बहिर्न निर्जिगमिषे निर्गन्तुं नेच्छामि । कुत इत्यत आह ॥ यत्रेति । अन्धकूपप्राये यत्र बहिर्देशे उपयान्तं गतं मां, देवमायामिथ्यामतिर्देवस्य हरेर्मायया बन्धकशक्त्या कृता मिथ्यामतिरहंममेत्यादिस्वातन्त्र्यमतिः । ततः किमित्यत आह ॥ यदन्विति । यस्या मिथ्यामतेरनु एतज्जननमरणादिलक्षणं संसारचक्रं संसारपरिवर्तनं भवति । अतो न निर्जिगमिष इत्यन्वयः ॥ २१ ॥

तस्मादहं विगतविक्लव उद्धरिष्ये

आत्मानमाशु तमसः सुहृदात्मनैव ।

भूयो यथा व्यसनमेतदनेकरन्ध्रं

मा मे भविष्यदुपसादितविष्णुपादः ॥ २२ ॥

पदरत्नावली

तस्मात् किं निरणायीति तत्राह– तस्मादिति ॥ यस्माद् गर्भान्निर्गमने संसार-मण्डलं भवति तस्मादहं सुहृदात्मनैव अनिमित्तबन्धोर् हरेरनुग्रहादेव विगतविक्लवो भूत्वा तमसो नरका-दात्मानमाशूद्धरिष्य इत्यन्वयः । भूयः पश्चाद् यथैतदनेकरन्ध्रमनेकानर्थद्वारं व्यसनं मा मे भविष्यन् मा भूदिति कृत्वा । अत्र किं बलम् ? अत्राह– उपसादितेति ॥ अनेन हरिचरणशरणस्य पुरुषस्य स्वात्मोद्धारे न कोऽपि प्रयास इति सूचितम् ॥ २२ ॥

प्रकाशिका

अत्रैव स्थित्वा किं करिष्यसीत्यपेक्षायामाह ॥ तस्मादिति । बहिर्निर्गमनस्यानर्थ-साधनत्वात् । विगतविक्लवो विगतधैर्यः, उपसादितौ हृदयं प्रापितौ विष्णुपादौ येन स तथा विष्णु-पादध्यानपरोऽहमाशु शीघ्रमात्मानं मां तमसोऽऽज्ञानमूलात्संसारात्सुहृदात्मनैवानिमित्तबन्धु- भूत-परमात्मप्रसादेनैवोद्धरिष्ये मुक्तो भविष्यामि । भूयः पश्चाद्यथैतदनेकरन्ध्रमनेकानर्थद्वारं व्यसनं संसाराख्यं मे मा भविष्यन्न भविष्यति तथा ॥ २२ ॥

भगवानुवाच–

एवं कृतमतिं गर्भे दशमास्यं सपद्यृषिम् ।

सद्यः क्षिपत्यवाचीनं प्रसूत्यै सूतिमारुतः ॥ २३ ॥

पदरत्नावली

भगवतो हरेर्महिमाऽगणितप्रभाव इति ध्वनयन् गर्भस्थस्य प्रसूतिप्रकारं वक्ति– एवमिति ॥ ऋष्यादिकुल उत्पत्स्यमानस्य तत्क्षणे ज्ञानं भवतीति द्योतनाय सपद्यृषिमित्युक्तम् । ऋषि-स्त्रिकालदर्शी स्यादिति हलायुधः । सर्वोऽपि क्षणिक इत्याशयेनोक्तम्– सद्य इति ॥ अवाचीनमधः-शिरसम् ॥ २३ ॥

प्रकाशिका

एवं कृतमतिं विनिश्चितबुद्धिं सपद्यृषिं तत्काल एव ज्ञानिनमवाचीनमवाक्शिरसम् । अनेन हरेर्माहात्म्यं जीवास्वातन्त्र्यं च ध्वनितम् ॥ २३ ॥

तेनोपसृष्टः सहसा कृत्वाऽवाक्शिर आतुरः ।

विनिष्क्रामति कृच्छ्रेण निरुच्छ्वासो गतस्मृतिः ॥ २४ ॥

पदरत्नावली

तेन वायुना । येन देहाभिमानेन पूर्वमुपस्पृष्टः संसारमन्वभूत् तेन देहाभिमानेन सहेति वा । शिरोऽवाक् कृत्वेत्यवाचीनमित्यस्य विवरणम् । तेन पादप्राथम्येन जन्म प्रापिकम् इदमेव सर्वत्र प्रधानमिति ध्वनयति । गतस्मृतिर्नष्टजन्मान्तरज्ञानः ॥ २४ ॥

प्रकाशिका

वैराग्याय जायमानस्य जातस्य च दुःखं दर्शयति ॥ तेनेति । तेन सूतिमारुते-नोपसृष्ट उपक्षिप्तः ॥ २४ ॥

पतितो भुव्यसृङ्मूत्रे विष्ठाभूरिव चेष्टते ।

रोरूयति गतज्ञानो विपरीतां गतिं गतः ॥ २५ ॥

पदरत्नावली

विष्ठैव भूः स्थानं यस्य स तथा । विष्ठातो भवति उत्पद्यत इति वा विष्ठाभूः कृमिः । रोरूयति रोरूयते । रु शब्दे । विपरीतां गतिं मनुष्यवासनां गतः ॥ २५ ॥

प्रकाशिका

विष्टाभूरिव कृमिरिव रोरूयति रोरूयते । विपरीतां गतिमज्ञानलक्षणाम् ॥ २५ ॥

परच्छन्दं नविदुषा पुष्यमाणो जनेन सः ।

अनभिप्रेतमापन्नः प्रत्याख्यातुमनीश्वरः ॥ २६ ॥

पदरत्नावली

परच्छन्दमन्यस्याभिप्रेतम् । प्रत्याख्यातुं नापेक्षितमिति निराकर्तुमनीश्वरोऽसमर्थः

॥ २६ ॥

प्रकाशिका

परच्छन्दं परस्याभिप्रायम् । जनेन मात्रादिना । अनभिप्रेतं क्षुधितस्यौषधमुदर-व्यथादियुक्तस्य स्तन्यादिरूपमनपेक्षितमापन्नः प्राप्तः प्रत्याख्यातुमिदं मम नापेक्षितमिति वक्तुम् अनीश्वरोऽसमर्थः ॥ २६ ॥

शायितोऽशुचिपर्यङ्के जन्तुः स्वेदजदूषिते ।

नेशः कण्डूयनेऽङ्गानामासनोत्थानचेष्टने ॥ २७ ॥

पदरत्नावली

अशुचिपर्यङ्के शकृन्मूत्रमिश्रत्वादशुद्धे दोलायमाने दारुविरचिते तल्पविशेषे ॥२७॥

प्रकाशिका

अशुचिपर्यङ्के विण्मूत्रयुक्तत्वादशुद्धे तल्पे ॥ २७ ॥

तुदन्त्यामत्वचं दंशा मशका मत्कुणादयः ।

रुदन्तं विगतज्ञानं कृमयः कृमिकं यथा ॥ २८ ॥

पदरत्नावली

आमत्वचं मृदुनूतनत्वचं, दंशा सूचीमुखाः, मशकाः सूक्ष्ममक्षिकाः, कृमिकं मणिकीटम् ॥ २८ ॥

प्रकाशिका

आमत्वचं मृदुनूतनत्वचम् । दंशाः सूचिमुखाः । मशकाः सूक्ष्ममक्षिकाः । कृमिकं कृमिपूर्णक्षताङ्गं मणिकीटमित्यप्याहुः ॥ २८ ॥

स त्वेवं शैशवं भुक्त्वा दुःखं पौगण्डमेव च ।

अलब्धाभीप्सितोऽज्ञानादिद्धमन्युः शुचार्पितः ॥ २९ ॥

पदरत्नावली

पञ्चवर्षपर्यन्तं शैशवं, तत आसप्तमवर्षात् कौमारं, तत आद्वादशवर्षात् पौगण्डम् । अज्ञानादिति अनभीष्टकर्तुरभिमानिनाम् इति शेषः ॥ २९ ॥

प्रकाशिका

शैशवं पञ्चवर्षाणि । ततो यौवनादर्वाक् पौगण्डं तत्राध्ययनादिदुःखं च, यौवन-दुःखमाह ॥ अलब्धाभीप्सित इत्यादिना । अज्ञानाद्धरिस्वातन्त्र्याज्ञानात् । शुचार्पितो व्याप्तः ॥ २९ ॥

सह देहेन मानेन वर्धमानेन मन्युना ।

करोति विग्रहं कामी कामिष्वन्ताय चात्मनः ॥ ३० ॥

पदरत्नावली

सह देहेन मानेन देहाभिमानेन । विग्रहं वैरम् । आत्मनोऽन्ताय स्वस्य नाशाय । कामिषु विषयलालसेषु ॥ ३० ॥

प्रकाशिका

सहदेहेन मानेन देहेन सहैव वर्धमानेनभिमानेन मन्युना च विग्रहं विरोधं करोति । आत्मनः स्वस्यान्ताय नाशाय ॥ ३० ॥

भूतैः पञ्चभिरारब्धे देहे देह्यबुधोऽसकृत् ।

अहंममेत्यसद्ग्राहां करोति कुमतिर्मतिम् ॥ ३१ ॥

पदरत्नावली

सह देहेनेत्येतद् विवृणोति– भूतैरिति ॥ अहंममेत्यसन् ग्राहो दुराग्रहो यस्यां सा तथा ताम् ॥ ३१ ॥

प्रकाशिका

अज्ञानमेव तत्कार्यप्रदर्शनेन प्रपञ्चयति ॥ भूतैरिति । असन् ग्राहो दुरभिमानो यस्याः सा तथा ताम् ॥ ३१ ॥

तदर्थं कुरुते कर्म यद्बद्धो याति संसृतिम् ।

तमो विशति यद्बद्धो येनासौ मर्त्यजन्मनि ॥ ३२ ॥

येन यातीदृशं क्लेशमविद्याकर्मबन्धनम् ॥ ३३ ॥

पदरत्नावली

तदर्थमहंममेत्यसद्ग्राहदृढीकरणाय । येन कर्मणा बद्धः ॥ एतदेव स्पष्टयति– येनेति ॥ ईदृशं नरकादिलक्षणं क्लेशमविद्याकर्मबन्धनं च ॥ ३२,३३ ॥

प्रकाशिका

तदर्थम् अहंममेत्याद्यसद्ग्राहदृढीकरणाय । येन कर्मणा बद्धः । एतदेव स्पष्टयति ॥ येनेति । ईदृशं नरकादिलक्षणम् ॥ ३२,३३ ॥

यद्यसद्भिः पथि पुनः शिश्नोदरकृतोद्यमैः ।

आस्थितो रमते जन्तुस्तमो विशति पूर्ववत् ॥ ३४ ॥

पदरत्नावली

मनुष्ययोनेः पुरुषार्थहेतुत्वात् कथं निन्द्यत्वम् ? अत्राह– यदीति ॥ पथि पुरुषार्थहेतौ मनुष्ययोनौ स्थितो जन्तुः शिश्नोदरयोः पोषणे कृत उद्यमः प्रयत्नो यैस्ते तथा तैरसद्भिर् जीवपरमात्माद्यभेदविद्भिश्चासुरप्रकृतिभिः सह यदि रमते तर्हि पूर्ववत् तमो विशतीत्यन्वयः ॥ ३४ ॥

प्रकाशिका

ननु सन्मार्गे निरतः स्वात्मोद्धारं करिष्यतीति चेत् । सत्यम् । असज्जनसङ्गत्यभाव एवैतत् । अन्यथा पुनः संसारप्राप्तिरित्याह ॥ यद्यसद्भिरिति । पथि कथञ्चित्सन्मार्गे आस्थितो जन्तुर्यद्यसद्भिः सह पुना रमते तर्हि पूर्ववदेव तमोऽसद्ग्राहादिरूपं विशति ॥ ३४ ॥

सत्यं शौचं दया मौनं बुद्धिः श्रीर्ह्रीर्यशः क्षमा ।

शमो दमो भगश्चेति यत्सङ्गाद् याति संक्षयम् ॥ ३५ ॥

पदरत्नावली

मुक्तिसाधनसत्त्वादिगुणवत्वे कथमसत्सङ्गात् तमःप्रवेश इति तत्राह– सत्यमित्या-दिना ॥ बुद्धिः पुरुषार्थविषया, श्रीर्भगवद्भक्तिसंपल्लक्षणा, ह्रीरकार्यकरणे लज्जा, क्षमा सापराधेषु वैष्णवेषु सहनशीलता, शमो बाह्येन्द्रियनिग्रहः, दमोऽन्तःकरणनिग्रहः, भगो देशाधिपत्याद्यैश्वर्यलक्षणः

॥ ३५ ॥

प्रकाशिका

ननु सत्यादिगुणवत्त्वे कथमसत्सङ्गात्तमःप्रवेश इत्यत आह ॥ सत्यमिति ॥ ३५ ॥

तेष्वशान्तेषु मूढेषु खण्डितात्मावसायिषु ।

सङ्गं न कुर्याच्छोच्येषु योषित्क्रीडामृगेषु च ॥ ३६ ॥

तात्पर्यम्

खण्डितात्मावसायिषु जीवमात्रज्ञानिषु ॥ ३६ ॥

पदरत्नावली

अशान्तेषु हरिनिष्ठादिगुणरहितेषु । अविवेकिषु अखण्डितात्मा परमात्मा अपरिच्छिन्नत्वाद्, तद्विलक्षणः खण्डितात्मा जीवः, अणुर्ह्येष आत्मेति श्रुतेः, स एवास्मिन् शरीरेऽस्ति नान्य इत्यवसायो येषां ते तथा, तेषु जीवमात्रज्ञानिषु सङ्गं स्नेहादिलक्षणम् । योषितां क्रीडामृगवद् वर्तमानेषु ॥ ३६ ॥

प्रकाशिका

असत्सङ्गः सर्वथा मुमुक्षुणा त्याज्य इत्याशयेन तं निन्दति ॥ तेष्वित्यादिना । अत्र खण्डितात्मावसायिष्वित्यस्य परिच्छिन्नजीवनिश्चयवत्स्विति व्याख्याने निन्दाया अलाभात्तदनूद्य तात्पर्यं दर्शयति ॥ जीवमात्रेति । तथा च खण्डितः परिच्छिन्नो जीव एव देहेऽस्ति नापरिच्छिन्नः परमात्मेति निश्चयवत्स्वित्यर्थः । एवं च निन्दा लभ्यत इति भावः । इदं चासाधारण्येन व्यपदेशा भवन्तीति न्यायेन लभ्यत इति द्रष्टव्यम् । योषितां क्रीडामृगवद्वर्तमानेषु ॥ ३६ ॥

न तथास्य भवेन्मोहो बन्धश्चान्यप्रसङ्गतः ।

योषित्सङ्गाद् यथा पुंसां यथा तत्सङ्गिसङ्गतः ॥ ३७ ॥

पदरत्नावली

जीवेश्वराभेददर्शितसङ्गवद् दुष्टस्त्रीसङ्गोऽपि मोहकारणतया दुःखकर इति निरूपयति– न तथेत्यादिना ॥ अन्येषां प्राकृतानां प्रसङ्गतः । तासां सङ्गिनां पुंसां सङ्गतः ॥ ३७ ॥

प्रकाशिका

योषित्सङ्गिसङ्गवद्योषित्सङ्गोऽपि मोहक इत्याह ॥ न तथाऽस्येति ॥ ३७ ॥

प्रजापतिः स्वां दुहितरं दृष्ट्वा तद्रूपधर्षितः ।

रोहिद्भूतां सोऽन्वधावद् ऋष्यरूपी गतत्रपः ॥ ३८ ॥

पदरत्नावली

अत्र किंपुनर्न्यायमाह– प्रजापतिरिति ॥ रोहिद्भूतां मृगीभूताम् ऋश्यरूपी मृगरूपी । दुहितरमिति वचनं स्त्रीणामतिमोहकत्वद्योतनाय, दुष्टजनमोहनार्थं चेति ज्ञातव्यम् । अन्यथा ‘न कर्हिचिन्मे मनसो मृषा गतिः’ इति वचनविरोधः स्यात् ॥ ३८ ॥

प्रकाशिका

योषित्सङ्गस्य मोहकत्वे कैमुत्यन्यायमाह ॥ प्रजापतिरिति । रोहिद्भूतां भयान्मृगी-भूताम् । ऋष्यरूपी मृगरूपी गतत्रपो निर्लज्जः । असुरजनमोहनाय ब्रह्मणा प्रदर्शितव्यापारानुवाद-परमेतदिति ज्ञातव्यम् ॥ ३८ ॥

तत्सृष्टिसृष्टसृष्टेषु कोन्वखण्डितधीः पुमान् ।

ऋषिं नारायणमृते योषिन्मय्येह मायया ॥ ३९ ॥

तात्पर्यम्

‘मयः प्रधान उद्दिष्टो माया तद्वश उच्यत’ इति षाड्गुण्ये ॥ ३९ ॥

पदरत्नावली

तस्य ब्रह्मणः सृष्टौ सृष्टाः स्वायम्भुवादयस्तैः सृष्टाः प्रियव्रतादयस्तेषु । सृष्टौ सृष्टा मरीच्यादयस् तत्सृष्टाः कश्यपादयस् तत्सृष्टा उत्तमादयस्तेष्विति वा । योषिन्मय्या मायया मोहक-शक्त्याऽखण्डितधीः कः पुमान् ? न कोऽपीत्यर्थः किम् ? अत्राह– ऋषिमिति ॥ ३९ ॥

प्रकाशिका

तस्य ब्रह्मणः सृष्टौ सृष्टा मरीच्यादयस्तत्सृष्टाः कश्यपादयस्तेषु वर्तमानः पुमान्कोन्वखण्डितधीरनाकृष्टमना न कोऽपि । अत्र माययेत्यस्य मायाकल्पितयेत्यन्यथाप्रतीतिवारणाय मायाशब्दार्थं प्रमाणेनैव दर्शयति ॥ मय इति । तद्वशो बन्धकशक्तिरूपः पदार्थो मायेत्युच्यते । योगरूढिभ्यामित्यर्थः । तथा च योषिन्मय्या स्त्रीरूपया मायया हर्यधीनबन्धकशक्त्याऽखण्डितधीः क इति मूलार्थ इत्याशयः ॥ ३९ ॥

बलं मे पश्य मायायाः स्त्रीमय्या जयिनो दिशाम् ।

या करोति पदाक्रान्तान् (निजायत्तान्) भ्रूविजृम्भेण केवलम् ॥ ४० ॥

पदरत्नावली

अन्येषामपि तज्जयित्वं किं न स्यादेवम् ? अत्राह– बलमिति ॥ या केवलं भ्रूविजृम्भेण दिशां जयिनो राजादीन् निजायत्तान् स्वाधीनान् करोति तस्या मे स्त्रीमय्या मायाया मयस्य प्रधानस्य मम वशाया मोहकशक्त्या बलं पश्येत्यन्वयः । ‘मयः प्रधानमुद्दिष्टो माया तद्वश उच्यते’ इति वचनान् मे मायाया इति ॥ ४० ॥

प्रकाशिका

योषिन्मय्या मायाया अन्यैरजेयत्वं दर्शयति ॥ बलमिति । मे मदधीनाया दिशां जयिनः शूरानपि पदाक्रान्तान् स्वाधीनान् ॥ ४० ॥

सङ्गं न कुर्यात् प्रमदासु जातु योगस्य पारं परमारुरुक्षुः ।

मत्सेवया प्रतिलब्धात्मलाभो वदन्ति यां निरयद्वारमस्य ॥ ४१ ॥

पदरत्नावली

फलितमाह– सङ्गं न कुर्यादिति ॥ तत्त्वविस्मरणहेतुत्वात् प्रमाखण्डसाधनत्वाद् वा । प्रमदाः स्त्रियस्तासु जातु कदाचित् प्रहेलिकाविषयेऽपि सङ्गं रागादिलक्षणं न कुर्यादित्यन्वयः । क इत्यत्र उक्तम्– योगस्येति ॥ अयोग्यत्वे केवलयोगारोहेच्छया किं स्यादित्यत उक्तम्– मत्सेवयेति ॥ वेदान्तादिशास्त्रश्रवणादिलक्षणया मत्सेवया प्रतिलब्ध आत्मलाभो विषयत्यागेन स्वरूपानन्दो येन स तथा । निर्जितेन्द्रियग्रामत्वेन स्वरूपानन्दानुभवेन सन्तुष्ट इत्यर्थः । प्रतिलब्धात्मभाव इति पाठे सम्यक् संप्राप्तपरमात्मभक्तिरित्यर्थः । अनेन स्वज्ञानदानयोग्यपुरुषेषु युक्तो नियतभार्यासु च सङ्गमन्तरेणेतरसङ्गो वर्जनीय इति प्रकाशितम् । तदुक्तम्– ‘सत्पुंसु च तथा स्त्रीषु न सङ्गो दोषमावहेत् । यथायोग्यगुणायैव दोषकृद् दुष्टजन्तुषु ॥’ इति । तत्सङ्गात् कोऽनर्थ इत्यत उक्तम्– यामिति ॥ अस्य कामुकस्य । अनेन स्त्रियः सर्वथा वर्जनीया इत्युक्तम् । तदुक्तम्– ‘अङ्गारसदृशी नारी घृतकुम्भसमः पुमान् । तस्मान् नारीषु संसर्गं दूरतः परिवर्जयेत् ॥ गौडी माध्वी तथा पैष्टी विज्ञेया त्रिविधा सुरा । चतुर्थी प्रमदा ज्ञेया ययेदं मोहितं जगत् ॥ माद्यति प्रमदां दृष्ट्वा सुरां पीत्वैव माद्यति । यस्माद् दृष्टिमदा नारी तस्मात् तां नावलोकयेत् ॥’ इति ॥ ४१ ॥

प्रकाशिका

एतादृश्या जयोपायस्तत्सङ्गत्याग एवेत्याशयेनाह ॥ सङ्गमिति । सङ्गं स्नेहं संसर्गं वा । परं पारं चरमावधिम् । ननु सुखप्रदायास्तस्याः कथमकस्मात्त्याग इत्यत आह ॥ मत्सेवयेति । प्रतिलब्धः प्राप्त आत्मलाभः स्वरूपानन्दानुभवो येन स तथा । तत्त्यागेन तदपेक्षयाऽधिकं सुखं लभ्यत इत्याशयः । प्रतिलब्धात्मभाव इतिपाठे सम्प्राप्तपरमात्मभक्तिरित्यर्थः । तदा भगवद्भक्तिरेव परम-पुरुषार्थरूपेति भावः । तत्सङ्गेऽनर्थ इत्यत्र वृद्धसंमतिमाह ॥ वदन्तीति । अस्य तत्रासक्तस्य ॥ ४१ ॥

योपयाति शनैर्माया योषिद् देवविनिर्मिता ।

तामीक्षेतात्मनो मृत्युं तृणैः कूपमिवावृतम् ॥ ४२ ॥

पदरत्नावली

इतोऽपि सर्वप्रयत्नेन दुष्टा स्त्री वर्ज्येत्याह– योपयातीति ॥ या देवनिर्मिता योषिन्माया भार्यात्वेनोपयाति मुमुक्षुस् तामात्मनो मृत्युमीक्षेत । किञ्च तृणैरावृतं कूपमिव ॥ ४२ ॥

प्रकाशिका

इतोऽपि स्त्रीसङ्गस्त्याज्य इत्याह ॥ योपयातीति । शनैः शुश्रूषादिमिषेण । मृत्युं मृत्युतुल्यम् ॥ अनर्थप्रदामिति यावत् ॥ ४२ ॥

यां मन्यते पतिर्मोहान्मन्मायामृषभायतीम् ।

स्त्रीत्वं स्त्रीसङ्गतः प्राप्तां वित्तापत्यगृहप्रदाम् ॥ ४३ ॥

पदरत्नावली

पतिर् यां मोहात् स्त्रीसङ्गतः, स्त्यै ष्ट्यै शब्दसङ्घात इति धातुः शब्दादि-ष्वासक्तितः कारणात् स्त्रीत्वं प्रमदाभावं प्राप्तम् । ऋषभायतीं रतौ पुरुषीकरणं नामारोपः पुरुषधर्मस् तमाचरन्तीं मन्मायां वित्तापत्यगृहप्रदां मन्यते, तामिति पूर्वेण सम्बन्धः ॥ ४३ ॥

प्रकाशिका

एवमन्यस्त्रीसङ्गोऽनर्थप्रद इत्युक्त्वेदानीं स्वस्त्रीसङ्गोऽप्यनर्थप्रद इत्याह ॥ यामिति । ऋषभायतीं पुरुषवदाचरत्तीम् । सर्वनिर्वाहिकामिति यावत् । अनेनैतादृशी पूर्वं पुरुष इति सूचयति । तर्हि कथं स्त्रीत्वं प्राप्तमित्यपेक्षायामाह ॥ स्त्रीत्वमिति । स्त्रीसङ्गतः पूर्वदेहत्यागकाले स्त्रीध्यानेन । ‘‘यं यं वाऽपि स्मरन् भावमि’’ति वचनात् ॥ ४३ ॥

तमात्मनो विजानीयाद् भृत्यापत्यगृहा(दिकं)त्मकम् ।

दैवोपसादितं मृत्युं मृगयोर्गायनं यथा ॥ ४४ ॥

तात्पर्यम्

‘सत्पुंसु च तथा स्त्रीषु न सङ्गो दोषमावहेत् । यथायोग्यं गुणायैव दोषकृद्दुष्ट-जन्तुष्वि’ति वाराहे ॥ ४४ ॥

पदरत्नावली

हरिभक्त्यादियुता पत्न््नयपि हरिभक्तिरहितं पतिमात्मनो मृत्युमीक्षेत, नरकहेतुं पश्येत् । किं विशिष्टम् ? भृत्यापत्यगृहात्मकम् । कथमिव ? यथा मृगयोर् मृगान् वधार्थं यातीति, मृगव्यादयश्चेति कुर् मृगयुस्तस्य मृगयोर्व्याधस्य, ‘व्याधो मृगवधाजीवो मृगयुर्लुब्धकोऽपि सः’ इत्यमरः, गायनं मृगस्य मृत्युहेतुस् तथेत्यर्थः । ‘सत्पुंसु च तथा स्त्रीषु’ इत्याद्युक्तमत्रापि प्रमाणम् ॥ ४४ ॥

प्रकाशिका

तमिति विधेयलिङ्गापेक्षया पुल्लिङ्गनिर्देशः । एवं स्त्रीसङ्गस्यानर्थहेतुत्वकथन-प्रसङ्गाद्भृत्यादिसङ्गोऽपि तथेति दर्शयति । भृत्येति । भृत्यादिरूपमपि दैवोपसादितं मृत्युं जानीया-दित्यर्थः । यथा मृगयोर्लुब्धकस्य गायनमनुकूलत्वेन प्रतीयमानमपि मृगस्य मृत्युहेतुरिति जानाति तथेत्यर्थः । अत्र प्रकरणे स्त्रीसङ्गिसङ्गः स्त्रीसङ्गश्च सर्वात्मना न कर्तव्य इति भाति । न चेदं युज्यते । तथात्वे स्त्रीसङ्गिनां वसिष्ठादीनां सङ्गस्य, गार्हस्थ्यस्य च मुमुक्षुणाऽननुष्ठेयत्वप्रसङ्गात् । अतोऽत्र विवक्षितं तात्पर्यं प्रमाणेनैव दर्शयति ॥ सत्पुंस्विति । स्त्रीषु । सतीष्विति शेषः । तर्हि निषेधवचनस्य का गतिरित्यत उक्तम् ॥ दोषकृदिति । दुष्टजन्तुषु स्त्रीपुरुषेषु । तथा च दुष्टानां स्त्रीसङ्गिपुरुषाणां दुष्टस्त्रियश्च सङ्गं न कुर्यादित्येवैतन्मूलार्थ इत्याशयः ॥ ४४ ॥

देहेन जीवभूतेन लोकाल्लोकमनुव्रजन् ।

भुञ्जान एव कर्माणि करोत्यविरतं पुमान् ॥ ४५ ॥

तात्पर्यम्

जीवभूतेन जीवकर्मभूतेन ॥ ४५ ॥

पदरत्नावली

ज्ञानं विना न कर्मक्षयः किन्तु कर्म परम्परामेव करोतीत्याह– देहेनेति ॥ जीव-भूतेन जीवानां कर्मजातेन लोकाल्लोकं देहाद् देहम् । स्वायोग्यभार्यादिप्राप्तौ किं कारणमित्यतो वा कर्म कारणमित्याह– देहेनेति ॥ ४५ ॥

प्रकाशिका

एवं (दुष्टयोषित्सङ्गिसङ्गस्य) दुष्टयोषित्सङ्गस्यानर्थहेतुत्वमुक्त्वेदानीं तदर्थं कुरुते कर्म यद्बद्धो याति संसृतिमिति यत्कर्मपरंपरायाः संसृतिपरंपराहेतुत्वमुक्तं तद्विशदयति ॥ देहेनेति । अत्र जीवभूतेन जीवरूपेण देहेनेत्यन्यथाप्रतीतिवारणाय व्याख्याति ॥ जीवेति । तथा च जीवपदं जीवकर्मोपलक्षकम् । जीवकर्मभूतं जीवभूतमिति मध्यमपदलोपी समास इत्याशयः ॥ ततश्चायमर्थः । जीवभूतेन पूर्वार्जितजीवकर्मजातेन देहेन यातनानिमित्तेन तेजोमयेन वा युक्तो जीवो लोकाद् इमं लोकं परित्यज्य लोकं नरकलक्षणं स्वर्गलक्षणं वाऽनुव्रजंस्तत्र कर्माणि कर्मफलानि भुञ्जान एव शेषेणेमं लोक-मागत्य तत्रापि पूर्वकर्मफलानि भुञ्जान एव पुनः कर्माणि करोति । एवमविरतमनवसानं यथा स्यात्तथा करोतीत्यर्थः ॥ ४५ ॥

जीवो यस्यानुगो देहो भूतेन्द्रियमनोमयः ।

तन्निरोधोऽस्य मरणमाविर्भावस्तु सम्भवः ॥ ४६ ॥

पदरत्नावली

जीवलक्षणमाह– जीव इति ॥ भूतेन्द्रियमनोमयो देहो यस्यानुगः स जीव इति । मृतो जात इति व्यवहाराज् जीवोऽनित्य एवेति न शङ्कनीयं, तस्य देहवियोगसंयोगावेव मरणजनने, न तु स्वरूपनाशः, तथा सति मोक्षादियोग्यताकथनं व्यर्थं स्यादिति भावेनाह– तन्निरोध इति ॥ अस्य जीवस्य तन्निरोधस्तस्य देहस्य नाशो भूतेषु लयो मरणम्, आविर्भावो भूतसंयोगलक्षणो विशेषतया प्रकाशः सम्भवो जननं नाम । तुशब्दस्तेषां किञ्चिद्विशेषद्योतकः ॥ ४६ ॥

प्रकाशिका

ननु भूतबन्धस्तु संसारो मुक्तिस्तेभ्यो विमोचनमिति वचनाद् भूतेन्द्रियादिसम्बन्धो हि जीवस्य बन्धः । तदपगमश्च मृतावेव जातः । अतो मुक्तस्य कथं नरकाद्यनर्थप्राप्तिरित्यत आह ॥ जीव इति । देहो लिङ्गशरीररूपो यस्यानुगो येन सह गच्छति स जीव उक्तरीत्याऽविरतं कर्माणि करोतीत्यन्वयः । अनेन प्रसिद्धमृतौ न सर्वथा भूतेन्द्रियादीनां सम्बन्धापगमो येन तदैव तस्य मुक्तिः स्यात् । लिङ्गशरीररूपेण तेषां जीवेन सह गमनात् । किंतु स्थूलात्मना विकृतानामेव केषाञ्चि-द्भागानामित्युक्तं भवति । नन्वथाऽपि जीवो जात मृत इत्यादिव्यवहारात्तस्य देहेन सह नष्टत्वेन कथं परलोकगमनमित्यतोऽयं व्यवहारोऽमुख्य इत्याह ॥ तन्निरोध इति । तस्य स्थूलदेहस्य निरोधो नाश एवास्य जीवस्य मरणं मरणव्यवहारे कारणम् । आविर्भावो भूतसंयोगलक्षणो विशेषतया प्रकाशः सम्भव उत्पत्तिव्यवहारे कारणम् । जीवो नित्यो धातुरस्य त्वनित्य इत्येतत्प्रमाणान्तरबलादेवं कल्प्यत इत्याशयः ॥ ४६ ॥

द्रव्योपलब्धिस्थानस्य द्रव्येक्षाऽयोग्यता यदा ।

तत् पञ्चत्वमहंमानादुत्पत्तिर्द्रव्यदर्शनम् ॥ ४७ ॥

पदरत्नावली

उक्तमर्थं स्पष्टयति– द्रव्योपलब्धीति ॥ द्रव्याणां पञ्चभूतानामुपलब्धिस्थानस्य शरीरस्य पृथिव्यादिविषयज्ञानाश्रयत्वाद् द्रव्येक्षाया घटादिदर्शनस्य अयोग्यता घटादिद्रव्यदर्शनयोग्यत्वं यदा नास्ति, तदा तद्दर्शनं पञ्चत्वं मरणसंज्ञं भवति । अहंमानाद् अहमिदं शरीरमित्यभिमानाद् द्रव्यदर्शनमेवोत्पत्तिरित्यन्वयः ॥ ४७ ॥

प्रकाशिका

ननु तन्निरोधोऽस्य मरणमित्ययुक्तम् । भस्मीभावात्पूर्वं स्थूलदेहे शवरूपे विद्य-मानेऽपि जीवो मृत इति व्यवहारप्रदर्शनादित्यतस्तस्याभिप्रायं मूलकृत्स्वयमेवाह ॥ द्रव्योपलब्धीति । द्रव्योपलब्धिस्थानस्य द्रव्यस्य जीवस्य पदार्थदर्शनेऽवच्छेदकस्य देहस्य द्रव्येक्षायां पदार्थदर्शनजनने यदाऽयोग्यता भवति तत्तदेव तस्य पञ्चत्वं मरणं विवक्षितं न स्वरूपनाशः । एतादृशं च मरणं देहस्य शवत्वावस्थायामप्यस्त्येवातो नोक्तदोष इत्याशयः । ईक्षाभाव इत्येवोक्ते सुप्तादावपि मृत इति व्यवहार-प्रसङ्गः । अतस्तद्योग्यतापर्यन्तं धावनमिति ज्ञातव्यम् । घटादावप्युक्तायोग्यत्वस्य सत्वेन पञ्चत्त्वव्यवहार-प्रसङ्गवारणाय द्रव्योपलब्धिस्थानस्येत्युक्तम् । नन्वेवं तर्ह्युत्पत्तिरप्येतद्विपरीतैव देहस्य वक्तव्या । ओमित्याह ॥ अहंमानादिति । द्रव्योपलब्धिस्थानस्य यदहंमानादहमनेन शरीरेण कर्ता ममेदं शरीर-मित्यभिमानविषयत्वाद्द्रव्यदर्शनं पदार्थदर्शनयोग्यतावत्वं भवति तत्सैव तस्योत्पत्तिरित्यर्थः । अहंमाना-दित्युक्त्योक्तरूपाभिमानविषयत्वयोग्यताभावः पञ्चत्वं तद्योग्यतावत्वमेवोत्पत्तिरित्यपि सूचयति ॥ ४७ ॥

यथाऽक्ष्णोर्द्रव्यावयवदर्शनायोग्यता यदा ।

तदैव चक्षुषो द्रष्टुर्द्रष्टृत्वं योग्यताऽनयोः ॥ ४८ ॥

तात्पर्यम्

चक्षुःसकाशाद्द्रष्टुर्द्रष्टृत्वमक्ष्णोर्योग्यता ॥ ४८ ॥

पदरत्नावली

इदं दृष्टान्तयति– यथेति ॥ यथाऽक्ष्णोश् चक्षुषोः, द्रव्यावयवः शौक्ल्यादिरूपं, तस्य दर्शनेऽयोग्यता कामलादिदोषदुष्टतया सामर्थ्यं नास्ति, तदैव चक्षुषः सकाशाद् द्रष्टुरात्मनः, द्रष्टृत्वं नेति शेषः । यदाऽनयोश्चक्षुषोर्याेग्यता, अस्तीति शेषः, तदा चक्षुषः सकाशाद् द्रष्टृत्वं प्रतीयत इत्यन्वयः ॥ ४८ ॥

प्रकाशिका

ननु जन्ममरणरूपयोरुक्तयोग्यतायोग्यतयोर्देहनिष्ठयोः कथं जीवे तद्व्यवहार-जनकत्वमित्याशङ्कायां दृष्टान्तमुखेन तदुपपादयति ॥ यथेति । अत्र द्वितीयार्धे चक्षुषो द्रष्टुरित्ये-तत्सामानाधिकरण्यभ्रान्तिवारणाय व्याख्याति । चक्षुःसकाशाद्द्रष्टुरिति । अनयोरित्यस्यार्थं दर्शयन् चतुर्थपादेऽन्वयं दर्शयति ॥ द्रष्टृत्वमक्ष्णोर्योग्यतेति । अक्ष्णोर्गोलकयोः ॥ ततश्चायं श्लोकार्थः । यथा चक्षुषः, इन्द्रियस्य, द्रव्याणि च तदवयवाश्च चक्षुर्योग्याः सर्वे पदार्था इति यावत् । तेषां दर्शनायोग्यता तज्जननायोग्यता यदा मरणकाले भवति तदैव तस्मिन्नेव कालेऽक्ष्णोर्गोलकयोरपि सा भवतीति व्यवहारः। यथा च यदा चक्षुषः सकाशाद्द्रष्टुर्जीवस्य द्रष्टृत्वं चक्षुषो जीवकर्तृकपदार्थविषयकदर्शनजननयोग्यतेति यावत् । तदैवानयोरक्ष्णोर्गोलकयोरपि योग्यता तद्दर्शनजननयोग्यता भवतीति व्यवह्रीयते । तथैव देहधर्मयोरुक्तरूपयोर्जननमरणयोर्जीवे व्यवहार इति ॥ ४८ ॥

पुंसो यथैवेन्द्रियाणि विन्दन्ति स्वगतं परम् ।

सुखं दुःखं नान्यगतं तथेशांशाः पृथक्कलाः ॥ ४९ ॥

पदरत्नावली

नन्विह संसरन् जीवो ब्रह्मैव चेतनत्वाद्, ब्रह्मैव संसरति ब्रह्मैव मुच्यत इत्या-चार्योक्तेः ? तत्राह– पुंस इति ॥ पुंसः पुरुषस्य चक्षुरादीन्द्रियाणि यथा परं केवलं स्वगतं स्वविषयं रूपादिकं तन्निमित्तसुखादिकं विन्दन्ति, नान्यगतं चक्षुर्ग्राह्यं श्रोत्रं न जानाति श्रोत्रग्राह्यं चक्षुरित्यादि, अतो मिथ इन्द्रियाणां भेदः प्रसिद्धस् तथेशांशा जीवाः संसरन्तः पृथक्कला अन्योन्यं हरेश्च भिन्ना इत्यत आचार्योऽपि तत्त्वज्ञानी न स्यादित्यर्थः । यः सर्वज्ञ इति श्रुतेः ॥ ४९ ॥

प्रकाशिका

ननु तथाऽपि जीवस्य नोक्तरूपसंसारो वास्तवः सम्भवति किंतु मिथ्याभूत एवेति कल्पनीयम् । तस्य ‘‘ममैवांशो जीवलोक’’ इत्यादिना भगवदंशत्वावगमात् । न हि भगवदंशेषु मत्स्यादिषु वास्तवः संसारोऽस्तीत्यत आह ॥ पुंस इति । यथेंद्रियाणि षोडशकलः पुरुष इत्यादौ जीवांशत्वेनोक्तान्यपि पुंसो जीवस्य पृथक् कला भिन्नांशाः कल्प्यन्ते न जीवस्वरूपभूताः । तथेशांशा ईशांशत्वेनोक्ता अपि जीवा पृथक् कला भिन्नांशा एव कल्पनीयाः । अतस्तद्गतसंसारो वास्तव एवेत्यर्थः । अंशत्वेनोक्तिरप्रयोजिकेत्याशयः । नन्ववश्यमिन्द्रियाणां जीवपृथक्कलात्वमेव कल्पनीयम् । जीवानां चेतनत्वादिन्द्रियाणामचेतनत्वात् । प्रकृते च न जीवानां परमेश्वराद्भेदसाधकमस्तीत्यत आह ॥ विन्दन्ति स्वगतमिति । यतो जीवाः परं केवलं स्वगतं सुखं विन्दन्ति लभन्ते । अनुभवन्तीति यावत् । नान्यगतमीश्वरादिगतमतः पृथक् कला इत्यर्थः । जीवा नेश्वराभिन्नास्तद्गतसुखाद्यनुसन्धानशून्यत्वादिति युक्तिरत्रापि भेदसाधिकाऽस्तीत्याशयः । दुःखग्रहणेनानयैव युक्त्या जीवान्तरभेदोऽपि साधनीय इति सूचयति । तेनात्मैकत्ववादिनां मतं निरस्तमिति ज्ञातव्यम् ॥ ४९ ॥

आत्मनः केवलं ज्ञानमर्थो देहाद्यसङ्गिनः ।

सुखदुःखादयो भावा न देहस्य न चात्मनः ॥ ५० ॥

तात्पर्यम्

केवलं ज्ञानं पुरुषार्थः । देहादिष्वसङ्गिनो जीवस्य तन्निमित्तसुखदुःखादयो न सन्ति किमुत देहस्याचेतनत्वात् ॥ ५० ॥

इति तृतीयतात्पर्ये द्वात्रिंशोऽध्यायः ॥ ३२ ॥

पदरत्नावली

नन्वेवं तर्हि यावज्जीवमस्य संसारबन्ध एव, नास्मान्मुक्तिर् ईदृग्दुःखनिवर्तक-साधनाभावादित्यत्राह– आत्मन इति ॥ आत्मनो जीवस्य केवलमद्वन्द्वं हरेर्ज्ञानमेवार्थः पुरुषार्थः, ईदृग्दुःखनिवृत्तिसाधनलक्षण इत्यर्थः । एवंविधज्ञानोत्पत्तौ मुख्यसाधनं ध्वनयति– देहादीति ॥ अहंममेति देहाद्यसङ्ग एव साधनमित्यर्थः । ननु देहाद्यसङ्गिनो जीवस्योत्पद्यमानं कथंकारमुत्पद्यते ज्ञान-मित्यतस्तं प्रकारमाह– सुखदुःखादय इति ॥ ‘बलमानन्द ओजश्च’ इत्यादि श्रुतेः स्वतः सुखादि-रूपत्वादात्मनो जीवस्य सुखदुःखादयो भावा न सन्ति किमुत देहस्य ? अचेतनत्वादिति चशब्दार्थः

॥ ५० ॥

प्रकाशिका

नन्वेवं संसारस्य सत्यत्वे कथं तन्निवृत्तिरित्यत आह ॥ आत्मन इति । अत्र केवलशब्दस्यात्मपदेनान्वयभ्रमं वारयन् अर्थशब्दस्य प्रकृतोपयुक्तमर्थं दर्शयति ॥ केवलं ज्ञानमिति । पुरुषार्थः संसारनिवृत्तिरूपपुरुषार्थहेतुरित्यर्थः । तथा चात्मनः परमात्मनो जीवस्य वा केवलं तदुभय-स्वरूपेतराविषयकं ज्ञानमर्थः पुरुषार्थहेतुरित्यर्थः । सत्योऽपि संसारोऽस्वाभाविकत्वादुक्तज्ञानेन निवर्तत इत्याशयः । ननु कथमुक्तज्ञानेन सुखदुःखादिरूपसंसारनिवृत्तिरित्यतस्तदुपपादयितुं प्राप्तस्य देहाद्यसङ्गिन इत्यादि मूलस्याभिप्रायमाह ॥ देहादिष्वसङ्गिन इति । अन्ते विद्यमानस्यात्मन इत्यस्य व्याख्यानम् ॥ जीवस्येति । तन्निमित्तसुखदुःखादयः स देहादिसङ्गो निमित्तं येषां ते तन्निमित्तास्ते च ते सुखदुःखा-दयो न सन्ति न भवन्ति । चशब्दोऽपिशब्दार्थः । आत्मन इत्यनेन सम्बध्यते । तेन कैमुत्यलाभ इत्याशयेनोक्तम् । किमुतेति ॥ ततश्चायं मूलाशयः ॥ सुखदुःखादिलक्षणो हि संसारो देहविशिष्ट-जीवनिष्ठः । स च तस्य देहाद्यासक्तिनिमित्तः । तदासक्तिश्च जीवेश्वरस्वरूपाज्ञाननिमित्ता । उक्तरीत्या जीवेश्वरस्वरूपज्ञानेन तत्रासक्तिनिवृत्तौ तन्निमित्तसुखदुःखादिरूपसंसारस्य देहविशिष्टे तावन्नोत्पत्तिस् तद्विशेषणीभूतदेहे तु विशिष्टस्य यद्भवति तद्विशेषणस्यापि भवतीति न्यायेन प्रसक्तोऽपि दुःखादिरूपः संसारो न सम्भवति । अचेतनत्वात् । अत उक्तज्ञानेन देहविशिष्टजीवगतः सुखदुःखादिलक्षणः संसारो निवर्तत इति सिद्धम् ॥ ५० ॥

तस्मान्न कार्यः सन्त्रासो न कार्पण्यं न सम्भ्रमः ।

बुद्ध्वा जीवगतिं धीरो मुक्तसङ्गश्चरेदिह ॥ ५१ ॥

पदरत्नावली

तस्मादिति ॥ यस्माद् देहदेहिनोर्न सर्वथा सुखादयो भावाः किन्त्वाभिमानिका अज्ञानादुत्पद्यन्ते, तस्मात् त्रासादिकं न कार्यमित्यर्थः ॥ ५१ ॥

प्रकाशिका

उपसंहरति ॥ तस्मादिति । संसारस्य जीवस्वरूपाज्ञाननिमित्तत्वेनास्वाभाविकत्वा-ज्जीवगतिं जीवस्वरूपस्थितिमुक्तरीत्या बुद्ध्वा मुक्तसङ्गो देहाद्यासक्तिरहितः सन् धीरः श्रीहरिविषयकबुद्धौ रममाण इह स्ववासोचितलोकेषु चरेद्वर्तेत ॥ ५१ ॥

सम्यग्दर्शनया बुद्ध्या योगवैराग्ययुक्तया ।

मायाविरचिते लोके चरेद् यस्य कलेवरम् ॥ ५२ ॥

॥ इति श्रीमद्भागवते तृतीयस्कन्धे द्वात्रिंशोऽध्यायः ॥

पदरत्नावली

ननु जीवन्मुक्तोऽस्मिल्लोके कथं वर्तत इति तत्राह– बुद्ध्वेति ॥ अस्य देहाद्य-सङ्गिनो जीवस्य कलेवरं मायाविरचिते श्रीनारायणेच्छानिर्मिते लोके कर्मभूमौ चरेच्चरति वर्तते, स मुक्तसङ्गो धीरो गम्भीरो ज्ञानी, सम्यक् यथार्थं दर्शनं ज्ञानं यस्याः सा तथा, तया भक्तियोगवैराग्य-युक्तया बुद्ध्या जीवानां गतिं स्वर्गनरकादिलक्षणामाश्रयं श्रीनारायणं बुद्ध्वा तमेव निरन्तरं निषेवमाणश्चरेद् वर्तेत इत्यन्वयः ॥ ५२ ॥

॥ इति श्रीमाद्भागवतटीकायां विजयध्वजतीर्थभिक्षुकृतायां तृतीयस्कन्धे द्वात्रिंशोऽध्यायः ॥

प्रकाशिका

उक्तमेव विशदयन्नेवं वर्तमानं स्तौति ॥ सम्यगिति । अत्र बुद्ध्वा जीवगतिं धीर इत्येतावदनुवर्तनीयम् ॥ ततश्चायमर्थः ॥ सम्यग्दर्शनं यया सा तथा तया । योगो भक्त्यादिरूपः । एतादृश्या बुद्ध्या जीवगतिं बुद्ध्वा विषयीकृत्य मायाविरचिते हरीच्छानिर्मिते भूरादिलोके यस्य कलेवरं चरेद्वर्तते स एव धीर इति ॥ ५२ ॥

**॥ इति श्रीमद्वेदेशपूज्यपादशिष्येण यदुपतिना विरचितायां **

श्रीमद्भागवतटिप्पण्यां द्वात्त्रिंशोऽध्यायः ॥ ३-३२ ॥