तस्यैतस्य जनो नूनं नायं वेदोरुविक्रमम्
अथ एकत्रिंशोऽध्यायः
भगवानुवाच–
तस्यैतस्य जनो नूनं नायं वेदोरुविक्रमम् ।
काल्यमानोऽपि बलिना वायोरिव घनावलिः ॥ १ ॥
पदरत्नावली
भक्तिसाधनवैराग्यजननाय विविधाः कर्मसंसृतीराचक्ष्वेति देवहूत्याः प्रश्नः परिह्रियतेऽस्मिन् अध्याये । तदर्थं जीवस्य संसारस्य मूलकारणं ब्रूते– तस्यैतस्येति ॥ यो जग-त्सृष्ट्यादिकं करोति तस्यैतस्य कालनाम्नः बलिना कालेन काल्यमानो द्राव्यमाणः, कल द्रावणे । वायोरिव घनावलिरित्येतत् तदभिमानिदेवतापेक्षयोक्तम् । विद्राव्यमाणत्वमात्रेण वाऽयं दृष्टान्तः । अनेन जनस्य परमात्माज्ञानं संसारकारणमुक्तं भवति ॥ १ ॥
प्रकाशिका
इदानीमध्यायत्रयेण जीवसंसृतिं निरूपयंस्तत्र मूलकारणं तावद्दर्शयति ॥ तस्येति । अयं जनः संसारी जनस्तस्य सृष्ट्यादिकर्तुरेतस्य कालनाम्न ईश्वरस्य बलिना कालनामकेन काल्यमानो विद्राव्यमाणः । कल द्रावण इति धातोः । विद्राव्यमाणत्वे दृष्टान्तो वायोर्घनावलिर्मेघपङ्क्तिर्यथा काल्यते तथा काल्यमानोऽपीति । अनेन जनस्य हरिविक्रमाज्ञानमेव संसारकारणमुक्तमिति ज्ञातव्यम् ॥ १ ॥
यं यमर्थमुपादत्ते दुःखेन सुखहेतवे ।
तं तं धुनोति भगवान् पुमाञ्छोचति यत्कृते ॥ २ ॥
पदरत्नावली
उरुविक्रममेव दर्शयति– यं यमिति ॥ अर्थं सुखसाधनं धुनोति विनाशयति । यत्कृते यस्यार्थस्यार्थे नष्टोऽभूदिति शोचति ॥ २ ॥
प्रकाशिका
तस्योरुविक्रममेव दर्शयति ॥ यं यमिति । अर्थं सुखसाधनमुपादत्ते संपादयति । दुःखेन प्रयासेन । धुनोति विनाशयति । यत्कृते यन्निमित्तम् ॥ २ ॥
यदध्रुवस्य देहस्य सानुबन्धस्य दुर्मतिः ।
ध्रुवाणि मन्यते मोहाद् गृहक्षेत्रवसूनि च ॥ ३ ॥
पदरत्नावली
जनस्यायमप्यज्ञानातिरेक इत्याह– यदध्रुवस्येति ॥ अधु्रवस्यानित्यस्य देव-मानुषादिलक्षणस्य भोगसाधनानि गृहक्षेत्रधनानि मोहादज्ञानाद् ध्रुवाण्यनश्वराणि पुरुषो मन्यत इति यस्मादतो दुर्मतिर् दुष्टज्ञानवान् ॥ ३ ॥
प्रकाशिका
भ्रान्तिरपि संसारे कारणमिति दर्शयन् शोके निमित्तमाह ॥ यदध्रुवस्येति । यद्यस्मादध्रुवस्यानित्यस्य देहस्य सम्बन्धीनि गृहादीनि । अनुक्तसमुच्चयार्थश्चकारः । ध्रुवाणि मन्यते तानि च भगवान्धुनोति । तस्माच्छोचतीत्यन्वयः ॥ ३ ॥
जन्तुर्वै भव एतस्मिन् यां यां योनिमुपव्रजेत् ।
तस्यां तस्यां स लभते निर्वृतिं न विरज्यते ॥ ४ ॥
पदरत्नावली
गृहादीनामनित्यत्वं पश्यन् न ततो विरक्तिमानिति यस्मादतोऽज्ञानाति-रेकोऽयमपीत्याह– जन्तुर्वा इति ॥ ४ ॥
प्रकाशिका
दुर्मतित्वमेव दर्शयन्वैराग्याभावोऽपि संसारे कारणमित्याशयेनाह ॥ जन्तुर्वा इत्यादिना । योनिं शरीरं, निर्वृतिं विषयभोगजन्यं सुखम् । लभते पुरुषार्थतयाऽनुभवति ॥ ४ ॥
नरकस्थोऽपि देहं वै न पुमांस्त्यक्तुमिच्छति ।
नारक्यां निर्वृतौ सत्यां देवमायाविमोहितः ॥ ५ ॥
पदरत्नावली
अत्र कैमुत्यन्यायमाह– नरकस्थ इति ॥ नरकस्थोऽपि पुमान् नारक्यां निर्वृतौ सत्यां तं नारकं देहं त्यक्तुं नेच्छति, किमुत देवमानुषादिशरीरस्थ इति । तत्र हेतुः– देवमायेति ॥५॥
प्रकाशिका
न विरज्यत इत्युक्तमेव कैमुत्यन्यायेनोपपादयन्संसारे कारणान्तरमाह ॥ नरकस्थोऽपीति । नारक्यां नरकस्थाहारादिभिर्जातायाम् । देवमाया बन्धकशक्तिः ॥ ५ ॥
आत्मजायासुतागारपशुद्रविणबन्धुषु ।
निरूढमूलहृदय आत्मानं बहुमन्यते ॥ ६ ॥
पदरत्नावली
रागसागरमग्नत्वाच्च विरागानुदय इति भावेनाह– आत्मजायेति ॥ निरूढमूलं समुत्पन्नरागादिकं हृदयं यस्य स तथा ॥ ६ ॥
प्रकाशिका
अहंममेत्याभिमानोऽपि संसारकारणमित्याशयेनाह ॥ आत्मजायेति । आत्मनः स्वस्य जायादिषु निरूढमूलं नितरामभिवृद्धरागस्नेहादिकं हृदयं यस्य स तथा । बहुमन्यते ममैतेऽहमेषां पोषक इत्याद्यभिमानवान् भवतीत्यर्थः ॥ ६ ॥
सन्दह्यमानसर्वाङ्ग एषामुद्वहनादिना ।
करोत्यविरतं मूढो दुरितानि दुराशयः ॥ ७ ॥
पदरत्नावली
आत्मजायादिष्वहंममताज्ञानफलमाह– सन्दह्यमानेति ॥ एषाम् आत्मजायादीनाम् ॥
प्रकाशिका
एतादृशाभिमानफलमाह ॥ सन्दह्यमानेति । उद्वहनादिना तच्चिन्तया । दुरितानि पापसाधनानि । अनेन पापकर्मापि संसारे कारणमिति सूचयति ॥ ७ ॥
आक्षिप्तात्मेन्द्रियः स्त्रीणामसतीनां च मायया ।
रहोरचितसल्लापैः शिशूणां कलभाषणैः (कलभाषिणाम्) ॥ ८ ॥
पदरत्नावली
क्वचिद् द्रव्यालाभादिना मनोदुःखाग्निना सन्दीप्ताङ्गत्वादसारोऽयं संसार इति विरक्तो भविष्यति स्वयमेवेति तत्राह– आक्षिप्तात्मेति ॥ मायया मोहकशक्त्या ॥ ८ ॥
प्रकाशिका
निरूढमूलहृदयत्वे कारणं दर्शयन्दुराशयत्वमेव विशदयति ॥ आक्षिप्तेति । आक्षिप्त आत्मा मन इन्द्रियाणि च यस्य स तथा । असतीनां च पुंश्चलीनामपि मायया मोहकशक्त्या कलभाषणैर् मधुरभाषणैरालापैश्च (कलभाषिणां मधुरभाषिणाम् आलापैश्च) आक्षिप्तात्मेन्द्रियः सन् सुखवन्मन्यत इत्युत्तरेणान्वयः ॥ ८ ॥
गृहेषु कूटधर्मेषु दुःखतन्त्रेष्वतन्द्रितः ।
कुर्वन् दुःखप्रतीकारं सुखवन्मन्यते गृही ॥ ९ ॥
पदरत्नावली
कूटं वञ्चनमेव धर्मो यत्र तेषु वञ्चनधर्मयुक्तेषु वा दुःखानां तन्त्रेषु साधनेषु दुःखानां प्रतीकारं सुखवन्मननाद् विरक्तो न स्यादित्यर्थः ॥ ९ ॥
प्रकाशिका
कूटं, कपटं वञ्चनमेव धर्मो येषु । अत एव दुःखतन्त्रेषु दुःखसाधनेषु ॥ ९ ॥
अर्थैरापादितैर्गुर्व्या हिंसयेतस्ततश्च तान् ।
पुष्णाति येषां पोषेण शेषभुग् यात्यधः स्वयम् ॥ १० ॥
पदरत्नावली
ननु ‘वृद्धौ च मातापितरौ साध्वी भार्या सुतः शिशुः । अप्यकार्यशतं कृत्वा भर्त्तव्या मनुरब्रवीत् ॥’ इति यया कयापि विधया कुटुम्बभरणस्य विहितत्वाद् विरक्त्या तत्त्यागे महान् दोषः स्यादतो न विरागो भूषणमित्याशङ्क्य अशास्त्रविहितहिंसादिना प्राप्तमहापातकेनाधःपात एवेत्याह– अर्थैरिति ॥ विप्रादेः सेवादिकमकार्यशतं, महाविपदि विहितत्वात्, तत् कृत्वा न दोष इत्यर्थपरं स्मार्तवचनम् । पोष्यजनभुक्तशेषस्य भोक्ता ॥ १० ॥
प्रकाशिका
सन्दह्यमानेति श्लोके दुरितानि करोतीत्युक्तं विशदयति । अर्थैरिति । गुर्व्या हिंसया प्रबलतमपरापकारादिनेतस्तत आपादितैः संपादितैरर्थैस्तान् जायादीन्पुष्णाति । तान्कान् येषां पोषणे स्वयमेवाधो याति । शेषभुक् पोष्यजनभुक्तशेषान्नादेर्भोक्ता ॥ १० ॥
वार्तायां लुप्यमानायामारब्धायां पुनः पुनः ।
लोभाभिभूतो निःसत्वः परार्थे कुरुते स्पृहाम् ॥ ११ ॥
पदरत्नावली
अतिवृष्ट्यनावृष्टिव्याधिगोचरनाशादिना कुण्ठितजीवनस्य वृत्तिं कथयति– वार्तायामिति ॥ पुनःपुनरारब्धायामृणद्रव्याद्यानीतगोवृषादिनोपक्रान्तायां वार्तायां कृषिगोरक्षवाणिज्यादि-लक्षणायां लुप्यमानायां विनाशं गच्छन्त्यां, लुभ गार्ध्ये इति धातोर्लाेभेन परद्रव्यादित्सालक्षणेनाभिभूतोऽत एव निःसत्वः सत्त्वगुणशून्यो बलरहितो वा परार्थे चौर्यादिना परद्रव्यादाने स्पृहां कुरुत इत्यन्वयः
॥ ११ ॥
प्रकाशिका
वार्तायां कृष्यादिरूपायां जीविकायाम् । परार्थे परकीयद्रव्ये स्पृहामिच्छां, चौर्येण तदादातुमिच्छतीत्यर्थः ॥ ११ ॥
कुटुम्बभरणाकल्पो मन्दभाग्यो वृथोद्यमः ।
श्रिया विहीनः कृपणो ध्यायञ्छ्वसति मूढधीः ॥ १२ ॥
पदरत्नावली
परार्थप्राप्त्यशक्तत्वेन स्वकुटुम्बभरणाकल्पस्य चरमावस्थामाह– कुटुम्बभरणाकल्प इति ॥ श्रिया संपदा शरीरकान्त्या वा । श्वसिति दीर्घश्वासं करोति । मूढधीः कर्तव्यबुद्धिरहितः ॥१२॥
प्रकाशिका
श्रिया शरीरकान्त्या श्वसति दीर्घश्वासं करोति । मूढधीरहमेवैषां पोषक इत्यभि-मानवान् ॥ १२ ॥
एवं स्वभरणाकल्पं तत्कलत्रादयस्तदा ।
नाद्रियन्ते यथापूर्वं कीनाश इव गोजरम् ॥ १३ ॥
तात्पर्यम्
कीनाशः कर्षको मतः ॥ १३ ॥
पदरत्नावली
कीदृशः कर्षकः गोजरमुल्लेखनासमर्थं वृषभम् ॥ १३ ॥
प्रकाशिका
अकल्पमसमर्थम् । पूर्वं यथाऽऽद्रियन्ते न तथा आदरं कुर्वन्ति । कीनाशशब्दार्थ-मप्रतीत्या प्रमाणेनैवाह ॥ कीनाश इति । तथा च कीनाशः भूकर्षकः कृषीवलः । यथा गोजरं वृद्धबलीवर्दं नाद्रियन्ते तथैवेत्यर्थः ॥ १३ ॥
तत्राप्यजातनिर्वेदो भ्रियमाणः स्वयम्भृतैः ।
जरयोपात्तवैरूप्यो मरणाभिमुखो गृहे ॥ १४ ॥
पदरत्नावली
स्वकलत्राद्यनादरं दृष्ट्वा विरक्तो मोक्षाय यतिष्यत इति चेत् तत्राह– तत्रापीति ॥ तस्यामवस्थायामपि ॥ १४ ॥
प्रकाशिका
तत्रापि तस्यामवस्थायामपि ॥ १४ ॥
आस्तेऽवमत्योपन्यस्तं गृहपाल इवाहरन् ।
आमयेनाप्रदीप्ताग्निरल्पाहारोऽल्पचेष्टितः ॥ १५ ॥
पदरत्नावली
अपत्याद्यैरवमत्या अवज्ञानेन दत्तान्नमाहरन् गृहपालः श्वेव गृह आस्त इत्यन्वयः । संसारिण आसन्नमारणावस्थायामपि विरागो नोत्पद्यत इत्याशयेनाह– आमयेनेत्यादिना ॥ १५ ॥
प्रकाशिका
अवमत्याऽवज्ञयाऽपत्याद्यैः कृपया उपन्यस्तं समीपे प्रक्षिप्तमन्नादिकं गृहपाल इव श्वान इवाहरन्स्वीकुर्वन्नास्ते । वैराग्याय तदीयमरणावस्थां दर्शयति ॥ आमयेत्यादिना ॥ १५ ॥
वायुनोत्क्रमतोत्तारकफसंरुद्धनासिकः ।
खासश्वासकृतायासः कण्ठो घुरुघुरायते ॥ १६ ॥
शयानः परिशोचद्भिः परिवीतः स्वबन्धुभिः ।
वाच्यमानोऽपि न ब्रूते कालपाशवशं गतः ॥ १७ ॥
तात्पर्यम्
उत्तारमुद्गतिं विन्द्यात् ॥ १६ ॥
पदरत्नावली
यस्य कासश्वासाभ्यां कृतायासः पूर्णक्लेशः कण्ठो घुरुघुरायतेऽनुकारशब्दं करोति । स आतुरः किमिति न ब्रूते इत्यन्वयः । उत्क्रमता निर्गच्छता उत्तारम् उद्गतं कफं श्लेष्म तेन संरुद्धा नासिका यस्य स तथा । अनेन आसन्नशयनानुक्त्यवस्थायामपि विरागो नाभूत्, अहो हरेर्माहात्म्य-मित्यदर्शि ॥ १६-१७ ॥
प्रकाशिका
उत्तारकफसंरुद्धनासिक इत्यत्रोत्तारशब्दार्थं प्रमाणेनाह ॥ उत्तारमिति । तथा चायं मूलार्थः ॥ उत्क्रमता निर्गच्छता वायुना श्वासेनोत्तारमुद्गतं कफं श्लेष्म तेन संरुद्धा नासिका यस्य स तथा । खासश्वासाभ्यां कृतायासः कृतदुःखः यस्य कण्ठो घुरुघुरायते घुरुघुरु इति शब्दं करोति सः शयानो न ब्रूत इत्युत्तरेणान्वयः । खासश्वासकृतायासकण्ठ इति पाठे खासश्वासकृतायासः कण्ठो यस्येति बहुव्रीहिः ॥ परिवीतः परिवेष्टितः ॥ १६,१७ ॥
एवं कुटुम्बभरणे व्यापृतात्माऽजितेन्द्रियः ।
म्रियते रुदतां स्वानामुरुवेदनयाऽस्तधीः ॥ १८ ॥
पदरत्नावली
तस्यान्त्यामवस्थामाह– एवमिति ॥ १८ ॥
प्रकाशिका
अजितेन्द्रिय उरुवेदनया मरणकालीनया । अस्तधीर्नष्टमतिः ॥ १८ ॥
यमदूतौ तदा प्राप्तौ भीमौ सरभसेक्षणौ ।
स दृष्ट्वा त्रस्तहृदयः शकृन्मूत्रं विमुञ्चति ॥ १९ ॥
पदरत्नावली
मरिष्यतः प्रथमलक्षणमाह– यमदूताविति ॥ यद्वा मरिष्यन्नास्ते तदा मूत्रं शकृत् पुरीषं च विमुञ्चति । रभसेन क्रोधवेगेन सह वर्तमाने ईक्षणे ययोस्तौ तथोक्तौ ॥ १९ ॥
प्रकाशिका
सरभसे क्रोधसहिते ईक्षणे ययोस्तौ । शकृत् पुरीषं मूत्रं च ॥ १९ ॥
यातनादेह आवृत्त्य पाशैर्बध्वा गले बलात् ।
नीयते दीर्घमध्वानं दण्ड्यं राजभटा यथा ॥ २० ॥
पदरत्नावली
नरकदुःखभोगक्लृप्तो देहो यातनादेहस् तस्मिन्नावृत्य प्रावेश्य ॥ २० ॥
प्रकाशिका
वैराग्यार्थं तस्य नरकगमनमार्गं नरकभोगादिकं च निरूपयति ॥ यातनादेह इत्यादिना । नरकभोगार्थं कल्पितो देहो यातनादेहस् तस्मिन् आवृत्य प्रावेश्य ॥ २० ॥
तयोर्निर्भिन्नहृदयस्तर्जनैर्जातवेपथुः ।
पथि श्वभिर्भक्ष्यमाण आर्तोऽघं स्वमनुस्मरन् ॥ २१ ॥
प्रकाशिका
तयोस्तर्जनैर्निर्भिन्नहृदय आर्तः सन् चलतीत्युत्तरेणान्वयः ॥ २१ ॥
क्षुत्तृट्परीतोऽर्कदवानलानिलैः
सन्तप्यमानः पथि तप्तवालुके ।
कृच्छ्रेण पृष्ठे कशया च ताडित-
श्चलत्यशक्तोऽपि निराश्रयोदके ॥ २२ ॥
पदरत्नावली
नरकं प्रति गच्छतो दशामाह– क्षुत्तृडिति ॥ वालुकाः सिकताः ॥ २२ ॥
प्रकाशिका
क्षुत्तृड्भ्यां परीतो व्याप्तस् तप्ता वालुकाः सिकता यस्मिन् । निर्गत आश्रयो विश्रामस्थानमुदकं च यस्मिन् ॥ २२ ॥
तत्र तत्र पतञ्छ्रान्तो मूर्च्छितः पुनरुत्थितः ।
तथा पापीयसा नीतस्तमसा यमसादनम् ॥ २३ ॥
पदरत्नावली
यमसादनं यमगृहं, नरकमित्यर्थः ॥ २३ ॥
प्रकाशिका
यमसादनं यमगृहं नीतो भवति ॥ २३ ॥
योजनानां सहस्राणि नवतिर्नव चाध्वनः ।
त्रिभिर्मुहूर्तैर्द्वाभ्यां वा नीतः प्राप्नोति यातनाम् ॥ २४ ॥
तात्पर्यम्
‘त्रिभिर्मुहूर्तैर्द्वाभ्यां वा दिनैर्दशभिरेव वा । पक्षान्मासेन वा याति यमलोकमितो गत(मृतः)’ इति नारदीये ॥ २४ ॥
पदरत्नावली
द्वाभ्यां वेति वा शब्देन दशदिनानि पक्षो मासश्च गृह्यते । तदुक्तम्– ‘त्रिभि-र्मुहूर्तैर्द्वाभ्यां वा दिनैर्दशभिरेव वा । पक्षान्मासेन वा याति यमलोकमितो मृतः’ इति । यातनां नरकम्
॥ २४ ॥
प्रकाशिका
नयने कालविशेषमाह ॥ योजनानामिति । अध्वनः सम्बन्धिनां योजनानां नवाधिकनवतिसहस्राणि । यद्यपि यमसदनमार्गसम्बन्धीनि योजनानि इतोऽप्यधिकानि तथाऽपि क्लेशयुक्तमार्गसङ्ख्याकथनमित्येतदवगन्तव्यम् । पापाधिक्ये द्वाभ्यां पापाधिक्याभावे त्रिभिरित्युपलक्षणम् । पक्षान्तरमपि तत्र तारतम्येनास्तीति प्रमाणेनैवाह ॥ त्रिभिरिति ॥ २४ ॥
आदीपनं स्वगात्राणां वेष्टयित्वोल्मुकादिभिः ।
आत्ममांसादनं क्वापि स्वकृतं परतोऽपि वा ॥ २५ ॥
पदरत्नावली
स्वानुष्ठितदुष्कृतानुसारेण नरकदुःखानुभवं वक्ति– आदीपनमित्यादिना ॥ स्वगात्राणां स्वावयवानाम् ॥ २५ ॥
प्रकाशिका
यातनाः संक्षेपेण दर्शयति ॥ आदीपनमित्यादिना । आदीपनं प्रज्वलनं स्वगात्राणां स्वावयवानाम् । प्राप्नोतीति शेषः । स्वकृतं स्वेन छिन्नं परतोऽन्येन वा कृतमित्यनुवर्तते । यदात्मनः स्वस्य मांसं तस्य भक्षणमित्यर्थः ॥ २५ ॥
जीवतश्चान्त्राभ्युद्धारः श्वगृध्रैर्यमसादने ।
सर्पवृश्चिकदंशाद्यैः स्मरद्भिश्चात्मवैशसम् ॥ २६ ॥
पदरत्नावली
आत्मवैशसमात्मनो हिंसाम् ॥ २६ ॥
प्रकाशिका
आत्मवैशसं स्वजातिहिंसाम् ॥ २६ ॥
कृन्तनं चावयवशो गजादिभ्यो भिदापनम् ।
पातनं गिरिशृङ्गेभ्यो रोधनं चाम्बुगर्तयोः (बन्धगर्तयोः) ॥ २७ ॥
पदरत्नावली
रोधनं शृृङ्खलाबन्धैर् विष्ठागर्ते ॥ २७ ॥
प्रकाशिका
भिदापनं विदारणप्रापणम् । रोधनं शृङ्खलाबन्धैर् विष्ठागर्ते ॥ २७ ॥
यास्तामिस्रान्धतामिस्ररौरवाद्याश्च यातनाः ।
भुङ्क्ते नरो वा नारी वा मिथः सङ्गेन निर्मिताः ॥ २८ ॥
पदरत्नावली
बाहुल्यात् संक्षिप्य यातनां ब्रवीति– यास्तामिस्त्रेति ॥ २८ ॥
अत्रैव नरकः स्वर्ग इति मातः प्रचक्षते ।
या यातना वै नारक्यस्ता इहाप्युपलक्षिताः ॥ २९ ॥
तात्पर्यम्
अत्रैवेत्येवशब्दः सामीप्यार्थे । ‘सामीप्ये च प्रधाने च एवशब्दोऽवधारण’ इति शब्दनिर्णये । अत्राप्यस्तीत्यर्थः ॥ २९ ॥ इति तृतीयतात्पर्ये एकत्रिंशोऽध्यायः ॥ ३१ ॥
पदरत्नावली
ता नातिदूरे वर्तन्ते किन्तु समीप एवेत्याह– अत्रैवेति ॥ तदुपपादयति– यातना इति ॥ इहास्मिन् लोके राजादिभिर्दण्ड्येषूपलक्षिता दृष्टा इत्यर्थः । वैशब्देन दण्ड्येषु स्वर्गिष्वपीति दर्शितम् । ‘सामीप्ये च प्रधाने च एवशब्दोऽवधारणे’ इति च ॥ २९ ॥
प्रकाशिका
न चैतदसंभावितम् । यतोऽत्राप्यस्तीत्याह ॥ अत्रैवेति । अत्रैवकार-स्यान्यव्यावृत्त्यर्थत्वे बाधकमालोच्य योग्यमर्थं दर्शयति ॥ अत्रैवेत्येवशब्द इति । तत्र प्रमाणमाह ॥ सामीप्ये चेति । अत्रत्यस्य सामीप्ये चावस्थितत्वात् तल्लब्धार्थं दर्शयति ॥ अत्रापीति । नन्वेतदपि बाधितम् । प्रसिद्धनरकस्वर्गयोरत्रासत्त्वादित्यतस्तदुपपादयति मूले ॥ यातना इति । यातना आदीपनं स्वगात्राणामित्यादिरूपाः । इह राजभृत्यैर्दण्ड्येषूपलक्षिता दृष्टाः । उपलक्षणमेतत् । ये स्वर्गलोकस्थ-भोगास्तेऽपि राजादिषु दृष्टा इत्यपि ग्राह्यम् । तथात्र पूर्वार्धस्थनरकस्वर्गशब्दौ दुःखसुखविशेषपरावेव न प्रसिद्धनरकस्वर्गलोकपरावतो न विरोध इति भावः ॥ २९ ॥
एवं कुटुम्बं बिभ्राण उदरम्भर एव च ।
विसृज्येहोभयं प्रेत्य भुङ्क्ते तत्फलमीदृशम् ॥ ३० ॥
पदरत्नावली
कीदृशः पापिन एवंविधनरकभोगयोग्या इति तत्राह– एवमिति ॥ उभयं कुटुम्बमुदरं च विसृज्य तयोः कुटुम्बोदरपोषणयोः फलम् ॥ ३० ॥
प्रकाशिका
उपसंहरति ॥ एवमिति । उभयं कुटुम्बमुदरं च । तत्फलं कुटुम्बोदरपोषणयोः फलम् ॥ ३० ॥
एकः प्रपद्यतेऽध्वानं हित्वेह स्वकलेवरम् ।
कुशलेतरपाथेयो भूतद्रोहेण यद् भृतम् ॥ ३१ ॥
पदरत्नावली
यः पापकृत् स एक एव नारकं पन्थानमाप्नोति नान्य इत्याह– एक इति ॥ कुशलादितरत् पापं तदेव पाथेयं शम्बलं यस्य स तथा । यत् कलेवरं भूतद्रोहेण भृतं पोषितम् ॥३१॥
प्रकाशिका
उभयं विसृज्येत्युक्तमेव विवृणोति ॥ एक इति । यद्भूतद्रोहेण भृतं पोषितं तत्कलेवरं कुटुम्बं चेहैव हित्वेत्यन्वयः । मार्गे नरके च भोगायात्र संपादितं किञ्चिन्नायाति किमो-मित्याह ॥ कुशलेति । कुशलादितरत्पापं तदेव पाथेयं भोग्यं यस्य स तथा ॥ ३१ ॥
दैवेनासादितं तस्य शमलं निरये पुमान् ।
भुङ्क्ते कुटुम्बपोषस्य हृतवित्त (हृतचित्त) इवातुरः ॥ ३२ ॥
पदरत्नावली
ननु देहादिवत् पापमपि परित्यज्य गच्छति किम् ? नेत्याह– दैवेनेति ॥ कुटुम्बपोषणस्य तस्य यच्छमलं दैवेन पुण्यपापयोर्नियन्त्रा हरिणा आसादितं प्रापितं, पुमान् निरये तदेव भुङ्क्ते, परित्यक्तुं न शक्नोति, दैवाधीनत्वात् । यथा हृतचित्त आतुरो वा दैवोपनीतं दुःखं भुङ्क्ते तथेति
॥ ३२ ॥
प्रकाशिका
ननु पापमपि विहाय कस्मान्न गच्छतीत्यत आह ॥ दैवेनेति । तस्य पूर्वोक्तस्य कुटुम्बपोषकस्य सकाशाद्यच्छमलं पापं दैवेनेश्वरेणासादितं प्रापितं तद्भुङ्क्ते । दैवाधीनत्वात्पापं परित्यक्तुं न शक्नोतीति भावः । अत्र दृष्टान्तमाह ॥ हृतवित्त इति । अत्र वित्तं शरीरस्थानीयं तस्यापगमेऽपि यथाऽऽतुरो दैवोपसादितं व्याधिं भुङ्क्ते त्यक्तंु न समर्थस्तथैवेत्यर्थः ॥ ३२ ॥
केवलेन ह्यधर्मेण कुटुम्बभरणोत्सुकः ।
याति जीवोऽन्धतामिस्रं चरमं तमसःपदम् ॥ ३३ ॥
पदरत्नावली
यास्तामिस्त्रद्या यातनाः प्रस्तुतास्तासां मध्ये तामिस्रान्धतामिस्रप्राप्तियोग्यं तत्साधनं चाह– केवलेनेति ॥ योऽसुरप्रकृतिर्जीवः, केवलेनेकेनाधर्मेण हरिभक्तद्वेषलक्षणेन, तमसः पदमन्धकार-स्यैकस्थानं चरमं पश्चात्तनं पुनरावृत्तिरहितमन्धतामिस्रं यातीत्यन्वयः । हिशब्दो ऽनुत्थानवाची, दुःखानुभवे तारतम्यवाची वा, ‘तामिस्रश्चान्धतामिस्रो द्वौ नित्यौ संप्रकीर्तितौ’ इति वाक्यसूचितं तामिस्रं यातीत्येतदर्थसूचको वा ॥ ३३ ॥
प्रकाशिका
एवं कुटुम्बपोषणादिमात्रनिरतानां पापफलमुक्त्वेदानीं विष्णुवैष्णवद्वेषिणां पापफलं दर्शयति ॥ केवलेनेति । मुख्येनाधर्मेण हरिद्वेषादिरूपेणेत्यर्थः । तमसःपदं यस्य तद् अलुक्समासः । तमःपदवाच्यतामिस्रापेक्षया चरममन्धन्तामिस्रसंज्ञं नित्यनरकं यातीत्यर्थः । हिशब्दोऽत्र प्रमाण-प्रसिद्धिद्योतकः ॥ ३३ ॥
अधस्तान्नरलोकस्य यावतीर्यातनास्तु ताः ।
क्रमशः समनुक्रम्य पुनरत्राव्रजेच्छुचिः ॥ ३४ ॥
इति श्रीमद्भागवते तृतीयस्कन्धे एकत्रिंशोऽध्यायः ।
पदरत्नावली
अन्येषां पुनरावृत्तिरस्तीत्याह– अधस्तादिति ॥ अत्र मनुष्यलोके । पुनः पुनः स्वकर्मानुसृतां योनिमायाति । पापफलयोगात् शुचिः पुनः स्वर्गं याति । अशुचिश्चेन्नरकं याति । ‘पुनर्दरिद्रः पुनरेव पापी’ इति वचनात् ॥ ३४ ॥
इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुकृतायां तृतीयस्कन्धे एकत्रिंशोऽध्यायः ॥
प्रकाशिका
इतरेषां पापिनां पुनरावृत्तिरस्तीत्याह ॥ अधस्तादिति । नरलोकस्य भूलोकस्य । शुचिर्भोगेन क्षीणपापः सन् ॥ ३४ ॥
**॥ इति श्रीमद्वेदेशपूज्यपादशिष्येण यदुपतिना विरचितायां **
श्रीमद्भागवतटिप्पण्यामेकत्रिंशोऽध्यायः ॥ ३-३१ ॥